सामग्री पर जाएँ

बौधायनश्रौतसूत्रम्/प्रश्नः २५

विकिस्रोतः तः

25.1
कथमु खल्व्यावज्जीवप्रयुक्तानां चातुर्मास्यानामनुप्रयोगो भवतीति
फाल्गुन्यां वा चैत्र्! यां वा पौर्णमास्याँ शुनासीरीयपरुषा यजेताथ वैश्वदेवायोपवसेद्वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेताथ चेदिष्ट्या पशुना सोमेन वा यजेत कथं तत्र कुर्यादिति
प्रतिकृष्यैतस्य पक्षस्य शुनासीरीयपरुषा यजेताथैतेषामेकेन यजेताथ वैश्वदेवायोपवसेद्वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेतेति
यथो एतद्बौधायनस्य कल्पं वेदयन्ते यावज्जीवप्रयुक्तान्येव चातुर्मास्यानि स्युरन्तर्मिथुनानि
प्रथमे त्वेव संवत्सरे व्रतं चरेदिति कथमत्रेष्टिपशुबन्धा इति
काममिष्ट्या कामं पशुबन्धेनेति
क्व उ खलु चातुर्मास्यानि समासं गच्छन्तीति
राजसूये च चातुर्मास्येषु च सोमेष्वित्येव ब्रूयादथाप्युदाहरन्ति द्वादशाहेऽपि चातुर्मास्यैर्यजेत
वैश्वदेवेनेष्ट्वा चतुर्थ्यां वरुणप्रघासैरष्टम्यां च नवम्यां च साकमेधैर्द्वादश्याँ शुनासीरीयपरुषा यजेतेति
विज्ञायते संवत्सरप्रतिमा वै द्वादशरात्रयो भवन्तीति
त्रिवृद्बर्हिर्भवतीति
तूष्णीकानि हान्तराणि भवन्तीति मन्त्रवदुहबाह्यम्
एतदेव सदन्यत्रेष्टिसंनिपाते विपरीतं भवतीति
क्व उ खलु करम्भपात्राणि प्रथमं मन्त्रं लभन्त इति

प्रोक्षण इत्येव ब्रूयात्
सह हविर्भिः करम्भपात्राण्यभिपर्यग्निकुर्यात्
किंदेवत्यानि नु खलु करम्भपात्राणि भवन्तीति
वारुणानीत्येव ब्रूयाद्विज्ञायतेऽन्यमेव वरुणमवयजत इत्यस्तं प्रेत सुदानव इति गृहान्प्रेक्षेतेत्येवेदमुक्तं भवति
तौ व्यतिचारँ स्तम्बयजुषी हरेयातामितश्चामुतश्च यन्तं प्रतिप्रस्थाताध्वर्युं परिगृह्णीयात्
सहनिरुप्तस्य प्रतिप्रस्थातापो निःषिच्याध्वर्योराज्यस्य वाचयेदथेध्मयोरतिप्रणयनादादायाध्वर्युः स्वमिध्ममपक्रम्यैव तिष्ठति १

25.2
अथायं प्रतिप्रस्थातान्तरेणेध्मं चाहवनीयं चोपातीत्य स्वमिध्ममाददीत
तावपसलैः पर्यावृत्येध्मौ हरेयाताम्
अथामुतः प्रदक्षिणमाऋत्येध्मौ प्रतिष्ठाप्यैतेनैव यथेतमेत्य प्रतिनिर्वेष्टयते प्रतिप्रस्थातान्तरेण वेदी प्राचीनमुपयमनीहारोऽथेमा अध्वर्योः प्रोक्षण्यो दक्षिणेन प्रतिप्रस्थातारं परिगृह्यासादयेदेवमेताभिरनभिपरिहृतो भवत्यथेयं मारुती दक्षिणां वेदिं गच्छति सप्तमी हविषामधिश्रीयते
कथमेतयाव्यवेतानि भवन्तीति
प्रतिकृष्यैनामग्रेण दक्षिणेन हवीँ ष्यनभिघारितामुद्वासयेदथैनां पुनरधिश्रित्याभिघारितामुद्वास्यान्तर्वेद्यासादयेदेवमेतान्यव्यवेतानि भवन्त्यथायं प्रतिप्रस्थाता मारुत्यै दैवतस्य सकृदेवानुवाचयेत्सकृदाश्रावयेदथान्यत्राध्वर्योः कृतानुकारो भवतीति
तद्यदिहाश्रावयतीह यजतीति तत्प्रतिप्रस्थाता कृतानुकार एव भवत्यथेदं मारुत्यै मेक्षणमग्रेणौत्तरवेदिकमग्निं परिगृह्यानुप्रहरेद्यथो एतदौपमन्यवस्य कल्पं वेदयन्ते तुषैश्च निष्कासेन चावभृथमवेयादिति दैवतं प्रदाय स्विष्टकृतं प्रयच्छेत्तुषान्संप्रकीर्योदकान्तं प्रत्यस्येत्

सिद्धमत ऊर्ध्वम्
अथायं गृहमेधीय आज्यभागप्रतिपत्केडान्तः संतिष्ठते
तत्र नास्ति प्राशित्रं तूष्णीँ समक्ताञ्छाकलान्परिधीनग्नावनुप्रहरेदभिवान्यायामविद्यमानायाँ संधिनीक्षीरं दोहयेदिति २

25.3
अथायं महापितृयज्ञस्
तस्य कः कर्मण उपक्रमो भवतीति
बर्हिर्यजुषा कुर्याद्देवानां पितृणां परिषूतमसि देवपितृबर्हिर्मा त्वान्वङ्मा तिरक्पर्व ते राध्यासमित्यपहतोऽररुः पृथिव्यै देवपितृयजन्या इत्यपहतोऽररुः पृथिव्या अदेवपितृयजन इत्येवमेतेष्वधिकरणेषु कुर्याद्यत्र देवाश्च पितरश्च संनिगच्छेयुः
पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेद्ब्रह्माणं दक्षिणत उपवेश्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हपत्यँ स्फ्यं निदध्यात्
स्फ्योपरि पात्रीम्पात्र्! यां व्रीहीनावपेद्शूर्पादानप्रभृति कर्मान्तस्तायत आप्यान्तो जघनेन गार्हपत्यमाप्येभ्यो निनयेद्विपरिक्रामन्त्येत ऋत्विजोऽध्वर्युरनन्तरोऽग्नेः स्यादथ यजमानोऽथ ब्रह्माथाग्नीध्रोऽपि वाग्नीध्र एवानन्तरोऽग्नेः स्यादथ यजमानोऽथ ब्रह्माथाध्वर्युर्
विपरिहरन्ति हवीँ ष्यग्रेण पुरोडाशं धाना जघनेन धानाः करम्भमित्येवं विपरिहृतानामेवैतेषाँ हविषामेकैकमुद्वासयेत्
क्व उ खलु त्रैयम्बका निरुप्यन्त इत्युद्वास्य हवीँ षि रुद्रा याम्बिकायै जुष्टं निर्वपामीति यस्य मन्त्रवन्तः
कायेति कायं निर्वपेत्
कायानुब्रूहीत्यनुब्रूयात्
कं यजेति यजेत्
क्व उ खलु त्रैयम्बकाणाँ सौविष्टकृतं भवतीति
यदेवातो मूत आसजतीत्यसमुदित ऋषभं ददातीति
महाहविषामेवैषोऽसमुदिते दातव्यो भवति
सर्वमेव याजमानं पितृयज्ञ उत्सीदेत्पशुबन्धे सौम्येऽध्वरेऽन्यत्रतत्रोत्पत्तिवचनात्
सर्व एवाग्निर्याजमानोऽग्निचये सर्वमेवाग्न्याधेयच्छन्दो याजमानमग्न्याधेये ३

25.4
अग्निष्टोमेन यक्ष्यमाणः प्रज्यमात्मानं कुर्वीत
येनास्याकुशलँ स्यात्तेन कुशलं कुर्वीत
यान्यृणान्युत्थितकालानि स्युस्तानि व्यवहरेदनुज्ञापयीत वा
स पुरस्तादेवोपकल्पयते प्रभूतं ऋणवँ शं पश्वाज्यँ स्थाल्यमत्रं कुम्बं च कुरीरं चेति

विदलमु ह कुम्बं भवति जालमु कुरीरं द्वादशशतं दक्षिणानाम्विज्ञायते छन्दोगब्राह्मणं वीरहा वा एष देवानां यः सोममभिषुणोतीति
शतेन वीरं निरवदयते
दशभिर्दश प्राणान्यैकादशी तयात्मानं यैव द्वादशी सा दक्षिणेत्यथ हैक एकविँ शतिदक्षिणेन यजन्त एकविँ शं यज्ञायज्ञियमिति वदन्तोऽथ हैके सप्तगुना यजन्ते सोमक्रयण्यतिथिगव्यनूबन्ध्याश्चतस्रो मध्यतस्
तदपि दाशतये विज्ञायते प्र सप्तगुमृतधीतिं सुमेधामिति ४

