बौधायनश्रौतसूत्रम्/प्रश्नः ०९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रवर्ग्यः (1-16), प्रवर्ग्यप्रायश्चित्तानि (16-18), अवान्तरदीक्षा ( 19-20)

प्रवर्ग्यं संभरिष्यन्नुपकल्पयते खादिरीमौदुम्बरीं वैणवीं वैकङ्कतीं वाभ्रिं व्याममात्रीं वारत्निमात्रीं वोभयतःक्ष्णूं मृदं च भावितां करणीयां कृष्णाजिनं वराहविहतं वल्मीकवपामूतीकस्तम्बं वादारस्तम्बं वा छागापयोऽर्मकपालानि शर्करा अवाञ्जनपिष्टा अजलोमानि कृष्णाजिनलोमानि सूनामधिकरणीं कर्तारं कुशलं वेणुकाण्डं मदन्तीरित्यथामावास्येन वा हविषेष्ट्वा नक्षत्रे वा पूवाꣳ र्! शान्तिमुपयन्ति नमो वाच इत्यथाग्रेण शालां धनुर्मात्रे वेद्यै गर्तं खानयति
तद्भावितां मृदमवलेपयति
समां बिलेन करोति
तदुपसादयति वराहविहतं वल्मीकवपामूतीकस्तम्बं वादारस्तम्बं वा स्थाले छागापय इत्यथोत्तरतः पार्श्वतः संभाराणां प्राचीनाग्राणि तृणानि सꣳ स्तीर्य तेषूपरि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणात्यथोत्तरꣳ शालाखण्डमग्रेण स्फ्येनोद्धत्यावोक्ष्य सिकता निवपति
तं परिमण्डलं खरं करोत्यथैनꣳ सिकताभिराभ्राशिनं करोति
तं कुशतरुणकैर्दूर्वाग्रन्थिभिरिति संप्रच्छाद्याथैनं परिश्रयन्ति
तस्योदीचीं द्वारं कुर्वन्ति
तदुपसादयत्यर्मकपालानि शर्करा अवाञ्जनपिष्टा अजलोमानि कृष्णाजिनलोमानि सूनामधिकरणीं कर्तारं कुशलं वेणुकाण्डमित्यथ गार्हपत्ये मदन्तीरपोऽधिश्रयत्यन्तर्वेद्यभ्रिं निदधाति
परिश्रयन्ति द्वाराणि
पत्नीशाले पत्नीं परिश्रयन्ति

परिस्तृणन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चात्र पूवाꣳ र्! शान्तिमुपयन्ति येषामनुपेता भवत्य्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये सावित्रं जुहोत्यन्वारब्धे यजमाने १ 9.1

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इद्मही देवस्य सवितुः परिष्टुतिः स्वाहेति
जुहोत्यदीक्षितस्य
जपति दीक्षितस्याथाभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरस्यध्वरकृद्देवेभ्य इत्यथैनामादायोपोत्तिष्ठत्युत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचेति
प्रैति प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसम्देवा यज्ञं नयन्तु न इत्यथ भावितां मृदमुपतिष्ठते देवी द्यावापृथिवी अनु मेऽमꣳ साथामित्यभ्रिया प्रहरत्यृध्यासमद्य मखस्य शिर इति
मखाय त्वेति हरति
मखस्य त्वा शीर्ष्ण इत्युत्तरतः कृष्णाजिने निवपत्युदूह्योपस्थानम्
एवमेव द्वितीयꣳ हरत्येवं तृतीयं तूष्णीं चतुर्थं पर्येतस्यै श्नष्ट्यथ वराहविहतमुपतिष्ठत इयत्यग्र आसीरित्यभ्रिया प्रहरत्यृध्यासमद्य मखस्य शिर इति
मखाय त्वेति हरति
मखस्य त्वा शीर्ष्ण इत्युत्तरतः कृष्णाजिने निवपत्युदूह्योपस्थानम्
एवमेव द्वितीयꣳ हरत्य्
एवं तृतीयं तूष्णीं चतुर्थम्पर्येतस्य शिनष्ट्यथ वल्मीकवपामुपतिष्ठते देवीर्वम्रीरस्य भूतस्य प्रथमजा ऋतावरीरित्यभ्रिया प्रहरत्यृध्यासमद्य मखस्य शिर इति
मखाय त्वेति हरति
मखस्य त्वा शीर्ष्ण इत्युत्तरतः कृष्णाजिने निवपत्युदूह्योपस्थानम्
एवमेव द्वितीयꣳ हरत्येवं तृतीयं तूष्णीं चतुर्थम्पर्येतस्यै शिनष्ट्यथोतीकस्तम्बं वादारस्तम्बं वोपतिष्ठत इन्द्र स्यौजोऽसीत्यभ्रिया प्रहरत्यृध्यासमद्य मखस्य शिर इति
मखाय त्वेति हरति
मखस्य त्वा शीर्ष्ण इत्युत्तरतः कृष्णाजिने निवपत्युदूह्योपस्थानम्
एवमेव द्वितीयꣳ हरत्येवं तृतीयं तूष्णीं चतुर्थं पर्येतस्य शिनष्ट्यथ छागापय उपतिष्ठतेऽग्निजा असि प्रजापते रेत इत्यभ्रिमवदधात्यृध्यासमद्य मखस्य शिर इति
मखाय त्वेति हरति
मखस्य त्वा शीर्ष्ण इत्युत्तरतः कृष्णाजिने मृदि प्रश्चोतयत्युदूह्योपस्थानम्
एवमेव द्वितीयं प्रश्चोतयत्येवं तृतीयं तूष्णीं चतुर्थं चतुर्थेन सह सर्वश एवैतच्छागापय स्थालेन मृदि परिषिञ्चत्यत्रैतानतिशेषानपोऽभ्यवहरन्त्यत्रैव वा प्रकिरन्ति
प्रायश्चित्ताय वा परिशाययन्ति २ 9.2

अथ प्रवर्ग्यमाददतेऽवनाम्य मुखान्यनभिप्रश्वसन्तो न प्रवर्ग्यं चादित्यं चान्तर्दधति
बहवो हरन्तीति विज्ञायतेऽथैनमानयन्त्यैतु ब्रह्मणस्पतिरा देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु न इत्य्
अथैनं खर उपावहरन्त्यायुर्धेहि प्राणं धेह्यपानं धेहि व्यानं धेहि चक्षुर्धेहि श्रोत्रं धेहि मनो धेहि वाचं धेह्यात्मानं धेहि प्रतिष्ठां धेहि मां धेहि मयि धेहीत्यथैनमर्मकपालैः शर्कराभिरवाञ्जनपिष्टाभिरजलोमैः कृष्णाजिनलोमैरिति सꣳ सृज्य मदन्तीभिरुपसृजति मधु त्वा मधुला करोत्विति
पिण्डं करोति मखस्य शिरोऽसीति
यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यामुपनिगृह्णात्यथ तृतीयं मृदोऽपच्छिद्य त्रीन्पिण्डान्करोति
तेषामेकं कर्त्रे प्रयच्छति गायत्रोऽसीति
तेनास्य बुध्नं करोति गायत्रेण त्वा छन्दसा करोमीत्यतिशिष्टायै मृदोऽर्धं प्रयच्छति त्रैष्टुभोऽसीति
तेनास्य मध्यं करोति त्रैष्टुभेन त्वा छन्दसा करोमीति
सर्वामन्ततो मृदं प्रयच्छति जागतोऽसीति
तेनास्य बिलं करोति जागतेन त्वा छन्दसा करोमीति
तं प्रादेशमात्रं पृथुबुध्नं मध्ये लग्नं करोत्यथास्य वेणुकाण्डेन द्विभागमवविध्यति
तदस्य पिन्वनं भवत्यथास्य त्र्यङ्गुले वा चतुरङ्गुले वा रास्नां पर्यस्यति मखस्य रास्नासीत्यथास्य बिलं गृह्णात्यदितिस्ते बिलं गृह्णातु पाङ्क्तेन छन्दसेत्यथैनमादित्येनाभितपति सूर्यस्य हरसा श्रायेत्यथैनं खरे निदधाति
निहितमनुमन्त्रयते मखोऽसीत्येवमेव द्वितीयं महावीरं करोत्येवं तृतीयं तूष्णीं पिन्वने रौहिणकपाले चाज्यस्थालीम्चाथ या मृदतिशिष्यते तया प्रवाते प्रतिलेपमुपवातयति
तेषूपवातेषूपकल्पयत एकविꣳ शतिं वृष्णो अश्वस्य शकृत्पिण्डानभ्रिमग्निं पचनमित्यथाश्वशकमादीप्य मुख्यं महावीरं धूपयति वृष्णो अश्वस्य निष्पदसि वरुणस्त्वा धृतव्रत आधूपयतु मित्रावरुणयोर्ध्रुवेण धर्मणेत्य्
अन्तरतश्च बाह्यतश्च सुधूपितं कृत्वा निदधात्येवमेव द्वितीयं महावीरं धूपयत्येवं तृतीयं तूष्णीं पिन्वने रौहिणकपाले चाज्यस्थालीं चाथोत्तरेण शालामुरुबिलमिवावटं खानयति
तं पचनेनावस्तीर्य तस्मिन्प्राचो वोदीचो वा महावीरानायातयति
पुरस्तात्पिन्वने
पश्चाद्रौ हिणकपाले चाज्यस्थालीं चाथैनान्पचनेनोपरिष्टात्संप्रच्छाद्य मृदावलिम्पति
चतुरङ्गुलमनुदिशमादीपनायातिशिनष्ट्यथोपोषति ३ 9.3

