बौधायनश्रौतसूत्रम्/प्रश्नः २४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

24.1
पञ्चतयेन कल्पमवेक्षेत छन्दसा ब्राह्मणेन प्रत्ययेन न्यायेन सँ स्थावशेनेति
छन्दसेति यदवोचाम यथाम्नायप्रणिधीदं पूर्वमिदमुत्तरमित्यथापि मन्त्र एव स्वयं कर्म प्रब्रूते
कर्मानुवादो भवति
यथैतद्भवति प्रेयमगाद्धिषणा बर्हिरच्छोर्वन्तरिक्षमन्विहि देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामीति
यच्छन्दसा न शक्नुयात्कल्पयितुं ब्राह्मणेन तच्चिकल्पयिषेद्ब्राह्मणमु हैवैनान्मन्त्रानप्रज्ञातान्विदधातीदमनेन करोतीदमनेनेति
यथैतद्भवतीषे त्वोर्जे त्वेति शाखामाच्छिनत्ति वायव स्थोपायव स्थेति वत्सानपाकरोतीत्यथाप्यमन्त्राणि कर्माणि विदधाति
यथैतद्भवत्यष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीतैकादशसु राजन्यो द्वादशसु वैश्य इत्येवं व्यवस्थावर्णसंयोगाद्यथो एतत्प्रत्ययेनेति छन्दोगबह्वृचाध्वर्युप्रत्ययेनेति
यथो एतन्न्यायेनेति प्राकृते तन्त्रे प्राकृतं न्यायमनधिगच्छन्ग्रामन्यायं प्रतीयादयमिहार्हताँ समारम्भ इति ॥
यथो एतत्सँ स्थावशेनेति सोमेऽपहृत आदाराँ श्च फाल्गुनानि चाभिषुणुयादिति
चतुष्टयेन मन्त्रा वर्तन्ते स्तुत्या निर्देशेनाशिषा नैव स्तुत्या नाशिषा न निर्देशेनेति चतुर्थम्
अथेमे पञ्च हविराकारा औषधं पयः पशुः सोम आज्यमिति १

24.2
तेषां पृथक्पृथग्धर्माः पृथगधिकरणानि
यथाधिकरणं मन्त्रा दृष्टास्

तान्न मिथः सँ सादयेदनादेशाद्येनयेन यद्धविः सँ सिध्येत्तेनतेन तत्कुर्यात्तत्तस्याधिकरणम्
उक्तान्यधिकरणानि
यज्ञ इति
किमुपज्ञो यज्ञः श्रद्धोपज्ञो माङ्गल इति
क्व उ खलु यज्ञ इति
पुरुष इति
का उ खलु देवता दीक्षेति
वागिति
का उ खलु पथ्या स्वस्तिरिति
वागेवेति
का उ खल्वेकाक्षरा गायत्रीति
वागेवेति
क उ खलु यज्ञस्यारम्भः का प्रतिष्ठेति
विज्ञायते स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याँ स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इति
वात एव यज्ञस्यारम्भो वातः प्रतिष्ठेति २

24.3
कथमु खल्वेतज्जानीयादिदं तन्त्रमयमावाप इत्यग्न्यन्वाधानप्रभृति तन्त्रमाज्यभागाभ्यामन्यत्रौषधात्
तस्मिँ स्तन्त्रे सत्यावापस्थानानि भवन्ति यथैतद्धेनूनां दोहनं कपालानामुपधानँ स्तम्बयजुषो हरणमाज्यग्रहा इति यच्च किं चाभिनिवपत्यूर्ध्वमाज्यभागाभ्यामेष मध्यत आवापो भवति यस्मिन्नेतद्धवीँ ष्योप्यन्ते तस्मिन्नेवावापजानि तन्त्रस्थानं भजन्ते यथैतत्प्राशित्रं यजमानभागब्रह्मभागौ स्विष्टकृच्चेडा चेत्य्
अवदानत आवापो भवति तन्त्रं तु प्रदानतः
क्व उ खलु तन्त्रमावापभूयं गच्छत्यावापो वा तन्त्रभूयमिति
मैत्राबार्हस्पत्येऽप्यन्यस्मिँ स्तन्त्रमु ह निर्वपणतो भवत्यावाप उ प्रदानतोऽथ वारुणीषु च सँ ज्ञानीष्ट्यां चावापो ह निर्वपणतो भवति तन्त्रं तु प्रदानतोऽनूयाजप्रभृति तन्त्रमा समिष्टयजुषो होमात्
किंदेवत्या उ खल्वनूयाजा भवन्तीत्याग्नेया इत्येव ब्रूयाद्विज्ञायते तं देवा आहुतीभिरनूयाजेष्वन्वविन्दन्यदनूयाजान्यजत्यग्निमेव तत्समिन्द्ध इत्यृतुदेवता उ खलु प्रयाजा भवन्तीति ३

24.4
कियत्यः पाकयज्ञसँ स्थाः कियत्यो हविर्यज्ञसँ स्थाः कियत्यः सोमसँ स्था इति
हुतः प्रहुत आहुतः शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसँ स्था इत्यपरिमिता उ हैके ब्रुवते
यच्च किं चान्यत्र विहाराद्धूयते सर्वास्ताः पाकयज्ञसँ स्था इत्यथ हविर्यज्ञसँ स्था अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि दाक्षायणयज्ञः कौण्डपायिन्य इति

सौत्रामणिमु हैके ब्रुवतेऽथ सोमसंस्था अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमसँ स्था यदग्निष्टोमस्य क्रतुकरणं तदत्यग्निष्टोमस्य
यदुक्थ्यस्य तत्षोडशिवाजपेययोर्यदतिरात्रस्य तदप्तोर्यामस्येति
सप्तानाँ सोमासँ स्थानां द्वे सत्त्राणि न गच्छतो वाजपेयश्चाप्तोर्यामश्चेति ४

24.5
कथमु खल्वेतज्जानीयादियं पूर्वा ततिरियमुत्तरेति
या प्रकृतिः सा पूर्वा ततिरथ यद्विदधाति सोत्तरा ततिरग्न्याधेयं पूर्वा ततिः पुनराधेयमुत्तरा ततिर्दर्शपूर्णमासाविष्टीनां पूर्वा ततिः सर्वाः काम्या इष्टय उत्तरा ततिरैन्द्रा ग्नो निरूढपशुबन्धानां पूर्वा ततिः सर्वे काम्याः पशव उत्तरा ततिर्ज्योतिष्टोमः सोमानां पूर्वा ततिः सर्वे सोमा उत्तरा ततिः
श्येनचिदग्नीनां पूर्वा ततिः सर्वे काम्या अग्नय उत्तरा ततिर्द्विरात्रोऽहीनानां पूर्वा ततिः सर्वेऽहीना उत्तरा ततिर्द्वादशाहोऽहर्गणानां पूर्वा ततिः सर्वेऽहर्गणा उत्तरा ततिर्गवामयनँ सांवत्सरिकाणाँ सत्त्राणां पूर्वा ततिः सर्वाणि सांवत्सरिकाणि सत्त्राण्युत्तरा ततिः
कियन्ति नु खलु गवामयनानि भवन्तीति
विज्ञायते यथैतन्मासि पृष्ठमुत्तमे मासि सकृत्पृष्ठान्युपेयुर्दशमास्यं तृतीयं
सप्त ग्राम्या ओषधयः सप्तारण्याः
सप्त ग्राम्याः पशवः सप्तारण्याः
सप्त छन्दाँ सि चतुरुत्तराणीति
सप्त ग्राम्या ओषधयस्तिलमाषव्रीहियवाः प्रियङ्गवोऽणवो गोधूमाः सप्तमे
कुलत्थानु हैके ब्रुवते
सप्तारण्याः श्यामाकाश्च नीवाराश्च जर्तिलाश्च गवीधुकाश्च गार्मुताश्च वास्त्वानि च वेणुयवाश्च सप्तमे
कुरुविन्दानु हैके ब्रुवते
सप्त ग्राम्याः पशवो गोअश्वमजाविकं पुरुषश्च गर्दभश्चोष्ट्रश्च सप्तमेऽश्वतरमु हैके ब्रुवते
सप्तारण्या द्विखुराश्च श्वापदानि च पक्षिणश्च सरीसृपाणि च हस्ती च मर्कटश्च नादेया सप्तमे
सप्त छन्दाँ सि चतुरुत्तराणीति गायत्र्युष्णिगनुष्ठुब्बृहती पङ्क्तिस्त्रिष्टुब्जगतीति ५
24.6
अथेदं त्रयं भवति कर्माभ्यावर्ति देवताभ्यावर्ति संख्याभ्यावर्तीति
सावित्रं नु खल्विदं कर्माभ्यावर्ति भवत्यथ देवताभ्यावर्ति ध्रुवाज्यं द्रो णकलशः सर्वपृष्ठेत्यथ संख्याभ्यावर्ति त्रिः पृच्छति शृतँ हवी३ः! शमितरित्यथापि राज्ञो मानं क्व उ खलु मन्त्रमन्तरितं कल्पयेत्
स्थानाद्वा स्थानं प्रजिज्ञासीताभिरूप्येण वा प्रौहेण वेति
स्थानात्स्थानमिति यदवोचाम योऽनन्तरो मन्त्र आम्नातः स्यात्तेनैनँ सह कल्पयेत्पूर्वकालेन वोत्तरकालेन वेति

