बौधायनश्रौतसूत्रम्/प्रश्नः १९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

19.1
सावित्रꣳ स्वर्गकामश्चिन्वीत
पशुबन्धे चेच्चीयते षड्ढोतारꣳ हुत्वा यूपाहुतिꣳ हुत्वा यूपꣳ सयजुषं कृत्वा वेदिं विमिमीते
वेदितृतीये यजेतेति विज्ञायते
तस्याः सौमिकं मानमेतावदेव नाना सौमिकात्प्रक्रमात्तृतीयोऽꣳशः प्रक्रमः स्यात्तेन वेदिं विमिमीतेऽपि वा पदाक्ष्णया पार्श्वमानी पदं तिरः पशुमानेन तयोर्यः कर्णसंमितः प्रक्रमः स इष्यते
पदाद्वा नवमस्तदक्ष्णया तयोस्तु यः कर्णसंमितः स प्रक्रमार्थस्तेन मेया सौमिकी वेदिरग्नीनन्वादध्याद्व्रतमुपेयादिध्माबर्हिः संनह्य स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थं पूर्वं परिग्राहं परिगृह्णाति करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथैतमग्निं प्रत्यञ्चं यूपावटीयाच्छङ्कोर्विमिमीते
पक्षःसंमितश्चेतव्य इति रथचक्रमात्र एवैष उक्तो भवत्यथाप्युदाहरन्ति द्व्यरत्निः प्रथमं चक्रं द्वौ सार्धौ मध्यमं त्रिभागोनास्त्रय उत्तममिति
तेषामन्यतममात्रीꣳ रज्जुमुभयतःपाशां कृत्वोत्तरवेदिदेशस्य मध्ये शङ्कुं निहत्य तस्मिन्पाशौ प्रतिमुच्य तस्मिन्नन्तेऽन्यꣳ शङ्कुं प्रास्य तेनैनं प्रदक्षिणं परिमण्डलं परिलिखत्य्
अपोद्धृत्य स्पन्द्यां कर्षूः खानयन्त्युच्छ्रयन्त्यपस्या दक्षिणतश्च पश्चाच्च वर्षीयसीः कुर्वन्त्यथ याचत्याज्यस्थालीꣳ सस्रुवाꣳ स्फ्यं दर्भस्तम्बमुदपात्रमौत्तरवेदिकाꣳ श्च संभारान्दधि मधुमिश्रꣳ हिरण्यं च शर्कराः सिकताश्च दर्भानित्येतत्समादायोत्तरार्धे सꣳ सादयन्त्यथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्यान्तःशर्करमिमामुपदधाति प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ शङ्कुमुद्वृह्योदपात्रमुपनिनीय दर्भस्तम्बमुपदधाति वाक्त्वा समुद्र उपदधात्विति वा तूष्णीं वाथैनꣳ स्रुवाहुतिभिरभिजुहोति सजूरब्दोऽयावभिरिति पञ्चभिस्
तयादेवतं कृत्वा सूददोहसं करोति १
19.2
अथ चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्य यूपावटं खात्वा प्रोक्ष्य व्याघार्यालङ्कृत्य सिकता निवपत्यग्ने तव श्रवो वय इति षड्भिरनुच्छन्दसम्

 अथोर्ध्वचित उपदधाति चित स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देवतयाङ्गिरस्वद्ध्रुवाः सीदतेत्यथानुव्यूहत्याप्यायस्वेति गायत्र्या ब्राह्मणस्य सं ते पयाꣳ सीति त्रिष्टुभा राजन्यस्य
यथासुष्ठु यथाशर्करमनुव्यूहति
तस्यां नव परिमण्डला लेखा लिखत्यथ दध्ना मधुमिश्रेण शर्कराः समज्य सायमग्निहोत्रꣳ हुत्वाग्नीन्परिस्तीर्योपवसत्यथ प्रातर्हुतेऽग्निहोत्रे याचत्युदपात्रं भस्म पुरीषमूषान्सिकता यावदुत्तममङ्गुलिकाण्डं यज्ञपरुषा संमितं तावन्मात्रीः पञ्चाशीतिशतꣳ हिरण्येष्टकाः शर्करा वा घृताक्तास्तावत्यो लोकंपृणा अपरिमिता वा चतस्रः स्वयमातृण्णाः सहस्रꣳ हिरण्यशक्लानूर्ध्वं त्रिभ्योऽपरिमितानित्येक आहुस्
