बौधायनश्रौतसूत्रम्/प्रश्नः २३

विकिस्रोतः तः
Jump to navigation Jump to search

23.1
अथातो इष्टिकल्पं व्याख्यास्यामः ॥
स ह स्माह बौधायनः पञ्चदशसामिधेनीकाः स्युर्वार्त्रघ्नावाज्यभागावुच्चैर्देवता इत्यत्रो ह स्माह शालीकिः सप्तदशसामिधेनीकाः स्युर्वृधन्वन्तावाज्यभागावुपाँ शुदेवता इति ॥
याजमानस्य करण इति ॥
सँ सिद्धमिष्टिपथे याजमानं कुर्यादिति बौधायनः
कुर्याद्यथावकाशं याजमानमिति शालीकिः ॥
अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वातिपादयेदिति ॥
स ह स्माह बौधायनः पाथिकृतं निरुप्य वैश्वानरं द्वादशकपालमनुनिर्वपेदथातिपन्नां प्रतियजेदित्यत्रो ह स्माह शालीकिः पाथिकृतं निरुप्य वैश्वानरं द्वादशकपालँ समानतन्त्रमनुनिर्वपेन्न चातिपन्नां प्रतियजेदित्यन्यतरेणैव सहातिपन्नां प्रतियजेदित्यौपमन्यवोऽत्रो ह स्माहाञ्जीगविर्वि वा एतस्य यज्ञश्छिद्यते यस्य तन्त्रे प्रततेऽन्यत्तन्त्रं प्रतायते
य एवैषोऽच्युत आग्नेयोऽष्टाकपालस्तमेव पौर्णमास्यां वामावास्यायां वा पाथिकृतं कुर्यान्न चातिपन्नां प्रतियजेदिति ॥
अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेद्य आहिताग्निः सन्नव्रत्यमिव चरेदिति ॥

आधानप्रभृत्येवैतदुक्तं भवतीति बौधायनोऽन्वाहितेषु चैवोपसमाहितेषु चाग्निष्विति शालीकिः ॥
अग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेद्यँ रक्षाँ सि सचेरन्निति ॥
हुत्वाग्निहोत्रमिष्टिँ सँ स्थापयेदिति बौधायनः
सँ स्थितायामिष्ट्यामग्निहोत्रं जुहुयादिति शालीकिः ॥
अग्नये रुद्र वते पुरोडाशमष्टाकपालं निर्वपेदभिचरन्निति ॥
स ह स्माह बौधायनो लोहितोष्णीषा लोहितवाससश्चर्त्विजः प्रचरेयुरिति
याज्यापुरोऽनुवाक्याभ्यामेवैतदुक्तं भवतीति शालीकिः ॥
अग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेद्यस्य गावो वा पुरुषा वा प्रमीयेरन्यो वा बिभीयादिति ॥
स ह स्माह बौधायनः प्रोक्षणीषु च गन्धानावपेयुर्गन्धवन्तश्चर्त्विजः प्रचरेयुरिति
याज्यापुरोऽनुवाक्याभ्यामेवैतदुक्तं भवतीति शालीकिः ॥
अग्नये कामाय पुरोडाशमष्टाकपालं निर्वपेद्यं कामो नोपनमेदिति ॥
स ह स्माह बौधायनो या तत्राम्नाता स्यात्तां चेन्निर्वपतः कामो न समृध्येताथैवं कुर्यादित्येषैव सार्वकामिकी स्यादिति शालीकिः
कामेकाम एषा स्यादित्यौपमन्यवः ॥
अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेदिति ॥

सूत्रँ शालीकेरत्रो ह स्माह बौधायनो मन्थनमधिमन्थनमुपसमिन्धनमित्येतान्मन्त्रान्निगदेदिति ॥
वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इति ॥
स ह स्माह बौधायन उत्थितायां निर्दशायां वैश्वानरं द्वादशकपालं निर्वपेत्सँ स्रावस्य च कुमारं प्रलेहयेदिति
जातमेव विदित्वेति शालीकिर्न च सँ स्रावस्य कुमारं प्रलेहयेदित्यनन्तरे पर्वणीत्यौपमन्यवः १

23.2
विपर्यस्तहविषीति ॥
मारुतः प्रथमं मन्त्रकर्म लभेतेति बौधायनोऽवदानत इति शालीकिः
प्रदानत इत्यौपमन्यवश्चातुष्प्राश्यादित्यौपमन्यवीपुत्रः ॥
वैश्वानरं द्वादशकपालं निर्वपेदायतनं गत्वेति ॥
यत्रैव यतिष्यमाणः स्यात्तदायतनं तद्गत्वा वैश्वानरं द्वादशकपालं निर्वपेदिति बौधायनः
स्वस्थानेष्वेवाग्निष्विति शालीकिः ॥
यया रज्ज्वोत्तमां गामाजेदिति ॥
सूत्रं बौधायनस्येमां तेऽसौ प्राहैषीदित्येव ब्रूयादिति शालीकिः ॥

बलबजानपीध्मे संनह्येदिति ॥
सूत्रं बौधायनस्य
बलबजानामप्यत्र बर्हिः संनद्धं भवतीति शालीकिः ॥
आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्निति ॥
सूत्रं बौधायनस्य
प्रत्यभिचरन्तमेव विदित्वेति शालीकिः ॥
सारस्वतमाज्यमिति ॥
मन्त्रनिरुप्तमेतद्घृतँ स्यादिति बौधायनस्
तूष्णीकमिति शालीकिः
कालेकाल एवैनद्ध्रुवाव्याद्गृह्णीयादित्यौपमन्यवः ॥
अध्वरकल्पायामिति ॥
स ह स्माह बौधायन इडान्तं प्रथमं तन्त्रं कुर्यादेवं द्वितीयं तृतीयेन सहावशेषं वर्तयेदित्यत्रो ह स्माह शालीकिरा प्रणीनात्प्रथमस्य तन्त्रस्य परिशाययेदेव द्वितीयमेव तृतीयं तृतीयेन सहावशेषं वर्तयेदिति
सपूर्णपात्रविष्णुक्रमा इत्यौपमन्यवः ॥
यो ब्रह्मवर्चसकामः स्यात्तस्मा एतँ सोमारौद्रं चरुं तिष्यापूर्णमासे निर्वपेदिति ॥

