सामग्री पर जाएँ

बौधायनश्रौतसूत्रम्/प्रश्नः १३

विकिस्रोतः तः

13.1
अथात इष्टीर्व्याख्यास्यामस्
तासाꣳ सकृत्प्रदिष्टमेव दार्शपौर्णमासिकं तन्त्रं दार्शपौर्णमासिकः सꣳस्कारः
सर्वाः प्रथमाः सर्वा मध्यमाः सर्वा उत्तमा यथाकालं पर्वतिथ्या निर्वपेद्या आदिष्टस्थाना अथ या अनादिष्टस्थाना यानि पूर्वपक्षस्य पुण्याहान्येतत्तीर्थानि भवन्ति या अनार्तेष्टयोऽथ या आर्तेष्टय उपाधिगमकालास्ता भवन्ति
यथैतदभ्युद्धृताभ्युदिताभिनिम्रुक्ताविजातेति
व्युदितमग्न्यन्वाधानं नित्यं व्रतोपायनं यावत्सिद्धि याजमानमनुसꣳहरेदन्यत्रावापदेवताभ्यस्
तासां याः सोपनामास्ता उपाꣳ श्वथेतरा उच्चैरादेशादेव
सप्तदश सामिधेन्यो जानीयाद्यथैतन्मानवी ऋचौ धाय्ये कुर्यादुष्णिहककुभौ धाय्ये त्रिष्टुभौ संयाज्ये
वार्त्रघ्नावाज्यभागौ पूर्वपक्षे
वृधन्वन्तावपरपक्ष इत्यौपमन्यवो यानि हवीꣳषि कामेन वा दक्षिणया वा व्यपेतानि स्युर्नानाबर्हीꣳष्येव तानि जानीयाद्
आदेशादेव दक्षिणाव्यपेतꣳ समानबर्हिर्भवति यथा दिशामवेष्टिर्नेष्टीरुपाꣳ शुयाजोऽनुसमेति
यद्देवत्यꣳ हविस्तद्देवत्ये याज्यापुरोऽनुवाक्ये
पुरस्तात्स्विष्टकृत उपहोमा यासामुक्ता उपहोमा वासोदक्षिणाः काम्या इष्टयो या अनादिष्टदक्षिणा गोदक्षिणः पशुबन्धो नित्योऽन्वाहार्य इतीन्न्वा इमा इष्टीर्व्याख्याताः १
13.2
अथ वै भवत्यैन्द्रा ग्नमेकादशकपालं निर्वपेत्प्रजाकाम इति
तस्या एते भवत उभा वामिन्द्रा ग्नी अश्रवꣳ हीत्यैन्द्रा ग्नमेकादशकपालं निर्वपेत्स्पर्धमानः क्षेत्रे वा सजातेषु वेति
तस्या एते भवत इन्द्रा ग्नी रोचना दिवः श्नथद्वृत्रमित्यैन्द्रा ग्नमेकादशकपालं निर्वपेत्संग्राममुपप्रयास्यन्निति
तस्या एते भवत इन्द्रा ग्नी नवतिं पुरः शुचिं नु स्तोममित्यैन्द्रा ग्नमेकादशकपालं निर्वपेत्संग्रामं जित्वेति
तस्या एते भवत उभा वामिन्द्रा ग्नी अश्रवꣳ हीत्यैन्द्रा ग्नमेकादशकपालं निर्वपेज्जनतामेष्यन्निति
तस्या एते भवत इन्द्रा ग्नी रोचना दिवः श्नथद्वृत्रमिति
पौष्णं चरुमनुनिर्वपेदिति
तस्या एते भवतो वयमु त्वा पथस्पते पथस्पथ इति
क्षैत्रपत्यं चरुं निर्वपेज्जनतामागत्येति
तस्या एते भवतः क्षेत्रस्य पतिना वयं क्षेत्रस्य पत इत्यैन्द्रा ग्नमेकादशकपालमुपरिष्टान्निर्वपेदिति

तस्या एते भवतो ये संग्रामं जिग्युषः २
13.3
अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वातिपादयेदित्येतयेष्ट्या यक्ष्यमाण उपकल्पयते पथोऽन्तिकाद्बर्हिरनड्वाहं तस्या एते भवतोऽग्ने नया देवानामित्यन्वाहार्यमासाद्यानड्वाहं ददात्यग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेद्य आहिताग्निः सन्नव्रत्यमिव चरेदिति
तस्या एते भवतस्त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानीत्यग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेद्यꣳ रक्षाꣳ सि सचेरन्नित्यथ वै भवति
निशितायां निर्वपेत्परिश्रिते याजयेदिति
स निशायां महारात्र उत्थायाग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपति
परिश्रिते याजयति
कृणुष्व पाजः प्रसितिं न पृथ्वीमित्येतस्यानुवाकस्य पञ्चदश सामिधेनीः पराचीरन्वाह
तस्या एते भवतो रक्षोहणम्वि ज्योतिषेत्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतिमुपजुहोत्युत स्वानासो दिवि षन्त्वग्नेरिति ३
13.4
अग्नये रुद्र वते पुरोडाशमष्टाकपालं निर्वपेदभिचरन्निति
तस्या एते भवतस्त्वमग्ने रुद्र आ वो राजानमित्यग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेद्यस्य गावो वा पुरुषा वा प्रमीयेरन्यो वा बिभीयादिति
तस्या एते भवतोऽग्निर्होता साध्वीमकरित्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्संग्रामे संयत्त इति
तस्या एते भवतोऽक्रन्ददग्निस्त्वे वसूनीत्यथ वै भवत्य्
अभि वा एष एतानुच्यति येषां पूर्वाअरा अन्वञ्चः प्रमीयन्ते
पुरुषाहुतिर्ह्यस्य प्रियतमाग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदिति
तस्या एते भवतोऽथ वै भवत्यभि वा एष एतस्य गृहानुच्यति यस्य गृहान्दधत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदिति
तस्या एते भवतः ४
13.5
अथ वै भवत्यग्नये कामाय पुरोडाशमष्टाकपालं निर्वपेद्यं कामो नोपनमेदिति
तस्या एते भवतस्तुभ्यं ता अङ्गिरस्तमाश्याम तं काममग्न इत्यग्नये यविष्ठाय पुरोडाशमष्टाकपालं निर्वपेत्स्पर्धमानः क्षेत्रे वा सजातेषु वेति
तस्या एते भवतः श्रेष्ठं यविष्ठ भारत स श्वितान इत्यग्नये यविष्ठाय पुरोडाशमष्टाकपालं निर्वपेदभिचर्यमाण इति
तस्या एते भवतोऽग्नय आयुष्मते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेत सर्वमायुरियामिति
तस्या एते भवत आयुष्ट आयुर्दा अग्न इत्यग्नये जातवेदसे पुरोडाशमष्टापकालं निर्वपेद्भूतिकाम इति
तस्या एते भवतस्तस्मै ते दिवस्परीत्यग्नये रुक्मते पुरोडाशमष्टाकपालं निर्वपेद्रुक्काम इति
तस्या एते भवतः शुचिः पावक दृशानो रुक्म इत्यग्नये तेजस्वते पुरोडाशमष्टाकपालं निर्वपेत्तेजस्काम इति
तस्या एते भवत आ यदिषे नृपतिं स तेजीयसेत्यग्नये साहन्त्याय पुरोडाशमष्टाकपालं निर्वपेत्सीक्षमाण इति
तस्या एते भवतोऽग्ने सहन्तमाभर तमग्ने पृतनासहꣳ रयिमिति ५
13.6
अग्नयेऽन्नवते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेतान्नवान्त्स्यामिति
तस्या एते भवत उक्षान्नाय वशान्नाय वद्मा हि सूनो इत्यग्नयेऽन्नादाय पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेतान्नादः स्यामिति
तस्या एते भवतोऽग्नयेऽन्नपतये पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेतान्नपतिः स्यामिति
तस्या एते भवतोऽग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायाग्नये शुचये ज्योगामयावीत्येतयेष्ट्या यक्ष्यमाण उपकल्पयते हिरण्यं तस्या एता भवन्त्यग्न आयूꣳ षि पवसेऽग्ने पवस्वाग्ने पावक स नः पावकाग्निः शुचिव्रततम उदग्ने शुचयस्तवेत्यन्वाहार्यमासाद्य हिरण्यं ददात्येतामेव निर्वपेच्चक्षुष्काम इति
तस्या एता भवन्ति ६
13.7
अग्नये पुत्रवते पुरोडाशमष्टाकपालं निर्वपेदिन्द्रा य पुत्रिणे पुरोडाशमेकादशकपालं प्रजाकाम इति
तस्या एता भवन्ति यस्त्वा हृदा कीरिणा मन्यमानो यस्मै त्वꣳ सुकृते जातवेदस्त्वे सु पुत्र शवस उक्थौक्थे सोम इन्द्रं ममादेत्यग्नये रसवतेऽजक्षीरे चरुं निर्वपेद्यः कामयेत रसवान्त्स्यामिति
तस्या एते भवतोऽग्ने रसेनापो अन्वचारिषमित्यग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेत वसुमान्त्स्यामिति
तस्या एते भवतो वसुर्वसुपतिस्त्वामग्ने वसुपतिं वसूनामित्यग्नये वाजसृते पुरोडाशमष्टाकपालं निर्वपेत्संग्रामे संयत्त इति
तस्या एते भवतस्त्वामग्ने वाजसातममयं नो अग्निरित्यग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुरिति
तस्या एते भवतोऽग्निनाग्निः समिध्यते त्वꣳ ह्यग्ने अग्निनेत्य्
अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेदपर आदीप्यानूद्धृत्य इत्याहुस्तत्तथा न कार्यं यद्भागधेयमभि पूर्व उद्ध्रियते किमपरोऽभ्युद्ध्रियेतेति
तान्येवावक्षाणानि संनिधाय मन्थेदिति
स तान्येवावक्षाणानि संनिधाय मन्थतीतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति
छन्दोभिरेवैनꣳ स्वाद्योनेः प्रजनयतीति ब्राह्मणम्
अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेदिति
तस्या एते भवत उदग्ने शुचयस्तव वि ज्योतिषेति ७
13.8
अथ वै भवति
वैश्वानरं द्वादशकपालं निर्वपेद्वारुणं चरुं दधिक्राव्णे चरुमभिशस्यमान इत्येतयेष्ट्या यक्ष्यमाण उपकल्पयते हिरण्यं तस्या एता भवन्ति वैश्वानरो न ऊत्या त्वमग्ने शोचिषा शोशुचानोऽव ते हेड उदुत्तमं दधिक्राव्णो अकारिषमा दधिक्रा इत्यन्वाहार्यमासाद्य हिरण्यं ददात्येतामेव निर्वपेत्प्रजाकाम इति
तस्या एते भवन्ति
वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इति
तस्या एते भवतो वैश्वानरस्य दꣳ सनाभ्यो बृहद्जातो यदग्न इति
वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वातिपाद्येति
तस्या एते भवतो वैश्वानरो न ऊत्या पृष्टो दिवीत्याग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्निति

