बौधायनश्रौतसूत्रम्/प्रश्नः १२

विकिस्रोतः तः

12.1
राजसूयेन यक्ष्यमाणो भवति
स पुरस्तात्फाल्गुन्यै वा चैत्र्! यै वा पौर्णमास्या आमावास्येन हविषेष्ट्वा दीक्षते
तस्य तिस्रो दीक्षास्तिस्र उपसदः सप्तम्यां प्रसुतः
संतिष्ठत एष प्रायणीयोऽग्निष्टोमश्चतुष्टोमः सहस्रदक्षिण उदवसानीयान्तोऽथाष्टमेऽह्न्यानुमतं निर्वपति
हविष्कृता वाचं विसृजते
समानं कर्माधिवपनादध्युप्य दक्षिणार्धे गार्हपत्यस्याष्टौ कपालान्युपदधात्येकं प्रतिप्रस्थातोत्तरतो नैरृताय
हविःपेष्यै प्रयच्छन्नाह प्राचश्च प्रतीचश्च व्यवशातयन्ती पिण्ड्ढीति
स ये प्राञ्चः शम्याया अवशीयन्ते तानध्वर्युः समुप्य संयुत्यानुमतꣳ श्रपयत्यथ ये प्रत्यञ्चः शम्याया अवशीयन्ते तान्प्रतिप्रस्थाता समुप्य संयुत्य नैरृतꣳ श्रपयत्याददत एतं नैरृतमुपस्तीर्णाभिघारितं कृष्णं वासः कृष्णतूषमन्तमागारादेकोल्मुकमुदपात्रमित्येतत्समादाय गार्हपत्ये स्रुवाहुतिं जुहोति वीहि स्वाहाहुतिं जुषाण इत्यथ दक्षिणया द्वारोपनिष्क्रम्य तां दिशं यन्ति यत्रास्य स्वकृतमिरिणꣳ स्पष्टं भवति प्रदरो वा

तदेतदेकोल्मुकमुपसमाधाय संपरिस्तीर्याङ्गुष्ठाभ्यां परिगृह्य नैरृतं जुहोत्येष ते निरृते भागो भूते हविष्मत्यसि मुञ्चेममꣳ हसः स्वाहेत्यत्र कृष्णं वासः कृष्णतूषं ददात्यथापो व्यतिषिच्य परास्य पात्रमनवेक्षमाणा आयन्ति हस्तपादान्प्रक्षाल्यैतेनैव यथेतमेत्य गार्हपत्ये स्रुवाहुतिं जुहोति स्वाहा नमो य इदं चकारेत्यथानुमतेन सꣳ स्थां करोति
धेनुं ददाति १
12.2
अथ नवमेऽह्न्यादित्यं चरुं निर्वपति
वरं ददात्यथ दशमेऽह्न्याग्नावैष्णवमेकादशकपालम्वामनं वहिनं ददात्यथैकादशेऽह्न्यग्नीषोमीयमेकादशकपालं हिरण्यं ददात्यथ द्वादशेऽह्न्यैन्द्र मेकादशकपालम्
ऋषभं वहिनं ददाति
अथ त्रयोदशेऽह्न्याग्नेयमष्टाकपालमैन्द्रं दध्यृषभं वहिनं ददात्यथोपातीत्याग्रयणहवीꣳ षि चतुर्दशेऽह्नि सरस्वत्यै चरम्वत्सतरीं ददात्यथ पञ्चदशेऽह्नि सरस्वते चरुम्वत्सतरं ददाति
यद्यु वै चतुर्दश्यामेवोपवसथः संपद्यत एवमेवैतदहरेताभ्यामिष्टिभ्यां नानाबर्हिर्भ्यां यजेताथास्यैतदहर्विश्वेभ्यो देवेभ्यो वत्सा अपाकृता भवन्ति
वैश्वदेवं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ श्वो भूते वैश्वदेवहविर्भिरिष्ट्वा पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निवर्तयतेऽथ श्वो भूत इन्द्रा य सुत्राम्णे पुरोडाशमेकादशकपालं निर्वपत्यभिहितो रथ उभाकाꣳ स्यकवचो गर्भिणीभिर्वा वडबाभिर्युक्तः साण्डैर्वाश्वैरावेष्ट्यो निष्कस्तद्ददात्यथ श्वो भूत इन्द्रा याꣳ होमुचे पुरोडाशमेकादशकपालं निर्वपत्यनभिहितो रथोऽकाꣳ स्यकवचोऽगर्भाभिर्वा वडबाभिर्युक्तो निरष्टैर्वाश्वैः श्लक्ष्णको निष्कस्तद्ददाति २
12.3
एते संतनी इत्याचक्षतेऽथ श्वो भूते संतनीभ्यामेव प्रतिपद्यते
स एवमेव संतनीभ्यामहरहर्विपर्यासं यजमानश्चतुरो मास एति काममिष्ट्या कामं पशुबन्धेन कामं यवाग्रयणेनाथ चतुर्षु मासेषु पर्यवेतेषु संतन्येष्ट्येष्ट्वा वरुणप्रघातहविर्भिरिष्ट्वा पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निवर्तयतेऽथ श्वो भूते संतनीभ्यामेव प्रतिपद्यते
स एवमेव संतनीभ्यामहरहर्विपर्यासं यजमानोऽपराꣳ श्चतुरो मास एति काममिष्ट्वा कामं पशुबन्धेन कामꣳ श्यामाकाग्रयणेनाथ चतुर्षु मासेषु पर्यवेतेषु संतन्येष्ट्येष्ट्वा साकमेधहविर्भिरिष्ट्वा पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निवर्तयतेऽथ श्वो भूते संतनीभ्यामेव प्रतिपद्यते
स एवमेव संतनीभ्यामहरहर्विपर्यासं यजमानोऽपराꣳ श्चतुरो मास एति काममिष्ट्या कामं पशुबन्धेन कामं व्रीह्याग्रयणेनाथ चतुर्षु मासेषु पर्यवेतेषु संतन्येष्ट्येष्ट्वा शुनासीरीयहविर्भिरिष्ट्वा पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निवर्तयतेऽथ श्वो भूते संतनीभ्यामेव प्रतिपद्यते
स एवमेव संतनीभ्यामहरहर्विपर्यासं यजमानः सप्ताहान्येति काममिष्ट्या कामं पशुबन्धेनाथाष्टमेऽह्नीन्द्र तुरीयमाग्नेयमष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुमैन्द्रं दधि वारुणं यवमयं चरुम्
अन्वाहार्यमासाद्य वहिनीं धेनुं ददाति ३
12.4
अथ तदानीमेव पञ्चेध्मीयेन प्रतिपद्यते
पञ्चधाङ्गारान्निरूह्य पञ्चेध्मानभ्यादधाति पर्णमयं पुरस्तान्नैयग्रोधं दक्षिणत आश्वत्थं पश्चादौदुम्बरमुत्तरात्प्लाक्षं मध्येऽथैनानाज्येन व्याघारयति ये देवाः पुरःसदोऽग्निनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा ये देवा दक्षिणसदो ये देवाः पश्चात्सदो ये देवा उत्तरसदो ये देवा उपरिषद इत्य्
अथोपवेषेणाङ्गारान्समूहति समूढꣳ रक्षः संदग्धꣳ रक्ष इदमहꣳ रक्षोऽभिसंदहामीत्यथैनान्स्रुवाहुतिभिरभिजुहोत्यग्नये रक्षोघ्ने स्वाहेति पञ्चभिरत्र प्रष्टिवाहिनꣳ रथं ददात्यथ याचति पर्णमयꣳ स्रुवमपामार्गसक्तून्प्रतिवसनीयं वासोऽन्तमागारादेकोल्मुकमुदपात्रमित्येतत्समादायोदञ्चो निष्क्रम्य तां दिशं यन्ति यत्रास्य स्वकृतमिरिणꣳ स्पष्टं भवति प्रदरो वा
तदेतदेकोल्मुकमुपसमाधाय संपरिस्तीर्य पर्णमयेन स्रुवेणापामार्गसक्तूञ्जुहोति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ रक्षसो वधं जुहोमि स्वाहेति
हतꣳ रक्ष इति स्रुवमनुप्रहरत्यवधिष्म रक्ष इत्युपतिष्ठतेऽत्र यद्वस्ते तद्ददात्यथापो व्यतिषिच्य परास्य पात्रमनवेक्ष्माणा आयन्ति हस्तपादान्प्रक्षाल्यैतेन यथेतमेत्येन्द्र तुरीयेण सꣳ स्थां करोत्यथ नवमेऽह्नि पूर्वाणि देविकाहवीꣳ षि निर्वपत्यनुमत्यै चरुꣳ राकायै चरुं धात्रे पुरोडाशं द्वादशकपालमित्यन्वाहार्यमासाद्य वत्सतरीं ददात्य्
अथ दशमेऽह्न्युत्तराणि देविकाहवीꣳ षि निर्वपति सिनीवाल्यै चरुं कुह्वै चरुं धात्र एव पुरोडाशं द्वादशकपालमित्यन्वाहर्यमासाद्य वत्सतरं ददात्यथैकादशेऽह्नि त्रिषंयुक्तैः प्रतिपद्यत आग्नावैष्णवं निर्वपत्यैन्द्रा वैष्णवमेकादशकपालं वैष्णवं त्रिकपालम्वामन मृषभं वहिनं ददात्यथ द्वादशेऽह्न्यग्नीषोमीयमेकादशकपालं निर्वपतीन्द्रासोमीयमेकादशकपालꣳ सौम्यं चरुम्बभ्रुं ददात्यथ त्रयोदशेऽह्नि सोमापौष्णं चरुं निर्वपत्यैन्द्रा पौष्णं चरुं पौष्णं चरुं श्यामं ददात्यथ चतुर्दशेऽह्नि वैश्वानरं द्वादशकपालं निर्वपति
हिरण्यं ददात्यथ पञ्चदशेऽह्नि वारुणं यवमयं चरुम्
अश्वं ददाति ४
12.5
अथैनमामावास्येन हविषेजानꣳ रत्निनः पर्यवस्यन्ति दक्षिणतो वोदञ्चो पश्चाद्वा प्राञ्चस्
तेषामवसितानां ब्रह्मैव दक्षिणार्ध्यो वापरार्ध्यो वा भवति
स यत्किंच यज्ञपरिभोजनं ब्रह्मण एव तद्गृहे भवत्यथारण्योरग्नीन्समारोह्य ब्रह्मणो गृहानध्यवसाय मथित्वाग्नीन्विहृत्य बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृहे

शितिपृष्ठं ददात्यथारण्योरग्नीन्समारोह्य स्वान्यग्न्यायतनान्यभिप्रव्रजति
तं यन्तमनुमन्त्रयतेऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यादित्यथ स्वान्यग्न्यायतनान्यध्यवसाय मथित्वाग्नीन्विहृत्येन्द्रा य सुत्राम्णे पुरोडाशमेकादशकपालं प्रतिनिर्वपत्यथास्यैतदहः श्वेतायै श्वेतवत्सायै पयो दोहयित्वा समातच्य निदधात्यथ श्वो भूतेऽरण्योरग्नीन्समारोह्य राजन्यस्य गृहानध्यवसाय मथित्वाग्नीन्विहृत्यैन्द्र मेकादशकपालꣳ राजन्यस्य गृह ऋषभं ददाति
तथारण्योरग्नीन्समारोह्य स्वान्येवाग्न्यायतनान्यभिप्रव्रजति
तं तथैव यन्तमनुमन्त्रयते
यस्ययस्य गृहे यजते ससोऽनुमन्त्रयतेऽयं नो राजा वृत्रहा राजा हूत्वा वृत्रं वध्यादित्यथ स्वान्येवान्यायतनान्यध्यवसाय मथित्वाग्नीन्विहृत्येन्द्रा याꣳ होमुचे पुरोडाशमेकादशकपालं प्रतिनिर्वपति
प्रजातमेवास्यैतदहः श्वेतायै श्वेतवत्सायै पयो दोहयित्वा समातच्यैव निदधात्यथ तृतीयेऽह्न्यादित्यं चरुं महिष्यै गृहे
धेनुं ददात्यथ चतुर्थेऽह्नि भगाय चरुं वावातायै गृहे
विचित्तगर्भां पष्ठैहीं ददात्यथ पञ्चमेऽह्नि नैरृतं चरुं परिवृक्त्यै गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं
कृष्णां कूटां ददात्यथ षष्ठेऽह्न्याग्नेयमष्टाकपालꣳ सेनान्यो गृहे
हिरण्यं ददात्यथ सप्तमेऽह्नि वारुणं दशकपालꣳ सूतस्य गृहे
महानिरष्टं ददात्यथाष्टमेऽह्नि मारुतꣳ सप्तकपालं ग्रामण्यो गृहे
पृश्निं ददात्यथ नवमेऽह्नि सावित्रं द्वादशकपालं क्षत्तुर्गृह उपध्वस्तं ददात्यथ दशमेऽह्न्याश्विनं द्विकपालꣳ संग्रहीतुर्गृहे
सवात्यौ ददात्यथैकादशेऽह्नि पौष्णं चरुं भागदुघस्य गृहे
श्यामं ददात्यथ द्वादशेऽह्नि रौद्रं गावीधुकं चरुमक्षावापस्य गृहे
शबलमुद्वारं ददाति
प्रसिद्धमेवास्यैतदहः श्वेतायै श्वेतवत्सायै पयो दोहयित्वा समातच्यैव निदधात्यथ त्रयोदशेऽह्नि मैत्राबार्हस्पत्यं भवति ५
12.6
अथ वै भवति
श्वेतायै श्वेतवत्सायै दुग्धे स्वयंमूर्ते स्वयंमथित आज्य आश्वत्थे पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै कणाꣳ र्! श्चाकणाꣳ र्! श्च तण्डुलान्विचिनुयादित्यथ वै भवति
स्वयंकृता वेदिर्भवति स्वयंदिनं बर्हिः स्वयंकृत इध्म इति
राजैवायꣳ स्वयं कर्मभिः पूजितो भवति
स स्वयमेव वेदिं करोति स्वयमिध्माबर्हिः संनह्यति स्वयमाश्वत्थं पात्रं चतुःस्रक्तिं करोति स्वयमवपन्नायै शाखायै कणाꣳ र्! श्चाकणाꣳ र्! श्च तण्डुलान्विचिनोत्य्
अथ वै भवति
ये कर्णाः स पयसि बार्हस्पत्यो येऽकर्णाः स आज्ये मैत्र इत्यथोत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु नवं पात्रमधिश्रित्य तिरः पवित्रमाज्यमानीय तिरः पवित्रमकर्णानोप्य तेन बार्हस्पत्यमपिदधाति
तं तथापिहितमन्तर्वेद्यासादयति
समानं कर्मा प्रयाजेभ्यः
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सꣳ स्रावेण बार्हस्पत्यमभिघार्य मैत्रमभिघारयति
बार्हस्पत्येन पूर्वेण प्रचरत्यथ मैत्रेण
बार्हस्पत्यस्य पूर्वस्य स्विष्टकृतेऽवद्यत्यथ मैत्रस्य
बार्हस्पत्यस्य पूर्वस्येडामवद्यत्यथ मैत्रस्यान्वाहार्यमासाद्यैतामेव श्वेताꣳ श्वेतवत्सां ददाति
संतिष्ठते मैत्राबार्हस्पत्यꣳ हविः ६
12.7
अथैतस्मिन्नेव पूर्वपक्ष उक्थ्यायाभिषेचनीयाय दीक्षते
तस्यापरिमिता दीक्षाः षडुपसदः
स तथा राजानं क्रीणाति यथा मन्यतेऽमावास्यायै मे यज्ञियेऽहन्सुत्या संपत्स्यत इति

