बौधायनश्रौतसूत्रम्/प्रश्नः १४

विकिस्रोतः तः

14.1
अथ वै भवति
प्रजापतिरकामयत प्रजाः सृजेयेति
स तपोऽतप्यत
स सर्पानसृजत
सोऽकामयत प्रजाः सृजेयेति
स द्वितीयमतप्यत
स वयाँ स्यसृजत
सोऽकामयत प्रजाः सृजेयेति
स तृतीयमतप्यत
स एतं दीक्षितवादमपश्यत्
तमवदत्ततो वै स प्रजा असृजतेति
तत्पृच्छन्ति कतमत्तत्तपस्यत्तपस्तप्त्वा दीक्षितवादं वदतीत्यथ वै भवत्यङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति
साक्षादेव दीक्षातपसी अवरुन्द्ध इत्येतदिति ब्रूयादित्यथ वै भवति
यद्वै दीक्षितोऽमेध्यं पश्यत्यपास्माद्दीक्षा क्रामति
नीलमस्य हरो व्येतीति
सोऽमेध्यं दृष्ट्वा जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षे मा मा हासीरित्याह
नास्माद्दीक्षापक्रामति
नास्य नीलं न हरो व्येतीति ब्राह्मणम्
अथ वै भवति
यद्वै दीक्षितमभिवर्षति दिव्या आपोऽशान्ता ओजो बलं दीक्षां तपोऽस्य निर्घ्नन्तीति
सोऽभिवृष्यमाणो जपत्युन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेत्याहैतदेव सर्वमात्मन्धत्ते
नास्यौजो बलं न दीक्षां न तपो निर्घ्नन्तीति ब्राह्मणम्
अथ वै भवत्यग्निर्वै दीक्षितस्य देवता
सोऽस्मादेतर्हि तिर इव यर्हि यातीति
सोऽस्मात्समारूढस्तिर इव भवति

सोऽरण्योरग्नीन्त्समारोह्य बृहस्पतिवत्यर्चा प्रयाति
भद्रा दभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्याह
ब्रह्म वै देवानां बृहस्पतिस्
तमेवान्वारभते
स एनँ संपारयतीति ब्राह्मणम्प्रजातमपाँ संयानस्योक्तमध्यवसानस्याथ वै भवति
यो वै सोमँ राजानँ साम्राज्यं लोकं गमयित्वा क्रीणाति गच्छति स्वानाँ साम्राज्यं
छन्दाँ सि खलु वै सोमस्य राज्ञः साम्राज्यो लोकः
पुरस्तात्सोमस्य क्रयादेवमभिमन्त्रयेतेति
स पुरस्तात्सोमस्य क्रयादेवमभिमन्त्रयते १
14.2
एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताद्छन्दोमानाँ साम्राज्यं गच्छेति मे सोमाय ब्रूतादिति
साम्राज्यमेवैनं लोकं गमयित्वा क्रीणाति
गच्छति स्वानाँ साम्राज्यमिति ब्राह्मणम्
अथ वै भवति
यो वै तानूनप्त्रस्य प्रतिष्ठां वेद प्रत्येव तिष्ठति
ब्रह्मवादिनो वदन्ति न प्राश्नन्ति न जुह्वत्यथ क्व तानूनप्त्रं प्रतितिष्ठतीति
प्रजापतौ मनसीति ब्रूयात्
त्रिरवजिघ्रेदिति
स त्रिरवजिघ्रति प्रजापतौ त्वा मनसि जुहोमि इत्येषा वै तानूनप्त्रस्य प्रतिष्ठा
य एवं वेद प्रत्येव तिष्ठतीति ब्राह्मणम्
अथ वै भवति
यो वा अध्वर्योः प्रतिष्ठां वेद प्रत्येव तिष्ठति
यतो मन्येतानभिक्रम्य होष्यामीति तत्तिष्ठन्नाश्रावयेदिति

स यतो मन्यतानभिक्रम्य होष्यामीति तत्तिष्ठन्नाश्रावयत्येषा वा अध्वर्योः प्रतिष्ठा
य एवं वेद प्रत्येव तिष्ठतीति ब्राह्मणम्
अथ वै भवति
यदभिक्रम्य जुहुयात्प्रतिष्ठाया इयात्
तस्मात्समानत्र तिष्ठता होतव्यं प्रतिष्ठित्या इति
तदेतदन्यत्र हविर्यज्ञेभ्योऽभिक्रामं जुहोतीति हविर्यज्ञेषु भवत्यथ वै भवति
यो वा अध्वर्योः स्वं वेद स्ववानेव भवति
स्रुग्वा अस्य स्वं वायव्यमस्य स्वं चमसोऽस्य स्वं
यद्वायव्यं वा चमसं वानन्वारभ्याश्रावयेत्स्वादियादिति
स वायव्यं चैव चमसं चान्वारभ्याश्रावयति
स्वादेव नैतीति ब्राह्मणम्
अथ वै भवति
यो वै सोममप्रतिष्ठाप्य स्तोत्रमुपाकरोत्यप्रतिष्ठितः सोमो भवत्यप्रतिष्ठित स्तोमोऽप्रतिष्ठितान्युक्थान्यप्रतिष्ठितो यजमानोऽप्रतिष्ठितोऽध्वर्युर्वायव्यं वै सोमस्य प्रतिष्ठा चमसोऽस्य प्रतिष्ठा सोम स्तोमस्य स्तोम उक्थानां ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यादित्युन्नयनँ ह्येव चमसस्य ग्रहणं स ग्रहं वैव गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति
प्रत्येव सोमँ स्थापयति प्रति स्तोमं प्रत्युक्थानि
प्रति यजमानस्तिष्ठति प्रत्यध्वर्युरिति ब्राह्मणम् २
14.3
अथ वै भवति
यज्ञं वा एतत्संभरन्ति यत्सोमक्रयण्यै पदं
यज्ञमुखँ हविर्धाने
यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यादिति
स यर्हि हविर्धाने प्राची प्रवर्तयति तर्हि तेन पदतृतीयेन पत्न्यक्षधुरमुपानक्ति

यज्ञमुख एव यज्ञमनुसंतनोतीति ब्राह्मणम्
अथ वै भवति
प्राञ्चमग्निं प्रहरन्त्युत्पत्नीमानयन्त्यन्वनाँ सि प्रवर्तयन्त्यथ वा अस्यैष धिष्णियो हीयते सोऽनुध्यायति स ईश्वरो रुद्रो भूत्वा प्रजां पशून्यजमानस्य शमयितोर्यर्हि पशुमाप्रीतमुदञ्चं नयन्ति तर्हि तस्य पशुश्रपणँ हरेदिति
स यर्हि पशुमाप्रीतमुदञ्चं नयन्ति तर्हि तस्य पशुश्रपणँ हरति
तेनैवैनं भागिनं करोतीति ब्राह्मणम्
अथ वै भवति
यजमानो वा आहवनीयो यजमानं वा एतद्विकर्षन्ते यदाहवनीयात्पशुश्रपणँ हरन्ति
स वैव स्यान्निर्मन्थ्यं वा कुर्यादिति
स यद्यहैनं करिष्यन्भवति नैनमन्वानयतेऽजस्र एवाप्येष दीप्यमानः शेते
यद्यु वा एनमन्वानयते तस्य पशुवेलायामुल्मुकमादायारणी उपसंगृह्य पूर्वः पशोः प्रतिपद्यते
निर्मन्थ्येनात्र पशुँ श्रपयन्ति
वपया तत्सहोल्मुकमाहरन्ति यजमानस्य सात्मत्वायेति ब्राह्मणम्
अथ वै भवति
यदि पशोरवदानं नश्येदाज्यस्य प्रत्याख्यायमवद्येदिति
स यावन्ति पशोरवदानानि नश्यन्ति तावत्कृत्व आज्यस्य प्रत्याख्यायमवद्यति
सैव ततः प्रायश्चित्तिरिति ब्राह्मणम्
अथ वै भवति
ये पशुं विमथ्नीरन्यस्तान्कामयेतार्तिमार्च्छेयुरिति कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे झुयादिति

स कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे जुहोति
नमोवृक्तिमेवैषां वृङ्क्ते
ताजगार्तिमार्च्छन्तीति ब्राह्मणं यद्यु वा एकचरं विमथ्नीते शामित्र एतां जुहोति
प्रज्ञातमुपाकरणस्योक्तमपाव्यानां चरणम्ब्राह्मणमुत्तरम् ३
14.4
अथ वै भवति
यो वा अयथादेवतं यज्ञमुपचरत्या देवताभ्यो वृश्च्यते पापीयान्भवति
यो यथादेवतं न देवताभ्य आवृश्च्यते वसीयान्भवत्याग्नेय्यर्चाग्नीध्रमभिमृशेद्वैष्णव्या हविर्धानमाग्नेय्या स्रुचो वायव्यया वायव्यान्यैन्द्रि या सदसिति
स आग्नेय्यर्चाग्नीध्रमभिमृशति वैष्णव्या हविर्धानमाग्नेय्या स्रुचो वायव्यया वायव्यान्यैन्द्रि या सदो यथादेवतमेव यज्ञमुपचरति
न देवताभ्य आवृश्च्यते वसीयान्भवतीति ब्राह्मणम्
उक्तमौदुम्बराणां महापरिधीनां परिधानम्
उक्तँ स्रुचाँ सादनम्
उक्तं पात्राणामभिमर्शनम्
अथ वै भवतीष्टर्गो वा अध्वर्युर्यजमानस्येष्टर्गः खलु वै पूर्वोऽर्ष्टुः क्षीयत आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या इति पुरा प्रातरनुवाकाज्जुहुयादिति
पुरा प्रातरनुवाकान्महारात्र उत्थायाग्नीध्र आसन्यां जुहोत्यासन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्याः स्वाहेत्यात्मन एव तदध्वर्युः पुरस्ताच्छर्म नह्यतेऽनार्त्या इति ब्राह्मणम्