तस्या एता भवन्त्यग्निर्मूर्धा भुवो वैश्वानरो न ऊत्या त्वमग्ने शोचिषा शोशुचान इति
वैश्वानरं द्वादशकपालं निर्वपेन्मारुतꣳ सप्तकपालं ग्रामकाम इत्यथ वै भवत्याहवनीये वैश्वानरमधिश्रयति गार्हपत्ये मारुतम्
अनूच्यमान आसादयतीति
काले प्रत्यञ्चं वैश्वानरमासादयत्यनूच्यमानासु सामिधेनीषु मारुतं तस्य एता भवन्ति वैश्वानरो न ऊत्या पृष्टो दिवि मरुतो यद्ध वो दिवो या वः शर्मेति ८
13.9
आदित्यं चरुं निर्वपेत्संग्राममुपप्रयास्यन्निति
तस्या एते भवतोऽदितिर्न उरुष्यतु महीमू षु मातरमिति
वैश्वानरं द्वादशकपालं निर्वपेदायतनं गत्वेति
तस्या एते भवतो वैश्वानरो न ऊत्यास्माकमग्ने मघवत्सु धारयेति
वैश्वानरं द्वादशकपालं निर्वपेद्विद्विषाणयोरन्नं जग्ध्वेति
तस्या एते भवतो वैश्वानरो न ऊत्यर्तावानमिति
वैश्वानरं द्वादशकपालं निर्वपेत्सममानयोः पूर्वोऽभिद्रुह्येति
तस्या एते एव भवतो वैश्वानरं द्वादशकपालं निर्वपेदविं प्रतिगृह्येति
तस्या एते भवतो वैश्वानरो न ऊत्या त्वमग्ने शोचिषा शोशुचान इति
वैश्वानरं द्वादशकपालं निर्वपेदुभयादत्प्रतिगृह्याश्वं वा पुरुषं वेति
तस्या एते एव भवतो वैश्वानरं द्वादशकपालं निर्वपेत्सनिमेष्यन्निति
तस्या एते भवतो वैश्वानरो न ऊत्या वैश्वानरस्य सुमतौ स्यामेति ९
13.10
अथ वै भवति
यो वै संवत्सरं प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवत्येतमेव वैश्वानरं पुनरागत्य निर्वपेदिति

स एतमेव वैश्वानरं पुनरागत्य निर्वपति
यमेव प्रयुङ्क्ते तं भागधेयेन विमुञ्चति प्रतिष्ठित्या इति ब्राह्मणम्
अथ वै भवति
यया रज्ज्वोत्तमां गामाजेत्तां भ्रातृव्याय प्रहिणुयादिति
स यया रज्ज्वोत्तमां गामाजति तां भ्रातृव्याय प्रहित्य भ्रातृव्यस्य गोष्ठे न्यस्यति
निरृतिमेवास्मै प्रहिणोतीति ब्राह्मणं तस्या एते भवतः १०
13.11
अथ वै भवत्यैन्द्रं चरुं निर्वपेत्पशुकाम इति
तस्या एते भवत इन्द्रं वो विश्वतस्परीन्द्रं नर इतीन्द्रा येन्द्रि यावते पुरोडाशमेकादशकपालं निर्वपेत्पशुकाम इति
तस्या एते भवत इन्द्रि याणि शतक्रतोऽनु ते दायीतीन्द्रा य घर्मवते पुरोडाशमेकादशकपालं निर्वपेद्ब्रह्मवर्चसकाम इति
तस्या एते भवत आ यस्मिन्त्सप्त वासवा आमासु पक्वमैरय इतीन्द्रा यार्कवते पुरोडाशमेकादशकपालं निर्वपेदन्नकाम इति
तस्या एते भवत इन्द्र मिद्गाथिनो बृहद्गायन्ति त्वा गायत्रिण इतीन्द्रा य घर्मवते पुरोडाशमेकादशकपालं निर्वपेदिन्द्रा येन्द्रि यावत इन्द्रा यार्कवते भूतिकाम इति
तस्य एता भवन्त्या यस्मिन्त्सप्त वासवा आमासु पक्वमैरय इन्द्रि याणि शतक्रतोऽनु ते दायीन्द्र मिद्गाथिनो बृहद्गायन्ति त्वा गायत्रिण इति ११
13.12
इन्द्रा याꣳ होमुचे पुरोडाशमेकादशकपालं निर्वपेद्यः पाप्मना गृहीतः स्यादिति
तस्या एते भवतोऽँ! होमुचे विवेष यन्मेतीन्द्रा य वैमृधाय पुरोडाशमेकादशकपालं निर्वपेद्यं मृधोऽभि प्रवेपेरन्राष्ट्राणि वाभि समियुरिति