उपवसथीयेऽहन्निर्वपेदिति बौधायनो यजनीयेऽहन्निति शालीकिः ॥
आज्यं प्रोक्षणमाज्येन मार्जयन्त इति ॥
उदकुम्भ आज्यस्रुवं प्रत्यस्येदिति बौधायनः
प्रोक्षणं चैव मार्जनं चाज्येन कुर्यादथेतरदद्भिः कुर्यादिति शालीकिर्यत्किं चाद्भिः कायँ र्! स्यात्सर्वं तदाज्येन कुर्यादित्यौपमन्यवः ॥
यदि बिभीयाद्दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर्वपेदिति ॥
विज्ञातेषु रूपेषु निर्वपेदिति बौधायनः
पुरस्तादेव शङ्कमान इति शालीकिः ॥
अर्धेष्विति ॥
सँ स्थितायामिष्ट्यामर्धानभ्यादध्यादिति बौधायनोऽत्रैव परिशयीरन्निति शालीकिः २

23.3
विपर्यस्तहविषीति ॥
मारुतः प्रथमं मन्त्रकर्म लभेतेति बौधायनोऽवदानत इति शालीकिः
प्रदानत इत्यौपमन्यवश्चातुष्प्राश्यादित्यौपमन्यवीपुत्रः ॥
मारुतीभ्याँ होता यजतीति ॥
स ह स्माह बौधायन आदित एव होता मरुत आवाहयेदनुवाचनतोऽध्वर्युरिति
याज्यापुरोऽनुवाक्याभ्यामेवैतदुक्तं भवतीति शालीकिः ॥
आदित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपेद्भूतिकाम इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः सर्वाः सपदाः सर्वाः ससावित्राः सर्वाः समयूखेध्मा इति ॥
पदपाँ सूनाँ हरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः समस्तेनैवास्य मन्त्रेण पदपाँ सून्हृत्वोत्तर वर्ग्य आवपेद्
अथ तूष्णीमुरस्यनुनिनयेदिति ॥
शतँ सुवर्णानि कृष्णलानि भवन्तीति ॥
सूत्रं बौधायनस्योपशतान्येवैतानि स्युरिति शालीकिः परिहारयेच्चैषामिति ॥
चत्वारिचत्वारि कृष्णलान्यवद्यति चतुरवत्तस्याप्त्या इति ॥
स ह स्माह बौधायनो यान्यवत्तानि स्युर्जुहुयादेव तान्यथ यानि भक्षार्थानि स्युस्तद्व्यवगृहीतान्येव तानि स्युरथेतराणि समावच्छो विभजेरन्नित्यत्रो ह स्माह शालीकिर्यान्यवत्तानि स्युर्जुहुयादेव तान्यथ यानि भक्षार्थानि स्युस्तद्व्यवगृहीतान्येव तानि स्युरथेतराणि प्राशित्रहरण ओप्य ब्रह्मणे परिहारयेदिति ॥
यः पापयक्ष्मगृहीतः स्यात्तस्मा एतमादित्यं चरुममावास्यायां निर्वपेदिति ॥
उपवसथीयेऽहन्निर्वपेदिति बौधायनो यजनीयेऽहन्निति शालीकिः ॥

सांग्रहण्यै परिधिष्विति ॥
ऐष्टिकैः परिधाय पौरोडाशिकैः परिदध्यादिति बौधायनोऽइष्टिकैरेवेति शालीकिः ॥
आहुतीनाँ होम इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन औदुम्बरैः पात्रैरेता आहुतीर्जुहुयाद्धुत्वा चैतानि पात्राण्यत्रैवानुप्रहरेदिति ॥
आज्यस्यावेक्षण इति ॥
सूत्रं बौधायनस्य
यन्नवमैत्तन्नवनीयमभवदित्येतैरेवाज्यमवेक्षितमुत्पुनुयादिति शालीकिः ३

23.4
यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणाँ श्चतुष्कपालान्निर्वपेदेकातिरिक्तानिति ॥
स ह स्माह बौधायनो वैश्वानरेणैकं प्रतिगृह्णीयादेवं द्वौ
गणं तु प्रतिगृह्य कुर्वीत बहुषु वारुणानेकातिरिक्तानित्यत्रो ह स्माह शालीकिर्वैश्वानरेणैकं प्रतिगृह्णीयान्न तु द्वौ
गणं तु प्रतिगृह्य कुर्वीत न तु द्वयोर्बहुषु वा वारुणानेकातिरिक्तानिति ॥

आमिक्षायै मन्त्रामन्त्र इति ॥
मन्त्रवती स्यादिति बौधायनस्
तूष्णीकेति शालीकिः ॥
पुनः समूहति समूह्यावद्यतीति ॥
सूत्रं बौधायनस्यैतैरेव मन्त्रैः प्रतिसमूह्यावद्येदिति शालीकिः ॥
त्रयस्त्रिँ शत्कपालं पुरोडाशं निर्वपतीति ॥
सूत्रं बौधायनस्य
संदिग्धपुरोडाश एवैष स्यादिति शालीकिः ॥
वर्षाहूस्तम्बस्याभिहोम इति ॥
सूत्रं बौधायनस्य
यत्रैव वर्षाहूस्तम्बः स्यात्तद्गच्छेदिति शालीकिः ॥
कृष्णाजिनस्यावधवन इति ॥
अन्तर्वेदि तिष्ठन्कृष्णाजिनमवधुनुयादिति बौधायनो बहिर्वेदीति शालीकिः ॥
अञ्जःसवकारीर्यै करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
सँ सर्गे प्रायश्चित्तकरण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवो यो नु खल्वाहवनीयोऽत एवैष उद्धृतो भवति
ग्रामयोनिरन्वाहार्यपचनस्
तत्रतत्र नास्ति प्रायश्चित्तम्प्रशस्तो हि वृथाग्निसँ सर्ग इति ॥
इतीन्न्वा इमा इष्टयो व्याख्याताः ४