25.5
अथातो देवयजनकल्पः
स एतद्देवयजनकल्पं जोषयते पुरस्तादुदकमनूषरमनुपहितमविसृग्दार्यनिरिणमसुषिरमभङ्गुरमवल्मीकं बहुलौषधि यत्रान्याअन्या ओषधयो व्यतिषक्ताः स्युः प्रागुदक्प्रवणं यथा चात्वालसारिणीरापः स्युर्नातिप्रवणं यस्मादन्यत्पुरस्तात्समन्तिकं देवयजनं न विन्देयुस्

तदेतां प्राचीनवँ शाँ शालां मापयन्ति
कृत्तिकाः खल्विमाः प्राचीं दिशं न परिजहति
तासाँ संदर्शनेन मापयेदित्येतदेकं श्रोणासंदर्शनेन मापयेदित्येतदेकं चित्रास्वात्योरन्तरेणेत्येतदपरं दिक्ष्वतीकाशा भवतीति
द्वार्भिरेवैषा दिक्ष्वतीकाशा भवत्यथाप्युदाहरन्ति वँ शानामेवातीकाशान्कुर्यादिति
द्वौ स्तोमौ प्रातःसवनं वहत इति
त्रिवृत्पञ्चदशौ प्रातःसवनं वहतः
पञ्चदशसप्तदशौ माध्यन्दिनँ सवनं सप्तदशैकविँ शौ तृतीयसवनम्
एष एव सँ श्चतुष्टोमो भवति
द्वादश हि स्तोत्राणि भवन्ति
यथो एतदौपमन्यवस्य कल्पं वेदयन्ते पुरस्तादेवैतत्त्रैविध्यगतेषु देवयजनमध्यवस्येद्विज्ञायते सा वा इयँ सर्वैव वेदिरिति ५

अथेममाग्नावैष्णवमेके प्रागप्सुदीक्षायै ब्रुवत उपरिष्टाद्वा

क्व उ खलु दीक्षणीयायै बर्हिर्यजुषा कुर्यादिति व्युपनिधाय संभारान्प्राक्पाणिसंमर्शनाद्न यजमानं व्रतमुपनयति न पत्नीँ संनह्यतीत्यध्वरदीक्षायै व्रतं प्रणुदते
सर्वैवैषा व्रतोपायनीया भवतीष्टिरग्रमु पत्नीसंनहनं न यजमानभागं करोति न ब्रह्मभागमित्याशीःसंयोजनावेवैतावुक्तौ भवतः
किमुपक्रममाणो यज्ञमाशिषं वदेदित्यथापि सुभिक्षो व्रतोपायनीयस्य भवतीति
कस्मै किँ सुभिक्षायावद्येद्यजमानभागस्य खलूत्सादनाद्ब्रह्मभाग उत्सीदति
संयुक्तौ ह्येतौ यजमानभागब्रह्मभागाविति
न बर्हिषदं पुरोडाशं करोति नान्वाहार्यं याचतीति
दक्षिणोक्तावेवैतावुक्तौ भवतोऽन्या उ खल्विह दक्षिणाः प्रतिख्याता भवन्ति
न फलीकरणहोमेन चरति न समिष्टयजुर्जुहोतीत्यन्तपरिक्रमिणावेवैतावुक्तौ भवतः
किमुपक्रममाणो यज्ञमन्तं परिणयेदिति
न पूर्णपात्रे यजमानं वाचयति न विष्णुक्रमान्क्रमत इत्यवभृथोक्तः खलु पूर्णपात्रो भवत्य्
अन्यः खल्विहावभृथः प्रतिख्यातो भवत्यन्तपरिक्रमिणो विष्णुक्रमाः
किमुपक्रममाणो यज्ञमन्तं परिणयेदिति ६

25.6
द्वादश वात्सबन्धान्युदयच्छन्निति
कतमानि खल्विमानि वात्सबन्धानि भवन्तीत्येता एव स्रुवाहुतीरन्यत्र स्वाहाकारादित्यथाप्युदाहरन्ति समानसंख्यानोऽग्निरृचि तिस्रो देवतास्तानि द्वादशाथेदं कृष्णाजिनं नौरुक्तं भवत्याच्य जान्वेतत्पार्श्वत एवाभिसर्पेद्दक्षिणं प्रति रन्ध्रं यथा नावं नक्तं चेदमेध्यं पश्येदाहवनीयमेवैतेन यजुषोपतिष्ठेताथेमानि दैक्षाणि व्रतानि सायमुपक्रमाणि प्रातरपवर्गाण्यथौपसदानि प्रातरुपक्रमाणि सायमपवर्गाण्यथेदं दैक्षं व्रतं परिश्रित्यैव व्रतयेदाहवनीय एवैतत्पुराग्निहोत्रँ हूयते स मानुष्यास्यतीति ७

25.8
अथायं प्रायणीयस्
तस्य कः कर्मण उपक्रमो भवतीति
बर्हिर्यजुषा कुर्याद्यदि पुरस्तादयजुष्कृतँ स्यात्
पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेद्ब्रह्माणं दक्षिणत उपवेश्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हप्तयँ स्फ्यं निदध्यात्
स्फ्योपरि पात्रीम्पात्र्! यां व्रीहीनावपेद्शूर्पादानप्रभृति कर्मान्तस्तायत आ प्रस्कन्दनात्
प्रस्कन्दनान्तं कर्म कृत्वाहवनीये स्रुवाहुतिँ हुत्वोपनिष्क्रम्य संप्रैषमुक्त्वाभिप्रपद्य तिरः पवित्रमप आनीयाधिश्रित्य तिरः पवित्रं तण्डुलानावपेदथाज्यं निर्वपेदथाज्यमधिश्रयेदुभयं पर्यग्नि कृत्वा स्फ्यहस्तः प्राङेत्य स्तम्बयजुर्हरेत्
सिद्धमत ऊर्ध्वं शंय्वन्तः प्रायणीयः संतिष्ठते
को नु खल्वस्य कर्मणोऽवशेषो भवतीत्या स्रुचां विमोकाद्न चरुहविषामाप्यनिनयनं विद्यत इति
स्थालीभिश्चैव चरुं निर्वपेदिति नु बौधायनस्य कल्पः
किंदेवत्या उ खलु पदाहुतिर्भवतीत्याग्नेयीत्येके
वैष्णवीत्येके
प्राजापत्येत्येके
वाग्देवत्येत्येव ब्रूयात्
कृष्णयोर्णास्तुकया सोमविक्रयिणमन्तरेण भ्रूमके विध्यति
राजानं प्रत्यपोर्णुते यजमानः ८

25.9
वयः सुपर्णा उपसेदुरिन्द्र मित्येतयाथ यदि न सोमविक्रयी स्यादग्रेण यूपावटकालं पलाशशाखां निहत्य समुपनह्य राजानं पलाशशाखायाँ समासज्योपासीताथ यदि कश्चित्प्रसवसंयुक्तं व्याहरेत्क्षिप्रमिति वा त्वरध्वमिति वा कुरुतेति वा तद्रा जानमाददीत
न संवादा आवर्तेरन्
स सोमविक्रयी स्यादथेयं प्रथमा सुब्रह्मण्यॐकारान्तैवैषोक्ता भवत्यथायमातिथ्यस्
तस्य कः कर्मण उपक्रमो भवतीति
बर्हिर्यजुषा कुर्याद्यदि पुरस्तादयजुष्कृतँ स्यात्
पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेद्ब्रह्माणं दक्षिणत उपवेश्य दक्षिणमनड्वाहं विमुच्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हपत्यँ स्फ्यं निदध्यात्
स्फोपरि पात्रीम्पात्र्! यां व्रीहीनावपेद्शूर्पादानप्रभृति कर्मान्तस्तायत आ प्रस्कन्दनात्
प्रस्कन्दनान्तं कर्म कृत्वोत्तरमनड्वाहं विमुच्य राजानं प्रपादयेत्
सिद्धमत्राग्निष्टोमिकं कर्म जानीयादा संप्रैषात्
कृष्णाजिनावधवनेनैवातिथ्यं प्रतिपद्यते
सिद्धमत ऊर्ध्वम् ९