तस्या एते भवतो वि न इन्द्र मृधो जहि मृगो न भीम इतीन्द्रा य त्रात्रे पुरोडाशमेकादशकपालं निर्वपेद्बद्धो वा परियत्तो वेति
तस्या एते भवतस्त्रातारमिन्द्र म्मा ते अस्याꣳ सहसावन्नितीन्द्रा यार्काश्वमेधवते पुरोडाशमेकादशकपालं निर्वपेद्यं महायज्ञो नोपनमेदिति
तस्या एते भवतोऽनवस्ते रथम्वृष्णे यत्त इति १२
13.13
इन्द्रा यान्वृजवे पुरोडाशमेकादशकपालं निर्वपेद्ग्रामकाम इति
तस्या एते भवतोऽन्वह मासा अनु ते दायीतीन्द्रा ण्यै चरुं निर्वपेद्यस्य सेनासꣳशितेव स्यादित्यथ वै भवति
बल्बजानपीध्मे संनह्येत्
तान्सहेध्मेनाभ्यादध्यादिति
तान्सहैवेध्मेनाभ्यादधाति
तस्या एते भवत इन्द्रा णीमासु नारिषु नाहमिन्द्रा णि रारणेतीन्द्रा य मन्युमते मनस्वते पुरोडाशमेकादशकपालं निर्वपेत्संग्रामे संयत्त इति
तस्या एते भवतो यो जात एवा ते मह इन्द्रो ऽत्युग्र इत्येतामेव निर्वपेद्यो हतमना इव स्यादिति
तस्या एते भवत एतामेव निर्वपेद्यः स्वयंपाप इव स्यादिति
तस्या एते एव भवतः १३
13.14
इन्द्रा य दात्रे पुरोडाशमेकादशकपालं निर्वपेद्यः कामयेत दानकामा मे प्रजाः स्युरिति
तस्या एते भवतो मा नो मर्धीरा तू भरेतीन्द्रा य प्रदात्रे पुरोडाशमेकादशकपालं निर्वपेद्यस्मै प्रत्तमिव सन्न प्रदीयेतेति
तस्या एते भवतः प्रदातारꣳ हवामहे प्रदाता वज्रीतीन्द्रा य सुत्राम्णे पुरोडाशमेकादशकपालं निर्वपेदपरुद्धो वापरुध्यमानो वा इति

तस्या एते भवत इन्द्र ः! सुत्रामा तस्य वयꣳ सुमतौ यज्ञियस्येति
योऽलꣳ श्रियै सन्सदृङ्समानैः स्यात्तस्मा एतमैन्द्र मेकादशकपालं निर्वपेदित्यथ वै भवति
रेवती पुरोऽनुवाक्या भवति शान्त्या अप्रदाहाय शक्वरी याज्येति
तस्या एते भवतो रेवतीर्नः प्रो ष्वस्मै पुरोरथमिति १४
13.15
अथ वै भवत्याग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुरित्यथ वै भवति
प्रति वै परस्तादभिचरन्तमभिचरन्ति
द्वेद्वे पुरोऽनुवाक्ये कुर्यादतिप्रयुक्त्या इति
स द्विर्द्विः पुरोऽनुवाक्यामन्वाह
त्रिस्त्रिर्हविषामवद्यति
तस्या एता भवन्त्यग्नाविष्णू अग्नाविष्णू प्र णो देव्या नो दिवो बृहस्पत एवा पित्र इत्येतयैव यजेताभिचर्यमाण इति
तस्या एता एव भवन्त्याग्नावैष्णवमेकादशकपालं निर्वपेद्यं यज्ञो नोपनमेदिति
तस्या एते भवतोऽग्नाविष्णू अग्नाविष्णू इत्याग्नावैष्णवं घृते चरुं निर्वपेच्चक्षुष्काम इति
तस्या एते एव भवतः १५
13.16
अथ वै भवतीन्द्रि यं वै वीर्यं वृङ्क्ते भ्रातृव्यो यजमानोऽयजमानस्याध्वरकल्पां प्रतिनिर्वपेद्भ्रातृव्ये यजमाने
नास्येन्द्रि यं वीर्यं वृङ्क्ते
पुरा वाचः प्रवदितोर्निर्वपेदिति
स पुरा वाचः प्रवदितोर्महारात्र उत्थायाग्नावैष्णवमष्टाकपालं निर्वपेत्प्रातःसवनस्याकाले
सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुरिति
तस्या एता भवन्त्यग्नाविष्णू अग्नाविष्णू प्र णो देव्या नो दिवो बृहस्पत एवा पित्र इत्य्
आग्नावैष्णवमेकादशकपालं निर्वपेन्माध्यंदिनस्य सवनस्याकाले
सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुरिति
तस्या एता एव भवन्त्याग्नावैष्णवं द्वादशकपालं निर्वपेत्तृतीयसवनस्याकाले
सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुरिति
तस्या एता एव भवन्ति
मैत्रावरुणमेककपालं निर्वपेद्वशायै काल इति
तस्या एते भवत आ नो मित्रावरुणा प्र बाहवेति १६
13.17
यो ब्रह्मवर्चसकामः स्यात्तस्मा एतꣳ सोमारौद्रं चरुं तिष्यापूर्णमासे निर्वपेदिति
स यो ब्रह्मवर्चसकामः स्यात्स तैष्यां पौर्णमास्याꣳ सोमारौद्रं चरुं निर्वपति
परिश्रिते याजयत्यथ वै भवति
श्वेतायै श्वेतवत्सायै दुग्धं मथितमाज्यं भवत्याज्यं प्रोक्षणम्
आज्येन मार्जयन्ते
यावदेव ब्रह्मवर्चसं तत्सर्वं करोत्यति ब्रह्मवर्चसं क्रियत इत्याहुरीश्वरो दुश्चर्मा भवितोरिति
मानवी ऋचौ धाय्ये कुर्यादिति
मक्षू देववतो रथ इत्येतासां द्वे धाय्यालोके दधाति
तस्या एते भवतः सोमारुद्रा विवृहतं विषूचीं सोमारुद्रा युवमेतानीति १७
13.18
यदि बिभीयाद्दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर्वपेदिति
तस्य एते भवतः सोमपूषणेमौ देवविति
सोमारौद्रं चरुं निर्वपेत्प्रजाकाम इति
तस्या एते भवतः सोमारुद्रा विवृहतं विषूचीं सोमारुद्रा युवमेतानीति

सोमारौद्रं चरुं निर्वपेदभिचरन्निति
तस्या एते एव भवतः
सोमारौद्रं चरुं निर्वपेज्ज्योगामयावीत्येतयेष्ट्या यक्ष्यमाण उपकल्पयते होतानड्वाहं तस्या एते एव भवतोऽन्वाहार्यमासाद्य होतानड्वाहं ददाति
सोमारौद्रं चरुं निर्वपेद्यः कामयेत स्वेऽस्मा आयतने भ्रातृव्यं जनयेयमिति
सोऽपरक्षेत्रमर्यादायामध्यवसाय मथित्वाग्नीन्विहृत्य सोमारौद्र म्चरुं निर्वपत्यथ वै भवति
वेदिं परिगृह्यार्धमुद्धन्यादर्धं नार्धं बर्हिष स्तृणीयादर्धं नार्धमिध्मस्याभ्यादध्यादर्धं न
स्व एवास्मा आयतने भ्रातृव्यं जनयतीति ब्राह्मणं तस्या एते भवतः १८
13.19
अथ वै भवत्यैन्द्र मेकादशकपालं निर्वपेन्मारुतꣳ सप्तकपालं ग्रामकाम इत्यथ वै भवत्याहवनीय ऐन्द्र मधिश्रयति गार्हपत्ये मारुतम्
अनूच्यमान आसादयतीति
काले प्रत्यञ्चमैन्द्र मासादयत्यनूच्यमानासु सामिधेनीषु मारुतं तस्या एता भवन्तीन्द्रं वो विश्वतस्परीन्द्रं नरो मरुतो यद्ध वो दिवो या वः शर्मेति
एतामेव निर्वपेद्यः कामयेत क्षत्राय च विशे च समदं दध्यामित्यैन्द्र स्यावद्यन्ब्रूयादिन्द्रा यानुब्रूहीतीन्द्रं वो विश्वतस्परीत्यन्वाहात्याक्रम्याश्राव्याह मरुतो यजेति
या वः शर्मेति यजति
मारुतस्यावद्यन्ब्रूयाद्मरुद्भ्योऽनुब्रूहीति
मरुतो यद्ध वो दिव इत्यन्वाहात्याक्रम्याश्राव्याहेन्द्रं यजेतीन्द्रं नर इति यजति
स्व एवैभ्यो भागधेये समदं दधाति वितृꣳ हाणास्तिष्ठन्तीति ब्राह्मणम्