23.5
अभिक्रामं जुहोतीति ॥
कियति नु खल्वेतदुक्तं भवतीति ॥
पञ्च प्रयाजा इति बौधायनो यत्प्राक्शालाया इति शालीकिः ॥
यदि पशोरवदानं नश्येदाज्यस्य प्रत्याख्यायमवद्येदिति ॥
स ह स्माह बौधायनो यदि पशोरवदानं नश्येद्यद्येकं यदि द्वे आज्यस्य प्रत्याख्यायमिष्ट्वा तत्कृत्वा पुनर्यजेतेत्यत्रो ह स्माह शालीकिर्यदि पशोरवदानं नश्येद्यद्येकं यदि द्वे आज्यस्य प्रत्याख्यायमिष्ट्वा तत्कृत्वा कृतमेव मन्येताथ यदि भूयोऽथैवं कुर्यादिति ॥
सँ सव इति ॥
यत्र क्वच नाव्या वा नदी स्यादन्तरेणोदयक्ष्मवती वासँ सवस्तत्रेति बौधायनो यत्र क्वचन शब्दा न सँ सृज्येरन्नसँ सवस्तत्रेति शालीकिर्यत्र क्वचनान्तरेणेयादसँ सवस्तत्रेत्यौपमन्यवः
प्रस्थयोरेव जनपदयोरसँ सवस्तत्रेत्यौपमन्यवीपुत्रो
नाविद्विषाणयोः सँ सवो विद्यत इति छागलेयब्राह्मणं भवतीत्याञ्जीगविः ॥
अभिभूतीनाँ होम इति ॥
आध्वरा हुत्वा सात्त्रायणिका जुहुयादिति बौधायनः
सात्त्रायणिका एवेति शालीकिः ॥
दीर्णप्रवृत्तेष्विति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो याभ्यामेतदृग्भ्यां पूतभृदाधवनीययोर्जुहुयात्ताभ्यां ग्रहेग्रहे जुहुयादथ तूष्णीँ सँ स्रावमवनयेदिति ॥
नित्ये ग्रहणे वैष्णवीमृचमनुवर्तयतीति ॥
सूत्रं बौधायनस्य
पृषदाज्य एवैषानुवर्तयितव्या भवतीति शालीकिः ॥
स उक्थमुक्थं वैव प्रतिगीर्योक्थशा इत्याह सवनँ सवनं वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
पृष्ठ्यग्रहाणां ग्रहण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यत्र क्वचैतान्यहानि संगच्छेयुर्गृह्णीयादेव तत्र पृष्ठ्यग्रहानिति
संवत्सर एवैते दृष्टा भवन्ति
संवत्सर एवैनान्गृह्णीयादित्यौपमन्यवः ॥

पृष्ठ्यग्रहाणां भक्षण इति ॥
स ह स्माह बौधायनोऽनुसवनभक्षेण चैवैनान्भक्षयेन्नित्येन चेति
नित्येनैवेति शालीकिः ॥
अँ शूनां प्रवृँ हण इति ॥
एकैकशः प्रवृहेदिति बौधायनः
सर्वान्सहेति शालीकिः ५

23.6
आधवन इति ॥
व्यतिचारमाधुनुयादिति बौधायनो यथाधवित्रमिति शालीकिर्मेक्षयेदित्यौपमन्यवः ॥
अँ शोर्होम इति ॥
सूत्रं शालीकेरत्रो ह स्माह बौधायनो याभ्यामेतदृग्भ्यामुपस्पृशेत्ताभ्यामेनं जुहुयादथ तूष्णीमुपस्पृशेदिति ॥
पृश्निग्रहाणां ग्रहण इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
तेन कक्षमुपोषतीति ॥
सूत्रं बौधायनस्यापूपेनैवाप्यत्र कक्षमुपोषेदिति शालीकिः ॥
ऋषभो गोषु जीर्यतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यमप्यन्यं बहिस्तन्त्रात्पशुमालभेत तत्राप्येतानि कुर्यादुपाकरणीययोर्वपायां देवतास्विति ॥

अष्टापद्यै गर्भस्य वसाहोम इति ॥
सूत्रं बौधायनस्य
न गर्भस्य वसाहोमं जुहुयादिति शालीकिर्न च गर्भस्य वसाहोमं जुहुयान्नेडां न स्विष्टकृतमित्यौपमन्यवः ६

23.7
अजवशाया उपाकरण इति ॥
सूत्रं बौधायनस्य
वायव्ययैवैनामुपाकुर्यादिति शालीकिरत्रो ह स्माह ज्यायान्कात्यायनो यथाप्युपाकरण उपाकरणं नुदत एवमेवाप्युत्तरे मन्त्रा नुद्येरन्निति ॥
यदालब्धायामभ्रो भवतीति ॥
स ह स्माह बौधायनो यद्यहान्तश्रिता अकृष्णा मेघाः स्युः सँ स्थापयेदेवाथ चेत्कृष्णाः स्युरथैवं कुर्यादित्यत्रो ह स्माह शालीकिर्यद्यह नादित्यमन्तर्दध्युः सँ स्थापयेदेवाथ चेदेनमन्तर्दध्युरथैवं कुर्यादिति
नालब्धायामसँ स्थापनं विद्यत इति गौतमः ॥
जयेष्विति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
अभ्यातानेष्विति ॥
पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्यात्रो ह स्माहौपमन्यवोऽभ्यातानाञ्जयान्राष्ट्रभृत इति स्रुवाहुतीरेवैता जुहुयाद्गच्छेयुश्च दर्शपूर्णमासावभ्यातानाञ्जयान्राष्ट्रभृत इति ॥

शम्यापरिधिष्विति ॥
शम्यैव शम्यापरिधीन्कुर्यादिति बौधायनः
प्राकृता एवैताः स्युरिति शालीकिः ॥
द्विःस्वाहाकारँ राष्ट्रभृतो जुहोतीति ॥
विग्राहं जुहुयादिति बौधायनो द्वेद्वे स्रुवाहुती इति शालीकिः ॥
अधिदेवने जुहोति रथमुखे जुहोति रथनाड्यां जुहोतीति ॥
सूत्रं बौधायनस्यैतदग्नीनेवैतानि स्युरिति शालीकिः ॥
नैयग्रोध औदुम्बर आश्वत्थः प्लाक्ष इतीध्मो भवतीति ॥
सूत्रं बौधायनस्य
पृथगेवैतानीध्मान्यभ्यज्य पृथगभ्यादध्यादिति शालीकिः ॥
यद्वाचः क्रूरं तेन वषट्करोतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन उदश्वित्क्षारमिश्रमर्कपर्णेन सह जुहुयाद्जहीति वा कडिति वा वषट्कुर्यादिति ॥