25.10
स दर्भपुञ्जीलमुद्वृह्येति
कतरन्नु खल्विदं दर्भपुञ्जीलं भवतीति
यदेवैतद्गोदानयोर्निदधातीति
सप्त गिरीन्भित्त्वेति
कतमे नु खल्विमे गिरयो भवन्तीति
प्रयाजानूयाजा एवैता उक्ता भवन्तीति दीक्षणीयायाः प्रायणीयाया आतिथ्याया अग्नीषोमीयस्येत्य्
अथाप्युदाहरन्ति दीक्षणीया प्रायणीयातिथ्योपसदोऽग्नीषोमीयः सप्तम इति
यज्ञो देवेभ्यो निलायतेति
कतमो नु खल्वयं यज्ञो भवतीति
य एवैष इडान्त आतिथ्यः संतिष्ठते
तं देवा हस्तान्सँ रभ्यैच्छन्निति
यदेवैतत्तानूनप्त्रँ समवमृशन्तीति
तमिन्द्र उपर्युपर्यत्यक्रामदिति
यदेवैतदुपसद्भिश्चरन्तीति
तमेभ्यो यज्ञ एव यज्ञमाहरदिति
कतमो नु खल्वयं यज्ञो यज्ञमाहरदिति
दीक्षणीया प्रायणीयातिथ्यैष एव यज्ञो यज्ञमाहरदिति
वराहोऽयं वाममोष इति
सुत्यमह्नां वर्षिष्ठं तद्यजमानं वामं वसु मुष्णातीति
के नु खल्वातिथ्यस्यानूयाजा भवन्तीत्युपसद इत्येव ब्रूयात्
किंदेवत्या उ खलूपसदो भवन्तीत्याग्नेय्य इत्येव ब्रूयात्
कथमु खलूपसदामुपक्रमो भवतीति
बर्हिर्यजुषा कुर्याद्यदि पुरस्तादयजुष्कृतँ स्यात्
पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेद्मदन्तीः सँ स्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्या पर्यग्नि कृत्वा स्फ्यहस्तः प्राङेत्य स्तम्बयजुर्हरेत्
सिद्धमत ऊर्ध्वं यथा प्रकृत्यामेवं प्रथमायामुपसदि स्रुचः सादयेद्
अभ्यूढा द्वितीयस्यामभ्यूढतरास्तृतीयस्यां संत्वरमाणा इवोपसद्भिः प्रचरेयुर्नाकृतमाद्रि येरन्
समग्राङ्गुलिः स्रुवमादायास्यन्निवोपसदं जुहुयादिति १०

25.11
क्व उ खल्वग्नीषोमीयस्य बर्हिर्यजुषा कुर्यादित्युद्वास्य प्रवर्ग्यं प्रागाहवनीयस्य प्रणयनात्
सवनीयेभ्यश्च वत्सानुपाकुर्याद्व्यवच्छिन्न आहवनीये गार्हपत्ये पदतृतीयमुपवपेदेवमुपयमनीष्वथेयमौदुम्बरी स्थूणा यजमानेन संमिता कार्या भवत्यथायं यूपो यजमानस्यारत्निभिर्विमितो भवति
सहोपर इत्येकेऽत्रो हैवैतानि कुर्याद्यूपावटं तु परिलिख्य पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेत्
प्रोक्षणीः सँ स्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्रुचः संमार्ष्टि
ता उत्तरवेदिँ हरन्ति प्रोक्षणीश्चाथ प्रतिप्रस्थाता पत्नीमभिसंनह्येत्पौरोडाशिकेनाथैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्
पत्न्या तदवेक्षितमुपयच्छीत तेजोऽसीत्यथैनच्छकलेनोपयत्य हरेत्तेजोऽनु प्रेहीत्यथैनदाहवनीयेऽधिश्रयेदग्निस्ते तेजो मा विनैदित्यथैनद्धृत्वोत्तरेण प्रोक्षणीः सादयित्वावेक्षेतोत्पुनुयादाज्यवतीभ्यां प्रोक्षणीः
प्रसिद्धमाहवनीयसकाशे पृषदाज्यवन्त्याज्यानि गृह्णीतेति
सिद्धमत ऊर्ध्वं यथो एतच्छालीकेः कल्पं वेदयन्ते पत्नीशाल एवाग्नीषोमस्याज्यानि गृह्णीयात्तानि खरे सादयेदिति
समन्वानीय वासमन्वानीय वा पुराणगार्हपत्यं पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेत्
प्रोक्षणीः सँ स्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्रुचः संमार्ष्टि
ता अत्रैव सह सँ सादयन्ति प्रोक्षणीश्च
न प्रतिप्रस्थाता पत्नीमभिसंनह्येत्पौरोडाशिकेन
नैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्
पत्न्या तदवेक्षितमुपयच्छीत तेजोऽसीत्यथैनच्छकलेनोपयत्य हरेत्तेजोऽनु प्रेहीत्यथैनद्गार्हपत्येऽधिश्रयेदग्निस्ते तेजो मा विनैदित्यथैनद्धृत्वोत्तरेण् प्रोक्षणीः सादयित्वावेक्षेतोत्पुनुयादाज्यवतीभ्यां प्रोक्षणीः प्रसिद्धं गार्हपत्यसकाशे पृषदाज्यवन्त्याज्यानि गृहीत्वा ११

25.12
परिक्रमिभ्य उत्प्रदाय ब्रह्मणे राजानमुत्प्रयच्छेत्
संप्रच्छन्नेषु स्रुवाहुती जुहुयात्
संप्रच्छन्नाश्चैव गच्छेयुराहवनीयाद्रा जा दक्षिणार्ध्यः स्यादथाग्निरथ ग्रावोवायव्यान्युत्तरार्ध्यान्याज्यान्यपि वाग्निर्दक्षिणार्ध्यः स्यादथ राजाथ ग्रावोवायव्यान्युत्तरार्ध्यान्येवाज्यानि
पूर्वया द्वारोपनिष्क्रम्योत्तरेण सदः परीत्याग्नीध्रागारेऽग्निं निधायाभिहुत्य प्रोक्षणीहस्त उत्तरेणाग्नीध्रीयं धिष्णियं प्रतिपद्यतेऽन्वञ्च आज्यैराहवनीये हुत्वेध्मं प्रोक्ष्य वेदिं प्रोक्ष्य बर्हिः प्रोक्ष्य बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृहीत्वा पञ्चविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मयमयान्परिधीन्परिधायोर्ध्वे समिधावभ्याधाय बर्हिर्मुष्टिं विधृती प्रस्तरमित्येतत्समादाय प्रदक्षिणमावृत्य पूर्वया द्वारा हविर्धानं प्रपद्योत्तरार्धे खरस्य बर्हिर्मुष्टिँ स्तृणीयाद्बर्हिषि विधृती
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्याप उपस्पृश्य ब्रह्मणो राजानमादाय पूर्वया द्वारा हविर्धानं प्रपादयेदात्मानमभिपरिहरमाण इव

सिद्धमत ऊर्ध्वम् १२

25.13
क्व उ खलु शिल्पवदिध्माबर्हिरपवर्गं गच्छतीत्यग्नीषोमीय इत्येव ब्रूयात्
क्व उ खल्वग्नीषोमीयः सुत्यमहरनुसमेतीति
सद्यस्क्रियामित्येव ब्रूयात्
क्व उ खलु प्रवर्ग्यः सुत्यमहरनुसमेतीति
सद्यस्क्रियामित्येव ब्रूयात्
का उ खलु देवता सुब्रह्मण्या प्रथमाहूयत इति
वागेव वाचमाह्वयतीति
क्व उ खलु पितापुत्रीया सुब्रह्मण्या प्रथमाहूयत इत्यग्नीषोमीयस्य हुतायां वपायां परिहृतासु वसतीवरीषु द्वितीया
प्रातरनुवाके तृतीया
दक्षिणानामु ह काल एक आह्वयन्तीत्यथ यो वीडितः कुम्भस्तं याचतीति दृढ इत्येवेदमुक्तं भवति
पयश्च सक्तूँ श्च कुरुतेति श्रयणार्थे एवैते उक्ते भवतश्चतस्रो रशनाश्चतस्रो वपाश्रपणीर्द्वयमिध्माबर्हिरिति सवनीयस्य चानूबन्ध्यस्य चैतानि भवन्ति
काश्चतस्र स्थालीर्वायव्याः सोमग्रहणीरित्यादित्यस्थाल्युक्थ्यस्थाल्याग्रयणस्थाली ध्रुवस्थालीत्यथेमानि द्वादशोर्ध्वपात्राणि भवन्ति दधिग्रहपात्रमपाँ श्वन्तर्यामयोर्द्विदेवत्यानाँ शुक्रामन्थिनोरृतुपात्रे आदित्यस्थाल्या औपशयं पात्रमुक्थ्यस्थाल्या औपशयं पात्रम्

अथेम एकादश चमसा भवन्ति यजमानस्य ब्रह्मणो होतुरुद्गातुर्मैत्रावरुणस्य ब्राह्मणाच्छँ सिनोऽच्छावाकस्य सदस्यस्याग्नीधः पोतुर्नेष्टुरिति
तेषां त्सरूणि सरूपाणि कारयेन्नैयग्रोधानाम्विज्ञायत उत्तरस्यां ततौ यदत्सरुकैश्चमसैर्भक्षयन्ति न्यग्रोधचमसैरित्येतस्मान्नैयग्रोधा एव भवन्ति
रश्मिश्च म इत्यदाभ्य एवैष उक्तो भवत्यधिपतिश्च म इति प्राजापत्य एष दधिग्रहो भवति
सारस्वतश्च मे पौष्णश्च म इति वसतीवरीरित्येक आहुरथ हैक आहू राजसूयिक एष महाग्रहो भवति
पोषणादु ह पौष्णो भवति ग्रहणादु सारस्वत इति १३

