सामग्री पर जाएँ

बौधायनश्रौतसूत्रम्/प्रश्नः १६

विकिस्रोतः तः

16.1
द्वादशाहेन यक्ष्यमाणो भवत्येको वा बहवो वोतो ह्येको दक्षिणावता यजते
स यद्येको यदि बहवोऽमावास्याया एव षडहेनोपरिष्टाद्दीक्षन्ते
ते गृहपतेररण्योः संजानते पृथग्वा
ते यदि गृहपतेररण्योः संजानते मथित्वा गार्हपत्यमाहवनीयमुद्धरन्ति
ग्रामाद्व्रतश्रपणमाहरन्ति
यद्यु वै पृथक्संजानते गृहपतिरेव प्रथमो मन्थते
तदेवेतरे पर्युपविश्य मथित्वामथित्वैव गार्हपत्यँ संनिवपन्ति
तस्मादेकवद्भूतादाहवनीयमुद्धरन्ति
ग्रामाद्व्रतश्रपणानाहृत्य संनिवपन्त्यथ यदि पश्चादपर आगच्छति मथित्वैव गार्हपत्येऽर्धं निवपत्याहवनीयेऽर्धं ग्रामाद्व्रतश्रपणमाहृत्याप्यर्जत्युपो एनं पूर्वेषु कर्मसु ह्वयन्तेऽथातः पवनस्यैव मीमाँ सा
गृहपतिमेवाध्वर्युः प्रथमं पवयत्यथ होतारमथ ब्रह्माणमथोद्गातारं प्रतिप्रस्थाताध्वर्युं पवयति प्रस्तोतारं प्रशास्तारं ब्राह्मणाच्छँ सिनमाग्नीध्रः प्रतिप्रस्थातारं पवयत्यच्छावाकं नेष्टारं पोतारँ सदस्यमुन्नेताग्नीध्रं पवयति ग्रावस्तुतँ सुब्रह्मण्यं प्रतिहर्तारमात्मानमन्ततस्

ते चेद्ब्रूयुरध्वर्युर्वाव सर्वस्य पवयिता स नः सर्वान्पवयत्विति स एवैनान्सर्वान्पवयत्यपि वान्योऽन्यं पवयन्ति यद्यधीयन्तो भवन्ति १
16.2
तेषां प्रसिद्धा दीक्षणीयेष्टिस्तायते
सकृदाश्राविते स यत्राह भरतवदिति तद्गृहपतेरेवार्षेयं प्रथमं वृणीतेऽथ होतुरथात्मनोऽथ ब्रह्मणोऽथोद्गातुरथ प्रतिप्रस्थातुरथ प्रस्तोतुरथ प्रशास्तुरथ ब्राह्मणाच्छँ सिनोऽच्छावाकस्य सदस्यस्याग्नीधः पोतुर्नेष्टुर्ग्रावस्तुत उन्नेतुः सुब्रह्मण्यस्य प्रतिहर्तुरन्ततो ब्रह्मण्वदिति समानं ते सर्व एव दीक्षाहुतिषु समन्वारभन्ते
गृहप्तिमेवाध्यर्युरुच्चैः कृष्णाजिने वाचयति
तदेवेतरेऽनुनिक्रामन्त्यपि वान्योऽन्यं वाचयन्ति यद्यधीयन्तो भवन्ति
ते यथोत्साहं व्रतदुघमुपयन्त्येकैकां वा बह्वीर्वा
तेषां यथैव प्रवरानुपूर्व्यमेवं घर्मोच्छिष्टेऽतिग्राह्यभक्षेषु षोडशिनि

षष्ठ्यामुपसद्युत्तरवेदिँ संनिवपन्ति यद्यनग्निचित्यो भवत्यथ यदि साग्निचित्यः प्रथमायामेवोपसद्युत्तरवेदिँ संनिवपन्ति २
16.3
तेषां द्वादश दीक्षा द्वादशोपसदो द्वादशाहं प्रसुता न द्वादशाहेऽग्निं चिन्वीतेत्येक आहुश्चिन्वत उ हैके
प्रसिद्धेन कर्मणोपवसथाद्यन्ति
तेषां ज्योतिष्टोमो वैश्वानरः प्रायणीयोऽतिरात्रस्तायते
स यत्र माध्यंदिने सवने तृतीयसवनाय वसतीवरीभ्योऽवनयति तद्वसतीवरीकलशे यावन्मात्रीरतिशिष्याग्नीध्रं द्रुत्वा छायायै चातपतश्च सन्धौ गृह्णाति हविष्मतीरिमा आपो हविष्मान्देवो अध्वरो हविष्माआँ! विवासति हविष्माँ स्तु सूर्य इत्येषाहीनसंततिरेतामेव पुनःपुनश्चोदयिष्याम इति वदन्तः
सोऽत्र वैव यज्ञस्य पुनरालम्भं जपति यज्ञायज्ञियस्य वा स्तोत्रे शंयुवाके वा
तेषां ज्योतिष्टोमो वैश्वानरः प्रायणीयोऽतिरात्रः संतिष्ठते
तस्मिन्सँ स्थिते विवर्तयन्ति परिधीन्

अनुप्रहरन्ति प्रस्तरम्पत्नीसंयाजान्तोऽतिप्रैषेण ब्रह्मा वाचं यच्छति
परिहृतासु वसतीवरीष्वाहूतायाँ सुब्रह्मण्यायां ब्रह्मा वाचं विसृजते
प्रतिपद्यते दिवा प्रातरनुवाकेनाह्ना संक्रामन्होता छन्दाँ स्यन्वाह निमील्याध्वर्युरुपाँ शुं जुहोति रात्र्! यै रूपमिति वदन्तस्
तायते त्रिवृदग्निष्टोमो रथंतरसामा
माहेन्द्र स्य स्तोत्रे रथो युक्तोऽत्याधावति
रथशब्देन माहेन्द्र स्य स्तोत्रमुपाकरोत्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसंततिं करोत्यथ श्वो भूते तायते पञ्चदश उक्थ्यो बृहत्सामा
दुन्दुभिनैतदहरध्वर्युर्माहेन्द्र स्य स्तोत्रमुपाकरोत्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसंततिं करोत्यथ श्वो भूते तायते सप्तदश उक्थ्यो वैरूपसामाधावेनैतदहरध्वर्युर्माहेन्द्र स्य स्तोत्रमुपाकरोत्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसंततिं करोत्यथ श्वो भूते तायत एकविँ श उक्थ्यो वैराजसामाग्नेयश्च षोडशी चातिग्राह्यवनतिग्राह्यः षोडशीत्येक आहुरेकविँ शमेतदहर्न्यूङ्ख्यं भवति
विराजां वा प्रतिपत्सु न्यूङ्खयन्ति शस्त्रे वेत्येतदेकम्

अथापरं प्रातरनुवाके न्यूङ्खयन्ति हविष्कृत्युभयेषु प्रस्थितेषु माहेन्द्र स्याश्रावणे
न तत ऊर्ध्वं न्यूङ्खयन्तीत्यरणीहस्त एतदहरध्वर्युर्माहेन्द्र स्य स्तोत्रमुपाकरोति
तदुगातुर्दक्षिण उरौ मन्थति
तं जातँ सर्व एवाभिहिङ्कुर्वन्ति ३
16.4
तस्य मीमाँ सा
गार्हपत्येऽनुप्रहरेत्प्रतिष्ठाकामानाम्
आग्नीध्रे प्रजाकामानां शामित्रे पशुकामानाम्
आहवनीये स्वर्गकामानामित्यनादृत्य तदाहवनीय एवानुप्रहरति भवतं नः समनसविति
प्रहृत्याभिजुहोत्यग्नावग्निश्चरति प्रविष्ट इत्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसंततिं करोत्यथ श्वो भूते तायते त्रिणव उक्थ्यः शाक्वरसामैन्द्रो ऽतिग्राह्योऽद्भिरेतदहरवकामिश्राभिरध्वर्युर्माहेन्द्र स्य स्तोत्रमुपाकरोति
तासां मीमाँ सा

