ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०९६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९५ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ९६
[[लेखकः :|]]
अध्यायः ९७ →



अथ षण्णवतितमोऽध्यायः
नारायण उवाच
श्रीकृष्णस्मरणं कृत्वा गमनोन्मुखमुद्धवम् ।
नतं राधापदाम्भोजे शिरसा पुलकाञ्चितम् ।। १ ।।

उवाच माधवी गोपी रुदती प्रेमविह्वला ।
भक्तं रुदन्तमुच्छैश्च राधाविच्छेदकातरम् ।। २ ।।

माधव्युवाच
उद्धव शृणु वक्ष्यामि क्षणं तिष्ठ यथोचितम् ।
निगूढं परमं ज्ञानं यत्ते मनसि वाञ्छितम् ।। ३ ।।

सुदुर्लभं पुराणेषु वेदेषु गोपनीयकम् ।
प्रश्नं कुरु महाभाग राधिकां त्रिजगत्प्रसूम् ।। ४ ।।

इत्युक्त्वा सा च गोपीशा समुवास मुसंसदि ।
उवाच मधुरं शान्तामुद्धवश्चापि राधिकाम् ।। ५ ।।

उद्धवउवाच
एकाकी भवमायाति यात्येकाकी पुनः पुनः ।
प्राणी कर्मानुरोधेन स्वकर्मफलभुक्पुमान् ।। ६ ।।

कर्मणा जायते जन्तुः कर्मणौव प्रलीयते ।
सुखं दुःखं भयं शोकं कर्मणैवाभिपद्यते ।। ७ ।।

जन्तुर्भोगावशेषेण भोगं भुङ्क्ते भवेषु च ।
पुनश्च कर्मणो भोगात्समायाति च याति च ।। ८ ।।

रत्नादिकं च यत्किचिन्मह्यं दत्तं त्वया सति ।
मया सार्ध न यात्येव तेन मे किं प्रयोजनम् ।। ९ ।।

भवाब्थितारणे देवि भवती तरणिर्वरा ।
कर्णधारः स्वयं कृष्णः सर्वेषां पारकारकः ।। १० ।।
किंचिद्यानं देहि मह्यं भवाब्धिपारकारणम् ।
प्राप्य प्रसातं यास्यामि मथुरां कृष्ममूलकम् ।। ११ ।।

यां यां कालगतिं मातः सुराणां च नृणामपि ।
पितॄणां ब्रह्मलोकस्य तदूर्ध्वस्य च तां वद ।। १२ ।।

तामेव दुस्तरां घोरां तीर्त्वा यामि हरेः पदम् ।
एवंभूतमुपायं च देहि मे कमलालये ।। १३ ।।

दूरतो यत्पदाम्भोजं ध्यायन्ते च दिवानिशम् ।
देवा ब्रह्मेशशेषाद्यास्त्वं तद्वक्षः स्थलस्थिता ।। १४ ।।

उद्धवस्य वचः श्रुत्वा जहास कमलालया ।
वाससा नेत्रनीरं च संभार्ज्य तमुवाच सा ।। १५ ।।

राधोवाच
माधवीवचनेनैव करोषि प्रश्नमुद्धव ।
स्त्रीजातिरबला लोके किं वा ज्ञानं ददामि ते ।। १६ ।।

शुद्धां कालगतिं वत्स जानाति भगवान्हरिः ।
ब्रह्म महेशः शेषश्च वेदाश्चत्वार एव च ।। १७ ।।

किंचिद्वेदानुसारेण सन्तो जानन्ति पुत्रक ।
श्रूयतां कुष्णवक्त्रेण गोलोके रासमण़्डले ।। १८ ।।

गोलोके चापि वैकुण्ठे ब्रह्मलोके च सांप्रतम् ।
या च दृष्टा कालगतिस्तामेव कथयामि ते ।। १९ ।।

नृणां पितॄणां देवानां ब्रह्मलोकादिकस्य च ।
बहिल्रोकस्य ब्रह्माण्डात्पातालानां च निश्चितम् ।। २० ।।
दुरत्ययां कालगतिं येनोपायेन पण्डिताः ।
निस्तरन्ति बुधश्रेष्ठ कथयामि निशामय ।। २१ ।।

