ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ६२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६१ ब्रह्मवैवर्तपुराणम्
अध्यायः ६२
वेदव्यासः
अध्यायः ६३ →

नारद उवाच ।।
कथं राजा महाज्ञानं संप्राप मुनिसत्तमात् ।।
वैश्यो मुक्तिं मेधसश्च तन्मे व्याख्यातुमर्हसि ।। १ ।।
श्रीनारायण उवाच ।।
ध्रुवस्य पौत्रो बलवान्नन्दिरुत्कलनन्दनः ।।
स्वायम्भुवमनोर्वंश्यः सत्यवादी जितेन्द्रियः ।। २ ।।
अक्षौहिणीनां शतकं गृहीत्वा सैन्यमेव च ।।
कोलां च वेष्टयामास सुरथस्य महामतेः ।।३।।
युद्धं बभूव नियतं पूर्णमब्दं च नारद ।।
चिरंजीवी वैष्णवश्च जिगाय सुरथं नृपः ।।४।।
एकाकी सुरथो भीतो नन्दिना च बहिष्कृतः ।।
निशायां हयमारुह्य जगाम गहनं वनम् ।। ५ ।।
ददर्श तत्र वैश्यं च पुष्पभद्रानदीतटे ।।
तयोर्बभूव संप्रीतिः कृतबान्धवयोर्मुने ।। ६ ।।
वैश्येन सार्द्धं नृपतिरगच्छन्मेधसाश्रमम् ।।
पुष्करं दुष्करं पुण्यक्षेत्रं वै भारते सताम् ।। ।। ७ ।।
ददर्श तत्र नृपतिर्मुनिं तं तीव्रतेजसम् ।।
शिष्येभ्यश्च प्रवोचन्तं ब्रह्मतत्त्वं सुदुर्लभम् ।।८।।
राजा ननाम वैश्यश्च शिरसा मुनिपुङ्गवम् ।।
मुनिस्तौ पूजयामास ददौ ताभ्यां शुभाशिषम् ।। ९ ।।
प्रश्नं चकार कुशलं जातिनाम पृथक्पृथक् ।।
ददौ प्रत्युत्तरं राजा क्रमेण मुनिपुङ्गवम् ।। 2.62.१० ।।
सुरथ उवाच ।।
राजाऽहं सुरथो ब्रह्मंश्चैत्रवंशसमुद्भवः ।।
बहिर्भूतः स्वराज्याच्च नन्दिना बलिनाऽधुना ।। ।। ११ ।।
किमुपायं करिष्यामि कथं राज्यं भवेन्मम ।।
तन्मां ब्रूहि महाभाग त्वामेव शरणागतम् ।। १२ ।।
अयं वैश्यः समाधिश्च स्वगृहाच्च बहिष्कृतः ।।
पुत्रैः कलत्रैर्दैवेन धनलोभेन धार्मिकः ।। १३ ।।
ब्राह्मणाय ददौ नित्यं रत्नकोटिं दिने दिने ।।
निषिद्ध्यमानः पुत्रैश्च कलत्रैर्बान्धवैरयम् ।। १४ ।।
कोपान्निराकृतस्तैश्च पुनरन्वेषितः शुचा ।।
अयं गृहं च न ययौ विरक्तो ज्ञानवाञ्छुचिः।। १५ ।।
पुत्राश्च पितृशोकेन गृहं त्यक्त्वा ययुर्वनम् ।।
दत्त्वा दानानि विप्रेभ्यो विरक्ताः सर्वकर्मसु ।। १६ ।।
सुदुर्लभं हरेर्दास्यं वैश्यस्यास्य च वाञ्छितम् ।।
कथं प्राप्नोति निष्कामस्तन्मे व्याख्यातुमर्हसि ।। १७ ।।
श्रीमेधा उवाच ।।
करोति मायया च्छन्नं विष्णुमाया दुरत्यया ।।
निर्गुणस्य च कृष्णस्य त्रिगुणा विश्वमाज्ञया ।। १८ ।।
कृपां करोति येषां सा धर्मिणां च कृपामयी ।।
तेभ्यो ददाति कृपया कृष्णभक्तिं सुदुर्लभाम् ।। १९ ।।
येषां मायाविनां माया न करोति कृपां नृप ।।
मायया तान्निबध्नाति मोहजालेन दुर्गतान् ।। 2.62.२० ।।
नश्वरेऽनित्यसंसारे भ्रामयेद्बर्बरा सदा ।।
कुर्वन्ती नित्यबुद्धिं च विहाय परमेश्वरम् ।। २१ ।।