अर्चिषे त्वेति पुरस्ताद्शोचिषे त्वेति दक्षिणतो ज्योतिषे त्वेति पश्चात्
तपसे त्वेत्युत्तरतस्
तेऽह्ना वा रात्र्! या वा पच्यन्ते
यदि प्रातरुपोषति सायमुपैति
यदि सायं प्रातस्
तेषु पक्वेषूपकल्पयते गोपयश्छागापयो धृष्टिमश्मसंदावꣳ सतꣳ संदꣳ शं खारीꣳ शिक्यं कृष्णाजिनमित्येतत्समादायाभ्यैत्यभीमं महिना दिवम्मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम्॥ मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम्। द्युम्नं चित्रश्रवस्तममित्यथ धृष्टिमादत्ते सिद्ध्यै त्वेति
तया मुख्यान्महावीरादङ्गारानुद्वपति देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः । सुबाहुरुत शक्त्येत्यथैनमुच्छ्रयत्युत्तिष्ठ बृहन्भवोर्ध्वस्तिष्ठ ध्रुवस्त्वमित्यथैनमाशये प्रतिष्ठापयत्यपद्यमानः पृथिव्यामाशा दिश आपृणेत्य्
अथैनमन्वीक्षते सूर्यस्य त्वा चतुषान्वीक्ष ऋजवे त्वा साधवे त्वा सुक्षित्यै त्वा भूत्यै त्वेत्यथैनं प्रदक्षिणं पुरीषेण पर्यूहतीदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीति यथावर्णम्
अथैनꣳ संदꣳ शेन परिगृह्य सतेऽवधाय छागापयसाच्छृणत्ति गायत्रेण त्वा छन्दसाच्छृणद्मि त्रैष्टुभेन त्वा छन्दसाच्छृणद्मि जागतेन त्वा छन्दसाच्छृणद्मि छृणत्तु त्वा वाक्छृणत्तु त्वोर्क्छृणत्तु त्वा हविश्छृन्द्धि वाचं छृन्द्ध्यूर्जं छृन्द्धि हविर्देव पुरश्चर सघ्यासं त्वेत्यन्तरतश्च बाह्यतश्च स्वाच्छृणं कृत्वा गोपयसाभिविष्यन्दयत्येवमेव द्वितीयं महावीरमाच्छृणत्त्येवं तृतीयं तूष्णीं पिन्वने रौहिणकपाले चाज्यस्थालीं चाथ यदि विधुर्वा प्रदरो वा जायतेऽश्मचूर्णानि छागापयसि संप्रकीर्य तैः प्रत्युक्ष्योल्मुकेनाभितपति विधुं दद्रा णं यदृते चिदभिश्रिष इति द्वाभ्यां सꣳ हैव रोहति
यद्यु वै सर्वश एव भिद्यत एतान्येव कपालान्यवाञ्जनं पिष्ट्वा यैषा मृत्प्रायश्चित्ताय परिशेते तया सꣳ सृज्य कृत्वा पक्त्वाच्छृद्य निदधाति
तेषां यदा श्वसथ उपरमत्यथैनान्खायाꣳ र्! समवधाय कृष्णाजिनेनोपरिष्टात्संप्रच्छाद्योत्तरे शालाखण्डे शिक्य आसजति
यथा पत्नी न पश्यति तथा
त आ कालात्परिशेरेऽथोत्तराꣳ शान्तिमुपयन्ति शं नो वातः पवतां मातरिश्वेति ४ 9.4

श्वो राज्ञः क्रय इत्युपकल्पयत औदुम्बरीꣳ सम्राडासन्दीमौदुम्बरीꣳ स्थूणां गोदोहनीमौदुम्बरं छागायै शङ्कुमौदुम्बरꣳ शफोपयमनमौदुम्बरꣳ स्रुवमौदुम्बर्यौ स्रुचावनिष्कीर्णे रौहिणहवणी द्वे औदुम्बरी धृष्टी त्रीणि धवित्राणि कार्ष्णाजिनान्यौदुम्बरदण्डानि

वैणवदण्डानीत्येके
षडौदुम्बराञ्छकलान्वैकङ्कतीं च समिधं त्रयोदश वैकङ्कतान्परिधीन्वैकङ्कतीꣳ स्रुचं प्रचरणीं कार्ष्मर्यमयान्परिधीन्सुवर्णरजतौ च रुक्मौ द्वे घर्मदुघे धेनुं च छागां च द्वौ कुशमयौ वेदावेकं मौञ्जं वेदमपरिवासितं मौञ्जं रज्जुदाम मुञ्जप्रलवान्रौहिणपिष्टानि खरेभ्यः सिकता इत्यथ प्रायणीयेन चरति
प्रायणीयेन चरित्वा पदेन चरति
पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वपत्यातिथ्येन प्रचर्य पूवाꣳ र्! शान्तिमुपयन्ति नमो वाच इत्यथाग्रेण गार्हपत्यं तृणानि सꣳ स्तीर्य तदेतत्परिघम्यꣳ र्! सवꣳ र्! सꣳ सादयन्त्यत्र सम्राडासन्दीमत्र स्थूणां गोदोहनीमत्र छागायै शङ्कुमित्यथोत्तरेण गार्हपत्यꣳ स्फ्येनोद्धत्यावोक्ष्य सिकता निवपति
तं प्रादेशमात्रं परिमण्डलं प्रवृञ्जनीयं खरं करोत्यथैनꣳ सिकताभिराभ्राशिनं करोत्यथोत्तरेणाहवनीयꣳ स्फ्येनोद्धत्यावोक्ष्य सिकता निवपति
तं प्रादेशमात्रं परिमण्डलमुद्वासनीयं खरं करोत्यथैनꣳ सिकताभिराभ्राशिनं करोत्यथोत्तरे शलाखण्डे स्फ्येनोद्धत्यावोक्ष्य सिकता निवपति
तं चतुरश्रं निष्यन्दनवन्तमुच्छिष्टखरं करोत्यथिनꣳ सिकताभिराभ्राशिनं करोत्यथाध्वर्युः प्रचरणीयं महावीरꣳ शफाभ्यां परिगृह्य प्रवृञ्जनीये खरे सादयत्य्
अथैनं मौञ्जेन वेदेनापिदधात्यथैतामासन्दीमग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निदधाति
तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणात्यथैतावुपशयौ महावीरौ वेदाभ्यां परिगृह्याग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने प्राचीनबिलौ सादयत्यथैतामभ्रिमग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने सादयत्यथैतां मृदमतिशिष्टामग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने सादयत्यथैताꣳ स्थूणां गोदोहनीं छागायै शङ्कुमित्यादाय जघनेन दक्षिणेन गार्हपत्यं परिक्रम्य दक्षिणया द्वारोपनिर्हृत्य होतुः संदर्शे स्थूणां निहत्य्मौञ्जेन दाम्ना घर्मदुघो वत्सं बध्नन्ति
तमुत्तरेण छागायै शङ्कुं निहत्य छागां निग्रथ्नन्ति
प्रत्युब्जति छगलम्
अथैतेनैव यथेतमेत्य निष्क्रमयन्ति वृषलान्
ह्वयन्ति होतारं ह्वयन्ति ब्रह्माणं ह्वयन्ति प्रतिप्रस्थातारं ह्वयन्ति प्रस्तोतारं ह्वयन्त्याग्नीध्रम्परिश्रयन्ति द्वाराणि
पत्नीशाले पत्नीं परिश्रयन्ति
परिस्तृणन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चात्र पूवाꣳ र्! शान्तिमुपयन्ति येषामनुपेता भवति ५ 9.5