चात्वालेऽवनयेदास्तावे निनयेत्प्रोक्षणीः कुर्वीत पुरोडाशीयानि पिष्टानि संयौयादित्यनादृत्य तदुद्गातृष्वधीना एवैनाः कुर्याद्
उद्गातारो हैताभिररण्येगेयानाँ साम्नाँ शुचँ शमयन्तो मन्यन्ते
ता उ चेदध्वर्यवे प्रब्रूयुरपोऽभ्यवहरतेत्येव ब्रूयादित्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसंततिं करोत्यथ श्वो भूते तायते त्रयस्त्रिँ श उक्थ्यो रैवतसामा सौर्योऽतिग्राहोऽद्भिरेवैतदहर्दूर्वामिश्राभिरध्वर्युर्माहेन्द्र स्य स्तोत्रमुपाकरोति ४
16.5
तासामुक्ता मीमाँ सा
स्वयमृतुयाजमेवैतदहर्भवति
नैतदहरन्योऽन्यस्यर्तुयाजं यजन्ति
स यत्राहाध्वर्यू यजतमिति तदध्वर्यू जघनेन हविर्धाने उपविश्य स्वयमृतुयाजं यजतो ये३ यजामहे अश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबतामर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम्। पृङ्क्तं हवीँ षि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ऋतुना सोमं पिबताम्वौ३षदिति
स यत्राह गृहपते यजेति तद्गृहपतिर्जघनेन गार्हपत्यमुपविश्य स्वयमृतुयाजं यजति ये३ यजामहे अग्निं गृहपतिं गार्हपत्यात्सुगृहपतयस्त्वयाग्न इमे सुन्वन्तो यजमानाः स्युः सुगृहपतिस्त्वमेभिः सुन्वद्भिर्यजमानैः स्या अग्निर्गृहपतिर्गार्हपत्यादृतुना सोमं पिबतु जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम्। विश्वेभिर्विश्वाऋँ! तुना वसो मह उशन्देवाँ उशतः पायया हविरृतुना सोमं पिबतू वौ३षदिति

सांवाशिनमेतदहर्भवत्युत्तरतो वत्सान्धारयन्ति दक्षिणतो मातॄर्माहेन्द्र स्य स्तोत्रेऽन्तरेण सदोहविर्धाने संवाश्य वत्सान्मातृभिः सँ सृजन्ति
बध्नन्ति वत्सान्
उत्सृजन्ति मातॄर्माहेन्द्र स्य स्तोत्रमुपाकरोति
अथापराह्ण उक्थ्यपर्यायेषु शिल्पानि क्रियन्ते
पारुच्छेपीर्होता शँ सति
वालखिल्या मैत्रावरुणो विहरति
वृषाकपिं ब्राह्मणाच्छँ सी शँ सत्येवयामरुतमच्छावाकः
संतिष्ठते पृष्ठ्यः षडहोऽहीनसंततिं करोति
अथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्ति ५
16.6
अथ श्वो भूते चतुर्विँशं छन्दोममुपयन्ति बृहत्सामानम्
अथ श्वो भूते चतुश्चत्वारिँ शं छन्दोममुपयन्ति रथंतरसामानम्
अथ श्वो भूतेऽष्टाचत्वारिँ शं छन्दोममुपयन्ति बृहत्सामानम्
अथ श्वो भूते चतुर्विँशमग्निष्टोममुपयन्ति रथंतरसामानम्
अविवाक्यमेतदहर्भवति
नैतदहरन्योऽन्यस्मा उपहताय व्याहुर्गाथया वा नाराशँ स्या वा विब्रूयादिति
तदु वा आहुर्न वै यज्ञः संतिष्ठते यन्न विब्रूयादिति
विब्रूयादिति वै नो ब्राह्मणं भवति
नैतदाद्रि येत
नाद्रि येतेति स्थितिरननुष्टुभमेतदहर्भवति
नानुष्टुभोऽधीयते
ते चेदनुष्टुभ उद्धरेरन्नध्वर्युरनुष्टुभ उद्धरेदमूर्या उप सूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वत्वध्वरमित्येतया सौर्या गायत्र्या वसतीवरीर्गृह्णीयाद्
हृदे त्वा मनसे त्वेत्यपोद्धृत्यैतामन्यया सौम्या गायत्र्या राजानमुपावहरेद्विष्णो त्वं नो अन्तम इत्यपोद्धृत्यैतामन्यया वैष्णव्या गायत्र्या राजानमुपतिष्ठेत
स उ चेदविद्वाननुष्टुभमभिव्याहरत्यत्यक्रमिषमिति होत्रे प्राह
होतानाप्तस्यापयिता
होतास्य तदक्षरैरपिवयति
स उ चेन्मन्येतामितकामो वा अहमस्मि यदृङ्मयं वेदे यजुर्मयमेव तद्यावेवाक्षर्यौ वेदौ तौ संपादयेतामिति नैतदाद्रि येत
नाद्रि येतेति स्थितिः
संतिष्ठत एष चतुर्विँशोऽग्निष्टोमो रथंतरसामा ६
16.7
तस्मिन्सँ स्थिते समिद्धारा यन्त्याहृत्य समिध आग्नीध्रीये संन्यस्यन्ति

तेषु समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति प्रजापतये स्वाहेति मनसाथ सदः प्रसर्पन्ति तूष्णीँ स्तोमाय
संप्रसृप्तान्विदित्वाध्वर्युर्मनसैव प्राङ्द्रुत्वा मनसेमां पात्रं कृत्वा मनसान्यं ग्रहं प्रजापतये गृह्णात्युपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति
यदिदं किं च तदिति मनसा परिमृज्य सादयत्येष ते योनिः प्रजापतये त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा मनसैव स्तोत्रमुपाकरोति
मनसा प्रसौति
मनसा प्रस्तौति
मनसोद्गायति
मनसा प्रतिहरति
मनसा होत्र एषोत्तमेति प्राहुर्मनसा होताह्वयते
मनसाध्वर्युः प्रत्याह्वयते
मनसा शँ सति
मनसा प्रतिगृणाति
यदैतस्य मानसस्य शस्त्रस्य पारमेत्यथ होतोच्चैश्चतुर्होतॄन्व्याचष्टे
तस्मा अध्वर्युः प्रतिगृणाति ७
16.8
ओँ होतस्तथा होतः सत्यँ होतररात्स्म होतरिति