प्रसव इति ॥
स ह स्माह बौधायन उभयेन प्रसौयाद्वासिष्ठीयाभिश्च सावित्रेण चेति
सावित्रेणैवेति शालीकिः ७

23.8
अतिक्रामेष्विति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
अतीमोक्षेष्विति ॥
पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्य ॥
प्राणग्रहाणां ग्रहण इति ॥
सूत्रं बौधायनस्य
संवत्सर एवैते दृष्टा भवन्ति
संवत्सर एवैनान्गृह्णीयादिति शालीकिः ॥
तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यादिति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायननः प्राक्चेद्विजिज्ञासायै निषीदेदथैवं कुर्यादिति ॥
यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेदिति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः समस्तमेतमग्निँ सते समुप्य दक्षिणेन विहारं पर्याहृत्य गार्हपत्यस्यायतनाद्भस्मोद्वाप्य शकृत्पिण्डेन परिलिप्य न्युप्योपसमाधाय ज्वलन्तमाहवनीयमुद्धृत्याहवनीयस्यायतनाद्भस्मोद्वाप्य शकृत्पिण्डेन परिलिप्य न्युप्योपसमाधाय समिद्वत्याहवनीये षट्स्रुवाहुतीर्जुहुयादुद्बुध्यस्वाग्ने त्वमग्ने सप्रथा असि मनो ज्योतिर्जुषतां तन्तुं तन्वन्नुदु त्यं चित्रमिति ॥

अतिरिक्तसोमेष्विति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
ध्रुवे परिहीणे प्रायश्चित्तकरण इति ॥
स ह स्माह बौधायनः प्राक्चेदवभृथाच्छन्दोगबह्वृचेषु लभेरन्नभ्यावर्त्तयेयु स्तुतशस्त्राणि स्युस्तत्कृत्वा पुनर्यजेतेत्यत्रो ह स्माह शालीकिः प्राक्चेदवभृथाच्छन्दोगबह्वृचेषु लभेरन्नभ्यावर्तयेयु स्तुतशस्त्राणि स्युस्तत्कृत्वा कृतमेव मन्येतेति ॥
अह्नां ग्रहण इति ॥
सूत्रं बौधायनस्य
यदेवानन्तरमहः स्यात्तस्मिन्मैत्रावरुणाग्रान्ग्रहान्गृह्णीरन्निति शालीकिः ॥
यूपे विरूढे प्रायश्चित्तकरण इति ॥
सूत्रं बौधायनस्यान्तस्तन्त्रमेव यूपे विरूढे प्रायश्चित्तं कुर्यादिति शालीकिः ॥
यस्य सोम उपदस्येत्सुवणिँ र्! रण्यं द्वेधा विच्छिद्यर्जीषेऽन्यदाधुनुयाज्जुहुयादन्यदिति ॥
सूत्रं बौधायनस्य
सहिरण्या एवास्यात ऊर्ध्वं मुख्याश्चमसा हूयेरन्नभ्युन्नीयेरन्निति शालीकिः ॥
आदारसोमेष्विति ॥
सूत्रं बौधायनस्यादारसोमेनैवाप्यन्यमागमयेरन्निति शालीकिः ॥

आशिःष्विति ॥
आशिषोऽनुवर्तेरन्निति बौधायन एता एवाशिषः स्युरिति शालीकिः ८

23.9
अथातो द्वादशाहं व्याख्यास्यामः ॥
चिन्वीत द्वादशाहेऽग्निमिति बौधायनो न चिन्वीतेति शालीकिः ॥
अतिग्राह्या इति ॥
स ह स्माह बौधायनो गृहपतिरेवारण्योः समारोपयेदेतदतिग्राह्यस्य रूपं भवतीत्यत्रो ह स्माह शालीकिः पृथगेवारणीषु समारोपयेरन्गृहपतेरेव प्रथमस्य मथित्वा ज्वलत्सु ज्वलतोऽपि विसृजेरन्नित्येतदतिग्राह्यस्य रूपं भवतीति ॥
संनिवाप इति ॥
स ह स्माह बौधायनः संनिवप्स्यन्तोऽग्नये ब्रह्मण्वते पुरोडाशमष्टाकपालं निर्वपेयुरग्नये क्षत्रवतेऽग्नये क्षत्रभृत इत्यत्रो ह स्माह शालीकिरग्निसंयोजनी खल्वेषेष्टिर्भवति

यत्रैवाग्निं चेष्यमाणः स्यात्तत्रैनां निर्वपेदित्यप्राजापत्यं पशुपुरोडाशमनुवर्तयेतेत्यौपमन्यवः ॥
पवन इति ॥
एकैकश एवैनान्पवयित्वैकैकश उदानयेयुरिति बौधायनः
सकृदेवैनान्पवयित्वैकैकश उदानयेयुरिति शालीकिः
सकृदेवैनान्पवयित्वा सर्वान्सहोदानयेयुरित्यौपमन्यवः ॥
आर्षेयवरण इति ॥
स ह स्माह बौधायनो ये केचन समानगोत्रा अव्यवेता अन्यथागोत्राः स्युरेकस्यार्षेयश्च वरण एव तेषां वरणँ स्यादित्यत्रो ह स्माह शालीकिर्यदि चैव व्यवेता यदि चाव्यवेताः समानगोत्रा एकस्यार्षेयवरण एव तेषां वरणँ स्यादिति ॥
व्रतधुक्ष्विति ॥
समातच्य समावच्छो विभजेरन्निति बौधायनः
पृथगेवैषां व्रतदुघः स्युरिति शालीकिः ॥

षष्ठ्यामुपसद्युत्तरवेदिँ संनिवपन्तीति सूत्रमाचार्ययोरपि वैकादश्यामिति विधिः ॥
वसतीवरीणामभिग्रहण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यदि सातिशेषः कलशः स्यात्तूष्णीमवनयेद्यद्यु वै सर्वश एव लेपः समवनीतः स्यादथैवं कुर्यादिति शालीकिः ॥
सोऽत्र वैव यज्ञस्य पुनरालम्भं जपति यज्ञायज्ञीयस्य वा स्तोत्रे शंयुवाके वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकिः ॥
विवर्तयन्ति परिधीननुप्रहरति प्रस्तरमिति ॥
सूत्रं बौधायनस्यानुप्रहरेदेवात्र प्रस्तरपरिधीनिति शालीकिः ९

