ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ५२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५१ ब्रह्मवैवर्तपुराणम्
अध्यायः ५२
वेदव्यासः
अध्यायः ५३ →


श्रीपार्वत्युवाच ।।
अन्येषां च कृतघ्नानां यद्यत्कर्मफलं प्रभो ।।
तेषां किमूचुर्मुनयो वेदवेदाङ्गपारगाः ।। १ ।।
श्रीमहेश्वर उवाच ।।
प्रश्नं कुर्वति राजेन्द्रे सर्वेषु मुनिषु प्रिये ।।
तत्र प्रवक्तुमारेभे ऋषिर्नारायणो महान् ।। २ ।।
श्रीनारायण उवाच ।।
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।।
स कृतघ्न इति ज्ञेयः फलं च शृणु भूमिप ।। ३ ।।
यावन्तो रेणवः सिक्ता विप्राणां नेत्रबिन्दुभिः ।।
तावद्वर्षसहस्रं च शूलपोते स तिष्ठति ।। ४ ।।
तप्ताङ्गारं च तद्भक्ष्यं पानं वै तप्तमूत्रकम् ।।
तप्ताङ्गारे च शयनं ताडितो यमकिङ्करैः ।। ५ ।।
तदन्ते च महापापी विष्ठायां जायते कृमिः ।।
षष्टिवर्षसहस्राणि देवमानेन भारते ।। ६ ।।
ततो भवेद्भूमिहीनः प्रजाहीनश्च मानवः ।।
दरिद्रः कृपणो रोगी शूद्रो निन्द्यस्ततः शुचिः ।।७।।
नारद उवाच ।।
हन्ति यः परकीर्त्तिं च स्वकीर्त्तिं वा नराधमः।।
स कृतघ्न इति ख्यातस्तत्फलं च निशामय ।। ८ ।।
अन्धकूपे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश।।
कीटैर्नकुलगृध्रैश्च भक्षितः सततं नृप ।। ९ ।।
तप्तक्षारोदकं पापी नित्यं पिबति वै ततः ।।
सप्तजन्मस्वतः सर्पः काकः पञ्चस्वतः शुचिः ।। 2.52.१० ।।
देवल उवाच ।।
ब्रह्मस्वं वा गुरुस्वं वा देवस्वं वाऽपि यो हरेत् ।।
स कृतघ्न इति ज्ञेयो महापापी च भारते ।।११।।
अवटोदे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।।
ततो भवेत्सुरापी स ततः शूद्रस्ततः शुचिः ।। १२ ।।
जैगीषव्य उवाच ।।
पितृमातृगुरूंश्चापि भक्तिहीनो न पालयेत् ।।
वाचाऽपि ताडयेत्तांश्च स कृतघ्र इति स्मृतः ।।
वाचा च ताडयेन्नित्यं स्वामिनं कुलटा च या ।। १३ ।।
सा कृतघ्नीति विख्याता भारते पापिनी वरा ।।
वह्निकुण्डं महाघोरं तौ प्रयातस्सुनिश्चितम् ।। १४ ।।
तत्र वह्नौ वसत्येव यावच्चन्द्रदिवाकरौ ।।
ततो भवेज्जलौकाश्च सप्तजन्मस्वतः शुचिः ।। १५ ।।
वाल्मीकिरुवाच ।।
यथा तरुषु वृक्षत्वं सर्वत्र न जहाति च ।।
तथा कृतघ्नता राजन्सर्वपापेषु वर्त्तते ।। १६ ।।
मिथ्यासाक्ष्यं यो ददाति कामात्क्रोधात्तथा भयात् ।।
सभायां पाक्षिकं वक्ति स कृतघ्न इति स्मृतः ।। १७ ।।
पुण्यमात्रं चापि राजन्यो हन्ति स कृतघ्नकः ।।
सर्वत्रापि च सर्वेषां पुण्यहानौ कृतघ्नता ।। १८ ।।
मिथ्यासाक्ष्यं पाक्षिकं वा भारते वक्ति यो नृप ।।
यावदिन्द्रसहस्रं च सर्पकुण्डे वसेद्ध्रुवम् ।। १९ ।।
सन्ततं वेष्टितः सर्पैर्भीतो वै भक्षितस्तथा ।।
भुङ्क्ते च सर्वविण्मूत्रं यमदूतेन ताडितः ।। 2.52.२० ।।
कृकलासो भवेत्तत्र भारते सप्तजन्मसु ।।
