सामग्री पर जाएँ

बौधायनश्रौतसूत्रम्/प्रश्नः २८

विकिस्रोतः तः

28.1
अथ वै भवति
यः पापयक्ष्मगृहीतः स्याद्यो वापरुध्येत देवेभ्य ऋषिभ्यः पितृभ्यो गोभ्यो ब्राह्मणेभ्यस्तेनाभिशस्तोऽभिशस्यमानो वा रहस्येष्ट्या यजेतेत्येतयेष्ट्या यक्ष्यमाण उपकल्पयते हिरण्यं तस्याः प्रज्ञात उपवसथोऽथ प्रातर्हुतेऽग्निहोत्रे पुरापां प्रणयनाद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने येन देवाः पवित्रेणात्मानं पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनन्तु मा स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोति प्राजापत्यं पवित्रं शतोद्यामँ हिरण्मयम्।
तेन ब्रह्मविदो वयम्पूतं ब्रह्म पुनीमहे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोतीन्द्र ः! सुनीती सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या ।
यमो राजा प्रमृणाभिः पुनातु मां जातवेदा मोर्जयन्त्या पुनातु स्वाहेत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नयेऽँ! होमुचेऽष्टाकपाल इति दशहविषमिष्टिं निर्वपति श्रपयित्वासादयति
तस्याः सप्तदश सामिधेन्यः
समिध्यमाआं च समिद्धां चान्तरेण पावकवत्यौ धाय्ये दधात्यपामिदं न्ययनं नमस्त इति द्वे
पावकवन्तावेवाज्यभागवग्नी रक्षाँ सि सेधति शुक्रशोचिरमर्त्यः ।
शुचिः पावक ईड्य इति पुरोऽनुवाक्यामनूच्य यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।

ब्रह्म तेन पुनीमह इति यजति
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुरश्वो न कृत्विय इति पुरोऽनुवाक्यामनूच्या कलशेषु धावति पवित्रे परिषिच्यते ।
उक्थैर्यज्ञेषु वर्धत इति यजत्यथ हविषामग्नेर्मन्वे प्रथमस्य प्रचेतस इत्येतस्मिन्ननुवाके याज्यापुरोऽनुवाक्याः सहसंयाज्या भवन्त्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोति पवमानः सुवर्जन इत्येतेनानुवाकेन प्रत्यृचम्प्रसिद्धेडाथान्वाहार्यमासाद्य हिरण्यं ददाति
समानं कर्मा पत्नीसंयाजेभ्योऽथ पुरस्ताद्गृहपतेः स्रुवाहुतीरुपजुहोति यद्देवा देवहेडनमित्येतेनानुवाकेन प्रत्यृचं संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम्
एतयैव यजेतर्तुव्यतिक्रमे दारव्यतिक्रमेऽयोनौ वा रेतः सिक्त्वैतयैव यजेत पातकोपपातकसंयुक्तो द्वादशाहं महापातकसंयुक्तो मासं पुण्यमिच्छन्संवत्सरमृतुं वा तामेतां महापवित्रेष्टिरित्याचक्षते मृगारेष्टिरिति वा रहस्येष्टिरिति बौधायनः १

28.2
यथो एतत्सोऽपरिमितं प्रवसतीति न संवत्सरमति प्रवसतीत्येवेदमुक्तं भवति स उ चेदति प्रवसेत्पवित्रेष्ट्या यजेतेत्येतयेष्ट्या यक्ष्यमाण उपकल्पयते हिरण्यं तस्याः प्रज्ञात उपवस्तथोऽथ प्रातर्हुतेऽग्निहोत्रे पुरापां प्रणयनाद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने येन देवाः पवित्रेणात्मानं पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनन्तु मा स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोति प्राजापत्यं पवित्रं शतोद्यामँ हिरण्मयम्।
तेन ब्रह्मविदो वयम्पूतं ब्रह्म पुनीमहे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोतीन्द्र ः! सुनीती सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या ।
यमो राजा प्रसृणाभिः पुनातु मां जातवेदा मोर्जयन्त्या पुनातु स्वाहेत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपति सरस्वत्यै प्रियाया उपाँ श्वाज्यमग्नये पावकाय पुरोडाशमष्टाकपालं निर्वपति सरस्वत्यै प्रियाया उपाँ श्वाज्यमग्नये पावकाय पुरोडाशमष्टाकपालं निर्वपति सवित्रे सत्यप्रसवायोपाँ श्वाज्यमग्नये शुचये पुरोडाशमष्टाकपालं निर्वपति वायवे नियुत्वत उपाँ श्वाज्यमग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति विष्णवे शिपिविष्टायोपाँ श्वाज्यमग्नये वैश्वानराय पुरोडाशमष्टाकपालं निर्वपति दधिक्राव्ण उपाँ श्वाज्यमिति