23.10
निमील्याध्वर्युरुपाँ शु जुहोतीति ॥
सूत्रं बौधायनस्यानन्वीक्षमाण एव जुहुयादिति शालीकिः ॥

शिल्पैरुपाकरण इति ॥
स ह स्माह बौधायन उभयेनोपाकुर्याद्बर्हिर्भ्यां च शिल्पैश्चेति
शिल्पैरेवेति शालीकिः ॥
न्यूङ्खन इति ॥
विराजां वा प्रतिपत्सु न्यूङ्खयति शस्त्रे वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
निर्मन्थ्यस्य मन्त्रामन्त्र इति ॥
मन्त्रवान्स्यादिति बौधायनस्
तूष्णीक इति शालीकिः ॥
दाक्षिणाँ होम इति ॥
स ह स्माह बौधायनो जुहुयादेवाहुतीर्जपेत्प्रत्ययमन्त्रानित्यत्रो ह स्माह शालीकिर्जुहुयादेवाहुतीर्न तु प्रत्ययमन्त्राञ्जपेदिति
ये के च दक्षिणायुक्ता मन्त्राः स्युर्नैवैनानाद्रि येतेत्यौपमन्यवः १०
23.11
अविवाक्य इति ॥
अविवाक्यमेतदहर्भवतीति बौधायनो विब्रूयादेवेति शालीकिः ॥
ऋचामुद्धरण इति ॥
सूत्रं बौधायनस्य
यथाप्रकृतिमेवाध्वर्युः कुर्याद्छन्दोगबह्वृचा एव प्रतिकुर्वीरन्निति शालीकिः ॥

सर्पण इति ॥
कृष्णाजिनान्तैः सर्पन्त उत्तरँ हविर्धानमुपस्पृशेयुरिति बौधायनो नोपस्पृशेयुरिति शालीकिः ॥
आग्रयणाग्रेष्विति ॥
वाचंयमोऽध्वर्युः पूर्वान्ग्रहस्थान्गृह्णीयादिति बौधायनो विसृष्टवागिति शालीकिः ॥
स शुक्रं गृहीत्वा धारयति यावदितरौ ग्रहौ गृह्णातीति ॥
सूत्रं बौधायनस्य
यंयं गृह्णीयात्तंतं परिमृज्य सादयेदिति शालीकिः ॥
ग्रहाधानेष्वनुसंव्रज्याया इति ॥
अनुसंव्रजेदिति बौधायनो नानुसंव्रजेदिति शालीकिः ॥
पशुकल्पेष्विति ॥
सर्वे कल्पा बौधायनस्याइन्द्रा ग्नपशून्येवाहीनरात्रिसत्त्राणि भवन्तीति शालीकिः ॥
तेषां यानि समहाव्रतानि तानि साग्निचित्यान्यथेतराण्यौत्तरवेदिकानि स्युरिति बौधायनोऽइकाहिकस्त्वेवाग्निरिति शालीकिः ॥
आक्षीयेष्विति ॥
अभिजिद्विषुवान्विश्वजिद्दशममहर्महाव्रतमित्येतान्याक्षीयन्ति भवन्तीति बौधायनो
यान्यन्यानि पृष्ठ्याभिप्लवेभ्य इति शालीकिर्यानि चान्यानि पृष्ठ्याभिप्लवेभ्यो दशमाच्चाह्न इत्यौपमन्यवः
प्रायणीयारम्भणीयावभिजिद्विषुवान्विश्वजिद्दशममहर्महाव्रतमुदयनीयोऽतिरात्र इत्येतान्यष्टावाक्षीयन्ति भवन्तीति गौतमः ॥
पशुकल्पेष्विति ॥
सर्वे कल्पा बौधायनस्याइकादशिनपशून्येव सांवत्सरिकाणि सत्त्राणि भवन्तीति शालीकिः ॥
वाणः शततन्तुर्भवतीति ॥
सूत्रं बौधायनस्य
वीणैवैषा तन्त्रीभिः शततमा स्यादिति शालीकिः ॥
अहर्गणे माहाव्रतिकानाँ शिल्पानां करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
अहर्गणे शिखानामनुप्रवपण इति ॥
अनुप्रवपेरन्निति बौधायनो नानुप्रवपेरन्निति शालीकिः ११

23.12
द्विरात्र इति ॥
सूत्रं बौधायनस्य
यजनीयेऽहन्पूर्वमहर्भवत्युत्तरस्मिन्नुत्त्रमिति शालीकिः ॥
तस्मिन्नुन्नतो वेहद्वामन इति भवन्तीति ॥
उपैवैते नित्याः सहस्रे स्युरिति बौधायन एत एव सहस्रतमाः स्युरिति शालीकिः ॥
द्रो णकलशस्यावघ्रापण इति ॥
अन्तःपरिध्यवघ्रापयेदिति बौधायनो बहिःपरिधीति शालीकिः ॥
रूपाणाँ होम इति ॥
सूत्रं बौधायनस्याश्वमेधिकान्यप्यत्र रूपाणि जुहुयादिति शालीकिः ॥
उद्यत्स्तोमेष्विति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
औपसदानां पुरोडाशानां मन्त्रामन्त्र इति ॥
मन्त्रवन्तः स्युरिति बौधायनस्
तूष्णीका इति शालीकिराग्नेया एककपालाः स्रुवाहुत्या चैनान्सह सकृज्जुहुयादित्यौपमन्यवः ॥
द्वयीर्गा उपकल्पयन्त इति ॥
सूत्रं बौधायनस्याजा अप्यत्रोपकल्पयीरन्निति शालीकिः ॥

उलूखलबुध्नो यूपो भवतीति ॥
सर्वान्कारान्कुर्यादिति बौधायनः
प्रोक्ष्यैनमुच्छ्रयेदिति शालीकिः ॥
प्रोक्ष्योपास्य यूपशकलमुच्छ्रयेदित्यौपमन्यवः ॥
पाँ सूनामनुसँ हरण इति ॥
धिष्णियेभ्य औदुम्बर्या अवटादुपरवेभ्य उत्करादुत्तरवेद्यै पाँ सूननुसँ हरेदिति बौधायनो नानुसँ हरेदिति शालीकिः ॥
अथ यदि दीक्षोपसत्सु प्रत्ययमाचक्षीरन्संप्रकीर्योदवसानीयाभिरिष्टिभिरिष्ट्वोत्तिष्ठेयुरिति बौधायन एकाहँ सुत्वोत्तिष्ठेयुरिति शालीकिर्नासँ स्थाप्य पृष्ठ्यँ षडहमुत्तिष्ठेयुरित्यौपमन्यवः १२