यद्यु वै होता नाध्येत्यन्य उ होत्राशँ सी शँ सति
तस्मा उ प्रतिप्रस्थाता प्रतिगृणाति
यदैतेषां पारं यन्त्यथाध्वर्युर्मनसैव प्राङ्द्रुत्वा मनसैव तं ग्रहमुपोद्यच्छते
मनसाश्रावयति
मनसा प्रत्याश्रावयति
मनसा वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम्मनसा समुपहूय भक्षयन्ति
मनसा निर्णिज्य पात्रं प्रयच्छति
संतिष्ठत एष तूष्णीँ स्तोमोऽथर्त्विजो विपृच्छत्यधिवृक्षसूर्ये वाचं विस्रक्ष्यध्वा३ नक्षत्रेषू३ इत्यधिवृक्षसूर्य इति वै नो ब्राह्मणं भवति
तेऽधिवृक्षसूर्य एव वाचं विसृजन्ते
तानत्रैवासीनान्परिश्रयन्ति
पत्नीशाले पत्नीः परिश्रयन्त्यथानतिसर्पन्तावध्वर्यू धिष्णियान्बर्हिर्भ्यामौदुम्बरीँ समन्वारभेते इह धृतिरिह विधृतिरिह रन्तिरिह रमतिरिति
ते यथासमुदितं वाचं विसृजन्ते ८
16.9
अथातः सर्पणस्यैव मीमाँ सा
दक्षिणस्य हविर्धानस्याधोऽधोऽक्षँ सर्पेयुर्
एतेन ह वै सर्पाः ससृपुस्
ततो वै ते जीर्णास्तनूरपाघ्नतेति
तदु वा आहुर्यो वा अपथेन प्रतिपद्यते स्थाणुं वा हन्ति गर्तं वा पतति भ्रेषँ स न्येति
वषट्कारपथेनैव सर्पेयुरेष वाव स्वर्ग्यः पन्था यद्वषट्कारपथ इति
तदु वा आहुः पराङिव वा एषोऽशान्तः पन्था यद्वषट्कारपथोऽध्वर्युपथेनैव सर्पेयुरेष वा अर्वाचः पराचः स्वर्ग्यः पन्था यदध्वर्युपथ इति
तेऽध्वर्युपथेनैव सर्पन्ति
तेषु समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोत्युपसृजन्मात्रे वत्सं धारयन्धरुणो धयन्। रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति
समुत्क्रम्य चात्वालदेशे जपन्ति वागैतु वागुपैतु वाङ्मोपैतु वाग्यदकर्म यन्नाकर्म यदत्यगाम यन्नात्यगाम यदत्यरीरिचाम यन्नात्यरीरिचाम प्रजापतौ प्रजापतिं तत्पितरमप्येत्विति
तद्वाच्यन्ततः प्रतितिष्ठन्ति
तेषां य एव प्रायणीयोऽतिरात्रः स उदयनीयः
सत्त्रादुदवसाय ज्योतिष्टोमेनाग्निष्टोमेन चतुष्टोमेन पृष्ठशमनीयेन सहस्रदक्षिणेनैकैको यजेत ९
16.10
अथातो ग्रहकॢप्तेरेव मीमाँसा इन्द्र वायवाग्रं प्रथममहः
शुक्राग्रं द्वितीयम्
आग्रयणाग्रं तृतीयं च चतुर्थं चाइन्द्र वायवाग्रं पञ्चममहः
शुक्राग्रँ षष्ठं च सप्तमं चाग्रयणाग्रमष्टममहर्
ऐन्द्र वायवाग्रे नवमदशमे
इति न्वा अध्वर्युतोऽथ छन्दोगबह्वृचतो गायत्रीप्रातःसवनः प्रथमस्त्रिरात्रस्त्रिष्टुङ्माध्यंदिनो जगत्तृतीयसवने
जगत्प्रातःसवनो द्वितीयस्त्रिरात्रो गायत्रीमाध्यंदिनस्त्रिष्टुप्तृतीयसवनस्
त्रिष्टुप्प्रातःसवनस्तृतीयस्त्रिरात्रो जगन्माध्यंदिनो गायत्रीतृतीयसवन इति
तस्मात्सच्छन्दस उपयन्ति १०
16.11
अथातः पशुकॢप्तेरेव मीमाँ साइन्द्रा ग्नाः पशवः स्युरित्येक आहुर्
अग्नेरयं लोको वायोरन्तरिक्षमसाविन्द्र स्य
यदैन्द्रा ग्नः पशुर्भवति वायव्यो वसाहोम इमानेव तल्लोकान्प्रीणन्त एषु लोकेषु प्रतितिष्ठन्तो यन्त्यथ येऽनैन्द्रा ग्नान्प्रतिपद्यन्ते यथा श्रेयसेऽनाहृत्य पापीयस आहरन्ति तादृक्तत्
तस्मादैन्द्रा ग्नाः पशवः स्युरित्येतदेकम्
अतिरात्रपशवोऽभितो मध्य ऐन्द्रा ग्ना एकादशिना अभितो मध्य ऐन्द्रा ग्नाः
सर्वाग्नेया एव स्युरित्येतदेकं सर्वैन्द्रा एव स्युरित्येतदेकं सर्वप्राजापत्या एव स्युरित्येतदेकं सर्वैकादशिना एव स्युरित्येतदपरं तेषाँ सर्वैकादशिनैर्यतां प्रसिद्धमेव प्रथमेऽहनि प्रथमामेकादशिनीमालभन्त आग्नेयस्य वारुणमुपालम्भ्यं कुर्वन्ति

तथा स्यैतानि दश मध्यमान्यहान्यनतिरिच्यमानाः पशवोऽनुभवन्ति
प्रसिद्धमेवोत्तमेऽहन्युत्तमामेकादशिनीमालभन्त आग्नेयस्य वा वारुणस्य वा वैश्वदेवमुपालम्भ्यं कुर्वन्ति ११
16.12
तदु वा आहुर्यद्द्वादश दीक्षा द्वादशोपसदो द्वादशाहं प्रसुताः कथमस्यैतान्यहानीष्टान्याप्रीतानि पशुमन्ति भवन्तीति
तिस्र एकादशिन्योऽग्नीषोमीयो वैश्वदेवोऽनूबन्ध्या
षट्त्रिँ शतमेते पशवः षट्त्रिँ शतमेतान्यहान्येवमस्यैतान्यहानीष्टान्याप्रीतानि पशुमन्ति भवन्तीति
तदु वा आहुर्यद्द्वादश दीक्षा द्वादशोपसदो द्वादशाहं प्रसुताः कथं द्वादशाहेन संवत्सर आप्यत इति
द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्या एतानि ह वै संवत्सरस्य वर्षिष्ठान्यहान्येतान्यनु संवत्सर आप्यते