एतामेव निर्वपेद्यः कामयेत कल्पेरन्निति
यथादेवतमवदाय यथादेवतं यजेद्भागधेयेनैवैनान्यथायथं कल्पयति
कल्पन्त एवेति ब्राह्मणं तस्या एता भवन्ति याः पूर्वस्याः १९
13.20
ऐन्द्र मेकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकाम इत्येतयेष्ट्या यक्ष्यमाण उपकल्पयत उपाधाय्यपूर्वयं वासोऽथ वै भवत्यैन्द्र स्यावदाय वैश्वदेवस्यावद्येदथैन्द्र स्योपरिष्टादित्य्स ऐन्द्र स्यावदाय द्विर्वैश्वदेवस्यावद्यत्यथैन्द्र स्योपरिष्टादिन्द्रि येणैवास्मा उभयतः सजातान्परिगृह्णातीति ब्राह्मणं तस्या एते भवतो भरेष्विन्द्र म्ममत्तु न इत्यन्वाहार्यमासाद्योपाधाय्यपूर्वयं वासो ददाति
पृश्नियै दुग्धे प्रैयङ्गवं चरुं निर्वपेन्मरुद्भ्यो ग्रामकाम इत्यथ वै भवति
प्रियवती याज्यानुवाक्ये भवत इति
तस्या एते भवतः प्रिया वो नाम हुवे तुराणां श्रियसे कं भानुभिरिति
यः समानैर्मिथो विप्रियः स्यात्तमेतया संज्ञान्या याजयेदिति
स यैः संजिज्ञासीत तेषूपसमेतेष्वग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपति
सोमाय रुद्र वते चरुमिन्द्रा य मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुमिति
तस्या एते भवतोऽग्निः प्रथमो वसुभिर्नो अव्यात्सं नो देवो वसुभिरिति २०
13.21
आदित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपेद्भूतिकाम इति
तस्या एते भवतो यज्ञो देवानां शुचिरप इत्य्
आदित्येभ्यो धारयद्वद्भ्यश्चरुं निर्वपेदपरुद्धो वापरुध्यमानो वेत्यथादितेऽनुमन्यस्वेत्यपरुध्यमानोऽपरोद्धुः पदपाꣳ सूनादत्तेऽथैनानादायाहरत्युपप्रेत मरुतः सुदानव एना विश्पतिनाभ्यमुꣳ राजानमित्यथैनान्यजमानस्याञ्जलावावपति सत्याशीरितीह मन इत्युपनिगृह्णीतेऽत्रैतान्पदपाꣳ सूनसंचरे परावपत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायति
तस्या एते भवतो धारयन्त आदित्यासस्तिस्रो भूमीर्धारयन्निति
यः परस्ताद्ग्राम्यवादी स्यात्तस्य गृहाद्व्रीहीनाहरेद्शुक्लाꣳश्च कृष्णाꣳश्च विचिनुयादित्यथ वै भवति
ये शुक्लाः स्युस्तमादित्यं चरुं निर्वपेदिति
तस्या एते भवतस्त्यान्नु क्षत्रियान्न दक्षिणेत्यादित्या वै देवतया विड्विशमेवावगच्छतीति ब्राह्मणम्
अथ वै भवत्यवगतास्य विडनवगतꣳ राष्ट्रमित्याहुर्ये कृष्णाः स्युस्तं वारुणं चरुं निर्वपेदिति
तस्या एते भवत इमं मे वरुण तत्त्वा यामीति
वारुणं वै राष्ट्रम्
उभे एव विशं च राष्ट्रं चावगच्छतीति ब्राह्मणम् २१
13.22
अथ वै भवति
यदि नावगच्छेदिममहमादित्येभ्यो भायं निर्वपाम्यामुष्मादमुष्यै विशोऽवगन्तोरिति निर्वपेदिति

निरुप्योपरमत्यथावगच्छते सꣳसादयति
तस्या एते भवतो यज्ञो देवानामादित्यानामवसा नूतनेनेत्यादित्या एवैनं भागधेयं प्रेप्सन्तो विशमवगमयन्तीति ब्राह्मणम्
अथ वै भवति
यदि नावगच्छेदाश्वत्थान्मयूखान्सप्त मध्यमेषायामुपहन्यादिति
प्रागीषमनोऽवस्थापयित्वाश्वत्थान्मयूखान्सप्त मध्यमेषायामुपहन्ति
मध्यममुपहत्य त्रीन्प्रतीचस्त्रीन्प्राच आयातयतीदमहमादित्यान्बध्नाम्यामुष्मादमुष्यै विशोऽवगन्तोरित्यादित्या एवैनं बद्धवीरा विशमवगमयन्तीति ब्राह्मणम्
अथ वै भवति
यदि नावगच्छेदेतमेवादित्यं चरुं निर्वपेदिध्मेऽपि मयूखान्संनह्येत्
तान्सहेध्मेनाभ्यादध्यादिति
तान्सहैवेध्मेनाभ्यादधात्यनपरुध्यमेवावगच्छतीति ब्राह्मणम्
अथ वै भवत्याश्वत्था भवन्ति
मरुतां वा एतदोजो यदश्वत्थ ओजसैव विशमवगच्छति
सप्त भवन्ति
सप्तगणा वै मरुतो गणश एव विशमवगच्छतीति ब्राह्मणं तस्या एते एव भवतः २२
13.23
अथ वै भवति
यो मृत्योर्बिभीयात्तस्मा एतां प्राजापत्याꣳ शतकृष्णलां निर्वपेदित्येतयेष्ट्या यक्ष्यमाण उपकल्पयते शतꣳ सुवर्णानि कृष्णलानि नवं पात्रं प्रभूतमाज्यमित्यथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वा प्रजापतये जुष्टं निर्वपामीति चतुरो मुष्टीन्कृष्णलानां निर्वपति
हविष्कृता वाचं विसृज्य गार्हपत्ये नवं पात्रमधिश्रित्य तिरः पवित्रमाज्यमानीय तिरः पवित्रं कृष्णलान्यावपत्य्
अथाज्यं निर्वपत्यथाज्यमधिश्रित्योभयं पर्यग्निकृत्वान्तर्वेद्यासादयत्यथ वै भवति
चत्वारिचत्वारि कृष्णलान्यवद्यति चतुरवत्तस्याप्त्या इत्यष्टौ देवताया अवद्यति चत्वारि स्विष्टकृतेऽष्टाविडायै चत्वार्यवान्तरेडाया एकं प्राशित्रायैकं यजमानायाज्यमेव जुह्वतो जुह्वत्याज्यं प्राश्नन्तः प्राश्नन्त्यथैनान्येकधोद्धृत्य ब्रह्मण उपहरति
तस्या एते भवतो हिरण्यगर्भः प्रजापत इति २३
13.24
यो ब्रह्मवर्चसकामः स्यात्तस्मा एतꣳ सौर्यं चरुं निर्वपेदित्येतयेष्ट्या यक्ष्यमाण उपकल्पयते पञ्च सुवर्णानि कृष्णलानि सुवर्णरजतौ च रुक्मवथैतं चरुꣳ श्रपयित्वाभिघार्योदञ्चमुद्वास्य सुवर्णरजताभ्याꣳ रुक्माभ्यां परिगृह्यान्तर्वेद्यासादयति
समानं कर्मा प्रयाजेभ्योऽथ वै भवति
प्रयाजेप्रयाजे कृष्णलं जुहोतीति
स प्रयाजेप्रयाज एव कृष्णलमन्ववधाय जुहोति
तस्या एते भवत उदु त्यं चित्रमित्यन्वाहार्यमासाद्य सुवर्णरजतौ रुक्मौ ददात्याग्नेयमष्टाकपालं निर्वपेत्सावित्रं द्वादशकपालं भूम्यै चरुं यः कामयेत हिरण्यं विन्देय हिरण्यं मोपनमेदित्येतयेष्ट्या यक्ष्यमाण उपकल्पयते हिरण्यं तस्या एता भवन्ति स प्रत्नवद्नि काव्या हिरण्यपाणिमूतये वाममद्य सवितर्बडित्था पर्वतानां स्तोमासस्त्वा विचारिणीत्य्
अन्वाहार्यमासाद्य हिरण्यं ददात्येतामेव निर्वपेद्धिरण्यं वित्त्वेति
तस्या एता एव भवन्त्येतामेव निर्वपेद्यस्य हिरण्यं नश्येदिति
तस्या एता एव भवन्ति २४
13.25
यः सोमवामी स्यात्तस्मा एतꣳ सोमेन्द्र ँ! श्यामाकं चरुं निर्वपेदिति
तस्या एते भवत ऋदूदरेणापान्तमन्युरिति
सोमवामी वा अन्यो भवत्यन्यः सोमातिपवितो भवति
यः सोमातिपवितः स्यात्तस्मा एतꣳ सोमेन्द्र ँ! श्यामाकं चरुं निर्वपेदिति
तस्या एते भवतः प्र सुवानः सबाधस्त इत्यग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेदिन्द्रा य प्रदात्रे पुरोडाशमेकादशकपालं पशुकाम इत्येतयेष्ट्या यक्ष्यमाण उपकल्पयते दधि मधु घृतमपो यवानित्यथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वाग्नये दात्रे जुष्टं निर्वपामीति चतुरो मुष्टीन्व्रीहीणां निर्वपत्येतामेव प्रतिपदं कृत्वेन्द्रा य प्रदात्रे जुष्टं निर्वपामीति चतुर एव व्रीहीणाम्
एतामेव प्रतिपदं कृत्वा प्रजापतये जुष्टं निर्वपामीति चतुरो यवानां तेषां व्रीहिष्वेव हविष्कृतमुद्वादयत्युपोद्यच्छन्ते यवान्
हविष्कृता वाचं विसृजते
समानं कर्माधिवपनाद्
अध्युप्य दक्षिणार्धे गार्हपत्यस्याष्टौ कपालान्युपदधात्येकादशोत्तरतोऽथैतान्यवानुलूखले परिक्षुद्य गार्हपत्य एककपालमधिश्रित्य धाना भर्जन्ति
यदैते हविषी अधिपृणक्ति तदैता धानाश्चतुष्टयेनोपसृजति दध्ना मधुना घृतेनाद्भिरिति
तस्या एता भवन्त्यग्ने दा दाशुषे रयिं दा नो अग्ने शतिनः प्रदातारꣳ हवामहे प्रदाता वज्री घृतं न पूतमुभे सुश्चन्द्र सर्पिष इति २५
13.26
यो यज्ञविभ्रष्टः स्यात्तस्मा एतामिष्टिं निर्वपेदाग्नेयमष्टाकपालमैन्द्र मेकादशकपालꣳ सौम्यं चरुमित्यथ वै भवत्याग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयेदिति
स आग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयति
तेजश्चैवास्मिन्ब्रह्मवर्चसं च समीची दधातीति ब्राह्मणं तस्या एता भवन्ति स प्रत्नवद्नि काव्येन्द्रं वो विश्वतस्परीन्द्रं नरस्त्वं नः सोम या ते धामानीति
अग्नीषोमीयमेकादशकपालं निर्वपेद्यं कामो नोपनमेदिति
तस्या एते भवतोऽग्नीषोमा सवेदसा युवमेतानीत्यग्नीषोमीयमष्टाकपालं निर्वपेद्ब्रह्मवर्चसकाम इति
यो ब्रह्मवर्चसकामः स्यात्सोऽग्नीषोमीयमष्टाकपालꣳ श्यामाकानां निर्वपति
तस्या एते भवतोऽग्नीषोमाविमꣳ सु मेऽग्नीषोमा हविषः प्रस्थितस्येति