अथाध्वर्युः सपवित्राः प्रोक्षणीराददान आह ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामो होतर्घर्ममभिष्टुह्यग्नीद्रौ हिणौ पुरोडाशावधिश्रय प्रतिप्रस्थातः प्रवर्ग्यं विहर प्रस्तोतः सामानि गायेति
तद्ब्रह्मा प्रसौति यजुर्युक्तꣳ सामभिराक्तखं त्वा विश्वैर्देवैरनुमतं मरुद्भिः । दक्षिणाभिः प्रततं पारयिष्णुं स्तुभो वहन्तु सुमनस्यमानं स नो रुचं धेह्यहृणीयमानो भूर्भुवः सुवरोमिन्द्र वन्तः प्रचरतेत्यथाध्वर्युः प्रचरणीयं महावीरं प्रोक्षति यमाय त्वा मखाय त्वा सूर्यस्य हरसे त्वेत्यभिप्राप्नुवन्परान्परान्संभारान्प्रोक्षति
तमेव प्रतिप्रस्थाता प्रवर्ग्यं विहरत्यथाहवनीये कार्ष्मर्यमयान्परिधीन्परिदधाति
तदुपसादयति षडौदुम्बराञ्छकलान्वैकङ्कतीं च समिधं गार्हपत्ये त्रयोदश वैकङ्कतान्परिधीन्सुवर्णरजतौ च रुक्मौ मुञ्जप्रलवान्रौहिणपिष्टानीत्यथैष आग्नीध्रो जघनेन गार्हपत्यमुपविश्य धृष्टीभ्यां प्रतीचोऽङ्गारान्निरूह्य तेषु रौहिणकपाले उपदधात्यथ दारुणसंयुतानि पिष्टानि संयुत्य रौहिणौ पुरोडाशावधिश्रयत्यथाज्यं निर्वपत्यथाज्यमधिश्रयत्युभयं पर्यग्निकृत्वा रौहिणौ पुरोडाशौ श्रपयत्येतस्मिन्काले प्रतिप्रस्थाता मौञ्जेन वेदेन होमार्थानि पात्राणि संमृशति महावीरꣳ स्रुवं पिन्वने रौहिणहवनी उपयमनमित्यथ प्रतिप्रस्थाताज्यमुत्पूय रौहिणौ पुरोडाशावुपस्तीर्णाभिघारितावुद्वास्य रौहिणहवनीभ्यां परिगृह्यान्तर्वेद्यासादयति
दक्षिणं परिधिसन्धिमन्वेकम्
उत्तरं परिधिसन्धिमन्वितरम्प्राञ्चौ पूर्वाह्णिके
प्रत्यञ्चावापराह्णिकेऽथाध्वर्युः प्रचरणीयं महावीरꣳ शफाभ्यां परिगृह्य सव्ये पाणौ समावृत्याज्यस्थाल्याः सकृदुपहतेनाज्येन गार्हपत्येऽनवानꣳ संतताः सप्त प्राणाहुतीर्जुहोति प्राणाय स्वाहा व्यानाय स्वाहा अपानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा मनसे स्वाहा वाचे सरस्वत्यै स्वाहेति
चतस्र उत्तरा यथोपपादं दक्षाय स्वाहा क्रतवे स्वाहा जसे स्वाहा बलाय स्वाहेत्यथैनमाज्येनानक्ति देवस्त्वा सविता मध्वानक्त्वित्येतस्मिन्काले प्रतिप्रस्थाता राजतꣳ रुक्मं प्रवृञ्जनीये खर उपगूहति पृथिवीं तपसस्त्रायस्वेत्यथ मुञ्जप्रलवान्व्यतिषज्यादीपयत्यर्चिरसि शोचिरसि ज्योतिरसि तपोऽसीति
तान्प्रवृञ्जनीये खरे संप्रकीर्य तेषु प्रचर्णीयं महावीरꣳ सꣳ सादयति ६ 9.6

सꣳ सीदस्व महाꣳ असि शोचस्व देववीतमः । वि धूममग्ने अरुषम्मियेध्य सृज प्रशस्त दर्शतमित्यथैनमाज्येन पूरयत्यञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादीदित्यथास्य प्रादेशेन दिशो व्यास्थापयत्यनाधृष्या पुरस्तादग्नेराधिपत्य आयुर्मे दा इति पुरस्तात्
पुत्रवती दक्षिणत इन्द्र स्याधिपत्ये प्रजां मे दा इति दक्षिणतः
सुषदा पश्चाद्देवस्य सवितुराधिपत्ये प्राणं मे दा इति पश्चादाश्रुतिरुत्तरतो मित्रावरुणयोराधिपत्ये श्रोत्रं मे दा इत्युत्तरतो
विधृतिरुपरिष्टाद्बृहस्पतेराधिपत्ये ब्रह्म मे दाः क्षत्रं मे दास्तेजो मे धा वर्चो मे धा यशो मे धास्तपो मे धार्मनो मे धा इत्युपरिष्टादथेमामभिमृशति मनोरश्वासि भूरिपुत्रा विश्वाभ्यो मा नाष्ट्राभ्यः पाहि सूपसदा मे भूयार्मा मा हिꣳ सीरित्यथ धृष्टीभ्यामुदीचोऽङ्गारान्निरूहति तपो ष्वग्ने अन्तराꣳ अमित्रान्तपा शꣳ समररुषः परस्य । तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयास इति
तैरेनं प्रदक्षिणं परिचिनोति चित स्थ परिचितः स्वाहा मरुद्भिः परिश्रयस्वेत्यथैनं त्रयोदशभिर्वैकङ्कतैः परिधिभिः परिचिनुतोऽध्वर्युश्च प्रतिप्रस्थाता च
मा असीति प्राञ्चावध्वर्युः
प्रमा असीत्युदञ्चौ प्रतिप्रस्थाता
तावेवमेव व्यतिषङ्गं प्रतिमा असि संमा असि विमा अस्युन्मा असीत्यथैनं त्रयोदशं परिधिं दक्षिणत ऊर्ध्वाग्रं निमिनोत्यन्तरिक्षस्यान्तर्धिरसीत्यथैनꣳ सौवर्णेन रुक्मेनापिदधाति दिवं तपसस्त्रायस्वेत्यथैनमुपतिष्ठत आभिर्गीर्भिश्छुक्रं ते अन्यदर्हन्बिभर्षि सायकानि धन्वेति
प्रज्वलिते रुक्ममपकर्षति ७ 9.7

अथ धवित्राण्यादत्ते गायत्रमसीत्यन्यतरत्त्रैष्टुभमसीत्यन्यतरद्जागतमसीत्यन्यतरत्
तैर्तैरेनं पश्चात्प्राङ्जान्वाच्योर्ध्वं धूनोति मधु मध्वित्युत्तरतस्तिष्ठते प्रतिप्रस्थात्रे द्वे धवित्रे प्रयच्छति

तयोरन्यतरदाग्नीध्रायोत्प्रयच्छत्यथैनं त्रिः प्रदक्षिणं परियन्ति प्रणवेप्रणवे धून्वन्तस्
त्रिः परीत्योत्तरतस्तिष्ठन्त्यथ धवित्राण्यादत्तेऽपरेण परिक्रान्तायोत्तरतस्तिष्ठते प्रतिप्रस्थात्रे द्वे धवित्रे प्रयच्छति
तयोरन्यतरदाग्नीध्रायोत्प्रयच्छत्यथैनं पर्युपविशन्ति
पश्चात्प्राङ्मुखोऽध्वर्युरुपविशति
पुरस्तात्प्रत्यङ्मुखः प्रतिप्रस्थातोत्तरतो दक्षिणामुख आग्नीध्रस्
त एवमेव प्रणवेप्रणवे धून्वन्त आसत उपसमासमुल्मुकान्याप्याययन्तो महावीरम्
अथ यत्र होतुरभिजानाति याभिर्वर्तिकां ग्रसिताममुञ्चतमिति तदेनमुपोत्थाय रोचयतोऽध्वर्युश्च यजमानश्च दश प्राचीर्दश भासि दक्षिणेत्येतेतानुवाकेन
अथ यत्र होतुरभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति तद्धवित्राण्युपोद्यच्छन्तेऽथ यत्र होतुरभिजानात्यरूरुचदुषसः पृश्निरग्रिय इति तद्रुचितो घर्म इत्युक्त्वा यथेतं त्रिः पुनः प्रतिपरियन्ति निधाय धवित्राण्यवकाशैरवेक्षमाणा उपतिष्ठन्तेऽपश्यं गोपामिति प्रतिपद्याशीमहि त्वा मा मा हिꣳ सीरित्यातोऽथ गार्हपत्यमुपतिष्ठते त्वमग्ने गृहपतिर्विशामसि विश्वासां मानुषीणां शतं पूर्भिर्यविष्ठ पाह्यꣳ हसः समेद्धारꣳ शतꣳ हिमास्तन्द्रा विणꣳ हार्दिवानमिहैव रातयः सन्त्वित्यन्तर्हिते प्रतिप्रस्थाता वेदे पत्नीं वाचयति त्वष्ट्रीमती ते सपेयेत्यान्तादनुवाकस्यैतस्मिन्काले प्रतिप्रस्थाता दक्षिणꣳ रौहिणं जुहोत्यहर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषाꣳ स्वाहेति ८ 9.8

