ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ ब्रह्मवैवर्तपुराणम्
अध्यायः २५
वेदव्यासः
अध्यायः २६ →

श्रीनारायण उवाच ।।
यमस्य वचनं श्रुत्वा सावित्री च पतिव्रता ।।
तुष्टाव परया भक्त्या तमुवाच मनस्विनी ।। १ ।।
सावित्र्युवाच ।।
किं कर्म वा शुभं धर्म्मराज किं वाऽशुभं नृणाम् ।।
कर्म निर्मूलयन्त्येव केन वा साधवो जनाः ।।२।।
कर्मणां बीजरूपः कः को वा कर्म्मफलप्रदः।।
किं कर्म्म तद्भवेत्केन को वा तद्धेतुरेव च।।३।।
को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च ।।
को वा देही कश्च देहः को वा वै कर्मकारकः।।४।।
किं विज्ञानं मनो बुद्धिः के वा प्राणाः शरीरिणाम् ।।
कानीन्द्रियाणि किं तेषां लक्षणं देवताश्च काः।।५।।
भोक्ता भोजयिता को वा को भोगः का च निष्कृतिः ।।
को जीवः परमात्मा कस्तन्मे व्याख्यातुमर्हसि ।।६।।
यम उवाच ।।
वेदेन विहितं कर्म तन्मये मङ्गलं परम्।।
अवैदिकं तु यत्कर्म तदेवाशुभमेव च।।७।।
अहैतुकी विष्णुसेवा सङ्कल्परहिता सताम्।।
कर्म्मनिर्म्मूलनात्मा वै सा चैव हरिभक्तिदा।।८।।
हरिभक्तो नरो यश्च स च मुक्तः श्रुतौ श्रुतम् ।।
जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः ।।९।।
मुक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता ।।
निर्वाणपददात्री च हरिभक्तिप्रदा नृणाम् ।। 2.25.१० ।।
हरिभक्तिस्वरूपां च मुक्तिं वाञ्छन्ति वैष्णवाः ।।
अन्ये निर्वाणरूपां च मुक्तिमिच्छन्ति साधवः ।। ।। ११ ।।
कर्म्मणो बीजरूपश्च सन्ततं तत्फलप्रदः ।।
रूर्मरूपश्च भगवाञ्छ्रीकृष्णः प्रकृतेः परः ।। १२ ।।
सोऽपि तद्धेतुरूपश्च कर्म्म तेन भवेत्सति ।।
जीवः कर्मफलं भुङ्क्ते आत्मा निर्लिप्त एव च ।। १३ ।।
आत्मनः प्रतिबिम्बं च देही जीवः स एव च ।।
पाञ्चभौतिकरूपश्च देहो नश्वर एव च।।१४।।
पृथिवी वायुराकाशो जलं तेजस्तथैव च।।
एतानि सूत्ररूपाणि सृष्टिः सृष्टिविधौ हरेः ।। ।। १५ ।।
कर्त्ता भोक्ता च देही च स्वात्मा भोजयिता सदा ।।
भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ।। १६ ।।
सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत् ।।
विषयाणां विभागानां भेदबीजं च कीर्त्तितम् ।।१७।।
बुद्धिर्विवेचनारूपा ज्ञानसंदीपिनी श्रुतौ ।।
वायुभेदाश्च वै प्राणा बलरूपाश्च देहिनाम् ।। १६ ।।
इन्द्रियाणां वै प्रवरमीश्वराणां समूहकम् ।।
प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम् ।। १९ ।।
अनिरूप्यमदृश्यं च ज्ञानभेदं मनः स्मृतम् ।।
लोचनं श्रवणं प्राणं त्वग्जिह्वादिकमिन्द्रियम् ।। 2.25.२० ।।
अङ्गिनामङ्ग रूपं च प्रेरकं सर्वकर्मणाम् ।।
रिपुरूपं मित्ररूपं सुखदं दुःखदं सदा ।। २१ ।।
सूर्य्यो वायुश्च पृथिवी वाण्याद्या देवताः स्मृताः ।।
प्राणदेहादिभृद्यो हि स जीवः परिकीर्त्तितः।।२२।।
परमात्मा परं ब्रह्म निर्गुणः प्रकृतेः परः ।।
कारणं कारणानां च श्रीकृष्णो भगवान्स्वयम्।।२३।।
इत्येवं कथितं सर्वं मया पृष्टं यथागमम् ।।
ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम् ।। २४ ।।
सावित्र्युवाच ।।
त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं बुधम् ।।
प्रश्नं यद्यत्करोमि त्वां तद्भवान्वक्तुमर्हति ।। २५ ।।
कां कां योनिं याति जीवः कर्मणा केन वा यम ।।
केन वा कर्मणा स्वर्गं केन वा नरकं पितः ।। २६ ।।
केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद्धरेः ।।
केन वा कर्मणा रोगी चारोगी केन कर्मणा।।२७।।
केन वा दीर्घजीवी च केनाल्पायुश्च कर्म्मणा ।।
केन वा कर्म्मणा दुःखी केन वा कर्म्मणा सुखी ।। २८ ।।
अङ्गहीनश्च काणश्च बधिरः केन कर्म्मणा ।।
अन्धो वा कृपणो वाऽपि प्रमत्तः केन कर्म्मणा ।। २९ ।।
क्षिप्तोऽतिलुब्धकश्चैव केन वा नरघातकः ।।
केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम् ।।2.25.३०।।
केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा ।।
स्वर्गभोगादिकं केन वैकुण्ठं केन कर्म्मणा।।३१।।
गोलोकं केन वा ब्रह्मन्सर्वोत्कृष्टं निरामयम्।।
नरकं वा कतिविधं किं संख्यं नाम किं तथा ।।३२।।
को वा कं नरकं याति कियन्तं तेषु तिष्ठति ।।
पापिनां कर्म्मणा केन को वा व्याधिः प्रजायते ।।३३।।
यद्यदस्ति मया पृष्टं तन्मे व्याख्यातुमर्हसि ।। ३४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे कर्म्मविपाके यमोक्त्यनन्तरं सावित्रीप्रश्नो नाम पञ्चविंशोऽध्यायः ।। २५ ।।