भजन्ति जगतां नाथं कालकालं जगद्गुरुम् ।
निर्गुणं च निरीहं च परमात्मानमीश्वरम् ।। २२ ।।

सद्यः पतति देहोऽयं विना येन सदात्मना ।
तं निषेव्य कालगतिं तलत्येव हि केवलम् ।। २३ ।।

आयुर्हरति सर्वेषां प्राणिनां रविरेव च ।
श्रीहरेः शुद्धभक्तानां सतां पुण्यवतां विना ।। २४ ।।

विधेर्मानसिकान्पुत्रांश्चतुरः पश्य पुत्रक ।
सनकादीन्भागवतान्येषां च सुस्थिरं वमः ।। २५ ।।

रुद्राद्यान्वयसा नित्याञ्ज्ञातिनां च गुरोर्गुरून् ।
बालाननुपनीतांश्च पञ्चवर्षशिशून्यथा ।। २६ ।।

अम्यन्तरे महास्फीतान्सस्मितांश्च दिगम्बरान् ।
श्रीकृष्णध्यानपूताश्च तीर्थपूतांश्च वैष्णवान् ।। २७ ।।

वेदवेदाङ्गशास्त्राणां चिन्ताहीनान्प्रफुल्लितान् ।
भक्त्या दिवानिशं शश्वद्धरिभावेन तत्परान् ।। २८ ।।

बाह्यपूजाविहीनांश्च पूतान्मानसिकांस्तथा ।
मृत्युञ्जयान्महाभागान्कालव्यालजितस्तथा ।। २९ ।।

सनकं च सनन्दं च तृतीयं च सनातनम् ।
परं सनत्कुमारं च ये स्मरन्ति च सर्वशः ।। ३० ।।
तीर्थस्नानफलं लब्ध्वा मुच्यते कृतपातकात् ।
हरिभक्तिर्भवेत्तेषां हरिदास्यं लभन्ति च ।। ३१ ।।

मृकण्डुबालकं पश्य कर्मणा च द्विजोत्तमम् ।
दशवर्षायुषं तीव्रं ज्वलन्तं ब्रह्मतेजसा ।। ३२ ।।

हरिसेवनतः पश्चात्सप्तकल्पान्तजीविनम् ।
वोढुं पञ्चशिखं पश्य लोमशं चाऽऽसुरिं तथा ।। ३३ ।।

सर्वकर्मविहीनं च हरिसेवनतत्परम् ।
शतकल्पायुषं चैव ध्यायमानं हरेः पदम् ।। ३४ ।।

जमदग्नेः सुतं पश्य रामं तं चिरजीविनम् ।
हनुमन्तं बलिं व्यासमश्वत्थामानमेव च ।। ३५ ।।

विभीषणं कृपं विप्रं जाम्बवन्तं च भल्लुकम् ।
हरिभावनया चैते शुद्धाः सुचिरजीविनः ।। ३६ ।।

सिद्धेन्द्रेषु मुनीन्द्रेषु नरेष्वन्येषु चोद्धव ।
हरिभावनशुद्धाश्च सर्वे ते चिरजीविनः ।। ३७ ।।

प्रह्लादं पश्य दैत्येषु हिरण्यकशिपोः सुतम् ।
हरिद्विषो दुरन्तस्य हरिभावनतत्परम् ।। ३८ ।।

चिरायुषं कालजितं पश्यान्यं चाप्यसंख्यकम् ।
अनेकजन्मतपसा लब्ध्वा जन्म च भारते ।। ३९ ।।

ये हरिं तं न सेवन्ते ते मूढाः कृतपापिनः ।
वासुदेवं परित्यज्य विषये निरतो जनः ।। ४० ।।
त्यक्त्वाऽमृतं महामूढो विषं भुङ्क्ते निजेच्छया ।
कस्य स्त्री कस्य वा पुत्रः कस्य वा बान्धवास्तथा ।। ४१ ।।

कः कस्य बन्धुर्विपदि श्रीकृष्णेन विना भुवि ।
तस्मात्सन्तः सदा कृष्णं भजन्त्येव दिवानिशम् ।। ४२ ।।