अथ रशनामादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽदित्यै रास्नासीति
दोहनं कꣳ सं पिन्वने इति प्रतिप्रस्थातापरेण परिक्रम्याथैतां घर्मदुघं त्रिरुपाꣳ शु देवनामभिराह्वयतीड एह्यदित एहि सरस्वत्येहीति
त्रिरुच्चैर्दक्षिणया द्वारोपनिष्क्रम्य यदस्यै नाम भवति तेनासावेह्यसावेहीत्यथैनाꣳ रशनयाभिदधात्यदित्या उष्णीषमसीति
वायुरस्यैड इति घर्मदुघो वत्समभिमृशत्यथैनमुपावसृजति पूषा त्वोपावसृजत्वश्विभ्यां प्रदापयेति
धयन्तमनुमन्त्रयते यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि । यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे करिति
प्रत्तायामुन्नयत्युस्र घर्मꣳ शिꣳषोस्र घर्मं पाहि घर्माय शिꣳ षेति
नियुज्य संधायोपसीदति बृहस्पतिस्त्वोपसीदत्विति
स्तनान्संमृशति दानव स्थ पेरवो विश्वग्वृतो लोहितेनेत्यथ यत्र होतुरभिजानात्या दशभिर्विवस्वत इति तदेनां पिन्वने पिन्वयत्यश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेन्द्रा य पिन्वस्वेन्द्रा य पिन्वस्वेत्यतिशिष्टं कꣳ से दोहयत्येतस्मिन्काले प्रतिप्रस्थाता पिन्वने छागां पिन्वयति तूष्णीम्

अथ यत्र होतुरभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति तत्प्रतिप्रस्थात्रे पयसी संप्रदायैतेनैव यथेतमेत्य शफोपयमानादत्ते गायत्रोऽसीत्यन्यतरत्त्रैष्टुभोऽसीत्यन्यतरद्जागतमसीत्युपयमनम्
अथ यत्र होतुरभिजानात्युपद्र व पयसा गोधुगोषमिति तत्पयसी आह्रियमाणे अभिमन्त्रयते सहोर्जो भागेनोप मेहीन्द्रा श्विना मधुनः सारघस्य घर्मं पात वसवो यजता वडित्यथ पुरस्तात्प्रत्यञ्चावुपविश्य महावीरे पयसी अवनयतोऽध्वर्युश्च प्रतिप्रस्थाता चाध्वर्युः पूर्वो गोपयोऽवनयति स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमि स्वाहेत्यथास्योष्माणमन्वीक्षते मधु हविरसि सूर्यस्य तपस्तपेत्येतस्मिन्काले प्रतिप्रस्थाता छागापयोऽवनयति तूष्णीम्
उभयꣳ समानीयाध्वर्युस्तृतीयमवनयत्यत्र यत्कꣳ से पयस्तदुपयमने समवनयति प्रत्यूह्याङ्गारान्
अथाध्वर्युः प्रचरणीयं महावीरꣳ शफाभ्यां परिग्राह्णाति ९ 9.9

द्यावापृथिवीभ्यां त्वा परिगृह्णामीति
वेदेनाधस्तादुपमृज्योपयमनेनोपयच्छत्यन्तरिक्षेण त्वोपयच्छामीत्यथैनमादायोपोत्तिष्ठति देवानां त्वा पितृणामनुमतो भतुꣳ र्! शकेयमिति

प्राङ्हरति तेजोऽसि तेजोऽनु प्रेह्यग्निर्मा पृथिव्याः पातु वायुरन्तरिक्षात्सूर्यो दिवो दिविस्पृङ्मा मा हिꣳ सीरन्तरिक्षस्पृङ्मा मा हिꣳ सीः पृथिविस्पृङ्मा मा हिꣳ सः सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीत्यथ वातनामानि व्याचष्टे समुद्रा य त्वा वाताय स्वाहेति पञ्चानवानम्
एवमेव द्वे उत्तरे
षडुत्तराणि यथोपपादमग्नये त्वा वसुमते स्वाहा सोमाय त्वा रुद्र वते स्वाहा वरुणाय त्वादित्यवते स्वाहा बृहस्पतये त्वा विश्वदेव्यावते स्वाहा सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहा यमाय त्वाङ्गिरस्वते पितृमते स्वाहेति
विश्वा आशा दक्षिणसदिति दक्षिणत आसीनं ब्रह्माणमीक्षते
विश्वान्देवानयाडिहेति पश्चादासीनꣳ होतारं सव्येनात्याक्रामञ्जपति स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना स्वाहाग्नये यज्ञियाय शं यजुर्भिरिति
यजमानमतिवाचयत्यश्विना घर्मं पातꣳ हार्दिवानमहर्दिवाभिरूतिभिरनु वां द्यावापृथिवी मꣳ सातामित्युच्चैराश्राव्याह घर्मस्य यजेति
वषट्कृते जुहोति स्वाहेन्द्रायेति
स्वाहेन्द्रा वडित्यनुवषट्कृते हुत्वा वाचयति घर्ममपातमश्विना हार्दिवानमहर्दिवाभिरूतिभिरनु वां द्यावापृथिवी अमꣳ सातां तं प्राव्यं यथावट्नमो दिवे नमः पृथिव्य्क्तैह्था॥४॥९॥४क्त्! दिवि धा इमं यज्ञं यज्ञमिमं दिवि धा दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छ पञ्च प्रदिशो गच्छ देवान्घर्मपान्गच्छ पितॄन्घर्मपान्गच्छेत्येतस्मिन्काले प्रतिप्रस्थाता पिन्वनेनोपयमनादुपहत्य प्रचरणीयं महावीरं पूरयत्यथैनमन्तःपरिध्यभिपीपयतोऽध्वर्युश्च प्रतिप्रस्थाता च सहैवेषे पीपिह्यूर्जे पीपिहि ब्रह्मणे पीपिहि क्षत्राय पीपिह्यद्भ्यः पीपिह्योषधीभ्यः पीपिहि वनस्पतिभ्यः पीपिहि द्यावापृथिवीभ्यां पीपिहि सुभूताय पीपिहि ब्रह्मवर्चसाय पीपिहि यजमानाय पीपिहि मह्यमित्युपाꣳ शूक्त्वा ज्यैष्ठ्याय पीपिहीत्युच्चैर्
अथैनमनुदिशमात्मानमभि पीपयति त्विष्यै त्वा द्युम्नाय त्वेन्द्रि याय त्वा भूत्यै त्वेत्यत्र यन्महावीरे पयस्तदुपयमने समवनयत्यथोदङ्ङत्याक्रम्याथैतदुपयमनमन्तर्वेदि प्राचीनबिलꣳ सादयत्येतस्मिन्काले प्रतिप्रस्थाता राजतꣳ रुक्ममुद्वासनीये खर उपगूहति
तस्मिन्प्रचरणीयं महावीरꣳ सादयति १० 9.10