यथो एतदाभिरूप्येणेति यथैतद्भवत्याशासानः सुवीयँ र्! रायस्पोषँ स्वश्वियम्। बृहस्पतिना राया स्वगाकृतो मह्यं यजमानाय तिष्ठेति
यथो एतत्प्रौहेणेत्यग्निकल्पः खल्वयमिष्टकाभूयान्समाम्नातस्
तत्र यो मन्त्रोऽन्तरितः स्यादिष्टकाभूयमेनमापादयेत् ६

24.7
अथायमश्वमेध आहुतिभूयान्समाम्नातस्
तत्र यो मन्त्रोऽन्तरितः स्यादाहुतिभूयमेनमापादयेद्नाप्रक्रान्तं प्रक्रमयेन्न प्रक्रान्तं क्रम तूष्णीं कर्मणाभिपूरयिषेदिति
नाप्रक्रान्तमिति यदवोचाम बर्हिर्लवनः खल्वयँ ह्रस्वो मन्त्र आम्नातो भवति दीर्घमु कर्म
न क्रमणो हेतोर्मन्त्रोऽभिनिवर्तेताथायं पशोर्विशसनो ह्रस्वो मन्त्र आम्नातो भवति दीर्घमु कर्म
न कर्मणो हेतोर्मन्त्रोऽभिनिवर्तेताथास्याँ स्वयमातृण्णायां दीर्घो ह मन्त्र आम्नातो भवति ह्रस्वमु कर्म
न कर्मणो हेतोर्मन्त्रो विरम्येद्यथो एतत्त्रिर्यजुषा सकृत्तूष्णीमिति
लोकाग्नीँ श्च तेषामुपश्रुत्य स्तम्बयजुश्चेति
यथो एतत्पञ्चकृत्वो यजुषा पञ्चकृत्वस्तूष्णीमिति राज्ञस्तेषां मानमुपश्रुत्येति

यथो एतत्सकृद्यजुषा सकृत्तूष्णीमिति राज्ञ एव तेषां मानमुपश्रुत्येति
यथो एतच्चतुरो मुष्टीन्व्रीहीणां निर्वपतीति द्वौ देवतायै स्विष्टकृते तृतीय इडायै चतुर्थ इति सर्व एवैतेषां ब्राह्मणवन्तः ७

24.8
अथात आदेशकारितानि व्याख्यास्यामोऽनादिष्टोऽग्निरपि तु यथैतद्भवत्यधिदेवने जुहोति रथमुखे जुहोति रथनाड्यां जुहोति चतुष्पथे जुहोति वर्त्मनोर्जुहोत्याव्रश्चने जुहोति पदे जुहोत्यजायां जुहोत्यजस्य दक्षिणे कर्णे जुहोत्यजस्य दक्षिणे शृङ्गे जुहोति ब्राह्मणस्य दक्षिणे हस्ते जुहोति दर्भस्तम्बे जुहोत्यप्सु जुहोत्यौदुम्बर्यां जुहोति वल्मीकवपायां जुहोत्यौपासने जुहोत्युत्तपनीये जुहोति शामित्रे जुहोत्याग्नीध्रीये जुहोत्यन्वाहार्यपचने जुहोति गार्हपत्ये जुहोतीत्यनादिष्ट आहवनीय एव होतव्यम्
अनादिष्टोऽध्वर्युरपि तु यथैतद्भवत्युन्नेता जुहोति प्रतिप्रस्थाता जुहोतीत्यनादिष्टेऽध्वर्युणैव होतव्यम्
अनादिष्टं पात्रम्
अपि तु यथैतद्भवत्यञ्जलिना जुहोति शूर्पेण जुहोति कृष्णाजिनपुटेन जुहोति मध्यमेन पर्णेन जुहोत्यन्तमेन पर्णेन जुहोत्यर्कपर्णेन जुहोति पर्णमयेन स्रुवेण जुहोत्यौदुम्बरेण स्रुवेण जुहोत्यङ्गुष्ठाभ्यां जुहोति विस्रँ सिकाकाण्डाभ्यां जुहोति गोमृगकण्ठेन जुहोत्यश्वशफेन जुहोत्ययस्मयेन कमण्डलुना जुहोतीत्य्
अनादिष्टे स्रुचैव होतव्यम्
अनादिष्टा समिदादेशादेव समिधं जानीयाद्विज्ञायते नासमित्के जुहुयाद्यदसमित्के जुहुयाद्यथाजिह्वेऽन्नं दद्यात्तादृक्तत्
तस्मात्समिद्वत्येव होतव्यम्
अनादिष्ट उपसमाधायैव होतव्यम् ८

24.9
अथातोऽवदानकल्पश्चतुरुन्नयति चतुरवत्तं भवतीत्यनादिष्ट उपहत्यैव होतव्यम्
अनादिष्टँ हविरादेशादेवान्यद्व्रीहियवेभ्यो जानीयादपि तु नु खलु क्षिप्रसँ स्कारतममाज्यं ब्रुवतेऽनादिष्टः पशुरादेशादेवान्यमजाज्जानीयादैन्द्रा ग्नाद्यदभिहारं तन्त्रँ स्यात्तदभिहारं कुर्यादग्न्यभिहारौ दर्शपूर्णमासौ
सोम इन्द्रा भिहारः
सावित्रमौषधस्य निर्वपणं दृष्टं भवति
किँ स्वित्सांनाय्यस्य पशो राज्ञ इति
दोहनँ सांनाय्यस्योपाकरणं पशोर्यदुपाँ शुसवनमभि मिमीते तद्रा ज्ञः
प्रज्ञातमन्येषाँ हविषां पर्यग्निकरणं किँ स्विद्रा ज्ञ इति
यदेवादो वसतीवरीः परिहरति तद्रा ज्ञ इति ९

24.10
अथातो पुरोडाशान्व्याख्यास्यामः
सर्व एवाग्नेया अष्टाकपाला अन्यत्र पौनराधेयिकात्
सर्व एवैन्द्रा ग्ना एकादशकपाला अन्यत्राग्रयणाच्च शुनासीरीयाच्च
सर्व एवैन्द्रा एकादशकपाला अन्यत्र शुनासीरीयात्
सर्व एवाग्नीषोमीया एकादशकपाला अन्यत्र श्यामाकात्
सर्व एव पशुपुरोडाशा एकादशकपाला अन्यत्र वायव्याद्यद्देवत्यः पशुस्तद्देवत्यः पशुपुरोडाशोऽन्यत्र वायव्याद्भवति
सर्व एवाग्नावैष्णवा एकादशकपाला अन्यत्राध्वरकल्पायै
तत्रैवाष्टाकपालश्च द्वादशकपालश्च भवतः
सर्व एव सावित्रा द्वादशकपाला अन्यत्राश्वमेधिकेभ्यस्
तत्रैवाष्टाकपालश्चैकादशकपालश्च भवतः सावित्रोऽष्टाकपाल इति च
सर्व एव मारुताः सप्तकपाला अन्यत्राश्वमेधिकानां चातुर्मास्यपशूनां पशुपुरोडाशेभ्यो मारुताच्चैकविँ शतिकपालादन्यत्र राजसूयिकात्पञ्चशारदीयानां च पशूनां पशुपुरोडाशेभ्यः
किमनुख्यानि नु खलु ते विलेख्यानि कपालानि भवन्तीति
विज्ञायते वैश्वानरं द्वादशकपालं मृगाखरे भूमिकपालं निर्वपेदित्येतदनुख्यानि भवन्तीत्यथ पूर्वसँ स्थाः
पञ्चप्रयाजस्य नवप्रयाजस्यैकादशप्रयाजस्येति प्रयाजाः पूर्वसँ स्थाः