श्रपयित्वासादयति
तस्याः सप्तदश सामिधेन्यः
समिध्यमानां च समिद्धां चान्तरेण पावकवत्यौ धाय्ये दधात्यपामिदं न्ययनं नमस्त इति द्वे
पावकवन्तावेवाज्यभागवग्नी रक्षाँ सि सेधति शुक्रशोचिरमर्त्यः ।
शुचिः पावक ईड्य इति पुरोऽनुवाक्यामनूच्य यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।
ब्रह्म तेन पुनीमह इति यजति
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुरश्वो न कृत्विय इति पुरोऽनुवाक्यामनूच्या कलशेषु धावति पवित्रे परिषिच्यते ।
उक्थैर्यज्ञेषु वर्धत इति यजत्यथ हविषामग्न आयूँ षि पवसेऽग्ने पवस्वेत्यग्नेः पवमानस्योत नः प्रिया प्रियास्विमा जुह्वाना युष्मदिति सरस्वत्याः प्रियाया अग्ने पावक स नः पावकेति पावकस्या विश्वदेवमा सत्येनेति सवितुः सत्यप्रसवस्याग्निः शुचिव्रततम उदग्ने शुचयस्तवेति शुचेर्वायुरग्रेगा वायो शुक्रो अयामि त इति वायोर्नियुत्वतस्त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानीति व्रतपतेः प्र तत्ते अद्य किमित्ते विष्णो परिचक्ष्यं भूदिति विष्णोः शिपिविष्टस्य वैश्वानरो न ऊत्या पृष्टो दिवीति वैश्वानरस्य दधिक्राव्णो अकारिषमा दधिक्रा इति दधिक्राव्णोऽथ हुतानुमन्त्रणमग्नेः पवमानस्याहं देवयज्यया शुचिः पूतो मेध्यो विपाप्मा ब्रह्मवर्चस्यन्नादो भूयासमग्नेः पावकस्याग्नेः शुचेरग्नेर्व्रतपतेरग्नेर्वैश्वानरस्याहं देवयज्यया शुचिः पूतो मेध्यो विपाप्मा ब्रह्मवर्चस्यन्नादो भूयासमित्य्
उपाँ शुयाजायामुपाँ शुयाजवदित्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोति पवमानः सुवर्जन इत्येतेनानुवाकेन प्रत्यृचम्
अतिथिवत्यौ दमूनवत्यौ संयाज्ये जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुपयाहि विद्वान्।
विश्वा अग्ने अभियुजो विहत्य शत्रूयतामाभरा भोजनानि ॥
 मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः ।
सहस्रशृङ्गो वृषभस्तदोजा विश्वाँ ग्ने सहसा प्रास्यन्यानिति
प्रसिद्धेडाथान्वाहार्यमासाद्य हिरण्यं ददाति
समानं कर्मा पत्नीसंयाजेभ्योऽथ पुरस्ताद्गृहपतेः स्रुवाहुतीरुपजुहोति यद्देवा देवहेडनमित्येतेनानुवाकेन प्रत्यृचं संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम्
एतयैव यजेताभिशस्तोऽभिशस्यमानो वैतयैव यजेतर्तुव्यतिक्रमे दारव्यतिक्रमेऽयोनौ वा रेतः सिक्त्वैतयैव यजेत संवत्सरमर्धपादमेकविँ शतिरात्रं वा
तिर्यग्योनिगतान्ज्ञातीन्जात्यन्तरे वर्तमानान्दुष्कृतैरपरुद्धान्दश पूर्वान्दशापरानात्मानं चैकविँ शं पङ्क्तिं च पुनाति न च पुनरावर्तत इत्य्
अथाप्युदाहरन्ति
वैश्वानरीं व्रातपतीम्पवित्रेष्टिं तथैव च ।
ऋतावृतौ प्रयुञ्जानः पुनाति दशपूरुषमिति २