 धर्मासि सुधर्मामेन्यस्मे ब्रह्माणि धारय क्षत्राणि धारय विशं धारय नेत्त्वा वात स्कन्दयादित्यथ यद्यभिचरेदमुष्य त्वा प्राणे सादयाम्यमुना सह निरर्थं गच्छ योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपस्पृश्य षडौदुम्बराञ्छकलान्याचति
तेषामेकैकेनोपयमनादुपहत्य पूर्वार्ध आहवनीयस्य प्रश्चोतयति पूष्णे शरसे स्वाहेत्यथैनमन्तराञ्जनं मध्यमे परिधौ सꣳ स्पृष्टꣳ सादयत्येवमेव द्वितीयेनोपयमनादुपहत्य पूर्वार्ध एवाहवनीयस्य प्रश्चोतयति ग्रावभ्यः स्वाहेति
तं तथान्तराञ्जनं मध्यमे परिधौ सꣳ स्पृष्टꣳ सादयत्य्
एवमेव तृतीयेनोपयमनादुपहत्य मध्यत आहवनीयस्य प्रश्चोतयति प्रतिरेभ्यः स्वाहेति
तं तथैवान्तराञ्जनं मध्यमे परिधौ सꣳ स्पृष्टꣳ सादयत्येवमेव चतुर्थेनोपयमनादुपहृत्यापरार्ध आहवनीयस्य प्रश्चोतयति द्यावापृथिवीभ्याꣳ स्वाहेत्यथैनमूर्ध्वाञ्जनं भस्मान्त उपगूहत्येवमेव पञ्चमेनोपयमनादुपहत्य दक्षिणार्ध आहवनीयस्य प्रश्चोतयति पितृभ्यो घर्मपेभ्यः स्वाहेत्यथैनं बहिराञ्जनं दक्षिणे परिधौ सꣳ स्पृष्टꣳ सादयत्यथैतꣳ षष्ठꣳ शकलꣳ सर्वेषु लेपेषु समज्योपयमनादन्तत उपहत्योत्तरार्ध आहवनीयस्य प्रश्चोतयति रुद्रा य रुद्र होत्रे स्वाहेत्यथैनमुत्तरेण शालाया अतीकाशेनानन्वीक्षमाणो निरस्यत्यमुना सह निरर्थं गच्छ योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपस्पृश्यातिशिष्टाञ्छकलानद्भिः सꣳ स्पर्श्याहवनीयेऽनुप्रहरत्येतस्मिन्काले प्रतिप्रस्थातोत्तरꣳ सौहिणं जुहोत्यहर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषाꣳ स्वाहेत्यत्रैताꣳ समिधं मध्यत आहवनीयस्याभ्यादधाति तूष्णीं तस्यामादीप्तायां प्रतिमुखं द्विर्जुहोति भूः स्वाहेत्यथैतदुपयमनमन्तर्वेदि प्राचीनबिलꣳ सादयित्वा तस्मिन्नग्निहोत्रविधिं चेष्टित्वा
स यावन्तः प्रवर्ग्यस्यर्त्विजस्तेषूपहवमिष्ट्वा यजमान एव प्रत्यक्षं भक्षयति हुतꣳ हविर्मधु हविरिन्द्र तमेऽग्नौ पिता नोऽसि मा मा हिꣳ सीरश्याम ते देव घर्म मधुमतो वाजवतः पितुमतोऽङ्गिरस्वतः स्वधाविनोऽशीमहि त्वा मा मा हिꣳ सीरित्य्
अथैतदुपयमनं परिकर्मी वाग्नीध्रो वोच्छिष्टखरे मार्जायित्वान्तर्वेदि प्राचीनबिलꣳ सादयित्वा तस्मिन्सुवर्णरजतौ च रुक्मौ प्रास्य मदन्तीरप आनीय हिरण्यवतीभिर्मार्जयन्ते ११ 9.11

हिरण्यवर्णाः शुचयः पावका इति चतसृभिरत्रैव मदन्तीरपो निनीयाज्यस्थाल्याः स्रुवेणोपघातं घर्मप्रायश्चित्तानि जुहोति प्राणाय स्वाहा पूष्णे स्वाहेत्येताभ्यामनुवाकाभ्याम्
अथैतदुपयमनमन्तर्वेदि प्राचीनबिलꣳ सादयित्वा तदेतत्परिघम्यꣳ र्! सवꣳ र्! समवशमयन्नाह घर्मायोत्साद्यमानायानुब्रूहीत्यथैतदुपयमनमग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने प्राचीनबिलꣳ सादयति स्वाहा त्वा सूर्यस्य रश्मिभ्य इत्यथोत्तराꣳ शान्तिमुपयन्ति शं नो वातः पवतां मातरिश्वेत्यथापराह्ण आपराह्णिकेन प्रवर्ग्येण प्रचरति
तस्य यद्विहितं विहितमेवास्य तत्
समानं कर्मा दक्षिणस्य रौहिणस्य होमादथ दक्षिणꣳ रौहिणं जुहोति रात्रिर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषाꣳ स्वाहेत्येवमेवोत्तरꣳ रौहिणं जुहोति
समानं कर्मा समिदाधानादत्रैताꣳ समिधं मध्यत आहवनीयस्याभ्यादधात्यपीपरो माह्नो रात्रियै मा पाह्येषा ते अग्ने समित्तया समिध्यस्वायुर्मे दा वर्चसा माञ्जीरिति सायमपीपरो मा रात्रिया अह्नो मा पाहीति प्रातः

प्रातर्मन्त्रेणात ऊर्ध्वं पूर्वाह्णिकेऽभ्यादधाति
सायंमन्त्रेणापराह्णिके
तस्यामादीप्तायां प्रतिमुखं द्विर्जुहोत्यग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः
समानं कर्मा संप्रैषात्
अथैतदुपयमनमग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने प्रतीचीनबिलꣳ सादयति स्वाहा त्वा नक्षत्रेभ्य इत्यथोत्तराꣳ शान्तिमुपयन्ति शं नो वातः पवतां मातरिश्वेति
स एवमेव प्रवर्ग्येण प्रचरति त्र्यहꣳ षडहं द्वादशाहꣳ संवत्सरं चतुरो वा मासाꣳ स्तापश्चितेऽग्नौ
प्रवर्ग्यं भक्षयित्वा संवत्सरं न माꣳ समश्नीयाद्न रामामुपेयाद्न मृन्मयेन पिबेद्नास्य राम उच्छिष्टं पिबेत्
तेज एव तत्सꣳ श्यतीति ब्राह्मणम् १२ 9.12

प्रवर्ग्यमुद्वासयिष्यन्नुपकल्पयते त्रीञ्छालाकानिध्माꣳ स्त्रीणि सतान्युदकुम्भौ दधि मधुमिश्रं ग्रुमुष्टिमवकाभारं विꣳ शतिमौदुम्बरीः समिधो मुञ्जप्रलवान्रौहिणपिष्टानि खरेभ्यः सिकता इत्य्
अत्र पूर्वाꣳ शान्तिमुपयन्ति नमो वाच इत्यथाग्रेणाहवनीयं तृणानि सꣳस्तीर्य तदेतत्परिघर्म्यꣳ सर्वꣳ सह सꣳ सादयन्त्यत्र सम्राडासन्दीमत्र स्थूणां गोदोहनीमत्र छागायै शङ्कुमित्यथैतौ खरौ नानैव सतयोः समुप्यात्रैव सह सꣳ सादयन्त्यथैतमुच्छिष्टखरं परिकर्मी वाग्नीध्रो वा सते समुप्य दक्षिणया द्वारोपनिर्हृत्य मार्जालीयदेशे निवपत्यथैतेनैव यथेतमेत्य निष्क्रमयन्ति वृषलान्
ह्वयन्ति पत्नीं ह्वयन्ति होतारं ह्वयन्ति ब्रह्माणं ह्वयन्ति प्रतिप्रस्थातारं ह्वयन्ति प्रस्तोतारं ह्वयन्त्याग्नीध्रम्परिश्रयन्ति द्वाराण्यथितां पत्नीमुदग्दशेन वाससान्तर्दधति
परिस्तृणन्ति दक्षिणत उपविशतो ब्रह्मा च यजमानश्चात्र पूवाꣳ र्! शान्तिमुपयन्ति येषामनुपेता भवत्यथ गार्हपत्य आज्यं विलाप्योत्पुनात्येतस्मिन्काले प्रतिप्रस्थाताहवनीये शालाकमिध्ममादीप्य मुखदघ्ने धारयन्पुरस्तात्प्रत्यङ्मुखस्तिष्ठति
तमध्वर्युः पश्चात्प्राङ्मुखस्तिष्ठन्स्रुवाहुत्याभिजुहोति घर्म या ते दिवि शुग्या गायत्रे छन्दसि या ब्राह्मणे या हविर्धाने तां त एतेनावयजे स्वाहेति
तमत्रैव प्रास्यापरमादीप्य नाभिदघ्ने धारयन्पुरस्तात्प्रत्यङ्मुखस्तिष्ठति
तमध्वर्युः पश्चात्प्राङ्मुखस्तिष्ठन्स्रुवाहुत्याभिजुहोति घर्म या तेऽन्तरिक्षे शुग्या त्रैष्टुभे छन्दसि या राजन्ये याग्नीध्रे तां त एतेनावयजे स्वाहेति