सोमाय वाजिने श्यामाकं चरुं निर्वपेद्यः क्लैव्याद्बिभीयादिति
तस्या एते भवत आप्यायस्व सं त इति
ब्राह्मणस्पत्यमेकादशकपालं निर्वपेद्ग्रामकाम इत्यथ वै भवति
गणवती याज्यानुवाक्ये भवत इति
तस्या एते भवतो गणानां त्वा गणपतिꣳ हवामहे स इज्जनेनेत्येतामेव निर्वपेद्यः कामयेत ब्रह्मन्विशं वि नाशयेयमिति
मारुती याज्यानुवाक्ये कुर्यादिति
तस्या एते भवतो मरुतो यद्ध वो दिवो या वः शर्मेति २६
13.27
अर्यम्णे चरुं निर्वपेत्सुवर्गकाम इति
तस्या एते भवतोऽर्यमायाति ये तेऽर्यमन्नित्यर्यम्णे चरुं निर्वपेद्यः कामयेत दानकामा मे प्रजाः स्युरिति
तस्या एते भवतोऽर्यम्णे चरुं निर्वपेद्यः कामयेत स्वस्ति जनतामियामिति
तस्या एते एव भवतो यो राजन्य आनुजावरः स्यात्तस्मा एतमैन्द्रमानुषूकमेकादशकपालं निर्वपेदित्यथ वै भवति
बुध्नवती अग्रवती याज्यानुवाक्ये भवत इति
तस्या एते भवतो बुध्नादग्रमङ्गिरोभिर्गृणानो बुध्नादग्रेण विमिमाय मानैरिति
यो ब्राह्मण आनुजावरः स्यात्तस्मा एतं बार्हस्पत्यमानुषूकं चरुं निर्वपेदित्यथ वै भवति
बुध्नवती अग्रवती याज्यानुवाक्ये भवत इति
तस्या एते भवतो महान्मही अस्तभायद्बुध्नाद्यो अग्रमभ्यर्त्योजसेति २७
13.28
अथ वै भवति
यः पापयक्ष्मगृहीतः स्यात्तस्मा एतमादित्यं चरुममावास्यायां निर्वपेदिति
तस्या एते भवतो नवोनवो भवति जायमानो यमादित्या अꣳ शुमाप्याययन्तीति