28.3
अथातो नक्षत्रेष्टीर्व्याख्यास्यामोऽग्निर्वा अकामयतान्नादो देवानाँ स्यामिति ता ब्राह्मणेन व्याख्याताः
सा या वैशाख्याः पौर्णमास्याः पुरस्तादमावास्या भवति स सकृत्संवत्सरस्यापभरणीभिः संपद्यते तस्यामारभेतेति
तस्या उपवसथेऽरण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्याजस्रान्वापि वा पौर्णमास्याममावास्यायां वोपपसेद्यस्यां तल्लक्ष्म संपद्यते

तत्रैषोऽत्यन्तप्रदेशो हविरुच्छिष्टव्रतो यजमानो भवतीति विज्ञायतेऽपि वा जन्मनक्षत्रे कुर्यादायुष्कामस्य यावज्जीवं त्र्यवरार्ध्यो वा प्रयोगो जीववन्तावाज्यभागौ यजत्या नो अग्ने सुकेतुना त्वँ सोम महे भगमित्यथ निर्वपत्यग्नये कृत्तिकाभ्यो जुष्टं निर्वपामीत्यग्निं कृत्तिका यजेति संप्रेष्यत्याग्नेयमष्टाकपालमनुमत्यै चरुमिति सर्वत्रानुषजति नक्षत्रहविर्मध्ये
श्रपयित्वासादयति
तस्याः सप्तदश सामिधेन्यः
समिध्यमानां च समिद्धां चान्तरेण श्रीमत्यौ धाय्ये दधाति स्वारुहा यस्य श्रियो दृशेऽदाभ्यः पुरएतेति
रयिमन्तौ पुऋष्तिमन्तावाज्यभागौ यजत्यग्निना रयिमश्नवद्गयस्फानो अमीवहेत्यथ हविषामग्निर्मूर्धा भुवोऽनु नोऽद्यानुमतिरन्विदनुमते त्वमिति संचर्योर्याज्यापुरोऽनुवाक्या

नक्षत्रहविषानग्निर्नः पातु कृत्तिका इति यथासमाम्नातम्
अथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोत्यग्नये स्वाहा कृत्तिकाभ्यः स्वाहेति यथासमाम्नातं स्विष्टवत्यौ संयाज्ये हव्यवाहँ स्विष्टमिति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
विसृजते व्रतम् ३ 28.3

