बौधायनश्रौतसूत्रम्/प्रश्नः २१

विकिस्रोतः तः
Jump to navigation Jump to search

21.1
अथातश्चातुर्मास्यानि व्याख्यास्यामः ॥
स ह स्माह बौधायनो यावज्जीवप्रयुक्तान्येव चातुर्मास्यानि स्युरन्तर्मिथुनानि
प्रथमे त्वेव संवत्सरे व्रतं चरेदित्यत्रो ह स्माह शालीकिः सांवत्सरिकाण्येव खलु चातुरमास्यानि ब्रह्मचर्यवन्ति भवन्तीति
यथाप्रयोगमित्यौपमन्यवः ॥
पयसां मन्त्रामन्त्र इति ॥
उभये सायंप्रातर्दोहा मन्त्रवन्तः स्युरिति बौधायनस्
तूष्णीका इति शालीकिरत्रो ह स्माहौपमन्यवो यत्प्राक्सोमेज्यायै चातुर्मासिकानि पयाँ सि तूष्णीकानि स्युरथोर्ध्वँ सोमेज्यायै मन्त्रान्लभेरन्नित्यत्रो ह स्माहाञ्जीगविः पञ्चैवैतानि पयाँ सि मन्त्रवन्ति भवन्ति दर्शपूर्णमासयोर्मैत्रावरुण्यामिक्षायां दाक्षायणयज्ञे कौण्डपायिन्ये सौत्रामण्यामिति ॥
वैश्वानरपार्जन्ययोः करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
फाल्गुन्यां वा चैत्र्! यां वा पौर्णमास्यां विश्वेभ्यो देवेभ्यो वत्सा अपाकृता भवन्तीति ॥
सूत्रं बौधायनस्योदगयन आपूर्यमाणपक्षस्य पुण्याह इति शालीकिः ॥

प्रसूमयं प्रस्तरमिति ॥
सूत्रं बौधायनस्य
सर्वमेवैतद्बर्हिः प्रसूमयँ स्यादिति शालीकिः ॥
पञ्चहोतुर्होम इति ॥
सूत्रं बौधायनस्योपवसथ एव पञ्चहोतारं जुहुयादिति शालीकिः ॥
प्रयाजानामनुमन्त्रण इति ॥
चतुरश्चतुर्भिरनुमन्त्र्! य पञ्चमेनेतराननुसमियादिति बौधायनश्चतुरश्चतुर्भिरनुमन्त्र्! य सर्वेषां पारे पञ्चमेनानुमन्त्रयेतेति शालीकिः ॥
एककपालानां मन्त्रामन्त्र इति ॥
मन्त्रवन्तः स्युरिति बौधायनस्
तूष्णीका इति शालीकिः ॥
एककपालानामवदान इति ॥
स ह स्माह बौधायनश्चातुर्मासिकानामेव नावद्येदथेतरेषामवद्येदित्यत्रो ह स्माह शालीकिस्तन्त्रहराणामेवावद्येदथेतरेषां नावद्येदित्यत्रो ह स्माहौपमन्यवो य एव वैश्वदेवपुरुषि तस्य नावद्येदथेतरेषामवद्येदिति ॥

एककपालानामभिहोम इति ॥
यः स्रुचि सँ स्रावः स्यात्तेनाभिजुहुयादिति बौधायनश्चतुर्भिश्चतुर्भिरृतुनामभिरेकैकमिति शालीकिः १
21.2
एककपालानामाशयस्यानुसँ हरण इति ॥
अनुसँ हरेदिति बौधायनो नानुसँ हरेदिति शालीकिः ॥
वाजिनस्य चर्याया इति ॥
उपाँ शु चरेदिति बौधायन उच्चैरिति शालीकिः ॥
वाजिनस्य भक्षण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽवघ्रभक्षणेनैवेतरे भक्षयेयुर्यजमान एव प्रत्यक्षं भक्षयेदिति ॥
निवर्तन इति ॥
निवर्तनेनोपवाप्योभयं केशश्मश्रु वापयीतेति बौधायनो निवर्तनेनोपवाप्य श्मश्रूण्येव वापयीत न केशानिति शालीकिर्निवर्तनेनोपवाप्य नैव श्मश्रूणि वापयीत न केशानित्यौपमन्यवः ॥
वरुणप्रघासेषु दक्षिणस्य विहारस्य पात्राणां करण इति ॥
सूत्रं बौधायनस्य
सौवर्णानि वा राजतानि वा स्युरिति शालीकिः
शमीमयानीत्यौपमन्यवः ॥

स्तम्बयजुषोर्हरण इति ॥
व्यतिचारँ स्तम्बयजुषी हरेयातामिति बौधायनः
सहेति शालीकिः ॥
आज्यस्यावेक्षण इति ॥
दार्शपौर्णमासिकायै दक्षिणत उपविश्य दक्षिणमवेक्ष्योत्तरमवेक्षेतेति बौधायनो वेदिसंधावुपविश्य दक्षिणमवेक्ष्योत्तरमवेक्षेतेति शालीकिर्मध्यत इत्यौपमन्यवः ॥
ऐषीकँ शूर्पमिति ॥
सूत्रं बौधायनस्य
दर्भमयं वा कुशमयं वेति शालीकिः
प्रत्यक्षमित्यौपमन्यवः ॥
शूर्पस्यानुप्रहरण इति
अनुप्रहरेदिति बौधायनो नानुप्रहरेदिति शालीकिरद्भिरभ्युक्ष्य भुञ्जीतेत्यौपमन्यवः ॥
आमिक्षयोरवदान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन आमिक्षयोरवदाय मेषीमवदध्यान्न शामीपर्णकरीरसक्तूनामवद्येद्घासोक्ता ह्येते भवन्तीत्युत्तमेनावदानेन सर्वं विश्वलोपँ समवदध्यादित्यौपमन्यवः २
21.3
मारुत्यै चर्याया इति ॥
सूत्रं बौधायनस्योत्तर एवाग्नौ मारुत्या चरेदिति शालीकिः ॥

मारुत्ये मेक्षणस्यानुप्रहरण इति ॥
अनुप्रहरेदिति बौधायनो नानुप्रहरेदिति शालीकिः ॥
अवभृथ इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवस्तुषैश्च निष्कासेन चावभृथमवेयादिति ॥
आख्यातमुदकान्तस्य प्रत्यसनम्॥
आख्यातमाप्लवनम्॥
आख्यातँ समिधां करणम्॥
आनीकवतस्य निर्वपण इति ॥
पाणिसंमर्शनेनादित्यस्योदयमाकाङ्क्षेतेत्याचार्ययोर्मुष्टिमेव ग्रहीष्यन्नित्यौपमन्यवः
साकँ रश्मिभिः प्रचरेदित्यौपमन्यवीपुत्रः ॥
एष एवापि सांतपनस्य प्रदेश एष क्रैडिनस्य ॥
गृहमेधीयस्य मन्त्रामन्त्र इति ॥
मन्त्रवान्स्यादिति बौधायनस्
तूष्णीक इति शालीकिः ॥
गृहमेधीयस्य निर्वपण इति ॥
पवित्रवता पात्रेण मन्त्रवन्तमिति बौधायनोऽपवित्रेण तूष्णीकमिति शालीकिः ॥

गृहमेधीयस्य श्रपण इति ॥
पयसि श्रपयेदिति बौधायनोऽप्स्विति शालीकिः ॥
शाकलानां करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
गृहमेधीयस्यासादन इति ॥
दात एव बर्हिष्यासादयेदिति बौधायनो येऽन्येऽनुपयुक्ताः कुशाः स्युस्तेष्विति शालीकिः ॥
गृहमेधीयस्य चर्याया इति ॥
उपाँ शु चरेदिति बौधायन उच्चैरिति शालीकिः ॥
शाकलानामनुप्रहरण इति ॥
अनुप्रहरेदिति बौधायनो नानुप्रहरेदिति शालीकिः ॥
प्रतिवेशस्य श्रपण इति ॥
अन्वाहार्यपचने श्रपयेदिति बौधायनो ग्रामाग्राविति शालीकिः ॥
पूर्णदर्व्यस्य होम इति ॥
सूत्रमाचार्ययोर्व्याहृतीरुक्त्वा ब्रह्मणो हिंकारे जुहुयादिति गौतमः ३
21.4
महापितृयज्ञस्य बर्हिषीति ॥
समूलमेतद्बर्हिर्भवतीति बौधायनस्
तत्र नास्ति प्रत्यभिमर्शन इति
सातिशेषं भवतीति शालीकिस्