23.13
तेषामुत्थानेष्विति ॥
गच्छेयुरावभृथादिति बौधायनोऽप्सुषोमान्ता इति शालीकिर्ध्रुवान्ता इत्यौपमन्यवः ॥
जनकसप्तरात्रोऽतिरात्रः पृष्ठ्यः षडह इति बौधायनः
पृष्ठ्यः षडहोऽतिरात्र इति शालीकिः ॥

दशरात्राय दीक्षिष्यमाणो दशहोतारँ हुत्वा दशरात्राय दीक्षत इति ॥
सूत्रं बौधायनस्य
सप्तहोतारँ हुत्वा दशहोतारं जुहुयादिति शालीकिः ॥
इति नु ब्राह्मणवान्॥
अथ गोबलदशरात्रोऽतिरात्रः पृष्ठ्यः षडहो वाजपेयो महाव्रतं चातिरात्रश्चाष्टमेऽह्नि वाजपेयः ॥
तत्र देवसुवाँ हविषां करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिस्
त्रयस्त्रिँ शस्य पशुपुरोडाशमनुवर्तेरन्नित्यौपमन्यवः ॥
विलुप्यमाने पृष्ठ्ये षडहे शिल्पानां करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
एकषष्टिरात्रे वैश्वकर्मणादित्ययोर्ग्रहण इति ॥
उत्तरे त्रिँ शद्रा त्रे गृह्णीयादिति बौधायनः
संवत्सर एवैतौ दृष्टौ भवतः
संवत्सर एवैनौ गृह्णीयादिति शालीकिः ॥
औदुम्बरँ षोडशिपात्रमिति ॥
सूत्रं बौधायनस्य
खादिरमेवेति शालीकिः ॥
अतिरात्रपशूनामुपाकरण इति ॥
सूत्रं बौधायनस्य
सारस्वतीमेवोपाकुर्यादिति शालीकिः ॥

षोडशिवतां चमसानां भक्षण इति ॥
व्यक्तान्भक्षयेदिति बौधायन इन्द्र पीतानिति शालीकिः ॥
रात्रिपर्यायेषु मुख्यानां चमसानामभिमर्शन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन इन्द्रा य त्वापिशर्वरायेत्येव मुख्यंमुख्यं चमसमभिमृशेदिति ॥
आश्विनस्य मन्त्रामन्त्र इति ॥
मन्त्रवान्स्यादिति बौधायनस्
तूष्णीक इति शालीकिः ॥
आश्विनस्य चर्याया इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः पुरस्तात्तिरोअह्नियानां चमसानां चर्याया अमुत्राश्विनेन चरेदिति ॥
तिरोअह्नियानां चमसानां भक्षण इति ॥
अनुष्टुप्छन्दसा भक्षयेदिति बौधायनो जगतीच्छन्दसेति शालीकिः ॥
गुदतृतीयेष्विति ॥
एकादशधा कृत्वोपयष्टोपयजेदिति बौधायनोऽपच्छेदमिति शालीकिः
समस्तान्येवैनान्यनुप्रहृत्य सर्वैर्मन्त्रैरनुमन्त्रयेतेत्यौपमन्यवः १३

23.14
एकादशिन्यै संप्रदान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन एकादशाग्नीषोमीया एकादश सवनीया एकादशानुबन्ध्या इति ॥

उपशयस्य मन्त्रामन्त्र इति ॥
लभेत ग्रामे नारण्य इति बौधायनो लभेतारण्ये न ग्राम इति शालीकिर्नैव ग्रामे नारण्य इत्यौपमन्यवः ॥
उपशयस्योपासन इति ॥
सूत्रं बौधायनस्यात्रैवोत्तरत उपास्येदिति शालीकिः ॥
पात्नीवतस्य परिलेखन इति ॥
शालामुखीयँ शङ्कुमभिपरिलिखेदिति बौधायन उत्तरत एकादशिन्यै पात्नीवतं मिनुयादिति शालीकिः ॥
त्वाष्ट्रस्य मन्त्रामन्त्र इति ॥
मन्त्रवान्स्यादिति बौधायनस्
तूष्णीक इति शालीकिः ॥
त्वाष्ट्रस्योत्सर्ग इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽभिपर्यग्निकृतमेनमन्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रमय्याद्भिरभ्युक्ष्य यजमानस्याजास्वपिसृजेदिति ॥
त्वाष्ट्रस्य चर्याया इति ॥
उपाँ शु चरेदिति बौधायन उच्चैरिति शालीकिः ॥
पुनश्चिताविति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यमप्यग्निं चिन्वानोऽपजानीयात्तस्मिन्नुपरि पुनश्चितिं चिनुयादुत्तरतश्च यूपाद्यूपं मिनुयादिति ॥

कौण्डपायिनीयास्विष्टिष्विति ॥
अग्न्यन्वाधानप्रतिपत्का इडान्ताः संतिष्ठेरन्निति बौधायन आज्यभागप्रतिपत्का इडान्ता इति शालीकिः
सपूर्णपात्रविष्णुक्रमा इत्यौपमन्यवः ॥
पिण्डपितृयज्ञस्य दान इति ॥
अहरहर्दद्यादिति बौधायन आदित अन्ततश्च मासस्येति शालीकिः १४

23.15
होतृणां व्याख्यान इति ॥
सग्रहानृतेस्वाहाकारानित्येकम्
ऋतेग्रहानन्तःस्वाहाकारानित्येकं सर्वानित्येकं ॥
पूर्वः कल्पो बौधायनस्योत्तरौ शालीकेः ॥
स पौर्णमासीषुपौर्णमासीषु जुह्वद्द्वादश कृत्वः संवत्सरे जुहुयादित्येतदेकम्
अमावास्यापौर्णमासीष्वित्येतदेकं सर्वास्वित्येतदेकम्॥
पूर्वः कल्पो बौधायनस्योत्तरौ शालीकेः ॥
त्रयस्त्रिँ शच्चिताविति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽग्निग्रहणँ स्वयंचितिँ श्वेतकृष्णयोरभिमर्शनमधिद्र वणमवद्र वणमिति सर्वमेवैतत्कर्मावृता कुर्यादिति ॥