जन्ममृत्युजराव्याधिहरं सर्वहरं परम् ।
कालस्य तरणोपायं भजनं परमात्मनः ।। ४३ ।।

आनन्दनन्दनस्यैव परिपूर्णतमस्य च ।
शृणु कालगतिं वत्स मदीयज्ञानगोचराम् ।। ४४ ।।

नराणां च पितॄणां च सुराणां चापि ब्रह्मणः ।
नागानां राक्षसादीनां तत्परेषां च पुत्रक ।। ४५ ।।

कथयामि निगूढार्थं सावधानं निशामय ।
सर्वस्माच्च परं स्थानं सर्वाधारो महान्विराट् ।। ४६ ।।

यस्य लोमसु विश्वानि चासंख्यानि च तानि च ।
सर्वस्माच्च परं सूक्ष्मं परमाणुं निशामय ।। ४७ ।।

कालारम्भात्मकं सर्वमनूरं परमीप्सितम् ।
चरमः सद्विशेषाणामनेकोऽसंयुतः सदा ।। ४८ ।।

परमाणुः स विज्ञेयो नृपामैक्यभ्रमो यतः ।
परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः ।। ४९ ।।

त्रसरेणुत्रिकेणापि त्रुटिरुक्ता मनीषिभिः ।
वेधस्त्रुटिशतेनैव त्रिवेधेन लवस्तथा ।। ५० ।।
त्रिलवेन निमेषश्च त्रि निमेषेण च क्षणः ।
काष्ठा पञ्चक्षणेनैव लघुश्च दशकाष्ठया ।। ५१ ।।

लघुपञ्चदशं दण्डस्तत्प्रमाणं निशामय ।
द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।। ५२ ।।

स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् ।
दण्डद्वये मुहूर्तः स्यात्वष्टिदण्डात्मिका तिथिः ।। ५३ ।।

तदष्टभागः प्रहरः प्रमाणं च निरूपणम् ।
चतुर्भिः प्रहरै रात्रिश्चतुर्भिर्दिनमुच्यते ।। ५४ ।।

तिथिपञ्चदशेनैव पक्षमानं प्रकीर्तितम् ।
पक्षद्वयेन मासः स्याच्छुक्लकृष्णाभिधेन च ।। ५५ ।।

ऋतुर्मासद्वयेनैव तत्षट्केनैव वत्सरः ।
वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशीतकाः ।। ५६ ।।

वर्षाः पञ्चविधा ज्ञेयाः कालविद्भिर्निरूपिताः ।
संवत्सरः प्रवत्सर इलावत्सर एव च ।। ५७ ।।

अनुवत्सरो वत्सरोऽयमिति कालविदो विदुः ।
अब्दो द्विषट्कमासैश्च तन्नाम शुणु चोद्धव ।। ५८ ।।

वैशाखो ज्येष्ठ आषाढः श्रावणो भाद्र एव च ।
आश्विनः कार्तिको मार्गः पौषो माघस्तु फाल्गुनः ।। ५९ ।।

सैत्रस्तु चरमो ज्ञेयो वर्षशेषी निरूपितः ।
वसन्तश्चैत्रवैशाखमासयुग्मेन कीर्तितः ।। ६० ।।
ज्येष्ठावाढद्वयेनैव ग्रीष्मस्तु परिकीर्तितः ।
वर्षा श्रावणभद्रे च ह्याश्विने कार्तिके शरत् ।। ६१ ।।

मार्गे पौषे च हेमन्तः शिशिरो माघफाल्गुने ।
अब्दस्तु चायनै द्वे वै चोत्तरे दक्षिणायने ।। ६२ ।।

माघादिषड्विनिर्मितमुत्तरायणमीप्सितम् ।
श्रावणादिमासषट्कं दक्षिणायनमेव च ।। ६३ ।।

माघादाषाढपर्यन्तं दिनं वृद्धं क्रमेण वै ।
नक्तं वृद्धं श्रावणश्च पौषपर्यन्तमेव च ।। ६४ ।।

प्रतिपत्पूर्णिमान्तश्च शुक्लपक्षः प्रकीर्तितः ।
पूर्णिमायाः प्रतिपदश्चामावास्यान्त एव च ।। ६५ ।।