यं कामयेतान्नादः स्यादिति तस्मा एतं त्रिधातुं निर्वपेदिन्द्रा य राज्ञे पुरोडाशमेकादशकपालमिन्द्रा याधिराजायेन्द्रा य स्वराज्ञ इत्यथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वेन्द्रा य राज्ञे जुष्टं निर्वपामीति चतुरो मुष्टीन्व्रीहीणां निर्वपत्येतामेव प्रतिपदं कृत्वेन्द्रा याधिराजायेन्द्रा य स्वराज्ञ इति चतुरश्चतुरो मुष्टीनेकैकस्यै देवतायै
हविष्कृता वाचं विसृजते
समानं कर्माधिवपनादध्युप्य गार्हपत्य एकादशोत्तानानि कपालान्युपदधात्यथ वै भवत्युत्तानेषु कपालेष्वधिश्रयत्ययातयामत्वाय
त्रयः पुरोडाशा भवन्ति
त्रय इमे लोका एषां लोकानामाप्त्ययुत्तरौत्तरो ज्यायान्भवतीति
स उत्तरमुत्तरमेव ज्यायाꣳ सं करोति
सर्वेषामभिगमयन्नवद्यतीति
सोऽवद्यन्नाहेन्द्रा य राज्ञेऽनुब्रूहीति
प्राच्यां दिशि त्वमिन्द्रा सि राजेत्यनूच्येन्द्रो जयाति न पराजयाता इति यजति
सोऽवद्यन्नाहेन्द्रा याधिराजायानुब्रूहीतीन्द्रो जयाति न पराजयाता इत्यनूच्यास्येदेव प्ररिरिचे महित्वमिति यजति
सोऽवद्यन्नाहेन्द्रा य स्वराज्ञेऽनुब्रूहीत्यस्येदेव प्ररिरिचे महित्वमित्यनूच्य प्राच्यां दिशि त्वमिन्द्रा सि राजेति यजति
व्यत्यासमन्वाहानिर्दाहायेति ब्राह्मणम् २८
13.29
य इन्द्रि यकामो वीर्यकामः स्यात्तमेतया सर्वपृष्ठया याजयेदित्येतयेष्ट्या यक्ष्यमाण उपकल्पयतेऽश्वमृषभं वृष्णिं बस्तमित्यथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वेन्द्रा य राथंतराय जुष्टं निर्वपामीति चतुरो मुष्टीन्व्रीहीणां निर्वपत्य्
एतामेव प्रतिपदं कृत्वेन्द्रा य बार्हतायेन्द्रा य वैरूपायेन्द्रा य वैराजायेन्द्रा य शाक्वरायेन्द्रा य रैवताय इति चतुरश्चतुरो मुष्टीनेकैकस्यै देवतायै
हविष्कृता वाचं विसृजते
समानं कर्माधिवपनादध्युप्य गार्हपत्ये द्वादशोत्तानानि कपालान्युपदधात्यथ वै भवत्युत्तानेषु कपालेष्वधिश्रयत्ययातयामत्वाय
द्वादशकपालः पुरोडाशो भवति वैश्वदेवत्वाय
समन्तं पर्यवद्यतीति
सोऽवद्यन्नाहेन्द्रा य राथंतरायानुब्रूहीत्यभि त्वा शूर नोनुम इत्यनूच्य त्वामिद्धि हवामह इति यजति
सोऽवद्यन्नाहेन्द्रा य बार्हतायानुब्रूहीति
त्वामिद्धि हवामह इत्यनूच्य यद्द्याव इन्द्र त इति यजति
सोऽवद्यन्नाहेन्द्रा य वैरूपायानुब्रूहीति
यद्द्याव इन्द्र त इत्यनूच्य पिबा सोममिन्द्र मन्दतु त्वेति यजति
सोऽवद्यन्नाहेन्द्रा य वैराजायानुब्रूहीति
पिबा सोममिन्द्र मन्दतु त्वेत्यनूच्य कदा चन स्तरीरसीति यजति
सोऽवद्यन्नाहेन्द्रा य शाक्वरायानुब्रूहीति
कदा चन स्तरीरसीत्यनूच्य रेवतीर्नः सधमाद इति यजति
सोऽवद्यन्नाहेन्द्रा य रैवतायानुब्रूहीति
रेवतीर्नः सधमाद इत्यनूच्याभि त्वा शूर नोनुम इति यजति
व्यत्यासमन्वाहानिर्दाहायेति ब्राह्मणम् २९
13.30
अन्वाहार्यमासाद्याश्वमृषभं वृष्णिं बस्तमिति ददात्येतयैव यजेताभिशस्यमान इति
यैव पूर्वा सेयं यश्चक्षुष्कामः स्यात्तस्मा एतामिष्टिं निर्वपेदग्नये भ्राजस्वते पुरोडाशमष्टाकपालꣳ सौर्यं चरुमग्नये भ्राजस्वते पुरोडाशमष्टाकपालमिति

तस्या एते भवन्त्युदग्ने शुचयस्तव वि ज्योतिषोदु त्यं चित्रमुदग्ने शुचयस्तव वि ज्योतिषेत्युपहूतायामिडायामनहितमग्नीधे भवत्यथ यजमानाय त्रीन्पिण्डान्प्रयच्छत्युदु त्यं जातवेदसं सप्त त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्प्रयच्छति
चक्षुरेवास्मै प्रयच्छति
यदेव तस्य तदिति ब्राह्मणम्वैश्वदेवीꣳ सांग्रहणीं निर्वपेद्ग्रामकाम इति
वैश्वदेवं चरुꣳ संगृह्णन्त इव श्रपयन्त्यथ ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमिति परिधीन्परिदधाति
तस्या एते भवतो विश्वे देवा विश्वे देवा इत्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोत्यामनमस्यामनस्य देवा इति तिस्रः ३०
13.31
अथ वै भवत्यग्निं वा एतस्य शरीरं गच्छति सोमꣳ रसो वरुण एनं वरुणपाशेन गृह्णाति सरस्वतीं वागग्नाविष्णू आत्मा यस्य ज्योगामयति
यो ज्योगामयावी स्याद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं निर्वपेदित्येतयेष्ट्या यक्ष्यमाण उपकल्पयते खादिरं नवं पात्रं नवनीतमाज्यं यावतीः समा एष्यन्मन्येत तावन्मानं च प्रवर्तम्
अथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वाग्नेयमष्टाकपालं निर्वपति सौम्यं चरुं वारुणं दशकपालꣳ सारस्वतं चरुमाग्नावैष्णवमेकादशकपालमिति

समानं कर्माज्यावेक्षणात्
स आज्यावेक्षणेऽनुवर्तयति यन्नवमैत्तन्नवनीतमभवदिति
समानं कर्मा स्रुचाꣳ सादनात्
सादयित्वा स्रुचोऽथैतं प्रवर्तं खादिरे नवे पात्र उपस्तीर्णाभिघारितꣳ सह हविर्भिरन्तर्वेद्यासादयति
समानं कर्मा प्रयाजेभ्यः
प्रयाजैश्चरित्वा हविर्भिश्चरति
तस्या एता भवन्त्यायुष्ट आयुर्दा अग्न आप्यायस्व सं तेऽव ते हेड उदुत्तमम्प्र णो देव्या नो दिवोऽग्नाविष्णू अग्नाविष्णू इत्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोति ३१
13.32
अश्विनोः प्राणोऽसि तस्य ते दत्तां ययोः प्राणोऽसि स्वाहेन्द्र स्य प्राणोऽसि तस्य ते ददातु यस्य प्राणोऽसि स्वाहा मित्रावरुणयोः प्राणोऽसि तस्य ते दत्तां यस्य प्राणोऽसि स्वाहा विश्वेषां देवानां प्राणोऽसि तस्य ते ददतु येषां प्राणोऽसि स्वाहेति
हुत्वाहुत्वैव सꣳस्रावैः प्रवर्तमभिघारयति राडसि विराडसि सम्राडसि स्वराडसीत्यथैतं प्रवर्तमग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निदधात्यथ यजमानमाज्यमवेक्षयति घृतस्य धाराममृतस्य पन्थामिन्द्रे ण दत्तां प्रयतां मरुद्भिः । तत्त्वा विष्णुः पर्यपश्यत्तत्त्वेडा गव्यैरयदित्यथ ब्रह्मणो हस्तमन्वारभ्यर्त्विजः पर्याहुः पावमानेन त्वा स्तोमेन गायत्रस्य वर्तन्योपाꣳ शोर्वीर्येण देवस्त्वा सवितोत्सृजतु जीवातवे जीवनस्यायि बृहद्र थंतरयोस्त्वा स्तोमेन त्रिष्टुभो वर्तन्या शुक्रस्य वीर्येण देवस्त्वा सवितोत्सृजतु जीवातवे जीवनस्याया अग्नेस्त्वा मात्रया जगत्यै वर्तन्याग्रयणस्य वीर्येण देवस्त्वा सवितोत्सृजतु जीवातवे जीवनस्याया इत्य्
अथ हिरण्याद्घृतं निष्पिबति
निष्पिबन्तमनुमन्त्रयत इममग्न आयुषे वर्चसे कृधि प्रियꣳ रेतो वरुण सोम राजन्। मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासदित्यथैतं प्रवर्तमद्भिः प्रक्षाल्य दक्षिणे कर्ण आबध्नीत आयुष्टे विश्वतो दधदित्यथैनमनुपरिवर्तयत आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसीत्यथास्य ब्रह्मा हस्तं गृह्णात्यग्निरायुष्मानित्यान्तादनुवाकस्य ३२
13.33
यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणाञ्चतुष्कपालान्निर्वपेदेकातिरिक्तानिति
तस्या एते भवत इमं मे वरुण तत्त्वा यामीति
यद्यपरं प्रतिग्राही स्यात्सौर्यमेककपालमनुनिर्वपेदिति
तस्या एते भवत उदु त्यं चित्रमित्यथापोऽवभृथमवैत्यथ वै भवत्यपोनप्त्रीयं चरुं पुनरेत्य निर्वपेदिति