28.4
एवमुत्तरमुत्तरं प्रतितन्त्रमुत्तरौत्तरेऽहनि यजेत
विशेषान्व्याख्यास्यामः
प्रजापतिः सवितेत्युपाँ शु सर्पेभ्य आश्रेषाभ्य आज्ये करम्भमिति
सर्वे यवा भवन्ति
अधिश्रयणकाले तिरः पवित्रमाज्यमानीयाधिश्रित्य तिरः पवित्रं करम्भानावपति
पितृभ्यो मघाभ्यः पुरोडाशँ षट्कपालमिति
पैतृयज्ञिकेन निर्वपणप्रोक्षणाधिवपनसंवपनादीनि व्याख्यातानि भवन्ति
तार्तीयसवनिकेन सौम्येन प्रचरणकल्पो व्याख्यातोऽथैतद्वायवे निष्ट्यायै गृष्ट्यै दुग्धमिति
पयसः प्रातर्दोहवत्सँ स्कार आ विशाखाभ्यामिष्ट्वा तदानीमेव पौर्णमासीमाज्येन यजेताथ श्वो भूते मित्रायानूराधेभ्यश्चरुमित्युत्तराभिरषाढाभिरिष्ट्वा तदानीमेवाभिजिता यजेताथ श्वो भूते विष्णवे श्रोणायै पुरोडाशं त्रिकपालमित्युत्तरेषु प्रोष्ठपदेषु पुरोडाशं भूमिकपालमिति
कपालमात्रं भूमौ परिलिख्याङ्गारमधिवर्तयति
तस्यैककपालवत्सँ स्कार आपभरणीभिरिष्ट्वा तदानीमेवामावास्यामाज्येन यजेताथ श्वो भूते चन्द्र मसे प्रतीदृश्यायै पुरोडाशं पञ्चदशकपालमित्यभिनीयैवाहनि निर्वपेदुदिते चन्द्र मसि प्रचरेत्
ते एतमहोरात्राभ्यां चरुं निरवपतां द्वयानां व्रीहीणां शुक्लानां च कृष्णानां न सवात्योर्दुग्धे श्वेतायै च कृष्णायै चेत्यभिनीयैवाहनि निर्वपेदस्तमिते प्रचरेदपि वा सन्धावेव निर्वपेत्सन्धावेव प्रचरेद्निर्वपेदुषसि प्रचरेदथैतस्मै नक्षत्राय चरुं निर्वपति
यथा त्वं देवानामस्येवमहं मनुष्याणां भूयासमिति निर्वपणकाले यजमानायतन आसीनो यजमानो जपत्य्
अभिनीयैवाहनि निर्वपेदुदितेषु नक्षत्रेषु प्रचरेदथैतँ सूर्याय नक्षत्रेभ्यश्चरुमित्यभिनीयैव रात्रौ निर्वपेदुदिते सूर्ये प्रचरेदथैतमदित्यै चरुमथैतं विष्णवे चरुमिति यजति
यज्ञो वै विष्णुर्यज्ञ एवान्ततः प्रतितिष्ठतीति ब्राह्मणम्वरो दक्षिणा भवतीति विज्ञायतेऽपाघावद्वा
प्रसिद्धः पशुः
पाथिकृत्येष्ट्येष्ट्वा दर्शपूर्णमासाभ्यां यजेत नक्षत्रसत्त्रेण द्युतिरानन्त्याय
ज्योतिषामयनेनेष्ट्वा पापं निर्णुद्य ज्योतिष्ट्वमुपजायतेऽप पुनर्मृत्युं जयतीति ह स्माह बौधायनः ४ 28.4

28.5
नवैरेवामावास्यायां पौर्णमास्यां वा यजेत नवैर्वाग्निहोत्रं जुहुयाद्
अपि वाग्निहोत्रीं वा नवानादयित्वा तस्याः पयसा जुहुयादपि वा नवानां यवाग्वा सायंप्रातरग्निहोत्रं जुहुयादपि वा गार्हपत्ये चतुःशरावमोदनँ श्रपयित्वाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यो जुहुयादपि वा नवैरेव ब्राह्मणान्भोजयेत्
स एष इष्ट्युपचारकल्पो हरितयवशमीधान्यौषधिवनस्पतिमूलफलशाकानामनिष्ट्वाग्रयणं याथाकामी स्यात्पक्तिवैषम्याद्व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेता यवेभ्यो यवैरिष्ट्वा यवैरेव यजेता व्रीहिभ्योऽपि वा व्रीहिभिरेव यवैर्वा यजेत
संतिष्ठन्त आग्रयणानि ५ 28.5

28.6
अथातः पशुप्रायश्चित्तानि व्याख्यास्यामः
स यदि पशुरुपाकृतो वाश्येत यदस्य पारे रजस इत्येताँ हुत्वा नैमित्तिकीं द्वितीयां जुहोति यस्माद्भीषावाशिष्ठास्ततो नो अभयं कृधि ।
प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्रा य मीढुषे स्वाहेति
यस्माद्भीषावेपिष्ठाः पलायिष्ठाः समज्ञास्थाः शकृदकृथार्मूत्रमकृथा इत्येतेषु निमित्तेषु य इदमकस्तस्मै नमस्तस्मै स्वाहेति तृतीयां स यदि निषीदेद्यस्माद्भीषा न्यषद इत्येताँ हुत्वा तं मैत्रावरुणदण्डेनोत्थापयेदन्येनौदुम्बरेण वोर्ग्वा उदुम्बर ऊर्क्पशव ऊर्जैवास्मा ऊर्जं पशूनवरुन्द्ध इति ब्राह्मणम्
उदुस्र तिष्ठेत्युस्रम्
उदश्वेत्यश्वम्
उच्छागेति छागम्
उन्मेषेति मेषम्
उद्वश इति वशां स उ चेत्प्राक्पर्यग्निकरणान्म्रियेत याश्वमेधे प्रायश्चित्तिस्तां कृत्वाथान्यं तद्दैवत्यं तद्वर्णं तद्वयसं तद्रू पं तज्जातीयं पशुमालभेत
तस्योपाकरणादि सर्वमावर्तते निर्मन्थ्य सामिधेनीतच्छेषाघारसंप्रैषसंमार्गप्रवरप्रयाजवर्जम्
अथ यदि तज्जातीयं न विन्देताजावयो गोअश्वा इत्यन्योन्यस्य प्रतिनिधयो भवन्तीति