25.14
अथेदं महारात्रिकं कर्म
तस्य कः कर्मण उपक्रमो भवतीति
हस्तपादान्प्रक्षाल्यान्तरेण चात्वालोत्करौ देवयजनमभि प्रपद्यन्ते
तेषां यथासंप्रैषं विहितानि कर्माणि भवन्त्यथाध्वर्युराग्नेय्यर्चाग्नीध्रमभिमृशेद्वैष्णव्या हविर्धानमित्यथैष आग्नीध्रः पूर्वः पत्नीशालं द्रुत्वाग्नीनुपसमाधाय संपरिस्तीर्य पात्राणि निर्णिज्य सँ साद्याज्यं विलाप्योपास्तेऽपरः प्रतिप्रस्थाता प्रोक्षणीः सँ स्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्रुचः संमार्ष्टि
ता उत्तरवेदिँ हरन्ति प्रोक्षणीश्चाथाध्वर्युराग्नेय्यर्चा स्रुचोऽभिमृशति
संमृष्टानि द्विधा पात्राण्यभिम्रक्ष्यन्त इति
वायव्यया वायव्यान्यैन्द्र् या सदोऽथैष उन्नेता ग्रावोवायव्यँ संप्रक्षाल्य द्रो णकलशे दशापवित्रे समवधाय दक्षिणस्य हविर्धानस्य पुरोऽक्षँ सँ सादयत्युपकल्पयते प्रतिप्रस्थाता पृषदाज्याय दध्याग्नीध्र इध्माबर्हिरुपसादयत्यथ प्रतिप्रस्थाता पत्नीमभिसंनह्येत्पौरोडाशिकेनाथैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्
पत्न्या तदेवेक्षितमुपयच्छीत तेजोऽसीत्यथैनच्छशलेनोपयत्य हरेत्तेजोऽनु प्रेहीत्यथैनदाहवनीयेऽधिश्रयेदग्निस्ते तेजो मा विनैदित्यथैनद्धृत्वोत्तरेण प्रोक्षणीः सादयित्वावेक्षेतोत्पुनुयादाज्यवतीभ्यां प्रोक्षणीः प्रसिद्धमाहवनीयसकाशे पृषदाज्यवन्त्याज्यानि गृह्णीते सिद्धमत ऊर्ध्वम् १४

25.15
अथ शालीकेरेवमेवैषां यथासंप्रैषं विहितानि कर्माणि भवन्त्यथाध्वर्युराग्नेय्यर्चाग्नीध्रमभिमृशेद्वैष्णव्या हविर्धानमित्यथोपरमत्यथैष आग्नीध्रः पूर्वः पत्नीशालं द्रुत्वाग्निमुपसमाधाया संपरिस्तीर्य पात्राणि निर्णिज्य सँ साद्याज्यं विलाप्योपास्तेऽपरः प्रतिप्रस्थाता प्रोक्षणीः सँ स्कृत्य पात्राणि प्रोक्षेदाज्यं निरुपयाधिश्रित्य पर्यग्नि कृत्वा स्रुचः संमार्ष्टि
ता आग्नीध्रँ हरन्ति प्रोक्षणीश्चाथाध्वर्युराग्नेय्यर्चा स्रुचोऽभिमृशति
संमृष्टानि द्विधा पात्राण्यभिम्रक्ष्यन्त इति
वायव्यया वायव्यान्यैन्द्र् या सदोऽथैष उन्नेता ग्रावोवायव्यँ संप्रक्षाल्य द्रो णकलशे दशापवित्रे समवधाय दक्षिणस्य हविर्धानस्य पुरोऽक्षँ सँ सादयत्युपकल्पयते प्रतिप्रस्थाता पृषदाज्याय दध्याग्नीध्र इध्माबर्हिरुपसादयति
न प्रतिप्रस्थाता पत्नीमभिसंनह्येत्पौरोडाशिकेन
नैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्
पत्न्या तदवेक्षितमुपयच्छीत तेजोऽसीत्यथैनच्छकलेनोपयत्य हरेत्तेजोऽनु प्रेहीत्य्
अथैनदाग्नीध्रीयेऽधिश्रयेदग्निस्ते तेजो मा विनैदित्यथैनद्धृत्वोत्तरेण प्रोक्षणीः सादयित्वावेक्षेतोत्पुनुयादाज्यवतीभ्यां प्रोक्षणीः
प्रसिद्धमाग्नीध्रीयसकाशे पृषदाज्यवन्त्याज्यानि गृहीत्वा परिकर्मिभ्य उत्प्रदाय प्रोक्षणीहस्त उत्तरेणाग्नीध्रीयं धिष्णियं प्रतिपद्यतेऽन्वञ्च आज्यैरथेध्मं प्रोक्ष्य वेदिं प्रोक्ष्य बर्हिः प्रोक्ष्य बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तात्प्रस्तरं गृहीत्वैकविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्यौदुम्बरान्परिधीन्परिधायोर्ध्वे समिधावभ्याधाय बर्हिर्मुष्टिं विधृती प्रस्तरमित्येतत्समादाय प्रदक्षिणमावृत्य पूर्वया द्वारा हविर्धानं प्रपद्योत्तरार्धे खरस्य बर्हिर्मुष्टिँ स्तृणीयाद्बर्हिषि विधृती
विधृत्योः प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्य योगेन युनक्ति
सिद्धमत ऊर्ध्वम् १५

25.16
किमग्निहोत्रो दीक्षितः किमौपसदः किम्प्रसुत इति
विज्ञायते व्रतमेव दीक्षितस्याग्निहोत्रो घर्मोच्छिष्टमौपसदस्योपाँ श्वन्तर्यामौ प्रसुतस्य
यो हानुदिते स सायमग्निहोत्रभक्तिर्य उदिते स प्रातरग्निहोत्रभक्तिः
किंदर्शपूर्णमास इति

विज्ञायते पौर्णमासं यज्ञमग्नीषोमीयं पशुमकुर्वत दार्शं यज्ञमाग्नेयं पशुमकुर्वतेति
यथो एतदौपमन्यवस्य कल्पं वेदयन्ते प्रातःसवन एव सर्वेभ्यः सवनेभ्यः सवनीयान्निर्वपेत्सकृदुपहितान्येव कपालानि स्युरा समभिवासनात्सँ सृष्टं कर्म तायते
तेषामेकैकमुद्वासयेदनुसवनं येनयेन प्रचरिष्यन्स्यादपि वा व्यभिमृष्टानां पिण्डानां परिशाययीतेतरयोः सवनयोर्यद्येककपालश्चिकीर्षितः स्यात्प्रातःसवनिकैरेव वर्तयेत्कृतान्तात्पौरोडाशिकं कर्म प्रत्याददीतेतरयोः सवनयोरनुसवनमङ्गाराध्यूहनेनैव कपालेषु प्रतिपद्येत
सिद्धमत ऊर्ध्वम् १६

25.17
यथो एतद्बौधायनस्य कल्पं वेदयन्त उभयतःशुक्रा आदित्यवतीर्वसतीवरीर्गृह्णीयात्ताः शुक्रास्ताभिराप्याययेत्ताभिरभिषुणुयादित्युपर्यर्धँ होतृचमसं कृत्वेत्येतेनैवापि तृतीयेन वर्तयेत्
त्रयीरपः पूर्वया द्वारा हविर्धानं प्रपादयेद्धोतृचमसीया वसतीवरीया मैत्रावरुणचमसीया इति दक्षिणेन होतारं परिगृह्यापरया द्वारैकधनान्
एतस्मिँ श्च काले सर्वश एव मैत्रावरुणचमसीयाः पर्यस्येत्तृतीयं वसतीवरीणामवनयेत्तृतीयमेकधनानाम्

एवमस्य प्राक्केवलः शुक्रो भवति
सोमग्रहं गृह्णीयाद्ब्रह्मवर्चसकामस्येत्यनिरुप्तस्यैवैष राज्ञो ग्रहीतव्यो भवति
का उ खलु देवताः प्रथमँ सोमं भक्षयन्तीत्याप इत्येव ब्रूयाद्विज्ञायत पहूताः सोमस्य पिबतोपहूतो युष्माकँ सोमः पिबत्विति

क्व उ खलु सोमस्य सोमपीथो भवतीति
विज्ञायते यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेत्येष एवापि सोमस्य सोमपीथस्
तेषाँ संनिपतितानामानुपूर्वतेति
निग्राभ्यासु वाचयित्वादाभ्येन चरेदथोपाँ शुसवनमाददीताथ राजानं निर्वपेत्
सिद्धमत्राग्निष्टोमिकं कर्म जानीयादा फलकयोरभिमर्शनात्
फलके अभिमृश्य पृश्निभिश्चरेदथ प्राणग्रहैश्चरेदथाँ शूनुपसंगृह्णीयादथाँ शुना चरेदथोपाँ शुना
कालेऽन्तर्यामेण
सिद्धमत ऊर्ध्वम् १७

