बौधायनश्रौतसूत्रम्/प्रश्नः १०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

उखाः संभरिष्यन्नुपकल्पयतेऽश्वं च गर्दभं च तयोरेव रशने मौञ्ज्यौ वा कुशमय्यौ वाभ्रिं च ब्राह्मणसंपन्नां मृदं च भावितां करणीयां वल्मीकवपां कृष्णाजिनं च पुष्करपर्णं च योक्त्रमुदकुम्भꣳहिरण्यमर्मकपालानि शर्करा अवाञ्जनपिष्टा अजलोमानि कृष्णाजिनलोमानि वैश्यꣳसप्तदशꣳसूनामधिकरणीमुखाकृतं कुशलमित्यथामावास्येन वा हविषेष्ट्वा नक्षत्रे वाग्रेण शालाꣳशम्यान्यासे गर्तं खानयति
तद्भावितां मृदमवलेपयति
समां बिलेन करोति
तदुपसादयति कृष्णाजिनं च पुष्करपर्णं च योक्त्रमुदकुम्भꣳहिरण्यमित्यथ विषुवति स्फ्येनोद्धत्यावोक्ष्य वल्मीकवपां निदधाति
तां दक्षिणतो वैश्यो गोपायन्नास्तेऽथोत्तरꣳशालाखण्डमग्रेण स्फ्येनोद्धत्यावोक्ष्य सिकता निवपति
तं परिमण्डलं खरं करोत्यथैनꣳसिकताभिराभ्राशिनं करोति
तं कुशतरुणकैर्दूर्वाग्रन्थिभिरिति संप्रच्छाद्याथैनं परिश्रयन्ति
तस्योदीचीं द्वारं कुर्वन्ति
तदुपसादयत्यर्मकपालानि शर्करा अवाञ्जनपिष्टा अजलोमानि कृष्णाजिनलोमानि सूनामधिकरणीमुखाकृतं कुशलमित्यथैतावश्वगर्दभावग्रेण शालां पल्पूलितौ तिष्ठतोऽन्तर्वेद्यभ्रिं निदधात्युत्तरे वेद्यन्ते रशने
परिस्तृणन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चाथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये सावित्राणि जुहोत्यन्वारब्धे यजमाने १ 10.1

युञ्जानः प्रथमं मन इति षडृचोऽनन्तर्हिता देव सवितरित्यृगेषेमं नो देव सवितरिति यजुरेतद्
ऋचा वा यजुषा वावस्यत्याहुतिं नवमीꣳहुत्वोपतिष्ठति ऋचा स्तोमꣳसमर्धयेत्यथाभ्रिमादत्ते देवस्य त्वा सवितुः प्रसव इति चतुर्भिर्पर्यायैस्
तामग्रेणाहवनीयं पर्याहृत्य दक्षिणत आसीनाय ब्रह्मणे प्रयच्छत्यथ रशनामादत्त इमामगृभ्णन्रशनामृतस्येति
तयाश्वमभिदधाति प्रतूर्तं वाजिन्नाद्र वेत्येवमेव द्वितीयाꣳरशनामादत्ते
तया गर्दभमभ्दधाति युञ्जाथाꣳरासभं युवं योगेयोगे तवस्तरमिति द्वाभ्याम्
अश्वं पूर्वं नयन्ति
तमनुमन्त्रयते प्रतूर्वन्नेह्यवक्रामन्नशस्तीरित्यन्वञ्चं गर्दभं पूष्णा सयुजा सह पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदच्छेहीति
प्रदक्षिणी वैश्यं कुर्वते
वैश्यः पृच्छति पुरुषाः किमच्छेथेत्यग्निं पुरीष्यमङ्गिरस्वदच्छेम इतीतरे प्रत्याहुरथ वल्मीकवपामुपतिष्ठतेऽग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इत्यथोपातियन्त्यन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततानेत्यथैतेनाश्वेन प्राचा मृदमाक्रमयत्यागत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्याम्
अथास्य पृष्ठं मर्मृज्यते द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मान्तरिक्षꣳसमुद्र स्ते योनिः । विख्याय चक्षुषा त्वमभितिष्ठ पृतन्यत इत्यत्र यं यजमानो द्वेष्टि तमश्वस्याधस्पदं ध्यायत्यथैनं प्राञ्चमुत्क्रमयत्युत्क्रामोदक्रमीदिति द्वाभ्याम्
अथैतं पदाशयमद्भिरुपसृजति २ 10.2

 आपो देवीरुपसृज मधुमतीरयक्ष्माय प्रजाभ्यः । तासाꣳस्थानादुज्जिहतामोषधयः सुपिप्पला इत्यथ स्रुचि चतुर्गृहीतं गृहीत्वा दक्षिणेऽवान्तरशफे हिरण्यं निधाय संपरिस्तीर्याभिजुहोति जिघर्म्यग्निं मनसा घृतेनेत्य्
अपरं चतुर्गृहीतं गृहीत्वोत्तरेऽवान्तरशफे हिरण्यं निधाय संपरिस्तीर्यैवाभिजुहोत्या त्वा जिघर्मि वचसा घृतेनेत्यपोद्धृत्य हिरण्यमभ्रिमादाय पदं परिलिखति परि वाजपतिः कविः परि त्वाग्ने पुरं वयं त्वमग्ने द्युभिरिति तिसृभिः
खनति देवस्य त्वा सवितुः प्रसवे ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमिति द्वाभ्याम्
अथोत्तरतः पार्श्वतः संभाराणां प्रचीनाग्राणि तृणानि सꣳस्तीर्य तेषूपरि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणात्यथापां पृष्ठमसीति पुष्करपर्णमाहरति
तदुपरिष्टात्कृष्णाजिने निधायाथैने संमृशति शर्म च स्थः सं वसातामिति द्वाभ्याम्
अपोद्धृत्य पुष्करपर्णमष्टाभिर्मृदꣳहरति ३ 10.3

पुरीष्योऽसि विश्वभरा इति
तासां चतस्रो गायत्र्यश्चतस्रस्त्रिष्टुभः
स पिण्डंपिण्डं वैवर्चा हरत्यपि वाष्टाभिरेकमेव पिण्डꣳहरत्यथैतमवटं विश्वलोपेन पूरयित्वाद्भिरुपसृजति सं ते वायुर्मातरिश्वा दधातूत्तानायै हृदयं यद्विलिष्टम्। देवानां यश्चरति प्राणथेन तस्मै च देवि वषडस्तु तुभ्यमित्यथोपरिष्टात्पुष्करपर्णं मृदि निधाय समुच्चित्य कृष्णाजिनस्यान्तान्योक्त्रेणोपनह्यति सुजातो ज्योतिषा सह शर्म वरूथमासदः सुवः । वासो अग्ने विश्वरूपꣳसंव्ययस्व विभावसो इत्यथैनमादायोपोत्तिष्ठत्युदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति द्वाभ्याम्

अथैनमाहरति स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु । चित्रः शिशुः परि तमाꣳस्यक्तः प्र मातृभ्यो अधि कनिक्रदद्गा इत्यथैनं गर्दभ आसादयति स्थिरो भव वीड्वङ्ग आशुर्भव वाज्यर्वन्। पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहन इत्यथैनमुपतिष्ठते शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः । मा द्यावापृथिवी अभिशूशुचो मान्तरिक्षं मा वनस्पतीनित्यश्वं पूर्वं नयन्ति
तमनुमन्त्रयते प्रैतु वाजी कनिक्रददित्यन्वञ्चं गर्दभं नानदद्रा सभः पत्वा । भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा ॥ रासभो वां कनिक्रदत्सुयुक्तो वृषणा रथे । स वामग्निं पुरीष्यमाशुर्दूतो वहादितः ॥ वृषाग्निं वृषणं भरन्नपां गभꣳर्! समुद्रि यम्। अग्न आयाहि वीतय इत्यथेमे समीक्षत ऋतꣳसत्यमृतꣳसत्यमिति
प्रदक्षिणी वैश्यं कुर्वते
वैश्यः पृच्छति पुरुषाः किं भरथेत्यग्निं पुरीष्यमङ्गिरस्वद्भराम इतीतरे प्रत्याहुरथैनं खर उपावहरन्त्योषधयः प्रतिगृह्णीताग्निमेतमोषधयः प्रतिमोदध्वमेनमिति द्वाभ्याम्
अद्भिरभ्युक्ष्याश्वगर्दभावुत्सृजन्त्यपो रशने अभ्यवहरन्त्यपि वाद्भिरभ्युक्ष्य भुञ्जते ४ 10.4

अथैनं विस्रꣳसयति वि पाजसा पृथुना शोशुचान इत्यतहिनमद्भिरुपसृजत्यापो हि ष्ठा मयोभुव इति तिसृभिरनुच्छन्दसम्

अथैनमर्मकपालैः शर्कराभिरवाञ्जनपिष्टाभिरजलोमैः कृष्णाजिनलोमैरिति सꣳसृजति मित्रः सꣳसृज्य पृथिवीमयक्ष्माय त्वा सꣳसृजामीति द्वाभ्याम्
अथैनꣳसंभरति रुद्राः संभृत्य पृथिवीमिति
पिण्डं करोति मखस्य शिरोऽसीति
यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यामुपनिगृह्णात्यथ तृतीयं मृदोऽपच्छिद्य त्रीन्पिण्डान्करोति
तेषामेकमुखाकृते प्रयच्छति सꣳसृष्टां वसुभी रुद्रै रित्यनुमन्त्रयते वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसेत्यतिशिष्टायै मृदोऽर्धं प्रयच्छति सिनीवाली सुकपर्देत्यनुमन्त्रयते रुद्रा स्त्वा कृण्वन्तु त्रैष्टुभेन छन्दसेति
सर्वामन्ततो मृदं प्रयच्छत्युखां करोतु शक्त्येत्यनुमन्त्रयत आदित्यास्त्वा कृण्वन्तु जागतेन छन्दसा विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसेत्यथ वै भवति
प्रान्याभिर्यच्छत्यन्वन्यैर्मन्त्रयते मिथुनत्वाय
त्र्युद्धिं करोतीति
स यदेव त्रिर्हरति त्रिरनुलिम्पति तेन त्र्युद्धिस्
तां प्रादेशमात्रीमूर्ध्वामपरिमितां तिरश्चीं करोत्यथास्यै त्र्यङ्गुले वा चतुरङ्गुले वा रास्नां पर्यस्यत्यदित्यै रास्नासीत्यथास्या अनुदिशमष्टावश्रीरुन्नयति
रानासन्धिषु चाश्रिसन्धिषु चाष्टौ स्तनान्करोति
नवाश्रिमभिचरतः कुर्यादिति ब्राह्मणम्
अस्तनां नवमीं करोत्यथास्यै बिलं गृह्णात्यदितिस्ते बिलं गृह्णातु पाङ्क्तेन छन्दसेत्यथैनां खरे निदधाति कृत्वाय सा महीमुखामित्यान्तादनुवाकस्यैवमेव द्वितीयां करोत्येवं तृतीयां तूष्णीं पञ्च चर्षभाꣳस्तिस्रश्च मण्डलेष्टकाः ५ 10.5

अथ या मृदतिशिष्यते तया प्रवाते प्रतिलेपमुपवातयति
तासूपवातासूपकल्पयत एकविꣳशतिं वृष्णो अश्वस्य शकृत्पिण्डानभ्रिमग्निं पचनमित्यथाश्वशकमादीप्य मुख्यामुखां धूपयति वसवस्त्वा धूपयन्तु गायत्रेण छन्दसेति प्रतिपद्य वरुणस्त्वा धूपयत्वित्यातोऽन्तरतश्च बाह्यतश्च
सुधूपितां कृत्वा निदधात्येवमेव द्वितीयां धूपयत्येवं तृतीयां तूष्णीं पञ्च चर्षभाꣳस्तिस्रश्च मण्डलेष्टका अथोत्तरेण शालामुरुबिलमिवावटं खानयत्यदितिस्त्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थेऽङ्गिरस्वत्खनत्ववटेति
तं पचनेनावस्तीर्य तस्मिन्मुख्यामुखां प्रवृणक्ति देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वद्दधतूख इत्येवमेव द्वितीयां प्रवृणक्त्येवं तृतीयां तूष्णीं पञ्च चर्षभाꣳस्तिस्रश्च मण्डलेष्टकास्
ताः प्राचीर्वोदीचीर्वायातयत्यथैनाः पचनेनोपरिष्टात्संप्रच्छाद्य मृदावलिम्पति
चतुरङ्गुलमनुदिशमादीपनायातिशिनष्ट्यथोपोषति ६ 10.6

धिषणास्त्वेति पुरस्ताद्ग्नास्त्वेति दक्षिणतो वरूत्रयस्त्वेति पश्चाद्जनयस्त्वेत्युत्तरतोऽथैनाः परिददाति मित्रैतामुखां पचैषा मा भेद्येतां ते परिददाम्यभित्त्या इति
ता अह्ना वा रात्र्! या वा पच्यन्ते
यदि प्रातरुपोषति सायमुपैति यदि सायं प्रातस्तासु पक्वासूपकल्पयते गोपयश्छागापयो धृष्टिमश्मसंदावꣳसतꣳसंदꣳशं खारीꣳशिक्यं कृष्णाजिनमित्येतत्समादायाभ्यैत्यभीमां महिना दिवम्मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम्॥ मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम्। द्युम्नं चित्रश्रवस्तममित्यथ धृष्टिमादाय मुख्याया उखाया अङ्गारानुद्वपति देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः । सुबाहुरुत शक्त्येत्यथैनामुच्छ्रयत्युत्तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वमित्यथैनामाशये प्रतिष्ठापयत्यपद्यमाना पृथिव्याशा दिश आपृणेत्यतैनाꣳसंदꣳशेन परिगृह्य सतेऽवधाय छागापयसाच्छृणत्ति ७ 10.7

वसवस्त्वाच्छृन्दन्तु गायत्रेण छन्दसेति प्रतिपद्य विश्वे त्वा देवा वैश्वानरा आच्छृन्दन्त्वानुष्टुभेन छन्दसेत्यातोऽन्तरतश्च बाह्यतश्च
स्वाच्छृणां कृत्वा गोपयसाभिविष्यन्दयत्येवमेव द्वितीयामाच्छृणत्त्येवं तृतीयां तूष्णीं पञ्च चर्षभाꣳस्तिस्रश्च मण्डलेष्टका अथ यदि विधुर्वा प्रदरो वा जायतेऽश्मचूर्णानि छागापयसि संप्रकीर्य तैः प्रत्युक्ष्योल्मुकेनाभितपति
सꣳहैव रोहति
यद्यु वै सर्वश एव भिद्यत एतान्येव कपालान्यवाञ्चनं पिष्ट्वा यैषां मृत्प्रायश्चित्ताय परिशेते तया सꣳसृज्य कृत्वा पक्त्वाच्छृद्य निदधाति