तस्य तया संपद्यतेऽथ प्रायणीयेन चरति
प्रायणीयेन चरित्वा पदेन चरति
पदेन चरित्वा रोहिते चर्मणि राजानं क्रीत्वोह्यातिथ्यं निर्वपत्यातिथ्येन प्रचर्याथान्वहमुपसद्भिश्चरत्यथाहवनीयं प्रणयत्याहवनीयं प्रणीय रथवाहने सदोहविर्धाने संमिनोति
रथवाहने सदोहविर्धाने संमित्याग्नीषोमौ प्रणयत्यग्नीषोमौ प्रणीय यूपस्यावृता यूपमुच्छ्रयति
स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरोति
तस्य प्रसिद्धं वपया चरित्वा वसतीवरीर्गृह्णात्यथ पशुपुरोडाशं निर्वपति
तमनुवर्तन्तेऽष्टौ देवसुवाꣳ हवीꣳ ष्यग्नये गृहपतय इत्येतानि
तेषामुक्तं चरणं यथाग्नेर्विधायाम्
इडान्ताः पुरोडाशाः संतिष्ठन्ते
पत्नीसंयाजान्तः पशुर्हृदयशूलान्त इत्येकेऽत्रैतान्दुन्दुभीननुदिशमासञ्जयत्यथ वसतीवरीः परिहृत्य पयाꣳ सि विशिष्योपवसन्त्यथातो महारात्र एव बुध्यन्त प्रातराज्यानि गृहीत्वा राजानमुपावहृत्य प्रातरनुवाकमुपाकरोति
परिहिते प्रातरनुवाकेऽपोऽच्छैत्यद्भिरुदैत्युक्थ्यं क्रतुमुपैति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्माश्विनाद्ग्रहादाश्विनं ग्रहं गृहीत्वा द्वे रशने आदाय यूपमभ्यैति
स्वर्वन्तं यूपमुत्सृज्याग्नेयं पशुमुपाकरोति
तस्यैद्न्राग्न उपालम्भ्यो भवति
तयोः प्रसिद्धं वपाभ्यां चरित्वा प्रसर्पन्ति प्रातःसवनाय

तदृजुधा संतिष्ठते
प्रसर्पन्ति माध्यंदिनाय सवनाय
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्मा दाक्षिणेभ्यो दाक्षिणानि होष्यन्याचत्याज्यस्थालीꣳ सस्रुवाꣳ स्रुचं वासस्
तस्यैतस्य वसनस्यान्तमायां दशायां निष्करज्जुः प्रग्रथिता भवत्येतत्समादायाहैहि यजमानेत्युत्तरेणाग्नीध्रीयं परीत्योत्तरेण सदः परीत्याग्रेण शालां तिष्ठते प्रतिप्रस्थात्र एतानि शस्त्राणि प्रयच्छत्यथाहैहि यजमानेति
रथ एष दक्षिणे श्रोण्यन्ते रथवाहन आहितो भवति
तमुपावहरतीन्द्र स्य वज्रोऽसि वार्त्रघ्नस्त्वयायं वृत्रं वध्यादित्यथैनं धूर्गृहीतमन्तर्वेद्यभ्यववर्तयन्ति तूष्णीम्
अथाप्स्वश्वान्पल्पूलयति तूष्णीम्
अथ दक्षिणं योग्यं युनक्ति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेनेत्यथास्य पृष्ठं मर्मृज्यते तूष्णीम्
एवमेवोत्तरं योग्यं युनक्ति
तस्यैवमेवोत्तरतः प्रष्टिमुपनियुनक्ति
तयोरेवमेव पृष्ठे मर्मृज्यत एतस्य योगमनु सर्वमाण्वद्युज्यतेऽधिकक्ष्यान्हस्तिनः कुर्वन्ति
प्रवेष्टयन्ति वासोभारान्
वसनानां दशासु निष्करज्जूः प्रग्रथ्नन्ति
पूगशो दक्षिणा आयातयत्यथ सौरीभ्यामृग्भ्यां गार्हपत्ये जुहोति

नयवत्यर्चाग्नीध्रे जुहोति
सृज्यन्ते दक्षिणा दक्षिणापथेन
स यत्किंचिद्ददाति हिरण्यमुखमेव ददात्यथ वासाꣳ स्यथ युक्तानि गोअश्वꣳ हस्तिपुरुषमन्ततोऽदत्ता एवैते रथा अतिवर्तने
नैतेऽन्यस्य सन्त आजिं धावन्ति
मनसैव स्वरथमध्वर्यवे ददाति
मनसा चतुष्पात्क्षेत्रं ब्रह्मण आदिशति
मनसा समनुदिश्य दक्षिणास्त्रिभिर्मरुत्वतीयैश्चरति
सीदन्ति नाराशꣳ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽधो महेन्द्रा य ७
12.8
अथ याचति वैतसं द्रो णकलशꣳ षोडश वायव्यान्यथास्यैतत्पुरस्तादेव षोडशतय्य आपो दिग्भ्यः संभृता दक्षिणस्य हविर्धानस्य प्राच्योऽक्षात्प्रतीच्य उपस्तम्भनान्निहिताः शेरते