देवमन्यं निषेवन्ते तन्मन्त्रं च जपंति च ।।
मिथ्या किञ्चिन्निमित्तं च कृत्वा मनसि लोभतः ।। २२ ।।
सप्तजन्मसु संसेव्य देवताश्च हरेः कलाः ।।
तदा प्रकृत्या कृपया सेवन्ते प्रकृतिं तदा ।। २३ ।।
सप्तजन्मसु संसेव्य विष्णुमायां कृपामयीम् ।।
शिवे भक्तिं लभन्ते ते ज्ञानानन्दे सनातने ।। २४ ।।
ज्ञानाधिष्ठातृदेवं च हरेस्संसेव्य शङ्करम् ।।
अचिराद्विष्णुभक्तिं च प्राप्नुवन्ति महेश्वरात् ।। २५ ।।
सेवन्ते सगुणं सत्त्वं विष्णुं विषयिणं तदा ।।
सत्त्वज्ञानाच्च पश्यन्ति ज्ञानं वै निर्मलं नराः ।। ।। २६ ।।
निषेव्य सगुणं विष्णुं सात्त्विका वैष्णवा नराः ।।
लभन्ते निर्गुणे भक्तिं श्रीकृष्णे प्रकृतेः परे ।। २७ ।।
गृह्णन्ति सन्तस्तद्भक्ता मन्त्रं तस्य निरामयम् ।।
निषेव्य निर्गुणं देवं ते भवन्ति च निर्गुणाः ।। २८ ।।
असंख्यब्रह्मणां पातं ते च पश्यन्ति वैष्णवाः ।।
दास्यं कुर्वन्ति सततं गोलोके च निरामये ।। २९ ।।
कृष्णभक्तात्कृष्णमन्त्रं यो गृह्णाति नरोत्तमः ।।
पुरुषाणां सहस्रं च स्वपितॄणां समुद्धरेत् ।। 2.62.३० ।।
मातामहानां साहस्रमुद्धरेन्मातरं तथा ।।
दासादिकं समुद्धृत्य गोलोकं स प्रयाति च ।। ३१ ।।
भवार्णवे महाघोरे कर्णधारस्वरूपिणी ।।
दीनान्पारयते नित्यं कृष्णभक्त्या च नौकया ।। ३२ ।।
स्वकर्मबन्धनं छेत्तुं वैष्णवानां च वैष्णवी ।।
तीक्ष्णशस्त्रस्वरूपा सा कृष्णस्य परमात्मनः ।। ३३ ।।
विवेचिका चावरणी शक्तेः शक्तिर्द्विधा नृप ।।
पूर्वं ददाति भक्ताय चेतराय परात्परा ।। ३४ ।।
सत्यस्वरूपः श्रीकृष्णस्तस्मात्सर्वं च नश्वरम् ।।
बुद्धिर्विवेचिकेत्येवं वैष्णवानां सनातनी ।। ३५ ।।
नित्यरूपा ममेयं श्रीरिति चावरणी च धीः ।।
अवैष्णवानामसतां कर्म्मभोगभुजामहो ।। ३६ ।।
अहं प्रचेतसः पुत्रः पौत्रश्च ब्रह्मणो नृप ।।
भजामि कृष्णमात्मानं ज्ञानं संप्राप्य शङ्करात् ।। ३७ ।।
गच्छ राजन्नदीतीरं भज दुर्गां सनातनीम् ।।
बुद्धिमावरणीं तुभ्यं देवो दास्यति कामिने ।। ३८ ।।
निष्कामाय च वैश्याय वैष्णवाय च वैष्णवी ।।
बुद्धिं विवेचिकां शुद्धां दास्यत्येव कृपामयी।। ३९।।
इत्युक्त्वा च मुनिश्रेष्ठो ददौ ताभ्यां कृपानिधिः ।।
पूजाविधानं दुर्गायाः स्तोत्रं च कवचं मनुम् ।। ।। 2.62.४० ।।
वैश्यो मुक्तिं च संप्राप तां निषेव्य कृपामयीम् ।।
राजा राज्यं मनुत्वं च परमैश्वर्य्यमीप्सितम् ।। ४१ ।।
इत्येवं कथितं सर्वं दुर्गोपाख्यानमुत्तमम् ।।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।। ४२ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृति
खण्डे नारदनारायणसंवादे दुर्गोपाख्याने सुरथमेधस्संवादे सुरथवैश्ययोरभिलषितसिद्धिर्नाम द्विषष्टितमोऽध्यायः ।। ६२ ।।