तासां यदा श्वसथ उपरमत्यथैनाः खायाꣳर्! समवधाय कृष्णाजिनेनोपरिष्टात्संप्रच्छाद्योत्तरे शालाखण्डे शिक्य आसजति
ता आ कालात्परिशेरे ८ 10.8

अथैतस्मिन्नेव पूर्वपक्षे वायव्येन पशुना यजते
तस्य तदुपकॢप्तं भवति यत्पशुना यक्ष्यमाणस्य संग्रामे हतयोरश्वस्य च वैश्यस्य च शिरसी
दीव्यन्त ऋषभं पचन्ते
वृष्णिं च बस्तं चाहरन्त्येतत्सर्पशिरोऽथास्यैषा पूर्वेद्युरेव पाशुबन्धिकी वेदिर्विमिता भवति
तां परिस्तीर्य स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथ चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्याग्नेरावृताग्निं प्रणयत्यग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चꣳस्फ्यꣳस्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवꣳस्वधितिꣳस्रुचश्च संमृड्ढि तूष्णीं पृषदाज्यग्रहणीम्पत्नीꣳसंनह्याज्येन च दध्ना चोदेहि प्रतिप्रस्थातः पशुशीर्षाणि विद्धीत्यध्वर्युरेव प्रसिद्धं पाशुबन्धिकं कर्म चेष्टत्यथ प्रतिप्रस्थाता याचत्येकविꣳशतिं माषान्पर्णशाखां मृत्पिण्डमुदपात्रमुत्कुषीꣳसप्तधा वितृण्णां वल्मीकवपाꣳसंदꣳशमित्य्
एतत्समादाय पशुषीर्षाण्यभ्यैति
दक्षिणत एतत्पुरुषशिर उपशेतेऽग्रेणेतराण्यथ प्राचीनावीतं कृत्वा सप्तभिर्माषैः पुरुषशिरः परिकीर्य त्रिरपसलैः पर्णशाखया परिकर्षति ९ 10.9

अहरहर्नयमानो गामश्वं पुरुषं जगत्। वैवस्वतो न तृप्यति पञ्चभिर्मानवैर्यम इत्यपरैः सप्तभिः परिकीर्यैव परिकर्षति वैवस्वते विविच्यन्ते यमे राजनि ते जनाः । ये चेह सत्येनेच्छन्ते य उ चानृतवादिन इत्यपरैः सप्तभिः परिकीर्यैव परिकर्षति ते राजन्निह विविच्यन्तेऽथा यन्ति त्वामुप । देवाꣳश्च ये नमस्यन्ति ब्राह्मणाꣳश्चापचित्यतीत्यथादत्ते दक्षिणेन वल्मीकवपाꣳसव्येन संदꣳशेन पुरुषशिरः
प्राणैः प्राणान्संनिधायाशये वल्मीकवपां निदधात्यथैतत्पुरुषशिरोऽभ्युक्ष्योत्कुष्य प्रक्षाल्य मृदाभिलिम्पत्यनभिलिम्पन्प्राणान्
अथेतराणि त्रयेणैव निस्तिष्ठन्त्यभ्युत्कुष्यैव प्रक्षाल्य मृदाभिलिम्पन्त्यनभिलिम्पन्तः प्राणान्

अथैनान्यद्भिः प्रोक्षणतो निदधाति
तान्या कालात्परिशेरे १० 10.10

अथ पशोः सामिधेनीकल्पः
प्र वो वाजा अभिद्यव इत्येकादश
समास्त्वाग्न ऋतवो वर्धयन्त्विति दश
तासां ज्योतिष्मतीमपोद्धृत्य नव धाय्यालोके दधात्यथ पृथुपाजवत्यौ धाय्ये दधात्यथ युक्ष्वा हि देवहूतमानित्येतां दधाति
ताः पराचीरनूच्यमानाश्चतुर्विꣳशतिः संपद्यन्ते
ज्योतिष्मतीं त्वेवोत्तमामन्वाहाथ हिरण्यगर्भः समवर्तताग्र इत्याघारमाघारयत्यथात आप्रीणामेव मीमाꣳसोर्ध्वा अस्य समिधो भवन्तीति द्वादश
तासां तानूनपातीमपोद्धृत्य नाराशꣳसीं वसिष्ठानां दधात्यपोद्धृत्य नाराशꣳसीं तानूनपातीमन्येषां गोत्राणाम्

अथ पीवोऽन्नान्रायेऽनु यमिति वपायै यः प्राणतो य आत्मदा इति पशुपुरोडाशस्य प्र वायुमच्छा नो नियुद्भिरिति हविष इति नु यदि मिश्रो भवति
यद्यु वै सर्ववायव्य एव भवति पीवोऽन्नान्रायेऽनु यमित्येतासां द्वे वपायै द्वे पशुपुरोडाशस्य द्वे हविषोऽथ यदि सर्वप्राजापत्य एव भवति यः प्राणतो य आत्मदा इत्येतासां द्वे वपायै द्वे पशुपुरोडाशस्य द्वे हविषः
सर्वसꣳस्थां पशोः कुर्वन्त्यथैतानि पशुशीर्षाण्यभिपर्यग्निकृतान्युत्तरे शालाखण्डे शिक्येष्वासजत्यथैतत्सर्पशिर स्पन्द्यया विग्रथ्य शिक्यपाशे प्रग्रथ्नाति
तान्या कालात्परिशेरे ११ 10.11

अथापरपक्षः प्रतिधीयते
स उपकल्पयत इष्टकाश्चाग्निदक्षिणाश्च यदि रात्रिभृतं चेष्यमाणो भवति
यद्यु वै संवत्सरभृतं दीर्घोऽध्वाजिरिति नाद्रि येत
स उपकल्पयत औदुम्बरीमुख्यासन्दीं तस्याः प्रादेशमात्राः पादा भवन्त्यरत्निमात्राणि शीर्षाण्यनूच्यानि सा मौञ्जीभी रज्जुभिर्व्यूता भवत्येकसराभिः फलकाभिस्तीर्णा मृदावलिप्ता षडुद्यामं द्वादशोद्यामं वा मौञ्जꣳशिक्यं मुञ्जकुलायं क्रुमुकमाज्यसंयुतं वैकङ्कतीं च शमीमयीं च समिधौ सप्तौदुम्बरीः समिधस्तिस्रो नानावृक्ष्या एकविꣳशतिनिर्बाधꣳरुक्मं
प्रज्ञाता आग्निष्टोमिकाः संभारा जुष्टे देवयजने शाला कारिता भवत्यथैनं तीर्थादानीय पवयित्वा त्रिहविषमग्निदीक्षणीयामिष्टिं निर्वपत्याग्नावैष्णवमेकादशकपालमदित्यै घृते चरुं वैश्वानरं द्वादशकपालमिति
तस्यै तावन्त्युत्सीदन्ति यावन्ति दीक्षणीयाययथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्याज्यस्थाल्यां प्रत्यवनीयाज्यस्थाल्याः स्रुवेणोपघातमग्निदीक्षाहुतीर्जुहोति १२ 10.12

आकूतिमग्निं प्रयुजꣳ स्वाहा मनो मेधामग्निं प्रयुजꣳस्वाहा चित्तं विज्ञातमग्निं प्रयुजꣳस्वाहा वाचो विधृतिमग्निं प्रयुजꣳ स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहेत्यथ स्रुचि चतुर्गृहीतं गृहीत्वाज्यस्य पूर्णाꣳ स्रुचमौद्ग्रहणं जुहोति विश्वे देवस्य नेतुर्मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहेत्यत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यथाग्रेणाहवनीयं पर्याहृत्य यजमानाय प्रयच्छत्यथ मुख्यामुखां याचति

तस्याꣳशकृत्पिण्डान्पूतितृणानीति संप्रकीर्याज्यस्रुवं प्रत्यस्याहवनीयस्यान्तमेष्वङ्गारेषु प्रवृणक्ति मा सु भित्था दृꣳहस्वेति द्वाभ्याम्
अथिनां परिददाति मित्रैतामुखां तपैषा मा भेद्येतां ते परिददाम्यभित्त्या इत्यथ वै भवति
यदि भिद्येत तैरेव कपालैः सꣳसृजेदिति
सा यदि भिद्यत एतान्येव कपालान्यवाञ्चनं पिष्ट्वा यैषा मृत्प्रायश्चित्ताय परिशेते तया सꣳसृज्य कृत्वा पक्त्वाच्छृद्य निदधात्यथान्यां प्रवृणक्त्यथ वै भवत्यम्बरीषादन्नकामस्यावदध्यादित्यथ वै भवति
यं कामयेत यजमानं भ्रातृव्यमस्मै जनयेयमित्यन्यतस्तस्याहृत्यावदध्यादित्यथ वै भवति
यो गतश्रीः स्यान्मथित्वा तस्यावदध्यादित्यथ वै भवति
यो भूतिकामः स्याद्य उखायै संभवेत्स एव तस्य स्यादिति
स य एवैष उखायै संतापाज्जायते तस्मिन्मुञ्जकुलायमवदधाति या ते अग्न ओजस्विनी तनूरोषधीषु प्रविष्टा तां त एतेनावयजे स्वाहेत्यथ क्रुमुकमाज्यसंयुतमवदधाति द्र् वन्नः सर्पिरासुतिरित्यथ वैकङ्कतीं च शमीमयीं च समिधावादधाति परस्या अधि संवत इति वैकङ्कतीं परमस्याः परावत इति शमीमयीम्
अथ सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुपतिष्ठतेऽथ पञ्चौदुम्बरीः समिध आदधाति १३ 10.13

यदग्ने यानि कानि च यदत्त्युपजिह्विका रात्रिꣳरात्रिमप्रयावं नाभा पृथिव्या याः सेना अभीत्वरीरित्यथैनं पञ्चर्चेन राक्षोघ्नेनोपतिष्ठते कृणुष्व पाजः प्रसितिं न पृथ्वीमित्यथ तिस्रो नानावृक्ष्याः समिधोऽभ्यज्यादधाति दꣳष्ट्राभ्यां मलिम्लूनित्याश्वत्थीं ये जनेषु मलिम्लव इति वैकङ्कतीं यो अस्मभ्यमरातीयादिति शमीमयीम्
अथ सꣳशितं मे ब्रह्मोदेषां बाहू अतिरमित्युत्तमे औदुम्बरी वाचयन्नेवाभ्यादधात्यत्र कृष्णाजिने यजमानं वाचयति
मुष्टी चैव न करोति वाचं च न यच्छत्यथैतामासन्दीं व्यस्तशिक्यपाशां जघनेनाहवनीयं निदधाति
तस्यामिण्ड्वाभ्यां परिगृह्योख्यमासादयति १४ 10.14

मातेव पुत्रं पृथिवी पुरीष्यमग्निꣳस्वे योनौ बिभर्त्युखा । तां विश्वैर्देवैरृतुभिः संविदानः प्रजापतिर्विश्वकर्मा युनक्त्वित्यथासीन उत्तरनिर्बाधꣳरुक्मं प्रतिमुञ्चते दृशानो रुक्म इत्यथ शिक्यपाशं प्रतिमुञ्चते विश्वा रूपाणि प्रतिमुञ्चते कविर्नक्तोषासेति द्वाभ्यां तूष्णीं कृष्णाजिनमुत्तरम् अथैनमवेक्षते सुपर्णोऽसि गरुत्मान्त्रिवृत्ते शिरो गायत्रं चक्षु स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्र थन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दाꣳस्यङ्गानि धिष्णियाः शफा यजूꣳषि नामेत्यथैनमुद्गृह्णाति सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुवः पतेति
पुरस्तादेवास्यैते दीर्घाः शिक्यपाशाः कारिता भवन्ति

सोऽत्र वैव सति क्रमतेऽपि वैनमुपोद्यच्छते १५ 10.15

विष्णोः क्रमोऽस्यभिमातिहा गायत्रं छन्द आ रोह पृथिवीमनुविक्रमस्व निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं तृतीये चतुर्थमनुवर्तयति
न चतुर्थाय प्रक्रामति
नाहवनीयमुपात्येत्यथाक्रन्ददित्येतामन्वाहाथ दक्षिणमꣳसमभि पर्यावर्ततेऽग्नेऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा सह रय्येति चतसृभिरथोदङ्पर्यावृत्य कृष्णाजिनमुन्मुच्य शिक्यपाशामुन्मुञ्चत उदुत्तमं वरुण पाशमस्मदित्यथैनमाहरत्या त्वाहार्षमग्रे बृहन्नुषसामूर्ध्वो अस्थादिति द्वाभ्याम्
अत्र यं कामयेत राजन्यꣳराष्ट्रꣳस्यादिति तं मनसा ध्यायेद्रा ष्ट्रमेव भवतीति ब्राह्मणम्
अथैनं यथाहृतं प्रतिपर्याहृत्यान्तर्वेद्यासादयति सीद त्वं मातुरस्या उपस्थ इति चतसृभिः सहꣳसाभिरत्र मुष्टी च करोति वाचं च यच्छत्यथास्मै व्रतं प्रदास्यन्नन्नपतीयाꣳसमिधमभ्यादधाति वा जपति वान्नपतेऽन्नस्य नो देहीत्यथोख्यमुपसमिन्द्धे येन देवा ज्योतिषोर्ध्वा उदायन्निति
स यावत्कृत्वोऽस्मै व्रतं प्रदास्यन्भवत्येवमेवान्नपतीयाꣳसमिधमभ्यादधाति वा जपति वैवमुख्यमुपसमिन्द्धेऽथ प्रातरुदित आदित्ये विसृष्टायां वाचि वात्सप्रेणोपतिष्ठते दिवस्परि प्रथमं जज्ञे अग्निरित्येतेनैकादशर्चेन

स एवमेव पूर्वेद्युः प्रक्रामत्युत्तरेद्युरुपतिष्ठतेऽथास्योपवसथीयेऽहन्वात्सप्रꣳसंपद्यते १६ 10.16

