ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११ ब्रह्मवैवर्तपुराणम्
अध्यायः १२
वेदव्यासः
अध्यायः १३ →

शौनक उवाच ।।
ऋषिवंशप्रसङ्गेन बभूवुर्विविधाः कथाः ।।
उपालम्भेन प्रस्तावात्कौतुकेन श्रुता मया ।।१।।
प्रजा वा ससृजुः के वा ऊर्ध्वरेताश्च कश्चन ।।
पित्रा सह विरोधेन नारदः किं चकार सः ।। २ ।।
पितुः शापेन पुत्रस्य किं बभूव विरोधतः ।।
पितुर्वा पुत्रशापेन सौते तत्कथ्यतां शुभम् ।। ३ ।।
सौतिरुवाच ।।
हंसो यतिश्चारणिश्च वोढुः पञ्चशिखस्तथा ।।
अपान्तरतमाश्चैव सनकाद्याश्च शौनक ।। ४ ।।
एतैर्विनाऽन्ये बहवो ब्रह्मपुत्राश्च सन्ततम् ।।
सांसारिकाः प्रजावन्तो गुर्वाज्ञापरिपालकाः ।। ५ ।।
अपूज्यः पुत्रशापेन स्वयं ब्रह्मा प्रजापतिः ।।
तेनैव ब्रह्मणो मन्त्रं नोपासन्ते विपश्चितः ।। ६ ।।
नारदो गुरुशापेन गन्धर्वश्च बभूव सः।।
कथयामि सुविस्तीर्णं तद्वृत्तान्तं निशामय ।। ७ ।।
गन्धर्वराजः सर्वेषां गन्धर्वाणां वरो महान् ।।
परमैश्वर्य्यसंयुक्तः पुत्रहीनो हि कर्मणा ।। ८ ।।
गुर्वाज्ञया पुष्करे स परमेण समाधिना ।।
तपश्चकार शम्भोश्च कृपणो दीनमानसः ।। ९ ।।
शिवस्य कवचं स्तोत्रं मन्त्रं च द्वादशाक्षरम् ।।
ददौ गन्धर्वराजाय वसिष्ठश्च कृपानिधिः ।। 1.12.१० ।।
जजाप परमं मन्त्रं दिव्यं वर्षशतं मुने ।।
पुष्करे स निराहारः पुत्रदुःखेन तापितः ।। ११ ।।
विरामे शतवर्षस्य ददर्श पुरतः शिवम् ।।
भासयंतं दश दिशो ज्वलन्तं ब्रह्मतेजसा ।। १२ ।।
महत्तेजस्स्वरूपं च भगवन्तं सनातनम् ।।
ईषद्धासं प्रसन्नास्यं भक्तानुग्रहकारकम् ।। १३ ।।
तपोरूपं तपोबीजं तपस्याफलदं फलम् ।।
शरणागतभक्ताय दातारं सर्वसम्पदाम् ।। १४ ।।
त्रिशूलपट्टिशधरं वृषभस्थं दिगम्बरम् ।।
शुद्ध स्फटिकसंकाशं त्रिनेत्रं चन्द्रशेखरम् ।। १५ ।।
तप्तस्वर्णप्रभाजुष्टजटाजालधरं वरम् ।।
नीलकण्डं च सर्वज्ञं नागयज्ञोपवीतकम् ।। १६ ।।
संहर्तारं च सर्वेषां कालं मृत्युंजयं परम् ।।
ग्रीष्ममध्याह्नमार्त्तण्डकोटिसंकाशमीश्वरम् ।। १७ ।।
तत्त्वज्ञानप्रदं शांतं मुक्तिदं हरिभक्तिदम् ।।
दृष्ट्वा ननाम सहसा गन्धर्वो दण्डवद्भुवि ।। १८ ।।
वसिष्ठदत्तस्तोत्रेण तुष्टाव परमेश्वरम् ।।
वरं वृणुष्वेति शिवस्तमुवाच कृपानिधिः ।।
स ययाचे हरे भक्तिं पुत्रं परमवैष्णवम् ।। १९ ।।
गन्धर्वस्य वचः श्रुत्वा चाह सीच्चन्द्रशेखरः ।।
उवाच दीनं दीनेशो दीनबन्धुः सनातनम् ।। 1.12.२० ।।
श्रीमहादेव उवाच ।।
कृतार्थस्त्वं वरादेकादन्यच्चर्वितचर्वणम् ।।
गन्धर्वराज वृणुषे को वा तृप्तोऽतिमङ्गले ।। २१ ।।
यस्य भक्तिर्हरौ वत्स सुदृढा सर्वमङ्गला ।।
स समर्थः सर्वविश्वं पातुं कर्त्तुं च लीलया ।। २२ ।।
आत्मनः कुलकोटिं च शतं मातामहस्य च ।।
पुरुषाणां समुद्धृत्य गोलोकं याति निश्चितम् ।।२३।।