पर्यग्निकरणं पशोरुपाँ श्वभिषवोऽग्निष्टोमे गवामयने चतुर्विँ शमहस्
तदपि विज्ञायते तस्य त्रीणि च शतानि षष्टिश्च स्तोत्रीयास्
तावतीः संवत्सरस्य रात्रय इति १०

24.11
अथ राजयज्ञा राजसूयोऽश्वमेधः पुरुषमेधः सर्वमेधः सोमसवः पृथिसवो मृत्युसवः कानान्धयज्ञः शुनस्कर्णयज्ञ इति चाथादितिदेवता अग्न्याधेये त्वेव प्रथमश्चरुश्चातुर्मास्येषु द्वितीयः
प्रायणीयोदयनीययोरग्निदीक्षणीयायां त्रयो राजसूये रत्निमानेषु च प्रायुजेषु चादित्यां मल्हां गर्भिणीमालभत इति चैक इष्टिकल एको व्रात्यस्तोमे
चत्वारोऽश्वमेधेऽदित्यै विष्णुपत्न्यै चरुरदित्यै हँ ससाचिरदित्यै त्रयो रो-हितैतास्तिस्रो मेष्य आदित्या द्वौ सौत्रामण्याम्
आदित्याविर्वशा
ग्रहोऽष्टादश इति च
त्रीणि तन्त्राणि यज्ञमन्वायत्तानि भवन्ति पञ्चप्रयाजं नवप्रयाजमेकादशप्रयाजमिति
पञ्चप्रयाजेन दर्शपूर्णमासौ काम्या इष्टय इति वर्तन्ते
नवप्रयाजेन चातुर्मास्यान्येकादशप्रयाजेन पशुः सोम इति
षडिमानि सर्वकल्पे सर्वाभिप्रायिकाणि भवन्ति
यथैतदग्न्याधेयमग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोम इति

तदपि विज्ञायतेऽथ यदस्याग्निमुद्धरति सहस्रं तेन कामदुघा अवरुन्द्धेऽथ यदग्निहोत्रं जुहोति सहस्रं तेनैषा वै वैश्वदेवस्य मात्रैतद्वा एतेषामवमम्
अतोऽतो वा उत्तराणि श्रेयाँ सि भवन्ति
सर्वान्लोकान्पशुबन्धयाज्यभिजयत्येकस्मै वै कामायान्ये यज्ञक्रतव आलभ्यन्ते
सर्वेभ्यः कामेभ्यः पशुः सोम इति ११

24.12
अग्नीनाधास्यमानः प्रज्यमात्मानं कुर्वीत
येनास्याकुशलँ स्थात्तेन कुशलं कुर्वीत
यान्यृणान्युत्थितकालानि स्युस्तानि व्यवहरेदनुज्ञापयीत वाथाप्यग्न्याधेय एवर्त्विजां वरणं प्रथममुदाहरामस्
तस्य चेत्पूर्वपुरुषैर्वृताः स्युस्तानेव नातिवृणीताव्यवच्छिन्नाश्चेत्कौलेनाध्ययनेन मानुषेण शीलवृत्ताभ्याँ स्युरिति
किंगत उ खल्वतिवरणं वावरणं वा भवतीति
स्तेयमचारीदभ्यमँ स्थादयाज्यमयाजयत्सादितं कर्म तदु हास्थित इत्येतेषामेकस्मिन्नतिवरणं वावरणं वा भवतीति

ताँ श्चेद्वृणीताव्यापन्नाङ्गानेव वृणीत
कं नु खल्वेषां प्रथमं वृणीत
योऽस्य सँ स्तुततमः स्यात्तं प्रथमं वृणीत
तेन सचिवेनान्यान्लिप्सेत
यद्यु वै यथाज्येष्ठं ब्रह्माणं प्रथमं वृणीताथ होतारमथोद्गातारमथाध्वर्युम्ब्रह्मणो वानन्तरमध्वर्युम्पूर्वं वोत्तरं वा यथाकर्म चेत्स्यात्
सृष्टेन धनेनर्त्विजः प्रतिसंवसीत
त्रीण्यधिकरणान्यृत्विजां विनापि यक्ष्येऽज्याशिषि भार्यामकृषीति

को नु खल्वृत्विक्षु धर्म इति
य आचार्य इति
कथमर्हण इति १२

24.13
आगमआगम इत्येकम्
ऋतुमुखऋतुमुख इत्येकं संवत्सरस्य पार इत्येकं यज्ञाधिगम इत्येतदपरं को नु खल्वृत्विजां धर्म इति
न न्यस्तमार्त्विज्यं कुर्याद् नानुध्यातं नावक्रीतो याजयेद् नावृतो याजयेद् नातिवृतो याजयेद् नानूद्देश्यं याजयेद् न नीतदक्षिणं याजयेद् नापरपक्षे याजयेद् नार्तं याजयेद् न मृतं याजयेद् न त्रिकिणिनं याजयेद् न परिखातिक्रान्तं याजयेद् नान्तगं याजयेद्
नान्त्यजं याजयेद् नाननूचानं याजयेदपि वैतेषां तं याजयेद्यः कपालान्युपहन्याद्वृत्तिप्रेक्षे वर्तमाने
तदपि दाशतये विज्ञायतेऽवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम्। अपश्यं जायाममहीयमानामधा मे श्येनो मध्वाजभारेति
नैतेषामयाज्यः सहस्रदक्षिण इति १३

24.14
ऊषाश्च सिकताश्चेति
ये भस्मरा इवोषाः स्युस्तानाहारयेदारण्यस्य वराहस्य विहतादाहारयेदारण्यस्याखोरुत्करादाहारयेद्योऽनुपदासी सूदः स्यात्तत आहारयेत्
सूदेऽविद्यमाने कुलीरसुषिरादाहारयेदशनिहतेऽविद्यमाने शीतहतमाहारयेद्वातहतं वा
चित्रियस्याश्वत्थस्येति
येन ग्रामो वा नगरं वा नदी वा तीर्थं वा ज्ञायते तत आहारयेदश्वं पूर्ववाहमिति
युवानमित्येवेदमुक्तं भवति
त्रीन्हिरण्यशल्कानिति
षडिमान्कारयेत्
सौवर्णा उपासनार्था राजता अतिप्रदानार्था
उभौ मानुषेणालङ्कारेणालङ्कृतौ भवतोऽहतवाससाविति
सर्व एवान्यो मानुषोऽलङ्कारोऽन्यत्र नलदादार्तायैवैतदुदाहरन्ति
स्रजमु हैके प्रतिषेधयन्ति १४

24.15
ताः संवत्सरे पुरस्तादादध्यादिति
त्र्यहे षडहे द्वादशाहे वा
संवत्सरेऽपर्यवेत उद्वायति कथं तत्र कुर्यादिति
पुनरेव ब्रह्मौदनँ समुत्थापयेदा समिधामभ्याधानाद्न त केशश्मश्रु वापायीत
पुरस्तात्त्वेवैतत्संवत्सरँ संचक्षीत
प्रायश्चित्तार्थ एष उक्तो भवति
स यावत्कृत्व उद्वायेदेवमेव कुर्यात्
पर्यवेते नोपनमेदेवमेव कुर्यादुपनमत्युपवसथगविप्रभृति कर्म तायते
द्विब्रह्मौदनमु हैके ब्रुवत उच्छेषणीयो हेतरः सान्त्वकरण उत्तरोऽथ संभारेषूषान्निवपन्यददश्चन्द्र मसि कृष्णं तन्मनसा ध्यायेत्तदपीहेति
सामानि चेन्न प्रत्यधीयीत योनीर्निगदेदपि वा व्याहृतीभिरपि वा हिंकारेण
प्रणीतालोकेन रथचक्रं प्रवर्तयेत्
तस्य चेदादधानस्य पुरस्ताच्चन्द्र मा दृश्येत कथं तत्र कुर्यादिति
यः कर्मान्त आरब्धः स्यात्तं परिनिष्ठाप्य क्रमान्तेनोपरमेद्श्वो भूते परिनिस्तिष्ठेदित्यथ चेदिध्मेऽभ्याहिते दृश्येत कथं तत्र कुर्यादिति