सप्तजन्मसु मण्डूकः पितृभिः सप्तभिः सह ।। २१ ।।
ततो भवेद्वै वृक्षश्च महारण्ये तु शाल्मलिः ।।
ततो भवेन्नरो मूकस्ततः शूद्रस्ततः शुचिः ।। २२ ।।
आस्तीक उवाच ।।
गुर्वङ्गनानां गमने मातृगामी भवेन्नरः ।।
नराणां मातृगमने प्रायश्चित्तं न विद्यते ।। २३ ।।
भारते च नृपश्रेष्ट यो दोषो मातृगामिनाम् ।।
ब्राह्मणीगमने चैव शूद्राणां तावदेव हि ।। २४ ।।
ब्राह्मण्यास्तावदेव स्याद्दोषः शूद्रेण मैथुने ।।
कन्यानां पुत्रपत्नीनां श्वश्रूणां गमने तथा ।। २५ ।।
सगर्भभ्रातृपत्नीना भगिनीनां तथैव च ।।
दोषं वक्ष्यामि राजेन्द्र यदाह कमलोद्भवः ।। २६ ।।
यः करोति महापापी चैताभिः सह मैथुनम् ।।
जीवन्मृतो भवेत्सोऽपि चण्डालोऽस्पृश्य एव च ।। २७ ।।
नाधिकारो भवेत्तस्य सूर्य्यमण्डलदर्शने ।।
शालग्रामं तज्जलं च तुलस्याश्च दलं जलम् ।। २८ ।।
सर्वतीर्थजलं चैव विप्रपादोदकं तथा ।।
स्प्रष्टुं च नैव शक्नोति विट्तुल्यः पातकी नरः ।। २९ ।।
दैवं गुरुं ब्राह्मणं च नमस्कर्तुं न चार्हति ।।
विष्ठाधिकं तदन्नं च जलं मूत्राधिकं तथा ।। 2.52.३० ।।
देवताः पितरो विप्रा नैव गृह्णन्ति भारते ।।
भवेत्तदङ्गवातेन तीर्थमङ्गारवाहनम् ।। ३१ ।।
सप्तरात्रं ह्युपवसेद्दैवस्पर्शात्तथा द्विजः ।।
भारक्रान्ता च पृथिवी तद्भारं वोढुमक्षमा ।। ३२ ।।
तत्पापात्पतितो देशः कन्याविक्रयिणो यथा ।।
तत्स्पर्शाच्च तदालापाच्छयनाश्रयभोजनात् ।। ३३ ।।
नृणां च तत्समं पापं भवत्येव न संशयः ।।
कुम्भीपाके वसेत्सोऽपि यावद्वै ब्रह्मणः शतम् ।। ३४ ।।
दिवानिशं भ्रमेत्तत्र चक्रावर्त्तं निरन्तरम् ।।
दग्धो वाऽग्निशिखाभिश्च यमदूतैश्च ताडितः ।। ३५ ।।
एवं नित्यं महापापी भुङ्क्ते निरययातनाम् ।।
विष्ठाहारश्च सर्वत्र कुम्भीपाकेऽथ पातितः ।। ३६ ।।
गते प्राकृतिके घोरे महति प्रलये तथा ।।
पुनः सृष्टेः समारम्भे तद्विधो वा भवेत्पुनः ।। ३७ ।।
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ।।
ततो भवति चण्डालो भार्य्याहीनो नपुंसकः ।।३८।।
सप्तजन्मसु शुद्धश्च गलत्कुष्ठी नपुंसकः ।।
ततो भवेद्ब्राह्मणश्चाप्यन्धः कुष्ठी नपुंसकः।।३९।।
लब्ध्वैवं सप्त जन्मानि महापापी भवेच्छुचिः ।। 2.52.४० ।।
मुनय ऊचुः।।
इत्येवं कथितं सर्वमस्माभिर्वो यथागमम् ।।
एभिस्तुल्यो भवेद्दोषोऽप्यतिथीनां पराभवे।।४१।।
प्रणामं कुरु विप्रेन्द्रं गृहं प्रापय निश्चितम् ।।
संपूज्य ब्राह्मणं यत्नाद्गृहीत्वा ब्राह्मणाशिषम् ।।४२।।
वनं गच्छ महाराज तपस्यां कुरु सत्वरम्।।
ब्रह्मशापैर्विनिर्मुक्तः पुनरेवागमिष्यसि।।४३।।
इत्युक्त्वा मुनयः सर्वे ययुस्तूर्णं स्वमन्दिरम्।।
सुराश्चापि च राजानो बन्धुवर्गाश्च पार्वति ।। ४४ ।।

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञोपाख्याने कर्मविपाको नाम द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।