तासां वहन्त्यः पूर्वार्ध्या भवन्ति सारस्वत्योऽपरार्ध्याः
स वहन्तीरभिजुहोत्यर्थेत स्थापो देवीर्मधुमतीरगृह्णन्नूर्जस्वती राजसूयाय चितानाः । याभिर्मित्रावरुणावभ्यषिञ्चन्याभिरिन्द्र मनयन्नत्यरातीः ॥ राष्ट्रदा स्थ राष्ट्रं दत्त स्वाहेति
गृह्णाति पर्णमयेन राष्ट्रदा स्थ राष्ट्रममुष्मा आमुष्यायणायामुष्य पुत्रायामुष्य पौत्राय दत्तेत्यपां पतिरसीत्यपांपतीयाः पुंनाम्नो वोत्सस्य समुद्रि या वा
वृषास्यूर्मिरित्यौर्म्या वृषसेनोऽसीति पल्वल्या व्रजक्षित स्थेति कूप्यार्मरुतामोज स्थेति निवेष्ट्याः
सूर्यवर्चस स्थेत्यतिदृश्याः
सूर्यत्वचस स्थेत्यातपति वर्ष्यार्मान्दा स्थेति ह्रादुन्यो वाशा स्थेति पृस्वाः
शक्वरी स्थेति गोरुल्ब्या विश्वभृत स्थेति पयो जनभृत स्थेति दध्यग्नेस्तेजस्या स्थेत्याज्यम्
अपामोषधीनाꣳ रस स्थेति मध्वथ सारस्वतीरभिजुहोत्यपो देवीर्मधुमतीरगृह्णन्नूर्जस्वती राजसूयाय चितानाः । याभिर्मित्रावरुणावभ्यषिञ्चन्याभिरिन्द्र मनयन्नत्यरातीः ॥ राष्ट्रदा स्थ राष्ट्रं दत्त स्वाहेति

गृह्णाति पर्णमयेन राष्ट्रदा स्थ राष्ट्रममुष्मा आमुष्यायणायामुष्य पुत्रायामुष्य पौत्राय दत्तेत्यथैना वैतसे द्रो णकलशे समवनयति देवीरापः सं मधुमतीर्मधुमतीभिः सृज्यध्वम्महि वर्चः क्षत्रियाय वन्वाना इत्यथैना अन्तरेण होतुश्च धिष्णियं ब्राह्मणाच्छꣳ सिनश्च सादयत्यनाधृष्टाः सीदतोर्जस्वतीर्महि वर्चः क्षत्रियाय दधतीरित्यत्र येऽर्थ्याः प्ररेका अध्वर्योस्तानावसथꣳ हरन्त्यथ येऽनर्थ्या अपस्तानभ्यवहरन्ति
अनभिहुतानाꣳ सारस्वतीनां वसतीवरीर्दशपेयाय परिशाययन्ति ८
12.9
अथात्रैव तिष्ठन्याचति दर्भनाडीꣳ शतमानꣳ हिरण्यं चत्वारि नानावृक्ष्याणि पात्राणि तार्प्यं चोष्णीषं चैकशतं च दर्भपुञ्जीलानि दध्युदुम्बरꣳ शष्पाणि धनुश्चेषूꣳ श्चेति
स दर्भनाड्याꣳ शतमानꣳ हिरण्यं प्रग्रथ्नात्यनिभृष्टमसि वाचो बन्धुस्तपोजा इत्यथैनद्वैतसे द्रो णकलशेऽवदधाति सोमस्य दात्रमसीति

हिरण्येनोत्पुनाति शुक्रा वः शुक्रेणोत्पुनामि चन्द्रा श्चन्द्रे णामृता अमृएन स्वाहा राजसूयाय चिताना इति
गृह्णाति पर्णमयेन सधमादो द्युम्निनीरूर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थमपाꣳ शिशुर्मातृतमास्वन्तरिति
पुरस्तादासीनाय ब्रह्मणे प्रयच्छत्येतयैव गृहीत्वा दक्षिणत आसीनायौदुम्बरेण राजन्याय प्रयच्छत्येतयैव गृहीत्वा पश्चादासीनायाश्वत्थेन वैश्याय प्रयच्छत्येतयैव गृहीत्वोत्तरत आसीनाय नैयग्रोधेन जन्याय प्रयच्छत्यथैतं प्ररेकमाग्नीध्रꣳ हृत्वापिधाय प्रज्ञातं निदधात्यथ यजमानं तार्प्यं परिधापयति क्षत्रस्योल्बमसीति
क्षत्रस्य योनिरसीत्यासजते तार्प्यम्
अभीव नाभिमुष्णीषं पर्यस्यत्यथैनमेकशतेन दर्भपुञ्जीलैः पवयति नित्येन पवनेनाथैनमुन्मृजन्नाशयति दध्युदुम्बरꣳ शष्पाणीत्यथैनमाविद्भिः प्राञ्चमानयत्याविन्नो अग्निर्गृहपतिसिति सप्तभिरनुच्छन्दसम्
अथैनं यजमानायतने तिष्ठन्तं प्राहैष वो भरता राजेति येषाꣳ श्रेष्ठी भवति
सोमोऽस्माकं ब्राह्मणानाꣳ राजेतीतरे प्रत्याहुरथास्मै धनुः प्रयच्छतीन्द्र स्य वज्रोऽसि वार्त्रघ्नस्त्वयायं वृत्रं वध्यादिति शत्रुबाधना स्थेतीषून्शत्रून्मे बाधध्वमितीतरः प्रतिगृह्णाति पात मा प्रत्यञ्चम्पात मा तिर्यञ्चम्विश्वाभ्यो मा नाष्ट्राभ्यः पातेत्यथ हिरण्यवर्णावुषसाꣳ विरोक इति त्रिष्टुभा बाहू उद्गृह्णात्यथैनꣳ सꣳ शास्ति मनसैव दिशोऽनुप्रक्राम मनसोर्ध्वामनूज्जिहीष्वेत्यथैनं वाचयति ९
12.10
समिधमा तिष्ठोग्रामातिष्ठ विराजमा तिष्ठोदीचीमा तिष्ठोर्ध्वामा तिष्ठेत्यथात्रैव तिष्ठन्याचति मारुतं चैकविम्शतिकपालं वैश्वदेवीं चामिक्षां तस्य योऽरण्येऽनुवाक्यो गणस्तेन मध्यमानि कपालान्युपहितानि भवन्ति राजसूयगणाभ्यामितराणि
ताभ्यां चरति मरुद्भ्योऽनुब्रूहि मरुतो यजेति विश्वेभ्यो देवेभ्योऽनुब्रूहि विश्वान्देवान्यजेत्यनिष्टस्विष्टकृते एवैते हविषी अपिधाय प्रज्ञाते निदधात्यथ याचति शार्दूलचर्म सुवर्णरजतौ च रुक्मौ वाराही उपानहौ सीसं च लोहितायसं च