ते यदि सहस्रं भवन्ति द्वेद्वे शते पत्त्रनाडीष्वोते भवतोऽथोदित आदित्ये द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वणं जपत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथापरार्ध उदपात्रमुपदधाति वाक्त्वा समुद्र उपदधे सुप्रजावनिꣳ रायस्पोषवनिं मह्यं यजमानायेति

तयादेवतं कृत्वा सूददोहसं करोत्यथ संभारान्निवपत्यग्नेर्भस्मासीति भस्माग्नेः पुरीषमसीति पुरीषं संज्ञानमसि कामधरणमित्यूषान्मयि ते कामध्रणं भूयादिति सिकता अथैनान्संप्रयौति सं या वः प्रियास्तनुवः सं प्रिया हृदयानि वः । आत्मा वो अस्तु संप्रियः संप्रियास्तनुवो ममेत्यथैनान्कल्पयति कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथग्मम ज्यैष्ठ्याय सव्रता इति
ताꣳ स्तथा कल्पयति यथा न लेखाः संलोपयन्ते
सद्यो वा सर्वं क्रियते सद्यस्काले २
19.3
अथान्तमायां लेखायां पूर्वपक्षस्य दिनेष्टका उपदधाति संज्ञानं तया देवतयाङ्गिरस्वद्ध्रुवा सीद विज्ञानं तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश
तासामन्तरालेष्वेतेषामेव दिनानां मुहूर्तेष्टका उपदधाति चित्रस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद केतुस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश
सर्वासां पारे सूददोहसः करोत्यथाभ्यन्तरायां लेखायां पूर्वपक्षस्य क्षपेष्टका उपदधाति दर्शा तया देवतयाङ्गिरस्वद्ध्रुवा सीद दृष्टा तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश
तासामन्तरालेष्वेतासामेव क्षपाणां मुहूर्तेष्टका उपदधाति दाता तया देवतयाङ्गिरस्वद्ध्रुवा सीद प्रदाता तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश

सर्वासां पारे सूददोहसः करोत्यथाभ्यन्तरायां लेखायामपरपक्षस्य दिनेष्टका उपदधाति प्रस्तुतं तया देवतयाङ्गिरस्वद्ध्रुवा सीद विष्टुतं तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश
तासामन्तरालेष्वेतेषामेव दिनानां मुहूर्तेष्टका उपदधाति सविता तया देवतयाङ्गिरस्वद्ध्रुवा सीद प्रसविता तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश
सर्वासां पारे सूददोहसः करोत्यथाभ्यन्तरायां लेखायामपरपक्षस्य क्षपेष्टका उपदधाति सुता तया देवतयाङ्गिरस्वद्ध्रुवा सीद सुन्वती तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश
तासामन्तरालेष्वेतासामेव क्षपाणां मुहूर्तेष्टका उपदधात्यभिशास्ता तया देवतयाङ्गिरस्वद्ध्रुवा सीदानुमन्ता तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश
सर्वासां पारे सूददोहसः करोत्यथाभ्यन्तरायां लेखायां पूर्वपक्षेष्टका उपदधाति पवित्रं तया देवतयाङ्गिरस्वद्ध्रुवा सीद पवयिष्यंस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति द्वादश
सर्वासां पारे सूददोहसः करोत्यथाभ्यन्तरायां लेखायामपरपक्षेष्टका उपदधाति सहस्वांस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद सहीयांस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति द्वादश