25.18
यथो एतद्बौधायनस्य कल्पं वेदयन्त आग्रयणस्य ग्रहणे द्वयोर्धारयोः प्रातःसवने गृह्णीयात्तिसृणां माध्यंदिने सवने चतसृणां तृतीयसवन इत्युपाँ श्वन्तर्यामयोश्च सँ स्रावः संततश्च शुक्र एते द्वे प्रातःसवने
संततश्चैव शुक्र आग्रयणश्चोदचनेन च तृतीया माध्यंदिने सवन
आदित्यस्थाल्यामतिशिष्टो राजादित्यग्रहस्य च सँ स्राव आग्रयणश्चैवोदचनेन च चतुर्थी तृतीयसवने
संपूतँ राजानं त्रयेण श्रिणीयात्पयसा सक्तुभिर्हिरण्येनेति
स यं कं चन ग्रहं गृह्णात्युभयत उदबुध्नँ हिरण्यश्रयणमेवैनं करोति
तिष्ठता ग्रहा होतव्या अन्यत्र प्राजापत्याच्च मन्थिसँ स्रावाच्चेति
यथो एतच्छालीकेः कल्पं वेदयन्ते द्र प्सानुमन्त्रणीयास्विति स्रुवाहुतीरेवैता जुहुयात्कस्मिन्नु खल्वेनाः काले जुहुयादिति
संतनीर्हुत्वैतस्मिन्नेनाः काले जुहुयादित्यथोन्नेतरित्याह प्राञ्चँ राजानं पूतभृतमभि संपवयताद्दशाभिराधवनीयं मृष्ट्वा न्युब्जतादित्युक्तसंप्रैष एष शेत आवकाशेभ्योऽवकाशैरुपस्थाय दशाभिरेवैनं मृष्ट्वा न्युब्जति १८

25.19
समानं कर्माश्विनाद्ग्रहादित्या धिष्णियव्याघारणसंपातादित्येष समुद्देशो भवति

कथमु खलु धिष्णियानां यथान्युप्तं व्याघारणं भवतीति
विभुवे प्रवाहणाय स्वाहेति व्याघार्य रौद्रे णानीकेन पाहि माग्ने पिपृहि मा मा मा हिँ सीरिति
सप्त वृणीत इति
होतैवैषाँ सप्तमो भवत्यहर्गण उत्तरेष्वहःसु प्रातःसवनिकं प्रसर्पणं कथँ स्यादित्याहवनीयोपस्थानप्रभृतीत्येव ब्रूयात्सकृत्स्फ्यविघनानामुपस्थानं कथमु खल्वेषां विसँ स्थितसंचरः स्यादित्यन्तरेण होतुश्च धिष्णियं ब्राह्मणाच्छँ सिनश्च येऽधिष्णिया अथ धिष्णियवन्तः स्वँ स्वमेव धिष्णियमुत्तरेण परिक्रामेयुरथेमावध्वर्यू अचमसौ भवतः
क्व उ खल्वेतयोर्भक्षो भवतीति
होतृचमस इत्येव ब्रूयात्
क उ खल्वृत्विजामेकाहे सोमं न भक्षयन्तीत्युन्नेता ग्रावस्तुत्सुब्रह्मण्य इत्येव ब्रूयात्
क्व उ खलु सत्त्रे दीक्षिता भक्षयेयुरिति
नेष्टुश्चमस उन्नेता भक्षयेदच्छावाकचमसे ग्रावस्तुदुद्गातृचमसे सुब्रह्मण्योऽपि वा सर्व एवाग्नीध्रचमसे भक्षयेयुर्विज्ञायत उत्तरस्यां ततौ तेषां य एवाग्नीध्रः स ग्रावस्तुत्स सुब्रह्मण्यः स उन्नेतेति १९

25.20
यथो एतद्बौधायनस्य कल्पं वेदयन्ते समानपात्र्यामेव सवनीयानुद्वासयेत्पुरोडाशस्यैवैषोऽलङ्कारो दृष्टो भवति

मध्यतः पुरोडाशमुपस्तीर्णाभिघारितमुद्वासयेत्पुरस्ताद्धाना दक्षिणतः करम्भं पश्चात्परिवापमामिक्षामुत्तरतः
कथमु खल्वेषाँ संचरी स्यादिति
प्रज्ञातो हविष्पथोऽथापरम्पूर्वया द्वारोपनिर्हृत्यापरया द्वारा सदः प्रपाद्याग्रेण कर्तॄन्जघनेन धिष्णियानुत्तरेणाच्छावाकस्य धिष्णियं पर्याहृत्यान्यस्मै प्रदायैतेनैव यथेतमेत्योत्तरेण सदः परीत्य पूर्वया द्वारोपनिर्हृत्योत्तरेणाग्नीध्रीयं पर्याहृत्यान्तर्वेद्यासादयेदध्वर्युश्चेद्धविर्धानं प्रपन्नः स्यादुपनिष्क्राम मा त्वाभिपरिहारिषमित्येव ब्रूयाद्यथो एतद्बौधायनस्य कल्पं वेदयन्ते द्विदेवत्येषूत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्य प्रयच्छतीति यदाध्वर्युः पुरोडाशान्प्रत्यङ्हरेत्तद्धविर्धानं प्रपद्यमानं प्रतिप्रस्थातारं परिगृह्णीयाद्ग्रहावादायोपनिष्क्रामत्युपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहावादत्तेऽपरेण परिक्रान्तायोत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्यं प्रयच्छतीति

हुत्वा व्यवनीय प्रदक्षिणमावृत्य प्रतिप्रस्थाताध्वर्युं परिगृह्णीयादथाध्वर्युः प्रतिप्रस्थातारं प्रत्यङ्द्र वन्पात्रेण
सिद्धमत ऊर्ध्वम्
अथेमे द्विदेवत्या अननुवषट्कारा भवन्ति
क्व उ खल्वेषामनुवषट्कारो भवतीति
विज्ञायते द्विदेवत्यानृतुयाजान्यश्च पात्नीवतो ग्रहः । आदित्यग्रहसावित्रौ तान्स्म मानुवषट्कृथा इति
यथो एतदौपमन्यवस्य कल्पं वेदयन्ते द्विदेवत्येषु दीर्घभक्षेणैवैनान्भक्षयेद्भक्षेहि माविशेति प्रतिपद्य क्रत्वे दक्षाय रायस्पोषाय सुवीरताया इत्यातः
प्रत्यभिमृशते मा मा राजन्विबीभिषो मा मे हर्दि त्विषा वधीः । वृषणे शुष्मायायुषे वर्चस इत्यथानुसवनभक्षेणैव सवनमुखीयान्भक्षयेदिति २०

25.21
क्व उ खलु वसतीवरस्य स्तोत्रभक्तिर्भवति शस्त्रभक्तिश्चेति
विश्वरूपासु हास्य स्तोत्रभक्तिर्भवति प्रातरनुवाके ह शस्त्रभक्तिः
क्व उ खलूपाँ श्वन्तर्यामयोर्द्विदेवत्यानाँ स्तोत्रशस्त्रभक्तिर्भवतीति

यदुपाँ शु शँ सति तदुपाँ श्वन्तर्यामयोः
प्रौग उक्थे द्विदेवत्यानाम्
अथायं प्रतिप्रस्थातर्तुग्रहेष्वध्वर्योरुत्तरतःसेवी भवतीतश्चामुतश्च यन्तं प्रतिप्रस्थाताध्वर्युं प्रैगृह्णीयादथाध्वर्युः प्रतिप्रस्थातारं प्रत्यङ्द्र वन्पात्रेण
सिद्धमत ऊर्ध्वं किंदेवत्या उ खल्वृतुयाजा भवन्तीत्यृतुदेवता इत्येतदेकम्
अथापरम्
इन्द्र ँ! होता यजति
मरुतः पोता यजति
ग्नावो नेष्टा यजत्यग्निमाग्नीध्रो यजतीन्द्रं ब्राह्मणाच्छँ सी यजति
मित्रावरुणौ मैत्रावरुणो देवं द्र विणोदां चत्वारोऽश्विनाध्वर्यू अध्वर्यू
अग्निं गृहपतिं गृहपतिः
क्व उ खल्वैन्द्रा ग्नस्य स्तोत्रभक्तिर्भवतीति
बहिष्पवमान इत्येव ब्रूयाद्ये के चन ग्रहा अस्तोत्राः पवमान एव तेषाँ स्तोत्राणि भवन्ति
क्व उ खलु माध्यंदिनीयाः सवनीया निरुप्यन्त इति
क्षुल्लकवैश्वदेवस्य स्तोत्र इत्येव ब्रूयात्
क्व तृतीयसवनीयार्माहेन्द्र स्य स्तोत्र इत्येव ब्रूयात् २१