अथ वै भवति
यो वै छन्दोभिरभिभवति स सँ सुन्वतोरभिभवतीति
स सँ सुन्वतोर्महारात्र उत्थायाग्नीध्रे तिस्रोऽभिभूतीर्जुहोत्य्संवेशाय त्वोपवेशाय त्वा गायत्रिया अभिभूत्यै स्वाहा संवेशाय त्वोपवेशाय त्वा त्रिष्टुभोऽभिभूत्यै स्वाहा संवेशाय त्वोपवेशाय त्वा जगत्या अभिभूत्यै स्वाहेत्यथ द्वे प्राणाहुती जुहोति प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टमित्यथ वै भवति
देवतासु वा एते प्राणापानयोर्व्यायच्छन्ते येषाँ सोमः समृच्छते
संवेशाय त्वोपवेशाय त्वेत्याह
छन्दाँ सि वै संवेश उपवेशश्छन्दोभिरेवास्य छन्दाँ सि वृङ्क्त इति ब्राह्मणम्
अथ वै भवति
यस्य भूयाँ सो यज्ञक्रतव इत्याहुः स देवता वृङ्क्त इति
यद्यग्निष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत इत्युक्थ्यं क्रतुमुपैति
यद्युक्थ्यः स्यादतिरात्रं कुर्वीतेत्यतिरात्रं क्रतुमुपैति
यज्ञक्रतुभिरेवास्य देवता वृङ्क्ते वसीयान्भवतीति ब्राह्मणम्
इति न्वा अध्वर्युतोऽथ छन्दोगतः
प्रेतिवन्ति चैतिवन्ति चाज्यानि भवन्त्यभिजित्यै
मरुत्वतीः प्रतिपदो विजित्ययुभे बृहद्र थंतरे भवत इति न्वै छन्दोगतोऽथ होतृतः
सजनीयँ शस्यं विहव्यँ शस्यमगस्त्यस्य कयाशुभीयँ शस्यमिति न्वा एकाहयाजिनोऽथ सत्त्रिणां महारात्र उत्थानं चैव समानं पञ्चाभिभूतीर्द्वे प्राणाहुती
ते यथाक्रत्वेव यन्त्यादिष्टान्येवाहान्युपयन्त्युक्तं निग्राभ्यासु वाचनम्
अथ वै भवत्योषधयो वै सोमस्य विशो विशः खलु वै राज्ञः प्रदातोरीश्वरा ऐन्द्र ः! सोम इति
सोऽभिषोष्यन्नोषधीभ्योऽधि राजानं निर्याचतेऽवीवृधं वो मनसा सुजाता ऋतप्रजाता भाग इद्वः स्याम । इन्द्रे ण देवीर्वीरुधः संविदाना अनुमन्यन्ताँ सवनाय सोममित्याहौषधीभ्य एवैनँ स्वायै विशः स्वायै देवतायै निर्याच्याभिषुणोतीति ब्राह्मणम्
अथ वै भवति
यो वै सोमस्याभिषूयमाणस्य प्रथमोऽँ! शु स्कन्दति स ईश्वर इन्द्रि यं वीर्यं प्रजां पशून्यजमानस्य निर्हन्तोस्तमभिमन्त्रयेतेति
स यः सोमस्याभिषूयमाणस्य प्रथमोऽँ! शु स्कन्दति तमभिमन्त्रयेता मास्कान्त्सह प्रजया सह रायस्पोषेणेन्द्रि यं मे वीर्यं मा निर्वधीरित्याशिषमेवैतामाशास्त इन्द्रि यस्य वीर्यस्य प्रजायै पशूनामनिर्घातायेति ब्राह्मणम्
अत्रैषा द्र प्सानुमन्त्रणीया
तामितराभिः सह वक्ष्यामोऽथ वै भवति ४
14.5
यो वै देवान्देवयशसेनार्पयति मनुष्यान्मनुष्ययशसेन देवयशस्येव देवेषु भवति मनुष्ययशसी मनुष्येषु
यान्प्राचीनमाग्रयणाद्ग्रहान्गृह्णीयात्तानुपाँ शु गृह्णीयाद्यानूध्वाँ र्! स्तानुपब्दिमत इति
स यान्प्राचीनमाग्रयणाद्ग्रहान्ग्रह्णाति तानुपाँ शु गृह्णाति
यानूध्वाँ र्! स्तानुपब्दिमतो देवानेव तद्देवयशसेनार्पयति मनुष्यान्मनुष्ययशसेन
देवयशस्येव देवेषु भवति मनुष्ययशसी मनुष्येष्विति ब्राह्मणं ते यत्र बहिष्पवमानँ स्रप्स्यन्तो भवन्ति तेषु समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोत्यग्निः प्रातःसवने पात्वस्मान्वैश्वानरो महिना विश्वशम्भूः । स नः पावको द्र विणं दधात्वायुष्मन्तः सहभक्षाः स्याम स्वाहेति
माध्यंदिने पवमाने तथैव समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानाँ सुमतौ स्याम स्वाहेत्यार्भवे पवमाने तथैव समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोतीदं तृतीयँ सवनं कवीनामृतेन ये चमसमैरयन्त । ते सौधन्वनाः सुवरानशानाः स्विष्टिं नो अभि वसीयो नयन्तु स्वाहेत्यथ वै भवत्यायतनवतीर्वा अन्या आहुतयो हूयन्तेऽनायतना अन्या या आघारवतीस्ता आयतनवतीर्याः सौम्यास्ता अनायतना ऐन्द्र वायवमादायाघारमाघारयेदिति
स ऐन्द्र वायवमादायाघारमाघारयत्यध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः पशवे नो जनाय । विश्वस्मै भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव सोम स्वाहेति
सौम्या एव तदाहुतीरायतनवतीः करोत्य्
आयतनवान्भवति य एवं वेदाथो द्यावापृथिवी एव घृतेन व्युनत्ति
ते व्युत्ते उपजीवनीये भवत उपजीवनीयो भवति य एवं वेदेति ब्राह्मणम्
अथ प्रतिप्रस्थातोत्तरार्ध आहवनीयस्य मन्थिनः सँ स्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथास्तं जुषस्व विदेर्गौपत्यँ रायस्पोषँ सुवीयँ र्! संवत्सरीणाँ स्वाहेत्यथ वै भवति
मनुः पुत्रेभ्यो दायं व्यभजत्
स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत्
स आगच्छत्
सोऽब्रवीत्कथा मा निरभागिति
न त्वा निरभाक्षमित्यब्रवीदङ्गिरस इमे सत्त्रमासते
ते सुवर्गं लोकं न प्रजानन्ति
तेभ्य इदं ब्राह्मणं ब्रूहि
ते सुवर्गं लोकं यन्तो य एषां पशवस्ताँ स्ते दास्यन्तीति
तदेभ्योऽब्रवीदिति
तत्पृच्छन्ति किमेभ्यस्तदुवाचेत्यपाव्यानि सन्तनीर्द्र प्सानुमन्त्रणीया अच्छावाकीया स्तोत्रीयाः शस्त्रीयाः सत्यं वदत श्रद्धा वो मा विगादित्येतदेभ्यस्तदुवाचेति
तं पशुभिश्चरन्तं यज्ञवास्तौ रुद्र आगच्छदित्युक्तस्यैष कर्मणोऽनुवादोऽथ द्वे प्रवृताहुती जुहोति
जुष्टो वाचो भूयासमृचा स्तोमँ समर्धयेत्युपरिष्टात्तृतीया
तामु तत्रैव वक्ष्यामोऽथ द्र प्साननुमन्त्रयते द्र प्सश्चस्कन्द यस्ते द्र प्सो यो द्र प्सो यस्ते द्र प्स इत्यथ वै भवत्यध्वर्युर्वा ऋत्विजां प्रथमो युज्यते तेन स्तोमो योक्तव्यसिति

ते यत्र बहिष्पवमानँ सर्पन्ति तत्प्रह्व एवाध्वर्युः प्रथमो बर्हिषी धुवानः सर्पति
वागग्रेगा अग्र एत्वृजुगा देवेभ्यो यशो मयि दधती प्राणान्पशुषु प्रजां मयि च यजमाने चेत्याह
वाचमेव तद्यज्ञमुखे युनक्तीति ब्राह्मणम्
अथ वै भवति
वास्तु वा एतद्यज्ञस्य क्रियते यद्ग्रहान्गृहीत्वा बहिष्पवमानँ सर्पन्ति
पराञ्चो हि यन्ति
पराचीभि स्तुवते
वैष्णव्यर्चा पुनरेत्योपतिष्ठत इति
स वैष्णव्यर्चा पुनरेत्योपतिष्ठते
यज्ञो वै विष्णुर्यज्ञमेवाकर्विष्णो त्वं नो अन्तमः शर्म यच्छ सहन्त्य । प्र ते धारा मधुश्चुत उत्सं दुह्रते अक्षितमित्याह
यदेवास्य शयानस्योपशुष्यति तदेवास्यैतेनाप्याययतीति ब्राह्मणम् ५
14.6
अथ वै भवति
यो वै पवमानानामन्वारोहान्विद्वान्यजतेऽनु पवमानानारोहति
न पवमानेभ्योऽवच्छिद्यत इति
बहिष्पवमाने पञ्चम्यां प्रस्तुतायां वाचयति श्येनोऽसि गायत्रच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेति
माध्यंदिने पवमानेऽष्टम्यां प्रस्तुतायां वाचयति सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति मा संपारयेत्यार्भवे पवमाने नवम्यां प्रस्तुतायां वाचयति सघासि जगतीच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेत्याहैते वै पवमानानामन्वारोहास्
तान्य एवं विद्वान्यजतेऽनु पवमानानारोहति
न पवमानेभ्योऽवच्छिद्यत इति ब्राह्मणम्

अथ वै भवति
यो वै पवमानस्य संततिं वेद सर्वमायुरेति
न पुरायुषः प्रमीयते
पशुमान्भवति
विन्दते प्रजां
पवमानस्य ग्रहा गृह्यन्तेऽथ वा अस्यैतेऽगृहीता द्रो णकलश आधवनीयः पूतभृत्तान्यदगृहीत्वोपाकुर्यात्पवमानं विच्छिन्द्यात्
तं विच्छिद्यमानमध्वर्योः प्राणोऽनु विच्छिद्येतोपयामगृहीतोऽसि प्रजापतये त्वेति द्रो णकलशमभिमृशेदिति
स प्रजापतये त्वेति द्रो णकलशमभिमृशतीन्द्रा य त्वेत्याधवनीयं
विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतं
पवमानमेव तत्संतनोति
सर्वमायुरेति
न पुरायुषः प्रमीयते
पशुमान्भवति
विन्दते प्रजामिति ब्राह्मणम्
अथ वै भवति
त्रीणि वाव सवनान्यथ तृतीयँ सवनमवलुम्पन्त्यनँ शु कुर्वन्त उपाँ शुँ हुत्वोपाँ शुपात्रेऽँ! शुमवास्य तं तृतीयसवनेऽपिसृज्याभिषुणुयादिति
स य एवैष उपाँशुपात्रेँऽशुः प्रास्तो भवति तं माध्यंदिनीय ऋजीषेऽपिसृज्याभिषुणोति
यदाप्याययति तेनाँ शुमद्यदभिषुणोति तेनर्जीषि
सर्वाण्येव तत्सवनान्यँ शुमन्ति शुक्रवन्ति समावद्वीर्याणि करोतीति ब्राह्मणम् ६

अथातो दीर्णप्रवृत्तानामेव मीमाँ सा
द्रो णकलशे दीर्णे वा प्रवृत्ते वा पात्र्! यां चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने विधुं दद्रा णँ समने बहूनां युवानँ सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान स्वाहेत्य्
अथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य तस्य स्वधाँ संभरति भूतिः सोमेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति
स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति
स यद्यु ह दीर्णो भवति प्रतिलिम्पत्येनं यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाप्तुं प्रस्कन्दयत्याधवनीये दीर्णे वा प्रवृत्ते वा तथैव पात्र्! यां चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने द्वौ समुद्रौ विततावजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अतियन्त्यन्यमपश्यन्तः सेतुनातियन्त्यन्यँ स्वाहेत्यथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य तस्य तथैव स्वदाँ संभरति भूतिः सोमेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति
स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति
स यद्यु ह दीर्णो भवति प्रतिलिम्पत्येनं यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाप्तुं प्रस्कन्दयति
पूतभृति दीर्णे वा प्रवृत्ते वा तथैव पात्र्! यां चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने द्वे द्र धसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान्। तिरोधायैत्यसितं वसानः शुक्रमादत्ते अनुहाय जार्यै स्वाहेत्य्
अथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य तस्य तथैव स्वधाँ संभरति भूतिः सोमेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति
स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति
स यद्यु ह दीर्णो भवति प्रतिलिम्पत्येनं यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाप्तुं प्रस्कन्दयत्याग्रयणे दीर्णे वा प्रवृत्ते वा तस्य पुरोरुचा हुत्वोच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी द्रो णकलशादेवाप्तुं प्रस्कन्दयत्य्
अथान्यस्मिन्ग्रहे दीर्णे वा प्रवृत्ते वा तस्यैव पुरोरुचा हुत्वोच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाप्तुं प्रस्कन्दयति ७
14.8
अथ वै भवति
देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत
ते देवा एतं महायज्ञमपश्यन्
तमतन्वताग्निहोत्रं व्रतमकुर्वत
तस्माद्द्विव्रतः स्याद्द्विर्ह्यग्निहोत्रं जुह्वति
पौर्णमासं यज्ञमग्नीषोमीयं पशुमकुर्वत
दार्श्यं यज्ञमाग्नेयं पशुमकुर्वत
वैश्वदेवं प्रातःसवनमकुर्वत
वरुणप्रघासान्माध्यंदिनँ सवनँ साकमेधान्पितृयज्ञं त्र्यम्बकाँ स्तृतीयसवनमकुर्वतेति
तत्पृच्छन्ति कतमः स महायज्ञ इत्ययमेव चातुर्मास्यः सोम उक्तो भवत्यथो खलु य एव कश्च सौम्योऽध्वरः स महायज्ञस्

