सामग्री पर जाएँ

बौधायनश्रौतसूत्रम्/प्रश्नः २९

विकिस्रोतः तः

29.1
अथाभिदग्धानि सदोहविर्धानानि समस्तदेवयजनमावृतैव क्रियेरन्ननावृता वा वसतीवरीः प्रथमं गृह्णीयादिति वाधूलकस्य मतम्
अथेतरानाउपूर्वमित्यथ यदि भिन्नेषु कपालेषु सर्वाणि निपतेयुस्तत्र यावत्त्मूतं पुरीषमादाय वसतीवरीभिः संयुत्य विस्राव्य प्रचरेत्तत्र प्रायश्चित्तं ग्रहाणामेकेन जुहुयादग्नीध्रीयविनाश आग्नेय्यर्चा जुहुयादग्निर्मूर्धा दिव इति
वैष्णव्या हविर्धाने विष्णो त्वं नो अन्तम इत्याग्नेय्या स्रुक्ष्वयमग्निः सहस्रिण इति
वायव्यया वायव्येषु वायो शतँ हरीणामिति
ऐन्द्रि या सदसीन्द्रं विश्वा अवीवृधन्निति
वैश्वदेव्या प्रागँ शे विश्वे देवाः शृणुतेमँ हवं म इति

सर्वेषु मिन्दाहुती जुहुयाद्व्याहृतीश्चापि वेष्टिं निर्वपेदगारदहने क्षामवान्सर्वविनाशे तन्तुमती
दग्धेषु सोमेषु वा नष्टेषु वा सोमानामुपघातापहारेषु वा यथालाभमँ शून्गृहीत्वा वसतीवरीभिः संयुत्याभिषुत्य प्रचरेत्
सर्वविनाश ओषधीभिरभिषुत्य प्रचरेत्
तत्कृत्वा पुनर्यजेतेति श्रुतिरेवमेव कुर्यात्
सा प्रायश्चित्तिरिति १ 29.1

अथ होत्रकाणामन्योऽन्यस्य मैत्रावरुणश्चोदयेदपि वान्योऽन्यस्य याज्यापुरोऽनुवाक्याभ्यां यजेत तस्य प्रायश्चित्तम्ब्राह्मण एकहोतेत्यस्यानुवाकस्य प्रथमेन होतुर्जुहुयाद्द्वितीयेन मैत्रावरुणस्य तृतीयेन ब्राह्मणाच्छँ सिनश्चतुर्थेन पोतुः पञ्चमेन नेष्टुः षष्ठेनाच्छावाकस्य सप्तमेनाग्नीध्रस्याध्वर्युः प्रधानदेवतामनुच्चारयित्वा योन्यामुच्चारयेद्यद्वो देवा अतिपादयानीत्येतया स्रुवाहुतिं जुहुयाद्दशात्मकेनाष्टमेन नवमेन पूर्वोक्तं प्रायश्चित्तं कुर्याद्
उक्थ्यपर्यायेषु यथाक्रमेण जुहुयाद्दशमेन षोडशिरात्रिपर्यायेभ्यो राथंतराय संधये
तथा शिपिविष्टस्तोत्रे वाजपेये
तथातिरिक्तस्तोत्रेष्विति यथाचोदितमन्यो यजेत्तत्प्रथमो यजेज्जपेद्वा स्वयं चोदितः स्वयमेव यजेद्द्वितीय एव प्रायश्चित्तं भवेत्सोमेऽन्यत्रैवं कुर्याद्धोतान्येन यजेदन्येनैव मैत्रावरुणो वा पूर्वोक्तं प्रायश्चित्तं कुर्यात्
तथा याज्यापुरोऽनुवाक्यास्वन्यथान्यत्प्रायश्चित्तं भवेदथाश्वमेधस्यान्नहोमेष्वारण्यानां पशूनाँ स्रुवाहुत्या ऊनातिरिक्तपुनरुक्तव्याघातेषु मिन्दाहुती जुहुयात्
तथेष्टकोपधानेऽथ देवसुवाँ हविषामन्यद्बीजमन्यदैवतस्य कुर्यात्तदुत्सृज्य पुनरुत्पाद्य यजेदतिशिष्टँ सह यजेज्जपेद्वा
पूर्वोक्तं प्रायश्चित्तं कुर्यादिति २ 29.2