तत्र सिद्धः प्रत्यभिमर्शन इति
निर्मूललूनमेवैतल्लुनुयादित्यौपमन्यवः ॥
अथैतदभिवान्यायै दुग्धमर्धपात्रमिति ॥
सूत्रं बौधायनस्याथ यदि कनीयः स्यादद्भिरभ्युन्नीयेति शालीकिः ॥
तेषां व्रीहिष्वेव हविष्कृतमु द्वादयत्युपोद्यच्छन्ते यवानिति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन आवपनप्रभृति यवेषु मन्त्रकर्माभ्यावर्तेत तन्त्रं तु हविष्कृत्स्यादिति ॥
आप्यनिनयन इति ॥
जघनेन गार्हपत्यमाप्येभ्यो निनयेदिति बौधायनोऽग्रेणातिहायेति शालीकिरग्रेण वा जघनेन वेत्यौपमन्यवः ॥
वेद्यै करण इति ॥
उपनिष्क्रम्याग्न्यगाराद्दक्षिणे पूर्वेऽवान्तरदेशे कुर्यादिति बौधायनोऽन्तरेवैतां दिशमिति शालीकिरन्वाहार्यपचनमेवाभित इत्यौपमन्यवः ॥
अन्वाहार्यपचनस्योपसमिन्धन इति ॥
स्वे स्थान उपसमिन्धीरन्निति बौधायन इध्ममेवातिप्रणयेयुरिति शालीकिः ॥

आज्यग्रहाणां ग्रहण इति ॥
पञ्चगृहीतानि वा षड्गृहीतानि वा स्युरिति बौधायनः
षड्गृहीतान्येवेति शालीकिः ॥
प्रस्तरस्य मन्त्रामन्त्र इति ॥
ग्रहणं चैवास्य न्यसनं च तूष्णीकँ स्यादथेतरन्मन्त्रवत्स्यादिति बौधायनः
संभरणं चैवास्य न्यसनं च तूष्णीकँ स्यादथेतरन्मन्त्रवत्स्यादिति शालीकिर्यावन्न्यसनमेव तूष्णीकँ स्यादथेतरन्मन्त्रवत्स्यादित्यौपमन्यवः ॥
त्रिरपसलैः परिस्तृणन्पर्येतीति ॥
सूत्रं बौधायनस्य
यथोत्पन्नेनैव सँ सृणीयादिति शालीकिः ॥
वेद्यै स्तरण इति ॥
सूत्रं बौधायनस्योर्णाम्रदसं त्वा स्तृणामीत्येव ब्रूयादिति शालीकिः ४
21.5
परिधीनां परिधान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः सर्वान्परिधीन्परिदध्यात्
पितृकर्मणि क्रियमाणे दक्षिणतश्चोत्तरमुपनिदध्यादिति ॥
हविषामुद्वासन इति ॥
सूत्रं बौधायनस्य
यथाशृतमेव हवीँ ष्युद्वासयेदिति शालीकिः ॥
हविषाँ संचरोऽधवर्याश्चेति ॥
दक्षिणेनेति बौधायन उत्तरेणेति शालीकिः ॥

विपरिक्रामन्त्येत ऋत्विजो विपरिहरन्ति हवीँ षीति ॥
सूत्रं बौधायनस्य
नात्र हवीँ षि विपरिहरेयातामिति शालीकिर्नात्र हवीँ षि विपरिहरेयातामध्वर्युश्चैवाग्नीध्रश्च विपरिक्रामेतामित्यौपमन्यवः ॥
आश्रावण इति ॥
ओ स्वधेति बौधायन आ स्वधेति शालीकिः
स्वधेत्यौपमन्यवः ॥
प्रवर इति ॥
सूत्रमाचार्ययोर्विद्वाँ श्चिकित्वन्नित्यौपमन्यवः ॥
आख्यातं पिण्डानां दानम्॥
आख्यातमाञ्जनाभ्यञ्जनयोः ॥
आख्यातं पिण्डानामनुप्रहरणम्॥
त्रैयम्बकाणां मन्त्रमन्त्र इति ॥
मन्त्रवन्तः स्युरिति बौधायनस्
तूष्णीका इति शालीकिरप्येनानेककपाल एव श्रपयेदित्यौपमन्यवः ॥
एकोल्मुकस्य हरण इति ॥
अन्वाहार्यपचनाद्धरेदिति बौधायनो ग्रामाग्नेरिति शालीकिः ॥
एतत्समादाय गार्हपत्यमुपतिष्ठन्त इति ॥
स ह स्माह बौधायन उभय एष मन्त्रो भवत्याध्वर्यवश्च याजमानश्चेति
याजमान एवेति शालीकिः ॥

त्रैयम्बकाणामुत्खेदन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्त्रिरेवाव्यतिषजन्परीत्य त्रिरुत्खिदेद्भगाय त्वा भगाय त्वेति ५
21.6
अथैनान्यजमानस्याञ्जलावावपतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यजमानस्यैवैकस्य मन्त्रेणावपेत्तूष्णीं पत्न्यै च भगकामायै चेति ॥
अथैनान्मूत ओप्य नीललोहिताभ्याँ सूत्राभ्यां विग्रथ्य शुष्के वा स्थाणौ विशाखायां वा बध्नातीति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
उदपात्रस्योपनिनयन इति ॥
प्रदक्षिणमुपनिनयेदिति बौधायनो यथोपपादमिति शालीकिः ॥
शुनासीरीयपरुष इज्याया इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो य एवात ऊर्ध्वमापूर्यमाणपक्ष आगच्छेत्तस्मिञ्छुनासीरीयपरुषा यजेत

त्रयोदशस्यैवैतन्मासस्यापीज्यार्थं दृष्टं भवतीति ॥
वेद्यै करण इति ॥
दार्शपौर्णमासिकी स्यादिति बौधायनः
पाशुबन्धिकीति शालीकिः ॥
दक्षिणानां दान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो हिरण्यं वैश्वानरे दद्याद्धेनुं पार्जन्ये द्वादश वैश्वदेवे द्वादश वरुणप्रघासहविःषु तिस्र आनीकवते तिस्रः सांतपने चतस्रो गृहमेधीय ऋषभं पूर्णदर्व्ये तिस्रः क्रैडिने द्वादश महाहविःषु तिस्र आदित्ये द्वादश शुनासीरीयहविःष्वित्यत्रो ह स्माहौपमन्यवश्चतःषष्टिश्चातुर्मास्यदक्षिणाः समाम्नाता भवन्ति
ताश्चेन्नाधिगच्छेद्वासाँ स्येतावन्ति मन्थान्वौदनान्वैतावतो दद्यात्
तेनो हैवैतं काममवाप्नोतीति ॥
चातुर्मास्यानामन्त इति ॥
सोमान्तानि स्युरिति बौधायनः
पश्वन्तानीति शालीकिः
सवनेष्ट्या यजेतेत्यौपमन्यवः ६

अथातोऽग्निष्टोमं व्याख्यास्यामः ॥
स ह स्माह बौधायनो नादृष्ट्वा राजानं चर्त्विजश्च दीक्षयेदित्यत्रो ह स्माह शालीकिर्यदि दीक्षा दीर्घाः स्युराश्वासिका आहर्तारस्तथोद्गीथः कामं दीक्ष्येदिति ॥
शालाया अध्यवसान इति ॥
स ह स्माह बौधायनो मध्यंदिने शालामध्यवस्येदापः पूर्वा गच्छेयुरन्वग्यजमानो राज्ञा चारणिभ्यां चेत्यत्रो ह स्माह शालीकिः कामं पूर्वाह्णे वापराह्णे वा शालामध्यवस्येत्
प्राक्त्वोवास्तमयाद्दीक्षणीयाँ संतिष्ठापयिषेदिति ॥
अग्नीनाँ हरण इति ॥
अजस्रान्हरेदिति बौधायनोऽरण्योः समारोह्येति शालीकिः ॥