सर्वासां पारे सूददोहसः करोत्यथाभ्यन्तरायां लेखायां मासेष्टका उपदधात्यरुणस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदारुणरजास्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति त्रयोदश
सर्वासां पारे सूददोहसः करोत्यथात्रैके लेखान्तरालेषु सिकता निवपन्त्येजत्का जोवत्का इत्य्
अथाभ्यन्तरायां लेखायां मुहूर्तानां मुहूर्तेष्टका उपदधातीदानीं तया देवतयाङ्गिरस्वद्ध्रुवा सीद तदानीं तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति पञ्चदश
सर्वासां पारे सूददोहसः करोत्यथाभ्यन्तरायां लेखायां क्रत्विष्टकाश्चर्त्विष्टकाश्चोपदधात्यग्निष्टोमस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदोक्थ्यस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति षडग्निरृतुस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद सूर्य ऋतुस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति तिस्रः
सर्वासां पारे सूददोहसः करोत्यथ मध्ये नाभ्याꣳ संवत्सरेष्टका उपदधाति प्रजापतिस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद संवत्सरस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति चतस्रः
सर्वासां पारे सूददोहसः करोति ३
19.4
तदेताश्चतस्रः स्वयमातृण्णा याचति
ता दिक्षूपदधाति भूरग्निं च पृथिवीं चेति पुरस्ताद्भुवो वायुं चान्तरिक्षं चेति दक्षिणतः स्वरादित्यं च दिवं चेति पश्चाद्भूर्भुवः स्वश्चन्द्र मसं च दिशश्चेत्युत्तरतः
सर्वासां पारे सूददोहसः करोत्यथ लोकंपृणा उपदधाति लोकं पृण छिद्रं पृणाथो सीद शिवा त्वम्। इन्द्रा ग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्निति
तयादेवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ सूददोहसं करोति ता अस्य सूददोहसः सोमꣳ श्रिणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिव इति

प्राच्यात्र लोकंपृणया प्रसौत्यग्निं प्राचीभिः संप्रच्छादयन्ति
संप्रच्छन्नं पलाशशाखया परिक्रषति लोकं पृण छिद्रं पृणेत्यथानभिमृष्टं चितिकॢप्त्या भवत्यथाग्निमभिमृशति यत्तेऽचितं यदु चितं ते अग्न इति द्वाभ्याम्
अत्र चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्यग्ने देवाꣳ इहावहेत्याग्नेय्या गायत्र्! यैतां चितिमभिमृश्य द्वे अवद्र वणे जपति वाङ्म आसन्प्राणदा इत्यथ कृष्णमश्वमभिमृश्य तनुपुरीषमुपदधाति पृष्टो दिवीति
तयादेवतं कृत्वा सूददोहसं करोत्यथ पात्र्यामप आनीय हिरण्यशलकान्संप्रकीर्य द्वाभ्यांद्वाभ्याꣳ शताभ्यां प्रोक्षति सहस्रस्य प्रमा असीति पुरस्तात्सहस्रस्य प्रतिमा असीति दक्षिणतः सहस्रस्य विमा असीति पश्चात्सहस्रस्योन्मा असीत्युत्तरतोऽथ मध्यं द्वाभ्याꣳ शताभ्यां प्रोक्षति साहस्रोऽसि सहस्राय त्वेत्यथोत्तरार्धे तिष्ठन्निष्टका धेनूः कुरुत इमा मे अग्न इष्टका धेनवः सन्त्वित्यान्तादनुवाकस्यात्रैकेऽर्कपर्णेनाजक्षीरेण चरमायामिष्टकायां जुह्वति
स यद्यु हैनम्करिष्यन्भवत्यथैतस्यार्कपर्णस्य पुटमन्तरवस्राविणं कृत्वोदङ्तिष्ठन्मुखदघ्ने धारयन्नाहाहरानयेति