दक्षिणतः क्लीब आस्तेऽथ पुरस्तादभिषेकस्य षट्पार्थानि जुहोत्यग्नये स्वाहा सोमाय स्वाहेत्यथ यजमानायतने शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमोपस्तृणाति सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादिति
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्यत्यमृतमसि मृत्योर्मा पाहीत्यधस्ताद्र जतमुपास्यति दिद्योन्मा पाहीत्युपरिष्टात्सुवणꣳ र्! शतातृण्णम्
अथावेष्टा दन्दशूका इति दक्षिणत आसीनं क्लीबꣳ सीसेन विध्यति
सव्येन पादेन लोहितायसं निरस्यति निरस्तं नमुचेः शिर इत्यत्रास्मा अभिषेकान्संप्रगृह्णन्ति
तान्सोऽवेक्षते १०
12.11
सोमो राजा वरुणो देवा धर्मसुवश्च ये । ते ते वाचꣳ सुवन्तां ते ते प्राणꣳ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रꣳ सुवन्तामित्यथ ब्रह्मणः पात्रमादाय तेनाभिषिञ्चत्यध्वर्युरेव यजुर्जपत्यभिषिञ्चन्तीतरे सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्यग्नेस्तेजसा सूर्यस्य वर्चसेन्द्र स्येन्द्रि येण मित्रावरुणयोर्वीर्येण मरुतामोजसा क्षत्राणां क्षत्रपतिरस्यति दिवस्पायसवित्यथोर्ध्वा धाराः समुन्मृष्टे समाववृत्रन्नधरागुदीचीरहिं बुध्नियमनु संचरन्तीस्ताः पर्वतस्य वृषभस्य पृष्ठे नावश्चरन्ति स्वसिच इयाना इत्य्
अत्रैतेषामभिषेकाणां मुख्ये पात्रे सꣳ स्रावान्समवनीय प्रतिहितस्य गृहानेत्यथान्वारब्धयोः प्रतिहिते च महिष्यां च जुहोति प्रजापते न त्वदेतान्यन्य इत्यत्रास्मा एष प्रतिहितो वरं ददात्यथ प्रतिहिताय पात्रं प्रयच्छन्नाहेदं ते पात्रं दायाद्यमसद्यदा त्वाभिषिञ्चामीदं तेऽसदित्यथैतेनैव यथेतमेत्याग्नीध्रे प्ररेकं जुहोति रुद्र यत्ते क्रयी परं नाम तस्मै हुतमसि यमेष्टमसि स्वाहेत्यत्रास्मै धनुः प्रयच्छति यदि पुरस्तादप्रत्तं भवति
समुन्मृष्टे समुत्क्रोशन्त्यभ्यषेच्ययमसावामुष्यायणोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ता राजसूयेनेत्यथ भूर्भुवः सुवरिति वाचं विसृजते
द्वाभ्यां मुखं विमृष्टे
गायत्रान्विष्णुक्रमान्क्रमतेऽथोपरिष्टादभिषेकस्य षट्पार्थानि जुहोतीन्द्रा य स्वाहा घोषाय स्वाहेति
द्वादश भूतानामवेष्टीर्जुहोति पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्यत्रैतयोर्हविषोः स्विष्टकृता चरत्यथैने अपिधाय प्रज्ञाते निदधाति ११

12.12
अथ वाराहो उपानहावुपमुञ्चते पशूनां मन्युरसीति दक्षिणे पादे तवेव मे मन्युर्भूयादिति सव्येऽथेमामभिमृशति नमो मात्रे पृथिव्या इति
तस्यां दक्षिणं पादमुपावहरति माहं मातरं पृथिवीꣳ सिꣳ सिषमिति मा मां माता पृथिवी हिꣳ सीदिति सव्यम्
अथान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रामति विष्णोः क्रमोऽसि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसीत्युत्तरत एते रथा युक्तास्तिष्ठन्ति
तान्दृष्ट्वैव प्रतिहितोऽवतिष्ठत्यथ प्रतिहितस्य धनुरादायाधिज्यं कृत्वा रथमातिष्ठति मरुतां प्रसवे जेषमित्याप्तं मन इति कूबरमभिनिश्रयते
तं तदानीमेव प्रतिहितोऽन्वातिष्ठति प्रससाहिषे पुरुहूत शत्रूनिति
त्रिष्टुभान्वारभत इति ब्राह्मणम्
अथ प्रतिहिताय धनुः प्रयच्छन्नाह राजन्य एष षट्त्रिꣳ शत्सु शम्याप्रव्याधेषु निर्जयेन सहस्रेणावसितस्तस्मा इषुमस्यतादपैनꣳ राध्नुताज्जित्वैनं दक्षिणापथेनात्याकुरुतादिति
राजन्य एव सꣳ शिष्टो भवति राजपुत्रस्त इषुमसिष्यति स त्वापरात्स्यति तस्मा उत्तरवर्ग्येण संमृज्येषु प्रयच्छतादिति

स तथा करोति १२
12.13
अथाहाभिसर्प यजमान माहेन्द्रं ग्रहं ग्रहीष्यामीत्यन्वारब्धे यजमाने माहेन्द्रं ग्रहं गृह्णाति महाꣳ इन्द्रो य ओजसेत्यनुद्रुत्योपयामगृहीतोऽसि महेन्द्रा य त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्महेन्द्रा य त्वेत्यथैतान्मणीन्याचति राजतमौदुम्बरꣳ सौवर्णमिति
त एते नानासूत्रेष्वोता भवन्ति
तानुत्तरस्य हविर्धानस्य मध्यमे वꣳ शे प्रग्रथ्याप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते माहेन्द्रा य
प्रस्तुते साम्नि संप्रैषमाहाजिसृत आजिं धावत दुन्दुभीन्समाघ्नताभिषोतारोऽभिषुणुताग्नीदाशिरं विनयोलूखलमुद्वादय प्रतिप्रस्थातर्वारुणमेककपालं निर्वप सौम्यस्य विद्धीति

यथासंप्रैषं ते कुर्वन्ति
धावन्त्याजिसृत आघ्नन्ति दुन्दुभीन्
संप्रवदन्ति वाचः
संप्रोदिता वाचोऽनुमन्त्रयते
शाम्यन्ति घोषाः शस्त्राय
होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शꣳ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छतेतं माहेन्द्रं ग्रहम्
अनूद्यच्छन्त इतरान्
उपोद्यच्छन्ते नाराशꣳ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विर्नाराशꣳ सानमुपकम्पयन्ति
द्विर्हुतो माहेन्द्र ः! परिशेत आयन्ति रथा आगतान्रथान्दृष्ट्वा जपति समहमिन्द्रि येण वीर्येण सं मयेन्द्रि यं वीर्यमिति
अथान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रामत्युत्तरत एते रथा युक्तास्तिष्ठन्ति
तान्दृष्ट्वैव प्रतिहितोऽवतिष्ठत्यथ प्रतिहितस्य धनुरादायाधिज्यं कृत्वा रथमातिष्ठति मरुतां प्रसवे जेषमित्याप्तं मन इति कूबरमभिनिश्रयते