तमेषामसुरा यज्ञमन्ववाजिगाँ सन्
तं नान्ववायन्
तेऽब्रुवन्नध्वर्तव्या वा इमे देवा अभूवन्निति
तदध्वरस्याध्वरत्वं
ततो देवा अभवन्परासुरा य एवं विद्वान्त्सोमेन यजते भवत्यात्मना परास्य भ्रातृव्यो भवतीति ब्राह्मणम्
अथ समस्तँ राजानमुपतिष्ठते परिभूरग्निं परिभूरिन्द्रं परिभूर्विश्वान्देवान्परिभूमाँ र्! सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शमर्वते शँ राजन्नोषधीभ्योऽच्छिन्नस्य ते रयिपते सुवीर्यस्य रायस्पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदमुन्मृज इति
चत्वारो ब्राह्मणसंपन्नाः कामास्तेषां यं कामं कामयते तमादिश्योन्मृष्टेऽथावकाशैश्चरति
प्राणाय मे वर्चोदा वर्चसे पवस्वेत्युपाँ शुपात्रमवेक्षतेऽपानायेत्यन्तर्यामपात्रम्व्यानायेत्युपाँ शुसवनम्वाच इत्यैन्द्र वायवं दक्षक्रतुभ्यामिति मैत्रावरुणं श्रोत्रायेत्याश्विनं चक्षुर्भ्यामिति शुक्रामन्थिनवात्मन इत्याग्रयणम्
अङ्गेभ्य इत्युक्थ्यम्
आयुष इति ध्रुवम्प्रतिष्ठाया इत्यृतुपात्रे माध्यंदिने सवने
न प्रातःसवने
वीर्यायेत्यतिग्राह्यं वा षोडशिनं वावेक्षते
 विष्णोर्जठरमसीति द्रो णकलशमवेक्षत इन्द्र स्य जठरमसीत्याधवनीयं विश्वेषां देवानां जठरमसीति पूतभृतम्
अथ समस्तमेव राजानमुपतिष्ठते कोऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदँ सुप्रजाः प्रजया भूयासँ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर्विश्वेभ्यो मे रूपेभ्यो वर्चोदा वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदमुन्मृज इति

चत्वारो ब्राह्मणसंपन्नाः कामास्तेषां यं कामं कामयते तमादिश्योन्मृष्ट आयुरुन्मृजे भूतिमुन्मृजे ब्रह्मवर्चसमुन्मृजेऽमुष्य प्राणमुन्मृज इदमुन्मृज इति
यमेव तर्पयति
स एनं तृप्तः प्राणापाआभ्यां वाचो दक्षक्रतुभ्यां चक्षुभ्याँ र्! श्रोत्राभ्यामात्मनोऽङ्गेभ्य आयुषोऽन्तरेति
ताजक्प्रधन्वतीति ब्राह्मणम्
उक्तँ स्फ्यविघनानामुपस्थानम्
उक्तँ संप्रसर्पणस्योक्तो भक्षानुवाकः ८
14.9
उक्तं पृषदाज्यस्याविकृतस्य ग्रहणम्
उक्तो दधिघर्मोऽथ वै भवति
यत्कृष्णशकुनः पृषदाज्यमवमृशेच्छूद्रा अस्य प्रमायुकाः स्युर्यच्छ्वावमृशेच्चतुष्पादोऽस्य पशवः प्रमायुकाः स्युर्यत्स्कन्देद्यजमानः प्रमायुकः स्यादित्यथ वै भवति
पशवो वै पृषदाज्यं
पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यँ स्कन्दति
यत्पृषदाज्यं पुनर्गृह्णाति पशूनेवास्मै पुनर्गृह्णादिति ब्राह्मणम्
अथ वै भवति
प्राणो वै पृषदाज्यं
प्राणो वा एतस्य स्कन्दति यस्य पृषदाज्यँ स्कन्दति
यत्पृषदाज्यं पुनर्गृह्णाति प्राणमेवास्मै पुनर्गृह्णाति

हिरण्यमवधाय गृह्णातीति
स्कन्ने पृषदाज्ये कँ सं वा चमसं वा याचति
तमन्तर्वेदि निधाय तस्य स्वधाँ संभरति भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति
स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेत्यथैतस्याँ स्रुच्यवदधाति शतमानँ हिरण्यं नित्ये ग्रहणे वैष्णवीमृचमनुवर्तयति विष्णो त्वं नो अन्तम इत्यपोद्धृत्य हिरण्यमश्वमवघ्राप्य सादयत्यथातोऽमेध्यभूतस्यैव श्वावघ्रातस्य ध्वाङ्क्षावमृष्टस्य कीटावपन्नस्येति यदु चान्यदमेध्यं मन्यते
सर्वश एवैताँ स्रुचमप्सु प्रवेश्याथान्यस्याँ स्रुच्यवदधाति शतमानँ हिरण्यं नित्ये ग्रहणे वैष्णवीमृचमनुवर्तयति विष्णो त्वं नो अन्तम इत्यपोद्धृत्य हिरण्यमश्वमवघ्राप्यैव सादयत्यथ वै भवति
वि वा एतस्य यज्ञश्छिद्यते यस्य पृषदाज्यँ स्कन्दति
वैष्णव्यर्चा पुनर्गृह्णातीति
स वैष्णव्यर्चा पुनर्गृह्णाति
यज्ञो वै विष्णुर्यज्ञेनैव यज्ञँ संतनोतीति ब्रामणं ते यत्रान्तःशालं प्रचरिष्यन्तो भवन्ति तदाह ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभिष्टुहीति
तद्ब्रह्मा प्रसौति देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यॐ प्रचरतेति प्रतिष्ठेतीह हविर्यज्ञेषु भवति

यत्राह ब्रह्मन्स्तोष्यामः प्रशास्तरिति तद्ब्रह्मा प्रसौति देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मायुष्मत्या ऋचो मा गात तनूपात्साम्नः सत्या व आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे भूरिन्द्र वन्त स्तुतेति प्रातःसवने
भुव इन्द्र वन्त स्तुतेति माध्यंदिने
सुवरिन्द्र वन्त स्तुतेति तृतीयसवने
स्तुते स्तुतस्य दोहं वाचयति स्तुतस्य स्तुतमस्यूर्जं मह्यँ स्तुतं दुहामा मा स्तुतस्य स्तुतं गम्यादिति
शस्त्रे शस्त्रस्य दोहं वाचयति शस्त्रस्य शस्त्रमस्यूर्जं मह्यँ शस्त्रं दुहामा मा शस्त्रस्य शस्त्रं गम्यादिति
तयोरुभयोरभ्यासं वाचयतीन्द्रि यावन्तो वनामहे धुक्षीमहि प्रजामिषं सा मे सत्याशीर्देवेषु भूयाद्ब्रह्मवर्चसं मागम्यादित्यथ यज्ञस्य पुनरालम्भं जपति यज्ञो बभूव स आ बभूव स प्रजज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माँ धिपतीन्करोतु वयँ स्याम पतयो रयीणामित्यथ वै भवति
यज्ञो वा वै यज्ञपतिं दुहे यज्ञपतिर्वा यज्ञं दुहे
स य स्तुतशस्त्रयोर्दोहमविद्वान्यजते तं यज्ञो दुहे
स इष्ट्वा पापीयान्भवति
य एनयोर्दोहं विद्वान्यजते स यज्ञं दुहे
स इष्ट्वा वसीयान्भवति
स्तुतस्य स्तुतमस्यूर्जं मह्यँ स्तुतं दुहामा मा स्तुतस्य स्तुतं गम्याच्छस्त्रस्य शस्त्रमस्यूर्जं मह्यँ शस्त्रं दुहामा मा शस्त्रस्य शस्त्रं गम्यादित्याहैष वै स्तुतशस्त्रयोर्दोहस्

तं य एवं विद्वान्यजते दुह एव यज्ञम्
इष्ट्वा वसीयान्भवतीति ब्राह्मणम्
उक्तँ होत्रकाणाँ संतर्पणम्
उक्तानि वैश्वकर्मणान्युक्तमाशिरोऽवनयनम्
उक्ता ध्रुवस्य चर्याथ वै भवति ९
14.10
यद्वै होताध्वर्युमभ्याह्वयते वज्रमेनमभि प्रवर्तयत्युक्थशा इत्याह प्रातःसवनं प्रतिगीर्येति
स उक्थमुक्थं वैव प्रतिगीर्योक्थशा इत्याह सवनँ सवनं वोक्थं वाचीत्याह माध्यंदिनँ सवनं प्रतिगीर्योक्थं वाचीन्द्रा येत्याह तृतीयसवनं प्रतिगीर्य
सप्तैतान्यक्षराणि
सप्तपदा शक्वरी
शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रमन्तर्धत्त इति ब्राह्मणम्
अथ वै भवति
ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद्यो यथासवनं प्रतिगरे छन्दाँ सि संपादयेत्
तेजः प्रातःसवन आत्मन्दधीतेन्द्रि यं माध्यंदिने सवने पशूँ स्तृतीयसवन इत्युक्थशा इत्याह प्रातःसवनं प्रतिगीर्योक्थं वाचीत्याह माध्यंदिनँ सवनं प्रतिगीर्योक्थं वाचीन्द्रा येत्याह तृतीयसवनं प्रतिगीर्य
सप्तैतान्यक्षराणि
सप्तपदा शक्वरी
शाक्वराः पशवो जागतं तृतीयसवनं
तृतीयसवन एव प्रतिगरे छन्दाँ सि संपादयत्यथो पशवो वै जगती
पशवस्तृतीयसवनं
पशूनेव तृतीयसवन आत्मन्धत्त इति ब्राह्मणम्

अथ वै भवति
यद्वै होताध्वर्युमभ्याह्वयत आव्यमस्मिन्दधाति
तद्यन्नापहनीत पुरास्य संवत्सराद्गृह आवेवीरन्शोँ सा मोद इवेति प्रत्याह्वयत इति
सोऽभ्याहूतः शोँ सा मोद इवेति प्रत्याह्वयते
तेनैव तदपहत इति ब्राह्मणम्
अथ वै भवति
यथा वा आयतां प्रतीक्षत एवमध्वर्युः प्रतिगरं प्रतीक्षते
यदभिप्रतिगृणीयाद्यथायतया समृच्छते तादृगेव तद्यदर्धर्चाल्लुप्येत यथा धावद्भ्यो हीयते तादृगेव तत्
तदाहुर्नाशाप्रतिगरी स्यादाशाप्रतिगरी ह वा अभि वा प्रतिगृणात्यर्धर्चाद्वा लुप्यते
प्रणौतीत्येव प्रणौयादपानितीत्येवापान्याद्य एवं विद्वान्प्रतिगृणात्यन्नाद एव भवत्यास्य प्रजायां वाजी जायत इति ब्राह्मणम्
अथ वै भवतीयं वै होतासावध्वर्युर्यदासीनः शँ सत्यस्या एव तद्धोता नैत्यास्त इव हीयम्
अथो इमामेव तेन यजमानो दुहे
यत्तिष्ठन्प्रतिगृणात्यमुष्या एव तदध्वर्युर्नैति
तिष्ठतीव ह्यसवथो अमुमेव तेन यजमानो दुहे
यदासीनः शँ सति तस्मादितःप्रदानं देवा उपजीवन्ति
यत्तिष्ठन्प्रतिगृणाति तस्मादमुतःप्रदानं मनुष्या उपजीवन्ति
यत्प्राङासीनः शँ सति