सप्तहोतुर्होम इति ॥
सूत्रं बौधायनस्य
षड्ढोतारँ हुत्वा सप्तहोतारं जुहुयादिति शालीकिः ॥
यूपाहुत्यै हवन इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
वाससामुपकल्पन इति ॥
अष्टाविति बौधायनः
सप्तेति शालीकिः ॥
कृष्णाजिनानामुपकल्पन इति ॥
पञ्चेति बौधायनः
षडिति शालीकिः ॥
कृष्णविषाणाया उपकल्पन इति ॥
त्रिवलिरिति बौधायनः
पञ्चवलिरिति शालीकिः
सकलैवैषा स्यादित्यौपमन्यवः ॥
व्रतप्रदान इति ॥
कँ स इति बौधायनश्चमस इति शालीकिः ॥
प्रवर्ग्यस्य करण इति ॥
स ह स्माह बौधायनो न प्रथमसोमे प्रवृञ्ज्यादुपनामुको हैनमुत्तरो यज्ञो भवतीति
न प्रवर्ग्यं गच्छेच्चनेति शालीकिः ७

21.8
तीर्थगमन इति ॥
स ह स्माह बौधायनः प्रदक्षिणमावृत्यैतत्तीर्थं गच्छेदथामुतोऽपसलैरावर्तेतेत्यत्रो ह स्माह शालीकिरपसलैरावृत्यैतत्तीर्थं गच्छेदथामुतः प्रदक्षिणमावर्तेतेति ॥

अथास्य प्राङ्मुखस्य दक्षिणं गोदानमद्भिरुनत्तीति ॥
सूत्रं बौधायनस्योभयमेवाप्यस्य मन्त्रेण कुर्यादिति शालीकिः ॥
अभ्यञ्जन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो महीनां पयोऽसीत्यादाय वर्चोधा असि वर्चो मयि धेहीत्यभ्यञ्जीतेति ॥
आञ्जन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो वृत्रस्य कनीनिकासीत्यादाय चक्षुष्पा असि चक्षुर्मे पाहीत्याञ्जीतेति ॥
त्रिरनिधावं द्विरुत्तरमप्यु पञ्च कृत्वा आङ्क्त इति ब्राह्मणं पञ्च कृत्व एव दक्षिणं पञ्च कृत्व उत्तरमिति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
पवन इति ॥
स ह स्माह बौधायनस्त्रीन्सप्तवर्गान्कृत्वा तेषामेकेन प्राणदेशे पवयेदथेतरेण नाभिदेशेऽथेतरेण गुल्फदेशेऽथैनान्यद्भिरभ्युक्ष्योदञ्च्युत्खिदेदित्यत्रो ह स्माह शालीकिर्द्वाभ्यां पवयति त्रिभिः पवयतीत्येतैरेनमेकविँ शत्यावग्राहशः पवयित्वाथैनान्यद्भिरभ्युक्ष्योदञ्च्युत्खिदेदित्यत्रो ह स्माहौपमन्यवः समस्तैरेवैनं प्राणदेशे पवयेद्चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति

देवतायांदेवतायामतिवाच्याद्भिरभ्युक्ष्योदञ्च्युत्खिदेदिति ॥
अथैनँ सव्ये पाणावभिपात्येति ॥
दक्षिण इति प्रोक्तम्पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
अथैनमग्रेणाहवनीयं पर्याणीयेति ॥
जघनेनेति प्रोक्तम्पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्य ॥
पत्न्या उदानयन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः शुचिमेवैनां पवयित्वा सर्वयर्चोदानीय जघनेन गार्हपत्यमुपवेशयेदिति ॥
पत्न्या दीक्षण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः प्रायणीये हविष्कृदन्ते पत्नीं दीक्षयेदिति ॥
न यजमानं व्रतमुपनयतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः सौमिके तन्त्रे पौरोडाशिकं याजमानमभ्यावर्तेतान्यत्र यज्ञस्य पुनरालम्भादिति ॥
न पत्नीँ संनह्यतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो दीक्षणीयायामेनाँ संनह्य सँ स्थितायां विमुच्याध्वरिकेण सह याजमानेन तन्त्रेतन्त्रे वात ऊर्ध्वं पौरोडाशिकेन कर्मणाभिसंनह्येदिति ॥
ध्रुवाया आप्यायन इति ॥
स ह स्माह बौधायन उभावेव ध्रुवामाप्याययेतामध्वर्युश्च यजमानश्चेत्यध्वर्युरेव ध्रुवामाप्याय्य दीक्षाहुतीर्जुहुयादिति शालीकिः ॥
दीक्षाहुतीनाँ होम इति ॥
सूत्रं बौधायनस्य
चतुर्थ्यां पञ्चमीमनुद्रुत्य जुहुयादिति शालीकिरत्रो ह स्माहौपमन्यव आकूत्यै प्रयुज इति तिस्रोऽनन्तरा हुत्वा सरस्वत्यै पूष्णेऽग्नय इत्युपातीत्यापो देवीर्बृहतीर्विश्वशम्भुव इत्येतां जुहुयादथौद्ग्रहणमिति ८

21.9
कृष्णाजिनयोरिति ॥
द्वाभ्याँ समुब्जिताभ्यां दीक्षयेदिति बौधायनोऽथ यद्यन्यतरत्स्याद्दक्षिणमीर्मं प्रतिषीव्येदित्येकमेव कृष्णाजिनँ स्यादिति शालीकिः ॥
शुक्लकृष्णयोः संमर्शन इति ॥
शुक्लेऽङ्गुष्ठो भवति कृष्णेऽङ्गुलिरित्येवँ शुक्लकृष्णे संमृशेदिति बौधायनः

पृथेनैवैतँ संधिँ संमृशेदिति शालीकिरप्येनमेकाङ्गुल्यैव संमृशेदित्यौपमन्यवः ॥
कृष्णाजिनस्याभिसर्पण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः पूर्वं वोत्तरं वार्धर्चं विगृह्णीयात्
तृतीयेन मध्यदेशं गच्छेदिति ॥
आख्यातं ग्रन्थिकरणम्॥
अथास्य प्रदक्षिणमुष्णीषेण शिरो वेष्टयतीति ॥
सूत्रं बौधायनस्य
वाससैव संप्रच्छन्नः स्यादिति शालीकिः ॥
कृष्णविषाणायाः प्रदान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः समस्तेनैवास्मै मन्त्रेण कृष्णविषाणां प्रयच्छेत्
तूष्णीं वेद्यन्तमुद्धन्यात्
तूष्णीं केशान्तमुपस्पृशेदिति ॥
दण्डस्य प्रदान इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः समस्तेनैवास्मै मन्त्रेण दण्डं प्रयच्छेत्सूपस्था देवः वनस्पतिरूर्ध्वो मा पाह्योदृचसिति ॥
अथैनं यज्ञस्यान्वारम्भं वाचयतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो मष्टिकरणाः खल्वेते मन्त्रा दृष्टा भवन्ति स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याँ स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इति ॥

मुष्टिकरण इति ॥
वाचोयमसंयुक्तं मुष्टिकरणँ स्यादिति बौधायन आवान्तरदीक्षायै विसर्गादिति शालीकिः ॥
आवेदन इति ॥
यथावर्णमावेदयेदिति बौधायनोऽदीक्षिष्टायं ब्राह्मण इत्येव ब्रूयादिति शालीकिः ॥
व्रतदोहन इति ॥
सूत्रं बौधायनस्यापरद्वारिकमेव यजमानव्रतँ स्यादिति शालीकिः ९

