ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ३५

विकिस्रोतः तः
← अध्यायः ३४ ब्रह्मवैवर्तपुराणम्
अध्यायः ३५
वेदव्यासः
अध्यायः ३६ →

नारद उवाच ।।
श्रीकृष्णस्यात्मनश्चैव निर्गुणस्य निराकृतेः ।।
सावित्रीयमसंवादे श्रुतं सुविमलं यशः ।।१।।
तद्गुणोत्कीर्त्तनं सत्यं मंगलानां च मङ्गलम् ।।
अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर।।२।।
केनादौ पूजिता साऽपि किम्भूता केन वा पुरा ।।
तद्गुणोत्कीर्त्तनं सत्यं वद वेदविदां वर।।। ।। ३ ।।
नारायण उवाच ।।
सृष्टेरादौ पुरा ब्रह्मन्कृष्णस्य परमात्मनः ।।
देवी वामांशसंभूता चासीत्सा रासमण्डले ।। ४ ।।
अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डला ।।
यथा द्वादशवर्षीया रम्या सुस्थिरयौवना ।। ५ ।।
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा ।।
शरत्पार्वणकोटीन्दुप्रभासंशोभितानना ।। ६ ।।
शरन्मध्याह्नपद्मानां शोभाशोभितलोचना ।।
सा च देवी द्विधाभूता सहसैवेश्वरेच्छया ।। ७ ।।
समा रूपेण वर्णेन तेजसा वयसा त्विषा ।।
यशसा वाससा मूर्त्या भूषूणेन गुणेन च ।। ८ ।।
स्मितेन वीक्षणेनैव वचसा गमनेन च ।।
मधुरेण स्वरेणैव नयेनानुनयेन च ।। ९ ।।
तद्वामांशा महालक्ष्मीर्दक्षिणांशा च राधिका ।।
राधाऽऽदौ वरयामास द्विभुजं च परात्परम् ।। 2.35.१० ।।
महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् ।।
कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह ।। ११ ।।
दक्षिणांशो वै द्विभुजो वामांशश्च चतुर्भुजः ।।
चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा ।। १२ ।।
लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययाऽनिशम्।।
देवीषु या च महती महालक्ष्मीश्च सा स्मृता ।।१३।।
द्विभुजो राधिकाकान्तो लक्ष्मीकान्तश्चतुर्भुजः।।
गोलोके द्विभुजस्तस्थौ गोपैर्गोपीभिरावृतः।।१४।।
चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह ।।
सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ।।१५।।
महालक्ष्मीश्च योगेन नानारूपा बभूव सा।।
वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा परा।।१६।।
शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता।।
प्रेम्णा सा वै प्रधाना च सर्वासु रमणीषु च।।१७।।
स्वर्गे च स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी।।
पातालेषु च मर्त्येषु राजलक्ष्मीश्च राजसु।।१८।।
गृहलक्ष्मीर्गृहेष्वेव गृहिणी च कलांशया।।
सम्पत्स्वरूपा गृहिणां सर्वमङ्गलमंगला।।१९।।
गवां प्रसूः सा सुरभिर्दक्षिणा यज्ञकामिनी।।
क्षीरोदसिन्धु कन्या सा श्रीरूपा पद्मिनीषु च।।2.35.२०।।
शोभारूपा च चन्द्रे सा सूर्य्यमण्डलमण्डिता।।
विभूषणेषु रत्नेषु फलेषु जलजेषु च ।।२१।।
नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च ।।
सर्वसस्येषु वस्त्रेषु स्थाने सा संस्कृते तथा ।। २२ ।।
प्रतिमासु च देवानां मङ्गलेषु घटेषु च ।।
माणिक्येषु च मुक्तासु माल्येषु च मनोहरा ।।२३।।
मणींद्रेषु च हारेषु क्षीरं वै चन्दनेषु च ।।
वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु ।। २४ ।।
वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च ।।
द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च ।। २५ ।।
विष्णुना पूजिता सा च क्षीरोदे भारते मुने ।।
स्वायम्भुवेन मनुना मानवेन्द्रैश्च सर्वतः ।। २६ ।।
ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवेत् ।।
गन्धर्वाद्यैश्च नागाद्यैः पातालेषु च पूजिता ।। २७ ।।
शुक्लाष्टम्यां भाद्रपदे पूजा वै ब्रह्मणा कृता ।।
भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद ।। २८ ।।
चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे ।।
विष्णुना निर्मिता पूजा त्रिषु लोकेषु भक्तितः ।। २९ ।।
वर्षान्ते पौषसंक्रांत्यां मेध्यामावाह्य चाङ्गणे ।।
मनुस्तां पूजयामास सा भूता भुवनत्रये ।। 2.35.३० ।।
राज्ञा संपूजिता सा वै मङ्गलेनैव मङ्गला।।
केदारेणैव नीलेन नलेन सुबलेन च ।। ३१ ।।
ध्रुवेणौत्तानपादेन शक्रेण बलिना तथा ।।
कश्यपेन च दक्षेण मनुना च विवस्वता ।। ३२ ।।
प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना ।।
यमेन वह्निना चैव वरुणेनैव पूजिता ।। ३३ ।।
एवं सर्वत्र सर्वैश्च वन्दिता पूजिता सदा ।।
सर्वैश्वर्य्याधिदेवी सा सर्वसम्पत्स्वरूपिणी ।। ३४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे लक्ष्म्युपाख्याने लक्ष्मीस्वरूपपूजादिवर्णनं नाम पञ्चत्रिंशोऽध्यायः ।। ३५ ।।