स यत्र धारेष्टकां प्राप्नोति तत्प्रतिपद्यते त्वमग्ने रुद्र इत्यान्तादनुवाकस्यात्रैतदर्कपर्णं यं द्वेष्टि तस्य संचरे पशूनां न्यस्यति
यद्यु वै न द्वेष्ट्याख्ववटे न्यस्यत्यथैनमुपतिष्ठते त्वमेव त्वां वेत्थ योऽसि सोऽसीत्येतेनानुवाकेनाथ सꣳ हारविहाराभ्यामुपतिष्ठते संवत्सरोऽसि परिवत्सरोऽसीत्येतेनानुवाकेनाथाह होतरग्नेरुक्थेनाग्निमनुशꣳ सेति
यदि होता न कामयते यजमान एव जघनेनाग्निं तृणानि संस्तीर्य तेषूपविश्याग्नेरुक्थेनाग्निमनुशꣳ सति
भूर्भुवः स्वरित्येताभ्यामृग्भ्यां त्रिस्त्रिरेकैकामन्वाह प्रणवेनाभिसंधानमेवमन्यत्राप्यृगुपसंधाने प्रणवेनैवाभिसंधानम्
अत्र ये ब्राह्मणा बहुविदस्तेभ्यो यद्दक्षिणा न नयेद्दुरिष्टꣳ स्यादग्निमस्य वृञ्जीरन्
तेभ्यो यथाश्रद्धं दद्यात्
स्विष्टमेवैतत्क्रियते
नास्याग्निं वृञ्जत इति ब्राह्मणम् ४
19.5
अथाभ्याधानप्रभृति पाशुबन्धिकं कर्म तायते
सिद्धमाग्निप्रणयनात्कृत्वाग्निं प्रणीयोपसमाधायाध्वराहुतिभिरभिहूय नानाचतुर्गृहीतैरेता आहुतीर्जुहोति
त्वमग्ने रुद्र इति शतरुद्री यस्य रूपम्

अग्नाविष्णू इति वसोर्धाराययन्नपत इत्यन्नहोमः
सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीरित्यथ स्रुवेणोपघातमेकविꣳ शतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे स्वाहेति
हुत्वाहुत्वैव सꣳ स्रावान्यजमानस्याञ्जलावावपति
तैर्यजमानो मुखं विमृष्टे राज्ञी विराज्ञीत्येतेनानुवाकेनोत्तरपरिग्राहप्रभृति पाशुबन्धिकं कर्म तायते
सिद्धमा मनोतायाः कृत्वा मनोतामनुद्रुत्य पशोरवदानानि संमृश्यौदुम्बरे पात्रे यूष्णो मृत्युग्रहं गृह्णाति विपश्चिते पवमानाय गायतेत्यनुद्रुत्योपयामगृहीतोऽसि मृत्यवे त्वा जुष्टं गृह्णामीति
दर्भैः परिमृज्योत्तरवेद्याꣳ सꣳ सादयत्येष ते योनिर्मृत्यवे त्वेत्यथ पशुना चरत्यथ वनस्पतिना चरत्यथ पुरस्तात्स्विष्टकृतोऽथैतं ग्रहꣳ होष्यन्नप उपस्पृशति विद्युदसि विद्य मे पाप्मानमित्यथ जुहोत्यप मृत्युमप क्षुधमपेतः शपथं जहि । अधा नो अग्न आवह रायस्पोषꣳ सहस्रिणम्॥
ये ते सहस्रमयुतं पाशार्मृत्यो मर्त्याय हतवे । तान्यज्ञस्य मायया सर्वानवयजामहे स्वाहेत्यथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च मे पाप्मानमित्यथ स्विष्टकृता चरत्युपहूयमानायामिडायामुपगृहन्ति ग्रहम्

उपहूतं ग्रहं यजमानो भक्षयति भक्षोऽस्यमृतभक्षस्तस्य ते मृत्युपीतस्यामृतवतः स्वगाकृतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
भक्षयित्वात्मानं प्रत्यभिमृशते मन्द्रा भिभूतिः केतुर्यज्ञानामित्यान्तादनुवाकस्यानूयाजप्रभृति पाशुबन्धिकं कर्म तायते
सिद्धमा दक्षिणानां कालाद्दक्षिणानां काले धेनुमृषभमनड्वाहं दत्त्वैकविꣳ शतिर्दक्षिणा ददाति
शतं ददाति
सहस्रं ददात्यन्विष्टकं दक्षिणा ददाति
यदि न विन्देत मन्थानेतावतो दद्यादोदनान्वा
पष्ठौहीं त्वन्तर्वतीं दद्याद्धिरण्यं ददाति
वासो ददाति
तेनायुः प्रतिरत इति ब्राह्मणं तं चेत्सौम्येऽध्वरे चिन्वीत प्रथमायामुपसदि क्षेत्रकरणम्मध्यमोत्तमे उपसदावन्तरेणोपधानं कालेऽग्निप्रणयनं दक्षिणानां काले दक्षिणाः