अथातः प्रयाणस्यैव मीमाꣳसा
दीक्षितं वायोगक्षेमो विन्दत्यन्यत्र वा देवयजनाद्दीक्षते सꣳसृजन्ति व्रते
संबध्नन्ति व्रतदुघयोर्वत्सवादधति यदाधेयं भवति नीडे गार्हपत्यं प्रौग आहवनीयमित्यथोख्यमुद्यच्छत उदु त्वा विश्वे देवा इत्यथैनमनसः प्रौग आसादयति सीद त्वं मातुरस्या उपस्थ इति चतसृभिः सहꣳसाभिरथैतानासन्दीपादान्फलकेषु यथासुष्ठु विनिबध्नन्ति
मध्यमे वꣳशे शिक्यपाशं प्रग्रथ्नन्त्यपि वारण्योरग्नीन्समारोह्य प्रयाति भद्रा दभि श्रेयः प्रेहि प्रेदग्ने ज्योतिष्मान्याहीति द्वाभ्याम्
अथ यद्यक्ष उत्सर्जत्यक्रन्ददित्येतामन्वाहाथावसिते घृतानुषिक्ताꣳसमिधमभ्यादधाति समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्। आस्मिन्हव्या जुहोतन स्वाहेति गायत्र्! या ब्राह्मणस्य प्रप्रायमग्निर्भरतस्य शृण्व इति त्रिष्टुभा राजन्यस्य
स यावत्कृत्वः प्रयास्यन्भवत्येवमेवैतत्सर्वं करोति १७ 10.17

अथातो भस्मन एवातिवृद्धस्य मीमाꣳसा
भस्म चेदतिवर्धते स उपकल्पयते सतमयोदवीꣳर्! संदꣳशमित्येतत्समादाय यत्रापस्तद्यन्ति सोख्या
अथैतमग्निꣳसंदꣳशेन परिगृह्य सतेऽवधायायोदर्व्याप्सु भस्म प्रवेशयत्यापो देवीः प्रतिगृह्णीत भस्मैतदप्स्वग्ने सधिष्टव गर्भो अस्योषधीनामिति तिसृभिरनुच्छन्दसम्
अथैनं ज्योतिष्मतीभ्यां प्रत्यवदधाति प्रसद्य भस्मना योनिम्पुनरासद्य सदनमपश्चेति द्वाभ्याम्
अथ पुनरूर्जा सह रय्येति द्वाभ्यां पुनरुदैत्यथोख्यमुपसमिन्द्धे पुनस्त्वादित्या रुद्रा वसवः समिन्धतामित्यथैनं यथाहृतं प्रतिपर्याहृत्य यजमानायतने तिष्ठन्नुपतिष्ठते बोधा स बोधीत्यान्तादनुवाकस्य
स यावत्कृत्वो भस्मातिवर्धत एवमेवैतत्सर्वं करोत्यथातः कालायैवोपशेते संभारेभ्यः १८ 10.18

अथातः क्रयस्यैवोपवसथः पर्याप्लवते
स उपकल्पयते पञ्चशतमिष्टका अपरिमिता अपस्या नैरृतीः कृष्णास्तिस्रस्तुषपक्वा भस्म पुरीषमूषान्सिकता इत्यथोपवसथीयेऽहन्देवयजनमध्यवस्यत्येदमगन्मापेतेति द्वाभ्याम्
अथ महावेदिं विमिमीत एतानेव ज्यायसः प्रक्रमान्प्रक्रम्याक्ष्णया मानेन प्रमाय समन्तꣳस्पन्द्यया परितनोति
पृष्ठ्यामातनोत्यथैतमग्निं प्रत्यञ्चं यूपावटीयाच्छङ्कोर्विमिमीते पुरुषमात्रेण वेणुना समपक्षपुच्छम्
अरत्निना पक्षौ द्रा घीयाꣳसौ भवतः
षड्विधं वा सप्तविधं वा द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवत्यथैनमक्ष्णया मानेन प्रमाय समन्तꣳस्पन्द्यया परितनोत्य्
अनुस्पन्द्यं लेखां लिखत्यपोद्धृत्य स्पन्द्यां कर्षूः खानयन्त्युच्छ्रयन्त्यपस्या दक्षिणतश्च पश्चाच्च वर्षीयसीः कुर्वन्त्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताꣳरात्रिम्
अथाध्वर्युरपररात्र आद्रुत्य सꣳशास्ति त्रिस्तनव्रतं दोहयतेत्यथैतमग्निꣳसते समुप्य दक्षिणतो ज्वलयन्त आसतेऽथैतदग्न्यायतनꣳशकृत्पिण्डेन परिलेपयति
तस्मिꣳश्चतस्रः प्राचीरिष्टका आयातयति द्वे पुरस्तात्समीची द्वे पश्चात्समीची
अथैनं प्रदक्षिणं त्रयोदशभिरिष्टकाभिः परिचिनोत्यन्विष्टकं लेखां लिखत्यपोद्धृत्येष्टकाः कर्षूः खानयन्त्युच्छ्रयन्त्यपस्या दक्षिणतश्च पश्चाच्च वर्षीयसीः कुर्वन्ति १९ 10.19

अथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्यान्तःशर्करमिमामुपदधाति प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यत्र संभारान्निवपत्यग्नेर्भस्मासीति भस्माग्नेः पुरीषमसीति पुरीषं संज्ञानमसि कामधरणमित्यूषान्मयि ते कामधरणं भूयादिति सिकता अथैनान्संप्रयौति सं या वः प्रियास्तनुवः सं प्रिया हृदयानि वः । आत्मा वो अस्तु संप्रियः संप्रियास्तनुवो ममेत्यथैनान्कल्पयति कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रता इत्यथोर्ध्वचित उपदधाति चित स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देवतयाङ्गिरस्वद्ध्रुवाः सीदतेत्य्
अथानुव्यूहत्याप्यायस्वेति गायत्र्या ब्राह्मणस्य सं ते पयाꣳसीति त्रिष्टुभा राजन्यस्य
यथासुष्ठु यथाशर्करमनुव्यूहति
तस्मिꣳश्चतस्रः प्राचीर्याजुषीरुपदधाति २० 10.20

अयꣳसो अग्निरग्ने दिवो अर्णमच्छा जिगास्यग्ने यत्ते दिवि वर्चः पृथिव्याम्पुरीष्यासो अग्नय इति
द्वे पुरस्तात्समीची इडामग्न इति दक्षिणामयं ते योनिरृत्विय इत्युत्तरां द्वे पश्चात्समीची चिदसीति दक्षिणाम्परिचिदसीत्युत्तराम्
अथैनं प्रदक्षिणं त्रयोदशभिर्लोकं पृणाभिः परिचिनोति लोकं पृण छिद्रं पृणाथो सीद शिवा त्वम्। इन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्निति
तया देवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ सूददोहसं करोति ता अस्य सूददोहसः सोमꣳश्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिव इत्यथावद्रुत्य कृष्णमश्वमभिमृश्य तनुपुरीषमुपदधाति पृष्टो दिवीति
तयादेवतं कृत्वा सूददोहसं करोतीति न्वा इयं प्रथमा चितिर्निष्ठीयत एवमेव द्वितीया निष्ठीयत एवं तृतीयैवं चतुर्थ्येवं पञ्चमी
तान्यदि चेष्यत आदित्योऽभ्युदियाद्वाचंयमोऽध्वर्युं यजमानोऽन्वारभत उख्यमेवाध्वर्युरादत्ते प्रतिसमेधनीयं प्रतिप्रस्थाता
तौ पुरस्तात्प्रत्यञ्चौ समितमिति चतसृभिः संनिवपतोऽथ शिक्यादुखां निरूहति २१ 10.21

मातेव पुत्रं पृथिवी पुरीष्यमग्निꣳस्वे योनावभारुखा । तां विश्वैर्देवैरृतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चत्विति
तां नावेक्षेतेत्याहुः शुग्वत्येव हि भवतीति
तस्यामन्यत्रावेक्षमाणो दधिद्र प्सान्प्रास्यत्यमुं ते शुचि दधामीति वा तूष्णीं वाथैनाꣳसिकताभिः पूरयित्वा दध्नोपरिष्टात्संप्रच्छाद्योत्तरे शालाखण्डे निदधात्येवमेव द्वितीयां पूरयत्येवं तृतीयां ता आ कालात्परिशेरेऽथ वैश्वानर्या शिक्यमादत्ते यदस्य पारे रजसः शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विष इत्यथ याचति नैरृतीः कृष्णास्तिस्रस्तुषपक्वा आसन्दीꣳरुक्मस्य प्रबन्धनमुदपात्रमित्येतत्समादाय दक्षिणया द्वारोपनिष्क्रम्य तां दिशं यन्ति यत्रास्य स्वकृतमिरिणꣳस्पष्टं भवति प्रदरो वा
तदेतत्पराचीनपाशꣳशिक्यं न्यस्यत्यग्ने वैश्वानर स्वाहेति
शिक्यपाशमनु पराचीर्नैरृतीरुपदधाति नमः सु ते निरृते विश्वरूपे यत्ते देवी निरृतिराबबन्ध यस्यास्ते अस्याः क्रूर आसञ्जुहोमीत्युपास्यत्यासन्दीꣳरुक्मस्य प्रबन्धनम्
अथोपतिष्ठतेऽसुन्वन्तमयजमानमिच्छ देवीमहं निरृतिं वन्दमान इति द्वाभ्याम्
अथापो व्यतिषिच्य परास्य पात्रमनवेक्षमाणा आयन्ति

हस्तपादान्प्रक्षाल्यैतेनैव यथेतमेत्य गार्हपत्यमुपतिष्ठन्ते निवेशनः संगमनो वसूनामित्याहवनीयमु हैक उपतिष्ठन्तेऽयमितोऽधि गार्हपत्यो भविष्यतीति २२ 10.22

अथ प्रायणीयेन चरति
प्रायणीयेन चरित्वा पदेन चरति
पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वपत्यातिथ्येन प्रचर्य प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं प्रयच्छति
स पुच्छादेवाग्रे चतुरः प्रतीचः प्रक्रमान्प्रक्रामति दक्षिणा पञ्चमं तत्स्फ्यं निदधाति
स उपरवाणां कालोऽथ महावेद्या उत्तरादꣳसीयाच्छङ्कोर्वेद्यन्तेन द्वादश प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं त्रयोदशं तदाग्नीध्र उपसीदति
स उत्करस्य कालोऽथोपरवाणां कालात्स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथाग्रेण शालां तिष्ठन्संप्रैषमाह वेदिकारा वेदिं कल्पयतेति
यथासंप्रैषं ते कुर्वन्त्यथ कार्ष्णाजिनीरुपानह उपमुञ्चन्ते चिते त्वेत्यध्वर्युराचिते त्वेति प्रतिप्रस्थाता मनश्चिते त्वेति ब्रह्मा तपश्चिते त्वेति यजमानश्चिते त्वा चिते त्वेत्येव वा सर्वेऽपि वा तूष्णीमेवाथ याचति धनुर्बाणवच्चतुरोऽश्मन ऐन्द्री मिष्टकां विभक्तिमुदपात्रं दर्भस्तम्बं दूर्वामाज्यस्थालीꣳसस्रुवामित्येतत्समादायोत्तरे श्रोण्यन्ते सꣳसादयन्त्य्
अथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्यान्तःशर्करमिमामुपदधाति प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथादत्ते धनुर्बाणवच्चतुरोऽश्मन इत्येतत्समादाय जघनेन दक्षिणेनाग्निं परीत्याग्रेण यूपावटीयꣳशङ्कुं तिष्ठन्धनुरधिज्यं कृत्वायत्यान्तःशर्करमिषुं निहन्ति २३ 10.23

इन्द्र स्य वज्रोऽसि वार्त्रघ्नस्तनूपा नः प्रतिस्पश इत्यावृह्याश्मानमुपदधाति यो नः पुरस्तादघायुरभिदासत्येतꣳसोऽश्मानमृच्छत्वित्यथ दक्षिणस्य पक्षस्य दक्षिणे पक्षोपप्लव आयत्यान्तःशर्करमिषुं निहन्त्यावृह्याश्मानमुपदधाति यो नो दक्षिणत इत्यथ पुच्छस्यापरे पुच्छोपप्लव आयत्यान्तःशर्करमिषुं निहन्त्यावृह्याश्मानमुपदधाति यो नः पश्चादित्यथोत्तरस्य पक्षस्योत्तरे पक्षोपप्लव आयत्यान्तःशर्करमिषुं निहन्त्यावृह्यश्मानमुपदधाति यो न उत्तरत इति

दिक्षूपदधातीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्यथैतामैन्द्री मिष्टकामाक्रमणं प्रत्युपदधाति स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम्। यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्राꣳभितृन्धि वाजानिति
तयादेवतं कृत्वा सूददोहसं करोत्यथ दक्षिणतो विभक्तिमुपदधात्यग्न आयाहि वीतय इति
तयादेवतं कृत्वा सूददोहसं करोत्यथाधिद्रुत्य स्वयमातृण्णीयꣳशङ्कुमुद्वृह्योदपात्रमुपनिनीय दर्भस्तम्बमुपदधाति वाक्त्वा समुद्र उपदधात्विति वा तूष्णीं वाथैनꣳस्रुवाहुतिभिरभिजुहोति सजूरब्दोऽयावभिरिति पञ्चभिरथ दूर्वामुपदधात्यायने ते परायणे दूर्वा रोहन्तु पुष्पिणीः । उत्सो वा तत्र जायातै ह्रदो वा पुण्डरीकवानिति
तयादेवतं कृत्वा सूददोहसौ करोत्यथास्यैतत्पुरस्तादेवौदुम्बरं युगलाङ्गलं कारितं भवति २४ 10.24

षड्गवं वा द्वादशगवं वा
तस्य वरत्राः संमृशति सं वरत्रा दधातन निष्कृताहावमवटमिति द्वाभ्यां युनक्ति सीरा युञ्जन्ति कवयो युगा युनक्त सीरेति द्वाभ्यां
कृषति लाङ्गलं पवीरवं शुनं नः फाला इति द्वाभ्यां सीतां प्रत्यवेक्षते कामं कामदुघे धुक्ष्व घृतेन सीतेति द्वाभ्यां स पुच्छादेवाग्रे तिस्रः प्राचीः सीताः कृषत्युत्तरायै श्रोणेर्दक्षिणमꣳसमभि तिस्रो दक्षिणायै श्रोणेरुत्तरमꣳसमभि तिस्रो दक्षिणात्पक्षादुत्तरं पक्षमभि तिस्रोऽथैतान्विमुच्य प्रदक्षिणमावर्त्याद्भिरभ्युक्ष्योदीच उत्सृजति
त एतेऽध्वर्योर्भवन्ति यदि दक्षिणावता यजते
यद्यु वै सत्त्रियोऽग्निर्यथागवं व्युदचन्ति
यत्रैवानड्वागस्तद्युगलाङ्गलम्
अथास्यैतत्पुरस्तादेवौदुम्बरे द्रो णे सर्वौषधं दध्नाज्येन समुदायुतं भवति
स पुच्छादेवाग्रे तिस्रः प्राचीः सीता वपति या जाता ओषधय इति तिसृभिरनुच्छन्दसम्
उत्तरायै श्रोणेर्दक्षिणमꣳसमभि तिसृभिर्दक्षिणायै श्रोणेरुत्तरमꣳसमभि तिसृभिर्दक्षिणात्पक्षादुत्तरं पक्षमभि पञ्चभिश्चतुर्दशभिर्वपतीति ब्राह्मणम्
अथ दिग्भ्यो लोष्टान्समस्यति
सोऽत एव प्राङ्द्रुत्वा बहिःशर्कराल्लोष्टमादत्ते
तमन्तःशर्करं न्यस्यति २५ 10.25