पूर्णाहुत्यन्तं कर्म कृत्वा कर्मान्तेनोपरमेद्श्वो भूते परिनिस्तिष्ठेदिति १५

24.16
अथात ऋतुनक्षत्राणामेव मीमाँ सा ऋतूनेवाग्रे व्याख्यास्यामोऽथ छन्दाँ सीति
वसन्ते ब्राह्मणोऽग्निमादधीत ग्रीष्मे राजन्यः शरदि वैश्यो वर्षासु रथकार इति
सर्वेषां त्वेव वसन्त आधानँ सर्वेषाँ रोहिण्यां यथावर्णं त्वेव छन्दाँ स्यपि तु नु खलु कामनियुक्तान्यग्न्याधेयानि भवन्ति
यथैतद्भवति कृत्तिकास्वग्निमादधीत रोहिण्यामग्निमादधीत पुनर्वस्वोरग्निमादधीत पूर्वयोः फल्गुन्योरुत्तरयोः फल्गुन्योश्चित्रायामिति
सद्यस्कालान्येतानि भवन्ति
ग्रीष्मे राजन्यः शरदि वैश्य इति नैते सद्यस्काले भवतोऽथात आर्तिजान्यग्न्याधेयानि व्याख्यास्यामो विपक्ष आपूर्यमाणपक्षे विपक्षेऽपक्षीयमाणपक्ष इति
विपक्ष आपूर्यमाणपक्ष आदधानो यावानत्रावकाशः स्यात्तमभिविदधीत
पौर्णमास्यां तु सद्यस्कालम्विपक्षेऽपक्षीयमाणपक्ष आदधानो नात्रावकाशः वाङ्क्षणाय विद्यते
सर्वमेवैतदहः सद्यस्कालं कुर्याच्चतुर्होतारँ सारस्वतौ होमावन्वारम्भेष्टिमिति १६

24.17
अथ पौर्णमासवैमृधाभ्यामिष्ट्वामावास्यामेव ततः काङ्क्षेदथ चेदमावास्यायाँ सद्यस्कालममावास्यान्तम्
अथ सारस्वतौ होमौ जुहुवदृचैवर्चमुपसंदध्यादेवं पूर्णदर्व एवं वास्तोष्पतीये
कथमु खलु पूर्णाहुतिं जुहुयादग्नये पृथिव्यै वायवेऽन्तरिक्षाय सूर्याय दिवे वरुणायाद्भ्यः स्वाहेति जुहुयादथेदं तूष्णीमग्निहोत्रमग्निसँ स्कारार्थं दृष्टं भवति
तदाज्येनैव जुहुयादवाचीनमवमृज्योर्ध्वमुन्मार्ष्ट्युभे एवैते सायंप्रातरग्निहोत्रे प्रतिजुह्वन्मन्यत औपवसथिकायै रात्रेः
सामिधेनीरनुवक्ष्यन्दशहोतारं व्याख्याय व्याहृतीरुक्त्वाथ हिंकुर्यादथानुब्रूयादेतदत्रानुपूर्व्यं भवति
कथमु खल्वग्न्याधेय सोम इति
पूर्णाहुत्यन्तं क्रम कृत्वा शालामध्यवस्येद्दीक्षणीयामाग्नेयोऽष्टाकपालोऽनुवर्तेत प्रायणीयामैन्द्रा ग्नश्चादित्यश्च चरुरातिथ्यामग्नये पवमानाय पुरोडाशोऽष्टाकपालोऽग्नीषोमीयस्य पशुपुरोडाशमग्नये पावकायाग्नये शुचये प्रातःसवनीयानन्वारम्भेष्टिरपि वा सर्वाण्येवाग्न्याधेयिकानि हवीँ षि परिनिष्ठाप्य शालामध्यवस्येदुदवसानीयामन्वारम्भेष्टिरिति १७

24.18
अथेदं पुनराधेयं कियन्नु खलु पुनराधेयं भवतीत्यग्नीनाधाय पापीयानभूवमज्याशिषि पुत्रो मे मृत इत्येतस्मिँ स्त्वेवैतत्संवत्सरे दृष्टं भवति
कस्मिन्नु खल्वेनत्काले समुत्थापयेदिति
सा याषाढ्याः पौर्णमास्याः पुरस्तादमावास्या भवति सा सकृत्संवत्सरस्य पुनर्वसुभ्याँ संपद्यते तस्यामादधीतेति
तस्या उपवसथेऽरण्योरग्नीन्समारोप्योदवसाय मथित्वाग्नीन्विहृत्योद्वासन्येष्ट्येष्ट्वाग्नीन्समारोप्य गच्छेत्पुनरेतदग्न्यगारँ सँ स्कारयेदन्यद्वा नवं कारयेत्पुनरेतानि यज्ञपात्राणि संलेखयेदन्यानि वा नवानि कारयेत्
पुनर्निष्कृतो रथो दक्षिणेति पुनःसँ स्कृत एवैष उक्तो भवति
पुनरुत्स्यूतं वास इति पुनःसँ स्कृतमेवैतदुक्तं भवति

पुनरुत्सृटोऽनड्वानित्यवशीर्णगव एवैष उक्तो भवत्यथेमान्युपाँ शुधर्माणि भवन्ति यथैतदग्न्याधेयं पुनराधेयं पितृयज्ञो दीक्षणीया प्रायणीयातिथ्योपसदः प्रातरनुवाकः पत्नीसंयाजा अवभृथ उदयनीयोदवसानीया चितिप्रणयनीयं त्वाष्ट्रो यूपविरोहणीयोऽष्टापदी गर्भवती च
सहकारिप्रत्यया भवन्ति
यथो एतद्बौधायनस्य कल्पं वेदयन्ते १८

24.19
सर्पराज्ञिया ऋग्भिर्गार्हपत्यमादधातीत्यपोद्धृत्य घर्मशिर एतस्य स्थाने सर्पराज्ञीरावपेद्नित्येनोपस्थाय पौनराधेयिकेनोपतिष्ठेत
सिद्धमत ऊर्ध्वम्
ईजानस्य पुनरादधानस्य संनये३न्न संनये३दिति
संनयेदित्येक आहुरथ हैक आहुर्न संनयेदिति
शरीरसँ स्पर्शी ह यज्ञो भवति यदैव पुनर्यजेताथ संनयेद्
शताक्षरा भवन्तीत्यक्षरपङ्क्त्य एताश्चतस्र एकैका पञ्चविँ शत्यक्षरा
तच्छतम्
अथेदं तृतीयाधेयं कतरन्नु खल्विदमुपनिश्रयतीत्यग्न्याधेयं वा पुनराधेयं वेत्यग्न्याधेयमित्येव ब्रूयादथापहृताग्नेर्नष्टारणीकस्य च ब्रह्मौदनेनैव प्रतिपद्यते
सिद्धमग्न्याधेयम् १९

24.20
अथेमौ दर्शपूर्णमासौ पौर्णमास्युपक्रमावमावास्यासँ स्थावाचार्या ब्रुवते
तत्रोपदाहरन्त्यूर्ध्वं मध्यरात्रात्पौर्णमास्यां चन्द्र माः पूर्यते
स एतं चापररात्रं पूर्णा भवति सर्वं चाहरुत्तरस्याश्च रात्रेरा मध्यरात्रादथामावास्याया उपवसथीयेऽहन्यूर्ध्वं मध्यंदिनाच्चन्द्र मसमादित्यो लभते
स एतं चापराह्णं लब्धो भवति सर्वां च रात्रिमुत्तरस्य चाह्न आ मध्यंदिनादेतँ सन्धिमभियजेतेति
रात्रिर्ह पौर्णमास्याँ संधेया भवत्यहरमावास्यायां द्वे पौर्णमास्यौ द्वे अमावास्ये
पूर्वांपूर्वं पौर्णमासीमुत्तरामुत्तराममावस्यां या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूर्
गायत्री वा अनुमतिस्त्रिष्टुग्राकेति पौर्णमास्यै नामधेये जगती सिनीवाल्यनुष्टुप्कुहूरित्यमावास्यायै नामधेये २०