सवनीयस्य यूष्णो मृत्युग्रहस्
तं चेदहीने सत्त्रे वा चिन्वीत प्रथमेऽहनि दक्षिणाः प्रथमेऽहनि यूष्णो मृत्युग्रहो न सत्त्रे दक्षिणा नीयन्ते
नाचिकेत एव मृत्युग्रहः स्यादित्येतदपरम्
अग्निं चित्वा सौत्रामण्या यजेत मैत्रावरुण्यामिक्षया वेति
तस्यै सायमग्निहोत्रे हुते सायंदोहः प्रातरग्निहोत्रे हुते प्रातर्दोहः
पशुपुरोडाशेन सह श्रपणम्
असमुदिते चर्या
संतिष्ठते सावित्रः ५
19.6
अथ नाचिकेतस्य
प्रसिद्धं क्षेत्रकरणं यथा सावित्रस्यैतावदेव नाना
नात्र लेखा भवन्त्यथ याजुषीरुपदधाति लोकोऽसि स्वर्गोऽसीत्यञ्जलिनैकविꣳ शतिं यथा निपतन्ति तास्तत्रतत्रोपदधाति
तदेतदन्यत्रापि प्रकीर्णानामुपधानस्य निधानं यदि पाङ्क्तः पञ्च पुरस्तात्पञ्च दक्षिणतः पञ्च पश्चात्पञ्चोत्तरत एकां मध्येऽथ यदि त्रिवृत्सप्त पुरस्तात्तिस्रो दक्षिणतः सप्त पश्चात्तिस्र उत्तरत एकां मध्येऽथ यदूर्ध्वाः पश्चात्कोट्याः प्रभृत्यूर्ध्वाः स्वयमातृण्णावकाशादथ यदि प्राचीः स्वयमातृण्णावकाशात्प्रभृति प्राचीः
स्वयमातृण्णाभ्यः प्रभृति सिद्धमत ऊर्ध्वं स यदीच्छेत्तेजस्वी यशस्वी ब्रह्मवर्चसी स्यामिति प्राङा होतुर्धिष्ण्यादुत्सर्पेदित्याहवनीयसकाशाद्येयं प्रागाद्यशस्वती सा मा प्रोर्णोतु तेजसा यशसा ब्रह्मवर्चसेनेति
तेजस्व्येव यशस्वी ब्रह्मवर्चसी भवतीत्यथ यदीच्छेद्भूयिष्ठं मे श्रद्दधीरन्भूयिष्ठा दक्षिणा नयेयुरिति दक्षिणासु नीयमानासु प्राच्येहि प्राच्येहीति प्राची जुषाणा वेत्वाज्यस्य स्वाहेति स्रुवेणोपहत्याहवनीये जुहुयाद्
भूयिष्ठमेवास्मै श्रद्दधते
भूयिष्ठा दक्षिणा नयन्तीति ब्राह्मणं संतिष्ठते नाचिकेतः ६
19.7
अथ ब्रह्मचितः
प्रसिद्धं क्षेत्रकरणं यथासावित्रस्यैतावदेव नाना
नात्र लेखा भवन्त्यथ पुरस्तादुदीचीर्दशहोत्रेष्टका उपदधाति चित्तिः स्रुक्तया देवतयाङ्गिरस्वद्ध्रुवा सीद चित्तमाज्यं तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति दशाथ हृदयेष्टकामुपदधाति सुवर्णं घर्मं परिवेद वेनमित्यनुद्रुत्य देवैः स मानसीन आत्मा जनानामित्यातोऽथ यजुरिष्टके उपदधात्यग्निर्यजुर्भिस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद सविता स्तोमैस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ पत्नीष्टके उपदधाति सेनेन्द्र स्य तया देवतयाङ्गिरस्वद्ध्रुवा सीद धेना बृहस्पतेस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति
सर्वासां पारे सूददोहसः करोत्यथ दक्षिणतः प्राचीश्चतुर्होत्रेष्टका उपदधाति पृथिवी होता तया देवतयाङ्गिरस्वद्ध्रुवा सीद द्यौरध्वर्युस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति चतस्रोऽथ हृदयेष्टकामुपदधाति ब्रह्मेन्द्र मग्निमित्यनुद्रुत्य यज्ञमेतं चतुर्होतॄणामात्मानं कवयो निचिक्युरित्यातोऽथ यजुरिष्टके उपदधातीन्द्र उक्थामदैस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद मित्रावरुणावाशिषा तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्य्