त्रिविधानि च पापानि कोटिजन्मार्जितानि च ।।
निहत्य पुण्यभोगं च हरिदास्यं लभेद् ध्रुवम्।।२४।।
तावत्पत्नी सुतस्तावत्तावदैश्वर्य्यमीप्सितम्।।
सुखं दुःखं नृणां तावद्यावत्कृष्णे न मानसम्।। २९ ।।
कृष्णे मनसि संजाते भक्तिखड्गो दुरत्ययः ।।
नराणां कर्मवृक्षाणां मूलच्छेदं करोत्यहो ।। २६ ।।
भवेद्येषां सुकृतिनां पुत्राः परमवैष्णवाः ।।
कुलकोटिं च तेषां ते उद्धरन्त्येव लीलया ।। २७ ।।
चरितार्थः पुमानेकाद्वरमिच्छुर्वरादहो।।
किं वरेण द्वितीयेन पुंसां तृप्तिर्न मङ्गले ।। २८ ।।
धनं संचितमस्माकं वैष्णवानां सुदुर्लभम् ।।
श्रीकृष्णे भक्तिदास्यं च न वयं दातुमुत्सुकाः ।।२९।।
वरयान्यं वरं वत्स यत्ते मनसि वांछितम्।।
इन्द्रत्वममरत्वं वा ब्रह्मत्वं लभ दुर्लभम्।।1.12.३०।।
सर्वसिद्धिं महायोगं ज्ञानं मृत्युजयादिकम् ।।
सुखेन सर्वं दास्यामि हरिदास्यं त्यज ध्रुवम् ।। ३१ ।।
शङ्करस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुकः ।।
उवाच दीनो दीनेशं दातारं सर्वसम्पदाम् ।। ३२ ।।
गन्धर्व उवाच ।।
यत्पक्ष्मचालनेनैव ब्रह्मणः पतनं भवेत् ।।
तद्ब्रह्मत्वं स्वप्नतुल्यं कृष्णभक्तो न चेच्छति ।। ३३ ।।
इन्द्रत्वममरत्वं वा सिद्धियोगादिकं शिव ।।
ज्ञानं मृत्युजयाद्यं वा न हि भक्तस्य वाञ्छितम् ।। ३४ ।।
सालोक्यसार्ष्टिसामीप्यसायुज्यं श्रीहरेरपि ।।
तत्र निर्वाणमोक्षं च न हि वाञ्छन्ति वैष्णवाः ।। ३९ ।।
शश्वत्तत्र दृढा भक्तिर्हरिदास्यं सुदुर्लभम् ।।
स्वप्ने जागरणे भक्ता वाञ्छन्त्येवं वरं वरम् ।। ३६ ।।
तद्दास्यं वैष्णवसुतं देहि कल्पतरो वरम् ।।
त्वां प्राप्य लभते तुष्टं वरं सर्ववरोऽवरः ।। ३७।।
न दास्यसीदं चेच्छम्भो वरं दुष्कृतिनं च माम् ।।
कृत्वा हि स्वशिरश्छेदं प्रदास्यामि हुताशने ।। ३८ ।।
गन्धर्ववचनं श्रुत्वा तमुवाच कृपानिधिः ।।
भक्तं दीनं च भक्तेशो भक्तानुग्रहकारकः ।।३९।।
श्रीशंकर उवाच ।।
हरिभक्तिं हरेर्दास्यं पुत्रं परमवैष्णवम्।।
चिरायुषं च गुणिनं शश्वत्सुस्थिरयौवनम् ।। 1.12.४० ।।
ज्ञानिनं सुन्दरवरं गुरुभक्तं जितेन्द्रियम् ।।
गन्धर्वराजप्रवरं वरेमं लभ मा शुचः ।। ४१ ।।
इत्युक्त्वा शंकरस्तस्माज्जगाम स्वालयं मुने ।।
गन्धर्वराजः सन्तुष्ट आजगाम स्वमन्दिरम् ।। ४२ ।।
प्रफुल्लमानसाः सर्वे मानवाः सिद्धकर्मणः ।।
नारदस्तस्य भार्य्यायां लेभे जन्म च भारते ।। ४३ ।।
सुषाव पुत्रं सा वृद्धा पर्वते गन्धमादने ।।
गुरुर्वसिष्ठो भगवान्नाम चक्रे यथोचितम् ।। ४४ ।।
बालकस्य च तस्यैव मङ्गलं मङ्गले दिने ।।
उप शब्दोऽधिकार्थश्च पूज्ये च बर्हणः पुमान् ।।
पूज्यानामधिको बालस्तेनोपबर्हणाभिधः ।। ४९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौति शौनकसंवादे ब्रह्मखण्डे नारदजन्मकथनं नाम द्वादशोऽध्यायः ।। १२ ।।