मा नो हिꣳसीज्जनिता यः पृथिव्या इत्यथ दक्षिणं पक्षमनुद्रुत्य बहिःशर्कराल्लोष्टमादत्ते
तमन्तःशर्करं न्यस्यत्यभ्यावर्तस्व पृथिवीत्यथ पुच्छमनुद्रुत्य बहिःशर्कराल्लोष्टमादत्ते
तमन्तःशर्करं न्यस्यत्यग्ने यत्ते शुक्रं यच्चन्द्र मित्यथोत्तरं पक्षमनुद्रुत्य बहिःशर्कराद्द्वौ लोष्टावादत्त इषमूर्जमहमित आदद इति
तयोरन्यतरमन्तःशर्करं न्यस्यत्या नो गोषु विशत्वौषधीष्विति
तां दिशमितरं निरस्यति यस्यामस्य दिशि द्वेष्यो भवति जहामि सेदिमनिराममीवामित्याददान एवैतां दिशमभि संपादयेदित्येतदेकं यजुषा यजुर्विपरिहरेदित्येतदपरम्
अथ महावेद्या उत्तरादꣳसीयाच्छङ्कोर्वेद्यन्तेन त्रीन्प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं चतुर्थं तच्चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्य सिकता निवपत्यग्ने तव श्रवो वय इति षड्भिरनुच्छन्दसम्
अथोर्ध्वचित उपदधाति चित स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देवतयाङ्गिरस्वद्ध्रुवाः सीदतेत्यथानुव्यूहत्याप्यायस्वेति गायत्र्या ब्राह्मणस्य सं ते पयाꣳसीति त्रिष्टुभा राजन्यस्य
यथासुष्ठु यथाशर्करमनुव्यूहति २६ 10.26

अथैतां महाचितिꣳसꣳसादयन्त्यग्रेण शालामुच्छ्राय्यां वा चर्मणि वा द्वाविꣳशतिं च दर्भपुञ्जीलानि पयःप्रोक्षं चाज्यप्रोक्षं चाश्वं चौत्तरवेदिकाꣳश्च संभारान्बार्हस्पत्यत्रयोदशाश्च कुम्भेष्टकास्तावत एव हिरण्यशल्कान्सतं चोदकुम्भं च पुष्करपर्णं च रुक्मं च हिरण्मयं च पुरुषं स्रुचौ च सर्पशिरश्च सर्वं च स्वयमातृण्णानिकोतं दश च स्कन्ध्या अवकाश्च या उ चान्या उपधास्यन्भवति ता दधि च मधुमिश्रं कूर्मं चौदुम्बरं चोलूखलमुसलꣳसर्वौषधं चोखाश्च पशुशीर्षाणि चेति

द्वाविꣳशतिं दर्भपुञ्जीलानि पयःप्रोक्षेऽवधाय तैः प्रोक्षत्यग्नीन्वोऽग्निभ्यो जुष्टान्प्रोक्षामीति वा तूष्णीं वाग्निनाग्निः समिध्यत इत्याज्यप्रोक्षेणाथ संप्रैषमाहाग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीति
यदि होता न कामयते यजमान एव पुरीष्यासो अग्नय इत्येतामेकां त्रिरन्वाहाथाग्निप्रथमाः प्रतिपद्यन्तेऽथैतेनाश्वेन प्राचाधिद्र वति २७ 10.27

अभ्यस्थाद्विश्वाः पृतना अरातीरित्यथ दक्षिणमꣳसमभ्यवक्रामन्तमनुमन्त्रयते यदक्रन्दः प्रथमं जायमान इत्युत्तरे श्रोण्यन्ते सꣳसादयन्त्य्
अथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथ पुच्छसन्धौ चात्मसन्धौ च सतं निदधात्यथोदकुम्भं पर्यस्यत्यादत्ते दक्षिणेन कुम्भꣳसव्येन कुम्भीꣳसतात्पूरयित्वा हिरण्यशल्कौ प्रत्यस्य या एता दक्षिणादꣳसात्स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधाति २८ 10.28

हिरण्यवर्णाः शुचयः पावका यासाꣳराजा वरुणो याति मध्य इति द्वाभ्याम्
एवमेव पूरयित्वैवं प्रत्यस्य या एता उत्तरायै श्रोणेः स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधाति तृतीयया च चतुर्थ्या चैवमेव पूरयित्वैवं प्रत्यस्य या एता दक्षिणायै श्रोणेः स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधाति पञ्चम्या च षष्ठ्या चैवमेव पूरयित्वैवं प्रत्यस्य या एता उत्तरादꣳसात्स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधाति सप्तम्या चाष्टम्या चैवमेव पूरयित्वैवं प्रत्यस्य या एता दक्षिणात्पक्षात्स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधाति नवम्या च दशम्या चैवमेव पूरयित्वैवं प्रत्यस्य या एता उत्तरात्पक्षात्स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधात्येकादश्या च द्वादश्या च

तासां बार्हस्पत्यं मध्य उपदधाति दिवि श्रयस्वान्तरिक्षे यतस्व पृथिव्या संभव ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वेत्यनुसीतमुपदधातीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोति २९ 10.29

अथोत्तरवेदेरावृतोत्तरवेदिमलङ्करोत्यथोत्तरवेद्यामपां पृष्ठमसीति पुष्करपर्णमुपदधाति
तयादेवतं कृत्वा सूददोहसं करोत्यथोत्तरवेद्यामेवोत्तरनिर्बाधꣳरुक्ममुपदधाति ब्रह्म जज्ञानमित्यथैनमक्ष्णया पञ्चगृहीतेन व्याघारयति कृणुष्व पाजः प्रसितिं न पृथ्वीमित्यथ दक्षिणतः प्राञ्चꣳहिरण्मयं पुरुषमुपदधाति हिरण्यगर्भः समवर्तताग्र इत्यथैनमभिमृशति द्र प्सश्चस्कन्देति
तयादेवतं कृत्वा सूददोहसौ करोत्यथोत्तरतः प्रक्रमवेलायाꣳस्रुचावुपदधात्याज्यस्यपूर्णां कार्ष्मर्यमयीं दध्नः पूर्णामौदुम्बरीं दक्षिणां कार्ष्मर्यमयीमुत्तरामौदुम्बरीमियमसीति कार्ष्मर्यमयीमसावसीत्यौदुम्बरीं मनसैव
तयादेवतं कृत्वा सूददोहसौ करोत्यथ दक्षिणे प्रललाटे सर्पशिर उपदधाति नमो अस्तु सर्पेभ्य इति तिसृभिरनुच्छन्दसम्
अपि वा यतौच्चारं जनपदस्य जन्यं भयं मन्यते
तयादेवतं कृत्वा सूददोहसं करोति ३० 10.30

अथ स्वयमातृण्णां यजुषा करोति ध्रुवासि धरुणास्तृता विश्वकर्मणा सुकृता । मा त्वा समुद्र उद्वधीन्मा सुपर्णोऽव्यथमाना पृथिवीं दृꣳहेत्य्
अथैनामश्वमवघ्राप्याविदुषा ब्राह्मणेन सहाधिद्रुत्योपदधाति यथैतस्य पुरुषस्य प्राणैः प्राणाः संनिधीयेरन्नापिधीयेरन्भूः प्रजापतिस्त्वा सादयत्वित्यनुद्रुत्याग्निस्त्वाभिपातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यनु प्राण्यात्प्रथमाꣳस्वयमातृण्णामुपधायेत्यनुप्राणित्यथैष ब्राह्मणो वरं ददात्यथ स्रुचि चतुर्गृहीतं गृहीत्वा स्वयमातृण्णावकाशे जुहोति चित्तिं जुहोमि मनसा घृतेनेत्यङ्गुष्ठाभ्यामन्वारभ्यान्वारोहं वाचयति पृथिवीमाक्रमिषं प्राणो मा मा हासीदित्यपरे बिले हिरण्येष्टकामुपदधाति तेजोऽसि तेजो मे यच्छ पृथिवीं यच्छ पृथिव्यै मा पाहीति
तां जघनेन प्रक्रमवेलायां मण्डलेष्टकामुपदधाति पृथिव्युदपुरमन्नेन विष्टेति
दक्षिणतो रेतःसिचमुपदधाति पृथिवी रेतःसिक्सा मे रेतो दधातु सा मे रेतः प्रजनयत्विति
तयादेवतं कृत्वा सूददोहसः करोति ३१ 10.31

अथैता दश स्कन्ध्याः प्राचीरायातयति द्वे ऋतव्ये द्वे द्वियजुषी विराजं च विश्वज्योतिषं च सयुजं चाषाढां च द्वे संयान्यवृतव्ये उपदधाति मधुश्च माधवश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीत्यथ द्वियजुषी उपदधाति काण्डात्काण्डात्प्ररोहन्ती या शतेन प्रतनोषीति द्वाभ्यां दूर्वेष्टकाम्
अथ हिरण्यमूर्ध्नीमुपदधाति यास्ते अग्ने सूर्ये रुचो या वो देवाः सूर्ये रुच इति
विराजं च विश्वज्योतिषं च विराट्ज्योतिरधारयद्बृहस्पतिस्त्वा सादयत्वित्युत्त्राम्
अथ सयुजमुपदधातीन्द्रा ग्निभ्यां त्वा सयुजा युजा युनज्मीत्य्
अथाषाढां त्र्यालिखितामुत्तरलक्ष्माणमुपदधात्यषाढासि सहमानेत्यथ संयान्यावुपदधात्यग्नेर्यान्यसि देवानामग्नेयान्यसीति
तयादेवतं कृत्वा सूददोहसः करोति ३२ 10.32

अथोत्तरेण त्र्यालिखितामुपविश्य याचति दधि च मधुमिश्रं कूर्मं च
तं दध्ना मधुमिश्रेणाभ्यनक्ति मधु वाता ऋतायत इति तिसृभिरनुच्छन्दसम्
अथैनमवकाभारेण परिवेष्ट्य पुरस्तात्प्रत्यञ्चमुपदधाति मही द्यौः पृथिवी च नश्चतस्र आशाः प्रचरन्त्वग्नय इति द्वाभ्याम्
अथैनꣳशङ्कुभिः परिणिहन्त्यभितोऽनवसर्पणाय
तयादेवतं कृत्वा सूददोहसं करोत्यथात्रैव तिष्ठन्याचत्यौदुम्बरं चोलूखलमुसलꣳसर्वौषधं च
तदेतत्प्रादेशमात्रमुलूखलं भवत्यरत्निमात्रं मुसलं तस्मिन्सर्वौषधमवहन्त्यूर्जो भागोऽस्यूर्जः पवित्रमूर्गन्नमन्नाद्यायेत्यथैनदुत्तरतः प्रक्रमवेलायामुपदधाति तद्विष्णोः परमं पदमिति
लोकंपृणामुत्तरतो मुसलं करोति
तयादेवतं कृत्वा सूददोहसौ करोत्यथ मुख्यामुखां याचति
तस्यामन्तरवस्राविणी द्वे स्रुवाहुती जुहोत्यग्ने युक्ष्वा हि ये तवेति दक्षिणे बिले जुहोति युक्ष्वा हि देवहूतमानित्युत्तरेऽथैनामुत्तरतः प्रक्रमवेलायामुपदधाति धुर्वासि पृथिवि सहस्व पृतन्यत इति
लोकंपृणे उत्तरत इतरे करोति
तयादेवतं कृत्वा सूददोहसः करोत्यथितत्पुरुषशिरो याचति
तस्य प्राणेषु हिरण्यशल्कान्प्रत्यस्यति द्र प्सश्चस्कन्देत्यास्येऽभूदिदं विश्वस्य भुवनस्य वाजिनमिति दक्षिणस्यां नासिकायामग्नेर्वैश्वानरस्य चेत्युत्तरस्यामग्निर्ज्योतिषा ज्योतिष्मानिति दक्षिणेऽक्ष्णि रुक्मो वर्चसा वर्चस्वानित्युत्तर ऋचे त्वेति दक्षिणे कर्णे रुचे त्वेत्युत्तरेऽथ स्रुचि चतुर्गृहीतं गृहीत्वा दक्षिणेऽक्ष्णि जुहोति चित्रं देवानामुदगादनीकमित्यपरं चतुर्गृहीतं गृहीत्वोत्तरेऽक्ष्णि जुहोति चित्रं देवानामिति
समान्या जुहोतीति ब्राह्मणम्
अथैनद्दध्ना मधुमिश्रेण पूरयति समित्स्रवन्ति सरितो न धेना इत्यान्तादनुवाकस्याथैनत्प्राचीनमुत्तानमुखायामुपदधाति ३३ 10.33

आदित्यं गर्भं पयसा समञ्जन्नित्यनुद्रुत्येमं मा हिꣳसीर्द्विपादं पशूनामिति
मयुमारण्यमनु ते दिशामीति शुचमनूत्सृजति
ललाटे हिरण्येष्टकामुपदहाति विश्वकर्मा दिशां पतिरित्यथ पुरस्तात्प्रत्यङ्मुख उपविश्यान्तरात्मन्नश्वस्य शिर उपदधाति वातस्य ध्राजिं वरुणस्य नाभिमित्यनुद्रुत्येमं मा हिꣳसीरेकशफं पशूनामिति
गौरमारण्यमनु ते दिशामीति शुचमनूत्सृजति
ललाटे हिरण्येष्टकामुपदधाति प्रजापतिर्दिशां पतिरित्यथ पश्चात्प्राङ्मुख उपविश्यान्तरात्मन्नृषभस्य शिर उपदधात्यजस्रमिन्दुमरुषं भुरण्युमित्यनुद्रुत्येमꣳसमुद्र ꣳ! शतधारमुत्समिति
गवयमारण्यमनु ते दिशामीति शुचमनूत्सृजति
ललाटे हिरण्येष्टकामुपदधाति रुद्रो दिशां पतिरित्यथ दक्षिणत उदङ्मुख उपविश्यान्तरात्मन्वृष्णेः शिर उपदधाति वरूत्रिं त्वष्टुर्वरुणस्य नाभिमित्यनुद्रुत्येमामूर्णायुं वरुणस्य मायामित्युष्ट्रमारण्यमनु ते दिशामीति शुचमनूत्सृजति