तमत्रैव प्रास्यापरमादीप्य जानुदघ्ने धारयन्पुरस्तात्प्रत्यङ्मुखस्तिष्ठति
तमध्वर्युः पश्चात्प्राङ्मुखस्तिष्ठन्स्रुवाहुत्याभिजुहोति घर्म या ते पृथिव्याꣳ शुग्या जागते छन्दसि या वैश्ये या सदसि तां त एतेनावयजे स्वाहेति
तमत्रैव प्रास्य विवृत्य द्वाराण्यथ प्रवर्ग्यमादाय पूर्वया द्वारोपनिष्क्रामन्त्यनु नोऽद्यानुमतिरन्विदनुमते त्वमिति द्वाभ्याम्
अथ महावेदिमवक्रम्य प्रस्तोतारमाह प्रस्तोतः साम गायेति
साम्ना प्रस्तोतान्ववैति
त्रिर्निधनमुपैति
पुरुषःपुरुषो निधनमुपैतीति ब्राह्मणम्
अथाभिक्रामन्ति १३ 9.13

दिवस्त्वा परस्पाया अन्तरिक्षस्य तनुवः पाहि पृथिव्यास्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इति
विषुवति द्वितीयं निधनमुपयन्त्यथाभिक्रामन्ति ब्रह्मणस्त्वा परस्पायाः क्षत्रस्य तनुवः पाहि विशस्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इत्युपरवकाले तृतीयं निधनमुपयन्त्यथाभिक्रामन्ति प्राणस्य त्वा परस्पायै चक्षुषस्तनुवः पाहि श्रोत्रस्य त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इत्यथोत्तरेणोत्तरवेदिमुपरमन्ति
स यो बलवाꣳस्तमाहानेनोदकुम्भेन संततया धारया त्रिः प्रदक्षिणं परिषिञ्चन्परीहीति
स तथा करोति
परिषिच्यमाने यजमानं वाचयति वल्गुरसि शंयुधायाः शिशुर्जनधायाश्छं च वक्षि परि च वक्षीति

निधाय कुम्भं यथेतं त्रिः पुनः प्रतिपर्येत्यथोत्तरनाभिमभिमृशति चतुःस्रक्तिर्नाभिरृतस्य सदो विश्वायुः शर्म सप्रथा अप द्वेषो अप ह्वरोऽन्यद्व्रतस्य सश्चिमेत्यथैतौ खरावुत्तरेणोत्तरनाभिमवकिरति
तं धृष्टीभ्यां प्राग्दीर्घं खरं करोति
तस्मिन्सुवर्णꣳ हिरण्यं निधाय कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणात्यथैनꣳ रौहिणपिष्टैरनुप्रकीर्य मुञ्जप्रलवैरनुविशाद्य सिकताभिरनुप्रकिरत्यथाध्वर्युः प्रचरणीयं महावीरꣳ शफाभ्यां परिगृह्य दध्ना मधुमिश्रेण पूरयति घर्मैतत्तेऽन्नमेतत्पुरीषं तेन वर्धस्व चा च प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहीत्यथैनमभिपूरयति महीनां पयोऽसि विहितं देवत्रा ज्योतिर्भा असि वनस्पतीनामोषधीनाꣳ रसो वाजिनं त्वा वाजिनोऽवनयाम इत्यथैनं पूर्वार्धे खरस्य सादयत्यूर्ध्वं मनः सुवर्गमिति १४ 9.14

अथैतावुपशयौ महावीरौ वेदाभ्यां परिगृह्य दध्ना मधुमिश्रेण पूरयित्वाग्रेण प्रचरणीयं महावीरꣳ सꣳ स्पृष्टौ सादयत्यथैतां प्रचरणीं दध्ना मधुमिश्रेण पूरयित्वोपरिष्टान्महावीरेषु प्रतीचीनबिलाꣳ सादयत्यथैतौ रुक्मौ दध्ना मधुमिश्रेण समज्याभितः प्रचरणीयं महावीरꣳ सꣳ स्पृष्टौ सादयत्यथैते पिन्वने दध्ना मधुमिश्रेण पूरयित्वाभितः प्रचरणीयं महावीरं प्रतीचीनबिले सꣳ स्पृष्टे सादयत्य्
अथैतं मौञ्जं वेदं विस्रस्य दध्ना मधुमिश्रेण समज्याग्रेण महावीरान्प्रतीचीनाग्रꣳ सꣳ स्पृष्टं विस्तृणात्यथैतौ शफौ दध्ना मधुमिश्रेण समज्य जघनेन प्रचरणीयं महावीरं तिरश्चीनाग्रौ व्यतिषक्तौ सꣳ स्पृष्टौ सादयत्यथैते रौहिणहवनी दध्ना मधुमिश्रेण समज्य शफाग्राभ्यां प्रतीचीनाग्रे सꣳ स्पृष्टे सादयत्यथैता दशौदुम्बरीः समिधो दध्ना मधुमिश्रेण समज्य जघनेन रौहिणहवनी प्रतीचीनाग्राः सꣳ स्पृष्टा विस्तृणात्यथैतं कुशमयं वेदं विस्रस्य दध्ना मधुमिश्रेण समज्य जघनेन प्रचरणीयं महावीरं प्रतीचीनाग्रꣳ सꣳ स्पृष्टं विस्तृणात्यथैते स्थूणे दध्ना मधुमिश्रेण समज्य जघनेन शफौ प्रतीचीनाग्रे सꣳ स्पृष्टे सादयत्यथैतदुपयमनं दध्ना मधुमिश्रेण पूरयित्वोपरिष्टात्स्थूणयोः प्रतीचीनबिलꣳ सादयत्यथैतद्र ज्जुद्र व्यं विस्रस्य दध्ना मधुमिश्रेण समज्यात्रैवोपयमने समवशमयत्यथैतान्कार्ष्मर्यमयान्परिधीन्धवित्रदण्डानिति विस्रस्य दध्ना मधुमिश्रेण समज्योपरिष्टादुपयमनं तिरश्चीनाग्रान्व्यतिषक्तान्सꣳ स्पृष्टान्विस्तृणात्यथैतामभ्रिं दध्ना मधुमिश्रेण समज्य जघनेन स्थूणे तिरश्चीनाग्राꣳ सꣳ स्पृष्टाꣳ सादयत्यथैते धृष्टी दध्ना मधुमिश्रेण समज्याभ्र्यग्राभ्यां प्रतीचीनाग्रे सꣳ स्पृष्टे सादयत्य्
अथैते धवित्रे दध्ना मधुमिश्रेण समज्य जघनेन धृष्टी सꣳ स्पृष्टे सादयत्यथैता दशौदुम्बरीः समिधो दध्ना मधुमिश्रेण समज्य जघनेन धवित्रे प्रतीचीनाग्राः सꣳ स्पृष्टा विस्तृणात्यथैतामाज्यस्थालीं दध्ना मधुमिश्रेण पूरयित्वा जघनेनाभ्रिꣳ सꣳ स्पृष्टाꣳ सादयत्यथैतद्धवित्रं दध्ना मधुमिश्रेण समज्य तेनाज्यस्थालीमपिदधात्यथैते रौहिणकपाले दध्ना मधुमिश्रेण समज्य जघनेनाज्यस्थालीꣳ सꣳ स्पृष्टे सादयत्यथैतꣳ स्रुवं दध्ना मधुमिश्रेण पूरयित्वा जघनेनाज्यस्थालीमन्तरेण रौहिणकपाले प्रतीचीनबिलꣳ सꣳ स्पृष्टꣳ सादयत्यथैतं कुशमयं वेदं विस्रस्य दध्ना मधुमिश्रेण समज्य जघनेनाज्यस्थालीं प्रतीचीनाग्रꣳ सꣳ स्पृष्टं विस्तृणात्यथैतामासन्दीं विस्रस्य दध्ना मधुमिश्रेण समज्यात्रैवोत्तरतः सꣳ स्पृष्टाꣳ सादयत्यथैतां मृदमतिशिष्टां दध्ना मधुमिश्रेण समज्यान्तरेण सक्थिनी निवपति १५ 9.15