तेषां छागश्च मेषश्चोपाकरणीयवलाभेऽन्यतममालभेत
त्वाष्ट्रेण प्रचरणकल्पो व्याख्यातोऽथास्य शरीरमप्सु प्रवेशयति न वा उवेतन्म्रियस आशानां त्वा विश्वा आशा इति द्वाभ्याम् ६ 28.6

28.7
अथ यद्यङ्गहीनः पशू रूपतो वर्णतो वाग्नेयीमाग्नावैष्णवीमैन्द्री ं! वायव्यां पाजापत्यामिति च हुत्वा तमेवोपाकुर्यादथ यदि वपामाह्रियमाणाँ श्येनोऽपहरेन्नश्येद्वा पात्र्! याँ हिरण्यमन्तर्धाय चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमान उद्यन्त्सुपर्णो न विभाति सर्वं हिरण्यकुक्षिः सप्तशिराः पुरस्तात् ।
सर्वेषु लोकेषु विभुः प्रविष्टो गातुमस्मिन्यज्ञे यजमानाय विन्द स्वाहेत्यथैतस्यै वपायै स्थाने यत्किंचिन्मेदोरूपमवशिष्टँ स्यात्तदुत्पाट्य तेन प्रचरेद्
अथ यद्येनां पुनर्विन्देत नैनामाद्रि येताथ यदि वपा हविरवदानं वा स्कन्देदा त्वा ददे यशसे वीर्याय चास्मास्वघ्निया यूयं दधाथेन्द्रि यं पय इत्यादाय जुहोति यस्ते द्र प्सो यस्त उदर्षो दैव्यः केतुर्विश्वं भुवनमाविवेश ।
स नः पाह्यरिष्ट्यै स्वाहेत्यथ यद्यसँ स्थिते पशौ शकुनिश्चषाल उपविशेच्चषालं प्रक्षाल्य यूपं प्रोक्ष्य तथैवाज्येन जुहोत्यापवस्व वदस्व वा सोमपीतये गातुमस्मिन्यज्ञे यजमानाय विन्द स्वाहेति ७ 28.7

28.8
अथातश्चातुर्मास्यान्तरालव्रतानि व्याख्यास्यामस्
तस्थैतद्व्रतं नानृतं वदति
न माँ समश्नाति
न स्त्रियमुपैति
नास्य पल्पूलनेन वासः पल्पूलयन्त्यमृन्मयपाय्यशूद्रो च्छिष्टो
स्वयं पादौ प्रक्षालयते
न लवणमश्नाति
न कौशीधान्यमन्यत्र तिलेभ्यो नासन्द्याँ शयीत
न स्त्रियमुपेयात्
काममृतौ जायामुपेयाद्यद्यजातपुत्रः स्यादुभयोः कालयोर्मधुपूर्वं व्रतमुपैति

मध्वश्नातीति ब्राह्मणं घृतमित्येवेदमुक्तं भवति
दैव्यं मध्विति विज्ञायतेऽञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येनेति
नान्यस्योच्छिष्टं भुञ्जीत
नान्यस्यार्त्विज्यं कुर्वीत
नाञ्जीत
नाभ्यञ्जीत
न श्राद्धं भुञ्जीत
न लोमानि वापयीत
न दतो धावते
न नखानि निकृन्तते
कामं पर्वसु केशश्मश्रुलोमनखानि वापयीत
चतुर्षुचतुर्षु मासेषु निवर्तयेतेति ब्राह्मणं संवत्सरादूर्ध्वं दार्शपौर्णमासिकमेव व्रतमुपदिशन्ति तस्य चेद्वैश्वदेवस्य कालो नातीयाद्यद्यतीयादग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठत आमावास्यकालादिति व्याख्याताः
कालातिक्रमेष्वापदि यजेत ८ 28.8