तं तदानीमेव प्रतिहितोऽन्वातिष्ठति प्रससाहिषे पुरुहूत शत्रूनिति
त्रिष्टुभान्वारभत इति ब्राह्मणम्
अथ प्रतिहिताय धनुः प्रयच्छन्नाहेदं ते धनुर्दायाद्यमसद्यदा त्वाभिषिञ्चामीदं तेऽसदित्यथैतेनैव यथेतमेत्यान्तरेण चात्वालोत्करावुपातीत्य पूर्वया द्वारा हविर्धानं प्रपाद्य प्राञ्चꣳ रथमावर्त्य तिष्ठति १३
12.14
तदेतान्मणीन्याचति राजतमौदुम्बरꣳ सौवर्णमिति
सव्ये हस्ते राजतं प्रतिमुञ्चत इयदस्यायुरस्यायुर्मे धेहीति दक्षिण औदुम्बरमूर्गस्यूर्जं मे धेहीति दक्षिण एव सौवर्णं युङ्ङसि वर्चोऽसि वर्चो मयि धेहीत्यत्रास्मा आमिक्षामुपोद्यच्छते
तस्यां दक्षिणꣳ हस्तमुपावहरति मित्रोऽसीति वरुणोऽसीति सव्यम्
अथैनामभिमृशति समहं विश्वैर्देवैरित्यथैनामपिधाय प्रज्ञातां निदधाति
तदेतान्मणीनेकस्मिन्सूत्र आवयति मध्यत औदुम्बरं करोति
तान्ग्रीवासु प्रतिषज्यैतेनैव यथेतमेत्याग्रेणाग्नीध्रं प्राञ्चꣳ रथमावर्त्यावतिष्ठत्य्
अथाग्नीध्रे रथविमोचनीया जुहोत्यग्नये गृहपतये स्वाहेति चतस्रः स्रुवाहुतीरथास्यैतत्पुरस्तादेवाग्रेणाग्नीध्रꣳ रथवाहनं प्रागीषं योग्यकृतमुपस्थितं भवति
तस्मिन्सह संग्रहीत्रा रथवाहने रथमादधाति
सुवर्गादेवैनं लोकादन्तर्दधाति
हꣳ सः शुचिषदित्यादधाति
ब्रह्मणैवैनमुपावहरति ब्रह्मणादधात्यतिच्छन्दसादधातीति ब्राह्मणम्
अथास्यैतत्पुरस्तादेव जघनेनाग्रीध्रं चतुरपस्रावं वाष्टापस्रावं वा विमितं कारितं भवति
तस्य मध्यत औदुम्बरीमासन्दीं निमिनोति क्षत्रस्य नाभिरसीति
तस्यामुत्तरमष्टनमधीवासमास्तृणाति क्षत्रस्य योनिरसीत्यथैनामासीदत्यासीदन्तमनुमन्त्रयते स्योनामासीद सुषदामासीद मा त्वा हिꣳ सीदिति
मा मा हिꣳ सीदितीतरः प्रत्याहासन्नमभिमन्त्रयते निषसाद धृतव्रतो वरुणः पस्त्यास्वा सम्राज्याय सुक्रतुरित्य्
अथैनमृत्विजः पर्युपविशन्ति
पुरस्तादध्वर्युरुपविशति दक्षिणतो ब्रह्मा पश्चाद्धोतोद्गातोत्तरतस्
ततः प्राञ्चो वोदञ्चो वा रत्निनः
सोऽध्वर्युमभिवदति १४
12.15
 ब्रह्मा३निति
त्वꣳ राजन्ब्रह्मासीत्याहाध्वर्युः सवितासि सत्यसव इति
 ब्रह्मा३निति ब्रह्माणं त्वꣳ राजन्ब्रह्मासीत्याह ब्रह्मेन्द्रो ऽसि सत्यौजा इति
ब्रह्मा३निति होतारं त्वꣳ राजन्ब्रह्मासीत्याह होता मित्रोऽसि सुशेव इति
ब्रह्मा३निति उद्गातारं त्वꣳ राजन्ब्रह्मासीत्याहोद्गाता वरुणोऽसि सत्यधर्मेति
 सुश्लोकाइ!३ꣳ! ति क्षत्तारं त्वꣳ राजन्सुश्लोकोऽसीत्याह क्षत्ता
 सुमङ्गलाइ!३ꣳ! ति संग्रहीतारं त्वꣳ रजान्सुमङ्गलोऽसीत्याह संग्रहीता
सत्यराजा३निति भागदुघं त्वꣳ राजन्सत्यराजासीत्याह भागधुक्
सप्त पुण्यनाम्नोऽभ्युद्याथास्मै स्फ्यं प्रयच्छतीन्द्र स्य वज्रोऽसि वार्त्रघ्नस्तेन मे रध्येति
तेन ते रध्यासमितीतरः प्रतिगृह्णाति
तꣳ संप्रयच्छति सूताय सूतग्रामणिने सजाताय सजातग्रामणिने संग्रहीत्रेऽक्षावापगोव्यच्छाभ्यामन्ततस्
तेन तौ मध्यतोऽधिदेवनमुद्धत्य तिस्रः पञ्चाशतः सौवर्णानक्षान्निवपतोऽथास्मै पञ्चाक्षानपच्छिद्य प्रयच्छति दिशोऽभ्ययꣳ राजाभूदिति
ताꣳ स्तदानीमेवाक्षेष्वपिसृजत्यथैतमोदनमुद्ब्रुवते
नानाꣳ शिनौ ब्रह्मा च यजमानश्च समानाꣳ शिनौ सूतग्रामणिनौ समानाꣳ शिनौ क्षत्तसंग्रहीतारौ
स यो नु मताक्ष इव स राज्ञ आसन उपविश्य चतुःशतमक्षानपच्छिद्याहोद्भिन्नꣳ राज्ञ इति
तानेव मनाक्समन्तानिव कृत्वाह कृतं ब्राह्मणस्येत्यथैतमोदनमुद्ब्रुवते
समानाꣳ शिनौ ब्रह्मा च यजमानश्च नानाꣳ शिनौ सूतग्रामणिनौ नानाꣳ शिनौ क्षत्तसंग्रहीतारौ
स यः पराजयते तस्यैनं कुले क्षत्ता पाचयति
यावदेष ओदनः पच्यते तावदेष होता शौनःशेपमाख्यापयते हिरण्मये कशिपावासीनस्
तस्मा अध्वर्युः प्रतिगृणाति हिरण्मये कूर्च आसीनः १५
12.16
ओꣳ होतस्तथा होतः सत्यꣳ होतररात्स्म होतरिति
यद्यु वै होता नाध्येत्यन्य उ होत्राशꣳ सी शꣳ सति
तस्मा उ प्रतिप्रस्थाता प्रतिगृणाति