अथ पत्नीष्टके उपदधाति पथ्या पूष्णस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद वाग्वायोस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति सर्वासां पारे सूददोहः करोत्यथ पश्चादुदीचीः पञ्चहोत्रेष्टका उपदधात्यग्निर्होता तया देवतयाङ्गिरस्वद्ध्रुवा सीदाश्विनाध्वर्यू तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति चतस्रोऽपि वाश्विनाध्वर्यू इत्येतेनैव मन्त्रेण द्वे इष्टके समानतयादेवते उपदधाति
तया देवतयाङ्गिरस्वद्ध्रुवे सीदतमिति मन्त्रꣳ संनमयत्यथ हृदयेष्टकामुपदधाति शतं नियुतः परिवेदेत्यनुद्रुत्य प्राणमुल्बं तेन कॢप्तोऽमृतेनाहमस्मीत्यातोऽथ यजुरिष्टके उपदधात्यङ्गिरसो धिष्णियैरग्निभिस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद मरुतः सदोहविर्धानाभ्यां तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ पत्नीष्टके उपदधाति दीक्षा सोमस्य तया देवतयाङ्गिरस्वद्ध्रुवा सीद पृथिव्यग्नेस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति सर्वासां पारे सूददोहसः करोत्यथोत्तरतः प्राचीः षड्ढोत्रेष्टका उपदधाति वाग्घोता तया देवतयाङ्गिरस्वद्ध्रुवा सीद दीक्षा पत्नी तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति षडथ हृदयेष्टकामुपदधाति सुवर्णं कोशꣳ रजसा परीवृतमित्यनुद्रुत्येन्द्र स्यात्मानꣳ शतधा चरन्तमित्यातोऽथ यजुरिष्टके उपदधात्यापः प्रोक्षणीभिस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदौषधयो बर्हिषा तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ पत्नीष्टके उपदधाति वसूनां गायत्री तया देवतयाङ्गिरस्वद्ध्रुवा सीद रुद्रा णां त्रिष्टुक्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति सर्वासां पारे सूददोहसः करोत्यथोपरिष्टात्प्राचीः सप्तहोत्रेष्टका उपदधाति महाहविर्होता तया देवतयाङ्गिरस्वद्ध्रुवा सीद सत्यहविरध्वर्युस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति षडपि वानाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरवित्येतेन मन्त्रेण द्वे इष्टके समानतयादेवते उपदधाति तया देवतयाङ्गिरस्वद्ध्रुवे सीदतमिति मन्त्रꣳ संनमयत्यथ हृदयेष्टकामुपदधातीन्द्रो राजा जगतो य ईश इत्यान्तादनुवाकस्याथ यजुरिष्टकाउपदधात्यदितिर्वेद्या तया देवतयाङ्गिरस्वद्ध्रुवा सीद सोमो दीक्षया तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति त्रयोदशाथ पत्नीष्टका उपदधात्यादित्यानां जगती तया देवतयाङ्गिरस्वद्ध्रुवा सीद विष्णोरनुष्टुक्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यष्टादश
सर्वासां पारे सूददोहसः करोत्यथ यथावकाशं ग्रहेष्टका उपदधाति वाचस्पते विधे नामन्निति दशहोतुर्वाचस्पते वाचो वीर्येणेति चतुर्होतुः सोमः सोमस्य पुरोगा इति पञ्चहोतुर्भूर्भुवः सुवरिति षड्ढोतुर्वाचस्पते हृद्विधे नामन्निति सप्तहोतुः
सर्वासां पारे सूददोहसः करोत्यथ यथावकाशमेव प्रतिग्रहेष्टका उपदधाति