21.10
यजुषोरनुषङ्ग इति ॥
आ कृष्णाजिनप्रासनादनुषज्जेतामिति बौधायन आवान्तरदीक्षायै विसर्गादिति शालीकिरा दक्षिणानयनादित्यौपमन्यवः ॥
संवेशनयजुषीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽग्ने त्वँ सु जागृहीत्येव संविशेद्व्रतयिष्यन्नप आचामेद्दैवीं धियं मनामह इति ॥
अथ सनीहारान्प्रहिणोतीति ॥
अन्यत्रोग्रशूद्र योरिति बौधायनोऽअन्यत्रोग्रैरिति शालीकिः
सर्वान्यज्ञसिद्धय इत्यौपमन्यवः
सवेशनयजुःप्रबुद्धयजुःप्रयाणयजुःपर्याणयजुरिति ॥
अनुषङ्गीण्येतानि बह्वन्तीति बौधायनः
सकृत्कृतान्येवैतान्यह्ने वा रात्रियै वा स्युरिति शालीकिः ॥
दक्षिणानां प्रतिग्रह इति ॥
स ह स्माह बौधायनो यस्य कस्य च जातस्य मन्त्रेण प्रतिगृह्णीयात्पुनरप्यागतं मन्त्रेणैव प्रतिगृह्णीयादित्यत्रो ह स्माह शालीकिर्यस्य कस्य च जातस्य मन्त्रेण प्रतिगृह्णीयात्प्रतिगृहीतमेव तस्य स्यादागन्त्वेवास्यात ऊर्ध्वं मन्त्रेणैव प्रतिगृह्णीयादिति ॥
अविज्ञातायै दान इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥

प्रयाण इति ॥
पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्य ॥
अथ यद्येनं यान्तं व्रतनवेलोपाधिगच्छतीति ॥
मथित्वाग्नीन्विहृत्य व्रतयेदिति बौधायन उत्तरतोऽरणी निधाय दक्षिणतः परिश्रित्य व्रतयेदिति शालीकिः ॥
अथ यद्यपर्याणा अप उपाधिगच्छतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यत्रैवापर्याणा अप उपाधिगच्छेत्तज्जपेद्देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रि यावान्मदिन्तमस्तं वो गृह्णामीति
त्रीन्लोष्टानाददीत
तेषामेकमुदकान्ते निदध्यात्तं वो मावक्रमिषमित्यथान्यं ध्वँ सयन्ननुद्र वेदच्छिन्नं तन्तुमित्यथान्यमुदकान्ते निदध्यात्पृथिव्या अनु गेषमिति
सं वा गाहते सं वा तरति
सेतुमेव कृत्वात्येतीति ब्राह्मणम् १०

21.11
रोहिते चर्मणीति ॥
सूत्रं बौधायनस्याप्यरोहितँ स्यादिति शालीकिः ॥
अँ शुग्रहणे हिरण्य इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
देवयजनस्याध्यवसान इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः पुरस्तादेवैतत्त्रैविध्यगतेषु देवयजनमध्यवसेद्विज्ञायते सा वा इयँ सर्वैव वेदिरिति ॥
आख्यातं प्रायणीयस्य निर्वपणम्॥

प्रायणीयस्य श्रपण इति ॥
पयसि श्रपयेदिति बौधायनोऽप्स्विति शालीकिः ॥
प्रायणीयस्यासादन इति ॥
षड्ढोत्रासादयेदिति बौधायनस्
तूष्णीमिति शालीकिः ॥
प्रायणीयस्य चर्याया इति ॥
उपाँ शु चरेदिति बौधायन उच्चैरिति शालीकिः ॥
आदित्यस्योदीक्षण इति ॥
हिरण्यमन्तर्धायादित्यमुदीक्षयेदिति बौधायनोऽनन्तर्धायैवेति शालीकिः ॥
सोमक्रयण्या अतिवित्सन इति ॥
सदसः कालेऽतिवित्सयेदिति बौधायन उपरवकाल इति शालीकिः ॥
सोमक्रयण्यै पदस्यानुनिक्रमण इति ॥
अतिक्रान्तायै पृष्ठ्याकालं दक्षिणस्य पूर्वपदस्यानुनिक्रामेदिति बौधायनो महावेदिमेवातिक्रान्तायै यस्यैव कस्य चेति शालीकिः ॥
सोमक्रयण्यै पदस्य परिलेखन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन स्फ्येन च कृष्णविषाणया च पदं परिलिखेदन्तरतः कृष्णविषाणा स्यादिति ११

21.12
उदपात्रस्योपनिनयन इति ॥
प्रदक्षिणमुपनिनयेदिति बौधायनो यथोपपादमिति शालीकिः ॥

राज्ञ उपस्थान इति ॥
स ह स्माह बौधायन उषसा नामेयमोषधिर्भवति
तां दूतीं कुर्वीतैष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताद्छन्दोमानाँ साम्राज्यं गच्छेति मे सोमाय ब्रूतादित्यत्रो ह स्माह शालीकिः प्रत्यक्षः खल्वयँ राजा भवति प्रत्यक्षवदेवोपतिष्ठेतैष ते गायत्रो भाग एष ते त्रैष्टुभो भाग एष ते जागतो भागश्छन्दोमानाँ साम्राज्यं गच्छेति ॥
राज्ञो मान इति ॥
सूत्रं बौधायनस्य
निगदन्नेवैतामृचं पञ्च कृत्वो मिमीतेति शालीकिः ॥
राज्ञः पणन इति ॥
सूत्रं बौधायनस्य
गवा ते क्रीणानीत्येव ब्रूयादिति शालीकिः ॥
अजाया उपनिग्रहण इति ॥
सूत्रं बौधायनस्यानुपनिगृह्णन्नेवाजां मन्त्रं जपेदिति शालीकिः ॥
मैत्रावरुणस्य दण्डप्रदान इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः सोमविक्रयिणमुदकुम्भेनोपवृत्यात्रैव मैत्रावरुणाय दण्डं प्रयच्छेदिति ॥

राज्ञः प्रत्यानहन इति ॥
अन्तर्लोमण्चर्मणा प्रत्यानह्येदिति बौधायन ऊर्ध्वग्रीवेण बहिर्लोम्नेति शालीकिः ॥
ईषाया अन्वारम्भ इति ॥
सूत्रं बौधायनस्यानन्वारभ्यैवेषां प्रत्यङ्द्र वन्मन्त्रं जपेदिति शालीकिः ॥
राज्ञः परिवहण इति ॥
प्रदक्षिणं परिवहेदिति बौधायनो यथोपपादमिति शालीकिः ॥
राज्ञः प्रत्युपस्थान इति ॥
स ह स्माह बौधायनो व्रीहिभिश्चारणीभ्यां च राजासन्द्या च राजानं प्रत्युपतिष्ठेतेत्यत्रो ह स्माह शालीकिरजेन च क्रणगृहीतेनोल्मुकेन च राजासन्द्या च राजानं प्रत्युपतिष्ठेत
सोऽग्नीषोमीयः पशुः स्याल्लोहः स्यात्तूपरः स्यात्साण्डः स्याच्छ्वश्रुमान्स्यात्पीवान्स्यादिति विज्ञायते १२

21.13
आतिथ्यस्य बर्हिषः सँ स्कार इति ॥
असिदादानप्रभृतीन्मन्त्रान्साधयेदिति बौधायनः
शुल्बप्रभृतीनिति शालीकिः
संभरणप्रभृतीनित्यौपमन्यवः ॥
आतिथ्यस्य निर्वपण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन उभौ विमुच्य राजानं प्रपाद्यातिथ्यं निर्वपेदिति ॥
राज्ञः परिचर्याया इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन ऋचैव राजानं परिचरेदृचार्घ्यमुपनिगृह्णीयादिति ॥
अर्हण इति ॥
यथागतमर्हयेदिति बौधायनो राजानमर्हयित्वर्त्विजोऽर्हयेदिति शालीकिः ॥
आतिथ्यस्य करण इति ॥
पुरोडाशश्च गौश्च स्यातामिति बौधायनः
पुरोडाश एवेति शालीकिः ॥
आज्यग्रहाणां ग्रहण इति ॥
चतुर्गृहीतानि वा पञ्चगृहीतानि वा स्युरिति बौधायनः
पञ्चगृहीतान्येवेति शालीकिः ॥
आतिथ्यस्यासादन इति ॥
चतुर्होत्रासादयेदिति बौधायनस्
तूष्णीमिति शालीकिः ॥
आतिथ्यस्य चर्याया इति ॥
उपाँ शु चरेदिति बौधायन उच्चैरिति शालीकिः ॥
तानुनप्त्रस्य भक्षण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो निगुप्तमेवैनं निधापयित्वा व्रतकाले व्रतेन सह भक्षयेदिति ॥