25.22
नाराशँ समुपदस्तँ हुतादेवैनँ होतृचमसाद्गृह्णीयाद्
द्विनाराशँ सं प्रातःसवनं च माध्यंदिनसवनं चैकनाराशँ सं तृतीयसवनं चत्वार्युन्नीयमानसूक्तानि भवन्तीति
सवनमुखेषु चाच्छावाकचमसे च
त्रयो दीर्घभक्षाः
क्व उ खलु प्रवर्ग्यः सुत्यमहरनुसमेतीति
दधिघर्म इत्येव ब्रूयात्
किमुपसदां सौम्यस्य परीज्येति
तिरश्चर्मन्फलके ग्राव्णोद्वादयतीति
शुष्काभिषव इत्येतदाचक्षते
कथमु खलु रथंतरपृष्ठे माहेन्द्रं ग्रहं गृह्णीयाद्महाँ इन्द्रो य ओजसेत्येतया गायत्र्या माहेन्द्रं गृह्णीयादथ बृहत्पृष्ठे महाँ इन्द्रो नृवदा चर्षणिप्रा इत्येतया त्रिष्टुभा माहेन्द्र म्
अथोभयपृष्ठे यया पृष्ठं तया गृह्णीयात्पुरोरुचमितरां कुर्यादिति २२

25.23
कथमु खलु सवनीयस्य पशोश्चर्याया उपक्रमो भवतीतीडसूनँ सँ स्तीर्य पृषदाज्यं विहत्य जुह्वाँ समानीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य संवदेताभिघारयेदासादयेत्पशुं पञ्चहोत्रा चतसृषूपस्तृणीते
मनोताप्रभृतिनेडान्तेन चरेत्
सिद्धमत ऊर्ध्वम्
अथोक्थ्यविग्रहेषु य एव प्रातःसवनिको ग्रहणमन्त्रः स एव माध्यंदिनीयः स तृतीयसवनिको
देवतामेव व्यञ्जयेद्चमसायचमसायैव त्रीँ स्त्रीन्पुरोडाशशकलानुपास्येन्नव होतृचमस इति
त्रयाणामेवैष उक्तो भवत्यथायमाग्रयणस्त्रयस्त्रिँ शतो देवतानां गृह्यते
क्व उ खल्वेताः प्रदाने विज्ञायन्त इति
पात्नीवते
विज्ञायते पत्नीवतस्त्रिँ शतं त्रीँ श्च देवानिति
कथमु खलु पात्नीवतं भक्षयेदादित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगतीच्छन्दसोऽग्निना वैश्वानरेण पत्नीवता त्वष्ट्रा पीतस्य मधुमत उपहूयस्योपहूतो भक्षयामीति २३

25.24
कथमु खल्वन्तरुक्थ्यो भवतीति
प्रसिद्धं तृतीयसवन आग्रयणं गृहीत्वोक्थ्यं गृह्णीयादथैनं ध्रुवमुपस्थाप्य त्रिषूर्ध्वपात्रेषु विगृह्णीयातुपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थायुवं यज्ञस्यायुष इन्द्रा वरुणाभ्यां जुष्टं गृह्णामीति
पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति
परिमृज्य सादयत्येष ते योनिरिन्द्रा वरुणाभ्यां त्वेति
तदानीमेवापरं गृह्णात्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थायुवं यज्ञस्यायुष इन्द्रा बृहस्पतिभ्यां जुष्टं गृह्णामीति

पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति
परिमृज्य सादयत्येष ते योनिरिन्द्रा बृहस्पतिभ्यां त्वेति
तदानीमेवापरं गृह्णात्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थ्यायुवं यज्ञस्यायुष इन्द्रा विष्णुभ्यां जुष्टं गृह्णामीति
नात्र पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति
दशाभिरेवैनां मृष्ट्वा न्युब्जति
परिमृज्य सादयत्येष ते योनिरिन्दाविष्णुभ्यां त्वेत्यथैनान्ध्रुवेऽवनीय होतृचमसेऽवनयेत्
स्तोत्रे स्तोत्राण्यावपेच्छस्त्रे शस्त्राणि
तस्य प्रत्तस्य भक्ष इन्द्रा वरुणाभ्यामिन्द्रा बृहस्पतिभ्यामिन्द्रा विष्णुभ्यामग्निना वैश्वानरेण मरुद्भिः पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्येतेनैव वा भक्षयेदपि वा नित्यपूर्वेणादित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रा वरुणाभ्यामिन्द्रा बृहस्पतिभ्यामिन्द्रा विष्णुभ्यामग्निना वैश्वानरेण मरुद्भिः पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
यथो एतदौपमन्यवस्य कल्पं वेदयन्ते पुरस्तान्मिन्दाहुती जुहुयाद्मिन्दाहुती हुत्वा हारियोजनं ग्रहं गृह्णीयादित्यथ हैके चात्वालदेशेऽवभृथं निधाय दध्ना पयसा मधुमिश्रेण नैष्ट्ययनैरृजीषमभिजुह्वति यत्ते ग्राव्णा चिच्छिदुः सोम राजन्नित्य्
अवभृथयजूँ षि जुहोतीति
कतमानि खल्विमान्यवभृथयजूँ षि भवन्तीति
यदेवैनदाहवनीये शाकलैश्चरन्ति देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसीत्यवभृथाहुताविति
कतमा उ खल्वियमवभृथाहुतिर्भवतीत्यप उद्गृह्य जुहोति यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम स्वाहेति
तिष्ठन्त एवावभृतेन प्रचरेयुः
पराङावृत्तः प्रपदेनोदकान्तं प्रत्यस्येत्सिद्धमत ऊर्ध्वम् २४

25.25
अथायमुदयनीयस्
तस्य कः कर्मण उपक्रमो भवतीति
बर्हिर्यजुषा कुर्यात्
पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेद्ब्रह्माणं दक्षिणत उपवेश्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हपत्यँ स्फ्यं निदध्यात्
स्फ्योपरि पात्रीम्पात्र्! यां व्रीहीनावपेच्छूर्पादानप्रभृति क्रमान्तस्तायत आ प्रस्कन्दनात्
प्रस्कन्दनान्तं कर्म कृत्वा तिरः पवित्रमप आनीयाधिश्रित्य तिरः पवित्रं तण्डुलानावपेदथाज्यं निर्वपेदथाज्यमधिश्रयेदुभयं पर्यग्नि कृत्वा जघनेन गार्हपत्यमौपसदायां वेद्याँ स्तम्बयजुर्हरेत्
सिद्धमत ऊर्ध्वं तस्य शृतस्यासादनं दक्षिणं परिधिसन्धिमपरं विमुच्य दक्षिणं वा परिधिमग्रेण प्राञ्चं प्रायणीयमासादयेत्प्रत्यञ्चमुदयनीयम्

अग्निमुखा अत्र देवता इज्यन्ते
शय्वन्त उदयनीयः संतिष्ठते २५

25.26
अथ यदि पशुरुपकृप्तः स्यात्पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेत्
प्रोक्षणीः सँ स्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्फ्यमाददीत
संप्रैषप्रभृति पाशुबन्धिकं कर्म तायते
सिद्धमत ऊर्ध्वं यथो एतच्छालीकेः कल्पं वेदयन्ते मैत्रावरुण्यामिक्षया यजेतेति तस्यै सह सवनीयैर्वत्सापाकरणँ सह सायंदोहम्
उदयनीयेन चरित्वा पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेत्
प्रोक्षणीः सँ स्कृत्य पात्राणि प्रोक्षेदथ प्रातर्दोहं धेनूर्दोहयेदथैनां गार्हपत्ये श्रपयित्वानभिघारितामुद्वासयेदथाज्यं निर्वपेदथाज्यमधिश्रयेदुभयं पर्यग्नि कृत्वाहवनीये वैदलकान्परिधीन्परिधायाथैनां पुनरधिश्रित्याभिघारितामुद्वास्यान्तर्वेद्यासादयेदाज्यभागान्तं कर्म कृत्वा दक्षिणे वेद्यन्ते केशश्मश्रु वपते नखानि निकृन्ततेऽथाज्यभागप्रतिपत्केडान्ता संतिष्ठतेऽथेयमुदवसानीयोपाँ शु भवति पुनराधेयधर्म हि
सकृन्महावेद्यै स्तम्बयजुषो हरणम्
असंनद्धा पत्नी यज्ञपुच्छमन्वास्ते २६