अथ वितते यज्ञकर्मणि प्रायश्चित्तानि व्याख्यास्यामस्
तत्रौषधं पयः पशुः सोम आज्यमित्येतेषु न्यूनेषु वा नष्टेषु वापहृतेषु वा पुनरुत्पाद्य गृह्णीयाद्यत्र स्मरेत्प्राक्स्विष्टकृत उत्पादनं भवति
स्विष्टकृत ऊर्ध्वँ स्मरेत्तत्सँ स्थाप्यैतेनैव पुनर्यजेत्सह यजेद्वाथ यदि निरुप्य स्मरेदन्यं दैवतममुष्मै त्वेति प्रतिविभज्याभिमृश्य सर्वं जुहुयादमुष्मै स्वाहेति
यत्र स्मरेत्तत्रैवमेव कुर्यादासादनादथ यद्यासाद्य स्मरेदन्वायात्य स्थानेषु जुहुयादन्यद्वा पूर्वोक्तं प्रायश्चित्तं कुर्यादन्यासु देवतास्विष्टासु नष्टेषु दुष्टेषु वा दोषवति तन्त्रे प्रधानमावर्तयेत्सर्वेष्टिरशेषतस्
तस्य कः कर्मण उपक्रमो भवतीति
भागिनो दैवतस्य शूर्पादानप्रभृति कर्म कृत्वा श्रपयित्वासाद्य स्वस्थाने प्रचरेत्

तत्र प्रायश्चित्तं मिन्दाहुती जुहुयाद्व्याहृतीश्चैवं पशावुपाकरणप्रभृत्या स्विष्टकृतः पूर्वोक्तं प्रायश्चित्तं कुर्यादथ यदि प्रातरनुवाकमनुपाकृतमादित्योऽभ्युदियात्कथं तत्र प्रायश्चित्तं भवतीत्युषाः केतुना जुषतां यज्ञं देवेभिरन्वितम् ।
देवेभ्यो मधुमत्तमँ स्वाहेति मिन्दाहुती व्याहृतीश्च हुत्वोपाकुर्यादथ यदि प्रातरनुवाके शस्यमान आदित्योऽभ्युदियादुद्वयं तमसस्पर्युदु त्यं चित्रमित्येताभिः स्रुवाहुतीर्जुहुयादथ यदि सोमो नाविः स्यान्नवोनवो भवति जायमानो यमादित्या अँ शुमाप्याययन्तीत्येताभ्याँ स्रुवाहुती जुहुयाद्यदि सूर्याचन्द्र मसोर्ग्रहणं विद्यत एतदेव ३ 29.3

अथ यदि ग्रहान्ग्रहीष्यमाणो भागिनीं देवतामगृहीत्वा योन्यां गृह्णीयात्तथामुष्मै स्वाहेति तदानीमेव सर्वं जुहुयाद्भागिनीं पुनर्गृहीत्वा मिन्दाहुती जुहुयादपि वा ग्रहाणामेकेन जुहुयात्सर्वान्वाचस्पते विधे नामन्नित्येवमादीन्ग्रहान्होत्रकाणां ग्रहेषु वा चमसेषु वा हविर्दोषोक्तदोषो भवेत्