24.21
अथायं चन्द्र माः षोडशकलस्
तस्य पञ्चदशभिः पक्षोऽभिविहितो भवति
षोडशी त्वियं कला बहुधा विप्रविष्टा ब्राह्मणेष्वप्स्वोषधीषु वनस्पतिषु पशुष्विति
स यदेतानि यज्ञे क्रियन्ते तेनैषा संभ्रियतेऽथोपवसथस्यानानि चतुर्दशी पञ्चदशी षोडशी
न तु त्रयोदशी सप्तदशी भवतः
सोऽयमाहिताग्निरुपवसथीयेऽहन्पुरा प्रातरग्निहोत्रात्पिङ्ख्यानुपसादयेदन्वाधानार्थान्
व्रतोपायनीयं पाचयीत
तस्याशितौ भवतः
सर्पिर्मिश्रं दधिमिश्रमक्षारलवणमपिशितं सर्वमेवैतदहः कौशीधान्यं वर्जयेदन्यत्र तिलेभ्यस्
तस्य ब्राह्मणं प्रतिपाद्याश्नीयाद्
नैतदहः शूद्रा योच्छिष्टं दद्यात्
पत्न्या एवैतदहरुच्छिष्टं दद्याद्नासन्द्याँ शयीत न स्त्रियमुपेयात्
कामं त्वेवोपरि शयीत स्त्रियं त्वेव नोपेयाद्व्रतचारी त्वेव स्यात्
स यदि केशश्मश्रु वापयिष्यमाणः स्यात्केशश्मश्रु वापयित्वा लोमानि सँ हृत्य नखानि निकृन्तयीत
स्नायादभ्यञ्जीताञ्जीत
दीक्षायै रूपं कुर्वीताग्नीनन्वादध्यादुपस्थं कृत्वा गार्हपत्यमूर्ध्वज्ञुरन्वाहार्यपचनं प्रह्व आहवनीयं तिष्ठन्दशमीं निगदेदिति २१

24.22
अन्वाहिताश्चेदग्नय उद्वायेयुः सवनीयं गार्हपत्यस्याहवनीय उद्वाते भस्मोद्वाप्य शकृत्पिण्डेन परिलिप्य ज्वलन्तमाहवनीयमुद्धृत्य न्युप्योपसमाधाय पुनरन्वाधाय व्याहृतीभिरुपतिष्ठेताथ यदन्वाहार्यपचन उद्वायेदेवमेवैनँ हरेदनार्ता ह्येषा देवता यदन्वाहार्यपचन इति
पुनरन्वाधाय व्याहृतीभिरुपतिष्ठेताथ यस्याग्निमनुद्धृतँ सूर्योऽभ्यस्तमियाद्वाम्युदियाद्वा यथासूत्रं वा कुर्यादपि वा संतनीं जुहुयाद्मनो ज्योतिर्जुषतां त्रयस्त्रिँ शत्तन्तव इत्येते स्रुवाहुती हुत्वा व्याहृतीभिरुपतिष्ठेताथाभ्यस्तमिते वारुणीँ स्रुवाहुतिँ हुत्वा व्याहृतीभिरुपतिष्ठेताथाभ्युदिते मैत्रीँ स्रुवाहुतिँ हुत्वा व्याहृतीभिरुपतिष्ठेत
व्याहृतीभिरेवान्वाहार्यपचनम्
अथारण्योरग्निषु समारूढेष्वात्मनि वाध्वगते न प्रायश्चित्तमाचार्या ब्रुवते

तत्रोदाहरन्ति काममात्मनि समारूढेष्वरण्योरुपावरोह्य मन्थेदपि वामात्यं विहृत्य तस्मिन्नुपावरोह्य जुहुयादथारण्योः समारूढेषु मथित्वाग्नीन्विहृत्य जुहुयादपि वामात्यं विहृत्याग्नीनन्तरारणी निधाय जुहुयात् २२

24.23
यथा राजविशामेवं निर्मन्थ्यो वृथाग्नेस्
तत्सिद्धमेके ब्रुवते
यावति कृष्णमृग उपविशेत्तावदवरार्धोऽध्वगतो विहारोऽग्नीनन्वादध्याद्व्रतमुपेयाद्व्रतोपेतस्य पर्णशाखामाच्छेयादेतदत्रानुपूर्व्यं भवत्य्
त्रीणि पलाशजातानि भवन्ति श्लक्ष्णको लोमशको व्रततिरिति
लोमशकस्यैवैषा छेत्तव्या भवति
यावन्मात्रे गौर्निकर्षेत न तत ऊर्ध्वं छिन्द्यादपशव्यात ऊर्ध्वँ स्यात्
स यद्यु हाग्निहोत्रोच्छेषणात्प्रमाद्येत्तत्पुनरेवाग्निहोत्रं जुहुयादथेमाः सांनाय्यदुहः षडवमाः समाम्नाता भवन्ति
ताश्चेत्तिस्र एव स्युः प्रथमां वोत्तमां वा चतुर्विगृह्णीयादथ चेद्द्वे एव स्यातामितरेतरां त्रिस्त्रिर्विगृह्णीयादथ चेदेकैव स्यात्तामेव षट्कृत्वो विगृह्णीयात्
विसृष्टवागनवारभ्योत्तरा दोहयेदित्यपरिमितानामेवैतदुक्तं भवतीति २३

24.24
द्वादश द्वन्द्वानि दर्शपूर्णमासयोस्
तानि संपाद्यानीति
स्फ्यश्च कपालानि चेति पञ्च
वत्सं चोपावसृजत्युखां चाधिश्रयतीति सप्त
तानि द्वादशामावास्यायामेवैतत्संनयत उपपद्यते नासंनयतेऽथेयं दार्शपौर्णमासिकी वेदिर्यजमानमात्री भवत्यपरिमिता वा
यथासन्नानि हवीँ षि संभवेदेवं तिरश्ची
प्राञ्चौ वेद्यँ सावुन्नयत्याहवनीयस्य परिगृहीत्यै
प्रतीची श्रोणी निरूहति गार्हपत्यस्य परिगृहीत्यै
पुरस्तादँ हीयसी पश्चात्प्रथीयसी मध्ये संनततरा भवतीत्येवमिव हि योषेति
तस्यै वदतीयतीं खनति प्रजापतिना यजमानमुखेन संमितामा प्रतिष्ठायै खनतीति
द्व्यङ्गुलं खेयेत्येकेषां त्र्यङ्गुलं खेयेत्येकेषां चतुरङ्गुलं खेयेत्येकेषां सीतामात्रीत्येकेषां रथवर्त्ममात्रीत्येकेषां यावत्पार्ष्णियै श्वेतमित्येकेषाम्
एतदेव सदन्येषामनुनिक्रान्ततरं भवति
नैता मात्रा अतिखनेद्दक्षिणतो वर्षोयसीं करोति
पुरीषवतीं करोति
प्राचीमुदीचीं प्रवणां निस्तिष्ठन्तीतीयन्तं गृह्णातीति प्रस्तरस्य वदति २४

24.25
संनखमात्रो ग्रहीतव्य इत्येकेषाम्विशारुको ग्रहीतव्य इत्येकेषां
स्रुग्दण्डमात्रो ग्रहीतव्य इत्येकेषां स्रुवदण्डमात्रो ग्रहीतव्य इत्येकेषाम्
उर्वस्थिमात्रो ग्रहीतव्य इत्येकेषाम्
अङ्गुष्ठपरुषा संमितो ग्रहितव्य इत्येकेषाम्
अपरिमितो ग्रहीतव्य इत्येकेषाम्
इयतीर्भवन्तीति समिधां वदति
प्रादेशमात्रीरेवैता उक्ता भवन्त्यनेन संमिताः कार्या इत्याहुरनेन ह्यग्रे प्रजापतिः प्रजा असृजतेति
किंदेवत्ये उ खलु पवित्रे किंपूते भवत इति
वैष्णवी वायुपूते इत्येव ब्रूयादनखच्छिन्ने स्याताम्प्रणीताः प्रणयन्ननयापः प्रणयामीति पृथिवीं मनसा ध्यायेत्
समान्येतानि कुर्यात्प्रणीता आहवनीयं ब्रह्माणमिध्माबर्हिरिति यज्ञस्य शिर इत्येतदाचक्षते
किंप्रोक्षिता उ खलु प्रोक्षिण्यो भवन्तीति
विज्ञायते ब्रह्मवादिनो वदन्त्यद्भिर्हवीँ षि प्रौक्षीः केनाप इति
ब्रह्मणेति
ब्रह्मप्रोक्षिता एव भवन्ति
हविष्कृदेहीति ब्राह्मणस्य वदति हविष्कृदागहीति राजन्यस्य हविष्कृदाद्र वेति वैश्यस्य
हविष्कृदेहीति पर्जन्य एवैष उक्तो भवत्यथाप्युदाहरन्ति हविःसँ स्कारीमेवैतदाहेति
दृषदुपले वृषारवेणोच्चैः समाहन्तीति
विज्ञायते ब्राह्मणमुच्चैः समाहन्तवयाह विजित्यै