घर्मैतत्तेऽन्नमेतत्पुरीषं तेन वर्धस्व चा च प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहीत्यथैनꣳ सिकताभिरनुप्रकीर्य मुञ्जप्रलवैरनुविशाद्य रौहिणपिष्टैरनुप्रकीर्य कृष्णाजिनेन प्राचीनग्रीवेणोत्तरलोम्ना प्रोर्णेत्यपि वाभितः प्रचरणीयं महावीरं परिचिनोत्यादित्यमण्डलवदथैनमुपतिष्ठतेऽयं यः पुरुषरूपोऽसि स न आस्ये न तिष्ठसि । नोर्ध्वो न तिर्यग्विधां तेऽनु विहितोऽस्मि विधां मेऽनु विहितोऽसि यस्त्वमसि सोऽहमस्मि योऽहमस्मि स त्वं नाकमारोह सह यजमानेन साकमित्य्
अथ ग्रुमुष्टिमादाय दध्ना मधुमिश्रेणावोक्षत्यस्कान्द्यौः पृथिवीमस्कानृषभो युवा गाः । स्कन्नेमा विश्वा भुवना स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजनि । आ स्कन्नाज्जायते वृषा । स्कन्नात्प्रजनिषीमहीत्यथ प्रस्तोतारमाह प्रस्तोतर्वार्षाहरꣳ साम गायेष्टाहोत्रीयं चेति
स यो बलवाꣳ स्तमाहानेनोदकुम्भेन संततया धारया त्रिः प्रदक्षिणं परिषिञ्चन्परीहीति
परिषिच्यमाने यजमानं गन्धर्वयजूꣳ षि वाचयति रन्तिर्नामासि दिव्यो गन्धर्व इति प्रतिपद्येन्द्रो दक्षं परिजानादहीनमित्यातो निधाय कुम्भं यथेतं त्रिः पुनः प्रतिपर्येत्यथैनमुपतिष्ठत एतत्त्वं देव घर्म देवो देवानुपागा इदमहं मनुष्यो मनुष्यान्सोमपीथानु मेहि सह प्रजया सह रायस्पोषेणेत्यथाञ्जलिनाप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति
तां दिशं निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपसृश्य ज्योतिष्मत्यादित्यमुपतिष्ठत उद्वयं तमसस्परीत्यथैनमवकाभारेण प्रतिच्छाद्य गोप्तारꣳ समादिशति वयोभ्यो महावीरं गोपाय
प्रस्तोतः श्यैतेनान्वेहीति प्रस्तोतारमाहाथैतेनैव यथेतमेत्य गार्हपत्ये द्वे स्रुवाहुती जुहोत्युदु त्यं चित्रमित्य्
अथाहवनीयमुपतिष्ठन्त इममू षु त्यमस्मभ्यꣳ सनिं गायत्रं नवीयाꣳ समग्ने देवेषु प्रवोच इत्यथाग्नीध्रदेशं द्रुत्वाग्नीध्रदेश उत्तराꣳ शान्तिमुपयन्ति शं नो वातः पवतां मातरिश्वेति १६ 9.16

अथातो घर्मप्रायश्चित्तानि व्याख्यास्यामोऽथ यदि प्रवर्ग्यमप्रवृत्तमादित्योऽभ्यस्तमियाद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्युपसदा प्रचर्य श्वो भूते प्रवर्ग्येण प्रचरेदथ यदि प्रवर्ग्यं प्रवृत्तमादित्योऽभ्यस्तमियाद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्यथापरस्यां द्वारि सूत्रेण हिरण्यं प्रग्रथ्य प्रचरेदथ यदि प्रवृत्तः प्रपतेद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्यथैनमुच्छ्रयत्यूर्ध्व ऊ षु ण ऊतय ऊर्ध्वो नः पाह्यꣳ हस इति द्वाभ्याम्
अथैनमाज्येन पूरयत्यञ्जन्ति यं प्रथयन्तो न विप्रा इत्यथ यदि विधुर्वा प्रदरो वा जायतेऽश्मचूर्णानि छागापयसि संप्रकीर्य तैः प्रत्युक्ष्योल्मुकेनाभितपति विधुं दद्रा णं यदृते चिदभिश्रिष इति द्वाभ्यां सꣳ हैव रोहति
यद्यु वै सर्वश एव भिद्यत एतान्येव कपालान्यवाञ्जनं पिष्ट्वा यैषा मृत्प्रायश्चित्ताय परिशेते तया सꣳ सृज्य कृत्वा पक्त्वाच्छृद्य निदधात्यथान्यं प्रचरणीयं महावीरं प्रवृणक्त्यथ यदि प्रमत्ता अतिपरियन्ति गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्य्
अथ पुनरूर्जा सह रय्येति पुनः प्रतिपरियन्त्यथ यद्युद्यतः प्रपतेद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्यथैनमभिमृशति मा नो घर्म व्यथितो विव्यथो नो मा नः क्रतुभिर्हीडितेभिरस्मानिति द्वाभ्याम्
अथ यदि घर्मदुघं वा महावीरं वा वयोऽभिप्रस्रावयेत्तावुष्णोदकेन प्रक्षालयेदुप नो मित्रावरुणाविहावतमित्यथ गार्हपत्ये नव स्रुवाहुतीर्जुहुयादिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्युद्वयं तमसस्पर्युदु त्यं चित्रम्वयः सुपर्णा इत्यथ यदि घर्मदुघं न विन्देतान्यां दोहयेदथ यद्यन्यां न विन्देताजां दोहयेदथ यद्यजां न विन्देतार्कक्षीरैः प्रचरेदथ यद्यर्कक्षीरं न विन्देत यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वाद्भिः सꣳ सृज्य तैः प्रचरेदप्यद्भिः प्रचरेद्न त्वेव न प्रचरेद्महीनां पयोऽसीत्युक्तं महावीरेऽवनयनम्
अस्कान्द्यौः पृथिवीमिति स्कन्नानुमन्त्रणम्
अथ यदि विद्युदापतेद्गार्हपत्ये स्रुवाहुतिं जुहुयाद्या पुरस्ताद्विद्युदापतदित्येतैर्यथारूपम्
प्राणाय स्वाहा पूष्णे स्वाहेत्युक्तानि घर्मप्रायश्चित्तानि
यत्किंचिद्घर्मकार्यविपर्यासे चैता आहुतीर्जुहुयाद्नमस्ते घर्म भूपतये स्वाहा नमस्ते घर्म भुवनपतये स्वाहा नमस्ते घर्म भूतानां पतये स्वाहा घर्माय स्वाहाश्विभ्याꣳ स्वाहेन्द्रा य स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहेत्य्
अथाषाढां त्र्! यालिखितामुत्तरलक्ष्माणमुपधायात्र घर्मेष्टकां कुलायिनीं चोपदधात्युदस्य शुष्माद्भानुरिति घर्मेष्टकां यास्ते अग्न आद्रा र्! योनयो या इति कुलायिनीं संचितमग्निꣳ सामभिरुपस्थायोक्थेनानुशस्तमुत्तरे श्रोण्यन्ते तिष्ठन्नग्निमभिमृशत्यग्निरसि वैश्वानरोऽसि इत्येतेनानुवाकेनात्राध्वर्यवेऽग्निदक्षिणां ददाति शतꣳ सहस्रमन्विष्टकं वा १७ 9.17