तथापोऽभ्यवहृत्य तत्प्रायश्चित्तँ हुत्वा तथा पुनर्गृहीत्वा जुहुयाच्चमसेषु पुनरुन्नीय जुहुयाद्धुत्वा वा तस्मिन्हिरण्यमन्तर्धायाप आनीय भक्षयेत्
सैव ततः प्रायश्चित्तिरथ यदि सवनकालोऽतिक्रामेदग्निर्मूर्धा दिव इत्येतस्यानुवाकस्य प्रथमेन गायत्रेण जुहुयात्प्रातःसवने
तथा त्रैष्टुभेन माध्यंदिने सवने
तथा जागतेन तृतीयसवनेऽत ऊर्धमतिरात्र उत्तरमहर्नाधिगच्छेद्यदि गच्छेद्यज्ञभ्रेष आगच्छेत्
तत्र प्रायश्चित्तँ सर्वान्होतॄन्जुहुयाद्विज्ञायते ब्रह्म वै चतुर्होतार इति
तस्माच्चतुर्होतॄनेव जुहुयादत ऊर्ध्वमहःसंख्यां नाधिगच्छेदेकाहेष्वथ सवनीयानां प्रायश्चित्तिरथ यदि पूतिगन्धः स्यात्तदुत्सृज्य पुनरुत्पाद्य प्रचरेदपि वोष्णोदकेन प्रक्षाल्याज्येऽवधाय पुनः श्रपयित्वा प्रचरेत्
तत्रापि यदि पूतिगन्धो भवेत्तदुत्सृज्य पुनरेवोत्पाद्य प्रचरेत्
तथा सवनीयानां पुरोडाशानां
तथा सांनाय्यानाम्
अथ यदि स्तोत्रँ शस्त्रं प्रतिगरं वोत्सृजेन्मिन्दाहुती हुत्वोपाकुर्यादथ यद्येकाँ स्तोत्रीयाँ सूक्तं वर्चं वार्धर्चं वा प्रतिगरं वोत्सृजेन्मिन्दाहुती हुत्वा जपेत्
स्तोत्रोपाकरणप्रभृत्या होमाद्वाचं यच्छेद्यदि वाचं विसृजेद्वैष्णवीमृचं जपेदथ यद्याश्राव्य वाचं विसृजेद्वैष्णवीमृचं जपेद्विष्णो त्वं नो अन्तम इति
पुनरेवाश्राव्य यजेदूनातिरिक्तपुनरुक्तव्याघातेष्वन्येषु वान्यत्र प्रायश्चित्तं मिन्दाहुती जुहुयात्
सर्वस्थानेषु मिन्दाहुती यज्ञशरीरमिति श्रुतिस्
तस्मात्सर्वेषामाचार्याणां प्रशस्तमिति ४ 29.4

अथ यदि हुताहुतौ सोमौ सँ सृज्येयातामाहवनीयादुदीचोऽङ्गारान्निरूह्य तेषु जुहुयाद्यज्ञस्य हि स्थ ऋत्वियविन्द्रा ग्नी चेतनस्य च ।
हुताहुतस्य तृप्यतमहुतस्य हुतस्य च ॥
हुतस्य चाहुतस्य चाहुतस्य हुतस्य च ।
इन्द्रा ग्नी अस्य सोमस्य वीतं पिबतं जुषेथाँ स्वाहेति
तस्य नित्यभक्षमनुवर्तयति मा यजमानं तमो विदद्मर्त्विजो मो इमाः प्रजाः ।
मा यः सोममिमं पिबात्सँ सृष्टमुभयं कृतमित्यथ यद्यन्यहुताश्चमसा अन्यहुतैः सँ सृज्येरन्सोमे वा सोममभिगृह्णीयादित्येतदेवाथ यद्यन्यवृता ऋत्विजोऽन्यवृतैः सँ सृज्येरन्दीक्षिता दीक्षितैर्वान्यत्र व्रात्यस्तोमात्सत्त्राच्चेत्येतदेवाथ यदि सुतः सोमोऽभिवृष्येत तदित्पदम्प्रत्यस्मै पिपीषत इत्येताभ्याँ स्रुवाहुती हुत्वा तस्य नित्यभक्षमनुवर्तयतीन्दुरिन्दुमवागादिन्दोरिन्द्रो ऽपात्।
तस्य त इन्दविन्द्र पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्यथ यदि सुते सोमे यजमानो म्रियेत भयं वागच्छेत्सर्वाणि हवीँ षि पात्र्! याँ समवधाय द्रो णकलशे सोमं जुह्वामाज्यं पशुमन्यस्यामित्येकामाहुतिं जुहुयाद्ये देवा येषामिदं भागधेयं बभूव येषां प्रयाजा उतानूयाजाः ।
इन्द्र ज्येष्ठेभ्यो वरुणराजभ्योऽग्निहोतृभ्यो देवेभ्यः स्वाहेति हुत्वात ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्येताभये वा पुनर्यजेत
जीर्णस्याशक्तस्य चाग्निहोत्रचेष्टायामात्मन्यग्निसमारोपणं विद्यत इत्यात्मनि समारूढेष्वग्निषु न खादेन्न पिवेन्नोपरि शय्याँ शयीत नाप्सु निमज्जेन्न मैथुनं व्रजेत्कामं खादेत्कामं पिबेत्कामं त्वेवोपरि शय्याँ शयीत नैवाप्सु निमज्जेन्न मैथुनं व्रजेदिति

