बौधायनश्रौतसूत्रम्/प्रश्नः ०८

विकिस्रोतः तः

प्रसर्पन्ति माध्यंदिनाय सवनाय देवी द्वारवित्यत एवोर्ध्वेन
संप्रसृप्तान्विदित्वाध्वर्युः प्राङायन्नाहाभिषोतार एत ह्वयत ग्रावस्तुतमेहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य तासु तथैव निग्राभ्यासु यजमानं वाचयति तास्तथैव यजमानाय संप्रदाय ग्रावाणमादत्तेऽन्यमुपाꣳ शुसवनात्
तं तथैव प्राञ्चं प्रश्रित्य विस्रस्य राजानं ग्रावाणमभि मिमीत इन्द्रा य त्वेन्द्रा य त्वेति
पञ्चकृत्वो यजुषा पञ्चकृत्वस्तूष्णीं दशकृत्वो मिमानः सर्वश एव राजानं मिमीतेऽद्भिरभ्युक्ष्य ग्रावस्तुत उष्णीषं प्रयच्छत्यद्भिरेवाभ्युक्ष्याध्वर्योरावसथं वासो हरन्ति
तथा मितꣳ राजानꣳ होतृचमसीयाभिरुपसृजति
तथा संप्रयौति
तथा तिरश्चर्मन्फलके अभिमृशति
तथा वृद्धीर्वाचयति
नात्राꣳ शून्सचते
घोषवन्त एवाभिषुण्वन्तीहा३ इहा३ इहेति
तदेव सद्विनयन्तीहा३ इह इहा३ इह इहा३ इहेत्यथ संभरणीये निष्क्रीडयन्तीहा३ इहा३ इहेत्यथैनꣳ सुसंभृतꣳ संभरण्याꣳ संभृत्योन्नेत्र उत्प्रयच्छति

तमुन्नेताध्वनीयेऽवनयत्येवमेव द्वितीयः पर्यायः संतिष्ठत एवं तृतीयस्
तृतीयस्य तृतीये बृहदुपयन्ति बृहद्बृहद्बृहदित्यृजीषमन्ततो दशापवित्रेण परिवेष्ट्योन्नेत्र उत्प्रयच्छति
तदुन्नेताधवनीये विक्षाल्य प्रपीड्य दक्षिणस्य हविर्धानस्यान्तरेणेषे उपावहृत्य चर्मणि निदधाति
तस्मिꣳस्तथैव संमुखान्ग्राव्णः कृत्वा चतुर्धैतदृजीषं ग्रावमुखेभ्यो व्यपोहति
तथोद्गाता वा प्रस्तोता वा दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसृप्य प्राञ्चं ग्रावसु द्रो णकलशमध्यूहति
तस्मिꣳस्तथैवोदीचीनदशं दशापवित्रं वितत्य प्रसिद्धꣳ शुक्रामन्थिनौ ग्रहौ गृह्णात्यथर्तुपात्राभ्यां द्वौ मरुत्वतीयौ ग्रहौ गृह्णाति १ 8.1

मरुत्वन्तं वृषभं वावृधानमिन्द्र मरुत्व इह पाहि सोममिति द्वाभ्याम्
अथोपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति
तं तथैव त्रिरभिहिङ्कृत्य परिमृज्य सादयति
तथोक्थ्यं गृह्णात्युक्थ्येन राजानं परिदधाति
तथोपर्यर्धे द्रोणकलशे परिप्लु पात्रं प्रास्य द्रप्साननुमन्त्रयते द्र प्सश्चस्कन्द यस्ते द्रप्सो यो द्रप्सो यस्ते द्रप्स इति
तथोन्नेतारमाहारिक्तं पूतभृतं कुरु पवमानस्य ग्रहान्ग्रहीष्यामीति
तथारिक्ते पूतभृति पवमानस्य ग्रहान्गृह्णात्युपयामगृहीतोऽसीन्द्राय त्वेति द्रो णकलशमभिमृशतीन्द्रा य त्वेत्याधवनीयम्
इन्द्रा य त्वेति पूतभृतं तथोन्नेतरित्याह प्राञ्चꣳ राजानं पूतभृतमभि संपवयताद्दशाभिराधवनीयं मृष्ट्वा न्युब्जतादिति