औपसदस्य बर्हिषः सँ स्कार इति ॥
असिदादानप्रभृतीन्मन्त्रान्साधयेदिति बौधायनः
शुल्बप्रभृतीनिति शालीकिः
संभरणप्रभृतीनित्यौपमन्यवः ॥
उपसदां मन्त्रामन्त्र इति ॥
मन्त्रवत्यः स्युरिति बौधायनस्
तूष्णीका इति शालीकिर्यत्पर्याज्यं तत्तूष्णीकँ स्यादथेतरन्मन्त्रवत्स्यादित्यौपमन्यवः
सर्वमेवैतत्कर्मावृता कुर्यादित्यौपमन्यवीपुत्रः ॥
आहुतीनाँ होम इति ॥
सूत्रं बौधायनस्य
प्राचीरेवैता आहुतीः सँ स्थापयेदिति शालीकिः ॥
उपसदाँ होम इति ॥
सूत्रं बौधायनस्यानत्याक्रम्यैवोपसदो जुहुयादिति शालीकिः ॥
स्रुचां परिशायन इति ॥
अहोरात्रं परिशयीरन्निति बौधायनोऽहरेवेति शालीकिः
कर्मणःकर्मणः प्रयुञ्जीतेत्यौपमन्यवः १३

21.14
स्तम्बयजुषो हरण इति ॥
सूत्रं बौधायनस्योपरवकालादप्याग्नीध्रो हरेदिति शालीकिः ॥
आख्यातं चात्वालस्य परिलेखनम्॥
आख्यातं लोकाग्नीनाँ हरणम्॥
स्फ्यविघनानामुपस्थान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा यजमानमुत्करे स्फ्यविघनानुपस्थापयेदिति ॥
अग्नीषोमीयस्य बर्हिषः सँ स्कार इति ॥
असिदादानप्रभृतीन्मन्त्रान्साधयेदिति बौधायनः
शुल्बप्रभृतीनिति शालीकिः
संभरणप्रभृतीनित्यौपमन्यवः ॥
अग्नीषोमीयस्य पशोरनुसंव्रज्याया इति ॥
अनुसंव्रजेदिति बौधायनो नानुसंव्रजेदिति शालीकिः ॥
इध्माबर्हिषोरुपसादन इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवोऽत्रैवास्मा आसीनायेध्माबर्हिराहरेत्
तदादाय प्राङियात्कुशहस्तश्च पृष्ठ्याकालं प्राङ्स्तृणन्गच्छेदिति ॥

हविर्धानयोरभ्यावर्तन इति ॥
काष्ठानि वा तृणानि वान्तर्धायाभ्यावर्तयेदिति बौधायनोऽनन्तर्धायैवेति शालीकिः ॥
हविर्धानयोः प्रोक्षण इति ॥
तूष्णीँ सँ स्कृताभिरद्भिः प्रोक्षेदिति बौधायनः
कमण्डलुभिरिति शालीकिः ॥
वर्त्मनोरभिहोम इति ॥
सूत्रमौपमन्यवीपुत्रस्यात्रो ह स्माह बौधायनो दक्षिणस्य हविर्धानस्य वर्तनिमभिजुहुयात्सर्वा अक्षधुर उपाञ्ज्यात्सर्वतश्च परिमृशेदित्यत्रो ह स्माह शालीकिः सर्वा एव वर्तनीरभिजुहुयात्सर्वा अक्षधुर उपाञ्ज्यात्सर्वतश्च परिमृशेदिति ॥
मेथ्योर्निहनन इति ॥
स ह स्माह बौधायनो दक्षिणस्य हविर्धानस्य दक्षिणतो मेथीं निहन्यादुत्तरस्य दक्षिणत इति
दक्षिणतश्चोत्तरतश्चेति शलीकिर्मध्य इत्यौपमन्यवः ॥
द्वार्बाहूनां परिषीवण इति ॥
सर्वान्द्वार्बाहून्मन्त्रेण परिषीव्येदिति बौधायनः
पूर्वौपूर्वाविति शालीकिर्दक्षिणौदक्षिणावित्यौपमन्यवः १४

21.15
औदुम्बर्या अभिहोम इति ॥
सूत्रमौपमन्यवीपुत्रस्यात्रो ह स्माह बौधायन एवमेव जुह्वदन्तर्धाय हिरण्यमभिजुहुयादित्युभयोरेव विशाखयोर्हिरण्ये निधायाभिजुहुयादिति शालीकिः ॥
वसतीवरीणां ग्रहण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन उभयतःशुक्रा आदित्यवतीर्वसतीवरीर्गृह्णीयात्
ताः शुक्रास्
ताभिराप्याययेत्
ताभिरभिषुणुयादिति
धिष्णियान्न्युप्य वसतीवरीर्गृह्णीयादित्यौपमन्यवः ॥
उपरवाणां परिलेखन इति ॥
त्रिस्त्रिरेकैकं परिलिखेदिति बौधायनः
सकृत्सकृदिति शालीकिः ॥
उपरवपाँ सूनाँ हरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यजमानस्याधस्पदमुपोप्योत्करँ हृत्वोपस्पृशेदिति ॥
उपरवाणां प्रोक्षण इति ॥
त्रिस्त्रिरेकैकं प्रोक्षेदिति बौधायनः
सकृत्सकृदिति शालीकिस्
तस्मिन्नपोऽवनयेत्तस्मिन्यवान्प्रस्कन्दयेदित्येवमेवैतत्त्रिविधं कर्म कुर्यादित्यौपमन्यवः
सर्वमेवैतत्कर्मावृता कुर्यादित्यौपमन्यवीपूत्रः ॥

धिष्णियानां निवपन इति ॥
स ह स्माह बौधायनो वेद्यन्त आग्नीध्रीयं निवपेद्वेद्यन्ते मार्जालीयं धिष्णियान्न्युप्योदीचीनसँ स्थतां कुर्यादित्यत्रो ह स्माह शालीकिरन्तर्वेद्याग्नीध्रीयं निवपेदन्तर्वेदि मार्जालीयं धिष्णियान्न्युप्यन चोदीचीनसँ स्थतां कुर्यादिति ॥
वेद्यै स्तरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्त्रयो दक्षिणतस्त्रय उत्तरतो मध्ये सप्तमः पृष्ठ्याकालं प्राञ्च स्तृणन्तो गच्छेयुरिति
पुरस्तादेवैनां प्रत्यञ्च स्तृणन्तोऽभ्यवक्रामेयुरित्यौपमन्यवः ॥
अग्नीषोमीयस्याज्यानां ग्रहणे सादन इति ॥
सूत्रं बौधायनस्य
पत्नीशाल एवाग्नीषोमीयस्याज्यानि गृह्णीयात्तानि खरे सादयेदिति शालीकिः ॥
समन्वानयन इति ॥
सूत्रं बौधायनस्य
नाद्रि येतेति शालीकिः ॥

अर्धस्तनव्रतप्रदान इति ॥
समन्वानीय वासमन्वानीय वा पुराणगार्हपत्यमर्धस्तनव्रतं प्रयच्छेदिति बौधायनो नार्धस्तनव्रतं प्रयच्छेदिति शालीकिः ॥
वैसर्जनानाँ होम इति ॥
सूत्रं बौधायनस्य
चत्वारि चतुर्गृहीतानि जुहुयादिति शालीकिः ॥
वसतीवरीणामनुसँ हरण इति ॥
अनुसँ हरेदिति बौधायनो नानुसँ हरेदिति शालीकिः ॥
वपानां परिहोम इति ॥
तांतां परिजुहुयादिति बौधायन आदितश्चान्ततश्चेति शालीकिः ॥
हृदयशूलानामुद्वासन इति ॥
एकैकश उद्वासयेदिति बौधायनः
सर्वान्सहेति शालीकिः ॥
वसतीवरीणां परिहरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन एवमेवैनाः परिहरन्नग्रेण यूपँ सादयित्वा जघनेन गार्हपत्यमुपसाद्याग्नीध्रे सन्ना अभिमृशेद्यज्ञे जागृतेति १५