प्रक्षालितपादपाणिरप आचम्य प्राङ्मुख उपविश्याग्निहोत्रयजुषा यावन्मात्रं व्रतयित्वा तूष्णीं भूयो व्रतयेत्प्रजापतिं मनसा ध्यायन्नित्येवमेवोपासीता श्रीरविमोक्षणात् ५ 29.5

अथ वै भवति
यथा वै पुत्रो जातो म्रियत एवं वा एष म्रियते यस्याग्निरुख्य उद्वायति
यन्निर्मन्थ्यं कुर्याद्विच्छिन्द्याद्भ्रातृव्यमस्मै जनयेत्
स एव पुनः परीध्यः
स्वादेवैनं योनेर्जनयति
नास्मै भ्रातृव्यं जनयतीति ब्राह्मणम्
उख्यश्चेदुद्वायेदप्सु भस्म प्रवेश्योखाँ शकृत्पिण्डेन परिलिप्य पुनरेवैनां प्रवृज्य परिदायाहुतिषाहं कृत्वाथैनाँ स्रुवाहुतिभिरभिजुहोति सुवर्ण घर्मः स्वाहा सुवर्णार्कः स्वाहा सुवर्न शुक्रः स्वाहा सुवर्ण ज्योतिः स्वाहा सुवर्ण सूर्यः स्वाहेत्यर्कवतीभ्यामर्कसमिधावभ्यादधात्यर्कः पवित्रम्पवित्रमर्को रजसो विमान इति द्वाभ्यां
मुञ्जकुलायप्रभृतिना कर्मणा प्रतिपद्येता कृष्णाजिनवाचमादथ वै भवति
तमो वा एतं गृह्णाति यस्याग्निरुख्य उद्वायति
मृत्युस्तमः
कृष्णं वासः कृष्णा धेनुर्दक्षिणेति
कृष्णं वासः कृष्णां धेनुँ शतमानँ हिरण्यमिति ददाति
तमसैव तमो मृत्युमपहतेऽथो तेजो वै हिरण्यं
तेज एवात्मन्धत्त इति ब्राह्मणम्
अथ यद्यासन्दी शिक्यमगारं वा दह्येत वैश्वानरीभिः समिधोऽभ्यादध्याद्वैश्वानरो न ऊत्येत्येतेनाष्टार्चेनाथ यदि वसतीवरीकलशः पान्नेजन एकधनाः कुम्भेष्टकाः क्वथनेष्टका वा परासिच्येरन्यूपो वा भिद्येत रशना वा छिद्येत चषालं वा भिद्येतौदुम्बरी वा भिद्येत ग्रावा वा भिद्येत द्रो णकलशो वा दीर्येतान्यद्वा यज्ञे दारुमयं मृन्मयं वा पात्रं भिद्येत तत्स्वेनैव यजुषा स्व आयतने निधायोपधायाभिमन्त्रयते भूरायुर्मे धारयत प्राणं मे धारयत प्रजां मे धारयत पशून्मे धारयत मा म आयुः प्राणः प्रजाः पशवः परासिच्येरन्नित्य्
अथ यदि दारुमयं पात्रमाहवनीयेऽनुप्रहरेदथ यदि मृन्मयमपोऽभ्यवहरेद्भूमिर्भूमिमगाद्माता मातरमप्यगात् ।
भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति ६ 29.6