तस्या एते भवतोऽपां नपात्समन्या यन्तीति
यः पाप्मना गृहीतः स्यात्तस्मा एतामैन्द्रा वरुणीं पयस्यां निर्वपेदित्येतयेष्ट्या यक्ष्यमाण उपकल्पयते दधि पय आमिक्षाया इत्यथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वेन्द्रा वरुणाभ्यां जुष्टं निर्वपामीति चतुरो मुष्टीन्व्रीहीणां निर्वपति
हविष्कृता वाचं विसृजते
समानं कर्माधिवपनादध्युप्य दक्षिणार्धे गार्हपत्यस्यैकादश कपालान्युपदधाति
यदैतं पुरोडाशमधिपृणक्ति तदैतामामिक्षां गार्हपत्ये श्रपयत्यथैतं पुरोडाशमुपस्तीर्णाभिघारितमुद्वास्यामिक्षया संप्रच्छाद्यान्तर्वेद्यासादयति ३३
13.34
अथ वै भवति
पयस्यायां पुरोडाशमवदधात्यात्मन्वन्तमेवैनं करोत्यथो आयतनवन्तमेव
चतुर्धा व्यूहति
दिक्ष्वेव प्रतितिष्ठति
पुनः समूहतीति
स आमिक्षां पुरोडाशाच्चतुर्धा कृत्वा व्यूहति या वामिन्द्रा वरुणा यतव्या तनूस्तयेममꣳ हसो मुञ्चतं या वामिन्द्रा वरुणा सहस्या रक्षस्या तेजस्या तनूस्तयेममꣳ हसो मुञ्चतमिति
पुनः समूहति समूह्यावद्यतीति
तस्या एते भवत इन्द्रा वरुणयोरहमिन्द्रा वरुणा युवमध्वराय न इत्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोति यो वामिन्द्रा वरुणावग्नौ स्रामस्तं वामेतेनावयज इत्यष्टौ ३४
13.35
अथ वै भवति
यो भ्रातृव्यवान्त्स्यात्स स्पर्धमान एतयेष्ट्या यजेताग्नये प्रवते पुरोडाशमष्टाकपालं निर्वपेदग्नये विबाधवतेऽग्नये प्रतीकवत इति

तस्या एता भवन्ति प्रप्रायमग्निः प्र ते यक्षि प्र त इयर्मि मन्म भुवो वि पाजसा वि ज्योतिषा स त्वमग्ने प्रतीकेन तꣳ सुप्रतीकꣳ सुदृशꣳ स्वञ्चमिति
यो भ्रातृव्यवन्त्स्यात्स स्पर्धमान एतयेष्ट्या यजेतेन्द्रा याꣳ होमुचे पुरोडाशमेकादशकपालं निर्वपेदिन्द्रा य वैमृधायेन्द्रा येन्द्रि यावत इत्यथ वै भवति
त्रयस्त्रिꣳ शत्कपालं पुरोडाशं निर्वपतीति
य एवैते त्रय एकादशकपालास्त एवैत उक्ता भवन्ति
तस्या एता भवन्त्यꣳ होमुचे विवेष यन्मा वि न इन्द्रे न्द्र क्षत्रमिन्द्रि याणि शतक्रतोऽनु ते दायीति
यो भ्रातृव्यवान्त्स्यात्स स्पर्धमान एतयेष्ट्या यजेताग्नये संवर्गाय पुरोडाशमष्टाकपालं निर्वपेत्
तꣳ शृतमासन्नमेतेन यजुषाभिमृशेदिति
तꣳ शृतमासन्नमेतेन यजुषाभिमृशत्योजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरहमनेन हविषामुं भ्रातृव्यमभिभूयासमिति
यक्ष्वा हि देवहूतमानित्येतस्यानुवाकस्य सप्तदश सामिधेनीः पराचीरन्वाह
तस्या एते भवतः सखायः सं वः सम्यञ्चं सꣳसमिद्युवसे वृषन्निति ३५
13.36
यः प्रजाकामः स्यात्तस्मा एतं प्रजापत्यं गार्मुतं चरुं निर्वपेदिति
तस्या एते भवतः प्रजापते स वेदेति
यः पशुकामः स्यात्तस्मा एतꣳ सोमापौष्णं गार्मुतं चरुं निर्वपेदिति