यावन्तोऽस्य भ्रातृव्या यज्ञायुधानामुद्वदतामुपशृण्वन्ति ते पराभवन्तीति
द्विर्द्विर्दृषदि सकृत्सकृदुपलायां नवकृत्वः संपादयतीति विज्ञायते २५

24.26
अपाग्नेऽग्निमामादं जहीति
को नु खल्वामाद्भवतीत्यपराग्निरेवैष उक्तो भवति
निष्क्रव्यादँ सेधेत्यादहनाग्निरेवैष उक्तो भवत्या देवयजं वहेत्याहवनीय एवैष उक्तो भवति
को नु खलु कव्यवाहन इत्यन्वाहार्यपचन इत्येव ब्रूयाद्विज्ञायते यदग्ने कव्यवाहन पितॄन्यक्ष्यृतावृध इति
कुतो नु खलु पिष्टानि संवपेत्कृष्णाजिनादित्येव ब्रूयात्
संवपन्पिष्टानि वाचं यच्छति
तामविदहन्तः श्रपयतेत्येव वाचं विसृजते
यो विदग्धः स नैरृतो योऽशृतः स रौद्रो यः शृतः स सदेव इति
साधुशृतँ श्रपयतीत्येवेदमुक्तं भवति
सं ब्रह्मणा पृच्यस्वेति
विज्ञायते वाग्वै ब्रह्म वाचैवैनमेतत्संपृणक्ति
क्व उ खलु हविः पृक्तँ श्रप्यत इति
यदैवैतदाप्येभ्यो निनयत्येकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहेति

को नु खल्वेकतः को द्वितः कस्त्रित इति
पिता पितामहः प्रपितामह इत्येके
पृथिव्यन्तरिक्षं द्यौरित्येकेऽग्निरादित्यो वैद्युत इत्येके २६

24.27
अग्नेस्त्रयओ ज्यायाँ सो भ्रातर आसन्नित्येक ऋषय एतन्नामधेया बभूवुरित्येके
ते देवा आप्येष्वमृजतेत्याप्यनामधेया देवा भवन्ति
क्व उ खलु पौर्णमास्यां पितृभ्यो दीयत इति
यदेवैतच्छ्रोण्योर्निनयतीति
किमभिघारितं नु खल्वाज्यं भवतीति
सत्याभिघारितमित्येव ब्रूयाद्विज्ञायते सत्येन त्वाभिघारयामि तस्य ते भक्षीयेति
पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामीत्यनुदिशं वाता विष्वग्वात एवैषां पञ्चमो भवति
पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामीति हेमन्तशिशिरावत्र समासं गच्छतः
पञ्चानां त्वा दिशां यन्त्राय धर्त्राय गृह्णामीतीयमेवासामूर्ध्वा दिक्पञ्चमी भवति
पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामीति देवा मनुष्या असुरा राक्षसा गन्धर्वा एवैषां पञ्चमा भवन्ति
चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामीत्ययमेवैष आकाशश्चरुः पञ्चबिलो भवति

दिशोऽस्य पञ्च बिलानि भवन्ति वायुर्मेक्षणमित्यत्राप्युदाहरन्ति संवत्सर एवापि चरुः पञ्चबिलो भवत्यृतवोऽस्य बिलानि भवन्ति वायुर्मेक्षणमिति २७

24.28
अथाध्वर्योश्च होतुश्च प्रपदनम्
अन्तरेण वेद्युत्करौ प्रागावृत्तोऽध्वर्युः प्रपद्यते प्रत्यगावृत्तो होताध्वर्युरनन्तरोऽग्नेः स्यादार्षेयमसंप्रजानानस्य प्रवरं ब्रूहीति मनुष्वद्भरतवन्मनुवदित्येव ब्रूयाद्विज्ञायते मानव्यो हि प्रजासिति ब्राह्मणम्पुरोहितप्रवरो वा राज्ञोऽथाप्रज्ञातबन्धुराचार्यामुष्यायणमनुब्रवीताचार्यप्रवरमु हैव प्रवृणीताथ होतारं प्रवरयेत्
पयसा दैवतमभिवर्धयेद्दध्ना स्विष्टकृतं व्यतिषज्यैवाङ्गुली अवद्येदङ्गुष्ठपर्वमात्राणि दैवतान्यवदानानि भवन्ति ज्यायाँ सि सौविष्टकृतान्यैडानि च
चतुर्धाकरणानि ब्रह्म प्रतिष्ठेति
हुत्वा स्विष्टकृतँ स्रुचमद्भिः पूरयित्वान्तःपरिधि निनयेद्वैश्वानरे हविरिदं जुहोमीति

किमु खल्वसमुदितं भवतीति प्रागानूयाजिकात्संप्रैषादित्येव ब्रूयात् २८

24.29
किंदक्षिणमग्निहोत्रं दर्शपूर्णमासौ काम्या इष्टयः पशुबन्ध इत्युपदोहदक्षिणमग्निहोत्रमित्येके
शरावदक्षिणमग्निहोत्रमित्येके
यत्सायं जुहोति रात्रिमेव तेन दक्षिण्यां कुरुते
यत्प्रातरहरेव तेन दक्षिण्यं कुरुते
यत्ततो ददाति सा दक्षिणेति
यदहोरात्रयोर्ददातीत्येवेदमुक्तं भवत्यथ दर्शपूर्णमासयोरन्वाहार्यश्च पुरोडाशस्य च चतुर्धाकरणम्विज्ञायते दक्षिणैवास्यैषाथो यज्ञस्यैव छिद्र मपिदधातीति
यथैवादः सौम्येऽध्वर आदेशमृत्विग्भ्यो दक्षिणा नीयन्त एवमेवापि दक्षिणं पुरोडाशं चतुर्धाकृत्वा बर्हिषदं करोति
वासोदक्षिणाः काम्या इष्टयो या अनादिष्टदक्षिणा गोदक्षिणः पशुबन्धो नित्योऽन्वाहार्यो यथो एतच्छालीकेः कल्पं वेदयन्ते पत्नीसंयाजेषु सर्व एवोत्तरेण गार्हपत्यं परिक्रामेयुरित्यनभ्यावृत्यैवात्र फलीकरणहोमो होतव्यो भवत्यथ हैके राकां च सिनीवालीं च कुहूं चानुमतिं च पत्नीहोमं च नारिष्ठौ च होमौ पुरस्ताद्गृहपतेरुपजुह्वति सं पत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम्। संजानानौ विजहतामरतीर्दिवि ज्योतिरजरमारभेताँ स्वाहा ॥

दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्रशिषमीडमानो देवानां दैव्येऽपि यजमानोऽमृतोऽभूत्स्वाहा ॥
यं वां देवा अकल्पयन्नूर्जो भागँ शतक्रतू । एतद्वां तेन प्रीणानि तेन तृप्यतमँ हहौ स्वाहेति २९

24.30
अथेदमग्निहोत्रँ सायमुपक्रमं प्रातरपवर्गमाचार्या ब्रुवते
तत्रोदाहरन्ति ज्योतिषी इमे संनिपतिते भवत आदित्यस्य चाग्नेश्च
ते न व्यवेयात्
सायमाहवनीयमुद्धरन्पुरस्तात्प्रत्यङ्मुखो निवपेत्प्रातराहवनीयमुद्धरन्पश्चात्प्राङ्मुखो निवपेत्
सायमग्निहोत्रँ होष्यन्नग्रेण परीत्य जुहुयात्प्रातरग्निहोत्रँ होष्यन्नपरेण परीत्य जुहुयादेवमस्यैते ज्योतिषी अव्यवेते भवतोऽथायमुद्धरणमन्त्रो वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामि भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वाँ श्चकार । अह्ना यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति सायं रात्रिया यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति प्रातर्
अग्निं निदधात्यमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयानन्तं काममितो जयेम प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहेति सायं
सूर्यमग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहेति प्रातर्
एतद्ध वा अग्नेरग्निहोत्रं पयोहोत्रमितरधोष्यन्यथाहितमग्नीन्परिषिञ्चेद्धुत्वाहवनीयमेवैकं परिषिञ्चेधोष्यँ श्चैव हुत्वा चाहवनीयमेवैकं परिषिञ्चेद्नैव परिषिञ्चेदित्येतदपरम्
अथेदं परोक्षोपस्थानं भवतीहैव सन्तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीद्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इत्यथेमाँ समिधं प्रवसतस्तूष्णीमभ्यादध्यात्
प्रवसन्याजमानं कुरुते ३०