अथातोऽग्निहोत्रस्य लौकिकविधिं व्याख्यास्यामः
पुराग्निहोत्राद्गार्हपत्यादरण्योरग्नीन्समारोपयन्त्ययं ते योनिरृत्विय इत्यन्तर्वेद्यरणी निधाय लौकिकेऽग्नौ जुहुयात्
सायमुद्धरति सायमाहुतिँ हुत्वा प्रातरुद्धरति प्रातरुद्धरति प्रातराहुतिँ हुत्वेति विज्ञायतेऽथाग्निहोत्रं चतुर्भिर्लुप्यते होमोपस्थानव्रतदर्शपूर्णमासैरिति
तन्तुमत्येष्ट्येष्ट्वा दर्शपूर्णमासाभ्यां यजेत
संतिष्ठते विच्छिन्नप्रायश्चित्तिः ७ 29.7

अथापद्यग्निहोत्राणाँ समासस्
तद्यथा राष्ट्रविभ्रमो व्याधयोऽध्वगमनं गुरुकुलवासो देशकालद्र व्यानुपपत्तिरन्यैश्चायोगो यासु विद्यत इति
तस्य कः कर्मण उपक्रमो भवतीति
कामं पूर्वाह्णे वापाराह्णे वाग्निहोत्रवेलायां वा यथासूत्रं वा कुर्यात्प्रसिद्धं वा यजमानस्या प्रसावात्
प्रसूतः प्रसिद्धं प्रतिपदि सायं चतुर्दश चतुर्गृहीतानि गृह्णाति सोपवसथे पार्वणे वाथेतरस्मिन्पञ्चदश
प्रसिद्धँ सवँ र्! समित्प्रभृति कर्म
मन्त्राँ श्चैकवत्सँ स्थाप्य सायमग्निहोत्राणि हुत्वा प्रातरग्निहोत्राणि जुहुयात्
सायमुपक्रमः प्रातरपवर्गः
काले पार्वणे न यजेत
नोर्ध्वं पाक्षिकात्समासो न प्रसङ्गे नाश्रद्दधानस्याथाप्युदाहरन्ति

अश्रद्धा परमः पाप्मा पाप्मा ह्यज्ञानमुच्यते ।
अज्ञानाल्लुप्यते धर्मो लुप्तधर्मोऽधमः स्मृतः ॥
श्रद्धया शुध्यते बुद्धिः श्रद्धया शुध्यते मतिः ।
श्रद्धया प्राप्यते ब्रह्म श्रद्धा पापप्रणाशिनी ॥
तस्माच्छ्रद्दधानेनाप्रसङ्गेन सपन्ने काले तन्तुमत्या यजेतैवं लौकिकप्रयोग एवमहुत एवं विध्यपराधे चाथाप्युदाहरन्ति न वृथाग्नीनुद्वासयेन्नैवानापत्सु
वीरहा वा एष देवानां योऽग्निमुद्वासयत इति
तस्माच्छ्रद्दधानस्याप्रासङ्गिकस्य चान्यत्रापि
येये विशेषा लघवो यत्रयत्रोपलक्षिताः ।
तैः कर्मसँ स्तरे कुर्याद्न्यायोपेतं यथा भवेत्॥
स्वशास्त्रे विद्यमाने यः परशास्त्रेण वर्तते ।
भ्रूणहत्या समं तस्य स्वशास्त्रमवमन्यतः ॥
आर्षेयस्य स्वशास्त्रस्य प्रदेशास्तद्गुणैः समाः ।
कर्मणां प्रविचारार्थमापत्सु च समाप्नुयादिति ८ 29.8