तस्या एते भवतः सोमापूषणेमौ देवविति
चित्रया यजेत पशुकाम इति
श्वश्चित्रयेत्युपवसत्यथ प्रातराग्रेयमष्टाकपालं निर्वपति सौम्यं चरुं त्वाष्ट्रमष्टाकपालꣳ सरस्वत्यै चरुꣳ सरस्वते चरुꣳ सिनीवाल्यै चरुमैन्द्र मेकादशकपालमिति
तस्या एते भवन्त्यग्निना रायिमश्नवद्गोमाꣳ अग्न आप्यायस्व सं त इह त्वष्टारमग्रियं तन्नस्तुरीपम्प्र णो देव्या नो दिवः पीपिवाꣳ सꣳसरस्वतो ये ते सरस्व ऊर्मयः सिनीवालि या सुपाणिरिन्द्रं वो विश्वतस्परीन्द्रं नर इत्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोत्यग्ने गोभिर्न आगहीति पञ्चर्चो द्वे यजुषी ३६
13.37
कारीर्या यक्ष्यमाणो भवति
स उपकल्पयते कृष्णं वासः कृष्णतूषं कृष्णमश्वं कृष्णꣳ संदानं कृष्णाजिनं कृष्णमधु करीरसक्तून्कृष्णां कुम्भीमामपक्वां कृष्णमनस्त्रिगधं कृष्णामविं कृष्णं वर्षाहूस्तम्बं वैतसमिध्माबर्हिरित्यथ यजमानायतने कृष्णं वासः कृष्णतूषं निदधात्यथाग्रेणाहवनीयं कृष्णमश्वं कृष्णेन संदानेन संदित्यान्तर्वेदि कृष्णाजिने कृष्णमधु करीरसक्तून्निवपत्य्
उत्करे कुम्भीं निमिनोत्यथाग्रेणोत्करं प्रागीषमन स्थापयित्वा तस्याग्रेणोपस्तम्भनं कृष्णामविं निग्रथ्नात्युत्तरेणाहवनीयं कृष्णं वर्षाहूस्तम्बं वैतसमिध्माबर्हिरिति निदधात्यथ यजमानः कृष्णं वासः कृष्णतूषं परिधत्ते ३७
13.38
मारुतमसि मरुतामोजोऽपां धारां भिन्द्धीति
रमयत मरुतः श्येनमायिनमिति पश्चाद्वातं प्रतिमीवति
पुरोवातमेव जनयति वर्षस्यावरुद्ध्या इति ब्राह्मणम्
अथैतमश्वꣳ संदानात्प्रमुच्योत्तरवर्ग्येणाभिविक्षिपत्यभिक्रन्द स्तनय गर्भमाधा इति
स यदि विधूनुते यदि मेहति यदि शकृत्करोति वर्षिष्यतीत्येव वेदाथ वातनामानि जुहोति पुरोवातो वर्षञ्जिन्वरावृत्स्वाहेत्यष्टवथान्तर्वेदि कृष्णाजिने मधुषा करीरसक्तून्संयौति मान्दा वाशाः शृन्ध्यूरजिराः । ज्योतिष्मतीस्तमस्वरीरुन्दतीः सुफेनाः । मित्रभृतः क्षत्रभृतः सुराष्ट्रा इह मावतेति
तिस्रः पिण्डीः कृत्वा समुच्चित्य कृष्णाजिनस्यान्तान्संदानेनोपनह्यति वृष्णो अश्वस्य संदानमसि वृष्ट्यै त्वोपनह्यामीत्यथैना अनसः प्रथमायां गधायामाबध्नाति ३८
13.39
देवा वसव्या अग्ने सोम सूर्येत्यहोरात्रे उपरमति
द्वितीयस्यामाबध्नाति देवाः शर्मण्या मित्रावरुणार्यमन्नित्य्
अहोरात्रे एवोपरमति
तृतीयस्यामाबध्नाति देवाः सपीतयोऽपां नपादाशुहेमन्नित्यहोरात्रे एवोपरमत्यथ वै भवति
यदि वर्षेत्तावत्येव होतव्यमिति
यदि चैव वर्षति यदि नोभयेनैव पिण्डीर्जुहोति स्रुवोपस्तीर्णाभिघारिता दिवा चित्तमः कृण्वन्त्या यं नर उदीरयथा मरुतः समुद्र त इत्यथासां धूममन्वीक्षतेऽसितवर्णा हरयः सुपर्णा इति
यदि न वर्षच्छ्वो भूते हविर्निर्वपेदग्नये धामच्छदे पुरोडाशमष्टाकपालं निर्वपेन्मारुतꣳ सप्तकपालꣳ सौर्यमेककपालमिति
तस्या एता भवन्ति त्वं त्या चिदच्युताग्ने भूरीणि तव जातवेदो दिवो नो वृष्टिं मरुतो ररीध्वम्पिन्वन्त्यपो मरुतः सुदानव उदु त्यं चित्रमित्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोत्यौर्वभृगुवच्छुचिमप्नवानवदाहुव इति तिस्रोऽथैतां कुम्भीमद्भिः पूरयति सृजा वृष्टिं दिव आद्भिः समुद्रं पृणेति
सा यदि दीर्यते यदि भिद्यते वर्षिष्यतीत्येव वेदाथाविमभिजुहोत्यब्जा असि प्रथमजा बलमसि समुद्रि यमिति
सा यदि विधूनुते यदि मेहति यदि शकृत्करोति वर्षिष्यतीत्येव वेदाथ वर्षाहूस्तम्बमभिजुहोति ३९
13.40
उन्नम्भय पृथिवीं भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो विसृजा दृतिमित्यथैनमाहवनीयेऽनुप्रहरति हिरण्यकेशो रजसो विसार इत्यथास्य धूममन्वीक्षत आ ते सुपर्णा अमिनन्त एवैरित्यथान्तर्वेदि तिष्ठन्कृष्णाजिनमवधूनोति ये देवा दिविभागा इत्यान्तादनुवाकस्य
संतिष्ठते कारीर्यथातोऽञ्जःसवकारीर्याग्नेयमष्टाकपालं निर्वपति श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोऽग्निर्मूर्धा भुव इति
त्रिष्टुभौ संयाज्ये
याभिश्चैव पिण्डीराबध्नाति याभिश्च जुहोति याभ्यां च धूममन्वीक्षते ताः सꣳसिध्यन्ति
संतिष्ठतेऽञ्जःसवकारीरी ४०
13.41
अथ वै भवति
त्रैधातवीयेन यजेताभिचरन्वाभिचर्यमानो वा सहस्रेण वा यक्ष्यमाणः सहस्रेण वेजानो यो वा यक्ष्य इत्युक्त्वा न यजत इत्येतयेष्ट्या यक्ष्यमाण उपकल्पयते सहस्रꣳ हिरण्यं तार्प्यं धेनुमित्यथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वेन्द्रा विष्णुभ्यां जुष्टं निर्वपामीति चतुरो मुष्टीन्व्रीहीणां निर्वपत्येतामेव प्रतिपदं कृत्वेन्द्रा विष्णुभ्यां जुष्टं निर्वपामीति चतुरो यवानाम्
एतामेव प्रतिपदं कृत्वेन्द्रा विष्णुभ्यां जुष्टं निर्वपामीति चतुर एव व्रीहीणां तेषां व्रीहिष्वेव हविष्कृतमुद्वादयत्य्
उपोद्यच्छन्ते यवान्
हविष्कृता वाचं विसृजते
समानं कर्माधिवपनादध्युप्य गार्हपत्ये द्वादश कपालान्युपदधात्यथ वै भवति
द्वादशकपालः पुरोडाशो भवति
ते त्रयश्चतुष्कपालास्
त्रिष्षमृद्धत्वाय
त्रयः पुरोडाशा भवन्ति
त्रय इमे लोका एषां लोकानामाप्त्ययुत्तरौत्तरो ज्यायान्भवतीति
स उत्तरमुत्तरमेव ज्यायाꣳ सं करोति यवमयं मध्येऽथ वै भवति ४१
13.42
सर्वाणि छन्दाꣳस्येतस्यामिष्ट्यामनूच्यानीत्याहुस्
त्रिष्टुभो वा एतद्वीर्यं यत्ककुदुष्णिहा जगत्यै
यदुष्णिहककुभावन्वाह तेनैव सर्वाणि छन्दाꣳस्यवरुन्द्ध इति
प्र सो अग्ने तवोतिभिरित्येतासां द्वे धाय्यालोके दधात्यथाग्ने त्री ते वाजिना त्री षधस्थेति त्रिवत्या परिदधाति सरूपत्वायेति ब्राह्मणं सर्वेषामभिगमयन्नवद्यतीति
तस्या एते भवतः सं वां कर्मणोभा जिग्यथुरित्यन्वाहार्यमासाद्य सहस्रꣳ हिरण्यं तार्प्यं धेनुमिति ददाति
यं कामयेत राजन्यमनपोब्धो जायेत वृत्रान्घ्नꣳश्चरेदिति तस्मा एतमैन्द्रा बार्हस्पत्यं चरुं निर्वपेदित्येतयेष्ट्या यक्ष्यमाण उपकल्पयते हिरण्मयं दाम
तस्या एते भवतोऽस्मे इन्द्रा बृहस्पती बृहस्पतिर्नः परिपातु पश्चादित्यन्वाहार्यमासाद्य हिरण्मयं दाम ददाति ४२
13.43
वैश्वानरं द्वादशकपालं निर्वपेदनिष्ट्वाग्रयणेन नवान्नं जग्धा यो वान्यस्याग्निषु यजेत यस्य वान्योऽग्निषु यजेत
सोऽरण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्य वैश्वानरं द्वादशकपालं निर्वपति
तस्या एते भवतो वैश्वानरो न ऊत्या पृष्टो दिवीत्यग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपेद्विच्छिन्नाग्निहोत्रो यो आ कामयेत प्रजायै मे तन्तुर्न विच्छिद्येतेति
सोऽरण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्याग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपेदिति
तस्या एते भवतस्त्वं नस्तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाग्ने पृष्ठं वयमारुहेम अथा देवैः सधमादं मदेम ॥ स्वयं कृण्वानः सुगमप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नꣳ सधस्थमनुपश्यमान आ तन्तुमग्निर्दिव्यं ततानेति
स्विष्टवत्यौ संयाज्ये हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम्। ज्योतिष्मन्तं दीद्यन्तं पुरन्धिमग्निꣳ स्विष्टकृतमाहुवेम ॥ स्विष्टमग्ने अभि तत्पृणाहि विश्वा देव पृतना अभिष्य । उरुं नः पन्थां प्रदिषन्विभाहि ज्योतिष्मद्धेह्यजरं न आयुरित्यग्नये व्रतभृते पुरोडाशमष्टाकपालं निर्वपेद्य आहिताग्निरश्रु कुर्यादिति
तस्या एते भवतस्त्वमग्ने व्रतभृच्छुचिर्देवाꣳ आसादया इह । अग्ने हव्याय वोढवे ॥ व्रता नु बिभ्रद्व्रतपा अदाभ्यो यजानो देवाꣳ अजरः सुवीरः । दधद्र त्नानि सुविदानो अग्ने गोपाय नो जीवसे जातवेद इत्य्
अथ यस्याग्नयो वृथाग्निभिः सꣳसृज्येरन्मिथो वान्यस्य वाग्निभिः सोऽरण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्याग्नये विविचये पुरोडाशमष्टाकपालं निर्वपत्यग्नये व्रतपतय इति
तस्या एता भवन्ति वि ते विष्वग्वातजूतासो अग्ने त्वामग्ने मानुषीरीडते विशस्त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानीति
संतिष्ठन्त इष्टयः संतिष्ठन्त इष्टयः ४३