ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०४

विकिस्रोतः तः
← अध्यायः ०३ ब्रह्मवैवर्तपुराणम्
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →

सौतिरुवाच ।।
आविर्बभूव तत्पश्चात्कृष्णस्य रसनाग्रतः ।।
शुद्धस्फटिकसंकाशा देवी चैका मनोहरा ।। १ ।।
शुक्लवस्त्रपरीधाना सर्वालङ्कारभूषिता ।।
बिभ्रती जपमालां च सा सावित्री प्रकीर्तिता ।। २ ।।
सा तुष्टाव पुरः स्थित्वा परं ब्रह्म सनातनम्।।
पुटांजलिपरा साध्वी भक्तिनम्रात्मकन्धरा ।। ३ ।।
सावित्र्युवाच ।।
नमामि सर्वबीजं त्वां ब्रह्मज्योतिः सनातनम् ।।
परात्परतरं श्यामं निर्विकारं निरञ्जनम् ।। ४ ।।
इत्युक्त्वा सस्मिता देवी रत्नसिंहासने वरे ।।
उवास श्रीहरिं नत्वा पुनरेव श्रुतिप्रसूः ।। ५ ।।
आविर्बभूव तत्पश्चात्कृष्णस्य परमात्मनः ।।
मानसाच्च पुमानेकस्तप्तकांचनसन्निभः ।। ६ ।।
मनो मथ्नाति सर्वेषां पञ्चबाणेन कामिनाम् ।।
तन्नाम मन्मथं तेन प्रवदन्ति मनीषिणः ।। ७ ।।
तस्य पुंसो वामपार्श्वात्कामस्य कामिनी वरा ।।
बभूवातीव ललिता सर्वेषां मोहकारिणी ।। ८ ।।
रतिर्बभूव सर्वेषां तां दृष्ट्वा सस्मितां सतीम् ।।
रतीति तेन तन्नाम प्रवदंति मनीषिणः ।। ९ ।।
हरिं स्तुत्वा तया सार्द्धं स उवास हरेः पुरः ।।
रत्नसिंहासने चास्य पञ्चबाणो धनुर्द्धरः ।।1.4.१०।।
मारणं स्तम्भनं चैव जृम्भणं शोषणं तथा ।।
उन्मादनं पञ्चबाणन्पञ्चबाणो बिभर्ति सः ।। ।। ११ ।।
बाणांश्चिक्षेप सर्वांश्च कामो बाणपरीक्षया ।।
सद्यः सर्वे सकामाश्च बभूवुरीश्वरेच्छया ।। १२ ।।
रतिं दृष्ट्वा ब्रह्मणश्च रेतः पातो वभूव ह ।।
तत्र तस्थौ महायोगी वस्त्रेणाच्छाद्य लज्जया ।। १३ ।।
वस्त्रं दग्ध्वा समुत्तस्थौ ज्वलदग्निः सुरेश्वरः ।।
कोटितालप्रमाणश्च सशिखश्च समुज्ज्वलन् ।। १४ ।।
कृष्णस्तद्वर्द्धनं दृष्ट्वा ससर्जापः स्वलीलया ।।
निःश्वासवायुना सार्द्धं मुखबिन्दुं समुद्गिरन् ।। १५ ।।
विश्वौघं प्लावयामास मुखबिंदुजलं द्विज ।।
तत्र किञ्चिज्जलकणं वह्निं शान्तं चकार ह ।। १६ ।।
ततःप्रभृति तेनाग्निस्तोयान्निर्वाणतां व्रजेत् ।।
आविर्भूतः पुमानेकस्ततस्तदधिदेवता ।। १७ ।।
उत्तस्थौ तज्जलादेकः पुमान्स वरुणः स्मृतः ।।
जलाधिष्ठातृदेवोऽसौ सर्वेषां यादसाम्पतिः ।। १८ ।।
आविर्बभूव कन्यैका तद्वह्नेर्वामपार्श्वतः ।।
सा स्वाहा वह्निपत्नी तां प्रवदन्ति मनीषिणः ।। १९ ।।
जलेशस्य वामपार्श्वात्कन्या चैका बभूव सा ।।
वरुणानीति विख्याता वरुणस्य प्रिया सती ।। 1.4.२० ।।
बभूव पवनः श्रीमान्विभोर्निश्वासवायुतः।।
स च प्राणाश्च सर्वेषां निःश्वासस्तत्फलोद्भवः।।२१।।
तस्य वायोर्वामपार्श्वात्कन्या चैका बभूव ह।।
वायोः पत्नी सा च देवी वायवी परिकीर्तिता ।।२२।।
कृष्णस्य कामबाणेन रेतःपातो बभूव ह ।।
जले तद्रेचनं चक्रे लज्जया सुर संसदि ।। २३ ।।
सहस्रवत्सरान्ते तड्डिम्भरूपं बभूव ह ।।
ततो महान्विराड् जज्ञे विश्वौघाधार एव सः ।। २४ ।।
यस्यैक लोमविवरे विश्वैकस्य व्यवस्थितिः ।।
स्थूलात्स्थूलतरः सोऽपि महान्नान्यस्ततः परः ।। २५ ।।
स एव षोडशांशोऽपि कृष्णस्य परमात्मनः ।।
महाविष्णुः स विज्ञेयः सर्वाधारः सनातनः ।। २६ ।।
महार्णवे शयानः स पद्मपत्रं यथा जले ।।
बभूवतुस्तौ द्वौ दैत्यौ तस्य कर्णमलोद्भवौ ।। २७ ।।
तौ जलाच्च समुत्थाय ब्रह्माणं हन्तुमुद्यतौ ।।
नारायणश्च भगवाञ्जघने तौ जघान ह ।। २८ ।।
बभूव मेदिनी कृत्स्ना कार्त्स्न्येन मेदसा तया ।।
तत्रैव सन्ति विश्वानि सा च देवी वसुन्धरा ।। २९ ।। ।।
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे सृष्टिनिरूपणे चतुर्थोऽध्यायः ।। ४ ।। ।।