28.9
अथातोऽध्वरदीक्षाप्रायश्चित्तानि व्याख्यास्यामो दीक्षितश्चेदनृतं वदेदिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्न इति चतस्रो वारुणीर्जपेत्
कृष्णाजिनाद्व्यवच्छिन्नो दण्डाद्वा देवाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याशीरवतु । वर्धतां भूतिर्दध्ना घृतेन मुञ्चतु यज्ञो यज्ञपतिमँ हस इति जपेदमेध्यमनिष्टं वा दृष्ट्वा जपतीत्युक्तमेतदभिवृष्टोऽभिवृष्यमाणो वा जपतीत्युक्तमेतद्व्रतयित्वाप आचम्य जपति शिवाः पीता भवथ यूयमापोऽस्माकं योनावुदरे सुशेवाः ।
इरावतीरनमीवा अनागसः स्वस्ति नो भवथ जीवस इति
छर्दयित्वा निष्ठीव्य वा जपति यदत्रापि रसस्य मे निरष्ठविषमस्तृतः ।
अग्निष्टत्सोमः पृथिवी पुनरात्मन्दधातु म इति
रेत स्कन्नमनुमन्त्रयते यन्मे रेतः परीतोषात्तदर्पिथ ।
अग्निहोत्रमिव सोमेन तदहं पुनरादद इति
मूत्रं करिष्यन्पुरीषं वा पृथिव्या लोष्टमादत्त इयं ते यज्ञिया तनूरिति
करोत्यपो मुञ्चामि न प्रजामँ होमुचः स्वाहाकृताः पृथिवीमाविशतेति

लोष्टं प्रतिनिदधाति पृथिव्या संभवेति
बीभत्सा नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेत्यश्रु
कफस्या नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्नूहानं तपस्या नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्वेदं दुःस्वप्नं दृष्ट्वा जपत्यभिपर्वावर्तते दुःस्वप्न पापस्वप्नादभूत्यै ।
ब्रह्माहमन्तर करवै न हि स्वप्नमुपग्रथ इति
स्वप्नेऽन्नं भुक्त्वा जपति यदन्नमद्यते नक्तं न तत्प्रातः क्षुधोऽवति ।
सर्वं तदस्मान्मा हिँ सीन्न हि तद्ददृशे दिवेति
लोहितमुत्पतितं दृष्ट्वा कण्डूय वा जपति नमो रुद्रि याभ्योऽद्भ्यः स्वाहेति
न वर्षति धावेद्यदि धावेद्नमो रुद्रा य वास्तोष्पतय इत्येतामृचं जपेद्नान्येन दीक्षेतेन समेयाद्यदि समेयात्कया नश्चित्र आभुवदित्येतामृचं जपेद्देवयजनादन्यत्राभ्युदितोऽभिनिस्रुक्तो वा सूर्यो मा देवो देवेभ्यः पात्विति जपेदितीन्न्वा इमानि सर्वास्वेवाध्वरदीक्षासु प्रायश्चित्तानि भवन्तीति बौधायन
आवान्तरदीक्षायै विसर्गादिति शालीकिः ९ 28.9

28.10
अथातः सर्वयज्ञानां प्रायश्चित्ता व्याख्यास्यामः
सर्वत्र स्कन्नच्छिन्नभिन्नभग्ननष्टदुष्टविपरीतहीनेषु हविःस्यन्दनास्रावितपतितस्फुटितेष्वद्विजश्वानबिडालकाकखरमृगपशुपक्षिसरीसृपादीनामन्यत्कीटानामृत्विजोऽग्नीनामन्तरागतानां द्वादशगृहीतेन स्रुचं पूरयित्वा दुर्गां मनस्वतीं महाव्याहृतीस्तिस्रो जुहुयाद्जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः ।