समाप्तो द्वादशाहः
समाप्तः संवत्सरकाम एवं द्वादशाहेन संवत्सर आप्यते १२
16.13
संवत्सराय दीक्षिष्यमाणाः समवस्यन्ति
तद्ध स्मैतत्पूर्वे संवत्सरँ समवसायासतेऽन्योऽन्यस्यानूक्तं च मानुषं च विजिज्ञासमाना उतो ह्येकः शमरथस्य कर्ता भवति
ते चतुरहे पुरस्तान्माघ्यै पौर्णमास्यै दीक्षन्ते
तेषामेकाष्टकायां क्रयः संपद्यत इति नु यदि समामविज्ञाय दीक्षन्ते
यद्यु वा एतस्यामेवैकाष्टकायाँ समां विजिज्ञासन्ते चतुरह एव पुरस्तात्फाल्गुन्यै वा चैत्र्! यै वा पौर्णमास्यै दीक्षन्ते
तेषामपरपक्षस्याष्टम्यां क्रयः संपद्यते
तेनैकाष्टकां न छम्बकुर्वन्ति
तेषां पूर्वपक्षे सुत्या संपद्यते
पूर्वपक्षं मासा अभि संपद्यन्ते
पूर्वपक्षे प्रसवः पूर्वपक्षे वैषुवतं पूर्वपक्ष उत्थानं समानं द्वादशाहिकं कर्म
तथैव षष्ठ्यामुपसद्युत्तरवेदिँ संनिवपन्ति यद्यनग्निचित्यं भवत्यथ यदि साग्निचित्यं प्रथमायामेवोपसद्युत्तरवेदिँ संनिवपन्ति १३
16.14
तेषां द्वादश दीक्षा द्वादशोपसदः संवत्सरं प्रसुता न संवत्सरेऽग्निं चिन्वीतेत्येक आहुश्चिन्वत उ हैके
प्रसिद्धेन कर्मणोपवसथाद्यन्ति
तेषां प्रसिद्धं ज्योतिष्टोमो वैश्वानरः प्रायणीयोऽतिरात्रः संतिष्ठते
तस्मिन्सँ स्थिते चतुर्विँशमुक्थ्यमारम्भणीयमुभयसामानमुपयन्त्यथाभिप्लवँ षडहमुपयन्ति
ज्योतिरग्निष्टोमो गौरुक्थ्य आयुरुक्थ्यो गौरुक्थ्य आयुरुक्थ्यो ज्योतिरग्निष्टोमस्
तं चतुरुपयन्ति
रथंतरंबृहद्र थंतरंबृहदिति विपर्यासं पृष्ठे भवतः
पृष्ठ्यः षडहः
स मासस्
तेनैवँ संपन्नेन पञ्च मासान्यन्त्यथैतँ षष्ठं मासँ संभायँ र्! संभरन्ति
त्रयोऽभिप्लवाः षडहास्तान्यष्टादशाहानि
प्रायणीयारम्भणीयौ
तानि विँ शतिरहानि
पृष्ठ्यः षडहोऽभिजित्त्रयः परःसामानः
स मासोऽथ वैषुवतम्
अथैतं वैषुवतेऽहन्येकविँ शमग्निष्टोममुपयन्ति बृहत्सामानं तस्य सौर्योऽतिग्राह्यः सौर्यः पशुरुपालम्भ्यस्
तद्धैतदेके दिवैवैतेनाह्ना प्रतिपद्यन्त उदित आदित्ये दिवाकीर्त्यमहरिति वदन्तो यथैवान्येषामह्नामेवमुपाकुर्यादिति मौद्गल्यस्
तस्य महादिवाकीत्यँ र्! होतुः पृष्ठं विकर्णं ब्रह्मसामं भासोऽग्निष्टोमोऽथोर्ध्वं वैषुवतात्त्रीनावृत्तान्स्वरानुपयन्त्यथ विश्वजितमुपयन्त्यथावृत्तं पृष्ठ्यँ षडहमुपयन्ति

त्रयस्त्रिँ शप्रभृत्याग्रयणाग्रमेतदहर्भवत्यथावृत्तमेवाभिप्लवँ षडहमुपयन्ति १४
16.15
ज्योतिरग्निष्टोम आयुरुक्थ्यो गौरुक्थ्य आयुरुक्थ्यो गौरुक्थ्यो ज्योतिरेवाग्निष्टोमस्
तं तथैव चतुरुपयन्ति
बृहद्र थंतरंबृहद्र थंतरमिति विपर्यासं पृष्ठे भवतः
पृष्ठ्यः षडहः पुरस्तात्
स मासस्
तेनैवँ संपन्नेन पञ्च मासान्यन्त्यथैत्मँ षष्ठं मासँ संभायँ र्! संभरन्ति
द्वावभिप्लवौ षडहौ तानि द्वादशाहानि
गोआयुषी तानि चतुर्दश
चत्वार्यूर्ध्वं वैषुवतात्तान्यष्टादश
दशरात्रो महाव्रतं चातिरात्रश्च
स मासस्
तदेतन्मासिपृष्ठं गवामयनम् १५
16.16
अनुत्सर्गं बृहद्र थंतराभ्यामित्वोत्तमे मासि सकृत्पृष्ठान्युपेयुस्
तद्द्वितीयं गवामयनं दशमास्यं तृतीयम्
अभिप्लवाश्चाक्षीयन्ति च तदङ्गिरसामयनम्पृष्ठ्याश्चाक्षीयन्ति च तदादित्यानामयनम्
अग्निष्टोमाश्चाक्षीयन्ति च तत्प्रजापतेरयनम्प्रायणीयोदयनीयावभितो मध्येऽग्निष्टोमास्तद्द्वितीयं प्रजापतेरयनं सर्वाग्निष्टोमा एव स्युरिति तत्तृतीयं प्रजापतेरयनम्
अथातो ग्रहकॢप्तेरेव मीमाँ सा

तद्धैतदेके सारस्वतवैष्णवौ ग्रहौ गृह्णन्ति प्रायणीयादेवाग्रेऽत्रिरात्रादोदयनीयाद्वाग्वै सरस्वती यज्ञो विष्णुस्ते वाचं चैव यज्ञं च मध्यतः परिगृह्यानार्ता उदृचं गमिष्याम इति वदन्तस्
तदु वा आहुर्यद्वाचा यज्ञस्तायते तेन सरस्वत्याप्ता यदु यज्ञस्तेन विष्णुर्न वै नो ब्राह्मणं भवति
सारस्वतवैष्णवौ ग्रहौ गृह्णीयादिति नैतदाद्रि येत
नाद्रि येतेति स्थितिः १६
16.17
अथातोऽँ! श्वदाभ्ययोरेव ग्रहणम्प्रायणीयेऽदाभ्यं गृह्णीयादँ शुं वैषुवतेऽदाभ्यं महाव्रत उभौ प्रायणीय उभौ वैषुवत उभौ महाव्रते
यत्र क्व चैवैनौ गृह्णीयादित्येतदपरम्
अथातः परःसाम्नामेव ग्रहणं ते वा एते परःसामानः पुरस्ताद्वैषुवतात्त्र्! यहमन्वहमितः पराञ्चो गृह्यन्त उपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णाम्युपयामगृहीतोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णाम्युपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णामीत्य्
अथ वैषुवतेऽह्नि शुक्राग्रा ग्रहा गृह्यन्ते
समानं कर्माग्रयणाद्ग्रहादाग्रयणं गृहीत्वा त्रीन्परःसाम्नो गृह्णात्युपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णाम्युपयामगृहीतोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णाम्युपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णामीत्यथ सौर्यर्चा सौर्यमतिग्राह्यं गृह्णाति १७
16.18
तरणिर्विश्वदर्शत इत्यनुद्रुत्योपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वते जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिः सूर्याय त्वा भ्राजस्वत इत्यथावृत्तान्गृह्णात्युपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णाम्युपयामगृहितोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णाम्युपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीति
सप्तैतदहरतिग्राह्या गृह्यन्त इति ब्राह्मणम्
अथोर्ध्वं वैषुवतात्त्र्! यहमन्वहमावृत्तानेव गृह्णाति वैश्वकर्मणादित्याभ्यां विपर्यासम्
उपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णामीत्यथ वैश्वकर्मणम्विश्वकर्मन्हविषा वावृधान इत्यनुद्रुत्योपयामगृहीतोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णामीत्यथादित्यम्
अदितिर्न उरुष्यत्वित्यनुद्रुत्योपयामगृहितोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीत्यथ वैश्वकर्मणम्
अथादित्यम्
अथोर्ध्वं त्र्यहाद्वैश्वकर्मणादित्याभ्यामेव विपर्यासमेत्या महाव्रतात्