परःशतं भवतीति ब्राह्मणं यदैष ओदनः पक्वो भवत्यथैनमेकधोद्धृत्य ब्रह्मण उपहरति
तस्मा एताꣳ श्चैव मणीन्ददाति शतं विपथं चतुष्पात्क्षेत्रम्
अथ होत्रे ददाति शतं विपथꣳ हिरण्मयं कशिप्वथोद्गात्रे ददाति शतं विपथम्
अथाध्वर्यवे ददाति शतं विपथꣳ स्वरथं तिस्रः पञ्चाशतः सौवर्णानक्षान्हिरण्मयं कूर्चमित्यत्रैभ्य एतन्निर्जयꣳ सहस्रं चतुर्धा कृत्वा ददत्यथैनमेतयासन्द्या सद आवहन्त्या वा व्रजत्यन्वायन्त्येनमेते चमसा अत्रैतयोर्हविषोरिडामुपह्वयत इडोपहूतं माहेन्द्र ꣳ! होता चैवाध्वर्युश्च संभक्षयतो नराशꣳ सपीतेन नाराशꣳ सान्
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथेन्द्रा य त्वेन्द्रा य त्वेत्येवं त्रिभिरुक्थ्यपर्यायैश्चरति
संतिष्ठते माध्यंदिनꣳ सवनम्प्रसर्पन्ति तृतीयसवनाय
प्रसिद्धमादित्यग्रहेण चरित्वाग्रयणं ग्रःणात्य्
अथोक्थ्यं गृह्णाति
समानं कर्मा पवमानात्
पवमानेन चरित्वा स्वे धामन्पशुभ्यां चरति
तयोर्नाना मनोते नाना देवते नाना प्रत्यभिमर्शनौ नाना वसाहोमौ समानो वनस्पतिः समानः स्विष्टकृत्प्रैषवान्समानीडा समान्यो दिशो नाना दिश इत्येके
समानं कर्मावभृथादथैतस्मिन्नवभृथ उपाददते चार्मपक्ष्यावुपानहौ
प्रप्लाव्य वाराही चार्मपक्षीभ्यामुदेति
सोऽपामन्ते जुहोत्यपां नप्त्रे स्वाहेति
विषुवति दर्भस्तम्बे जुहोत्यूर्जो नप्त्रे स्वाहेति
पुनरेत्य गार्हपत्ये जुहोत्यग्नये गृहपतये स्वाहेति
प्रसिद्धोऽवभृथ उदयनीयेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति
तस्यै प्रसिद्धं वपया चरित्वा नैव श्मश्रूणि वपते न केशान्
संतिष्ठत एष उक्थ्योऽभिषेचनीयश्चतुस्त्रिꣳ शपवमानः सहस्रदक्षिण उदवानीयान्तः १६
12.17
अथास्यैषा पुरस्तादेव जुष्टे देवयजने सप्तसु शम्याप्रव्याधेषु शाला कारिता भवति
सोऽत्रैवाग्नेयमष्टाकपालं निर्वपति

हिरण्यं ददाति
शम्यान्यास उदवसाय वसति
सारस्वतं चरुम्वत्सतरीं ददाति
द्वितीये शम्यान्यास उदवसाय वसति
सावित्रं द्वादशकपालम्
उपध्वस्तं ददाति
तृतीये शम्यान्यास उदवसाय वसति
पौष्णं चरुं श्यामं ददाति
चतुर्थे शम्यान्यास उदवसाय वसति
बार्हस्पत्यं चरुं शितिपृष्ठं ददाति
पञ्चमे शम्यान्यास उदवसाय वसत्यैन्द्र मेकादशकपालम्
ऋषभं ददाति
षष्ठे शम्यान्यास उदवसाय वसति
वारुणं दशकपालम्महानिरष्टं ददात्यथ सप्तमेऽहञ्छालामध्यवस्यत्येतदेवाहर्दीक्षतेऽथ वै भवति
सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति पुण्डरिस्रजां प्रयच्छतीत्यथैनं तीर्थादानीय पवयित्वा पुण्डरिस्रजिनमुदानीय दीक्षणीयामिष्टिं निर्वपति
तस्याꣳ सꣳ स्थितायां मुष्टी चैव न करोति वाचं च न यच्छति
निदधत्यस्मा एतद्धविरुच्छिष्टं व्रतभाजनम्
अथ प्रायणीयामिष्टिं निर्वपति
हविष्कृता वाचं विसृजतेऽत्रास्मा एतद्धविरुच्छिष्टं प्रयच्छन्ति व्रतभाजनम्
अथ प्रायणीयेन चरति
प्रायणीयेन चरित्वा पदेन चरति
पदेन चरित्वा दशभिः साण्डैर्वत्सतरै राजानं क्रीत्वोह्यातिथ्यं निर्वपत्यातिथ्येन प्रचर्य पुरस्तादुपसदाꣳ सौम्यं चरुम्बभ्रुं ददात्यथ मध्यमे उपसदावन्तरेण त्वाष्ट्रमष्टाकपालं शुण्ठं ददात्यथोपरिष्टादुपसदां वैष्णवं त्रिकपालम्वामनं ददात्यथाहवनीयं प्रणयत्य्
आहवनीयं प्रणीय सदोहविर्धाने संमिनोति
सदोहविर्धाने संमित्याग्नीषोमौ प्रणयत्यग्नीषोमौ प्रणीय यूपस्यावृता यूपमुच्छ्रयति
स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरोति
तस्य प्रसिद्धं वपया चरित्वा सारस्वतीर्वसतीवरीर्गृह्णात्यथ पशुपुरोडाशं निर्वपतीडान्तः पशुपुरोडाशः संतिष्ठते
पत्नीसंयाजान्तः पशुर्हृदयशूलान्त इत्येकेऽथ वसतीवरीः परिहृत्य पयाꣳ सि विशिष्योपवसन्त्यथातो महारात्र एव बुध्यन्ते
प्रातराज्यानि गृहीत्वा राजानमुपावहृत्य प्रातरनुवाकमुपाकरोति
परिहिते प्रातरनुवाकेऽपोऽच्छैत्यद्भिरुदैति १७
12.18
अग्निष्टोमं क्रतुमुपैति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्माश्विनाद्ग्रहादाश्विनं ग्रहं गृहीत्वा द्वे रशने आदाय यूपमभ्यैति
स्वर्वन्तं यूपमुत्सृज्याग्नेयं पशुमुपाकरोति
तस्य प्राजापत्यस्तूपर उपालम्भ्यो भवति
तयोः प्रसिद्धं वपाभ्यां चरित्वा प्रसर्पन्ति प्रातःसवनाय
पूर्वस्यां द्वारि सूतग्रामण्यावुपतिष्ठतोऽपरस्यां क्षत्तसंग्रहीतारौ
प्रसर्पतः पृच्छतः का ते माता का ते मातामहीति
स य आ दशम्यै संपादयत्यति तꣳ सृजन्त्य्
अथ यो न संपादयति दीर्घवꣳ शेन तमुपानुदन्ति
स य आह वैश्या मे माता सावित्रीति वाति तꣳ सृजन्ति विशो विवाहान्गोप्तार इति वदन्तो दशदशात्र चमसमभिसंजानत ऋजुधा प्रातःसवनꣳ संतिष्ठते
प्रसर्पन्ति माध्यंदिनाय सवनाय
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्मा दाक्षिणेभ्यो दाक्षिणानि हुत्वा प्राकाशावध्वर्यवे ददाति स्रजमुद्गात्रे रुक्मꣳ होत्रेऽश्वं प्रस्तोतृप्रतिहर्तृभ्यां द्वादश पष्टौहीर्ब्रह्मणे वशां मैत्रावरुणायर्सभं ब्राह्मणाच्छꣳ सिने वाससी नेष्टापोतृभ्याꣳ स्थूरि यवाचितमच्छावाकायानड्वाहमग्नीधे
भार्गवो होता भवति
श्रायन्तीयं ब्रह्मसामं भवति वारवन्तीयमग्निष्टोमसामम्
ऋजुधा माध्यंदिनꣳ सवनꣳ संतिष्ठते
प्रसर्पन्ति तृतीयसवनाय
प्रसिद्धमादित्यग्रहेण चरित्वाग्रयणं गृह्णाति
समानं कर्मा पवमानात्
पवमानेन चरित्वा स्वे धामन्पशुभ्यां चरति
तयोर्नाना मनोते नाना देवते नाना प्रत्यभिमर्शनौ नाना वसाहोमौ समानो वनस्पतिः समानः स्विष्टकृत्प्रैषवान्समानीडा समान्यो दिशो नाना दिश इत्येके

