ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ ब्रह्मवैवर्तपुराणम्
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →

नारद उवाच ।।
समासेन श्रुतं सर्वं देवीनां चरितं विभो ।।
विबोधनार्थं बोधस्य व्यासतो वक्तुमर्हसि ।।१।।
सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह ।।
कथं वा पञ्चधा भूता वद वेदविदां वर ।। २ ।।
भूता या याश्च कलया तया त्रिगुणया भवे ।।
व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम् ।। ३ ।।
तासां जन्मानुकथनं ध्यानं पूजाविधिं परम् ।।
स्तोत्रं कवचमैश्वर्य्यं शौर्यं वर्णय मङ्गलम् ।। ४ ।।
श्रीनारायण उवाच ।।
नित्यात्मा च नभो नित्यं कालो नित्यो दिशो यथा ।।
विश्वेषां गोकुलं नित्यं नित्यो गोलोक एव च ।। ५ ।।
तदेकदेशो वैकुण्ठो लम्बभागः स नित्यकः ।।
तथैव प्रकृतिर्नित्या ब्रह्मलीना सनातनी ।। ६ ।।
यथाऽग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ ।।
शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि ।। ७ ।।
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ।।
विना मृदा कुलालो हि घटं कर्तुं न हीश्वरः ।। ।। ८ ।।
नहि क्षमस्तथा ब्रह्मा सृष्टिं स्रष्टुं तया विना ।।
सर्वशक्तिस्वरूपा सा तया स्याच्छक्तिमान्सदा ।। ९ ।।
ऐश्वर्य्यवचनः शक् च तिः पराक्रमवाचकः ।।
तत्स्वरूपा तयोर्दात्री या सा शक्तिः प्रकीर्तिता ।। 2.2.१० ।।
समृद्धिबुद्धिसम्पत्तियशसां वचनो भगः ।।
तेन शक्तिर्भगवती भगरूपा च सा सदा ।। ११ ।।
तया युक्तः सदाऽऽत्मा च भगवांस्तेन कथ्यते ।।
स च स्वेच्छामयः कृष्णः साकारश्च निराकृतिः ।। १२ ।।
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा ।।
वदन्ति ते परं ब्रह्म परमात्मानमीश्वरम् ।। १३ ।।
अदृश्यं सर्व द्रष्टारं सर्वज्ञं सर्वकारणम् ।।
सर्वदं सर्वरूपान्तमरूपं सर्वपोषकम्।। १४ ।।
वैष्णवास्ते न मन्यन्ते तद्भक्ताः सूक्ष्मदर्शिनः।।
वदन्ति कस्य तेजस्ते इति तेजस्विनं विना ।।१५।।
तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम्।।
स्वेच्छामयं सर्वरूपं सर्वकारणकारणम्।।१६।।
अतीवसुन्दरं रूपं बिभ्रतं सुमनोहरम् ।।
किशोरवयसं शान्तं सर्वकान्तं परात्परम् ।।१७।।
नवीननीरदाभासं रासैकश्यामसुन्दरम् ।।
शरन्मध्याह्नपद्मौघशोभामोचकलोचनम् ।। १८ ।।
मुक्तासारमहास्वच्छदन्तपङ्क्तिमनोहरम् ।।
मयूरपुच्छचूडं च मालतीमाल्यमण्डितम् ।।१९।।
सुनासं सस्मितं शश्वद्भक्तानुग्रहकारकम् ।।
ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् ।।2.2.२०।।
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ।।
सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् ।। २१ ।।
सर्वैश्वर्य्यप्रदं सर्वं स्वतन्त्रं सर्वमङ्गलम् ।।
परिपूर्णतमं सिद्धं सिद्धि दं सिद्धिकारणम् ।। २२ ।।
ध्यायन्ते वैष्णवाः शश्वदेवंरूपं सनातनम् ।।
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ।। २३ ।।
ब्रह्मणो वयसा यस्य निमेष उपचार्य्यते ।।
स चात्मा परमं ब्रह्म कृष्ण इत्यभिधीयते ।। २४ ।।
कृषिस्तद्भक्तिवचनो नश्च तद्दास्यकारकः ।।
भक्तिदास्यप्रदाता यः स कृष्णः परिकीर्तितः ।। २५ ।।
कृषिश्च सर्ववचनो नकारो बीजवाचकः ।।
सर्वबीजं परं ब्रह्म कृष्ण इत्यभिधीयते ।। २६ ।।
असंख्यब्रह्मणा पाते कालेऽतीतेऽपि नारद ।।
यद्गुणानां नास्ति नाशस्तत्समानो गुणेन च ।। २७ ।।
स कृष्णः सर्वसृष्ट्यादौ सिसृक्षुस्त्वेक एव च ।।
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ।। २८ ।।
स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह ।।
स्त्रीरूपा वामभागांशाद्दक्षिणांशः पुमान्स्मृतः ।। २९ ।।
तां ददर्श महाकामी कामाधारः सनातनः ।।
अतीव कमनीयां च चारुचम्पकसन्निभाम् ।। 2.2.३० ।।