प्रत्यङ्तिष्ठन्प्रतिगृणाति तस्मात्प्राचीनँ रेतो धीयते प्रतीचीः प्रजा जायन्ते इति ब्राह्मणम्
अथ वै भवति
यद्वै होताध्वर्युमभ्याह्वयते वज्रमेनमभि प्रवर्तयति
पराङावर्तत इति
सोऽभ्याहूतः पराङावर्तते
वज्रमेव तन्निकरोतीति ब्राह्मणम्
उक्तं प्रतिनिर्ग्राह्याणां ग्रहणम्
उक्तँ सँ स्रावस्यापिधानम्
उक्तमुपाँ श्वन्तर्यामयोरनुमन्त्रणम्
उक्ता द्विदेवत्यानां चर्या १०
14.11
अथातोऽतिग्राह्याणामेव ग्रहणं स यद्येको यदि वा बहव आग्रयणमेवैनान्गृहीत्वा गृह्णाति
माहेन्द्र स्यैव होममनु हूयन्ते
स आग्नेयं गृह्णात्यग्न आयूँ षि पवस इत्यनुद्रुत्योपयामगृहीतोऽस्यग्नये त्वा तेजस्वते जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरग्नये त्वा तेजस्वत इत्यथैनँ होष्यन्नवेक्षतेऽग्ने तेजस्विन्तेजस्वी त्वं देवेषु भूयास्तेजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति
जुहोति दीक्षायै च त्वा तपसश्च तेजसे जुहोमीति
हुत्वा वाचयति तेजोविदसि तेजो मा मा हासीन्माहं तेजो हासिषं मा मां तेजो हासीदिति
भक्षयति मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधात्वित्यथैन्द्रं गृह्णात्युत्तिष्ठन्नोजसा सहेत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वौजस्वते जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वौजस्वत इत्य्
अथैनँ होष्यन्नवेक्षत इन्द्रौ जस्विन्नोजस्वी त्वं देवेषु भूया ओजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति
हुत्वा वाचयत्योजोविदस्योजो मा मा हासीन्माहमोजो हसिषं मा मामोजो हासीदिति
भक्षयति मयि मेधां मयि प्रजां मयीन्द्र इन्द्रि यं दधात्वित्यथ सौर्यर्चा सौर्यं गृह्णाति तरणिर्विश्वदर्शत इत्यनुद्रुत्योपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वते जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिः सूर्याय त्वा भ्राजस्वत इत्यथैनँ होष्यन्नवेक्षते सूर्य भ्राजस्विन्भ्राजस्वी त्वं देवेषु भूया भ्राजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति
जुहोति वायोश्च त्वापां च भ्राजसे जुहोमीति
हुत्वा वाचयति सुवर्विदसि सुवर्मा मा हासीन्माहँ सुवर्हासिषं मा माँ सुवर्हासीदिति
भक्षयति मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधात्विति
ते वा एते पृष्ठ्यस्य षडहस्योत्तरेष्वहःसु गृह्यन्त एकविँ शे त्रिणवे त्रयस्त्रिँ शे
विश्वजिति सर्वपृष्ठे ग्रहीतव्या यज्ञस्य सवीर्यत्वायाप्यग्निष्टोमे ग्रहीतव्या यज्ञस्य सतनुत्वायेति ब्राह्मणम्
अथोपाकरणं जपति वायुर्हिंकर्तेत्यार्त्विज्यं वा करिष्यञ्छस्त्रं वा प्रतिगरिष्यन्नेतद्यजुर्जपतीडा देवहूरिति

प्रियो हैवार्त्विज्यस्य भवति
प्रश्नँ संव्याख्यास्यन्नेतद्यजुर्जपन्सभां प्रपद्यतेऽभि हैव तं प्रश्नं जयति ११
14.12
अथातोऽँ! श्वदाभ्ययोरेव ग्रहणम्
अँ श्वदाभ्यौ ग्रहीष्यन्नुपकल्पयते द्वे औदुम्बरे नवे पात्रे तयोश्चतुःस्रक्त्यँ शुपात्रं भवति श्लक्ष्णमदाभ्यपात्रं ते सुवर्णरजताभ्याँ रुक्माभ्यां पर्यस्ते भवतः शतमानं च हिरण्यम्
अथोपनद्धस्य राज्ञस्त्रीनँ शून्प्रबृहति वसवस्त्वा प्रबृहन्तु गायत्रेण छन्दसाग्नेः प्रियं पाथ उपेहि रुद्रा स्त्वा प्रबृहन्तु त्रैष्टुभेन छन्दसेन्द्र स्य प्रियं पाथ उपेह्यादित्यास्त्वा प्रबृहन्तु जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथ उपेहीत्यथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य द्वादशभिराधावैराधूनोति मान्दासु ते शुक्र शुक्रमाधूनोमीति प्रतिपद्य शुक्रासु ते शुक्र शुक्रमाधूनोमीत्यातोऽथैतस्मिन्नदाभ्यपात्रेऽँ! शूनुपसंगृह्य गृह्णाति शुक्रं ते शुक्रेण गृह्णाम्यह्नो रूपेण सूर्यस्य रश्मिभिः । आस्मिन्नुग्रा अचुच्यवुर्दिवो धारा असश्चतेत्यथैनमादायोपोत्तिष्ठति ककुहँ रूपं वृषभस्य रोचते बृहदित्यैति सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगा इत्येत्याहवनीये जुहोत्यन्वारब्धे यजमाने यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेत्यथ प्रदक्षिणमावृत्य राजन्येवाँ शूनपिसृजत्युशिक्त्वं देव सोम गायत्रेण छन्दसाग्नेः प्रियं पाथो अपीहि वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्र स्य प्रियं पाथो अपीह्यस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथो अपीहीत्य्
अथाह प्रतिप्रस्थातरुदकँ सेन वा मोदचमसेन वा जघनेनाहवनीयं प्रत्युपलम्बस्वेति
स तथा करोत्यथैतद्धिरण्यमद्भिः प्रक्षाल्य मध्यमायामङ्गुलौ बध्नीते नासिकायां वा प्रग्रथ्नात्यथ सकृदभिषुतस्य राज्ञोऽँ! शुं गृह्णाति वामदेव्यमिति साम मनसा गायमानोऽनवानम्प्रजापतये त्वेति गृह्णाति प्रजापतये त्वेति जुहोत्यथ हिरण्यमभिव्यनित्या नः प्राण एतु परावत आन्तरिक्षाद्दिवस्परि । आयुः पृथिव्या अध्यमृतमसि प्राणाय त्वेत्यथान्तर्वेद्यद्भिर्मार्जयत इन्द्रा ग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना ॥
दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत्। परि विश्वानि काव्या नेमिश्चक्रमिवाभवदित्यध्वर्योरेतद्धिरण्यं भवति
ब्राह्मणमुत्तरम् १२
14.13
अथातः पृश्नीनामेव ग्रहणं संतृप्तँ राजानं दशधा व्यूह्याभिमृशति वायुरसि प्राणो नामेति दशभिर्दश
ते वा एते संवत्सरस्याक्षीयेष्वहःसु गृह्यन्ते

यत्र क्व चैवैनान्गृह्णीयादित्येतदपरम्
अथातः परःसाम्नामेव ग्रहणं ते वा एते परःसामानः पुरस्ताद्वैषुवतात्त्र्! यहमन्वहमितः पराञ्चो गृह्यन्तेऽथ वैषुवतेऽह्नि पराञ्चश्चार्वाञ्चश्च गृह्यन्तेऽथोर्ध्वं वैषुवतात्त्र्! यहमन्वहमावृत्तानेव गृह्णाति
प्रजापतिर्देवासुरानसृजतेति ब्राह्मणमेवाथ वै भवत्यावृश्च्यते वा एतद्यजमानोऽग्निभ्यां यदेनयोः शृतंकृत्याथान्यत्रावभृथमवैत्यायुर्दा अग्ने हविषो जुषाण इत्यवभृथमवैष्यञ्जुहुयादिति
सोऽवभृथमवैष्यन्नायुर्दां दशमीं जुहोत्यायुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमाँ स्वाहेत्याहुत्यैवैनौ शमयति नार्तिमार्च्छति यजमान इति ब्राह्मणम्
उक्तं बर्हिषः पर्युपोषणम्
उक्तँ सक्तुहोमस्याथ वै भवति
यदि मिश्रमिव चरेदञ्जलिना सक्तून्प्रदाव्ये जुहुयादिति
स्नातकः पुरूषमानोऽरण्ये प्रदाव्यं दहन्तमुपाधिगम्याञ्जलिनोपस्तीर्णाभिघारितान्सक्तून्प्रदाव्ये जुहोति विश्वलोप विश्वदावस्य त्वासञ्जुहोमि स्वाहेति

हस्तौ प्रध्वँ सयतेऽग्धादेकोऽहुतादेकः समसनादेकः । ते नः कृण्वन्तु भेषजँ सदः सहो वरेण्यमित्यथैनं त्रिभिर्दर्भपुञ्जीलैः पवयति पवमानः सुवर्जन इत्येतेनाष्टर्चेन
शुद्धो हैव शुचिः पूतो मेध्यो भवत्यथ वै भवत्यह्नां विधान्यामेकाष्टकायामपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षमुपोषेदिति
समां विजिज्ञासमानो महारात्र उत्थायाह्नां विधान्यामेकाष्टकायामपूपं चतुःशरावं पक्त्वा प्रातरुदित आदित्ये विप्रुषित आददत एतमपूपमुपस्तीर्णाभिघारितं पर्णसेवाभ्यां परिगृह्य
तत्सह पूतितृणानि भवन्त्यन्तमागारादेकोल्मुकमुदपात्रमित्येतत्समादाय तां दिशं यन्ति यत्रास्य कक्ष स्पष्टो भवति
तदेतदेकोल्मुकमुपसमाधायापूपमादीपयति पर्णसेवाभ्यां परिगृह्य
तत्सह पूतितृणानि भवन्ति
तेन कक्षमुपोषत्यथैनमुद्गृह्णात्यत्र विज्ञानमुपैति
यदि दहति पुण्यसमं भवति यदि न दहति पापसमम्
एतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्त्रमुपयन्तीति ब्राह्मणम्
अत्रैतमपूपं प्राश्याप उपस्पृश्य गृहानेत्यृषभो गोषु जीर्यति तेन यक्ष्यमाणो भवति