यथो एतत्सोऽपरिमितं प्रवसति न संवत्सरमति प्रवसतीत्यविशेषाज्जायापत्योराहिताग्न्योरित्येवेदमुक्तं भवति
विज्ञायते चार्धो वा एष आत्मनो यत्पत्नीत्यथ यदि प्रवसति यजमाने पत्न्याः प्रवासनिमित्तँ स्यात्तद्वास्तोष्पतीयँ हुत्वाध्वर्युः समारोपयेदयं ते योनिरृत्विय इति
यत्र गच्छेत्तत्रानो हरेत्
तत्र प्राप्याग्निं मथित्वा विहारं कल्पयित्वा गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये संतनीं जुहोति मनो ज्योतिर्जुषतामाज्यम्विच्छिन्नं यज्ञँ समिमं दधातु ।
या इष्टा उषसो निम्रुचश्च ताः संदधामि हविषा घृतेन स्वाहेत्यथाग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपति
शरावं दक्षिणां ददाति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ यदि यजमानश्चैव पत्नी चोभौ त्वेव निष्क्रामतो ग्रामान्ते ग्रामसीमान्ते वा वसतोऽग्निहोत्रमेव लुप्येताविकृतमग्न्याधेयं कुर्वीताग्नीन्हरन्तो नोच्छ्वसेयुयद्युच्छ्वसेयुरग्नयो लौकिकाः संपद्येरन्ननो विना समारूढेष्वग्निषु नाद्रि येत शम्याप्रासे सत्त्रनिदर्शनात् ९ 29.9

अथ वै भवति
सर्वान्वा एषोऽग्नौ कामान्प्रवेश्यति योऽग्नीनन्वाधाय व्रतमुपैति स यदनिष्ट्वा प्रयायादिति
स यदनिष्ट्वा प्रयास्यन्भवति तद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने तुभ्यं ता अङ्गिरस्तमेति
योऽग्नीनन्वाधाय व्रतमुपैति स यद्युद्वायतीति तत्पुरस्ताद्व्याख्यातं यस्याहिताग्नेरग्निरपक्षायति यावच्छम्यया प्रविध्येद्यदि तावदपक्षायेत्तँ संभरेदिदं त एकं पर उत एकमिति
संभृत्यानुप्रहरेदग्निहोत्रकालेषु वान्येषु वा
यदि परस्तरामपक्षायेदनुप्रयायावस्येदित्यनुप्रयायावस्येत्तद्यत्रैवावस्येत्तत्र वोद्वासयेयुरोषधीर्वा एतस्य पशून्पयः प्रविशति यस्य हविषे वत्सा अपाकृता धयन्ति
तान्यद्दुह्याद्यातयाम्ना हविषा यजेत
यन्न दुह्याद्यज्ञपरुरन्तरियाद्वायव्यां यवागूं निर्वपेदित्यथैतेषां दोहयित्वा तस्मिन्नप आनीय व्रीहिप्रभृति सिद्धमत ऊर्ध्वम्
अथ यस्य सायंदुग्धँ हविरार्तिमार्च्छतीन्द्रा य व्रीहीन्निरुप्योपवसेदिति
निर्वपणान्तं कर्म कृत्वा श्वो भूत आग्नेयेन प्रचर्यैन्द्रे ण प्रचरेद्
शृतस्थानं तत्कुर्यादथ यस्योभयँ हविरार्तिमार्च्छत्यैन्द्रं पञ्चशरावमोदनं निर्वपेदिति
प्रकृत्या वा निर्वपेच्छरावेण वेति
प्रकृत्या निर्वपेत्तथा शरावपरिमाणाथँ र्! शरावमिति वदन्तस्
तथा चतुष्पात्रं निर्वपेदित्यत्र पात्र्यामेव निर्वपेत्सांनाय्यस्थाने कुर्याद्यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति तामपरुध्य यजेतेति
तामपरुध्यैव यजेत सर्वेणैव यज्ञेन यजते
तामिष्ट्वोपह्वयेतामू हमस्मीत्यृतुकाल उपगमनमन्त्रोऽग्न्यन्वाधानप्रभृत्यपरुध्यैव यजेत तथैकाहानाम् १० 29.10