पूर्णेन्दुबिम्बसदृशनितम्वयुगलां पराम् ।।
सुचारुकदलीस्तम्भसदृशश्रोणिसुन्दरीम् ।। ३१ ।।
श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् ।।
पुष्ट्या युक्तां सुललितां मध्यक्षीणां मनोहराम् ।। ३२ ।।
अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् ।।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।। ३३ ।।
शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सन्ततं मुदा ।।
कृष्णस्य सुन्दरमुखं चन्द्रकोटिविनिन्दकम् ।। ३४ ।।
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ।।
समं सिन्दूरबिन्दुं च भालमध्ये च बिभ्रतीम् ।। ३५ ।।
सुवक्रकबरीभारं मालतीमाल्यभूषितम् ।।
रत्नेन्द्रसारहारं च दधतीं कान्तकामुकीम् ।। ३६ ।।
कोटिचन्द्रप्रभाजुष्टपुष्टशोभासमन्विताम् ।।
गमने राजहंसीं तां दृष्ट्या खञ्जनगञ्जनीम् ।। ३७ ।।
अतिमात्रं तया सार्द्धं रासेशो रासमण्डले ।।
रासोल्लासेषु रहसि रासक्रीडां चकार ह।।३८।।
नानाप्रकारशृंगारं शृङ्गारो मूर्त्तिमानिव।।
चकार सुखसम्भोगं यावद्वै ब्रह्मणो वयः ।।३९।।
ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता ।।
चकार वीर्य्याधानं च नित्यानन्दः शुभक्षणे ।। 2.2.४० ।।
गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत ।।
निस्ससार श्रमजलं श्रान्तायास्तेजसा हरेः ।। ४१ ।।
महासुरतखिन्नाया निश्वासश्च बभूव ह ।।
तदाधारश्रमजलं तत्सर्वं विश्वगोलकम् ।। ४२ ।।
स च निःश्वासवायुश्च सर्वाधारो बभूव ह ।।
निश्श्वासवायुः सर्वेषां जीविनां च भवेषु च ।। ४३ ।।
बभूव मूर्त्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा ।।
तत्पत्नी सा च तत्पुत्राः प्राणाः पञ्च च जीविनाम् ।। ४४ ।।
प्राणोऽपानः समानश्चैवोदानो व्यान एव च ।।
बभूवुरेव तत्पुत्रा अधःप्राणाश्च पञ्च च ।। ४५ ।।
घर्मतोयाधिदेवश्च बभूव वरुणो महान् ।।
तद्वामाङ्गाच्च तत्पत्नी वरुणानी बभूव सा ।। ४६ ।।
अथ सा कृष्णशक्तिश्च कृष्णाद्गर्भं दधार ह ।।
शतमन्वन्तरं यावज्ज्वलन्तो(ती?) ब्रह्मतेजसा ।। ४७ ।।
कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया ।।
कृष्णस्य सङ्गिनी शश्वत्कृष्णवक्षस्थलस्थिता ।। ४८ ।।
शतमन्वन्तरातीते काले परमसुन्दरी ।।
सुषावाण्डं सुवर्णाभं विश्वाधारालयं परम् ।। ४९ ।।
दृष्ट्वा चाण्डं हि सा देवी हृदयेन विदूयता ।।
उत्ससर्ज च कोपेन तदण्डं गोलके जले ।। 2.2.५० ।।
दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार द।।।
शशाप देवीं देवेशस्तत्क्षणं च यथोचितम् ।। ५१ ।।
यतोऽपत्यं त्वया त्यक्तं कोपशीले सुनिष्ठुरे ।।
भव त्वमनपत्याऽपि चाद्यप्रभृति निश्चितम् ।। ५२ ।।
या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः ।।
अनपत्याश्च ताः सर्वास्त्वत्समा नित्ययौवनाः ।। ५३ ।।
एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः ।।
आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा ।। ५४ ।।
पीतवस्त्रपरीधाना वीणापुस्तकधारिणी ।।
रत्नभूषणभूषाढ्या सर्वशास्त्राधिदेवता ।। ५५ ।।
अथ कालान्तरे सा च द्विधारूपा बभूव ह ।।
वामार्द्धाङ्गा च कमला दक्षिणार्द्धा च राधिका ।। ५६ ।।
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव ह ।।
दक्षिणार्द्धस्स्याद्द्विभुजो वामार्द्धश्च चतुर्भुजः ।। ५७ ।।
उवाच वाणीं श्रीकृष्णस्त्वमस्य भव कामिनी।।
अत्रैव मानिनी राधा नैव भद्रं भविष्यति ।। ५८ ।।
एवं लक्ष्मीं संप्रदौ तुष्टो नारायणाय वै ।।
संजगाम च वैकुण्ठं ताभ्यां सार्द्धं जगत्पतिः ।। ५९ ।।
अनपत्ये च ते द्वे च यतो राधांशसम्भवे।।
नारायणाङ्गादभवन्पार्षदाश्च चतुर्भुजाः ।। 2.2.६० ।।
तेजसा वयसा रूपगुणाभ्यां च समा हरेः ।।
बभूवुः कमलाङ्गाच्च दासीकोट्यश्च तत्समाः ।। ६१ ।।