ललाटे हिरण्येष्टकामुपदधाति वरुणो दिशां पतिरित्यथोत्तरतो दक्षिणामुख उपविश्यान्तरात्मन्बस्तस्य शिर उपदधाति यो अग्निरग्नेस्तपसोऽधि जात इत्यनुद्रुत्याजा ह्यग्नेरजनिष्ट गर्भादिति
शरभमारण्यमनु ते दिशामीति शुचमनूत्सृजति
ललाटे हिरण्येष्टकामुपदधात्यग्निर्दिशां पतिरित्यन्तेषु तस्य व्युदूह्योपदध्यादिति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोति ३४ 10.34

अथापस्या उपदधात्यपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रतीचीरुपदधाति पञ्च दक्षिणतः पञ्च पश्चात्प्राचीः पञ्चोत्तरतश्छन्दस्यास्
तयादेवतं कृत्वा सूददोहसः करोत्यथ प्राणभृत उपदधात्ययं पुरो भुवस्तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्र्! यै गायत्रं गायत्रादुपाꣳशुरुपाꣳशोस्त्रिवृत्त्रिवृतो रथंतरꣳरथंतराद्वसिष्ठ ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्य इति
दश प्राचीरायातयति स्वयमातृण्णाया अयं दक्षिणा विश्वकर्मेति
दश दक्षिणा आयातयति स्वयमातृण्णाया अयं पश्चाद्विश्वव्यचा इति
दश प्रतीचीरायातयति स्वयमातृण्णाया इदमुत्तरात्सुवरिति
दशोदीचीरायातयति स्वयमातृण्णाया इयमुपरि मतिरिति
दशभिरुपरिष्टात्प्रदक्षिणं परिचिनोत्यक्ष्णयोपदधातीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्यथ संयत उपदधात्यायुषः प्राणꣳसंतन्विति द्वादश तिस्रस्तिस्रो दिक्षु न मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्य्
अथापानभृत उपदधाति प्राची दिशां वसन्त ऋतूनामग्निर्देवता ब्रह्म द्र विणं त्रिवृत्स्तोमः स उ पञ्चदशवर्तनिस्त्र्! यविर्वयः कृतमयानां पुरोवातो वातः सानग ऋषिरिति
वाचयति पितरः पितामहा इति
दक्षिणेन प्राणभृतो दश प्रतीचीरायातयति स्वयमातृण्णामभि दक्षिणा दिशामिति
जघनेन प्राणभृतो दशोदीचीरायातयति स्वयमातृण्णामभि प्रतीची दिशामित्युत्तरेण प्राणभृतो दश प्राचीरायातयति स्वयमातृण्णामभ्युदीची दिशामित्यग्रेण प्राणभृतो दश दक्षिणा आयातयति स्वयमातृण्णामभ्यूर्ध्वा दिशामिति
बाह्येन प्राणभृतो दशभिरुपरिष्टादपसलैः परिचिनोति
विषूचीरुपदधातीति ब्राह्मणम्
अपानभृद्भिश्चितिराप्यते
तयादेवतं कृत्वा सूददोहसः करोत्यथाग्निꣳसर्वतोमुखं चिनुते ३५ 10.35

गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मधे
तयादेवतं कृत्वा सूददोहसः करोत्यथाग्नेरङ्गान्युपदधाति प्राच्या त्वा दिशा सादयामि गायत्रेण छन्दसाग्निना देवतयाग्नेः शीर्ष्णाग्नेः शिर उपदधामि दक्षिणया त्वा दिशा सादयामि प्रतीच्या त्वा दिशा सादयाम्युदीच्या त्वा दिशा सादयाम्यूर्ध्वया त्वा दिशा सादयामि पाङ्क्तेन छन्दसेति
तयादेवतं कृत्वा सूददोहसः करोत्यथोत्तरतः प्राजापत्यामुपदधाति संवत्सरस्य प्रतिमामिति

तां जघनेन प्रक्रमवेलायां प्राञ्चमृषभमुपदधाति त्वामग्ने वृषभं चेकितानमिति
तयादेवतं कृत्वा सूददोहसौ करोत्यथ लोकंपृणा उपदधाति लोकं पृण छिद्रं पृणाथो सीद शिवा त्वम्। इन्द्रा ग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्निति
तयादेवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ सूददोहसं करोति ता अस्य सूददोहसः सोमꣳश्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिव इति
प्राच्यात्र लोकंपृणया प्रसौत्यग्निं प्राचीभिः सम्प्रच्छादयन्ति
संप्रच्छन्नं पलाशशाखया परिकर्षति लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्याग्नेय्या गायत्र्! यैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताꣳरात्रिम् ३६ 10.36

अथ द्वितीयेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरत्यथ कार्ष्णाजिनी उपानहावुपमुञ्चेते अध्वर्युश्च यजमानश्चाथ द्वाभ्यामात्मन्यग्निं गृःनीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति

कृष्णमश्वमभिमृश्य तनुपुरीषमुपदधाति पृष्टो दिवीति
तयादेवतं कृत्वा सूददोहसं करोत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताꣳरातिर्म्
अथ तृतीयेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
सर्व एव कार्ष्णाजिनीरुपानह उपमुञ्चन्तेऽथ याचत्याज्यस्थालीꣳसस्रुवां विभक्तिमुदपात्रं पञ्च च स्कन्ध्या अवकाश्च या उ चान्या उपधास्यन्भवति ता
एतत्समादायोत्तरे श्रोण्यन्त सꣳसादयन्त्यथ द्वाभ्यामात्मन्यग्निं गृणीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथाधिद्रुत्य प्रथमे संचिताहुती जुहोत्यग्न उदधे तत्त्वा यामीति
दक्षिणतो विभक्तिमुपदधात्यग्निं दूतं वृणीमह इति
तयादेवतं कृत्वा सूददोहसं करोति ३७ 10.37

अथैताः पञ्च स्कन्ध्याः प्राचीरायातयति द्वे ऋतव्ये द्वे सयुजावेकाꣳसंयानीम्
ऋतव्ये उपदधाति शुक्रश्च शुचिश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीत्यथ सयुजावुपदधात्याघाराभ्यां त्वा सयुजा युजा युनज्मि तेजसा त्वा सयुजा युजा युनज्मीत्यथ संयानीमुपदधाति वायोर्यान्यसीति
तयादेवतं कृत्वा सूददोहसः करोत्यथाश्विनीरुपदधाति ध्रुवक्षितिर्ध्रुवयोनिरिति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्य्
अथर्तव्या उपदधाति सजूरृतुभिः सजूर्विधाभिरिति पञ्चैकैकां दिक्ष्वेकां मध्ये
समानप्रभृतयो भवन्ति समानोदर्का इति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्यथ प्राणभृत उपदधाति प्राणं मे पाह्यपानं मे पाहीति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ वृष्टिसनीरुपदधात्यपस्पिन्वौषधीर्जिन्वेति पञ्चैकैकां दिक्ष्वेकां मध्येऽनुपरिहारꣳसादयतीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्यथ मूर्धन्वतीरुपदधाति विष्टम्भो वय इति चतस्रः पुरस्ताद्धꣳसपातिनीस्
तयादेवतं कृत्वा सूददोहसः करोत्यथ वसस्या उपदधाति
त्र्यविर्वय इति पञ्च दक्षिणायाꣳश्रोण्यामुपदधाति पष्ठवाद्वय इति पञ्चोत्तरस्याम्बस्तो वय इति दक्षिणेऽꣳ! स उपदधाति
वृष्णिर्वय इत्युत्तरे
व्याघ्रो वय इति दक्षिणे पक्ष उपदधाति
सिꣳहो वय इत्युत्तरे
पुरुषो वय इति मध्ये
पुरुषेण चितिराप्यते
तयादेवतं कृत्वा सूददोहसः करोत्यथाग्निꣳसर्वतोमुखं चितुतेऽग्नेरङ्गानि प्राजापत्यामृषभं लोकंपृणा उदीच्यात्र लोकंपृणया प्रसौत्यग्निमुदीचीभिः संप्रच्छादयन्ति
संप्रच्छन्नं पलाशशाखया परिकर्षति लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्य्
आग्नेय्या त्रिष्टुभैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताꣳरात्रिम् ३८ 10.38

अथ चतुर्थेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
समानं पुरीषस्योपधानम्
अथ पञ्चमेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
सर्व एव कार्ष्णाजिनीरुपानह उपमुञ्चन्तेऽथ याचत्याज्यस्थालीꣳसस्रुवां विभक्तिमुदपात्रꣳसर्वं च स्वयमातृण्णानिकोतं दश च स्कन्ध्या अवकाश्च या उ चान्या उपधास्यन्भवति
एतत्समादायोत्तरे श्रोण्यन्ते सꣳसादयन्त्यथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथाधिद्रुत्य द्वितीये संचिताहुती जुहोत्यग्ने दुध्र तत्त्वा यामीति
दक्षिणतो विभक्तिमुपदधात्यग्निनाग्निः समिध्यत इति
तयादेवतं कृत्वा सूददोहसं करोत्यथ स्वयमातृण्णामश्वमवघ्राप्याविदुषा ब्राह्मणेन सहाधिद्रुत्योपदधाति भुव इन्द्रा ग्नी अव्यथमानामित्यनुद्रुत्य वायुस्त्वाभिपातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति
व्यन्याद्द्वितीयामुपधायेति
प्राण्यापानिति
स व्यानोऽथैष ब्राह्मणो वरं ददात्यथ स्रुचि चतुर्गृहीतं गृहीत्वा स्वयमातृण्णावकाशे जुहोति चित्तिं जुहोमि मनसा घृतेनेत्यङ्गुष्ठाभ्यामन्वारभ्यान्वारोहं वाचयत्यन्तरिक्षमाक्रमिषं प्रजा मा मा हासीदित्य्
अपरे बिले हिरण्येष्टकामुपदधाति ज्योतिरसि ज्योतिर्मे यच्छान्तरिक्षं यच्छान्तरिक्षान्मा पाहीति
तां जघनेन प्रक्रमवेलायां मण्डलेष्टकामुपदधात्यधिद्यौरन्तरिक्षं ब्रह्मणा विष्टेति
दक्षिणतो रेतःसिचमुपदधात्यन्तरिक्षꣳरेतःसिक्तन्मे रेतो दधातु तन्मे रेतः प्रजनयत्विति मनसैव
तयादेवतं कृत्वा सूददोहसः करोति ३९ 10.39

अथैता दश स्कन्ध्याः प्राचीरायातयति चतस्र ऋतव्याः सम्राजं च विश्वज्योतिषं च द्वे सयुजौ द्वे संयान्यवृतव्या उपदधाति नभश्च नभस्यश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीतीषश्चोर्जश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीति सम्राजं च विश्वज्योतिषं च सम्राट्ज्योतिरधारयद्विश्वकर्मा त्वा सादयत्वित्युत्तराम्
अथ सयुजावुपदधाति वर्चसा त्वा सयुजा युजा युनज्म्युक्थेभिस्त्वा सयुजा युजा युनज्मीत्यथ संयान्यावुपदधाति देवानां वायोयान्यस्यन्तरिक्षस्य यान्यसीति
तयादेवतं कृत्वा सूददोहसः करोत्यथ दिश्या उपदधाति राज्ञ्यसि प्राची दिगिति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ प्राणभृत उपदधात्यायुर्मे पाहि प्राणं मे पाहीति दश पुरस्तात्प्राचीस्
तासां ज्योतिष्मतीमुत्तमामुपदधाति
तयादेवतं कृत्वा सूददोहसः करोत्यथ बृहतीरुपदधाति मा छन्द इति द्वादश दक्षिणतः पृथिवी छन्द इति द्वादश पश्चादग्निर्देवतेति द्वादशोत्तरतस्
तयादेवतं कृत्वा सूददोहसः करोत्य्
मूर्धासि राडिति सप्त पुरस्तात्प्रतीचीरुपदधाति यन्त्री राडिति सप्त पश्चात्प्राची
वालखिल्याभिश्चितिराप्यते
तयादेवतं कृत्वा सूददोहसः करोत्यथाग्निꣳसर्वतोमुखं चिनुतेऽग्नेरङ्गानि प्राजापत्यामृषभं लोकंपृणाः
प्राच्यात्र लोकंपृणया प्रसौत्यग्रिं प्राचीभिः संप्रच्छादयन्ति
संप्रच्छन्नं पलाशशास्वया परिकर्षति लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्याग्नेय्या जगत्यैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताꣳरात्रिम् ४० 10.40

अथ षष्ठेऽन्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
समानं पुरीषस्योपधानम्
अथ सप्तमेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
सर्व एव कार्ष्णाजिनीरुपानह उपमुञ्चन्तेऽथ याचत्याज्यस्थालीꣳसस्रुवां विभक्तिमुदपात्रं पञ्च च स्कन्ध्या अवकाश्च या उ चान्या उपधास्यन्भवति ता एतत्समादायोत्तरे श्रोण्यन्ते सꣳसादयन्त्यथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथाधिद्रुत्य तृतीये संचिताहुती जुहोत्यग्ने गह्य तत्त्वा यामीति
दक्षिणतो विभक्तिमुपदधात्यग्निर्वृत्राणि जङ्घनदिति
तयादेवतं कृत्वा सूददोहसं करोत्यथैताः पञ्च स्कन्ध्याः प्राचीरायातयति द्वे ऋतव्ये द्वे सयुजावेकाꣳसंयानीम्

ऋतव्ये उपदधाति सहश्च सहस्यश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीत्यथ सयुजावुपदधाति स्तोमेभिस्त्वा सयुजा युजा युनज्मि छन्दोभिस्त्वा सयुजा युजा युनज्मीत्यथ संयानीमुपदधाति देवानामन्तरिक्षयान्यसीति
तयादेवतं कृत्वा सूददोहसः करोति ४१ 10.41