कृष्णपक्षस्तु विज्ञेयो वेदविद्भिर्निरूपितः ।
द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा ।। ६६ ।।

षष्ठी च सप्तमी चैव ह्यष्टमी नवमी तथा ।
दशम्येकादशी चापि द्वादशी च त्रयोदशी ।। ६७ ।।

चतुर्दशी कुहूर्यावद्दिनं तु गणनं स्मृतम् ।
अस्विनी भरणी चापि कृत्तिका रोहिणी तथा ।। ६८ ।।

मृगशिरस्त्थाऽऽर्द्रा च नक्षत्रे द्वे पुनर्वसू ।
पुष्याश्लेषे मघा चैव पूर्वा चोत्तरफाल्गुनी ।। ६९ ।।

हस्तचित्रे तथा स्वाती विशाखा चानुराधिका ।
ज्येष्ठा मूलं तथा ज्ञेया पूर्वाषाढोत्तरा तथा ।। ७० ।।
श्रवणाभिजिती चैव धनिष्ठा च प्रकीर्तिता ।
ततः शतभिषा ज्ञेय पूर्वाभाद्रपदा तथा ।। ७१ ।।

तथोत्तरा तु विज्ञेया रेवती चरमा स्मृता ।
अष्टाविंशति नक्षत्रं कलत्रं शशिनस्तथा ।। ७२ ।।

क्रमेण ताभिः सार्ध च चन्द्रस्तिष्ठति नित्यशः ।
सप्तविंशति नक्षत्रं कलत्रं च श्रुतौ श्रुतम् ।। ७३ ।।

अभिजिच्छूवणच्छाया तेनाष्टाविंशतिः स्मृता ।
एकदा च मधौ चन्द्रो रोहिण्या वामया सह ।। ७४ ।।

रेमे दिवानिशं नित्यं श्रवणा च चुकोप सा ।
छायां च दत्त्वा चन्द्राय ययौ तातान्तिकं भिया ।। ७५ ।।

ततः पितरमादाय सा चक्रे च विभागकम् ।
बभूव तेन नक्षत्रमभिजिन्नामकं पुरा ।। ७६ ।।

एतच्छ्रुत्वा कृष्णमुखाच्छतश्रृङ्गे च पर्वते ।
नक्षत्रं कथितं वत्स तिथ्या भ्रमति नित्यशः ।। ७७ ।।

योगं च करणं चैव मद्वक्त्रेण निशामय ।
विष्कम्भः प्रीतिरायुष्मान्सौभाग्यः शोभनस्तथा ।। ७८ ।।

अतिगण्डः सुकर्मा च घृतिः शूलस्तथैव च ।
गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणास्तथा ।। ७९ ।।

वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः ।
सिद्धिः साध्यः शुभः शुक्लो ब्रह्मेन्द्रो वैधृतिस्तथा ।। ८० ।।
कीर्तितस्ते योगगणः करणं श्रूयतामिति ।
बवश्च बालवश्चैव कौलवस्तैतिलस्तथा ।। ८१ ।।

गरश्च वणिजश्चापि विष्टिश्च शकुनिस्तथा ।
चतुष्पाच्चापि नागश्च किंस्तुघ्न इति कीर्तितम् ।। ८२ ।।

नराणां चापि मासेन पितॄणां च दिवानिशम् ।
शुक्ले चापि दिनं तेषां कृष्णे नक्तं प्रकीर्तितम् ।। ८३ ।।

वत्सरेण नाराणां च सुराणां च दिवानिशम् ।
दिनं तेषामुत्तरे च नक्तं च दक्षिणायने ।। ८४ ।।

मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।
मनोरायुः परिमितं शक्रस्याऽऽयुः प्रकीर्तितम् ।। ८५ ।।

पञ्चविंशत्सहस्रं च तथा पञ्चशतं परम् ।
तत्र सूर्यगतिर्नास्ति शक्रपातानुसारतः ।। ८६ ।।

दिवानिशं च जानन्ति ब्रह्मलोकनिवासिनः ।
दण्डद्वयं नरपलं शक्रपातेन तत्पलम् ।। ८७ ।।