देवस्य त्वा सवितुः प्रसव इत्यनुद्रुत्यैषा ते काम दक्षिणोत्तानस्त्वाङ्गिरसः प्रतिगृह्णात्वित्येकान्नविꣳ शम्

अपि वा गन्धर्वाप्सराभ्यः स्रगलङ्करणे इत्येतेन मन्त्रेण द्वे इष्टके समानतयादेवते उपदधाति
तया देवतयाङ्गिरस्वद्ध्रुवे सीदतमिति मन्त्रꣳ संनमयति
स्वयमातृण्णाभ्यः प्रभृति सिद्धमत ऊर्ध्वꣳ
संतिष्ठते ब्रह्मचित् ७
19.8
अथ समस्तस्य
प्रसिद्धं क्षेत्रकरणं यथा सावित्रस्यैतावदेव नाना
सावित्रोऽग्निः प्रथमा चितिर्लोकंपृणा द्वितीया
नाचिकेतस्तृतीया
लोकंपृणा चतुर्थी
ब्रह्मचित्पञ्चमी
सर्वासु चितिषु स्वयमातृण्णा
पुरीषान्ताश्चितयोऽग्ने देवाꣳ इहावहेत्येताभिः पञ्च चितीरभिमृशति
तं चेत्सौम्येऽध्वर उत्तम एव चक्रे चिन्वीत प्राग्दीक्षणीयायै दिवः श्येनीभिर्यजेतोदवसानीयाया अपाघाभिः
सकृत्प्रयुज्य समस्यति
संतिष्ठते समस्तः ८
19.9
अथ वैश्वसृजस्य
प्रसिद्धं क्षेत्रकरणं यथा सावितस्यैतावदेव नाना
तिस्रो लेखा भवन्त्यथान्तमायां लेखायामुपदधाति यच्चामृतं यच्च मर्त्यमित्यष्टादश
सर्वासां पारे सूददोहसः करोत्यथाभ्यन्तरायां लेखायामुपदधाति सर्वा दिशो दिक्ष्विति पञ्चदश
सर्वासां पारे सूददोहसः करोत्यथाभ्यन्तरायां लेखायामुपदधाति सर्वान्दिवꣳ सर्वान्देवान्दिवीति नव
सर्वासां पारे सूददोहसः करोति
स्वयमातृण्णाभ्यः प्रभृति सिद्धमत ऊर्ध्वं तं चेदहीने सत्त्रे वा चिन्वीत शतरात्रे विश्वजिति सर्वपृष्ठे दक्षिणानां काले ब्रह्मा सदस्यासीनो वैश्वसृजान्व्याचष्ट ऋचां प्राची महती दिगुच्यत इति पच्छोऽर्धर्चशो ब्राह्मणे वाक्यशस्
तस्मा अध्वर्युः प्रतिगृणात्यॐ बृहदृतं बृहत्सत्यं बृहदरात्स्म बृहदिति
तस्योत्तमे पर्यायेऽरात्स्म बृहत्संपद्यते
संतिष्ठते वैश्वसृजः ९
19.10
एतेनारुणकेतुको व्याख्यातो यावन्मन्त्रमबीष्टका लोकंपृणाश्च स्वयमातृण्णाश्चाप एव
पुष्करपणꣳ र्! रुक्मꣳ हिरण्मयं पुरुषं कूर्ममित्यातपति वर्ष्या इति यथासमाम्नातम्पल्वल्या इत्यविशोष्या इत्यर्थ उत्तरवेद्यावपनकाले तां तूष्णीं जानुदघ्नीं खात्वान्यत्र मृदं निवपति
विदेरग्निरित्यादि लुप्यते
ध्रुवासीति प्रतिपद्यते
हस्तग्राहमबीष्टका उपदध्याद्भद्रं कर्णेभिरिति द्वाभ्याꣳ शान्तिं कृत्वा ताभ्यामुपदधात्यापमापामिति पञ्चभिर्महानाम्नीभिरुष्णोदकं शिवा नः शंतमेति सौषध्योऽपोऽध्वर्यवे ददाति
स ताः प्रतिगृह्य शिवा न इत्युपदधाति
सुमृडीकेति भूमिवतीमुपदध्यादेताः पुरस्तात्
स्मृतिः प्रत्यक्षमित्यष्टौ मध्ये शुक्रं ते अन्यदिति च
साकंजानामित्येकादश पुरस्ताद्दक्षिणतोऽक्षिदुःखोत्थितस्यैवेति षडिहेह वः स्वतपस इति चातिताम्राणीति चतस्रो मदन्तीस्तप्ताः प्रवर्ग्यवदाद्यन्तयोः शान्तिं कृत्वात्यूर्ध्वाक्ष इति त्रीण्यृतुमण्डलान्यव द्र प्स इति चारोग इत्यष्टौ सूर्यनामभिः पदशो यत्ते शिल्पमिति च

व्याहृतीर्जपित्वापो व इति यजमान उपतिष्ठत एवमुत्तरैरुपस्थानं व्याहृतीर्जपित्वा
सप्त सूर्याः सप्त दिशो नानासूर्यास्यद्द्यावश्चित्रं देवानामिति चतस्रः सौरीः पुरस्तात्क्वेदमभ्रमित्येकाम्