25.27
अथेममग्निचयं त्र्युपसत्कँ षडुपसत्कं द्वादशोपसत्कमिति चिन्वते
स यदि साहस्रं त्र्युपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँ सपुरीषामुपधाय संचिताहुती जुहोति
द्वितीयां चितिँ सपुरीषामुपधाय संचिताहुती जुहोति
श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य तृतीयां चितिं चतुर्थीं चितिं पञ्चमीं चितिँ षष्ठीं चितिँ सपुरीषामुपधाय संचिताहुती जुहोत्यौपवसथिकैव तृतीयाथ यदि साहस्रँ षडुपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँ सपुरीषामुपधाय संचिताहुती जुहोति
श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य द्वितीयां चितिँ सपुरीषामुपधाय संचिताहुती जुहोति
स एवमेव पञ्चाहम्
औपवसथिकैव षष्ठ्यथ यदि साहस्रं द्वादशोपसत्कं चेष्यमाणो भवति यथासूत्रं तथाथ यदि द्विषाहस्रं त्र्युपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँ सपुरीषामुपधाय संचिताहुती हुत्वाहार्या ँ! र्! सपुरीषामुपदधाति

द्वितीयां चितिँ सपुरीषामुपधाय संचिताहुती हुत्वाहायाँ र्! सपुरीषामुपदधाति
श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य तृतीयां चितिं चतुर्थीं चितिं पञ्चमीं चितिँ षष्ठीं चितिँ सपुरीषामुपधाय संचिताहुती हुत्वाहार्या ँ! र्! सपुरीषामुपदधात्यौपवसथिकैव तृतीयाथ यदि द्विषाहस्रँ षडुपसत्कं चेष्यमानो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँ सपुरीषामुपधाय संचिताहुती हुत्वाहायाँ र्! सपुरीषामुपदधाति
श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य द्वितीयां चितिँ सपुरीषामुपधाय संचिताहुती हुत्वाहायाँ र्! सपुरीषामुपदधाति
स एवमेव पञ्चाहम्
औपवसथिकैव षष्ठ्यथ यदि द्विषाहस्रं द्वादशोपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिमुपधायाध्यस्तपुरीष एताँ रात्रिं वसति
श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य पुरीषमुपधाय संचिताहुती हुत्वाहार्या ँ! र्! सपुरीषामुपदधाति

स एवमेव यथासूत्रं तथा वर्तमानः पुरीषंपुरीषमुपधाय संचिताहुती हुत्वाहायाँ र्! सपुरीषामुपदधात्यौपवसथिकैव द्वादशी २७

25.28
अथ यदि त्रिषाहस्रं त्र्युपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँ सपुरीषामुपधाय संचिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति
द्वितीयां चितिँ सपुरीषामुपधाय संचिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति
श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य तृतीयां चितिं चतुर्थीं चितिं पञ्चमीं चितिँ षष्ठीं चितिँ सपुरीषामुपधाय संचिताहुती हुत्वा द्वेद्वे आहार्ये सपुरीषे उपदधात्यौपवसथिकैव तृतीयाथ यदि त्रिषाहस्रँ षडुपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँ सपुरीषामुपधाय संचिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति
श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य द्वितीयां चितिँ सपुरीषामुपधाय संचिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति
स एवमेव पञ्चाहम्
औपवसथिकैव षष्ठ्यथ यदि त्रिषाहस्रं द्वादशोपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिमुपधायाध्यस्तपुरीष एताँ रात्रिं वसति
श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य पुरीषमुपधाय संचिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति
स एवमेव यथासूत्रं तथा वर्तमानः पुरीषंपुरीषमुपधाय संचिताहुती हुत्वा द्वेद्वे आहार्ये सपुरीषे उपदधात्य्
औपवसथिकैव द्वादशी
कथमु खल्वन्तरुपसत्कं बहिरुपसत्कमन्तर्बहिरुपसत्कमिति विजानीयाद्दैक्षस्य संवत्सरस्य द्वादशावशिष्य राजानं क्रीणीयात्सोऽन्तरुपसत्कः
संवत्सरे पर्यवेते राजानं क्रीणीयात्स बहिरुपसत्को दैक्षस्य संवत्सरस्य षडवशिष्य राजानं क्रीणीयात्ताश्चोपसदः स्युरुत्तरश्च षड्रात्रः सोऽन्तर्बहिरुपसत्कः २८

25.29
मृदमेताँ समां बिलेन करोतीति
समां भूम्यां निदधातीत्येवेदमुक्तं भवत्यथैतावश्वगर्दभावुत्तरत उपस्थापयति पुरस्ताद्वा प्रत्यञ्चौ
स यदि पुरस्तात्प्रत्यञ्चौ दक्षिणोऽश्व उत्तरतो गर्दभोऽथ यद्युत्तरतः पूर्वोऽश्वोऽपरो गर्दभोऽग्निभ्यः पशूनालभत इति
पञ्चानां पशूनां ब्राह्मणं भवति
स यद्यु हैतान्पशूनुपाकरोत्या बर्हिष उपासनात्पशुबन्धिकं कर्म वर्तयित्वा शिराँ सि प्रच्छिद्यापो देहानभ्यवहरेयुरपो देहानभ्यवहरन्तीति विज्ञायते

मासमेतं ब्रह्मचर्यं चरति
सोऽधःसंवेश्यमाँ साश्यस्त्र्! युपायो भवति पूर्वदीक्षेत्येतामाचक्षते
त्रयोदशमेवैतं मासमभि दीक्षमाणो मन्यतेऽत्र कृष्णाजिने यजमानं वाचयति मुष्टी चैव न करोति वाचं च न यच्छतीति
कृष्णाजिनप्रभृति कर्मान्त एष भवत्यावेदनात्
प्रथमायामुपसदि वेदिं विमिमीते स्तम्बयजुर्हरतीति
कर्मवशकारितमेवैतद्भवत्यथ संभारेषूषान्निवपन्यददश्चन्द्र मसि कृष्णं तन्मनसा ध्यायेत्तदपीहेति २९

25.30
उत्तरमुत्तरं प्रति बलीवर्दमुत्तरामुत्तराँ सीतां कृषन्सर्वौषधं वपन्स्वयमातृण्णावकाशं नावक्रामेदित्यथ हैके पुरुषे च स्वयमातृण्णायां च साम गायन्ति
किमु खलु स्वयमातृण्णानिकोतं भवतीति
हिरण्येष्टका मण्डलेष्टका रेतःसिगित्येव ब्रूयाद्यंयमिष्टकागणमुपदध्यात्तंतं न व्यवेयाद्दक्षिणेन दक्षिणमुत्तरेणोत्तरं स यदि दक्षिणतः पुरस्ताद्वेष्टका उपदध्यादपसलैरत्रावर्तेताथ यद्युत्तरतः पश्चाद्वा प्रदक्षिणमावृत्य स्वयमातृण्णामेवाभिमुख इष्टका उपदध्यात्
कृत्तिका उपदधातीति

कतमा उ खल्विमाः कृत्तिका भवन्तीति
विद्युत इत्येव ब्रूयादस्रवणार्थे बौधायनस्याग्नावग्नौ पुनश्चितिः
सह सा न पुरीषचितिः षष्ठ्या वृद्धिजेति
वृद्धिजैवेति शालीकिः
षष्ठं प्रच्छादमाहरमाणः कस्मिन्नु खल्वेनत्काल आहरेदिति
नक्षत्रेष्टका उपधायेत्येव ब्रूयात्
स त्रिभिः कर्मभिरभिप्रैति पुरीषस्योपधानेन साहस्रवता प्रोक्षणेन धेनुकरणेनेति
सोऽष्टाभिः कर्मभिरभिप्रैत्युत्तमे संचिताहुती शतरुद्री यं नमस्काराः परिषेचनं विकर्षणँ सर्पाहुतीः सामभिरुपस्थानमनुशँ सनमिति ३०

25.31
अथ किं नानाबीजानां निर्वपणे तन्त्रमिति
स्रुगादानं तन्त्रँ शूर्पादानं तन्त्रं धूःप्रभृतयः शकटमन्त्राः सर्वे तन्त्रं भवत्या सावित्राद्बीजंबीजमभ्यावर्तते सावित्रं तन्त्रं दशहोताभिप्रव्रजनं परिदानमिति तन्त्रं भवति
तन्त्रं कृष्णाजिनावधवनं तन्त्रमुलूखलाध्यूहनं तन्त्रं पुरोडाशीयानामावपनं तन्त्रं मुसलस्यावधानं तन्त्रँ शूर्पस्योपोहनं तन्त्रँ हविष्कृद्
आवपनप्रभृतिमन्त्रो बीजंबीजमभ्यावर्तते प्रस्कन्दनान्तो यथो एतच्छालीकेः कल्पं वेदयन्ते सह स्विष्टकृतात्याक्रामेदित्येकादशप्रयाज एवैतदुपपद्यते न पञ्चप्रयाजे
यथो एतदौपमन्यवस्य कल्पं वेदयन्ते पुरस्तात्स्विष्टकृतो यावदाम्नातेनाभिषिञ्चेन्नात्र कृष्णाजिनं न रुक्मौ न पार्थानि भवन्ति कुशानेव सँ स्तीर्य तेष्वेनमभिषिञ्चेदिति
कथमु खलु सत्त्रिणामभिषेक आवर्तत इत्यभिषेक आवेदनं प्रथमेऽह्न्यभिषेकः प्रथमेऽह्न्यश्वस्यावघ्रापणमादितश्चान्ततश्च बहिष्पवमानमास्तावे स्तुवीरन्नहरहर्यज्ञायज्ञियस्य स्तोत्रे द्वाभ्यामभिमृशेदिति ३१