समानं कर्मावभृथात्
प्रसिद्धोऽवभृथ उदयनीययेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति
तस्यै प्रसिद्धं वपया चरित्वा दक्षिणे वेद्यन्ते श्मश्रूण्येव वपते न केशान्
संतिष्ठत एषोऽग्निष्टोमः सप्तदशो दशपेयः सहस्रदक्षिण उदवसानीयान्तः १८
12.19
अथ पञ्चहविषा दिशामवेष्ट्या यजत आग्नेयमष्टाकपालं निर्वपत्यैन्द्र मेकादशकपालं वैश्वदेवं चरुं मैत्रावरुणीमामिक्षां बार्हस्पत्यं चरुमित्यथ वै भवति
हविषोहविष इष्ट्वा बार्हस्पत्यमभिघारयति
स हविषोहविष इष्ट्वा बार्हस्पत्यमभिघारयत्यन्वाहर्यमासाद्यैता आदिष्टदक्षिणा ददात्यथ द्विपशुना पशुबन्धेन यजत आदित्यां मल्हां गर्भिणीमालभते मारुतीं पृश्निं पष्ठौहीं गर्भिण्यादित्या भवत्यगर्भा मारुत्यादित्यया पूर्वया प्रचरति मारुत्योत्तरयोच्चैरादित्याया आश्रावयत्युपाꣳ शु मारुत्यै
संतिष्ठते यथा द्विपशुः पशुबन्धस्तथाथ सात्यदूतानाꣳ हविर्भिर्यजतेऽश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निर्वपति सरस्वते सत्यवाचे चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम्
अन्वाहार्यमासाद्य तिसृधन्वꣳ शुष्कदृतिं ददाति
तं प्रतिराजभ्यः प्रहिणीति
स यः प्रतिगृह्णाति मित्रो म इति तं वेदाथ यो न प्रतिगृह्णात्यमित्रो म इति तं वेदाथ पूर्वैः प्रयुजाꣳ हविर्भिर्यजत आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालं बार्हस्पत्यं चरुं त्वाष्ट्रमष्टाकपालं वैश्वानरं द्वादशकपालम्
अन्वाहार्यमासाद्य दक्षिणꣳ रथवाहनवाहं ददात्यथ पौर्णमासवैमृधाभ्यामिष्ट्वोत्तरैः प्रयुजाꣳ हविर्भिर्यजते
सारस्वतं चरुं निर्वपति पौष्णं चरुं मैत्रं चरुं वारुणं चरुं क्षैत्रपत्यं चरुमादित्यं चरुम्
अन्वाहार्यमासाद्योत्तरꣳ रथवाहनवाहं ददाति १९
12.20
अत्रैतद्द्वादशाहं व्रतं चरत्याङ्क्ते
न दतो धावतेऽभ्यङ्क्ते
न प्रमन्दयते
युध्यते युद्ध आगतेऽग्निहोत्रोच्छेषणव्रतो वा यजमानो भवति
भक्तमु पत्न्या आहरन्त्यथास्यैतत्पुरस्तादेव जुष्टे देवयजने तिस्रः शालाः कारिता भवन्ति
स दक्षिणाध्याꣳ र्! शालामध्यवसाय मथित्वाग्नीन्विहृत्य प्रतीचीनस्तोमाय केशवपनीयायातिरात्राय दीक्षते

तस्यापरिमिता दीक्षा द्वादशोपसदः
स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्यै मे यजनीयेऽहन्सुत्या संपत्स्यत इति
तस्य तथा संपद्यते
प्रसिद्धेन कर्मणोपवसथादेत्यथ वसतीवरीः परिहृत्य पयाꣳ सि विशिष्योपवसन्त्यथातो महारात्र एव बुध्यन्ते
प्रातराज्यानि गृहीत्वा राजानमुपावहृत्य प्रातरनुवाकमुपाकरोति
परिहिते प्रातरनुवाकेऽपोऽच्छैत्यतिरात्रं क्रतुमुपैति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्मावभृथात्
प्रसिद्धोऽवभृथ उदयनीययेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति
तस्यै प्रसिद्धं वपया चरित्वा दक्षिणे वेद्यन्ते यानि कानि च लोमानि वापयते
संतिष्ठत एष प्रतीचीनस्तोमः केशवपनीयोऽतिरात्रः सहस्रदक्षिण उदवसानीयान्तोऽथ मध्यमाꣳ शालामध्यवसाय मथित्वाग्नीन्विहृत्य व्युष्टये द्विरात्राय दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदः
स तथा राजानं क्रीणाति यथा मन्यते द्विरात्रस्य मे सतोऽमावास्याया उपवसथीयेऽहन्पूर्वमहः संपत्स्यत उत्तरस्मिन्नुत्तरमिति

संतिष्ठते व्युष्टिद्विरात्रोऽथोत्तराध्याꣳ र्! शालामध्यवसाय मथित्वाग्नीन्विहृत्योदयनीयायाग्निष्टोमाय दीक्षते
तस्य तिस्रो दीक्षास्तिस्र उपसदः सप्तम्यां प्रसुतः
संतिष्ठत एष उदयनीयोऽग्निष्टोमश्चतुष्टोमः सहस्रदक्षिण उदवसानीयान्तोऽथ देविकाहविर्भिर्यजतेऽथ त्रैधातवीयया यजतेऽथ सौत्रामण्या यजते
संतिष्ठते राजसूयोऽर्धसप्तदशैर्मासैः
संतिष्ठते राजसूयः संतिष्ठते राजसूयः २०