अहरहश्चिताविति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽग्निग्रहणँ स्वयंचितिँ श्वेतकृष्णयोरभिमर्शनमधिद्र वणमवद्र वणमिति सर्वमेवैतत्कर्मावृता कुर्यादिति ॥
रथचक्रचितौ पुरीषस्योपधान इति ॥
पुरीषस्यान्तान्कुर्यादिति बौधायन इष्टकास्वेव पुरीषस्यान्तं गच्छेदिति शालीकिः १५

23.16
रोहिते चर्मणीति ॥
सूत्रं बौधायनस्याप्यरोहितँ स्यादिति शालीकिः ॥
उभयनीतस्य करण इति ॥
उभे ऋचौ द्विरभ्यावर्तयेदिति बौधायनः
सकृदेव ब्रुवन्द्विर्ब्रूयादिति शालीकिः ॥

प्राङ्सोमः प्रत्यङ्सोमः
प्रत्यङ्सोमः प्राङ्सोम इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
सौत्रामणिकायै सुरायै संधान इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवो यत्रैव सुरा स्यात्तत एवाहारयेदिति ॥
सुराग्रहाणां ग्रहण इति ॥
सूत्रं बौधायनस्य
पयोग्रहानप्यत्र गृह्णीयादिति शालीकिः ॥
ताञ्जघनेन स्रुग्दण्डान्प्राचो वोदीचो वायातयतीति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
सुरासोमस्य संचर इति ॥
दक्षिणेन हृत्वोत्तरेणावनयेदिति बौधायन उत्तरेण हृत्वा दक्षिणेनावनयेदिति बौधायनिर्यत एवैनँ हरेत्तत एवैनमवनयेदित्यौपमन्यवः ॥
पावमानीभिरुपस्थान इति ॥
पावमानीभिरुपस्थाय पितृणां याज्यानुवाक्याभिरुपतिष्ठेरन्निति बौधायनः
पितृणामेव याज्यानुवाक्याभिर्न पावमानीभिरिति शालीकिः ॥
अवभृथ इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः शूलैश्च मासरेण चावभृथमवेयादिति ॥
आख्यातमुदकान्तस्य प्रत्यसनम्॥
आख्यातमाप्लवनम्॥
आख्यातँ समिधां करणं ॥

वैमृधस्यानुनिर्वपण इति ॥
सूत्रं बौधायनस्य
नानिष्ट्वा प्रथमसोमेनानुनिर्वपेदिति शालीकिः १६

23.17
पौर्णमासीमेव यजेत भ्रातृव्यवान्नामावास्यामिति ॥
उभयत्र पौर्णमासहविर्भिर्यजेतेति बौधायनो नामावास्यायां किंचन यज्ञरूपं कुर्यादिति शालीकिः
पिण्डपितृयज्ञेन चरेदित्यौपमन्यवः ॥
साकंप्रस्थायीयेन यजेत पशुकाम इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः स्रुग्भ्यामेव पुरोडाशं जुहुयाच्चमसेन सांनाय्यमिति ॥
नागतश्रीर्महेन्द्रं यजेत
त्रयो वै गतश्रियः शुशुरुवान्ग्रामणी राजन्यस्
तेषां माहेन्द्रो देवतेति ॥
स योऽन्य एतेभ्यो महेन्द्र मियक्षेत स संवत्सरमिन्द्र मिष्ट्वा महेन्द्रे ज्यां लभेतेति बौधायनोऽत एवापि संवत्सरमिन्द्र मिष्ट्वा महेन्द्रे ज्यां लभेतेति शालीकिः ॥
संवत्सरमिन्द्रं यजेत
संवत्सरँ हि व्रतं नातीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यस्याममावास्यायामादित इन्द्रं यष्टुं प्रक्रामेत्संवत्सरे पर्यवेते तस्यां महेन्द्रं यजेत

सोऽत ऊर्ध्वं महेन्द्र याज्येव स्यादित्यत्रो ह स्माहौपमन्यवोऽभ्यारूढः खल्वस्यैव संवत्सरो भवति यस्याममावास्यायामादित इन्द्रं यष्टुं प्रक्रामेत्संवत्सरे पर्यवेते या ततः पूर्वामावास्या स्यात्तस्यां महेन्द्रं यजेत
सोऽत ऊर्ध्वं महेन्द्र याज्येव स्यादिति ॥
दाक्षायणयज्ञेन सुवर्गकामो यजेत
पूर्णमासे संनयेन्मैत्रावरुण्यामिक्षयामावास्यायां यजेतेति ॥
सूत्रं बौधायनस्य
वैमृधमप्यत्रानुनिर्वपेदिति शालीकिः ॥
सांनाय्यस्य भक्षण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यजमान एवैतमर्धमासमनुनिधाय सांनाय्यं भक्षयेदिति ॥
आमिक्षायै मन्त्रामन्त्र इति ॥
मन्त्रवती स्यादिति बौधायनस्
तूष्णीकेति शालीकेः ॥
इडादधे चतुञ्चक्र उपाँ शुयाजस्य करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः १७

23.18
बृहस्पतिसवे दाक्षिणानां होम इति ॥
अनुसवनं दाक्षिणानि जुहुयादिति बौधायनो माध्यंदिन एव सवने दाक्षिणानि जुहुयाद्ददामीत्येवेतरायोः सवनयोर्ब्रूयादिति शालीकिः ॥

हिरण्येन घृतमुत्पुनातीति ॥
मन्त्रनिरुप्तमेतद्घृतँ स्यादिति बौधायनस्
तूष्णीकमिति शालीकिः ॥
अनुद्धते वेद्यै दक्षिणत आहवनीयस्य बृहत स्तोत्रं प्रत्यभिषिञ्चतीति ॥
सूत्रं बौधायनस्य
कृष्णाजिनमप्यत्रास्तृत्याभिषिञ्चेदिति शालीकिः ॥
माषैः पूर्णं कमण्डलुमिति ॥
सौवर्णः सौवर्णैर्माषैः पूर्णः स्यादिति बौधायनो मार्त्तिक एव धान्यमाषैरिति शालीकिः ॥
सप्तदश मारुतीः पृश्नीर्वत्सतरीरालभत इति ॥
पृथगेवासां मनोताः स्युः पृथक्पशुपुरोडाश इति बौधायनः
पृथगेवसां मनोताः स्युरेकः पशुपुरोडाश इति शालीकिरेकैवासां मनोता स्यादेकः पशुपुरोडाश इत्यौपमन्यवः ॥
अग्निष्टुतीन्द्र स्तुतीति ॥
सूत्रं बौधायनस्य
यथाप्रकृतिमेवाध्वर्युः कुर्याछन्दोगबह्वृचा एव प्रतिविकुर्वीरन्निति शालीकिः ॥
अतिरिक्तस्तोत्रेष्विति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥

धनुषः प्रदान इति ॥
पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्य ॥
एकाहानामन्त इति ॥
सूत्रं बौधायनस्य
मृत्युसवान्त इति शालीकिः ॥
निदधत्यस्मा एतद्धविरुच्छिष्टं व्रतभाजनमिति ॥
सूत्रं बौधायनस्य
नात्र हविरुच्छिष्टं व्रतभाजनं निदध्यादिति शालीकिः ॥
अथास्याँ सद्यस्क्रियामनुक्रियां परिक्रियामतिक्रियां प्रवर्ग्यस्य करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
शवानसोऽधिषवणे फलके पुरुषास्थस्य वृषणाविति ॥
सूत्रं बौधायनस्य
शवानसोऽप्यत्रारणी कुर्यादिति शालीकिः ॥
स यं कं च ग्रहं गृह्णात्येवमेवैनं गृह्णाति
यदु किं च पात्रँ सादयत्येवैनत्सादयतीति ॥
सूत्रं बौधायनस्य
यंयं ग्रहं गृह्णीयात्तंतं परिमृज्य सादयेदिति शालीकिः ॥
श्वेतमश्वं ददाति
श्वेतां वडबां ददात्यश्वमसितं ददाति
गर्भिणीं वडबां ललामीं ददात्यनडुच्छतं ददाति
त्रयस्त्रिँ शतं निष्कान्ददाति

सोमचमसं ददाति
हिरण्मयं चमसं ददाति
राशिकृतं धान्यं ददाति
मरायकृतं धान्यं ददातीति ॥
एतानि च नित्यानि च दद्यादिति बौधायन एतान्येवेति शालीकिः १८

23.19
अथातः सर्वतोमुखं व्याख्यास्यामः ॥
चिन्वीत सर्वतोमुखेऽग्निमिति बौधायनो न चिन्वीतेति शालीकिरत्रो ह स्माह मौद्गल्यः पूर्वस्मिन्नेवाग्निचय इतरेषु सावित्राः स्युरित्येतदपि न कुर्यादित्याञ्जीगविः ॥
अरण्योः समारोपण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माह गौतमो गृहपतिरेव प्रथममरण्योः समारोपयेत इतरे सत्त्र इति ॥

शालाया इति ॥
प्राकृतेन प्रक्रमेण मीयाद्मध्ये गार्हपत्य इति ॥
सूत्रं बौधायनस्यात्रो ह स्माह शालीकिः त्रिपदेन प्रक्रमेण सर्वत इति ॥
त्रिवृत्प्राच्यां दिशि भवति पञ्चदशो दक्षिणतः सप्तदशः पश्चादेकविँ श उत्तरतः
सर्वतो वा ज्योतिष्टोमः सर्वे ज्योतिष्टोमदक्षिणा इति ॥
प्रवर्ग्यस्य करण इति ॥
सूत्रं बौधायनस्य
नोक्थ्ये प्रवृञ्ज्यादिति शालीकिः ॥
याजमान इति ॥
अभीनाम याजमानं कुर्यादिति बौधायनः
कुर्याद्यथावकाशं याजमानमिति शालीकिर्येऽग्निसँ स्काराः स्युस्तान्काममितरत्तन्त्रेणेत्यौपमन्यवः ॥
अग्न्यन्वाधान इति ॥
सूत्रं बौधायनस्यात्रो ह स्माह शालीकिर्गार्हपत्यः सकृदन्वाहितः स्याद्ग्रामयोनिरन्वाहार्यपचन आहवनीयँ सकृदन्वाधाय ततो यथार्थं गच्छेदिति ॥

भक्षण इति ॥
सूत्रं बौधायनस्य
सवँ र्! समवधाय सकृदेव भक्षयेदिति शालीकिः ॥
मार्जन इति ॥
सूत्रं बौधायनस्य
सकृदेकस्मिन्निति शालीकिः ॥
लोकाग्नीनाँ हरण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माह दीर्घवात्स्यः पूर्वस्मिन्नेव याजमानँ स्यादिति ॥
क्रतुपशूनां करण इति ॥
सूत्रं बौधायनस्य
क्रतुपशव ऐकादशिनाश्च विकल्पन्त इति शालीकिः ॥
समञ्जन इति ॥
सूत्रमौपमन्यवीपुत्रस्य
यावन्त स्तोमास्तावत्कृत्वः प्रचरण्या समनक्तीति बौधायनः ॥
दधिग्रह इति ॥
सूत्रं मौद्गल्यस्य
पयसा वाज्येन वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
अँ श्वदाभ्ययोर्ग्रहण इति ॥
सूत्रं बौधायनस्यात्रो ह स्माह शालीकिर्वाजपेये द्वादशाहे सत्त्रे ताण्डिनामयन उद्भिदि वलभिदीति तस्य स्यादित्य्
एवमेव पृश्निग्रहैः प्राणग्रहैरिति ॥
षोडशिग्रहाणां ग्रहण इति ॥
सूत्रं बौधायनस्यानुसवनं गृह्णीयुरिति शालीकिः ॥
अतिग्राह्याणाँ होम इति ॥
सूत्रं बौधायनस्य
माहेन्द्र स्यानुवषट्कारमुपजुहुयुरिति शालीकिः ॥
षोडशिन स्तोत्रमुपाकरोतीति ॥
सूत्रं बौधायनस्य
येन केन चिदिति शालीकिः ॥
हृदयशूलानामुद्वासन इति ॥
एकैकश उद्वासयेदिति बौधायनः
सर्वान्सहेति शालीकिः ॥
अवभृथ इति ॥
सूत्रं बौधायनस्य
प्राञ्च एवावभृथमवेयुरिति शालीकिः ॥

अरण्योः समारोपण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माह गौतमो गृहपतिरेवारण्योः समारोपयेत्तत इतर इति १९