स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः स्वाहेति
कार्यविपर्यासे च मन्त्रब्राह्मणमात्रं दर्भेध्माबर्हिःपरिधिविधृतिपवित्रहविःकपालस्रुक्स्रुवारणिकृष्णाजिनप्रणीता-ग्न्युद्वासनेन यत्किंचित्कार्यविपर्यासः स्याद्ये चान्ये चाज्यस्थाल्याः स्रुवेणोपघातं प्रायश्चित्तानि जुहोति प्रजापतये स्वाहा हिरण्यगर्भाय स्वाहेत्यथ पितामहां जुहोति भृगूणां पतये स्वाहाङ्गिरसां तपसे स्वाहेत्यथ महाव्याहृतीर्जुहोति भूरग्नये च पृथिव्यै च महते च स्वाहा भुवो वायवे चान्तरिक्षाय च महते च स्वाहा सुवरादित्याय च दिवे च महते च स्वाहा भूर्भुव सुवश्चन्द्र मसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहेत्यथ व्याहृतीर्जुहोति भूः स्वाहा भुवः स्वाहा सुवः स्वाहा भूर्भुवः सुवः स्वाहेति १० 28.10

28.11
मन्त्रहीनेऽतिरिक्ते वा दुरधीते दुरागते ।
अनागतेऽवषट्कारे अतीते वापि यद्धुते ॥
हविषः स्यन्दनादग्नेर्होतुर्हीनस्वरेण च ।
अतिदाहे च हविषां यत्किंचित्पात्रभेदने ॥
कपालनाशे भेदे च चतुष्पाद्यन्तरागते ।
प्रणाशे च पवित्रस्य आज्यस्यैवावलोडने ॥
हविषां च विपर्यास ऋत्विक्ष्वप्रयतेषु च ।
यज्ञप्रसारणीकाले द्वैधीभावे समुत्थिते ॥
मिन्दाहुती च होतव्ये व्याहृत्यः प्रणवादिकाः ।
वारुण्यस्तन्तुमत्यश्चान्वग्निश्च मनस्वती ॥
महाव्याहृतयः सप्त प्राजापत्या तथैव च ।
प्रसंधानाय यज्ञस्य त्वेते मन्त्राः प्रकीर्तिताः ॥
अप्रायश्चित्तिको यज्ञो ह्यसुरैः संप्रभुज्यते ।
असुरैर्भुक्तयज्ञस्तु देवान्दोषेण सँ श्रयेत ॥

ऋत्विजो यजमानं च आयुषो ब्रह्मवर्चसात्।
प्रच्यावयेद्दुरिष्टं तत्तस्माद्दोषान्प्रणाशयेदिति ११ 28.11

28.12
अथातोऽनुग्रहान्व्याख्यास्यामः
सायँ होमं चोपोदयं जुहुयात्प्रातर्होमं चोपास्तमयं कालेन कालमनतिक्रम्य
कालो दर्शपूर्णमासयोरग्निहोत्रस्य च न स्कन्दते न व्यथत इति विज्ञायत आ प्रातराहुतिकालात्सायमाहुतिकालो नातीयादा सायमाहुतिकालात्प्रातराहुतिकालोऽथ यदि सायं सायं दोषा वस्तोर्नमः स्वाहेत्याहुतिँ हुत्वाग्निहोत्रं जुहुयाद्यदि प्रातः प्रातर्दोषा वस्तोर्नमः स्वाहेत्याहुतिँ हुत्वाग्निहोत्रं जुहुयादथ यदि पूर्वस्यामाहुत्याँ हुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ दारावग्निरिति वदञ्छकले हिरण्यं निधायोत्तरामाहुतिं जुहुयात्

कालातिक्रमेष्वापद्धोम आमावास्यस्य कालात्पौर्णमासस्य कालो नातीयादा पौर्णमासादामावास्यस्या व्रीह्याग्रयणस्य कालाच्छ्यामाकाग्रयणस्य कालो नातीयादा यवाग्रयणस्य कालाद्व्रीह्याग्रयणस्या श्यामाकाग्रयणाद्यवाग्रयणस्या वरुणप्रघासानां कालाद्वैश्वदेवस्य कालो नातीयादा साकमेधेभ्यो वरुणप्रघासाआमा शुणसीर्यात्साकमेधानामा वैश्वदेवाच्छुनासीर्यस्या दक्षिणायनपशोः कालादुत्तरायणपशोः कालो नातीयादोत्तरायणपशोर्दक्षिणायनपशोरोत्तरवसन्तज्योतिष्टोमस्य कालात्पूर्ववसन्तज्योतिष्टोमस्य कालो नातीयात्
समस्तस्य संवत्सरस्या निज्यासुत्या ऋषयो ह स्म तत्प्रयोयुगा आसंस्तेऽर्धमासायार्धमासायाग्निहोत्रमजुहुवुः
प्रतिपदि सायं चतुर्दशगृहीतानि गृह्णाति