तस्य तदुपकॢप्तं भवति यत्पशुना यक्ष्यमाणस्याथ यद्युत्स्रक्ष्यन्भवति तस्य निहत्य दक्षिणं कर्णमाजपति शिवस्त्वष्टः पिशङ्गरूप इति द्वाभ्याम्
अथैनं गोष्वपिसृजते १३
14.14
एतं युवानं परि वो ददामीत्यपियन्तमनुमन्त्रयते त्वां गावोऽवृणत राज्याय त्वाँ हवन्त मरुतः स्वर्काः । वर्ष्मन्क्षत्रस्य ककुभि शिश्रियाणस्ततो न उग्रो विभजा वसूनीत्यथेतरं त्वाष्ट्रं वैन्द्रं वा प्राजापत्यं वा पशुमालभत एता हि साण्डस्य देवतास्
तस्योपाकरणीययोरनुवर्तयति नमो महिम्न उत चक्षुषे त इत्यथास्य वपां जुहोति देवानामेष उपनाह आसीदित्यथास्य हविर्जुहोति पिता वत्सानां पतिरघ्नियानामिति
समानमुत्तरं पशुकर्म
वशया यक्ष्यमाण आह गर्भमीक्षध्वमिति
ते चेद्गर्भं पश्यन्ति संप्रच्छाद्य वशां वपयाद्र वन्त्यथास्यै वपां जुहोति सूर्यो देवो दिविषद्भ्यो धाता क्षत्राय वायुः प्रजाभ्यः । बृहस्पतिस्त्वा प्रजापतये ज्योतिष्मतीं जुहोतु स्वाहेति
वशामनुमन्त्रयते यस्यास्ते हरितो गर्भोऽथो योनिर्हिरण्ययी । अङ्गान्यह्रुता यस्यै तां देवैः समजीगममित्यथ याचत्यष्टाप्रूड्ढिरण्यं कोशं चान्तरकोशं च वासश्चोष्णीषं चाथैतद्धिरण्यमद्भिः प्रक्षाल्य वाससोपनह्योष्णीषेण विग्रथ्य दह्रे कोशेऽवधाय महति कोशेऽवदधाति
स आह प्रत्यञ्चं गर्भमन्तरेण सक्थिनी प्रतिनिवर्तयतेति
तं निवर्त्यमानमनुमन्त्रयत आ वर्तन वर्तय नि निवर्तन वर्तयेन्द्र नर्दबुद । भूम्याश्चतस्रः प्रदिशस्ताभिरावर्तया पुनरित्युल्बाद्गर्भं विस्रस्यमानमनुमन्त्रयते वि ते भिनद्मि तकरीम्वि योनिं वि गवीन्यौ । वि मातरं च पुत्रं च वि गर्भं च जरायु च । बहिस्ते अस्तु बालितीत्यथैतं गभँ र्! संदँ शेन परिगृह्याद्भिरभ्युक्ष्य शामित्रे प्रतितपति
तस्याभ्यर्धाद्वसाहोमं प्रश्चोतयत्यथैतं गर्भमन्तरेण चात्वालोत्करावन्तरेण यूपं चाहवनीयं चोपातिगृत्य तं दक्षिणतः प्राञ्चमायातयन्पञ्चहोत्रा सादयत्यथ वशायै हविषा चरत्यथ पुरस्तात्स्विष्टकृतो गर्भस्यावद्यन्नाह विष्णवे शिपिविष्टायानुब्रूहीत्यथ वै भवति
पुरस्तान्वै नाभ्या अन्यदवद्येदुपरिष्टादन्यदिति
स पुरस्तान्नाभ्या अन्यदवद्यत्युपरिष्टादन्यद्द्विरभिघारयत्याश्राव्याह विष्णुँ शिपिविष्टं यजेति
वषट्कृते जुहोत्युरुद्र प्सो विश्वरूप इन्दुः पवमानो धीर आनञ्ज गर्भम्। एकपदी द्विपदी त्रिपदी चतुष्पदी पञ्चपदी षट्पदी सप्तपद्यष्टापदी भुवनानु प्रथताँ स्वाहेत्य्
अथ स्विष्टकृता चरत्यथैतं गर्भं यथाहृतं प्रतिपर्याहृत्योत्तरार्ध आहवनीयस्य प्रत्यञ्चमायात्य भस्मनाभिसमूहति मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षतां पिपृतां नो भरीमभिरित्यध्वर्योरेतत्कोशमिश्रं भवति
ब्राह्मणमुत्तरम् १४
14.15
अजवशया यक्ष्यमाणो भवति
स यान्यहान्यमेघसंपन्नानि मन्यते तेष्वाग्नेयमष्टाकपालं निर्वपति
या एता ब्राह्मणाभिविहिता देवतास्तासामेनामेकस्यै देवताया आलभते
तस्या उपाकरणीययोरनुवर्तयत्या वायो भूष शुचिपा इति
नियोजनेऽनुवर्तयत्याकूत्यै त्वा कामाय त्वा समृधे त्वेति
पर्यग्नौ क्रियमाणे पञ्च किक्किटाकारं जुहोति किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते प्राणं वायवे स्वाहा किक्किटा ते चक्षुः सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँ स्वाहा किक्किटा ते वाचँ सरस्वत्यै स्वाहेत्यथैनामन्तरेण चात्वालोत्करावुदीचीं नीयमानामनुमन्त्रयते त्वं तुरीया विशिनी वशासि सकृद्यत्त्वा मनसा गर्भ आशयत्। वशा त्वं विशिनी गच्छ देवान्त्सत्याः सन्तु यजमानस्य कामा इत्युपासनेऽनुवर्तयत्यजासि रयिष्ठा पृथिव्याँ सीदोर्ध्वान्तरिक्षमुपतिष्ठस्व दिवि ते बृहद्भा इत्य्
अथास्यै वपां जुहोति तन्तुं तन्वन्रजसो भानुमन्विहीत्यथास्यै हविर्जुहोति मनसो हविरसि प्रजापतेर्वर्ण इत्यथास्या अवदानानां प्राश्नाति गात्राणां ते गात्रभाजो भूयास्मेत्यथ वै भवति
तस्यै वा एतस्या एकमेवादेवयजनं यदालब्धायामभ्रो भवति
यदालब्धायामभ्रः स्यादप्सु वा प्रवेशयेत्सर्वं वा प्राश्नीयादित्युत्सन्नमेतस्या अप्सु प्रवेशनम्
एतेनैवास्यै मन्त्रेणावदानानां प्राश्याथेतरदग्नावनुप्रहरेदिति बौधायनोऽनुनिधायमेनामद्यादित्याञ्जीगविरित्यथ वै भवति
सा वा एषा त्रयाणामेवावरुद्धा संवत्सरसदः सहस्रयाजिनो गृहमेधिनस्
त एवैतया यजेरन्
तेषामेवैषाप्तेति
तेषामु हैवैनयैको यजते १५
14.16
अथातो जयानामेव होमो जयान्होष्यनुपकल्पयते बाधकँ स्रुवं च स्रुचं च बाधकान्परिधीञ्छरमयं बर्हिर्वैभीदकमिध्ममित्यथ वृथाग्निमुपसमाधाय शरमयं बर्हि स्तीर्त्वा बाधकान्परिधीन्परिधाय वैभीदकमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय बाधकेन स्रुवेणोपघातं जुहोति चित्तं च स्वाहा चित्तिश्च स्वाहेति त्रयोदश स्रुवाहुतीरपि वा बाधकेन स्रुवेण बाधक्याँ स्रुचि चतुर्गृहीतं गृहीत्वा सर्वान्मन्त्रान्समनुद्रुत्य जुहोति चित्तं च चित्तिश्चाकूतं चाकूतिश्च विज्ञातं च विज्ञानं च मनश्च शक्वरीश्च दर्शश्च पूर्णमासश्च बृहच्च रथंतरं च प्रजापतिर्जयानिन्द्रा य वृष्णे प्रायच्छदुग्रः पृतनाज्येषु तस्मै विशः समनमन्त सर्वाः स उग्रः स हि हव्यो बभूव स्वाहेत्य्
अथ वै भवति
देवासुराः संयत्ता आसन्स इन्द्र ः! प्रजापतिमुपाधावत्
तस्मा एताञ्जयान्प्रायच्छत्
तानजुहोत्
ततो वै देवा असुरानजयन्
यदजयन्तज्जयानां जयत्वं स्पर्धमानेनैते होतव्या जयत्येव तां पृतनामिति ब्राह्मणम्
अथ वै भवति
येन कर्मणेर्त्सेत्तत्र होतव्या इति
स यत्कर्मेर्त्सेदिदं मे समृध्येतेति तस्मिन्नभ्यातानाञ्जुहुयादित्यभ्यातानान्होष्यन्नुपकल्पयते पर्णमयँ स्रुवं च स्रुचं च पर्णमयान्परिधीन्कुशमयं बर्हिः पर्णमयमिध्ममित्यथ वृथाग्निमुपसमाधाय कुशमयं बर्हि स्तीर्त्वा पर्णमयान्परिधीन्परिधाय पर्णमयमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय पर्णमयेन स्रुवेणोपघातं जुहोत्यग्निर्भूतानामधिपतिः स मावत्विति सप्तदश स्रुवाहुतीर्हुत्वा वाचयति पितरः पितामहासित्यपि वा पर्णमयेन स्रुवेण पर्णमय्याँ स्रुचि चतुर्गृहीतं गृहीत्वा सर्वान्मन्त्रान्समनुद्रुत्य हुत्वान्ततो वाचयति पितरः पितामहा इत्यथ समस्तानामेव होमोऽभ्यातानानेवाग्रे जुहुयादथ जयानथ राष्ट्रभृतो ब्राह्मणमुत्तरम् १६
14.17
अथ वै भवति
राष्ट्रकामाय होतव्या इति
राष्ट्रकामाय होष्यन्नुपकल्पयते शम्यापरिधीनित्यथ वृथाग्निमुपसमाधाय शम्यापरिधीन्परिधाय निशायाँ शम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोति ऋताषाडृतधामेति
राष्ट्रं वै राष्ट्रभृतो राष्ट्रेणैवास्मै राष्ट्रमवरुन्द्धे
राष्ट्रमेव भवतीति ब्राह्मणम्
अथ वै भवत्यात्मने होतव्या इत्यात्मने होष्यन्वृथाग्निमुपसमाधाय निशायाँ शम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोति
राष्ट्रं वै राष्ट्रभृतो राष्ट्रं प्रजा राष्ट्रं पशवो राष्ट्रं यच्छ्रेष्ठो भवति राष्ट्रेणैव राष्ट्रमवरुन्द्धे
वसिष्ठः समानानां भवतीति ब्राह्मणम्
अथ वै भवति
ग्रामकामाय होतव्या इति
ग्रामकामाय होष्यन्नधिदेवने वृथाग्निमुपसमाधाय निशायाँ शम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोति
राष्ट्रं वै राष्ट्रभृतो राष्ट्रँ सजाता राष्ट्रेणैवास्मै राष्ट्रँ सजातानवरुन्द्धे
ग्राम्येव भवतीति ब्राह्मणम्
अथ वै भवत्यधिदेवने जुहोत्यधिदेवन एवास्मै सजातानवरुन्द्धे
त एनमवरुद्धा उपतिष्ठन्त इति ब्राह्मणम्
अथ वै भवति
रथमुख ओजस्कामस्य होतव्या इत्योजस्कामस्य होष्यन्नुपर्यग्नौ रथमुखं प्रगृह्य निशायाँ शम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोत्योजो वै राष्ट्रभृत ओजो रथ ओजसैवास्मा ओजोऽवरुन्द्ध ओजस्व्येव भवतीति ब्राह्मणम्
अथ वै भवति

यो राष्ट्रादपभूतः स्यात्तस्मै होतव्या यावन्तोऽस्य रथाः स्युस्तान्ब्रूयाद्युङ्ध्वमिति
राष्ट्रमेवास्मै युनक्तीति ब्राह्मणम्
अथ वै भवत्याहुतयो वा एतस्याकॢप्ता यस्य राष्ट्रं न कल्पते
स्वरथस्य दक्षिणं चक्रं प्रवृह्य नाडीमभिजुहुयादिति
स स्वरथस्यैव दक्षिणं चक्रं प्रवृह्योपर्यग्नौ रथनाडीं प्रगृह्य निशायाँ शम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोत्याहुतीरेवास्य कल्पयति
ता अस्य कल्पमाना राष्ट्रमनुकल्पत इति ब्राह्मणम् १७
14.18
अथ वै भवति
संग्रामे संयत्ते होतव्या इति
संग्रामे संयत्ते होष्यन्नुपकल्पयते मान्धुकमिध्ममित्यथ प्रत्यमित्रमग्निमुपसमाधाय मान्धुकमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय निशायाँ शम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोत्यङ्गारा एव प्रतिवेष्टमाना अमित्राणामस्य सेनां प्रतिवेष्टयन्तीति ब्राह्मणम्
अथ वै भवति
य उन्माद्येत्तस्मै होतव्या इत्युन्मत्ताय होष्यन्नुपकल्पयते नैयग्रोधमौदुम्बरमाश्वत्थं प्लाक्षमित्यथ वृथाग्निमुपसमाधायैतमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय निशायाँ शम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोत्येते वै गन्धर्वाप्सरसां गृहाः
स्व एवैनानायतने शमयतीति ब्राह्मणम्
अथ वै भवत्यभिचरता प्रतिलोमँ होतव्या इत्यभिचरन्होष्यन्स्वकृत इरिणे प्रदरे वामुतोऽर्वाचो वृथाग्निमुपसमाधाय निशायाँ शम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोति

यद्वाचः क्रूरं तेन वषट्करोति
वाच एवैनं क्रूरेण प्रवृश्चति
ताजगार्तिमार्च्छतीति ब्राह्मणम्
अथ वै भवत्य्यस्य कामयेतान्नाद्यमाददीयेति तस्य सभायामुत्तानो निपद्य भुवनस्य पते इति तृणानि संगृह्णीयादिति
स यस्य कामयेतान्नाद्यमाददीयेति तस्य सभायामुत्तानो निपद्य भुवनस्य पत इति तृणानि संगृह्णात्यथैनान्यादाय हरतीदमहममुष्यामुष्यायणस्यान्नाद्यँ हरामीत्याहान्नाद्यमेवास्य हरति
षड्भिर्हरतीति ब्राह्मणम्
अथैनानि स्वस्यां वा सभायाँ स्वेषु वामात्येष्वपिसृजति
प्रजापतिनैवास्यान्नाद्यमादायर्तवोऽस्मा अनुप्रयच्छन्तीति ब्राह्मणम्
अथ वै भवति
यो ज्येष्ठबन्धुरपभूतः स्यात्तँ स्थलेऽवसाय्य ब्रह्मौदनं चतुःशरावं पक्त्वा तस्मै होतव्या इति
स यो ज्येष्ठबन्धुरपभूतः स्यात्तँ स्थलेऽवसाय्य ब्रह्मौदनं चतुःशरावं पक्त्वा निशायाँ शम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोति
वर्ष्म वै राष्ट्रभृतो वर्ष्म स्थलं
वर्ष्मणैवैनं वर्ष्म समानानां गमयतीति ब्राह्मणम्
अथ वै भवति
चतुःशरावो भवति
दिक्ष्वेव प्रतितिष्ठति
क्षीरे भवति
रुचमेवास्मिन्दधात्युद्धरति शृतत्वाय
सर्पिष्वान्भवति मेध्यत्वाय
चत्वार आर्षेयाः प्राश्नन्ति
दिशामेव ज्योतिषि जुहोतीति ब्राह्मणम् १८
14.19
अथ वै भवति
देविका निर्वपेत्प्रजाकाम इति
प्रथमं धातारं प्रजाकामस्य करोति
प्रथमं पशुकामस्य
मध्यतो ग्रामकामस्य
मध्यतो ज्योगामयाविनः
प्रथमं यक्ष्यमाणस्योत्तममीजानस्य
प्रथमं मेधाकामस्य
मध्यतो रुक्कामस्य
ता वा एताः क्षीरे शृता भवन्ति
ता यत्सह सर्वा निर्वपेदीश्वरा एनं प्रदहो द्वेप्रथमे निरुप्य धातुस्तृतीयं निर्वपेत्
तथो एवोत्तरे निर्वपेत्
तथैनं न प्रदहन्त्यथो यस्मै कामाय निरुप्यते तमेवाभिरुपाप्नोतीति ब्राह्मणम्
अथ वै भवति
यत्सायंप्रातरग्निहोत्रं जुहोत्याहुतीष्टका एव ता उपधत्ते यजमानोऽहोरात्राणि वा एतस्येष्टका य आहिताग्निर्यत्सायंप्रातर्जुहोत्यहोरात्राण्येवाप्त्वेष्टकाः कृत्वोपधत्ते
दश समानत्र जुहोति
दशाक्ष्रा विराड्
विराजमेवाप्त्वेष्टकां कृत्वोपधत्तेऽथो विराज्येव यज्ञमाप्नोति
चित्यश्चित्योऽस्य भवति
तस्माद्यत्र दशोषित्वा प्रयाति तद्यज्ञवास्त्ववास्त्वेव तद्यत्ततोऽर्वाचीनमिति
स यत्र दशोषित्वा प्रयास्यन्भवति तदग्निष्ठेऽनसि समवशमयन्ते यदस्य समवशमयितव्यं भवत्यवास्त्वेव तद्यत्ततोऽर्वाचीनं रुद्र ः! खलु वै वास्तोष्पतिर्यदहुत्वा वास्तोष्पतीयं प्रयायाद्रुद्र एनं भूत्वाग्निरनूत्थाय हन्याद्वास्तोष्पतीयं जुहोति
भागधेयेनैवैनँ शमयति
नार्तिमार्च्छति यजमान इति ब्राह्मणम्
अथ वै भवति
यद्युक्ते जुहुयाद्यथा प्रयाते वास्तावाहुतिं जुहोति तादृगेव तद्यदयुक्ते जुहुयाद्यथा क्षेम आहुतिं जुहोति तादृगेव तद्
अहुतमस्य वास्तोष्पतीयँ स्याद्दक्षिणो युक्तो भवति सव्योऽयुक्तोऽथ वास्तोष्पतीयं जुहोतीति
स यत्र दक्षिणो युक्तो भवति सव्योऽयुक्तस्तत्प्रत्याच्छेद्यां पर्णमय्याँ स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये वास्तोष्पतीयं जुहोति
वास्तोष्पते प्रतिजानीह्यस्मानित्यनुद्रुत्य वास्तोष्पते शग्मया सँ सदा त इति जुहोत्यत्रैताँ स्रुचमुपनिधाय सव्यं युक्त्वा प्रयात्युभयमेवाकरपरिवर्गमेवैनँ शमयतीति ब्राह्मणम्
अथ वै भवति
यदेकया जुहुयाद्दर्विहोमं कुर्यात्
पुरोऽनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वायेति ब्राह्मणम्
अथ वै भवति
यद्धुत आदध्याद्रुद्रं गृहानन्वारोहयेद्यदवक्षाणान्यसंप्रक्षाप्य प्रयायाद्यथा यज्ञवेशसं वादहनं वा तादृगेव तदयं ते योनिरृत्विय इत्यरण्योः समारोहयत्येष वा अग्नेर्योनिः
स्व एवैनं योनौ समारोहयत्यथो खल्वाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत्पुनराधेयः स्यादिति
या ते अग्ने यज्ञिया तनूस्तयेह्यारोहेत्यात्मन्त्समारोहयत इति
स आत्मन्त्समारोहयते या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानमच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानः सक्षय एहीत्यथैनमुपावरोहयत उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन्। आयुः प्रजाँ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोण इति

यजमानो वा अग्नेर्योनिः
स्वायामेवैनं योन्याँ समारोहयत इति ब्राह्मणम् १९
14.20
उक्तोऽन्वारम्भोऽथ वै भवत्यृषयो वा इन्द्रं प्रत्यक्षं नापश्यन्
तं वसिष्ठः प्रत्यक्षमपश्यत्
सोऽब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्तेऽथ मेतरेभ्य ऋषिभ्यो मा प्रवोच इति
तस्मा एतान्त्स्तोमभागानब्रवीत्
ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्तेति
तस्मादाहुर्वासिष्ठं ब्रह्मत्वमिति
स यत्राह ब्रह्मन्स्तोष्यामः प्रशास्तरिति तद्ब्रह्मा प्रसौति देव सवितरित्येतां प्रतिपदं कृत्वा रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येतस्यानुवाकस्यैकेइकमुपादाय प्रसौति
स एवमेव प्रसुवन्द्वादशभिरग्निष्टोमं प्रसौति त्रयोदशभिर्वाजपेयमेकान्नत्रिँ शतातिरात्रँ सर्वैरप्तोर्यामं स यत्र राथंतराय सन्धये प्रसर्पन्ति तदाह वसुकोऽसि वेषश्रिरसि वस्यष्टिरसीति
स एवमेव प्रसौत्याप्तोर्यामादथातोऽतिक्रामाणामेवाभिचरन्भ्रातृव्यवान्स्पर्धमानोऽभिचरणीयशिल्पान्यायात्य संवत्सरमेतैः क्रमैः क्रमेताग्निना देवेन पृतना जयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्ना वषट्कारेण वज्रेण पूर्वजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन्क्षयेऽस्मिन्भूमिलोके योऽस्मान्द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामीन्द्रे ण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण वज्रेण सहजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन्क्षयेऽस्मिन्भूमिलोके योऽस्मान्द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामाम्य्
विश्वेभिर्देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन्क्षयेऽस्मिन्भूमिलोके योऽस्मान्द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामीत्यपि वाभिचरणीयास्विष्टिष्वनुवर्तेतापि वापोद्धत्येतरान्क्रमान्संवत्सरमेतैः क्रमैः क्रमेतोक्तँ शुक्रामन्थिनोरधिद्र वणम्
अथातोऽतीमोक्षाणामेव
वैश्वकर्मणानि हुत्वा गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा गार्हपत्ये जुहोत्यन्वारब्धे यजमाने २०
14.21
ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँ स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा गार्हपत्य एव जुहोति ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँ स्वाहेत्यथाग्नीध्रमभिप्रैत्यागन्म मित्रावरुणा वरेण्या रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिव इत्यथाग्नीध्रं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वाग्नीध्रे जुहोत्यन्वारब्धे यजमाने ये देवा यज्ञहनोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँ स्वाहेत्य्
अपरं चतुर्गृहीतं गृहीत्वाग्नीध्र एव जुहोति ये देवा यज्ञमुषोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँ स्वाहेत्यथाहवनीयमभिप्रैति यास्ते रात्रीः सवितर्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः प्रजया न्वग्रे सुवो रुहाणास्तरता रजाँ सीत्यथाहवनीयं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने ये देवा यज्ञहनो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँ स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोति ये देवा यज्ञमुषो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँ स्वाहेत्यथाहवनीयमुपतिष्ठते येनेन्द्रा य समभरः पयाँ स्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धयेमँ सजातानाँ श्रैष्ठ्य आधेह्येनमिति
यज्ञहनो वै देवा यज्ञमुषः सन्ति
त एषु लोकेष्वासत आददाना विमथ्नाना यो ददाति यो यजते तस्य
ये देवा यज्ञहनः पृथिव्यामध्यासते ये अन्तरिक्षे ये दिवीत्याहेमानेव लोकाँ स्तीर्त्वा सगृहः सपशुः सुवर्गं लोकमेतीति ब्राह्मणम्
अपि वा तिस्र एव गार्हपत्ये जुहोति तिस्र आग्नीध्रे तिस्र आहवनीयेऽपि वा गार्हपत्याज्जपन्ननुद्र वेदाहवनीयादुक्तोदवसानीयेष्टिरत्रैतां तृतीयां प्रवृताहुतिं जुहोति सूर्यो मा देवो देवेभ्यः पातु वायुरन्तरिक्षाद्यजमानोऽग्निर्मा पातु चक्षुषः स्वाहेत्य्
अथाभिचरन्बभ्रुवे बभ्रुवत्सायै कार्ष्मर्यमयेन पात्रेण पयो जुहोति सक्ष शूष सवितर्विश्वचर्षण एतेभिः सोम नामभिर्विधेम ते तेभिः सोम नामभिर्विधेम ते स्वाहेति
साक्षादस्य हृदयं भित्त्वान्त्राणि परिकासयातै
स्तृणुते हैव तं भ्रातृव्यम्
अथ येनास्यर्त्विजाँ स्पर्धा स्यात्तमाह मास्य चमसमनुप्रसृपतादभिमर्शनं करिष्यामीति
तस्यैतेनैव मन्त्रेण चमसं जुहुयात्
तमूर्ध्वोऽवाङ्वा राजातिपवत उक्तं पात्नीवतस्य श्रयणम्
उक्तमादित्यग्रहस्योद्धननम्
उक्ता प्रायणीयस्य स्रुवाहुतिरुक्तोदयनीयस्योक्तं यूपस्योपस्थानम् २१
14.22
उक्तानि पत्नीयजूँ ष्येवमेवैताः स्रुचो यथैतद्ब्राह्मणम्
उक्तो दधिग्रहोऽथ वै भवत्याज्यग्रहं गृह्णीयात्तेजस्कामस्येति
बर्हिषी अन्तर्धायाज्यग्रहं गृह्णाति
सोमग्रहं गृह्णीयाद्ब्रह्मवर्चसकामस्येत्यँ शूनुपसंगृह्य सोमग्रहं गृह्णात्यथैतं महाव्रतीयेऽह्नि प्राजापत्यमतिग्राह्यं गृह्णाति त्वे क्रतुमपि वृञ्जन्ति विश्व इत्यनुद्रुत्योपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति

परिमृज्य सादयत्येष ते योनिः प्रजापतये त्वेत्यथातः प्राणग्रहाणामेव ग्रहणं संतृप्तँ राजानं पुञ्जीकृत्वा नवाँ शून्प्राच आयातयत्ययं पुरो भुवस्तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्रियै गायत्रं गायत्रादुपाँ शुरुपाँ शोस्त्रिवृत्त्रिवृतो रथंतरँ रथंतराद्वसिष्ठ ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्य इत्ययं दक्षिणा विश्वकर्मेति नव दक्षिणा आयातयति
अयं पश्चाद्विश्वव्यचा इति नव प्रतीच आयातयतीदमुत्तरात्सुवरिति नवोदीच आयातयतीयमुपरि मतिरिति नवोपरिष्टात्
प्रदक्षिणं पर्यायातयति
तानपानभृद्भिः प्रत्यूहति प्राची दिशां वसन्त ऋतूनामग्निर्देवता ब्रह्म द्र विणं त्रिवृत्स्तोमः स उ पञ्चदशवर्तनिस्त्र्! यविर्वयः कृतमयानां पुरोवातो वातः सानग ऋषिरिति
वाचयति पितरः पितामहाः परेऽवर इति ये पुरस्ताद्भवन्ति
दक्षिणा दिशामिति ये दक्षिणतो भवन्ति
प्रतीची दिशामिति ये पश्चाद्भवन्त्युदीची दिशामिति य उत्तरतो भवन्त्यूर्ध्वा दिशामिति य उपरिष्टात्
प्रदक्षिणं पर्यायातिता भवन्ति
ते वा एते प्रायणीयोदयनीययोरेव नियुक्ता दशमेऽहंस्तदु रात्रिसत्त्रेष्वप्यग्निष्टोम आमयाविन उपसृतो वा गृह्णीयादगदो हैव भवति २२
14.23
अथ वै भवत्युभये वा एते प्रजापतेरध्यसृज्यन्तेति ब्राह्मणमेव
युवँ सुराममश्विनेति सौत्रामण्यामेव भवत्यथ वै भवतीयं वा अग्निहोत्रीयं वा एतस्य निषीदति यस्याग्निहोत्री निषीदति
तामुत्थापयेदिति
स यस्याग्निहोत्री निषीदति तामुत्थापयत्युदस्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात्। इन्द्रा य कृण्वती भागं मित्राय वरुणाय चेत्यथ वै भवत्यवर्तिं वा एषैतस्य पाप्मानं प्रतिख्याय निषीदति यस्याग्निहोत्र्युपसृष्टा निषीदति
तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यादिति
स यस्याग्निहोत्र्युपसृष्टा निषीदति तामेतदेव दुग्ध्वा ब्राह्मणाय ददाति
न चास्यात ऊर्ध्वमन्नमत्त्यथ वै भवति
पृथिवीं वा एतस्य पयः प्रविशति यस्याग्निहोत्रं दुह्यमानँ स्कन्दति
तदभिमन्त्रयेतेति
स यस्याग्निहोत्रं दुह्यमानँ स्कन्दति तदभिमन्त्रयते
यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः । पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु तन्मयीत्याह
पय एवात्मन्गृहेषु पशुषु धत्तेऽप उपसृजत्यद्भिरेवैनदाप्नोतीति ब्राह्मणम्
अथ वै भवति
यो वै यज्ञस्यार्तेनानातँ र्! सँ सृजत्युभे वै ते तर्ह्यार्च्छत आर्च्छति खलु वा एतदग्निहोत्रं यद्दुह्यमानँ स्कन्दति यदभिदुह्यादिति

स यस्याग्निहोत्रं दुह्यमानँ स्कन्दति नैनदभिदोग्धि
तदेव यादृक्कीदृक्च होतव्यम्
अथान्यां दुग्ध्वा पुनर्होतव्यम्
अनार्तेनैवार्तं यज्ञस्य निष्करोतीति ब्राह्मणम्
अथ वै भवति
यद्युद्द्रुतस्य स्कन्देद्यत्ततोऽहुत्वा पुनरेयाद्यज्ञं विच्छिन्द्याद्यत्र स्कन्देत्तन्निषद्य पुनर्गृह्णीयादिति
स यत्रैव स्कन्दति तदेव स्थालीं निधायातिशिष्टमानीय पुनरभ्युन्नीय तदेव यादृक्कीदृक्च होतव्यम्
अथान्यां दुग्ध्वा पुनर्होतव्यम्
अनार्तेनैवार्तं यज्ञस्य निष्करोतीति ब्राह्मणम्
अथ वै भवति
वि वा एतस्य यज्ञश्छिद्यते यस्याग्निहोत्रेऽधिश्रिते श्वान्तरा धावति
रुद्र ः! खलु वा एष यदग्निर्यद्गामन्वत्यावर्तयेद्रुद्रा य पशूनपिदध्यादपशुर्यजमानः स्याद्यदपोऽन्वतिषिञ्चेदनाद्यमग्नेरापोऽनाद्यमाभ्यामपिदध्याद्गार्हपत्याद्भस्मादायेदं विष्णुर्विचक्रम इति वैष्णव्यर्चाहवनीयाद्ध्वँ सयन्नुद्द्रवेदिति
स वैष्णव्यर्चाहवनीयाद्ध्वँ सयन्नुद्द्रवति
यज्ञो वै विष्णुर्यज्ञेनैव यज्ञँ संतनोतीति ब्राह्मणम्
अथ भस्मना शुनः पदमपि वपति शान्त्या इति ब्राह्मणम् २३
14.24
अथ वै भवति
नि वा एतस्याहवनीयो गार्हपत्यं कामयते नि गार्हपत्य आहवनीयं यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचति
दर्भेण हिरण्यं प्रबध्य पुरस्ताद्धरेदथाग्निमथाग्निहोत्रमिति
स यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचति दर्भेण हिरण्यं प्रबध्य परिकर्मी पूर्वः प्रतिपद्यतेऽन्वग्ब्राह्मण आर्षेय इध्मेनान्वगात्मनाग्निहोत्रेणाथैतद्धिरण्यमाहवनीयस्यायतने सादयित्वापोद्धृत्य हिरण्यं प्रदक्षिणमावृत्येध्मं प्रतिष्ठापयत्यथ वै भवत्यग्निहोत्रमुपसाद्यातमितोरासीत
व्रतमेव हतमनुम्रियतेऽन्तं वा एष आत्मनो गच्छति यस्ताम्यत्यन्तमेष यज्ञस्य गच्छति यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचति
पुनः समन्य जुहोत्यन्तेनैवान्तं यज्ञस्य निष्करोतीति ब्राह्मणम्
अथ वै भवति
वरुणो वा एतस्य यज्ञं गृह्णाति यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचति
वारुणं चरुं निर्वपेत्
तेनैव यज्ञं निष्क्रीणीत इति ब्राह्मणम्
अथ वै भवति
नि वा एतस्याहवनीयो गार्हपत्यं कामयते नि गार्हपत्य आहवनीयं यस्याग्निमनुद्धृतँ सूर्योऽभ्युदेति
चतुर्गृहीतमाज्यं पुरस्ताद्धरेदथाग्निमथाग्निहोत्रमिति
स यस्याग्निमनुद्धृतँ सूर्योऽभ्युदेति चतुर्गृहीतेनाज्येन परिकर्मी पूर्वः प्रतिपद्यतेऽन्वग्ब्राह्मण आर्षेय इध्मेनान्वगात्मनाग्निहोत्रेणाथैतदाज्यमाहवनीयस्यायतने सादयित्वापोद्धृत्याज्यमथेध्मं प्रतिष्ठापयत्यथ वै भवति
पराची वा एतस्मै व्युच्छन्ती व्युच्छति यस्याग्निमनुद्धृतँ सूर्योऽभ्युदेत्युषाः केतुना जुषतां यज्ञं देवेभिरन्वितम्। देवेभ्यो मधुमत्तमँ स्वाहेति प्रत्यङ्निषद्याज्येन जुहुयात्प्रतीचीमेवास्मै विवासयतीति ब्राह्मणम्
अथ वै भवत्यग्निहोत्रमुपसाद्यातमितोरासीत
व्रतमेव हतमनुम्रियतेऽन्तं वा एष आत्मनो गच्छति यस्ताम्यत्यन्तमेष यज्ञस्य गच्छति यस्याग्निमनुद्धृतँ सूर्योऽभ्युदेति
पुनः समन्य जुहोत्यन्तेनैवान्तं यज्ञस्य निष्करोतीति ब्राह्मणम्

अथ वै भवति
मित्रो वा एतस्य यज्ञं गृह्णाति यस्याग्निमनुद्धृतँ सूर्योऽभ्युदेति
मैत्रं चरुं निर्वपेत्
तेनैव यज्ञं निष्क्रीणीत इति ब्राह्मणम्
अथ वै भवति
 यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेद्यदाहवनीयमनुद्वाप्य गार्हपत्यं मन्थेद्विच्छिन्द्याद्भ्रातृव्यमस्मै जनयेद्यद्वै यज्ञस्य वास्तव्यं क्रियते तदनु रुद्रो ऽवचरति
यत्पूर्वमन्ववस्येद्वास्तव्यमग्निमुपासीत
रुद्रो ऽस्य पशून्घातुकः स्यादाहवनीयमुद्वाप्य गार्हपत्यं मन्थेदिति
स आहवनीयमुद्वाप्य गार्हपत्यं मन्थतीतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति
छन्दोभिरेवैनँ स्वाद्योनेः प्रजनयतीति ब्राह्मणम्
अथ वै भवति
गार्हपत्यं मन्थति
गार्हपत्यं वा अन्वाहिताग्नेः पशव उपतिष्ठन्ते
स यदुद्वायति तदनु पशवोऽपक्रामन्तीत्यथैनमुपतिष्ठत इषे रय्यै रमस्व सहसे द्युम्नायोर्जे पत्यायेत्यथैनमुपसमिन्द्धे सारस्वतौ त्वोत्सौ समिन्धाताम्सम्राडसि विराडसीति २४
14.25
अथ वै भवति
वज्रो वै चक्रं
वज्रो वा एतस्य यज्ञं विच्छिनत्ति यस्यानो वा रथो वान्तराग्नी यात्याहवनीयमुद्वाप्य गार्हपत्यादुद्धरेदिति
स आहवनीयमुद्वाप्य गार्हपत्यादिध्ममुद्धरति यदग्ने पूर्वं प्रभृतं पदँ हि ते सूर्यस्य रश्मीनन्वाततान । तत्र रयिष्ठामनुसंभरैतं सं नः सृज सुमत्या वाजवत्येति
पूर्वेणैवास्य यज्ञेन यज्ञमनुसंतनोतीति ब्राह्मणम्
अथैनमुपतिष्ठते त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वत इत्यग्निः सर्वा देवता देवताभिरेव यज्ञँ संतनोतीति ब्राह्मणम्
अथाग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपत्य्
अन्वाहार्यमासाद्यानड्वाहं ददाति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ वै भवति
यस्य प्रातःसवने सोमोऽतिरिच्यते माध्यंदिनँ सवनं कामयमानोऽभ्यतिरिच्यत इति
स प्रातःसवने सोमेऽतिरिक्ते प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति
होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्
सर्वश एव राजानँ समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
तदेतद्गायत्रँ साम पञ्चदशं गौर्धयति मरुतामिति धयद्वतीषु कुर्वन्ति
होत्र एषोत्तमेति प्राहुः
समानमत ऊर्ध्वम्
अथ वै भवति
यस्य माध्यंदिने सवने सोमोऽतिरिच्यत आदित्यं तृतीयसवनं कामयमानोऽभ्यतिरिच्यत इति
स माध्यंदिने सवने सोमेऽतिरिक्ते प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति
होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्
सर्वश एव राजानँ समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
तदेतद्गौरिवीतँ साम सप्तदशं बण्महाँ असि सूर्येत्येतासु कुर्वन्ति
होत्र एषोत्तमेति प्राहुः
समानमत ऊर्ध्वम्