अथाक्ष्णयास्तोमीया उपदधात्याशुस्त्रिवृदिति पुरस्तादुपदधाति व्योम सप्तदश इति दक्षिणतो धरुण एकविꣳश इति पश्चाद्भान्तः पञ्चदश इत्युत्तर्तः
प्रतूर्तिरष्टादश इति पुरस्तादुपदधात्यभिवर्तः सविꣳश इति दक्षिणतो वर्चो द्वाविꣳश इति पश्चात्तपो नवदश इत्युत्तरतो
योनिश्चतुर्विꣳश इति पुरस्तादुपदधाति गर्भाः पञ्चविꣳश इति दक्षिणत ओजस्त्रिणव इति पश्चात्संभरणस्त्रयोविꣳश इत्युत्तरतः
क्रतुरेकत्रिꣳश इति पुरस्तादुपदधाति ब्रध्नस्य विष्टपं चतुस्त्रिꣳश इति दक्षिणतः प्रतिष्ठा त्रयस्त्रिꣳश इति पश्चाद्नाकः षट्त्रिꣳश इत्युत्तरतोऽग्नेर्भागोऽसीति पुरस्तादुपदधाति नृचक्षसां भागोऽसीति दक्षिणतो मित्रस्य भागोऽसीति पश्चादिन्द्र स्य भागोऽसीत्युत्तरतो
वसूनां भागोऽसीति पुरस्तादुपदधात्यादित्यानां भागोऽसीति दक्षिणतोऽदित्यै भागोऽसीति पश्चाद्देवस्य सवितुर्भागोऽसीत्युत्तरतो
धर्त्रश्चतुष्टोम इति पुरस्तादुपदधाति यावानां भागोऽसीति दक्षिणत ऋभूणां भागोऽसीति पश्चाद्विवर्तोऽष्टाचत्वारिꣳश इत्युत्तरतोऽन्यथानूच्यान्यथोपदधातीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्य्
अथ सृष्टीरुपदधात्येकयास्तुवत प्रजा अधीयन्तेति सप्तदश
चतस्रो दक्षिणेऽꣳ! स उपदधात्यथ तिस्रोऽथ तिस्रोऽथ तिस्रोऽथ चतस्रो दक्षिणादꣳसाद्दक्षिणाꣳश्रोणिमभ्यायातयति
तयादेवतं कृत्वा सूददोहसः करोत्यथ व्युष्टीरुपदधातीयमेव सा या प्रथमा व्यौच्छदिति पञ्चदश
तिस्रस्तिस्रो दिक्षु तिस्रो मध्ये
व्युष्टीभिश्चितिराप्यते
तयादेवतं कृत्वा सूददोहसः करोति ४२ 10.42

अथाग्निꣳसर्वतोमुखं चिनुतेऽग्नेरङ्गानि प्राजापत्यामृषभं लोकंपृणा उदीच्यात्र लोकंपृणया प्रसौत्यग्निमुदीचीभिः संप्रच्छाद्यन्ति
संप्रच्छन्नं पलाशशाखया परिकर्षति लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्याग्नेय्यानुष्टुभैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताꣳरात्रिम् ४३ 10.43

अथाष्टमेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
समानं पुरीषस्योपधानम्
अथ नवमेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
सर्व एव कार्ष्णाजिनीरुपानह उपमुञ्चन्तेऽथ याचत्याज्यस्थालीꣳसस्रुवां विभक्तिमुदपात्रꣳसर्वं च स्वयमातृण्णानिकोतꣳसप्त च स्कन्ध्या अवकाश्च या उ चान्या उपधास्यन्भवति ता
एतत्समादायोत्तरे श्रोण्यन्ते सꣳसादयन्त्यथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथाधिद्रुत्य चतुर्थे संचिताहुती जुहोत्यग्ने किꣳशिल तत्त्वा यामीति
दक्षिणतो विभक्तिमुपदधात्यग्ने स्तोमं मनामह इति
तयादेवतं कृत्वा सूददोहसं करोत्यथैताः सप्त स्कन्ध्याः प्राचीरायातयति द्वे ऋतव्ये स्वराजं च विश्वज्योतिषं चैकाꣳसयुजं द्वे संयान्यवृतव्ये उपदधाति तपश्च तपस्यश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीति स्वराजं च विश्वज्योतिषं च स्वराट्ज्योतिरधारयत्प्रजापतिस्त्वा सादयत्वित्युत्तराम्
अथ सयुजमुपदधाति रय्यै पोषाय सजातानां मध्यमस्थेयाय मया त्वा सयुजा युजा युनज्मीत्यथ संयान्यावुपदधात्यन्तरिक्षमस्यन्तरिक्षाय त्वेति
तयादेवतं कृत्वा सूददोहसः करोति ४४ 10.44

अथासपत्ना उपदधात्यग्ने जातान्प्रणुदा नः सपत्नानिति पुरस्तादुपदधाति सहसा जातानिति पश्चाद्चतुश्चत्वारिꣳश स्तोम इति दक्षिणतः षोडश स्तोम इत्युत्तरतस्
तासां पुरीषवतीं मध्य उपदधाति पृथिव्याः पुरीषमस्यप्सो नामेति
तयादेवतं कृत्वा सूददोहसः करोत्यथ विराज उपदधात्येवश्छन्दो वरिवश्छन्द इति चत्वारिꣳशतं दशदश दिक्षु न मध्येऽक्ष्णयोपदधातीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्य्
अथ स्तोमभागा उपदधाति रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येकत्रिꣳशतꣳसप्तसप्त दिक्षु तिस्रो मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ नाकसद उपदधाति राज्ञ्यसि प्राची दिग्वसवस्ते देवा अधिपतय इति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ पञ्चचोडा उपरिष्टान्नाकसदामुपदधात्ययं पुरो हरिकेशः सूर्यरश्मिरिति पञ्चैकैकां दिक्ष्वेकां मध्ये
तासां पश्चात्प्राचीमुत्तमामुपदधात्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायति
तयादेवतं कृत्वा सूददोहसः करोत्यथ छन्दाꣳस्युपदधात्यग्निर्मूर्धा दिव इत्येतस्यानुवाकस्य तिस्रस्तिस्रो यथाम्नातं गायत्रीः पुरस्तादुपदधाति त्रिष्टुभो दक्षिणतो जगतीः पश्चादनुष्टुभ उत्तरतो बृहतीर्मध्य उष्णिहः पुरस्तादुपदधाति पङ्क्तीर्दक्षिणतोऽक्षरपङ्क्तीः पश्चादतिच्छन्दसमुत्तरतो द्विपदा मध्येऽपि वातिच्छन्दसं मध्ये द्विपदा उत्तरतस्
तयादेवतं कृत्वा सूददोहसः करोत्यथ दक्षिणेऽꣳ! से कृत्तिका उपदधात्यम्बा नामासि दुला नामासीति सप्त गुल्मकृतास्
तयादेवतं कृत्वा सूददोहसः करोत्यथ वृष्टिसनीरुपदधाति पुरोवातसनिरस्यभ्रसनिरसीति पञ्चैकैकां दिक्ष्वेकां मध्येऽनुपरिहारꣳसादयतीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्यथादित्येष्टका उपदधाति सलिलाय त्वा सर्णीकाय त्वेत्यष्टौ द्वेद्वे दिक्षु न मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ घृतेष्टका उपदधात्यृचे त्वा रुचे त्वेति पञ्चैकैकां दिक्ष्वेकाम्मध्येऽनुपरिहारꣳसादयतीति ब्राह्मणं
तयादेवतं कृत्वा सूददोहसः करोत्यथ यशोदा उपदधाति यशोदां त्वा यशसि सादयामीति पञ्चैकैकां दिक्ष्वेकां मध्ये
अथ भूयस्कृत उपदधाति भूयस्कृदसि वरिवस्कृदसीति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथाप्सुषद उपदधात्यप्सुषदसि श्येनसदसीति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ द्र विणोदा उपदधाति पृथिव्यास्त्वा द्र विणे सादयामीति पण्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथायुष्या उपदधाति प्राणं मे पाह्यपानं मे पाहीति सप्तैकैकां दिक्षु तिस्रो मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथर्तुनामान्युपदधाति यावा अयावा इति सप्तैकैकां दिक्षु तिस्रो मध्ये
तयादेवतं कृत्वा सूददोहसः करोति ४५ 10.45

अथेन्द्र तनूरुपदधात्यग्निना विश्वाषाडिति द्वाविꣳशतिं पञ्चपञ्च दिक्षु द्वे मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ यज्ञतनूरुपदधाति प्रजापतिर्मनसान्धोऽच्छेत इति त्रयस्त्रिꣳशतमष्टावष्टौ दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ ज्योतिष्मतीरुपदधाति ज्योतिष्मतीं त्वा सादयामीति द्वादश तिस्रस्तिस्रो दिक्षु न मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ भूतेष्टका उपदधाति पृथिव्यै स्वाहान्तरिक्षाय स्वाहेति द्वादश तिस्रस्तिस्रो दिक्षु न मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथाज्यानीरुपदधाति शतायुधाय शतवीर्यायेति पञ्चैकैकां दिक्ष्वेकां मध्ये

तयादेवतं कृत्वा सूददोहसः करोत्यथ राष्ट्रभृत उपदधात्यग्ने यशस्विन्यशसेममर्पयेति चतस्र एकैकां दिक्षु न मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ दक्षिणेऽꣳसे पौर्णमासीमुपदधाति पूर्णा पश्चादिति
तयादेवतं कृत्वा सूददोहसं करोत्यथ दक्षिण एवाꣳसे नक्षत्रेष्टका उपदधाति कृत्तिका नक्षत्रमग्निर्देवतेत्यथैना रोचयत्यग्ने रुच स्थ प्रजापतेर्धातुः सोमस्य ऋचे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वेत्यथैतं नक्षत्रपथꣳरोहिणीप्रभृत्या विशाखाभ्यामायातयति
दक्षिणादꣳसाद्दक्षिणाꣳश्रोणिमभ्यायातयत्यथ पुच्छसन्धौ चात्मसन्धौ चामावास्यामुपदधाति यत्ते देवा अदधुर्भागधेयमित्यथैतं नक्षत्रपथमनूराधाप्रभृत्यापभरणीभ्य आयातयत्युत्तरायै श्रोणेरुत्तरमꣳसमभ्यायातयत्यथोत्तर एवाꣳसे पौर्णमासीमुपदधाति पूर्णा पश्चादित्यसꣳस्पृष्टा उपदधातीति ब्राह्मणं नक्षत्रेष्टकाभिश्चितिराप्यते
तयादेवतं कृत्वा सूददोहसः करोत्यथावद्रुत्य कृष्णमश्वमभिमृश्य तनुपुरीषमुपदधाति पृष्टो दिवीति
तयादेवतं कृत्वा सूददोहसं करोत्यत्र षष्ठीं चितिं चिनुते संयच्च प्रचेताश्चेति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथाग्निꣳसर्वतोमुखं चिनुतेऽग्नेरङ्गानि प्राजापत्यामृषभं लोकंपृणाः

प्राच्यात्र लोकंपृणया प्रसौत्यग्निं प्राचीभिः संप्रच्छादयन्त्यथोदीचीभिः
पाचीभिस्त्वेव निस्तिष्ठन्ति
यावद्दघ्नं चेष्यमाणो भवति तावद्दघ्नं चिनुतेऽथानभिमृष्टं चितिकॢप्त्याभवति
तदेताश्चतस्रः स्वयमातृण्णा याचति
ता दिक्षूपदधाति प्राणाय त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद्ध्रुवा सीद व्यानाय त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद्ध्रुवा सीदापानाय त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद्ध्रुवा सीद वाचे त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ स्वयमातृण्णामश्वमवघ्राप्याविदुषा ब्राह्मणेन सहाधिद्रुत्योपदधाति सुवरायोस्त्वा सदने सादयामीत्यनुद्रुत्य सूर्यस्त्वाभिपातु मह्या स्वस्त्या छर्दिषा शतमेन तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यपान्यात्तृतीयामुपधायेत्यपानित्यथैष ब्राह्मणो वरं ददात्यथ स्रुचि चतुर्गृहीतं गृहीत्वा स्वयमातृण्णावकाशे जुहोति चित्तिं जुहोमि मनसा घृतेनेत्यङ्गुष्ठाभ्यामन्वारभ्यान्वारोहं वाचयति दिवमाक्रमिषं सुवरगन्मेत्यपरे बिले हिरण्येष्टकामुपदधाति सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीति
तां जघनेन प्रक्रमवेलायां मण्डलेष्टकामुपदधाति द्यौरपराजितामृतेन विष्टेति
दक्षिणतो रेतःसिचमुपदधाति द्यौ रेतःसिक्सा मे रेतो दधातु सा मे रेतः प्रजनयत्विति

तयादेवतं कृत्वा सूददोहसः करोत्यथोत्तरतः प्रक्रमवेलायां विकर्णीमुपदधाति प्रोथदश्वो न यवसे अविष्यन्निति
तयादेवतं कृत्वा सूददोहसं करोत्यथ लोकंपृणा उपदधाति लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्याग्नेय्या पङ्क्त्यैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताꣳरात्रीम् ४६ 10.46

अथैतस्मिन्नेव नवमेऽह्नि दशमायाह्न उपकल्पयते सहस्रꣳहिरण्यशल्कान्
ऊर्ध्वं त्रिभ्योऽपरिमितानित्येक आहुस्
ते यदि सहस्रं भवन्ति द्वेद्वे शते पत्त्रनाडीष्वेते भवतोऽथ दशमेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
समानं पुरीषस्योपधानम्
अथ पात्र्यामप आनीय हिरण्यशल्कान्संप्रकीर्य द्वाभ्यांद्वाभ्याꣳशताभ्यां प्रोक्षति सहस्रस्य प्रमा असीति यत्प्राक्स्वयमातृण्णायै भवति सहस्रस्य प्रतिमा असीति यद्दक्षिणा स्वयमातृण्णायै भवति सहस्रस्य विमा असीति यत्प्रत्यक्स्वयमातृण्णायै भवति सहस्रस्योन्मा असीति यदुदक्स्वयमातृण्णायै भवत्यथ मध्यं द्वाभ्याꣳशताभ्यां प्रोक्षति साहसरोऽसि सहस्राय त्वेत्यथोत्तरे श्रोण्यन्ते तिष्ठन्निष्टका धेनूः कुरुत इमा मे अग्न इष्टका धेनवः सन्त्वित्यान्तादनुवाकस्याथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताꣳरात्रिम्
अथैतस्मिन्नेव दशमेऽह्न्येकादशायाह्न उपकल्पयतेऽर्कपर्णमजक्षीरं गावीधुकं चरुं तिसृधन्वमश्मानमुदकुम्भं मण्डूकमवकां वेतसशाखां दर्भस्तम्बमाज्यस्थालीꣳसस्रुवां दीर्घवꣳशं द्वादशमित्यथैकादशेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
स दीर्घवꣳशे स्रुवं प्रग्रथ्योत्तमे संचिताहुती जुहोत्यग्ने वन्य तत्त्वा यामीति ४७ 10.47

यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थातोत्तरस्य पक्षस्य चरमयेष्टकया प्रत्यूढपुरीषयोपरमत्यथैतस्यार्कपर्णस्य पुटमन्तरवस्त्राविणं कृत्वोदङ्तिष्ठन्मुखदघ्ने धारयन्नाहाहरानयेति
स यत्र धरेष्टकां प्राप्नोति तत्प्रतिपद्यते नमस्ते रुद्र मन्यव इत्यान्तमेतमनुवाकं निगद्य द्वितीयं तृतीयं चतुर्थस्य यत्राभिजानाति नमः क्षत्तृभ्य इति तत्स्वाहाकरोति
सोऽत एव प्राङावृत्य नाभिदघ्ने धारयन्संग्रहीतृभ्य इति प्रतिपद्यातिशिष्टमनुवाकस्य निगद्य पञ्चमꣳषष्ठं सप्तमस्य यत्राभिजानाति नमो वर्ष्याय चेति तत्स्वाहाकरोति
सोऽत एव दक्षिणावृत्य जानुदघ्ने धारयन्नवर्ष्याय चेति प्रतिपद्यातिशिष्टमनुवाकस्य निगद्याष्टमं नवमं दशमम्
एकादशस्य यत्राभिजानाति य एतावन्तश्च भूयाꣳसश्चेति तत्स्वाहाकरोति
सोऽत एव प्रत्यङावृत्य गुल्फदघ्ने धारयन्नमो रुद्रे भ्यो ये पृथिव्यामित्येतद्यजमानं वाचयति

नाभिदघ्ने धारयन्नमो रुद्रेभ्यो येऽन्तरिक्ष इत्येतद्यजमानं वाचयति
ग्रीवदघ्ने धारयन्नमो रुद्रे भ्यो ये दिवीत्येतद्यजमानं वाचयत्यत्रैतदर्कपर्णं यं द्वेष्टि तस्य संचरे पशूनां न्यस्यति
यद्यु वै न द्वेष्ट्याख्ववटे न्यस्यत्यत्रैतं गावीधुकं चरुं चरमायामिष्टकायां निदधाति यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्रा य नमो अस्त्वित्यथैतत्तिसृधन्वं याचति
तेनोत्तरे श्रोण्यन्ते तिष्ठन्नुपतिष्ठतेऽपि वानुपरिक्रामं यत्ते रुद्र पुरो धनुस्तद्वातो अनु वातु ते तस्मै ते रुद्र संवत्सरेण नमस्करोमि यत्ते रुद्र दक्षिणा धनुर्यत्ते रुद्र पश्चाद्धनुर्यत्ते रुद्रो त्तराद्धनुर्यत्ते रुद्रो परि धनुरित्यथैनदयाचितं ब्राह्मणाय ददात्यथास्यैष उदकुम्भ उत्तरे श्रोण्यन्तेऽश्मना सꣳस्पृष्टः शेते
स यो बलवाꣳस्तमाहानेनोदकुम्भेन संततया धारया त्रिः प्रदक्षिणं परिषिञ्चन्परीहीति
स तथा करोति
परिषिच्यमाने यजमानं वाचयत्यश्मन्नूर्जं पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे । अद्भ्य ओषधीभ्यो वनस्पतिभ्योऽधि संभृतां तां न इषमूर्जं धत्त मरुतः सꣳरराणा इत्यथैतं कुम्भमश्मना सꣳस्पृष्टꣳसादयत्यश्मꣳस्ते क्षुदमुं ते शुगृच्छतु यं द्विष्म इति
निधाय कुम्भं यथेतं त्रिः पुनः प्रतिपर्येत्य्
अथैतस्मिन्नेव दीर्घवꣳशे प्रग्रथ्नाति मण्डूकमवकां वेतसशाखां दर्भस्तम्बमिति
तेन यत्प्राक्स्वयमातृण्णायै भवति तद्विकर्षति समुद्र स्य त्वावकया हिमस्य त्वा जरायुणेति ४८ 10.48

द्वाभ्यां पुरस्ताद्द्वाभ्यां दक्षिणतो द्वाभ्यां पश्चाद्द्वाभ्यामुत्तरतोऽष्टाभिर्विकर्षतीति ब्राह्मणम्
अथैताश्चैव कार्ष्णाजिनीरुपानह एतं च दीर्घवꣳशꣳसंछिद्य चात्वाले संप्रकिरन्त्यथ शान्तोऽग्निरित्याज्यस्थालीꣳसस्रुवामादायाधिद्रुत्याज्यस्थाल्याः स्रुवेणोपघातꣳसर्पाहुतीर्जुहोति
समीची नामासि प्राची दिगिति पश्चादासीनः पूर्वे बिले जुहोत्योजस्विनी नामासि दक्षिणा दिगित्युत्तरत आसीनो दक्षिणे बिले जुहोति
प्राची नामासि प्रतीची दिगिति पुरस्तादासीनोऽपरे बिले जुहोत्यवस्थावा नामास्युदीची दिगिति दक्षिणत आसीन उत्तरे बिले जुहोत्यथैतेनैव यथेतमेत्य यत्रैव प्रथममहौषीत्तद्द्वे जुहोत्यधिपत्नी नामासि वशिनी नामासीत्यथावद्रुत्याग्निꣳसामभिरुपस्थापयति
गायत्रेण पुरस्तादुपतिष्ठतेऽग्नेर्हृदयेन दक्षिणमुपपक्षꣳरथंतरेण दक्षिणं पक्षं वारवन्तीयेन दक्षिणाꣳश्रोणिमृतुस्थायज्ञायज्ञियेन पुच्छꣳश्यैतेनोत्तराꣳश्रोणिं बृहतोत्तरं पक्षं प्रजापतेर्गृहयेनोत्तरमुपपक्षं वामदेव्येन मध्यम्

अथाह होतरग्नेरुक्थेनाग्निमनुशꣳसेति
यदि होता न कामयते यजमान एव जघनेन पुच्छं तृणानि सꣳस्तीर्य तेषूपविश्याग्नेरुक्थेनाग्निमनुशꣳसति पिता मातरिश्वाच्छिद्रा पदा धा अच्छिद्रा उशिजः पदानु तक्षुः सोमो विश्वविन्नेता नेषद्बृहस्पतिरुक्थामदानि शꣳसिषदोमिति सकृद्वा त्रिर्वाथैनꣳस्तुतशस्त्रयोर्दोहं वाचयतीष्टो यज्ञो भृगुभिराशीर्दा वसुभिस्तस्य त इष्टस्य वीतस्य द्र विणेह भक्षीयेत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताꣳरात्रिम् ४९ 10.49

अथैतस्मिन्नेवैकादशेऽह्नि द्वादशायाह्न उपकल्पयत औदुम्बरꣳस्रुवमौदुम्बरं द्रो णमौदुम्बरं प्रसेकमौदुम्बरीं वितष्टिं तस्यां पञ्चगृहीतमाज्यं भवति दध्नः पूर्णामौदुम्बरीं तिस्र औदुम्बरीः समिधस्तिस्रो नानावृक्ष्या नानावृक्ष्यमिध्मं दधि मधुमिश्रं ग्रुमुष्टिमवकाभारं पृश्निमश्मानमाज्यप्रोक्षं द्वितीयꣳहोतारमप्रतिरथस्यानुवक्तारं विलीनोत्पूतस्याज्यस्य द्वौ वा त्रीन्वा कुम्भान्ब्राह्मौदनिकान्व्रीहीन्सर्वौषधꣳरोहितं चर्मानडुहं कृष्णायै श्वेतवत्सायै अयो रथं चषालहोमीयꣳशाकलान्परिधीनित्यथ द्वादशेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वयार्धस्तनव्रतं प्रयच्छतेत्य्
आह्वयति सुब्रह्मण्यः सुब्रह्मण्याम्
अर्धस्तनव्रतं प्रयच्छत्यथादत्ते पञ्चगृहीतमाज्यं दधि मधुमिश्रं ग्रुमुष्टिमवकाभारमित्येतत्समादायाधिद्रुत्याक्ष्णया पञ्चगृहीतेन स्वयमातृण्णां व्याघारयति नृषदे वडप्सुषदे वड्वनसदे वड्बर्हिषदे वट्सुवर्विदे वडित्येतयैव स्रुचोपघातं दध्ना मधुमिश्रेण गन्धर्वाहुतीर्जुहोति
हेतयो नाम स्थ तेषां वः पुरो गृहा इति पश्चादासीनः पूर्वे बिले जुहोति
निलिम्पा नाम स्थ तेषां वो दक्षिणा गृहा इत्युत्तरत आसीनो दक्षिणे बिले जुहोति
वज्रिणो नाम स्थ तेषां वः पश्चाद्गृहा इति पुरस्तादासीनोऽपरे बिले जुहोत्यवस्थावानो नाम स्थ तेषां व उत्तराद्गृहा इति दक्षिणत आसीन उत्तरे बिले जुहोत्यथैतेनैव यथेतमेत्य यत्रैव प्रथममहौषीत्तद्द्वे जुहोत्यधिपतयो नाम स्थ क्रव्या नाम स्थेत्यथाह प्रतिप्रस्थातरिममग्निं कूर्मपृषन्तं कुर्विति
तꣳस कूर्मपृषन्तं करोति
नाप्रोक्षितमधितिष्ठत्यथ ग्रुमुष्टिमादाय दध्ना मधुमिश्रेणावोक्षति ये देवा देवानां ये देवा देवेष्वधि देवत्वमायन्निति ५० 10.50

द्वाभ्यां पुरस्तात्ताभ्यां दक्षिणतस्ताभ्यां पश्चात्ताभ्यामुत्तरतोऽनुपरिचारमवोक्षतीति ब्राह्मणम्
अथैनमवकाभारेण प्रतिच्छाद्य गोप्तारꣳसमादिश्यावद्रुत्यापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वयाग्नीद्वैश्वानरमारुतान्निर्वप प्रतिप्रस्थातः प्रवर्ग्यस्यावृता प्रवग्यꣳर्! सꣳसादयोद्वासनायेति

त्रेधैतत्पदं कुर्वन्ति
गार्हपत्ये तृतीयमुपचमनीषु तृतीयं नि तृतीयं दधात्यथ प्रवर्ग्यस्यावृता प्रवर्ग्यमुद्वास्याधिश्रयति वैश्वानरं द्वादशकपालं मारुताꣳश्च सप्तकपालान्
अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीयेऽनीकवन्तं जुहोत्यग्निस्तिग्मेन शोचिषेत्यनुद्रुत्य सैनानीकेन सुविदात्रो अस्मे इति जुहोत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव वैश्वकर्मणानि जुहोति
य इमा विश्वा भुवनानि जुह्वदित्यनुद्रुत्य विश्वकर्मा ह्यजनिष्ट देव इति जुहोत्यपरं चतुर्गृहीतं गृहीत्वा चक्षुषः पितेत्यनुद्रुत्य विश्वकर्मन्हविषा वर्धनेनेति जुहोति
नानैव सूक्ताभ्यां जुहोति नानैव सूक्तयोर्वीर्यं दधातीति ब्राह्मणम्
अथ तिस्र औदुम्बरीः समिध आदधात्युदेनमुत्तरां नयेन्द्रे मं प्रतरां कृधि यस्य कुर्मो हविर्गृह इत्यथाभ्यादधातीध्मं प्रणयनीयम्
उपोपयमनीः कल्पयन्ति चात्वालादथ संप्रैषमाहाग्नये प्रणीयमानायानुब्रूह्यग्नीदेकस्फ्ययानुसंधेहि द्वितीयो होताप्रतिरथमनुब्रवीत्विति
प्रतिपद्यत एष द्वितीयो होताप्रतिरथमाशुः शिशान इति
दशर्चं भवतीति ब्राह्मणम्
अथैतेनैव सहाग्निमाददते पृश्निमश्मानमाज्यप्रोक्षं शाकलान्परिधीनित्यथैनमुद्यच्छत उदु त्वा विश्वे देवा इति
षड्भिर्हरतीति ब्राह्मणं
तासां द्वे परिगृह्यवती भवतोऽथ विषुवत्याग्नीध्रस्य काले पृश्निमश्मानं निदधाति विमान एष दिव उक्षा समुद्र इति द्वाभ्याम्
अथ चतसृभिरा पुच्छादेतीन्द्रं विश्वा अवीवृधन्निति
धारयन्त्येतमग्निम्
अथैनꣳसंचितमाज्यप्रोक्षेण प्रोक्षति ५१ 10.51