सकृदुन्नयते हविरेका समित्
सकृद्धोमः सकृदुपस्थानं सकृत्पाणिनिमार्जनम्
एवं प्रातरथ षण्मासानहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वाग्रयणैश्चातुर्मास्यैः पशुबन्धेन चाग्नये पथिकृतेऽग्नये तन्तुमतेऽग्नये वैश्वानरायाग्नये व्रतपतय इति पुरोडाशान्निरुप्याग्निहोत्रँ हुत्वा दर्शपूर्णमासाभ्यामिष्ट्वाग्रयणैश्चातुर्मास्यैः पशुबन्धेन चाथ संवत्सरमहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वाग्रयणैश्चातुर्मास्यैः पशुबन्धेन चाग्नये पवमानायाग्नये पावकायाग्नये शुचयेऽग्नये पथिकृतेऽग्नये तन्तुमतेऽग्नये वैश्वानरायाग्नये व्रतपतय इति पुरोडाशान्निरुप्याग्निहोत्रँ हुत्वा दर्शपूर्णमासाभ्यामिष्ट्वाग्रयणैश्चातुर्मास्यैः पशुबन्धेन च १२ 28.12

28.13
अथ हविषामर्थे व्रीहियवौ
तयोरलाभे प्रियङ्गवः कोद्र वोदारवरकवर्ज ँ! र्! श्यामाकनीवारवेणुयवास्तरसंपाककन्दमूलफलान्यापः सक्तुमिति
घृतमाज्यार्थे
गव्यमिति प्रत्ययस्

तस्यालाभे माहिषमाजं वा घृतमाज्यार्थे प्रयुञ्जीत
भोजनेष्वविरुद्धं मन्यन्त एके
तयोरलाभे तैलं प्रतिनिधिस्
तस्यालाभे जर्तिलतैलम्
अतसीकुसुम्भसर्षपवार्क्षस्नेहा इति शिष्टप्रामाण्यादत ऊर्ध्वमलाभे यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वाद्भिः सँ सृज्याज्यार्थे प्रयुञ्जीत
कुशा स्तरणार्थे
तेषामलाभे शरमयकुतपाश्ववालमुञ्जसुगन्धितेजनार्जुनादारदूर्वाश्यामाकाः क्षीरवृक्षा इक्षव इत्येतेभ्यः
प्रस्तरबर्हिर्विधृतिपवित्रयूपरशनाशालाकपरिस्तरणान्तर्धानासनशयनस्तोत्रोपाकरणार्थाः कार्याः सर्वतृणेभ्यो वा शुष्कशुण्ठिनलबल्बजकृष्णतूलतृणवर्जम्पालाशः खादिरो वेध्मस्तयोरलाभे याज्ञिकानां वा वृक्षाणामन्यतमस्तेषामलाभेऽररुकपित्थकोविदारशल्मलिश्लेष्मातकनीपनिम्बतिलकवाधकविभीतकराजवृक्षकरञ्जपलाण्डुवर्जं
सर्ववनस्पतीनामिध्मो भवतीत्येके
दक्षिणानां काले गौर्हिरण्यं वासस्
तेषामलाभे फलानां मूलानां भक्ष्याणां दद्याद्न त्वेव न यजेत
नित्यं नित्येषु युक्तः स्यात्तथैवाजस्रिकेषु च ।
यस्य नित्यानि लुप्तानि तथैवाजस्रिकाणि च ॥
विपथस्थो न स स्वर्गं गच्छते पतितो हि सः ।
तस्मान्मूलैः फलैर्वापि मधुना तरसेन वा ।
नित्यं नित्यानि कुर्वीत न च नित्यानि लोपयेत्॥
न च नित्यानि लोपयेदिति १३ 28.13