तावुभौ सह महाव्रते गृह्येते
अथैतं महाव्रतीयेऽह्नि प्राजापत्यमतिग्राह्यं गृह्णाति
त्वे क्रतुमपिवृञ्जन्ति विश्व इत्यनुद्रुत्योपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिः प्रजापतये त्वेति १८
16.19
अथातः पशुकॢप्तेरेव मीमाँ सोक्तैन्द्रा ग्नानां प्रशाँ सातिरात्रपशवोऽभितो मध्य ऐन्द्रा ग्ना ऐकादशिना अभितो मध्य ऐन्द्रा ग्नाः
सर्वाग्नेया एव स्युरित्येतदेकं सर्वैन्द्रा ग्ना एव स्युरित्येतदेकं सर्वप्राजापत्या एव स्युरित्येतदेकं सर्वैकादशिना एव स्युरित्येतदपरं तेषाँ सर्वैकादशिनैर्यतां प्रसिद्धमेवोत्तमस्य दशरात्रस्य तृतीयेऽहन्सपतदश उक्थ्य एकादशिन्याप्यते
तस्य नवाहान्यपशून्यतिरिच्यन्ते
तेष्वेतान्नव ब्राह्मणवतः पशूनालभन्ते वैष्णवं वामनमित्येतांस्तेषामेवं यतां बार्हस्पत्यो वैषुवते सवनीयः संपद्यते
तस्य सौर्यमुपालम्भ्यं कुर्वन्ति
यद्यु वा एतान्नव ब्राह्मणवतः पशून्न विन्दन्ति नवैतानि मध्यमानि संवत्सरिकाण्यहान्यैन्द्रा ग्नपशूनि कुर्वन्ति

तेषामेवं यतामैन्द्रा ग्नो वैषुवते सवनीयः संपद्यते
तस्य सौर्यमुपालम्भ्यं कुर्वन्ति
सावित्रो महाव्रते
तस्य प्राजापत्यस्तूपर ऐन्द्र श्चर्षभ उपालम्भ्यौ भवतः १९
16.20
श्वो महाव्रतमित्युपकल्पयतेऽपरिमितान्रथानपरिमितान्दुन्दुभीँ स्तावत उ वेवाजिसृतश्चर्म चेडसंवर्तं च भूमिदुन्दुभिमार्षभं चर्म सलाङ्गूलं ब्राह्मणं च शूद्रं चार्द्रं च चर्मकर्तम्प्लेङ्खँ होता कूर्चावध्वर्युर्बृसीर्होत्रका औदुम्बरीमुद्गातासन्दीमुपकल्पयते
वाणं च शततन्तुमाघाटीः पिञ्छोलाः कर्करीका इति तदु पत्नयः
कटपरिवारं च मिथुनौ चापरिमिताश्च दास्यस्तावत उ वेवोदकुम्भान्
अथैतं महाव्रतीयेऽह्नि पञ्चविँ शमग्निष्टोममुपयन्ति रथंतरसामानं समानं कर्मा माहेन्द्रा द्ग्राहाद्माहेन्द्रं ग्रहं गृहीत्वाथैतान्संभारानायातयति
जघनेनाग्नीध्रं गर्तं खानयित्वार्षभेण क्रूरचर्मणोत्तरलोम्नाभिविघ्नन्ति

तस्य लाङ्गूलमुत्खिद्य हन्तानूपतिष्ठतेऽत्रैतान्दुन्दुभीननुदिशमासञ्जयति
तानाहननैरनाघ्नन्त एते हन्तारोऽनूपतिष्ठन्तेऽथैते रथाः समन्तं देवयजनं परीत्योत्तरतस्तिष्ठन्ति
तेषां तिसृधन्वी राजपुत्रो मुख्यो भवति २०
16.21
तस्मा अग्रेणाग्नीध्रमिडसंवर्ते चर्मकर्तं व्यवास्यति
तं काल एव शस्त्र्यातृणत्त्यथैतौ ब्राह्मणश्च शूद्र श्चान्तरेण सदोहविर्धाने तिष्ठत आर्द्रं चर्मकर्तमादाय
प्लेङ्खँ होतासजते
कूर्चावध्वर्युरुपस्तृणीते बृसीर्होत्रका औदुम्बरीमुद्गातासन्दीमारोहत्यादत्ते वाणँ शततन्तुम्
आघाटीभिः पिञ्छोलाभिः कर्करीकाभिरित्युद्गातारं पत्नयः पर्युपविशन्त्यथ दक्षिणे वेद्यन्त कटपरिवारे मिथुनौ संप्रवादयतोऽथैता दास्य उदकुम्भानधिनिधाय मार्जालीयं पर्युपविशन्त्यथाध्वर्युः कूर्चयोरासीनो माहेन्द्रस्य स्तोत्रमुपाकरोति
स्तुवते माहेन्द्राय
प्रस्तुते साम्नि संप्रैषमाहाजिसृत आजिं धावत दुन्दुभीन्समाघ्नताभिषोतारोऽभिषुणुताग्नीदाशिरं विनयोलूखलमुद्वादय प्रतिप्रस्थातः सौम्यस्य विद्धीति

यथासंप्रैषं ते कुर्वन्ति
धावन्त्याजिसृत आघ्नन्ति दुन्दुभीन्
संप्रवदन्ति वाच आघाटीभिः पिञ्छोलाभिः कर्करीकाभिरित्युद्गातारं पत्नय उपगायन्ति २१
16.22
भद्र मु नाम सामास्ति
तदु वाचोपगीयतेऽथैष तिसृधन्वी राजपुत्रश्चर्मावभिनत्ति
तं ब्राह्मणोऽनूपतिष्ठते मापरात्सीर्मातिव्यात्सीरिति
तत्तथैव त्रिभिरन्तर्हितमवभिनत्त्यथैतौ ब्राह्मणश्च शूद्र श्चाद्रे र्! चर्मकर्ते व्यायच्छेते इमेऽरात्सुरिमे सुभूतमक्रन्निति ब्राह्मण इम उद्वासीकारिण इमे दुर्भूतमक्रन्निति वृषलो ब्राह्मणः संजयति
नश्यति वृषलः
संवर्तेते मिथुनवथैता दास्य उदकुम्भानधिनिधाय मार्जालीयं परिनृत्यन्त्युपस्थानुपहत्य दक्षिणान्पदो निघ्नन्तीरिदंमधुं गायन्तस्
तासाँ सकृत्परीतानां प्रथमां वाचयति २२
16.23
गाव एव सुरभयो गावो गुग्गुलुगन्धयः । गावो घृतस्य मातरस्ता इह सन्तु भूयसीर्हैमहाँ इदं मध्वित्युपस्थानुपहत्य दक्षिणानेव पदो निघ्नन्ति
द्वितीयं परीतानां प्रथमामेव वाचयति ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वत्यै नद्यै ताः प्राचीरुज्जगाहिरे हैमहाँ इदं मध्वित्युपस्थानुपहत्य दक्षिणानेव पदो निघ्नन्ति

तृतीयं परीतानां प्रथमामेव वाचयति यदा राखन्द्यौ वदतो ग्राम्यं मङ्कीरदाशकौ । क्षेमाध्यवस्यतो ग्रामे नानड्वाँ स्तप्यते वहन्हैमहाँ इदं मध्वित्यथैना उत्तरेण मार्जालीयं तिष्ठन्त्यो वाचयतीदमेव मधु सारघमयँ सोमः सुतो बृहत्। तमिन्द्र परितातृपीर्हैमहाँ इदं मध्विति
ता अत ऊर्ध्वमिदं मध्विदं मध्विदं मध्वित्येव परियन्ति
तेषां य एव प्रायणीयोऽतिरात्रः स उदयनीयः
सत्त्रादुदवसाय ज्योतिष्टोमेनाग्निष्टोमेन चतुष्टोमेन पृष्ठशमनीयेन सहस्रदक्षिणेनैकैको यजेत २३
16.24
स्वर्गकामो द्विरात्राय दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदः
स तथा राजानं क्रीणाति यथा मन्यते द्विरात्रस्य मे सतोऽमावास्याया उपवसथीयेऽहन्पूर्वमहः संपत्स्यत उत्तरस्मिन्नुत्तरमिति
तस्य तथा संपद्यतेऽभिप्लवः पूर्वमहर्भवति गतिरुत्तरं ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहर्भवति
तेजस्तेनावरुन्द्धे
सर्वस्तोमोऽतिरात्र उत्तरं सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै
गायत्रं पूर्वेऽहन्साम भवति
त्रैष्टुभमुत्तरे