21.16
सवनीयस्याज्यानां ग्रहणे सादन इति ॥
सूत्रं बौधायनस्याग्नीध्र एव सवनीयस्याज्यानि गृह्णीयात्
तानि खरे सादयेदिति शालीकिः ॥

औदुम्बराणां महापरिधीनां परिधान इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः स्रुङ्मन्त्रा एवैते स्युरिति ॥
राज्ञ उपावहरण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः प्रातःसवन एव सर्वेभ्यः सवनेभ्यो राजानमुपावहरेदिति ॥
पञ्चहोतुर्होम इति ॥
सूत्रं बौधायनस्य
चतुर्होतारँ हुत्वा पञ्चहोतारं जुहुयादिति शालीकिः ॥
प्रातरनुवाकस्योपाकरण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहार्तभागीपुत्रस्तूष्णीकेनैककपालेन प्रातरनुवाकमुपाकुर्यादिति ॥
सवनीयानां निर्वपण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः प्रातःसवन एव सर्वेभ्यः सवनेभ्यः सवनीयान्निर्वपेदिति ॥
तेषां व्रीहिष्वेव हविष्कृतमुद्वादयत्युपोद्यच्छन्ते यवानिति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन आवपनप्रभृति यवेषु मन्त्रकर्माभ्यावर्तेत तन्त्रं तु हविष्कृत्स्यादिति ॥
आप्यनिनयन इति ॥
जघनेन गार्हपत्यमाप्येभ्यो निनयेदिति बौधायनोऽग्रेणातिहायेति शालीकिरग्रेण वा जघनेन वेत्यौपमन्यवः ॥
पात्राणाँ सादन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः खरे पात्राणि सादयेत्
तेषां यथार्थमाददीतेति ॥
अथैकधनान्गृह्णातीन्द्रा य वो जुष्टान्गृह्णामीति वा तूष्णीं वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः १६

21.17
अप्तोः प्रस्कन्दन इति ॥
होतृचमसादत्राप्तुं प्रस्कन्दयेदिति बौधायनो वासतीवरात्कलशादिति शालीकिः ॥
क्रतुकरण इति ॥
सूत्रं बौधायनस्य
यथाक्रत्वेवास्य क्रतुकरणानि कुर्यादिति शालीकिः ॥
दधिग्रहस्य ग्रहण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन औदुम्बरेणैनं पात्रेण गृह्णीयाद्धुत्वा चैतत्पात्रमत्रैवानुप्रहरेदिति ॥
दक्षिणायै दान इति ॥
सूत्रं द्वैधमेवैतद्भवति ॥
तासु निग्राभ्यासु यजमानं वाचयतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन ऊरौ वोरसि वोपनिगृह्य तासु निग्रभ्यासु यजमानं वाचयतीति ॥
राज्ञो निर्वपण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः प्रातःसवन एव सर्वेभ्यः सवनेभ्यो राजानं निर्वपेदिति ॥

सोऽँ! शौ स्कन्ने वाचयतीति ॥
सूत्रं बौधायनस्योपाँ शावेवाँ शौ स्कन्ने वाचयेदिति शालीकिः ॥
उपाँ श्वन्तर्यामयोर्होम इति ॥
सूत्रं बौधायनस्योभावेवोदिते जुहुयादिति शालीकिरुभावेवानुदिते जुहुयादित्यौपमन्यवः ॥
आग्रयणस्य ग्रहण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो द्वयोर्धारयोः प्रातःसवने गृह्णीयात्तिसृणां माध्यंदिने सवने चतसृणां तृतीयसवन इति ॥
द्र प्सानुमन्त्रणीयास्विति ॥
सूत्रं बौधायनस्य
स्रुवाहुतीरेवैता जुहुयादिति शालीकिः १७

21.18
पवमानग्रहाणांग्रहण इति ॥
सूत्रं बौधायनस्य
सजुष्टान्परिमृज्य सादयेदिति शालीकिः ॥
संतनीनाँ होम इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो वसतीवरीरप्येतैर्मन्त्रैरवनयेदिति ॥
पवमानानामुपाकरण इति ॥
सूत्रं बौधायनस्य
सदस एव बर्हिषी आदायोपाकुर्यादिति शालीकिः ॥
ब्रह्मण उपवेशन इति ॥
यथा सदस्येवमुपविशेदिति बौधायनो यथा दर्शपूर्णमासयोरेवमिति शालीकिः ॥

यजमानस्योपवेशन इति ॥
यथासदस्येवमुपविशेदिति बौधायनो यथा दर्शपूर्णमासयोरेवमिति शालीकिः ॥
अथोद्गात्रे वा प्रस्तोत्रे वा बर्हिषी प्रयच्छतीति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
ऋक्सामयोरुपस्तरणमसि मिथुनस्य प्रजात्या इति वा तूष्णीं वेति ॥
पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्य ॥
पञ्चम्यां प्रस्तुतायां वाचयतीति ॥
सूत्रं बौधायनस्य
यस्यामेव कस्यां चिद्वाचयेदिति शालीकिः ॥
सप्तहोतुर्होम इति ॥
सूत्रं बौधायनस्यानुसवनमेव सप्तहोतारं जुहुयादिति शालीकिः ॥
धिष्णियानां विहरण इति ॥
स ह स्माह बौधायन आग्नीध्रीयादङ्गारानादाय तत आग्नीध्रीये प्रस्कन्दयेदथानुपूर्वमितरेषु
धिष्णियान्विहृत्योदीचीनसँ स्थतां कुर्यादित्यत्रो ह स्माह शालीकिराग्नीध्रीयादङ्गारानादाय तत आग्नीध्रीये प्रस्कन्दयेदथानुपूर्वमितरेषु
धिष्णियान्विहृत्य न चोदीचीनसँ स्थतां कुर्यादिति ॥

धिष्णियानां व्याघारण इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
स्वरुरशनस्योत्पादन इति ॥
यूपः स्वरुरशनमुत्पादयेदिति बौधायनः
पशुरिति शालीकिस्
तन्त्रमित्यौपमन्यवो देवतेत्यौपमन्यवीपुत्रः १८

21.19
सर्पण इति ॥
सूत्रं बौधायनस्यापरद्वारिक एव यजमानः स्यादिति शालीकिः ॥
तार्तीयसवनिकेषूक्थ्यविग्रहेष्विति ॥
स ह स्माह बौधायनः प्रसर्पेदेव तार्तीयसवनिकेभ्य उक्थ्यविग्रहेभ्यः षोडशिने रात्रिपर्यायेभ्यो राथंतराय संधय इत्यत्रो ह स्माह शालीकिस्तृतीयसवनातिवृद्धिरेवैषा भवति
यदेव तृतीयसवने प्रसर्पेत्तत्प्रसृप्तमेव तेषाँ स्यादिति
प्रातःसवन एव सर्वेभ्यः सववेभ्यः संप्रसर्पेदित्यौपमन्यवः ॥
आमिक्षायै मन्त्रामन्त्र इति ॥
मन्त्रवती च स्यात्सर्वाणि च सवनान्यनुसमियादिति बौधायनस्
तूष्णीका च स्यात्सर्वाणि च सवनान्यनुसमियादिति शालीकिर्
मन्त्रवती च स्यात्प्रातःसवने चैवैषा स्यादित्यौपमन्यवः ॥
सवनीयानामुद्वासन इति ॥
सूत्रं बौधायनस्य
नानापात्रीष्वेव सवनीयानुद्वासयेदिति शालीकिः ॥
प्रातः प्रातःसावस्येति ॥
सूत्रं बौधायनस्य
प्रातःसावस्येत्येव ब्रूयादिति शालीकिः ॥
सवनीयानामनुसँ हरण इति ॥
अनुसँ हरेदिति बौधायनो नानुसँ हरेदिति शालीकिः ॥
प्रतिनिर्ग्राह्याणां ग्रहण इति ॥
सूत्रं बौधायनस्य
द्विदेवत्येभ्य एव प्रतिनिर्ग्राह्यान्निगृह्णीयादिति शालीकिः ॥
आघार इति ॥
सूत्रं बौधायनस्य
ग्रहादेवैतमाघारमाघारयेदिति शालीकिद्रो र्ण!कलशात्परिप्लुना पात्रेणेत्यौपमन्यवो यजुरेवैतज्जपेन्नैतमाघारमाघारयेदित्याञ्जीगविः ॥