अर्धमासा इत्युपरिष्टात्
काला अप्सु निविशन्त इति दक्षिणतः
किꣳ स्विदत्रेति पञ्च वैष्णवीः
पृच्छामि त्वा परं मृत्युमिति चतस्रो मृत्युमतीः
पृच्छामि त्वा पापकृत इति चतस्रो निरयवतीरा यस्मिन्नग्ने नयेति द्वे
अग्निश्च जातवेदाश्चेत्यष्टौ दिश्या दिशो व इति यजमानः
प्रभ्राजमाना इत्येकादश रुद्राः
प्रभ्राजमान्य इत्येकादश रुद्राण्यः पदशो मध्ये
रूपाणि व इति यजमानः
स्वान भ्राडित्येकादश गन्धर्वगणाः (तैआ १.९.३, तैसं १.२.७.१) पदशः पश्चाद्गौरी मिमायेत्येका वराहवः स्वतपस इति सप्त वाताः पदशः
समानमेतदिति वृष्टिमती
यदक्षरमिति लोको जमदग्निरित्याप्यायितस्
तच्छंयोरिति शंयुः
सहस्रवृदित्यष्टौ संयानीः
स संग्राम इति द्वे च
पवित्रवन्तः पवित्रं ते ब्रह्मा देवानामसतः सद्य इति चतस्रः पवित्रवत्य उत्तरतोऽमी य ऋक्षा इति सप्त मध्येऽन्धो मणिमिति पञ्च वैश्वदेवीरुत्तर
आ तमग्ने रथमिति तिस्र आतनुष्वेति चतस्र आ मन्द्रै रित्येकां यजमान उपदध्यादणुभिश्चेति द्वे
सुब्रह्मण्योमित्येकाम्
अरुणाश्वा इति चतस्रो रेवतीर्ब्रह्मण उदरणमसीति चतस्रो ब्रह्मसदनाः पुष्करपणꣳ र्! रुक्मꣳ हिरण्मयं पुरुषं कूर्ममिति महाग्निवदेव
तान्युपधाय हꣳ सः शुचिषदिति द्वे दूरोहणे पुरुषमभितस्
तदित्पदमिति द्वे मध्ये
वसूनां रुद्राणामित्यष्टावुत्तरतो रश्मयो वसिति यजमान आरोगस्येत्यष्टावुपरिष्टादापो व इति यजमानः
प्रभ्राजमानानामित्येकादश(तैआ १.१७.१) प्रभ्राजमानीनामिति चैकादश मध्ये
रूपाणि वसिति यजमानोऽग्नेः पूर्वदिश्यस्येत्यष्टौ दिश्या दिशो व इति यजमानो दक्षिणपूर्वस्यामिति चतस्रो नरकवतीर्यथालिङ्गम्
आ यस्मिन्निन्द्रियाणि शतक्रतविति द्वे दक्षिणत इन्द्र घोषा वः संज्ञानमिति षड्दिश्या आदित्य सर्व इति पञ्च दिश्या एवा ह्येवेति षड्दिश्या आपमापामिति नवोपरिष्टादपाꣳ रसमित्येकां कामस्तदग्र इति संकलपवतीम्
आपो ह यदित्योघवतीम्विधाय लोकानिति स्तम्भनवतीं केतव इत्येकाम्
इमा नु कमिति तिस्र आप्लवस्वेति (तैआ १.२७.१) सप्तदश क्षपण्यो विशीर्ष्णीमिति द्वे
पर्जन्यायेति तिस्रः
पुनर्मामैत्विति च तिस्रः
स्वयमातृण्णादि समानमुत्तरꣳ सावित्रेण
स्वयमातृण्णा लोकंपृणाश्चैता आपः पञ्च चितयो भवन्ति
प्रतिदिशं चितीः पुष्करपर्णादिभिः प्रच्छादनमन्याः प्रथमचितिवद्न पुष्करपर्णादय उत्तरतो लोकंपृणयापवर्गो दीर्घदारुभिर्मञ्चं कृत्वा पृष्टो दिवीति पुरीषव्यूहनम्
अन्त्येष्टके शतरुद्रीयहोमोऽनुशꣳसनान्तेऽग्निप्रणयनं हूयमानायां वैश्रवणयज्ञो ब्राह्मणेन व्याख्यातोऽन्नकामस्य सर्वकामस्य वा पर्वणिपर्वणि वैश्रवणयज्ञः
सोत्तरवेदिषु क्रतुषु चिन्वीतेति यथाब्राह्मणं तस्यैतद्व्रतमिति यथाब्राह्मणं संमिताश्च व्रतसमुच्चया आपो न बीभत्स्या यथाब्राह्मणमेककामः सर्वकामो वा

आपो वा इदꣳ सर्वमिति ब्राह्मणं विज्ञायते ब्रह्म वा आपो यदाप उपधीयन्ते ब्रह्म वै तदात्मन्धत्ते ब्रह्मणः सायुज्यꣳ सलोकतामाप्नोति य एतमग्निं चिनुत इति
संतिष्ठत आरुणकेतुकः संतिष्ठत आरुणकेतुकः १०