एवं त्रिशद्दिनेनैव धातुर्मासः प्रकीर्तितः ।
अब्दो द्वादशभिर्मासैरेवं तस्य शतायुषः ।। ८८ ।।

ब्रह्मणः पतनेनैव निमेषाच्छ्रीहरेरपि ।
धातुः पातानुसारेण वैकुण्ठे न दिवानिशम् ।। ८९ ।।

तत्र सूर्यगतिर्नास्ति चैवं गोलोकतः स्मृतम् ।
वैकुण्ठवासिनः सर्वे न वै जानन्त्यहर्निशम् ।। ९० ।।
चन्द्रस्यापि ग्रहाणां च गतिर्नास्ति च तत्र वै ।
चक्रं नैव भ्रमत्येव राशीनामिच्छया हरेः ।। ९१ ।।

दिनं च तेजसा दीप्तं कृष्णस्य परमात्मनः ।
नक्तं तेजोविहीनं च हरौ च मन्दिरं गते ।। ९२ ।।

एवं कालगतिस्तत्र विष्णुलोकेऽस्ति संततम् ।
कालस्वरूपो भगवान्परमात्मा निराकृतिः ।। ९३ ।।

चन्द्रसूर्यगतिर्नास्चि पातालेषु च सप्तषु ।
,द्वासिनश्च जानन्ति शङ्कन्ते न दिवानिशम् ।। ९४ ।।

दिने च मूर्ध्निनागानां मणिर्ज्वलति नित्यशः ।
संध्यायां दीप्तमग्निश्च रात्रिश्च तमसाऽऽवृता ।। ९५ ।।

कालं ताम्रीप्रमाणेन जानन्ति तन्निवासिनः ।
यथा भुवि तथा तत्र परिमाणं प्रकीर्तितम् ।। ९६ ।।

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
दिव्यैर्द्वादशसाहस्रैर्वत्सरैश्चापि तन्मितम् ।। ९७ ।।

अष्टौ शतान्यप्यधिकं सहस्राणां चतुष्टयम् ।
दिव्यैर्वर्षैः कृतयुगं कालविद्भिर्निरूपितम् ।। ९८ ।।

अष्टाविंशत्सहस्राण्यप्यधिकं परिमाणकम् ।
लक्षाणां च सप्तदशं नृमानं परिकीन्तितम् ।। ९९ ।।

अधिकं षट्शतान्येव सहस्राणां त्रयं तथा ।
दिव्यैर्वर्षैश्च त्रेतेति वत्स कालविदो विदुः ।। १०० ।।
षण्णवतिसहस्राणि लक्षैर्द्वादशभिः सह ।
नृणां वर्षैश्च त्रेतेति कालविद्भिः प्रकीर्तितः ।। १०१ ।।

चतुष्टयं शतानां चाप्यधिकं द्विसहस्रकम् ।
वर्ष दिव्यं द्वापरं च कालज्ञैः परिकीर्तितम् ।। १०२ ।।

चतुःषष्टिसहस्राणि लक्षैरष्टभिरेव च ।
नृणां वर्षैर्द्वापरं च कालज्ञैः परिकीर्तितम् ।। १०३ ।।

अधिकं द्विशतं चैव दिव्यं वर्षसहस्रकम् ।
एवंमितं कलियुगं वत्स प्राज्ञैर्निरूपितम् ।। १०४ ।।

द्वात्रिंशच्च सहस्रं च चतुर्लक्षं नृमानकम् ।
वर्ष चेति कलियुगे चकार कालकोविदः ।। १०५ ।।

लक्षैर्द्विचत्वारिंशद्भिः सह विंशत्सहस्रकैः ।
नृमानवर्षैः कालज्ञैर्व्यक्तमेव चतुर्युगम् ।। १०६ ।।

इति ते कथितं वत्स कालसंख्यानिरूपणम् ।
यथाश्रुतं यथाज्ञानं गच्छ वत्स हरेः पुरम् ।। १०७ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधोद्ववसंo
कालनिरूपणं नाम षण्ण्वतितमोऽध्यायः ।। ९६ ।।