अथ वै भवति
यस्य तृतीयसवने सोमोऽतिरिच्येतोक्थ्यं कुर्वीत
यस्योक्थ्येऽतिरिच्येतातिरात्रं कुर्वीत
यस्यातिरात्रेऽतिरिच्यते तं वै दुष्प्रज्ञानमित्यतिरात्रेऽतिरिक्ते प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति
होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्
सर्वश एव राजानँ समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
तदेतद्बृहत्सामैकविँ शं वैष्णवीषु शिपिविष्टवतीषु कुर्वन्ति
होत्र एषोत्तमेति प्राहुः
समानमत ऊर्ध्वम् २५
14.26
इति नु छन्दोगबह्वृचेषु कामयमानेषु
ते चेन्न कामयेरन्प्रातःसवनेऽतिरिक्ते याँ स्थालीमलँ राज्ञेऽतिशिष्टाय मन्यते तस्या उपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति
त्रिरभिविष्यन्दयति
सोऽभिविष्यन्दमानः सर्व आग्रयणः संपद्यते
तं त्रिरभिहिंकृत्य परिमृज्य सादयति
माध्यंदिने सवनेऽतिरिक्ते तथैव याँ स्थालीमलँ राज्ञेऽतिशिष्टाय मन्यते तस्या उपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति
त्रिरभिविष्यन्दयति
सोऽभिविष्यन्दमानः सर्व एवाग्रयणः संपद्यते
तं तथैव त्रिरभिहिंकृत्य परिमृज्य सादयति
तृतीयसवनेऽतिरिक्ते हारियोजनमेवात्राभिविष्यन्दयति
न हि पुनर्ग्रहणं विद्यतेऽथातो ध्रुवस्यैव परिहीणस्य मीमाँ सैन्द्रा ग्निभ्यामेनमृग्भ्यां परिगृह्य जुहुयादिन्द्रा ग्नी वै देवानां पुनःपुनरभ्युपाकारं यजामह इत्येतदेकम्
आश्विनीभ्यामेनमृग्भ्यां परिगृह्य जुहुयादश्विनौ वै देवानां भिषजौ ताभ्यामेवास्मै भेषजं करोतीत्येतदेकम्वैष्णवीभ्यामेनमृग्भ्यां परिगृह्य जुहुयाद्यद्वै यज्ञस्यातिरिच्यते विष्णुं तच्छिपिविष्टमभ्यतिरिच्यत इत्येतदेकम्
अवभृथेनैनँ सहाभ्यवहरेद्यथा मेऽन्यानि सोमलिप्तानि पात्राण्येवं म एव भविष्यतीत्येतदेकम्बर्हिषैनँ सहाभ्युपोषेदेष वा अग्निर्वैश्वानरो यत्प्रदाव्योऽग्नय एष वैश्वानराय गृह्यते
ध्रुव एवमग्नौ वैश्वानरे हुतो भविष्यतीत्येतदपरम्
अथ पुनर्दीक्षते
यज्ञो ह वै यज्ञस्य प्रायश्चित्तिरिति न्वेकाहयाजिनोऽथ सत्त्रिणाम्मार्जालीये परिष्यन्दं निष्यन्दनवन्तं कृत्वा तदेनं निनयन्ति
श्वो भूते हि ते सोष्यन्तो भवन्ति २६
14.27
उक्तः सँ सवोऽथ वै भवत्यार्तिं वा एते नियन्ति येषां दीक्षितानां प्रमीयते
तं यदववर्जेयुः क्रूरकृतामिवैषां लोकः स्याद्
आहर दहेति ब्रूयादिति
दीक्षितं चेदुपतपद्विन्देदाग्नीध्रीयशयनो ह भवति
तदस्मै भक्षानाहरन्ति यावदलं भक्षाय मन्यते
स यद्यहागदो भवति पुनरैति
यद्यु वै प्रैति सर्वेभ्योऽग्निभ्योऽङ्गारान्निर्वर्त्यारण्योरग्नीन्समारोह्यान्तरेण चात्वालोत्करावुदङ्ङुपनिर्हृत्य तेनैनं दहेयुस्
तं त्रिरात्रेण शीतीकृत्वा संचिनुयुस्
ते तथाकृतेन षडहसँ स्थां काङ्क्षेयुरथ सँ स्थिते षडहेऽस्थिकुम्भं याचति
तस्मिन्संचितमवधाय तं दक्षिणतो वेद्यै निधाय सर्पराज्ञिया ऋग्भि स्तुयुरियं वै सर्पतो राज्ञ्यस्या एवैनं परिददति
व्यृद्धं तदित्याहुर्यत्स्तुतमननुशस्तमिति
होता प्रथमः प्राचीनावीती मार्जालीयं परीयाद्यामीरनुब्रुवन्सर्पराज्ञीनां कीर्तयेदिति
तेषां तथा परीतानामध्वर्युर्जघन्यः पर्येत्यथ यज्ञोपवीतं कृत्वा यथेतं त्रिः पुनः प्रतिपरियन्ति
तेषां तथा परीतानामध्वर्युः पूर्वः पर्येत्यथैनमादायान्तरेण चात्वालोत्करावश्मानं चास्थिकुम्भं च निधायाद्भिरवोक्षत्यप नः शोशुचदघमिति
तस्मिन्मैत्रावरुणाग्रान्ग्रहान्गृह्णन्त्यथातिशिष्टँ सत्त्रस्यासते
तस्यावभृथवेलायामस्थिकुम्भं निधायाद्भिरवोक्षत्येतदवभृत उ वैवैष भवत्यपि वा योऽस्य स्वो नेदिष्ठी स्यात्तस्य स्थाने तं दीक्षयेत्

संवत्सरेऽस्थीनि याजयन्त्यथ वै भवति २७
14.28
असुर्यं वा एतस्माद्वर्णं कृत्वा पशवो वीर्यमपक्रामन्ति यस्य यूपो विरोहति
त्वाष्ट्रं बहुरूपमालभेतेति
सत्त्रिणां चेद्यूपो विरोहेत्संप्रच्छिद्यास्य चषालँ सवनीयस्य त्वाष्ट्रमुपालम्भ्यं कुर्युरपि वा त्वाष्ट्रं ब्रह्मौदनँ श्रपयित्वैताः शाखाः प्रवृश्चेयुः प्र वा तक्ष्णुयुरपि वा त्वाष्ट्रीः स्रुवाहुतीर्हुत्वैताः शाखाः प्रवृश्चेयुः प्र वा तक्ष्णुयुरपि वा त्वाष्ट्रे त्वष्ट्र इत्येव ब्रूयादित्य्
अथ वै भवत्यार्तिमेते नियन्ति येषां दीक्षितानामग्निरुद्वायति
यदाहवनीय उद्वायेद्यत्तं मन्थेद्विच्छिन्द्याद्भ्रातृव्यमस्मै जनयेद्यदाहवनीय उद्वायेदाग्नीध्रादुद्धरेद्यदाग्नीध्र उद्वायेद्गार्हपत्यादुद्धरेद्यद्गार्हपत्य उद्वायेदत एव पुनर्मन्थेदत्र वाव स निलयते
यत्र खलु वै निलीनमुत्तमं पश्यन्ति तदेनमिच्छन्ति
यस्माद्दारोरुद्वायेत्तस्यारणी कुर्यात्
क्रुमुकमपि कुर्यातिति
स यस्माद्दारोरुद्वायति तस्यारणी कृत्वा क्रुमुकशकलमन्ववधाय तान्येवावक्षाणानि संनिधाय मन्थेदिति
स तान्येवावक्षाणानि संनिधाय मन्थतीतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति

छन्दोभिरेवैनँ स्वाद्योनेः प्रजनयतीति ब्राह्मणम् २८
14.29
अथ यद्याहवनीयगार्हपत्यावुद्वायेयातां गार्हपत्यं मथित्वाग्नीध्रीयादाहवनीयमुद्धरेद्यद्याग्नीध्रीयगार्हपत्यावुद्वायेयातां गार्हपत्यं मथित्वाग्नीध्रीयमुद्धरेदथ यद्याग्नीध्रीयाहवनीयावुद्वायेयातां गार्हपत्यादाग्नीध्रीयमुद्धृत्य तत आहवनीयमुद्धरेदथ यदि सर्व एवोद्वायेयुर्गार्हपत्यं मथित्वाग्नीध्रीयमुद्धृत्य तत आहवनीयमुद्धरेदित्यथ वै भवति
गार्हपत्यं मन्थति
गार्हपत्यो वा अग्नेर्योनिः
स्वादेवैनं योनेर्जनयति
नास्मै भ्रातृव्यं जनयतीति ब्राह्मणम्
अथ वै भवति
यस्य सोम उपदस्येत्सुवणँ र्! हिरण्यं द्वेधा विच्छिद्यर्जीषेऽन्यदाधूनुयाज्जुहुयादन्यदिति
स यस्य सोम उपदस्यति तत्सुवणँ र्! हिरण्यं द्वेधा विच्छिद्यर्जीषेऽन्यदाधूनोति मुख्ये चमसेऽन्यदवधाय जुहोति
सोममेवाभिषुणोति सोमं जुहोतीति ब्राह्मणम्
अथ वै भवति
सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत्
तत्सुवणँ र्! हिरण्यमभवद्यत्सुवणँ र्! हिरण्यं कुर्वन्ति प्रिययैवैनं तनुवा समर्धयन्तीति ब्राह्मणम्
अथ वै भवति
यस्याक्रीतँ सोममपहरेयुः क्रीणीयादेव
सैव ततः प्रायश्चित्तिरिति ब्राह्मणम्
अथ वै भवति
यस्य क्रीतमपहरेयुरादाराँ श्च फाल्गुनानि चाभिषुणुयादित्यादाराः क्षुद्र तृणानि

फाल्गुनानि हैमवतानि
तेषामलाभे श्वेतकानां प्रतिनिधिर्विज्ञायते
तृतीयस्यामितो दिवि सोम आसीत्
तं गायत्र्याहरत्
तस्य पर्णमच्छिद्यत
तत्पर्णोऽभवत्
तत्पर्णस्य पर्णत्वमिति
तस्मात्पर्णत्सरूणामेवाभिषवः कार्य इति
शृतेन प्रातःसवने श्रीणीयादिति
शृतमेतद्भवति
दध्ना मध्यंदिन इति
दध्येतद्भवति
नीतमिश्रेण तृतीयसवन इति
विमथितँ सपिलकमुद्धृतं प्राङ्नवनीतभावादित्येतदाचक्षतेऽग्निष्टोमः सोमः स्याद्र थंतरसामा
य एवर्त्विजो वृताः स्युस्त एनं याजयेयुरिति
त एवैनं याजयन्त्येकां गां दक्षिणां दद्यादित्येकां गामत्र दक्षिणां ददाति
यदिह दास्यन्भवति तदमुत्र ददाति
पुनः सोमं क्रीणीयाद्यज्ञेनैव तद्यज्ञमिच्छति
सैव ततः प्रायश्चित्तिरिति ब्राह्मणम्
अथ वै भवति
सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः कामेभ्यः सर्वेभ्य स्तोमेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानमागुरते यः सत्त्रायागुरत एतावान्खलु वै पुरुषो यावदस्य वित्तँ सर्ववेदसेन यजेतेत्यतिरात्रं विश्वजितमुपयन्त्यथात्र सर्ववेदसं ददाति
सर्वपृष्ठोऽस्य सोमः स्यात्
सर्वाभ्य एव देवताभ्यः सर्वेभ्यः कामेभ्यः सर्वेभ्य स्तोमेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानं निष्क्रीणीत इति ब्राह्मणम् २९
14.30
पवमानः सुवर्जन इति सौत्रामण्यामेष भवति
ब्राह्मणमुत्तरम्
अथ वै भवति
तस्माद्वैश्वदेवेन यजमानः संवत्सरीणाँ स्वस्तिमाशास्त इत्याशासीत
तस्माद्वरुणप्रघासैर्यजमानः परिवत्सरीणाँ स्वस्तिमाशास्त इत्याशासीत
तस्मात्साकमेधैर्यजमान इदावत्सरीणाँ स्वस्तिमाशास्त इत्याशासीत
तस्माच्छुनासीरीयेण यजमानोऽनुवत्सरिणाँ स्वस्तिमाशास्त इत्याशासीतेत्यथ वै भवत्यग्नेः कृत्तिकाः शुक्रं परस्ताज्ज्योतिरवस्तादिति नक्षत्रेष्टकाभिर्विकल्पन्त इति ब्रुवतेऽथ वै भवति
यत्पुण्यं नक्षत्रं तद्बट्कुर्वीतोपव्युषमिति
प्रातः कुर्वीत
संगवे कुर्वीत
मध्यंदिने कुर्वीतापराह्णे कुर्वीत
सायं कुर्वीत
यावति तत्र सूर्यो गच्छेद्यत्र जघन्यं पश्येत्तावति कुर्वीत
यत्कारी स्यात्पुण्याह एव कुरुत इति
ब्राह्मणमुत्तरे ब्राह्मणमुत्तरे ३०