रथंतरं पूर्वेऽहन्साम भवति
बृहदुत्तरे
वैखानसं पूर्वेऽहन्साम भवति
षोडश्युत्तरे
हविष्मन्निधनं पूर्वमहर्भवति
हविष्कृन्निधनमुत्तरं नानैवार्धमासयोर्भवतो नानावीर्ये भवत इति ब्राह्मणं संतिष्ठते द्विरात्रस्
त्रिरात्रेण यक्ष्यमाणो भवति
स उपकल्पयते सहस्रं तस्मिन्नुन्नतो वेहद्वामन इति भवन्त्यथास्यैषा सहस्रतम्यन्यतएनी कण्डूकृतोपकॢप्ता भवति
दीक्षते
रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणाति
द्वादशोपसदः २४
16.25
तायते प्रथमेऽहन्नग्निष्टोमस्
तस्य त्रिवृत्प्रातःसवनं पञ्चदशं माध्यंदिनँ सवनँ सप्तदशं तृतीयसवनं स दाक्षिणानि हुत्वाग्नीध्रे स्रुवाहुतिं जुहोति त्वँ सहस्रमानय । उन्नत उद्वलस्याभिनस्त्वचम्। सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्माविशताद्र यिरित्युन्नत एतेषां त्रयाणां त्रिँ शच्छतानां प्रथमो नीयतेऽहीनसंततिं करोति
तायते द्वितीयेऽहन्युक्थ्यस्
तस्य पञ्चदशं प्रातःसवनँ सप्तदशं माध्यंदिनँ सवनमेकविँ शं तृतीयसवनं स दाक्षिणानि हुत्वाग्नीध्रे स्रुवाहुतिं जुहोत्यूर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मे यच्छ पाहि मा मा मा हिँ सः सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्माविशताद्र यिरिति
वेहदेतेषां त्रयाणां त्रिँ शच्छतानां प्रथमा नीयतेऽहीनसंततिं करोति
तायते तृतीयेऽहन्नतिरात्रस्

तस्य सप्तदशं प्रातःसवनमेकविँ शं माध्यंदिनँ सवनं त्रिणव आर्भवः पवमानस्त्रयस्त्रिँ शमग्निष्टोमसामैकविँ शान्युक्थानि सषोडशिकानि
षोडशं प्रथमँ रात्रिसाम पञ्चदशानीतराणि त्रिवृद्रा थंतरः सन्धिः
स दाक्षिणानि हुत्वाग्नीध्रे स्रुवाहुतिं जुहोति त्वँ सहस्रस्य प्रतिष्ठासि वैष्णवो वामनस्त्वम्। सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्माविशतारयिरिति
वामन एतेषां त्रयाणां चत्वारिँ शच्छतानां प्रथमो नीयते
नात्राहीनसंततिं करोति २५
16.26
अथैताँ सहस्रतमीमुत्तरेणाग्नीध्रं पर्याणीयाहवनीयस्यान्ते द्रो णकलशमवघ्रापयेदाजिघ्र कलशं मह्युरुधारा पयस्वत्या त्वा विशन्त्विन्दवः समुद्र मिव सिन्धवः । सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्माविशताद्र यिरिति
प्रजयैवैनं पशुभी रय्या समर्धयति प्रजावान्पशुमान्रयिमान्भवति य एवं वेदेति ब्राह्मणम्
अथ वै भवति
तया सहाग्नीध्रं परेत्य पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहुयादिति
स तया सहाग्नीध्रं परेत्य पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहोत्युभा जिग्यथुर्न पराजयेथे न पराजिग्ये कतरश्चनैनोः । इन्द्र श्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामिति

त्रेधाविभक्तं वै त्रिरात्रे सहस्रं साहस्रीमेवैनां करोति
सहस्रस्यैवैनां मात्रां करोतीति ब्राह्मणम्
अथास्यै रूपाणि जुहोत्यञ्ज्येतायै स्वाहा कृष्णायै स्वाहा श्वेतायै स्वाहेत्यथास्या उपोत्थाय नामभिर्दक्षिणं कर्णमाजपतीडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतानि ते अघ्निये नामानि सुकृतं मा देवेषु ब्रूतादिति
देवेभ्य एवैनमावेदयत्यन्वेनं देवा बुध्यन्त इति ब्राह्मणम् २६
16.27
अथैताँ सहस्रतमीमन्तरेण चात्वालोत्करावुदीचिं नीयमानामनुमन्त्रयते सा मा सुवर्गं लोकं गमय सा मा ज्योतिष्मन्तं लोकं गमय सा मा सर्वान्पुण्यान्लोकान्गमय सा मा प्रतिष्ठां गमय प्रजया पशुभिः सह पुनर्माविशताद्र यिरिति
प्रजयैवैनं पशुभी रय्यां प्रतिष्ठापयति
प्रजावान्पशुमान्रयिमान्भवति य एवं वेदेति ब्राह्मणम्
अथ वै भवति
तामग्नीधे वा ब्रह्मणे वा होत्रे वोद्गात्रे वाध्वर्यवे वा दद्यात्
सहस्रमस्य सा दत्ता भवति सहस्रमस्य प्रतिगृहीतं भवतीति ब्राह्मणम्
अथ वै भवति
यस्तामविद्वान्प्रतिगृह्णाति तां प्रतिगृह्णीयादेकासि न सहस्रमेकां त्वा भूतां प्रतिगृह्णामि न सहस्रमेका मा भूताविश मा सहस्रमित्येकामेवैनां भूतां प्रतिगृह्णाति न सहस्रं य एवं वेदेति ब्राह्मणम्
अथ वै भवति
स्योनासि सुषदा सुशेवा स्योना माविश सुषदा माविश सुशेवा माविशेत्याह
स्योनैवैनँ सुषदा सुशेवा भूताविशति नैनँ हिनस्तीति ब्राह्मणम्
अथ वै भवति
ब्रह्मवादिनो वदन्ति सहस्रँ सहस्रतम्यन्वेती३ सहस्रतमीँ सहस्रा३मिति

यत्प्राचीमुत्सृजेत्सहस्रँ सहस्रतम्यन्वियात्
तत्सहस्रमप्रज्ञात्रं सुवर्गं लोकं न प्रजानीयात्
प्रतीचीमुसृजति
ताँ सहस्रमनु पर्यावर्तते
सा प्रजानती सुवर्गं लोकमेति
यजमानमभ्युत्सृजतीति
तां पुरस्तात्प्रतीचीं यजमानमभ्युत्सृजति
क्षिप्रे सहस्रं प्रजायत उत्तमा नीयते प्रथमा देवान्गच्छतीति ब्राह्मणं तेन हैतेन रौहिणेयः क्रोथुनिः कौलाश्वो यास्क ऋतुमुखेषु विहृतेनेजेऽथो हाजमाम मशको गार्ग्य आरुणेरन्तेवासी
स ह सँ स्थामदृष्ट्वोवाच ननु मत एकाहाइ!३ँ! ति
नेति हैनं प्रत्युवाच
तँ होपेयाय
तस्मा उ हैनँ स उवाच
तेन ह स्म समस्तेनैव यजते
तमेतं गर्गत्रिरात्र इत्याचक्षते २७
16.28
चतुरो वीरानवरुरुत्समानश्चतूरात्राय दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदस्
तस्याहान्यग्निष्टोमा एवैते चतुर्विँशाः पवमाना उद्यत्स्तोमाः स्युरित्येतदेकम्