प्रवर्ग्यवति सोमे दधिघर्मं भक्षयन्ति भूर्भुवः सुवर्मयि त्यदिन्द्रि यं महदित्येतेनानुवाकेनाथ घोरास्तनूरनुदिशति
यास्ते अग्ने घोरास्तनुव तनुवस्स्निक्च स्नीहीतिश्च स्नीहितिश्चेति घोरास्तनुवो धुनिश्च ध्वान्तश्चेति राजसूयिको गण उग्रश्च धुनिश्चेत्याग्निचित्योऽथ यदि घर्मदुघं वा महावीरं वा स्तेनोऽपहरेद्गार्हपत्ये स्रुवाहुतिं जुहुयादहोरात्रे त्वोदीरयतामिति
खडिति वाचः क्रूराणीत्यथ यद्येकसृको वाश्येन तमनुमन्त्रयते वि गा इन्द्र विचरन्स्पाशयस्वेत्यथास्मा उभयतआदीप्तमुल्मुकं क्षिपेदग्ने अग्निना संवदस्व मृत्यो मृत्युना संवदस्वेत्यथैनमुपतिष्ठते सकृत्ते अग्ने नमो द्विस्ते नमस्त्रिस्ते नम इत्य्
अथ यदि गृध्रो वाश्येत तमनुमन्त्रयतेऽसृङ्मुखो रुधिरेणाव्यक्त इत्यथ यद्यार्ता वागुदियात्तामनुमन्त्रयते यदेतद्वृकसो भूत्वेत्यथ यदि भयेडकः काकपिञ्जको वाश्येत तमनुमन्त्रयते यदीषितो यदि वा स्वकामीत्यथ यदि सालावृकी वाश्येत तामनुमन्त्रयते दीर्घमुखि दुर्हण्वित्यथ यद्युलूकोलूकी वाश्येत तमनुमन्त्रयत इत्थादुलूक आपप्तदित्यथ यद्युन्मत्ता वागुदियात्तामनुमन्त्रयते यदेतद्भूतान्यन्वाविश्येत्यथ यदि घर्मदुघं वा महावीरं वा वयोऽभिप्रपतेत्तमनुमन्त्रयते प्रसार्य सक्थ्यौ पतसीत्यथ यदि घर्मदुघं वा महावीरं वा क्रिमय उपाधिगच्छेयुस्तानद्भिः प्रक्षालयेदत्रिणा त्वा क्रिमे हन्मीत्यथ यदि प्रवृत्तं प्रवर्ग्यं भ्रातृव्योऽभिप्रपद्येत गार्हपत्ये स्रुवाहुतिं जुहुयादाहरावद्येत्यथैनमनुव्याहरिष्यन्भवति
तमनुव्याहरेद्ब्रह्मणा त्वा शपामीत्यथ यं द्वेष्टि तस्य दक्षिणं द्वार्बाहुमनुप्रचालयेदुत्तुद शिमिजावरीति
स योऽन्य एतेभ्यो वाश्येत तस्मा उभयतआदीप्तमुल्मुकं क्षिपेदुत्तुद शिमिजावरीत्यथ यद्युद्धून्वन्निव वातो वायात्तमनुमन्त्रयते भूर्भुवः सुवो भूर्भुवः सुवो भूर्भुवः सुवो भुवोऽधायि भुवोऽधायि भुवोऽधायीत्य्
अथ यद्यवृतः शालां प्रपद्येताभिर्गीर्भिर्यदतो न ऊनमित्येतया प्रपद्येत
यद्यु वै प्रवृत एतयैव १८ 9.18

अथातोऽवान्तरदीक्षां व्याख्यास्याम उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे केशश्मश्रु वापयित्वा पूर्ववदुपाकृत्य ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयत्यग्रेणाग्निम्प्रवर्ग्याय कल्पयामि घर्माय कल्पयामि महावीराय कल्पयामि सम्राज्ञे कल्पयामीति
दक्षिणेनाग्निम्ब्रह्मणे कल्पयामि प्रजापतये कल्पयामीत्युत्तरेणाग्निमृषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यः कल्पयामि देवेभ्यो घर्मपेभ्यः कल्पयामीत्यथ दक्षिणतः प्राचीनावीती पितृभ्यो घर्मपेभ्यः कल्पयामि यमायाङ्गिरस्वते पितृमते कल्पयामीत्यथाप उपस्पृश्योत्तरतो यज्ञोपवीती रुद्रा य रुद्र होत्रे कल्पयामीत्यथाप उपस्पृश्य सर्वाभ्यः प्रवर्ग्यदेवताभ्यः कल्पयामीति

प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयत्यग्रेणाग्निम्प्रवर्ग्यं तर्पयामि घर्मं तर्पयामि महावीरं तर्पयामि सम्राजं तर्पयामीति
दक्षिणेनाग्निम्ब्रह्माणं तर्पयामि प्रजापतिं तर्पयामीत्युत्तरेणाग्निमृषीन्मन्त्रकृतो मन्त्रपतीꣳ स्तर्पयामि देवान्घर्मपाꣳ स्तर्पयामीत्यथ दक्षिणतः प्राचीनावीती पितॄन्घर्मपाꣳ स्तर्पयामि यममङ्गिरस्वन्तं पितृमन्तं तर्पयामीत्यथाप उपस्पृश्योत्तरतो यज्ञोपवीती रुद्र ꣳ! रुद्र होतारं तर्पयामीत्यथाप उपस्पृश्य सर्वाः प्रवर्ग्यदेवतास्तर्पयामीति
चतस्र औदुम्बरीः समिधोऽप्रतिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति पृथिवी समिदित्येतैः प्रतिमन्त्रम्
अथ देवता उपतिष्ठतेऽग्ने व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामित्यथैतेषामनुवाकानां प्रभृतीर्वाचयति प्रथमोत्तमयोर्वाथैनꣳ सꣳ शास्ति संमील्य वाचं यच्छेत्यथास्याहतेन वाससा त्रिः प्रदक्षिणꣳ संमुखꣳ शिरो वेष्टयति चित स्थ परिचितः स्वाहा मरुद्भिः परिश्रयस्वेति
प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वाथास्तमित आदित्ये ग्राममायन्ति
वाग्यतस्तिष्ठेदेताꣳ रात्रिमुपविशेत्संविशेद्वाथ प्रातरुदित आदित्ये ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य मदन्तीरधिश्रित्य प्रथमेननुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयित्वा वयः सुपर्णा इति वासो विमुच्याथास्य षट्तयमभिविदर्शयत्यग्निमप आदित्यं गां ब्राह्मणꣳ हिरण्यमिति
त्रीनादितोऽनुदर्शयित्वा यथोपपादमितराणि दर्शयित्वा प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वाथास्य व्रतचर्यामुपदिशेद्न यानमारोहेद्न वृक्षमधिरोहेद्न कूपमवरोहेद्न छत्त्रं धारयीत
नोपानहौ धारयीत
नासन्द्याꣳ शयीत
न स्त्रिया न शूद्रे ण संभाषेत
यदि संभाषेत ब्राह्मणेन संभाषेत
न सायं बुञ्जीत
यदि सयं भुञ्जीतावज्वलितं बुञ्जीत
न स्नायादष्टम्यां पर्वणि चोपवसेत्तदहश्च स्नायाद्वाग्यतस्तिष्ठेदेताꣳ रात्रिमुपविशेत्संविशेद्वामेध्यलोहितशवापपात्रदर्शने ज्योतिषां संदर्शनम्
अमेध्यं दृष्ट्वा जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाꣳ श्रेष्ठो दीक्षे मा मा हासीरित्यथ यद्येनमभिवर्षत्युन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेति जपति १९ 9.19

संवत्सरमेतद्व्रतं चरेत्
संवत्सरꣳ हि व्रतं नातीत्येतस्मिꣳ स्त्वेवैतत्संवत्सरेऽधीयीत
यद्यु वा एतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेदथ संवत्सरे पर्यवेतेऽध्यापयते श्रावयते वा
पूर्ववदुपाकृत्य ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयित्वाथाव्रत्यप्रायश्चित्ते जुहोति यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादिति द्वाभ्याम्प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वा
चतस्र औदुम्बरीः समिधोऽप्रतिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति द्यौः समिदित्येतैः प्रतिमन्त्रम्
अथ देवता उपतिष्ठत आदित्य व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मेऽराधि वायो व्रतपतेऽग्ने व्रतपते व्रतानां व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मेऽराधीति
मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वा
तस्यानध्यायानुपदिशेद्नाधीयीतास्तमित आदित्ये
नानुदिते

न विप्रुषिते
न पर्यावृत्ते
नाभ्रच्छायायां न ग्राम्यस्य पशोरन्ते
नारण्यस्य
नापामन्ते
न हरितयवान्प्रेक्षमाणो न हर्म्याणि
न शरीराणि
न लोहितमुत्पतितं दृष्ट्वा
न माꣳ समशित्वा
न श्राद्धं भुक्त्वा
न केशश्मश्रु वापयित्वा
न केशान्प्रसार्य
न दतो धावते
नाङ्क्ते
नाभ्यङ्क्ते
नार्द्रः
नाद्रेर्ण वाससा
नार्द्र इत्यथ स्वाध्यायमधीयीतापरेणाग्निं दर्भेष्वासीनो दर्भान्धारयमाणः पराचीनꣳ स्वाध्यायमधीयीत
यत्र क्वचाशान्तिकृतं पश्येत्पुनरेव शान्तिं कृत्वाधीयीताधीत्य चोत्तमेन प्रवर्ग्यायोपनिष्क्रम्य नाप्रविश्य ग्राममन्यदधीयीतान्यदधीयीत २० 9.20