अथ यदि दीक्षोपसत्सु तथाहर्गणेष्वन्येष्वहःसु वा यथा त्र्यहे पर्यवेते गोमूत्रेणोष्णोदकमिश्रेण लोहितं छित्स्वेत्युक्त्वा प्रक्षाल्य दर्भपुञ्जीलैः पवयतीति

विज्ञायत आपो वै दर्भास्तैर्हि स्नाता भवतीति
विज्ञायते ब्रह्महत्यायै ह्येषा वर्णं प्रतिमुच्यास्त इति
तस्माद्धविर्नान्वीक्षेत न स्पृशेदित्यथ सूतिकाया दशाहे पर्यवेते यथाम्नातँ शौचं कृत्वा पत्नीं कर्मसु योजयेत्
तत्कर्म पुत्रो ब्रह्मचारी वा कुर्यात्
तन्मन्त्रं यजमानो जपेदेषा पत्न्यकुशली यदि स्यादेवमेव कारयेदित्यथ यदि सांनाय्ये घर्मे वा प्रवृत्तायां पयो न स्याद्येन केन चिदुपायेन किं चित्पयो दोहयित्वाद्भिः सँ सृज्य प्रचरेद्नैवान्यत्पय आनीय कुर्यात्
सैव ततः प्रायश्चित्तिरथ यदि सोमाधानमारभ्य पुरा दीक्षणीयाया अनालम्भुका भवति नाग्निहोत्रं जुहोति
त्र्यहे पर्यवेतेऽप्सुदीक्षाप्रभृति सिद्धमत ऊर्ध्वम्
अथ यदि पुरा व्रतदोहनादनालम्भुका भवति त्र्यहँ हविष्यमश्नीयाद्यदि व्रते दुग्धे हविष्यमेव व्रतमपोऽभ्यवहरेत्

त्र्यहे पर्यवेते गोमूत्रादि सिद्धमत ऊर्ध्वम्
अथ यदि पुरा प्रवर्ग्यस्य स्यान्न प्रवृञ्ज्याद्धविष्यप्रभृति यथाम्नातँ शौचं कृत्वा गोमूत्रादि सिद्धमत ऊर्ध्वम्
अथ यदि प्रवृक्तेऽनालम्भुका भवति हविष्यमेव तदहः सँ स्थाप्य त्र्यहे पर्यवेते गोमूत्रादि सिद्धमत ऊर्ध्वम्
अथ दीक्षित वाचं यच्छ व्रत्य वाचं यच्छ पत्नि वाचं यच्छेति संप्रैषादेकस्तनप्रभृत्यानालम्भुका भवति सिद्धमावभृथात्कृत्वा त्र्यहे पर्यवेतेऽवभृथमवयन्ति
सुत्येऽहनि मार्जालीये सिकतोपोप्ते परिश्रित्योपविशेदन्येष्वहःसु पत्नीशालायामेवोपविशेत्
प्राग्वँ शं न प्रपद्येत ११ 29.11