अथ गोलोकनाथस्य लोमाविवरतो मुने ।।
आसन्नसंख्यगोपाश्च वयसा तेजसा समाः ।। ६२ ।।
रूपेण सुगुणेनैव वेषाद्वा विक्रमेण च ।।
प्राणतुल्याः प्रियाः सर्वे बभूवुः पार्षदा विभोः ।। ६३ ।।
राधाङ्गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः ।।
राधातुल्याश्च सर्वास्ता नान्यतुल्याः प्रियंवदाः ।। ६४ ।।
रत्नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः ।।
अनपत्याश्च ताः सर्वाः पुंसः शापेन सन्ततम् ।। ६५ ।।
एतस्मिन्नन्तरे विप्र सहसा कृष्णदेहतः ।।
आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ।। ६६ ।।
देवी नारायणीशाना सर्वशक्तिस्वरूपिणी ।।
बुद्ध्यधिष्ठातृदेवी सा कृष्णस्य परमात्मनः ।।६७।।
देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी।।
परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका ।। ६८ ।।
तप्तकाञ्चनवर्णाभा सूर्य्यकोटिसमप्रभा ।।
ईषद्धासप्रसन्नास्या सहस्रभुजसंयुता ।। ६९ ।।
नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना ।।
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ।। 2.2.७० ।।
यस्याश्चांशांशकलया बभूवुः सर्वयोषितः ।।
सर्वविश्वस्थिता लोका मोहिता मायया यया ।। ७१ ।।
सर्वैश्वर्य्यप्रदात्री च कामिनां गृहमेधिनाम् ।।
कृष्णभक्ति प्रदात्री च वैष्णवानां च वैष्णवी ।। ७२ ।।
मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी।।
स्वर्गेषु स्वर्गलक्ष्मीः सा गृहलक्ष्मीर्गृहेष्वसौ।। ।।।७३।।
तपस्विषु तपस्या च श्रीरूपा सा नृपेषु च ।।
या चाग्नौ दाहिकारूपा प्रभारूपा च भास्करे ।। ७४ ।।
शोभास्वरूपा चन्द्रे च पद्मेषु च सुशोभना ।।
सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि ।। ७५ ।।
यया च शक्तिमानात्मा यया वै शक्तिमज्जगत् ।।
यया विना जगत्सर्वं जीवन्मृतमिव स्थितम् ।। ७६ ।।
या च संसारवृक्षस्य बीजरूपा सनातनी ।।
स्थितिरूपा बुद्धिरूपा फलरूपा च नारद ।। ७७ ।।
क्षुत्पिपासा दया श्रद्धा निद्रा तन्द्रा क्षमा धृतिः ।।
शान्तिर्लज्जातुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी ।। ७८ ।।
सा च संस्तूय सर्वेशं तत्पुरः समुपस्थिता ।।
रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ।। ७९ ।।
एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः ।।
पद्मनाभो नाभिपद्मान्निस्ससार पुमान्मुने ।। 2.2.८० ।।
कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः ।।
चतुर्मुखस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा ।। ८१ ।।
सुदती सुन्दरी श्रेष्ठा शतचन्द्रसमप्रभा ।।
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ।। ८२ ।।
रत्नसिंहासने रम्ये स्तुता वै सर्वकारणम् ।।
उवास स्वामिना सार्द्ध कृष्णस्य पुरतो मुदा ।। ८३ ।।
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।।
वामार्द्धांगो महादेवो दक्षिणो गोपिकापतिः ।। ८४ ।।
शुद्धस्फटिकसङ्काशः शतकोटिरविप्रभः ।।
त्रिशूलपट्टिशधरो व्याघ्रचर्मधरो हरः ।। ८५ ।।
तप्तकाञ्चनवर्णाभ जटाभारधरः परः ।।
भस्मभूषणगात्रश्च सस्मितश्चन्द्रशेखरः ।। ८६ ।।
दिगम्बरो नीलकण्ठः सर्प भूषणभूषितः ।।
बिभ्रद्दक्षिणहस्तेन रत्नमालां सुसंस्कृताम् ।। ८७ ।।
प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् ।।
सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वरम् ।। ८८ ।।
कारणं कारणानां च सर्वमङ्गलमङ्गलम् ।।
जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ।। ८९ ।।
संस्तूय मृत्योर्मृत्युं तं जातो मृत्युञ्जयाभिधः ।।
रत्नसिंहासने रम्ये समुवास हरेः पुरः ।। 2.2.९० ।।
इति श्रीब्र०महापु० द्वि० प्रकृ० नारायणनारदसंवादे देवदेव्युत्पत्तिर्नाम द्वितीयोऽध्यायः ।। २ ।।