एकोऽग्निष्टोमो द्वावुक्थ्यावथातिरात्रश्छन्दोगानु सामविकल्पं पृच्छेयुरित्येतदपरम्
अत्रिँ श्रद्धादेवं यजमानं चत्वारि वीर्याणि नोपानमन्तेज इन्द्रि यं ब्रह्मवर्चसमन्नाद्यमित्येतान्कामानवरुरुत्समानश्चतूरात्राय दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदस्
तस्याहान्यग्निष्टोमा एवैते चतुष्टोमाः स्युरित्येतदेकम्
एकोऽग्निष्टोमो द्वावुक्थ्यावथातिरात्रश्छन्दोगानु सामविकल्पं पृच्छेयुरित्येतदपरम्पुष्टिकामश्चतूरात्राय दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदोऽथ वै भवति
पुरोडाशिन्य उपसदो भवन्तीति
प्रथमे चतूरात्र आग्नेय आज्य आग्नेयमष्टाकपालँ सायंप्रातरन्ववधाय जुहोति
द्वितीये चतूरात्रे सौम्य आज्ये सौम्यं चतुष्कपालँ सायंप्रातरन्ववधाय जुहोति
तृतीये चतूरात्रे वैष्णव आज्ये वैष्णवं त्रिकपालँ सायंप्रातरन्ववधाय जुहोति
तस्य त्रिवृत्सप्तदशौ विपर्यासँ स्तोमौ भवतः
प्राणो वै त्रिवृदन्नं सप्तदशः प्रजापतिः
प्राणाच्च खलु वा इदमन्नाद्याच्च परिगृह्य प्रजापतिः प्रजायत

प्राणाच्चैवैतदन्नाद्याच्च परिगृह्य यजमानः प्रजायते
तस्याहान्यग्निष्टोमा एवैते चतुस्त्रिँ शपवमानाः स्युरित्येतदेकम्
एकोऽग्निष्टोमो द्वावुक्थ्यावथातिरात्रश्छन्दोगानु सामविकल्पं पृच्छेयुरित्येतदपरम् २८
16.29
प्रजातिकामो वा व्यावृत्कामो वा पशुकामो वा वाचो वान्तं परिजिगाँ सन्पञ्चरात्राय दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदस्
तस्याहानि त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यः पञ्चविँ शोऽग्निष्टोमो महाव्रतवान्विश्वजित्सर्वपृष्ठोऽतिरात्रः
सारस्वतेनायनेनैष्यन्तो द्वयीर्गा उपकल्पयन्त ऋषभैकादशा अन्या ऋषभैकशता अन्यास्
तेषामाश्वत्थी हविर्धानं चाग्नीध्रं च भवतस्
तद्धि सुवर्ग्यं चक्रीवती भवत उलूखलबुध्न एषां यूपो भवति
ते सरस्वत्यै जघन्योदके दीक्षन्ते
तेषामयमेव त्रिवृदग्निष्टोमः संतिष्ठते
तस्मिन्सँ स्थितेऽभि यूपं वहन्त्यभि धिष्णियान्हरन्त्यग्निष्ठेऽनसि समवशमयन्ते यदेषाँ समवशमयितव्यं भवति

तेऽनेनैव पृष्ठ्येन षडहेन प्रतिपद्यन्तेऽहरहः शम्यान्यासेशम्यान्यासे यजमाना आक्रोशन्तोऽज्यानिमिच्छमाना यदा दश शतं कुर्वन्त्यथैकमुत्थानं यदा शतँ सहस्रं कुर्वन्त्यथैकमुत्थानं यदैषां प्रमीयेत यदा वा जियेरन्नथैकमुत्थानं प्लाक्षे वा प्रस्रवणे २९
16.30
अथातो मुन्ययनमित्याचक्षते
श्रमणः खारीविवधी सरस्वत्यै जघन्योदकेऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथैताँ सवनेष्टिं निर्वपत्याग्नेयमष्टाकपालमैन्द्र मेकादशकपालं वैश्वदेवं द्वादशकपालमिति
तया समस्तया वा विहृतया वा प्रतिपद्यतेऽहरहः शम्यान्यासेशम्यान्यासे यजमान आक्रोशन्नज्यानिमिच्छमानो यदैनं प्रतिराध्नुवन्ति यदा वास्यैतं खारीविवधमाच्छिन्दन्त्यथैकमुत्थानं प्लाक्षे वा प्रस्रवणे ३०
16.31
पशुकामः सप्तरात्राय दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदस्
तस्याहानि त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्य एकविँ श उक्थ्यस्त्रिणव उक्थ्यः पञ्चविँ शोऽग्निष्टोमो महाव्रतवान्विश्वजित्सर्वपृष्ठोऽतिरात्रो बृहद्र थंतरे पूर्वेष्वहःसूपेत्य प्रत्यक्षं विश्वजिति पृष्ठान्युपयन्ति
ब्रह्मवर्चसकामोऽष्टरात्राय दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदस्
तस्याहानि त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्य एकविँ श उक्थ्यस्त्रिणव उक्थ्यस्त्रयस्त्रिँ श उक्थ्यः पञ्चविँ शोऽग्निष्टोमो महाव्रतवान्विश्वजित्सर्वपृष्ठोऽतिरात्रः
प्रजासु वा क्षुद्युक्तासु ज्योगामयावी वा नवरात्राय दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदस्
तस्याहानि ज्योतिर्गौरायुरित्येतमेव त्र्यहं त्रिरुपयन्ति
तेषामायुरतिरात्र उत्तममहर्भवति
प्रजातिकामो वा व्यावृत्कामो वाभिचरन्वाभिचर्यमाणो वा दशरात्राय दीक्षिष्यमाणो दशहोतारँ हुत्वा दशरात्राय दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदस्
तस्याहानि त्रिवृदग्निष्टोमोऽग्निष्टुदाग्नेयीषु भवति
पञ्चदश उक्थ्य ऐन्द्री षु
त्रिवृदग्निष्टोमो वैश्वदेवीषु
सप्तदशोऽग्निष्टोमः प्राजापत्यासु तीव्रसोम एकविँ श उक्थ्यः सौरीषु
सप्तदशोऽग्निष्टोमः प्राजापत्यासूपहव्यस्
त्रिणवावग्निष्टोमावभित ऐन्द्री षु
त्रयस्त्रिँ श उक्थ्यो वैश्वदेवीषु
विश्वजित्सर्वपृष्ठोऽतिरात्रः ३१
16.32
प्रजाकामा एकादशरात्राय दीक्षन्ते
तस्यापरिमिता दीक्षा द्वादशोपसदस्
तस्याहानि ज्योतिरतिरात्रः
पृष्ठ्यः षडहस्
त्रयश्छन्दोमा अथातिरात्रोऽथाहीनविधिः पृष्ठ्यः षडहस्
त्रयश्छन्दोमा दशममहर्
अथातिरात्रोऽथायं पौण्डरीक एकादशरात्रोऽयुतदक्षिणोऽश्वसहस्रदक्षिणस्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
तस्याहान्यभ्यासङ्ग्यः षडहस्
त्रयश्छन्दोमा दशममहर्
अथातिरात्रोऽन्वहँ सहस्रँ सहस्रं ददात्युत्तमेऽहन्यश्वसहस्रं ददात्यथातो ज्योतिरयनमित्याचक्षते
स भरतद्वादशाह इत्येक आहुर्दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदस्
तस्याहानि ज्योतिरतिरात्रो ज्योतिरग्निष्टोमोऽष्टौ ज्योतीँ ष्युक्थ्या ज्योतिरेवाग्निष्टोमो ज्योतिरेवातिरात्र उक्तो द्वादशाहो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
स उ वेव त्रयोदशरात्रः ३२
16.33
अथ पूर्वश्चतुर्दशरात्रोऽतिरात्रः
पृष्ठ्यः षडहः
प्रत्यङ्षडहोऽथातिरात्रोऽथोत्तरश्चतुर्दशरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्र्यहः
पृष्ठ्यः षडहः
प्रत्यङ्त्र् यहोऽथातिरात्रोऽथ पूर्वः पञ्चदशरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्र्यहो दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति

स उ वेवाब्राह्मणः षोडशरात्रोऽथोत्तरः पञ्चदशरात्रोऽतिरात्रस्
त्रिवृदग्निष्टोमो ज्योतिर्गौरायुरिति त्र्यहः
पृष्ठ्यः षडहः
प्रत्यङ्त्र् यहोऽथातिरात्रोऽथ सप्तदशरात्रोऽतिरात्र एकः पञ्चाहो दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
स उ वेवाब्राह्मणोऽष्टादशरात्रोऽथ विँ शतिरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्रयस्त्र्! यहाः
पृष्ठ्यः षडहः
प्रत्यङ्त्र् यहोऽथातिरात्रोऽथैकविँ शतिरात्रोऽतिरात्रः
पृष्ठ्यः षडहः
सप्तैतानि मध्यमानि सांवत्सरिकाण्यहानि भवन्ति
प्रत्यङ्षडहोऽथातिरात्रः ३३
16.34
अथ पूर्वश्चतुर्विँशतिरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति चत्वारस्त्र्! यहा दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
स उ वेवाब्राह्मणः पञ्चविँ शतिरात्रोऽथोत्तरश्चतुर्विँशतिरात्रो ज्योतिरतिरात्रः
पृष्ठ्यः षडहस्
त्रयस्त्रिँ शात्त्रयस्त्रिँ शमुपयन्त्यथानिरुक्तं पृष्ठ्यँ षडहमुपयन्ति
त्रिवृत आयतने त्रयस्त्रिँ शमुक्थ्यमुपयन्ति रथंतरसामानं तस्य चतुर्विँशाः पवमाना भवन्ति
पञ्चदशस्यायतने त्रिणवमुक्थ्यमुपयन्ति बृहत्सामानं
तस्याष्टाविँ शाः पवमाना भवन्ति
सप्तदशस्यायतन एकविँ शमुक्थ्यमुपयन्ति वैरूपसामानं तस्य द्वात्रिँ शाः पवमाना भवन्ति
स्व एवायतन एकविँ शमुक्थ्यमुपयन्ति वैराजसामानं तस्य षट्त्रिँ शाः पवमाना भवन्ति
स्व एवायतने त्रिणवमुक्थ्यमुपयन्ति शाक्वरसामानं तस्य चत्वारिँ शाः पवमाना भवन्ति
स्व एवायतने त्रयस्त्रिँ शमुक्थ्यमुपयन्ति रैवतसामानं तस्य चतुश्चत्वारिँ शाः पवमाना भवन्ति
त्रयस्त्रिँ शात्त्रयस्त्रिँ शमुपयन्ति
तस्याष्टाचत्वारिँ शाः पवमाना भवन्त्यथावृत्तं पृष्ठ्यँ षडहमुपयन्ति ३४
16.35
त्रिवृतोऽधि त्रिवृतमुपयन्ति
स्तोमानाँ संपत्त्यै प्रभवाय
ज्योतिरग्निष्टोममुपयन्त्यथातिरातोऽथ त्रिँ शद्रा त्रो ज्योतिरतिरात्रः
पृष्ठ्यः षडहस्
त्रयस्त्रिँ शात्त्रयस्त्रिँ शमुपयन्ति
त्रिणवमुपयन्त्येकविँ शमुपयन्ति
त्रिवृतमग्निष्टुतमुपयन्ति
पञ्चदशमिन्द्र स्तोममुपयन्ति
सप्तदशमुपयन्त्येकविँ शमुपयन्ति
चतुर्विँशमुपयन्ति
चतुर्विँशात्पृष्ठान्युपयन्ति
त्रयस्त्रिँ शात्त्रयस्त्रिँ शमुपयन्ति
त्रिणवमुपयन्ति
द्वावेकविँ शावुपयन्ति
चतुरश्चतुष्टोमान्स्तोमानुपयन्त्यथातिरात्रोऽथ द्वात्रिँ शद्रा त्रोऽतिरात्रो ज्योतिर्गौरायुरिति नव त्र्यहाः
प्रत्यङ्त्र् यहोऽथातिरात्रोऽथ त्रयस्त्रिँ शद्रा त्रोऽतिरात्रस्
त्रयः पञ्चाहा
विश्वजित्सर्वपृष्ठोऽतिरात्र एकः पञ्चाहो दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
स उ वेवाब्राह्मणश्चतुस्त्रिँ शद्रा त्रः ३५
16.36
अथ षट्त्रिँशद्रात्रो ज्योतिरतिरात्रश्चतुवारोऽभिप्लवाः षडहा दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
स उ वेवाब्राह्मणः सप्तत्रिँ शद्रा त्रोऽथैकस्मान्नपञ्चाशद्रा त्रोऽतिरात्रस्
त्रयस्त्रिवृतोऽग्निष्टोमा अथात्रिरात्रो दश पञ्चदशा उक्थ्या अथातिरात्रस्
तेषाँ षोडशिमद्दशममहर्भवति
द्वादश सप्तदशा उक्थ्या अथातिरात्रः
पृष्ठ्यः षडहोऽथातिरात्रो द्वादशैकविँ शा उक्थ्या अथातिरात्रोऽथ संवत्सरकॢप्त एकस्मान्नपञ्चाशद्रा त्रोऽतिरात्र आरम्भणीयमहस्
त्रयोऽभिप्लवाः षडहास्
तान्यष्टादशाहानि
प्रायणीयारम्भणीयौ
तानि विँशतिर्
अभिजित्
त्रयः परःसामानोऽथ वैषुवतं त्रयोऽर्वाक्सामानोऽथ विश्वजिदावृत्तोऽभिप्लवः षडहो गोआयुषी
दशरात्रो महाव्रतं चातिरात्रश्चाथैकषष्टिरात्र एतस्यैव सतोऽभितो नवरात्रं पृष्ठ्यौ षडहावुपोहति
तयोरावृत्त उत्तरोऽथ शतरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्र्यहश्चतुर्दशाभिप्लवाः षडहा दशरात्रो महाव्रतं चातिरात्रश्चाथ सहस्ररात्रोऽतिरात्रो नवनवतिस्त्रिवृतोऽग्निष्टोमाः शतं पञ्चदशा उक्थ्याः शतँ सप्तदशा उक्थ्याः शतमेकविँ शा उक्थ्याः शतं त्रिणवा उक्थ्याः शतं त्रयस्त्रिँ शा उक्थ्याः शतं चतुर्विँशा उक्थ्याः शतं चतुश्चत्वारिँ शा उक्थ्याः शतमष्टाचत्वारिँ शा उक्थ्या नवनवतिरेव त्रिवृतोऽग्निष्टोमा अथातिरात्रः ३६