सँ स्रावस्यापिधान इति ॥
सूत्रं बौधायनस्य
यावानेव सँ स्रावः स्यात्तमपिदध्यादिति शालीकिः ॥
चमसानामायातन इति ॥
अग्रेण स्रुचः प्राच आयातयेदिति बौधायनो जघनेन स्रुच उदीच आयातयेदिति शालीकिः १९

21.20
ग्रहयोः संधान इति ॥
अरत्नी च ग्रहौ च संदध्यातामिति बौधायनो ग्रहावेवेति शालीकिः ॥
शुक्रवतो मन्थिवत इति ॥
सूत्रं बौधायनस्य
मन्थिवत इत्येव ब्रूयादिति शालीकिः ॥
मन्थिसँ स्रावस्य होम इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन आहवनीयादेवोदीचोऽङ्गारान्निर्वर्त्य तेषु मन्थिनः सँ स्रावं जुहुयादिति ॥
होत्रकचमसानाँ होम इति ॥
स ह स्माह बौधायनः शुक्रामन्थिभ्यामेनान्सह सकृज्जुहुयाद्द्विरभ्युन्नीतानित्यत्रो ह स्माह शालीकिर्नैनाञ्छुक्रामन्थिभ्याँ सह सकृज्जुहुयाद्द्विरेवाभ्युन्नीतानिति ॥

द्विदेवत्यानां भक्षण इति ॥
सूत्रं बौधायनस्य
प्राणेषूपनिग्राहं द्विदेवत्यान्भक्षयेदिति शालीकिर्दीर्घभक्षेणैवैनान्भक्षयेदित्यौपमन्यवः ॥
अथैतानि द्विदेवत्यपात्राण्यरिक्तानि करोतीति ॥
सूत्रं बौधायनस्य
सोमेनैवैतान्यरिक्तानि स्युरिति शालीकिः ॥
अथैनानि दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याँ सादयतीति ॥
सूत्रं बौधायनस्याधस्तादेवैनान्युपहव्यस्य सादयेदिति शालीकिः ॥
वाचि वाचं दधामीति वा तूष्णीं वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
होत्रकचमसानां प्रतिभक्षण इति ॥
प्रतिभक्षयेदिति बौधायनो न प्रतिभक्षयेदिति शालीकिः ॥
प्रत्यभिमर्शन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो भक्षयन्नेव भक्षाणां पारे प्रत्यभिमृशीतेति ॥

ऐन्द्रा ग्नस्य ग्रहण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माह दीर्घवात्स्यो मुख्येनैनं पात्रेण गृह्णीयादिति ॥
नाराशँ सानामनुप्रकम्पन इति ॥
अनुप्रकम्पयेरन्निति बौधायनो नानुप्रकम्पयेरन्नित्शालीकिर्नैनानुपोद्यच्छेरँ श्चनेत्यौपमन्यवः २०

21.21
माध्यंदिनीयेऽभिषव इति ॥
नवकृत्वोनवकृत्वोऽभिषुत्य निग्राभमुपेयुरिति बौधायनोऽपरिमितमिति शालीकिः ॥
मरुत्वतीययोर्ग्रहण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन उपरिष्टादेवाग्रयणाद्गृह्णीयादिति
ग्राह्यलोको ह्येष भवतीति ॥
अष्टम्यां प्रस्तुतायां वाचयतीति ॥
सूत्रं बौधायनस्य
यस्यामेव कस्यां चिद्वाचयेदिति शालीकिः ॥
दधिघर्मस्य ग्रहण इति ॥
सूत्रं बौधायनस्याग्नीध्र एनं गृह्णीयादिति शालीकिः
परिश्रित्योभयतः शान्तिं कृत्वाग्नीध्र एवेत्यौपमन्यवः ॥
दधिघर्मस्य चर्याया इति ॥
उपाँ शु चरेदिति बौधायन उच्चैरिति शालीकिः ॥
दधिघर्मस्य भक्षण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽवध्रभक्षणेनैवेतरे भक्षयेयुर्यजमान एव प्रत्यक्षं भक्षयेदरण्येऽनुवाक्येन मन्त्रेणेति ॥

दक्षिणानामत्याकरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन एकामेव दक्षिणां दक्षिणापथेनात्याकुर्यादथेतरा यथावकाशं गच्छेयुरिति ॥
संचर इति ॥
नीतासु दक्षिणासु यथाथँ र्! संचरेरन्निति बौधायनो नासँ स्थिते सोमेऽध्वर्युः प्रत्यङ्सदोऽतीयादिति शालीकिः ॥
कृष्णविषाणायाः प्रासन इति ॥
सूत्रं बौधायनस्य
नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्येदिति शालीकिः ॥
आत्रेयस्य संवदन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्त्रिरेवाव्यतिषजन्पृच्छेत्क आत्रेयः क आत्रेय इति २१

21.22
दक्षिणानां दान इति ॥
स ह स्माह बौधायनो महर्त्विग्भ्य एना दद्यान्न होत्रकाननुसंचरेरन्निति
न च होत्रकाननुसंचरेरन्न च सदस्याय दद्यान्न ह्येतस्यानुख्या विज्ञायत इति शालीकिः ॥
मरुत्वतीययोर्होम इति ॥
स ह स्माह बौधायनो यमेवाध्वर्युर्जुहुयात्स वषट्कृतानुवषट्कृतः स्यादथेतरोऽननुवषट्कृतः स्यादित्युभावेवाननुवषट्कृतौ स्यातामिति शालीकिरुभावेवानुवषत्कृतौ स्यातामित्यौपमन्यवः ॥
तृतीयस्य मरुत्वतीयस्य ग्रहण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माह दीर्घवात्स्यो मुख्येनैनं पात्रेण गृह्णीयादिति ॥
नाराशँ सानानामनुप्रकम्पन इति ॥
अनुप्रकम्पयेरन्निति बौधायनो नानुप्रकम्पयेरन्निति शालीकिर्नैनानुपोद्यच्छेरँ श्चनेत्यौपमन्यवः ॥
सौम्यस्य मन्त्रामन्त्र इति ॥
मन्त्रवान्स्यादिति बौधायनस्
तूष्णीक इति शालीकिः
सौम्य एव मन्त्रवान्त्स्यात्तूष्णीक एककपाल इत्यौपमन्यवः ॥
तार्तीयसवनिकेऽभिषव इति ॥
सूत्रं बौधायनस्य
यदाप्याययति तेनाँ शुमदित्येव ब्रूयादिति शालीकिः ॥

आदित्यग्रहस्य ग्रहण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः पुरस्तादेनमभिषवाद्गृह्णीयात्तूष्णीँ शृतातङ्क्यमवनयेदिति ॥
आदित्यग्रहस्योदाहनन इति ॥
अर्धर्चश उदाहन्यादिति बौधायन ऋचर्चेति शालीकिः ॥
मैत्रावरुणस्य श्रयण आशिरोऽवनयन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः श्रीणीयादेव मैत्रावरुणं पयसाशिरमवनयेदिति ॥
नवम्यां प्रस्तुतायां वाचयतीति ॥
सूत्रं बौधायनस्य
यस्यामेव कस्यां चिद्वाचयेदिति शालीकिः ॥
होत्रकाणाँ संतर्पण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽनुसवनमेव होत्राः संतर्पयेदिति
पञ्च प्रातःसवने षण्माध्यंदिने सवने सप्त तृतीयसवन इत्यौपमन्यवः ॥
औपासनेष्विति ॥
स ह स्माह बौधायनोऽनुसंव्रज्यौपासनाननुमन्त्रयेत चमसेभ्यश्च पुरोडाशशकलानुपास्येदत्र चैव षड्ढोतारं व्याचक्षीतेत्य्
अत्रो ह स्माह शालीकिरनुसंव्रज्यैवौपासनाननुमन्त्रयेत पार्श्वतश्चमसेभ्यः पुरोडाशशकलानुपास्येदुपरिष्टाच्च षड्ढोतारं व्याचक्षीतेति २२