अथातः प्रायश्चित्तसमुच्चयं व्याख्यास्यामः
सर्वत्रानादिष्टेषु मनस्वती मिन्दाहुती व्याहृतयो होतार इति जुहुयात्सर्वेष्वव्रत्येषु मिन्दाहुती पितृयज्ञलोपे सप्तहोतारमतिजुहुयादथ यद्यग्न्याधेय सर्वमौपासनमभिप्रव्रजेयुः पुनस्त्वादित्या रुद्रा वसवः समिन्धतामित्येतया स्रुवाहुतिँ हुत्वा लौकिकेऽग्नौ गृह्याणि कर्माणि प्रयुञ्जीत यद्यर्धमवशिष्येताथ यदि ब्रह्मौदनिको धारितः स्यादौपासनवत्स्यात्
तथोद्वाते पाकादूर्ध्वं जयादीँ श्च जुहुयादथ यदि गार्हपत्यमनाहितमादित्योऽभ्युदियादादित अरभ्यान्यस्मिन्काल आदध्यान्मध्ये चेदग्निविनाश एतदेवाथ यदि पत्नीमृत्वियं विन्देत प्राग्दक्षिणाया एतदेवात ऊर्ध्वमपरोधोऽग्निहोत्रे च सोमे चावभृथादिषु सर्वत्रेष्टिपशुसोमेषु तावन्मात्रं पत्न्या वा सर्वम्
अथ यदि गार्हपत्याहवनीयावुद्वायेतामभिनिम्रोचेदभ्युदियाद्वाग्न्याधेयं तत्र प्रायश्चित्तिः
पुनराधेयमित्येकेऽथ यदि पत्नी बहिः सीमां पुनराधानम्
अथ यद्यात्मनि समारूढेष्वव्रत्यं चरेदरणिविनाशोक्तदोषो वा भवेदग्न्याधेयम्
अरणिविनाशेनाग्निविनाश उक्तोऽथ यदि ग्राममर्यादां नदीं वाग्नीनतिहरेयुरेतानेवाग्नीन्ह्रियमाणानन्वारभेयातां
प्रवसति यजमाने न पत्नी प्रवसति नात्र प्रायश्चित्तम्भिन्नयोनिश्चेदन्वाहार्यपचन उद्वायेद्या प्रकृतिस्तत आहरणं पृथगरणी वा १२ 29.12

अथ यद्येककपालः परावर्तते प्रजापतेर्वर्तनिमनुवर्तस्वेत्यध्वर्युः स्वस्थाने प्रतिष्ठापयेत्
प्रति क्षत्रे प्रतितिष्ठामि राष्ट्रे विश्वमन्याभिवावृध इत्येताभ्यां यजमानोऽनुमन्त्रयतेऽस्कान्द्यौः पृथिवीमस्कानजनि प्राजनीत्येताभ्याँ स्रुवाहुती जुहुयात्
सँ स्थिते वैश्वानरीमिष्टिं निर्वपेद्विज्ञायते च यत्प्राङ्पद्येत देवलोकमभिजयेद्यद्दक्षिणा पितृलोकं यत्प्रत्यग्रक्षाँ सि यज्ञँ हन्युर्यदुदङ्मनुष्यलोकमभिजयेत्
प्रतिष्ठितो होतव्य इत्यथ यदि पशुबन्धः सोमो वा लुप्येत वैश्वानरीमिष्ट्वा पुनर्यजेत
सर्वं चेत्सुत्यमहरतिक्रामेत्समन्वारब्धाः प्रागुपवेशनादपच्छिद्येरन्समाप्य पुनर्यजेत
सोमेन दीक्षितो न दद्यान्न जुहुयान्न पचेन्न जपेदित्यादित एव विभजेदित्याहुर्व्रतोपेतो न स्नायान्नापोऽवगाहेत न वासो जह्यान्न रजः प्रप्लावयेत्

सर्वत्र यजमानस्यर्त्विजां च यावत्कर्म व्रतमुपदिशन्ति नर्त्विजामार्त्विज्यमन्यत्र विद्यते न महर्त्विजाँ समासो न सर्वत्र यजमानस्यार्त्विज्यमन्यत्र सत्त्रात्
सर्वेषु सोमेषु सोमापचारकालातिक्रमान्तरितविपर्यासव्यवायसमासादिष्वन्येषु चाज्ञातेषु ज्ञातेषु च दोषेषु प्राक्समिष्टयजुष आज्यस्थाल्याः स्रुवेणोपघातँ सर्वप्रायश्चित्तानि जुहुयाद्जयानित्येकेऽभ्यातानानित्येके
राष्ट्रभृत इत्येकेऽमात्यहोमानित्येके
छन्दाँ सीत्येके
सौरीरित्येके
तनूरित्येके
होतॄनित्येके
दशात्मकमित्येके
पौरुषीरित्येके
वैष्णवीरित्येके
महाव्याहृतीरित्येके
व्याहृतीरित्येके
प्राजापत्यामित्येके
प्रणवमित्येके
सर्वानित्याचार्यः सर्वानित्याचार्यः १३ 29.13