25.32
कथमु खल्वेकादशिनानां पशूनां चर्याया उपक्रमो भवतीतीडसूनँ सँ स्तीर्य पृषदाज्यं विहत्य जुह्वाँ समानीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य संवदेताभिघारयेदासादयेत्पशुं पञ्चहोत्रा चतसृषूपस्तृणीते
मुख्यस्य पशोर्दैवतमवदाय वृक्यमेदो यूषन्नवधाय तेन जुहूं प्रोर्णुयाद्
यूष्णोपसिच्याभिघारयेदथोपभृति स्विष्टकृते सर्वेषां त्र्यङ्गाणाँ सकृत्सकृत्स्विष्टकृते समवदाय वृक्यमेदो यूषन्नवधाय तेनोपभृतं प्रोर्णुयाद्यूष्णोपसिच्य नाभिघारयेदथ हृदयं जिह्वां वक्षस्तनिम मतस्नौ वनिष्ठुमिति पात्र्! याँ समवधाय यूष्णोपसिच्य नाभिघारयेदथ कँ से वा चमसे वा वसाहोमं गृहीत्वा यूष्णोपसिच्याथाभिघारयेत्
संमृशेत्पशुम्पार्श्वेन वसाहोमं प्रयौयान्मँ स्तः कुम्बतो जघनेनोत्तरवेदिं परिक्रम्याश्रावयेद्याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहुयात्
परिशिँ ष्याच्च दिग्भ्योऽथेतरद्वसाहोमहवन्याँ समवनयेद्वषट्कृते हविर्जुहोति
सोऽनिष्ट्वैव स्विष्टकृतमुदङ्ङत्याक्रम्य जुह्वां चैव वसाहोमहवन्यां चोपस्तृणीते
द्वितीयस्य पशोर्दैवतमवदाय वृक्यमेदो यूषन्नवधाय तेन जुहूं प्रोर्ण्याद्यूष्णोपसिच्याभिघारयेदथोपभृति स्विष्टकृते अर्वेषां त्र्यङ्गाणाँ सकृत्सकृत्समवदाय वृक्यमेदो यूषन्नवधाय तेनोपभृतं प्रोर्णुयात्
समवत्तमेतद्यूष्णोपसिच्य नाभिघारयेत्

अथैव कँ से वा चमसे वा वसाहोमं गृह्णीयाद्यूष्णोपसिञ्चेदथाभिघारयेत्
संमृशेत्पशुम्पार्श्वेन वसाहोमं प्रयौयान्मँ सतः कुम्बतो जघनेनोत्तरवेदिं परिक्रम्याश्रावयेद्याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहुयात्
परिशिँ ष्याच्च दिभ्यो वषट्कृते हविर्जुहोति
स एवमेव सर्वेषां पशूनां स यत्र वारुणस्य स्विष्टकृतेऽवद्येत्तद्द्विरभिघारयेत्
सम्वत्तमेवैतद्यूष्णोपसिच्याभिघारयेत्
तथैव कँ से वा चमसे वा वसाहोम गृह्णीयाद्यूष्णोपसिच्याभिघारयेत्
संमृशेत्पशुम्पार्श्वेन वसाहोमं प्रयौयान्मँ स्तः कुम्बतो जघनेनोत्तरवेदिं परिक्रम्याश्रावयेद्याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहुयात्
परिशिँ ष्याच्च दिग्भ्योऽथेतरद्वसाहोमहवन्याँ समवनयेद्वषट्कृते हविर्जुहोत्यजथ पुरस्ताद्वनस्पतेः समान्यो दिशः प्रतियजेदथ वनस्पतिना चरेदथ स्विष्टकृता
सिद्धमत ऊर्ध्वं यथो एतदौ पमन्यवस्य कल्पं वेदयन्ते मैत्रावरुण्यामिक्षया निरूढया यजेतेति सिद्धमत्रौपवसथिकं कर्म जानीयाद्यथामावास्यायाँ संनयतोऽन्यत्र पिण्डपितृयज्ञात्
संवत्सरं न कंचन प्रत्यवरोहेन्न शीर्षमाँ सं खादेन्न वयसां माँ सं नाग्निं चित्वा रामामुपेयान्नाग्निचिद्वर्षति धावेद्यदि धावेदुपावर्तेतान्नाद्यमेवाभ्युपावर्तत इति ब्राह्मणम् ३२

25.33
अथास्मिन्वाजपेये सप्तदशानाँ रथानां त्रयस्त्रयोऽश्वास्
ते एकपञ्चाशतम्
उत्तरतः प्रष्टिं नियुञ्ज्याद्चतुर्विँ शतिं पशूनित्यग्नीषोमीयश्चानूबन्ध्यश्च चतुर्विँ शौ भवतोऽथ वै भवति
सावित्रं जुहोति कर्मणःकर्मणः पुरस्तादिति
दीक्षणीयां निर्वप्स्यन्सावित्रं जुहोतीति
सावित्रादेव सावित्रं भवति
दीक्षाहुतीर्होष्यन्सावित्रं जुहोतीति
सावित्रँ हुत्वा दीक्षाहुतीर्जुहुयात्
प्रायणीयां निर्वप्स्यन्सावित्रं जुहोतीति
सावित्रादेव सावित्रं भवत्यन्तर्हिरण्याँ होष्यन्सावित्रं जुहोतीति सावित्रँ हुत्वान्तर्हिरण्यां जुहुयात्
पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वप्स्यन्सावित्रं जुहोतीति
सवित्रादेव सावित्रं भवति
प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरिष्यन्सावित्रं जुहोतीति
सावित्रँ हुत्वा प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरेद्महावेद्यै पूर्वं परिग्राहं परिग्रहीष्यन्सावित्रं जुहोतीति
सावित्रँ हुत्वा स्फ्यमाददीताहवनीयं प्रणेष्यन्सावित्रं जुहोतीति

सावित्रँ हुत्वेध्ममाददीत
रथवाहने सदोहविर्धाने संमेष्यन्सावित्रं जुहोतीति
सावित्रँ हुत्वा रथवाहने सदोहविर्धाने संमिनुयादग्नीषोमौ प्रणेष्यन्सावित्रं जुहोतीति
सावित्रँ हुत्वाग्नीषोमौ प्रणयेद्यूपमुच्छ्रयिष्यन्सावित्रं जुहोतीति
सावित्रँ हुत्वा प्रोक्षणीराददीत
स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरिष्यन्सावित्रं जुहोतीति
सावित्रँ हुत्वा बर्हिषी आददीत
तस्य प्रसिद्धं वपया चरित्वा वसतीवरीर्ग्रहीष्यन्सावित्रं जुहोतीति
सावित्रँ हुत्वा कुम्भमाददीत
पशुपुरोडाशं निर्वप्स्यन्सावित्रं जुहोतीति
सावित्रादेव सावित्रं भवति ३३

25.34
तूपरश्चतुरश्रिर्भवतीत्यनुदिशमश्री स्थापयित्वाग्निष्ठां च सूर्यस्थां च संमिनुयात्
पञ्चैन्द्रा नतिग्राह्यान्गृह्णातीति
सर्व एवैते सोपयामा ग्रहीतव्या भवन्ति
मारुत्या प्रचर्यैतान्संज्ञपयेदिति
तन्त्रमुल्मुकहरणं तन्त्रमध्रिगुप्रैषोऽभ्यावर्तेत
संज्ञप्तहोम ऊर्ध्वे बर्हिषी भिन्द्यात्स्वाहाकृतिप्रैष आज्यं द्वेधा विभजेदुभयभागिन्य स्तोकीया अथेदँ रथचक्रं प्रादेशमात्रं भूमेरुच्छ्रितं भवत्य्
अपरेण परीत्य पक्षसी संमृशतीति रथचक्रे एवैते संमृशत्यथाहाजिसृतो दक्षिणापथेनोपातीत्येति सूतराजन्या एवैत उक्ता भवन्ति
मारुता अग्रेणाहवनीयं परीत्येति क्षत्तसंग्रहीतार एवैत उक्ता भवन्त्यथ यजमानं तार्प्यं परिधापयतीत्याज्येनैवैतत्तृप्तं वासो भवत्यथाप्युदाहरन्ति तृपा नाम वृक्षास्
तेषामेवैतद्भवत्यथेमं वाजपेयँ सर्वसप्तदशमेके ब्रुवत आदेशादेव बृहत्सामैकविँ शं वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन्निति ३४