21.23
सावित्रस्य ग्रहणे सादन इति ॥
सूत्रं बौधायनस्य
सजुष्टं परिमृज्य सादयेदिति शालीकिः ॥
तदन्यतोमदं प्रतिगृणातीति ॥
सूत्रं बौधायनस्य
मदा मोद इवेत्येव प्रतिगृणीयादिति शालीकिः ॥
नाराशँ सानामनुप्रकम्पन इति ॥
अनुप्रकम्पयेरन्निति बौधायनो नानुप्रकम्पयेरन्निति शालीकिर्नैनानुपोद्यच्छेरँ श्चनेत्यौपमन्यवः ॥
सौम्यस्य चर्याया इति ॥
उपाँ शु चरेदिति बौधायन उच्चैरिति शालीकिः ॥
सौम्यस्य परीज्याया इति ॥
स ह स्माह बौधायनो यदि चैव समस्तौ यदि च विहृतावग्नाविष्णू उपाँ श्वेव स्यातामिति
समस्तावुपाँ शु विहृतावुच्चैरिति शालीकिः ॥
तार्तीयसवनिकानां धिष्णियानां विहरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनश्चरित्वा वाचरित्वा वा सौम्येनाङ्गारैश्चतुर्धिष्णियान्विहरेदिति ॥

पात्नीवतस्य श्रयण इति ॥
सूत्रं बौधायनस्य
दध्ना वा पयसा वा पात्नीवतँ श्रीणीयादिति शालीकिर्धिष्णियानां व्याघारणशेषेणाज्येन पात्नीवतँ श्रीणीयादित्यौपमन्यवः ॥
पत्न्या उदानयन इति ॥
सूत्रं बौधायनस्यात्रैवासीतापोहिष्ठीयाभ्य इति शालीकिः ॥
तदुभयतोमदं प्रतिगृणातीति ॥
सूत्रं बौधायनस्य
मोदा मोद इवेत्येव प्रतिगृणीयादिति शालीकिः ॥
ध्रुवस्य प्रच्यावन इति ॥
सूत्रं बौधायनस्य
सर्व एवैषोऽवनयनमन्त्रः स्यादिति शालीकिः २३
21.24
चमसानामायातन इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
तेषु त्रीँ स्त्रीँ श्च दूर्वाग्रन्थीन्प्रास्यत्येकैकं च दर्भपुञ्जीलमिति ॥
सूत्रं बौधायनस्याद्भिरेवैते दक्षाः स्युरिति शालीकिः ॥
औपयजेष्विति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन आग्नीध्रादग्नीषोमीयस्य च सवनीयस्य चाङ्गारानाहरेच्छामित्रान्मैत्रावरुण्यै वशाया इति ॥

मिन्दाहुत्योर्होम इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः पुरस्तान्मिन्दाहुती जुहुयाद्मिन्दाहुती हुत्वा हारियोजनं ग्रहं गृह्णीयादिति ॥
शाकलैश्चर्याया इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यावन्त्येनाँ सि कृतान्यभिविजानीयात्तेषामवयजनमसीत्यभ्यादध्यादिति ॥
आदित्यस्योपस्थान इति ॥
सूरं बौधायनस्याहवनीयमेवैतेन यजुषोपतिष्ठेरन्निति शालीकिः ॥
कृष्णविषाणायाः प्रासन इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
अवभृथ इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवोऽत्रैवैनँ स्थण्डिले कुम्भमिश्रं प्ररोप्य स्थालीभिश्च ग्रावोवायव्येन चावभृथमवेयादिति ॥
ग्रावोवायव्यस्य प्रप्लावन इति ॥
सूत्रं बौधायनस्य
प्रक्षाल्योदाहरेयुरिति शालीकिः ॥
प्रक्षाल्यैवैता स्थालीरुदाहरेयुस्
तास्वेतानि देविकाहवीँ षि श्रपयेयुरिति बौधायनः
प्रप्लावयेयुरेवेति शालीकिः २४
21.25
कृष्णाजिनस्य प्रप्लावन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः कृष्णाजिनमुन्मुच्याद्भिरभ्युक्ष्य पुत्राय वान्तेवासिने वा दद्यात्स्रुचोपधानं वैनत्कुर्वीतापि वैनेन पुनर्दीक्षेतापि वैनेन पुनर्यजेतेति ॥
उदयनीयस्य बर्हिषः सँ स्कार इति ॥
असिदादानप्रभृतीन्मन्त्रान्साधयेदिति बौधायनः
शुल्बप्रभृतीनिति शालीकिः
संभरणप्रभृतीनित्यौपमन्यवः ॥
उदयनीयस्य निर्वपण इति ॥
स्रुचि वावधाय क्षामकाषँ स्थाल्यां वा सक्षामकाषायां निर्वपेदिति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
उदयनीयस्य श्रपण इति ॥
पयसि श्रपयेदिति बौधायनोऽप्स्विति शालीकिः ॥
चरोरनुपरिहरण इति ॥
अनुपरिहरेदिति बौधायनो नानुपरिहरेदिति शालीकिः ॥
उदयनीयस्यासादन इति ॥
षड्ढोत्रासादयेदिति बौधायनस्
तूष्णीमिति शालीकिः ॥
उदयनीयस्य चर्याया इति ॥
सूत्रं बौधायनस्याहवनीय एवोदयनीयेन चरेदिति शालीकिः ॥
अनूबन्ध्यस्य करण इति ॥
सूत्रं बौधायनस्य
मैत्रावरुण्यामिक्षया यजेतेति शालीकिर्
अत्रो ह स्माहौपमन्यवोऽजं पशुमप्यत्रालभेतैकादशपरयाजं त्वेव तन्त्रँ संतिष्ठापयिषेदिति ॥
वपानां परिहोम इति ॥
तांतां परिजुहुयादिति बौधायन आदितश्चान्ततश्चेति शालीकिः ॥
हृदयशूलानामुद्वासन इति ॥
एकैकश उद्वासयेदिति बौधायनः
सर्वान्सहेति शालीकिः २५
21.26
उस्रण इति ॥
सर्वान्गोपशूनुस्रयेदिति बौधायनोऽन्यत्रर्षभाच्च वशायै चेति शालीकिः ॥
आमिक्षायै मन्त्रामन्त्र इति ॥
मन्त्रवती स्यादिति बौधायनस्
तूष्णीकेति शालीकिः ॥
मैत्रावरुण्यै परिधिष्विति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः पूर्वे स्थूणे सदसो वा हविर्धानयोर्वा भित्त्वा बैदलकान्परिधीन्मैत्रावरुण्यै कुर्यादिति ॥

उदवसान इति ॥
सूत्रं बौधायनस्य
पूर्णाहुत्यैवोदवस्येदिति शालीकिः ॥
दक्षिणायै दान इति ॥
सूत्रं बौधायनस्य
नात्राकामनियतं देयमिति शालीकिः ॥
देविकाहविषां करण इति ॥
सूत्रमौपमन्यवीपुत्रस्यात्रो ह स्माह बौधायनस्त्रीण्यनूबन्ध्यस्य पशुपुरोडाशमनुवर्तेरँ स्त्रीण्युदवसानीयामिति
सर्वाण्येवानूबन्ध्यस्य पशुपुरोडाशमनुवर्तेरन्निति शालीकिराज्येनैव देविका यजेतेत्याञ्जीगविः ॥
अग्निभिः प्रत्यवसान इति ॥
अजस्रैः प्रत्यवस्येदिति बौधायनोऽरण्योः समारोह्येति शालीकिः ॥
अग्निहोत्रयोः प्रतिहोमः इति ॥
प्रतिजुहुयादिति बौधायनो न प्रतिजुहुयादिति शालीकिर्न प्रतिजुहुयादिति शालीकिः २६