24.31
अथेमँ समस्तहोमं यायावरधर्मेण विद्यमानमाचार्या ब्रुवते
तत्रोदाहरन्ति यायावरा ह वै नार्मषय आसंस्तेऽध्वन्यश्राम्यंस्ते समस्तमजुहवुस्
तस्माद्यायावरधर्मेणाध्वनि समस्तँ होतव्यं तस्यानिमित्तो होमः
संवेशनेन वा निमीलनेन वोपसमाधानेन वान्तर्दध्याद्न शूद्र गव्या अग्निहोत्र जुहुयान्नाहितायै न मृतवत्सायै न वहलायै न वाहिन्यै न वान्यायै न वान्यवत्सायै नानुदेश्यप्रतिगृहीतायै नानुस्तरणीप्रतिगृहीतायै

नैकस्यै दुग्धेन बहवो जुहुयुर्न बह्वीनामेवैको दुग्धं लभमानस्योपसादनप्रभृति स्कन्नानुमन्त्रणं भवति
दीप्यमानेष्वहूयमानेषु यावन्त्यग्निहोत्राण्यभ्यतिक्रान्तानि स्युस्तानि प्रतिसंख्याय प्रतिजुहुयात्
स यद्यनस्तमिते जुहुयात्पुनरेवास्तमिते जुहुयादथ यदि महारात्रे जुहुयात्पुनरेवौषसं जुहुयादिति ३१

24.32
कथमु खलु जीवपितुः पिण्डदानं भवतीति
येभ्य एव पिता ददाति तेभ्यः पुत्रो ददाति
द्वाभ्यां जीवपिता ददात्येकस्मै जीवपितामहो ददाति
न जीवन्तमतिदद्यादित्येके
पितृव्यस्य चेत्सगोत्रस्य दायमुपयच्छेत कथं तत्र पिण्डदानं भवतीति
यस्मिन्काले पित्रे पिण्डं ददाति तस्मिन्कालेऽस्य पिण्डं निपृणुयाद्
अथ चेदसगोत्रस्य दायमुपयच्छेत कथं तत्र पिण्डदानं भवतीति
स्वेभ्यो दत्त्वा प्रतिवेशं बर्हि स्तीर्त्वा बर्हिःप्रभृति पिण्डं दद्यादपि वागार एव स्थालीपाकँ श्रपयित्वा बर्हिःप्रभृत्येव पिण्डं दद्यात्
कथमु खलु पुत्रिकापुत्रस्य पिण्डदानं भवतीत्येतत्तेऽमुष्यै तत मम पितामह ये च त्वामन्वेतत्तेऽमुष्यै पितामह मम प्रपितामह ये च त्वामन्वेतत्तेऽमुष्यै प्रपितामह मम प्रप्रपितामह ये च त्वामन्विति
प्रविदानकल्पेन वा दद्यात्स्वधा पितृभ्यः पृथिवीषद्भ्यः स्वधा पितृभ्योऽन्तरिक्षसद्भ्यः स्वधा पितृभ्यो दिविषद्भ्य इति
पितुश्चेत्पितामहस्य प्रपितामहस्येति नामानि न जानीयात्कथं तत्र पिण्डदानं भवतीति
प्रविदानकल्पेन वा दद्यादपि वैतत्ते तत ये च त्वामन्वेतत्ते पितामह ये च त्वामन्वेतत्ते प्रपितामह ये च त्वामन्वित्युत्तर आयुषि लोम छिन्दीतेति
कस्मिन्नु खल्वेतत्काले छेत्तव्यं भवतीत्यूर्ध्वँ षट्षष्टिभ्यश्च वर्षेभ्योऽष्टाभ्यश्च मासेभ्य इत्येतस्मिन्नेवैतत्काले छेत्तव्यं भवतीति
कथमु खल्वनाहिताग्नेः पिण्डपितृयज्ञो भवतीत्यनिरुप्तँ स्थालीपाकँ श्रपयित्वाग्निमुपसमाधाय संपरिस्तीर्याहुतीर्हुत्वा दक्षिणेनाग्निं दक्षिणाग्रं बर्हि स्तीर्त्वा बर्हिःप्रभृति पिण्डं दद्याद्
अपि वागार एव स्थालीपाकँ श्रपयित्वा बर्हिःप्रभृत्येव पिण्डं दद्याद्यज्ञोपवीत्येव प्राजापत्ययर्चैतमग्निमुपतिष्ठेतेति ३२

24.33
यथो एतद्बौधायनस्य कल्पं वेदयन्ते हविष्कृता वाचं विसृज्याज्यानीर्जुहुयात्कस्मिन्नु खल्वेनाः काले जुहुयादिति
प्रस्कन्दनान्तं कर्म कृत्वैतस्मिन्नेनाः काले जुहुयात्
कथमु खल्वनाहिताग्नेराग्रयणं भवतीत्यनिरुप्तँ स्थालीपाकँ श्रपयित्वाग्निमुपसमाधाय संपरिस्तीर्याघारावाघार्याज्यभागाविष्ट्वाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यो जुहुयात्
कामं पुरस्तात्स्विष्टकृतोऽज्यानीरुपजुहुयात्
तस्यैतेनैव मन्त्रेण प्राश्नीयाद्भद्रा न्नः श्रेयः समनैष्ट देवा इत्यपि वा श्रुतवतो ब्राह्मणस्य हुतोच्छेषणाल्लिप्सेत
समानः प्राशनमन्त्रः
कथमु खल्वन्तर्विराजं बहिर्विराजमन्तर्बर्हिर्विराजमिति जानीयाद्नित्येनोपस्थाय विराजक्रमैरुपतिष्ठेत प्रोष्य पुनरागम्य विराजक्रमैरुपस्थाय नित्येनैवोपतिष्ठेतैतेनैव बहिर्विराजमुक्तमन्तर्बहिर्विराजं चेति
सोऽधः संवेश्यमाँ साश्यस्त्र्! युपायी प्रवसति
विपरीतनामधेय एष भवति

स स्विद्यथेदं प्रायश्चित्तं मध्ये पतितमाश्विनो द्विकपालस्तमन्तमेव परिणयेद्दीक्षणीयायां चेन्नश्येत्प्रायणीयामनुवर्तेत
प्रायणीयायां चेन्नश्येदातिथ्यामनुवर्तेतातिथ्यायां चेन्नश्येदग्नीषोमीयस्य पशुपुरोडाशमुत्तरमुत्तरं तन्त्रमनुवर्ती स्यादथ चेदग्निदीक्षणीयायां नश्येत्कस्मिन्नु खल्वेनं काले निर्वपेदिति
दीक्षाहुतीर्हुत्वैतस्मिन्नेनं काले निर्वपेदपि वा प्रागौद्ग्रहणाद्यथो एतद्बौधायनस्य कल्पं वेदयन्ते प्रवसतः प्रस्तरेणैवास्य सह यजमानभागमनुप्रहरेद्ध्रुवायै वाज्येन पर्युपस्तीर्य जुह्वामवधाय जुहुयात्प्रस्तरभूयं यजमानभागो गच्छतीति प्रवसतः प्रस्तरेणैवास्य सह यजमानभागमनुप्रहरेदिति ३३

24.34
अथायं पशुः सोपवसथस्
तस्य कः कर्मण उपक्र्मो भवतीत्यजस्रैरग्निभिरुदवसाय षड्ढोतारँ हुत्वा यूपाहुतिँ हुत्वा यूपँ सयजुषं कृत्वा वेदिं विमाय व्रतोपायनीयमशित्वाग्नीनन्वादध्याद्व्रतमुपेयादिध्माबर्हिः संनह्योपवसेदथ प्रातराग्नेयेनाष्टाकपालेन यजेतेति नु बौधायनस्य कल्पो नाग्नीनन्वादध्यान्न व्रतमुपेयात्

पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेद्ब्रह्माणं दक्षिणत उपवेशयेत्तूष्णीम्प्रणीते त्वौत्तरवेदिके मन्त्रेणोपविशेत्
प्रोक्षणीः सँ स्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्निकृत्वा स्फ्यहस्तः प्राङेत्य स्तम्बयजुर्हरेत्
सिद्धमत ऊर्ध्वम्
अथ शालीकेररण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्यैवमेव षड्ढो-तारँ हुत्वा यूपाहुतिँ हुत्वा यूपँ सयजुषं कृत्वा वेदिं विमायाग्नीनन्वादध्याद्व्रतमुपेयादिध्माबर्हिः संनह्येत्
पाणी संमृशीत
परिस्तृणीयात्
पात्राणि निर्णिज्य सँ सादयेद्ब्रह्माणं दक्षिणत उपवेशयेत्तूष्णीम्प्रणीते त्वौत्तरवेदिके मन्त्रेणोपविशेत्
प्रोक्षणीः सँ स्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्निकृत्वा गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्याहवनीये पूर्णाहुतिँ हुत्वा स्फ्यहस्त प्राङेत्य स्तम्बयजुर्हरेत्
सिद्धमत ऊर्ध्वम् ३४

स्फ्य

24.35
स्फ्यो यूपो भवतीति
कथमु खल्वस्य स्वरुरधिमन्थने यूपशकले इति भवन्तीत्येतस्यैवावतक्ष्णुयादपि वान्यस्य तज्जातीयस्य वृक्षस्य कुर्याद्
अचषाल एष भवति
प्रोक्षणप्रभृति मन्त्रान्साधयेदा परिव्ययणात्तृतीयवेलायां परिव्ययेदेवमुपरसंमितायाम्पञ्चारत्निप्रभृतयः पाशुबन्धिका यूपा भवन्त्या नवारत्नेर्नवारत्निप्रभृतय आग्निष्टोमिका यूपा भवन्त्यैकविँ शत्यरत्नेस्
त्र्यरत्निश्चतुररत्निर्वा निरूढपशुबन्धस्य पालाशो यूपः
किमु खलु प्रवसतः पशुबन्धः सिध्यती३ न सिध्यती३ इति
सिध्यतीत्येक आहुरथ हैक आहुर्न सिध्यतीति लोकाग्नीन्खल्विमान्द्वितीयमग्न्याधेयं ब्रुवते
न तु खलु प्रवसतः पशुबन्धः सिध्यतीति ३५

24.36
कियन्नु खलु पशुबन्धे याजमानं भवतीति
व्रतोपायनव्रतविसर्जने यज्ञस्य पुनरालम्भ आज्यावकाशमु हैके ब्रुवत उपप्रैषाश्रावण इति
किंदेवत्यं नु खल्विदं भवतीति
मृत्युदेवत्यमित्येव ब्रूयादथेमाः पशुबन्धे षट्प्रोक्षण्यस्तिस्रो ह मन्त्रवत्यस्तिस्रस्तूष्णीका यवमतीरिन्द्र घोषवतीः पशुप्रोक्षणीरिति तूष्णीकाः
पशुपुरोडाशीयप्रोक्षणीः पात्रप्रोक्षणीरिध्माबर्हिःप्रोक्षणीरिति मन्त्रसँ स्कृताः
पशुबन्धे चेदाज्यभागावुदाजिहीर्षेत्कस्मिन्नु खल्वेनौ काले यजेदिति

स्वाहाकृतिप्रैषेण चरित्वा प्राग्वपायै
पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयोऽन्य इत्यादित्यस्यैवैते रश्मयः प्राचीनाश्च प्रतीचीनाश्च भवन्त्यथायं पशुपुरोडाशस्
तस्य कः कर्मण उपक्रमो भवतीति
जघनेन गार्हपत्यँ स्फ्यं निदध्यात्
स्फ्योपरि पात्रीम्पात्र्! यां व्रीहीनावपेद्शूर्पादानप्रभृति कर्मान्तस्तायत आप्यनिनयनान्तो जघनेन गार्हपत्यमाप्येभ्यो निनयेत्
प्रोक्षाणीशेषेण पुरोडाशीयानि पिष्टानि संयौयादेवँ सवनीयानां यथो एतद्बौधायनस्य कल्पं वेदयन्ते ३६

24.37
निरवदायैवास्य स्विष्टकृतमिडामवद्येत्कथमत्र चतुरवत्तं भवतीत्युपस्तीर्य पुरोडाशं द्वेधा कृत्वाभिधारयेदेवमस्य चतुरवत्तं भवत्यथ हैक आचार्या एकादश धर्मान्पशुबन्ध उत्सादयन्त्यग्न्यन्वाधानं व्रतोपायनं पृष्ठ्यां प्रणीतां याजमानमाज्यभागौ प्राशित्रं यजमानभागब्रह्मभागौ चतुर्धाकरणं विष्णुक्रमानिति
कियन्नु खलु पशुबन्धे दर्विहोमा दृष्टा भवन्तीति
षड्ढोता यूपाहुति स्तोक्या दिशांप्रतीज्यौपयज इति
किंदेवत्या उ खलु मनोता भवतीत्याग्नेयीत्येव ब्रूयात्
किंदेवत्य उ खलु वनस्पतिर्भवतीति
वैष्णव इत्येव ब्रूयाद्विज्ञायते वैष्णवा वै वनस्पतय इत्यथाप्युदाहरन्ति यज्ञो वै विष्णुरित्यथायं पशुः सार्वत्रैष्टुभो भवत्येकादश प्रयाजा एकादशानुयाजा एकादशकपालः पशुपुरोडाश एकादशावदानान्येकादशोपयाजा इत्य्
यथो एतच्छालीकेः कल्पं वेदयन्तेऽरण्योरग्नीन्समारोह्योदवस्येत्ता चेत्तत्र चेष्टन्तमादित्योऽभ्यस्तमियात्कथं तत्र प्रायश्चित्तँ सिध्यती३ न सिध्यती३ इति
सिध्यतीत्येक आहुरथ हैक आहुर्न सिध्यतीति
यज्ञाभिपरीत एष आकाशो भवति
नैव सिध्यतीतीन्न्वा अयं पशुः सार्वत्रैष्टुभो व्याख्यातः ३७

24.38
अथातः काम्यान्पशून्व्याख्यास्यामः
को नु खल्वेषामुपाँ शु भवतीति
य एवाश्वमेधिकाः प्राजापत्याः सावित्राः सारस्वताः पौष्णा याम्याः पितृदेवत्या द्यावापृथिव्या वायव्याः सौर्या वैश्वकर्मणा इति
गर्भिणयो भवन्तीति कथमत्र प्रयश्चित्तँ सिध्यती३ न सिध्यती३ इति
सिध्यतीत्येक आहुरथ हैक आहुर्न सिध्यतीत्येतत्समृद्धय एता भवन्ति
नैव सिध्यतीत्यादित्यां मल्हां गर्भिणीमालभत इत्यृषिनामधेयमेवैतद्भवत्य्
अपन्नदती भवतीत्यहीनदतीत्येवेदमुक्तं भवत्यथेयं दशर्षभा संवत्सरमभि विहिता
प्राजापत्य एवैषां कद्रुर्दशमो भवतीति
कथमत्र ब्रह्मचयँ र्! सिध्यती३ न सिध्यती३ इति
सिध्यतीत्येक आहुरथ हैक आहुर्न सिध्यतीति
संतिष्ठते
नैव सिध्यतीति
पर्यारिणी भवतीति
परिहारसूरित्येक आहुरथ हैक आहुरनुजैवैषोक्ता भवति
वेहदित्येतामाचक्षते ३८

24.39
सोमापौष्णं त्रैतमालभेतेति
त्रयाणामेवैष उक्तो भवत्यथाप्युदाहरन्ति यस्तिस्रो धयतीति
त्वाष्ट्रं वडबमालभेतेति
यमेवैतं पुमाँ सँ सन्तमधिरोहति स वडबो विषम आलभेतेति
देवयजनं वा विषमँ स्याद्यस्मिन्वा पशुमालभेतापां चौषधीनां च सन्धावालभत इत्युदकान्त इत्येक आहुरथ हैक आहुः प्रावृषि वा शरदि वेति
यस्याश्विने शस्यमाने सूर्यो नाविर्भवति सौर्यं बहुरूपमालभेतेति
प्रायणीये चेदतिरात्रे न दृश्येतारम्भणीयस्याह्नः सवनीयस्योपालम्भ्यं कुर्याद्
अथ चेदुदयनीयेऽतिरात्रे न दृश्येतैकाहिके वानूबन्ध्यस्योपालम्भ्यं कुर्युरपि वोदवसायैवैतेन पशुना यजेरन्नितीन्न्वा इमे काम्याः पशवो व्याख्याताः ३९