वसवस्त्वा रुद्रै ः! पुरस्तात्पान्त्विति पुरस्तात्पितरस्त्वा यमराजानः पितृभिर्दक्षिणतः पान्त्विति दक्षिणत आदित्यास्त्वा विश्वैर्देवैः पश्चात्पान्त्विति पश्चाद्द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतः पात्वित्युत्तरतो देवास्त्वेन्द्र ज्येष्ठा वरुणराजानोऽधस्ताच्चोपरिष्टाच्च पान्त्वित्युपरिष्टादथैतेनैव सहाग्निनाधिद्र वति प्राचीमनु प्रदिशं प्रेहि विद्वान्क्रमध्वमग्निना नाकमुख्यम्पृथिव्या अहमुदन्तरिक्षमारुहं सुवर्यन्तो नापेक्षन्तेऽग्ने प्रेहि प्रथमो देवयतामिति पञ्चभिर्धारयन्त्येतमग्निम्
अथ दध्नः पूर्णामौदुम्बरीꣳस्वयमातृण्णायां जुहोति
नक्तोषासेति पुरोऽनुवाक्यामनूच्याग्ने सहस्राक्षेति जुहोत्यथ प्रदक्षिणमावृत्येध्मं प्रतिष्ठापयति सुपर्णोऽसि गरुत्मानिति
तिसृभिः सादयतीति ब्राह्मणम्
अथैनं विस्रस्याहुतिषाहं कृत्वाध्वराहुतिभिरभिजुहोत्यग्निर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्देवेभ्यः प्रब्रूताद्यज्ञम्प्रप्र यज्ञपतिं तिर स्वाहा वायुर्यज्ञं नयतु प्रजानन्सूर्यो यज्ञं नयतु प्रजानन्यज्ञो यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्देवेभ्यः प्रब्रूताद्यज्ञम्प्रप्र यज्ञपतिं तिर स्वाहेत्यथावद्रुत्याग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चꣳस्फ्यꣳस्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादयेत्य्
अथाधिद्रुत्य शाकलान्परिधीन्परिधाय नानावृक्ष्यमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय तिस्रो नानावृक्ष्याः समिध आदधाति प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीम्विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीं ताꣳसवितुर्वरेण्यस्य चित्रामिति शमीमयीम्
अथ द्वे सुवाहुती जुहोति चित्तिं जुहोम्यग्ने तमद्येत्यथ स्रुचि चतुर्गृहीतं गृहीत्वाज्यस्य पूणाꣳर्! स्वुचं जुहोति सप्त ते अग्ने समिधः सप्त जिह्वा इत्यत्र जुह्वन्मनसा दिशो ध्यायेद्दिग्भ्य एवैनमवरुन्द्धे
दध्ना पुरस्ताज्जुहोत्याज्येनोपरिष्टात्
तेजश्चैवास्मा इन्द्रि यं च समीची दधादिति ब्राह्मणम्
अथात्रैव तिष्ठन्याचति वैश्वानरं द्वादशकपालं मारुताꣳश्च सप्तकपालान्
अथोपस्तीर्य सर्वश एव वैश्वानरमवदधदाहाग्नये वैश्वानरायानुब्रूहीति
द्विरभिघारयत्यत्याक्रम्याश्राव्याहाग्निं वैश्वानरं यजेति
वषत्कृते मध्ये जुहोत्यथैनꣳस्रुवाहुतिभिरभिजुहोति सुवर्न घर्मः स्वाहेति पञ्चभिरथ मारुतैः प्रचरति ५२ 10.52

पर्युपस्तारं दर्विहोमाकारमीदृङ्चान्यादृङ्चेत्यनुद्रुत्य शुक्रज्योतिश्च चित्रज्योतिश्चेति जुहोति
शुक्रज्योतिश्च चित्रज्योतिश्चेत्यनुद्रुत्य ऋतजिच्च सत्यजिच्चेति जुहोत्यृतजिच्च सत्यजिच्चेत्यनुद्रुत्यर्तश्च सत्यश्चेति जुहोत्यृतश्च सत्यश्चेत्यनुद्रुत्य योऽरण्येऽनुवाक्यो गणस्तमनुद्रुत्य जुहोति

योऽरण्येऽनुवाक्यो गणस्तमनुद्रुत्येदृक्षास एतादृक्षास इति जुहोतीदृक्षास एतादृक्षास इत्यनुद्रुत्य मितासश्च संमितासश्च न इति जुहोति
मितासश्च संमितासश्च न इत्यनुद्रुत्येदृङ्चान्यादृङ्चेति जुहोति
तानभितो वैश्वानरं परिचिनोति
गणेन गणमनुद्रुत्य जुहोत्युच्चैर्वैश्वानरस्याश्रावयत्युपाꣳशु मारुताञ्जुहोतीति ब्राह्मणम् ५३ 10.53

अथैतं प्रसेकमग्नावायातयति दक्षिणतो वोदञ्चं पश्चाद्वा प्राञ्चं तस्य स्रुगिव पूर्वार्धो भवत्येवमेव मध्यं चमस इव बुध्नस्
तस्मिꣳश्चतुर उपस्तृणान आहाप्रमत्तः संततमानय वसोर्धारां निगदिष्यामीति
स यत्र धाराग्निं प्राप्नोति तत्प्रतिपद्यतेऽग्नाविष्णू सजोषसेति सर्वामान्तं वसोर्धाराम्
अत्रैतं प्रसेकमग्नावनुप्रहरत्यथैनꣳसꣳस्रावेणाभिजुहोत्यथ यदाज्यमुच्छिष्यते तस्मिन्ब्रह्मौदनं पचति
तं ब्राह्मणाश्चत्वारः प्राश्नन्ति
तेभ्यश्चतस्रो धेनूर्दद्यादिति ब्राह्मणम्
अथास्यैतत्पुरस्तादेवौदुम्बरे द्रो णे सर्वौषधं दध्नाज्येन समुदायुतं भवति
तस्यौदुम्बरेण स्रुवेणोपधातं वाजप्रसवीयं जुहोति वाजस्येमं प्रसवः सुषुवे अग्रे वाजो नः सप्त प्रदिश इति चतुर्दश स्रुवाहुतीरभिषेकाय प्ररेकं परिशिनष्ट्यथैनमपिधाय प्रज्ञातं निदधात्यथ नक्तोषासेति कृष्णायै श्वेतवत्सायै पयो जुहोत्य्
अथ षड्राष्ट्रभृतो जुहोत्यृताषाडृतधामेति
भुवनस्य पत इति रथमुखे पञ्चाहुतीर्जुहोत्यथ तिस्रो रुचो जुहोति यास्ते अग्ने सूर्ये रुचो या वो देवाः सूर्ये रुचो रुचं नो धेहि ब्राह्मणेष्वित्यथ पात्र्यामाज्यमानीयाञ्जलिनोपघातं वातनामानि जुहोति समुद्रो ऽसि नभस्वानार्द्र वानुः शंभूर्मयोभूरभि मा वाहि स्वाहा मारुतोऽसि मरुतां गणः शंभूर्मयोभूरभि मा वाहि स्वाहावस्युरसि दुवस्वाञ्छंभूर्मयोभूरभि मा वाहि स्वाहेति
वातमु हैके जुह्वतो मन्यन्तेऽत्रैताञ्छाकलान्परिधीनग्नावनुप्रहरति
तदेतच्छाकलान्तम् ५४ 10.54

अथ सदोहविर्धाने संमिनोति
सदोहविर्धाने संमित्याध्वरधिष्णियान्निवपति
तेषूपर्यग्निधिष्णियानुपदधाति ममाग्ने वर्चो विहवेष्वस्त्वित्याग्नीधीय एकां च याजुषीꣳसप्त च लोकंपृणा अथ होतुर्धिष्णिय एकां चैव याजुषीमेकादश च लोकंपृणा अथेतरेष्वेकैकां चैव याजुषीꣳसप्तसप्त च लोकंपृणा अथ मार्जालीय एकां च याजुषीं पञ्च च लोकंपृणा अथाग्नीषोमौ प्रणयत्यग्नीषोमौ प्रणीय यूपस्यावृता यूपमुच्छ्रयति
स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरोति
तस्य प्रसिद्धं वपया चरित्वा वपाश्रपणी अनुप्रहृत्य वसतीवरीर्गृह्णात्यथ पशुपुरोडाशं निर्वपति

तमनुवर्तन्तेऽष्टौ देवसुवाꣳहवीꣳष्यग्नये गृहपतय इत्येतानि
तानि नानावघ्नन्ति
नाना श्रपयन्ति
नानाधान्यानि भवन्ति
प्रैषवाग्पशुपुरोडाशोऽनुब्रूहि यजेतीतरेषाꣳहविषां स यत्र वारुणस्यावद्यन्नाह वरुणाय धर्मपतयेऽनुब्रूहीति तदुपभृति स्विष्टकृते सर्वेषाꣳसकृत्सकृदुत्तरार्धादवद्यति
द्विरभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याह वरुणं धर्मपतिं यजेति
वषट्कृते जुहोत्यथ वै भवत्यिष्टो वरुणो भवत्यनिष्टः स्विष्टकृदथास्य ब्रह्मा हस्तं गृह्णातीति
स यत्रेष्टो वरुणो भवत्यनिष्टः स्विष्टकृदथास्य ब्रह्मा हस्तं गृह्णाति ५५ 10.55

सविता त्वा प्रसवानाꣳसुवतामग्निर्गृहपतीनाꣳसोमो वनस्पतीनाꣳरुद्र ः! पशूनां बृहस्पतिर्वाचामिन्द्रो ज्येष्ठानां मित्रः सत्यानां वरुणो धर्मपतीनामित्येतदेव सर्वं भवति ये देवा देवसुव स्थ त इममामुष्यायणमनमित्राय सुवध्वं महते क्षत्राय महत आधिपत्याय महते जानराज्यायेत्यथैनं यजमानायतने तिष्ठन्तं प्राहैष वोऽमी राजेति येषाꣳश्रेष्ठी भवति
सोमोऽस्माकं ब्राह्मणानां राजेतीतरे प्रत्याहुरथ भूर्भुवः सुवरिति वाचं विसृजते
द्वाभ्यां मुखं विमृष्टे प्रति त्यन्नाम राज्यमधायि सर्वे व्राता वरुणस्याभूवन्निति

गायत्रान्विष्णुक्रमान्क्रमते विष्णोः क्रमोऽसि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसीत्यथ स्विष्टकृता चरति
न रौद्र स्येडामवद्यत्यपामेनमभ्यवहरन्ति गम्भिष्ठम्
इडान्ताः पुरोडाशाः संतिष्ठन्ते
पत्नीसंयाजान्तः पशुर्हृदयशूलान्त इत्येकेऽथ वसतीवरीः परिहृत्य पयाꣳसि विशिष्योपवसन्ति ५६ 10.56

अथातो महारात्र एव बुध्यन्ते
समानं कर्मा स्रुचाꣳसादनात्
सादयित्वा स्रुचोऽग्निं योगेन युनक्त्यग्निं युनज्मीमौ ते पक्षौ चिदसि समुद्र योनिरिति तिसृभिरथ राजानमुपावहृत्य प्रातरनुवाकमुपाकरोति
परिहिते प्रातरनुवाकेऽपोऽच्छैत्यद्भिरुदैति
यः क्रतुस्तमुपैति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्माश्विनाद्ग्रहादाश्विनं ग्रहं गृहीत्वैकादश रशना आदाय यूपमभ्यैति
स्वर्वन्तं यूपमुत्सृज्यैकादशिनान्पशूनुपाकरोत्याग्नेयं कृष्णग्रीवꣳसारस्वतीं मेषीं बभ्रुꣳसौम्यं पौष्णꣳश्यामꣳशितिपृष्ठं बार्हस्पत्यꣳशिल्पं वैश्वदेवमैन्द्र मरुणं मारुतं कल्माषमैन्द्रा ग्नꣳसꣳहितमधोरामꣳसावित्रं वारुणं पेत्वमिति
तेषां प्रसिद्धं वपाभिश्चरित्वा प्रसर्पन्ति प्रतःसवनाय

तदृजुधा संतिष्ठते
प्रसर्पन्ति माध्यंदिनाय सवनाय
स यत्र क्व च मध्यंदिनो भवति तदेतद्धिरण्यपात्रं मधोः पूरयित्वा सौर्या चित्रवत्यावेक्ष्याश्वमवघ्राप्य ब्रह्मणे ददाति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्मा दाक्षिणेभ्यो दाक्षिणानि हुत्वा त्रिभिर्मरुत्वतीयैश्चरति
सीदन्ति नाराशꣳसा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽधो माहेन्द्रा याथ पुरस्तादभिषेकस्य षट्पार्थानि जुहोत्यग्नये स्वाहा सोमाय स्वाहेत्यथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳरुक्माभ्यां पर्युपास्य सर्वौषधेन पुरस्तात्प्रत्यञ्चमभिषिञ्चति
शीर्षतोऽभिषिञ्चत्या मुखादन्ववस्रावयति ५७ 10.57

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳसरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामीन्द्र स्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामीति
समुन्मृष्टे समुत्क्रोशन्त्यभ्यषेच्ययमसावामुष्यायणोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ताग्निसवेन इत्यथ भूर्भुवः सुवरिति वाचं विसृजते

द्वाभ्यां मुखं विमृष्टे
गायत्रान्विष्णुक्रमान्क्रमतेऽथोपरिष्टादभिषेकस्य षट्पार्थानि जुहोति ५८ 10.58

इन्द्रा य स्वाहा घोषाय स्वाहेति
द्वादश भूतानामवेष्टीर्जुहोति पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्यृजुधा माध्यंदिनꣳसवनꣳसंतिष्ठते
प्रसर्पन्ति तृतीयसवनाय
प्रसिद्धमादित्यग्रहेण चरित्वाग्रयणं गृह्णाति
समानं कर्मा पवमानात्
पवमानेन चरित्वा स्वे धामन्पशुभिश्चरति
तेषां नाना मनोता नाना देवता नाना प्रत्यभिमर्शना नाना वसाहोमाः समानो वनस्पतिः समानः स्विष्टकृत्प्रैषवान्समानीडा समान्यो दिशो नाना दिश इत्येके
समानं कर्मा यज्ञायज्ञियस्य स्तोत्राद्यज्ञायज्ञियस्य स्तोत्र एकयाप्रस्तुतं भवत्यथाग्निमभिमृशति नमस्ते अस्तु मा मा हिꣳसीरुद्नो दत्तोदधिं भिन्त्तेति द्वाभ्यां समानं कर्मा पत्नीसंयाजेभ्यः
पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्याध्वरिकाणि समिष्टयजूꣳषि हुत्वा दशाग्निकान्युपजुहोति यदाकूतात्समसुस्रोदिति
समानं कर्मावभृथादथैतस्मिन्नवभृथे द्वितीयामवभृथाहुतिं जुहोति समुद्रा य वयुनाय सिन्धूनां पतये नम इति
प्रसिद्धोऽवभृथ उदयनीयेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति

तस्यै मैत्रावरुण्यामिक्षाध्यवदानीया भवति
सर्वसꣳस्थां पशोः कुर्वन्त्यथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाज्यस्य पूणाꣳर्! स्रुचमग्नेर्विमोकं जुहोतीमꣳस्तनमूर्जस्वन्तं धयापामित्यथैनमुपतिष्थते येऽग्नयः पुरीष्या इत्यथैनमाप्तिभिरुपतिष्ठत आपं त्वाग्ने मनसेति नवभिरनुच्छन्दसम्
अथोदवसानीयया यजतेऽथ देविकाहविर्भिर्यजतेऽथ त्रैधातवीयया यजतेऽथ सौत्रामण्या यजते
संवत्सरं न कंचन प्रत्यवरोहति
न शीर्षमाꣳसं खादति न वयसां माꣳसं नाग्निं चित्वा रामामुपेयान्नाग्निचिद्वर्षति धावेद्यदि धावेदुपावर्तेतान्नाद्यमेवाभ्युपवरत इति ब्राह्मणम् ५९ 10.59