स तथा करोति
तथाप उपस्पृश्य बर्हिषी आदायोपनिःसर्पति
तेषु तथैव समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति
विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः । आयुष्मन्तः प्रैयमेषां वदन्तो वयं देवानाꣳ सुमतौ स्याम स्वाहेत्येतयाध्वर्यू जुहुतो यथावेदमितरे जुह्वत्यथ प्रदक्षिणमावृत्य सदोऽभि पवमानꣳ सर्पन्ति
तथा सदसि यथायतनमुपविशन्ति
तथोद्गात्रे वा प्रस्तोत्रे वा बर्हिषी प्रयच्छत्यृक्सामयोरुपस्तरणमसि मिथुनस्य प्रजात्या इति वा तूष्णीं वा
तथोपाकरणं जपति वायुर्हिङ्कर्तेति
स एष पञ्चदशो माध्यंदिनः पवमानो भवति
तस्याष्टम्यां प्रस्तुतायां वाचयति सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति मा संपारयेत्यत्र चतुर्होतारं व्याचष्ट उद्द्रुते साम्नि संप्रैषमाहाग्नीअग्नीन्विहर बर्हि स्तृणाहि पुरोडाशाꣳ अलंकुरु प्रतिप्रस्थातर्दधिघर्माय दध्याहरेति
यथासंप्रैषं तौ कुरुतस्
तथाप उपस्पृश्याहैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य तथा समस्तꣳ राजानमुपतिष्ठते
तथावकाशैश्चरति
तथा प्रचरण्यां नवकृत्वो गृह्णीते
तथैष आग्नीध्र आग्नीध्रीयाद्धिष्णियादनुपूर्वं धिष्णियेष्वङ्गारान्विहरति
तथा पुरस्तात्प्रत्यङ्ङासीनो विहृतान्धिष्णियान्व्याघारयति
तथोत्तरस्य हविर्धानस्य चुबुके प्रचरणीꣳ सादयति

तथा सांकाशिनेन पथा पृष्ठ्याꣳस्तृणाति संततां गार्हपत्यादाहवनीयात् २ 8.2

अथान्तरेण हविर्धाने उपविश्य दधिघर्माय दधि याचति
तदाहृतमवेक्षते ज्योतिरसि वैश्वानरं पृश्नियै दुग्धमिति
बर्हिषी अन्तर्धाय कꣳसे वा चमसे वा गृह्णाति यावती द्यावापृथिवी महित्वा यावच्च सप्त सिन्धवो वितस्थुः । तावन्तमिन्द्र ते ग्रहꣳ सहोर्जा गृह्णाम्यस्तृतमित्यपोद्धृत्य बर्हिषी अथैनꣳ श्रीणाति वाक्च त्वा मनश्च श्रीणीतां प्राणश्च त्वापानश्च श्रीणीतां चक्षुश्च त्वा श्रोत्रं च श्रीणीतां दक्षश्च त्वा बलं च श्रीणीतामोजश्च त्वा सहश्च श्रीणीतामायुश्च त्वा जरा च श्रीणीतामात्मा च त्वा तनूश्च श्रीणीताꣳ शृतोऽसि शृतंकृतः शृताय त्वा शृतेभ्यस्त्वा शृतं कृण्वित्यथाह होतर्वदस्व यत्ते वाद्यमित्यथैनमादायोपोत्तिष्ठन्नाह श्रातꣳ हविरित्यत्याक्रम्याश्राव्याह दधिघर्मस्य यजेति
वषट्कृते जुहोति यमिन्द्र माहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमस्तपोजास्तस्मै त्वा तेभ्यस्त्वा स्वाहेत्यनुवषट्कृते हुत्वा हरति भक्षं स यावन्तः प्रवर्ग्यस्यर्त्विजस्तेषूपहवमिष्ट्वा यजमान एव प्रत्यक्षं भक्षयति मयि त्यदिन्द्रि यं महन्मयि दक्षो मयि क्रतुः । मयि धायि सुवीर्यं त्रिशुग्घर्मो विभातु मे ॥ आकूत्या मनसा सह विराजा ज्योतिषा सह । यज्ञेन पयसा सह ब्रह्मणा तेजसा सह । क्षत्रेण यशसा सह सत्येन तपसा सह । तस्य दोहमशीमहि तस्य सुम्नमशीमहि । तस्य भक्षमशीमहि तस्य त इन्द्रे ण पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति

निर्णिज्य पात्रं प्रयच्छति
तथा सवनीयान्पुरोडाशान्याचति
तेषां तथैव समवद्यन्नाह माध्यंदिनस्य सवनस्येन्द्राय पुरोडाशानामवदीयमानानामनुब्रूहीति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
प्रत्यनक्ति
तथोपभृति स्विष्टकृते सर्वेषाꣳ सकृत्सकृदुत्तरार्धादवद्यति
द्विरभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याह माध्यंदिनस्य सवनस्येन्द्रा य पुरोडाशान्प्रस्थितान्प्रेष्येति
वषट्कृते जुहोति
तथा समावपमान आहाग्नयेऽनुब्रूहीत्याश्राव्याहाग्नये प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोति
तथोदङ्ङत्याक्रम्य यथायतनꣳ स्रुचौ सादयित्वा तथैव पात्र्! यामिडाꣳ समवधाय प्रतीचः पुरोडाशान्प्रहिणोत्यनु हैके संयन्ति पशव इडेति वदन्तोऽथ प्राङायन्नाहोन्नीयमानेभ्योऽनुब्रूहि ३ 8.3

होतुश्चमसमनून्नयध्वमुभयतःशुक्रान्कुरुध्वमच्छावाकस्य चमसाध्वर्योऽपि त्वमुन्नयस्व प्रतिप्रस्थातश्चतुर्भिर्मा शकलैः प्रोक्षिताप्रोक्षितैः प्रत्युपलम्बस्वेति
यथासंप्रैषं ते कुर्वन्ति
समानं कर्माश्रावणादाश्रावण एव व्येत्यथाध्वर्युः पुरस्तात्प्रत्यङ्तिष्ठन्नाश्रावयत्यो श्रावयास्तु श्रौषड्माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति
वषट्कृते सहोभौ जुहुतः स प्रथमः संकृतिर्विश्वकर्मेति

वषट्कृतानुवषट्कृते द्विर्जुहुतस्
तथैव द्विर्द्विः सवाꣳर्! श्चमसाञ्जुह्वति
तथा संप्रैषमाह प्रैतु होतुश्चमसः प्र ब्रह्मण इति
तथा प्रदक्षिणमावृत्य होतृचमसे ग्रहस्य सꣳस्रावमवनयति हुतं त्वा हुतेऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति वा तूष्णीं वा
तथा प्रतिप्रस्थातोत्तरार्ध आहवनीयस्य मन्थिनः सꣳस्रावं जुहोति
तथाप उपस्पृश्य शुक्रपात्रं च मन्थिपात्रं च खरे यथायतनꣳ सादयति
यन्त्येते महर्त्विजां चमसास्
तथैते होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्द्रोणकलशादभ्युन्नीयोपावर्तन्ते
तेषां तथैव मैत्रावरुणचमसमादायाश्राव्याह प्रशास्तर्यजेति
ब्रह्मन्यज पोतर्यज नेष्टर्यजाच्छावाक यजाग्नीद्यजेति
षड्ढोत्राः संयाज्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्याग्रेण होतारमुपविशत्ययाडग्नीदिति
स भद्र मकरित्याह होता यो नः सोमꣳ राजानं पाययिष्यतीति
तथाप उपस्पृश्य होत्र इडामुपोद्यच्छन्त उपहूयमानायामिडायामुपप्रगृह्णन्ति चमसान्
उपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्त इडोपहूताꣳश्चमसान्भक्षयन्ति भक्षेहि माविशेति दीर्घभक्षमनुद्रुत्य रुद्र वद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्र पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्त
आप्याययन्ति चमसानाप्यायस्व समेतु त इति
सीदन्ति नाराशꣳ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽधस्तृतीयाय मरुत्वतीयायैतस्मिन्काल आग्नीध्रे यजमानः पुरोडाशानां प्राश्नाति
यदशना स्यात्पत्नी पत्नीशाले ४ 8.4

अथ दाक्षिणानि होष्यन्याचत्याज्यस्थालीꣳ सस्रुवाꣳ स्रुचं वासस्
तस्यैतस्य वसनस्यान्तमायां दशायां हिरण्यशल्कः प्रग्रथितो भवत्येतत्समादायाहैहि यजमानेत्युत्तरेणाग्नीध्रीयं परीत्योत्तरेण सदः परीत्य पूर्वया द्वारा शालां प्रपाद्य समन्वारब्धेष्वपिव्रतेषु संप्रच्छन्नेषु गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा वसनस्यान्तꣳ स्रुग्दण्ड उपसंगृह्य सौरीभ्यामृग्भ्यां गार्हपत्ये जुहोत्युदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूयꣳर्! स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा गार्हपत्य एव जुहोति चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च स्वाहेत्यथाग्नीध्रं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा वसनस्यैवान्तꣳ स्रुग्दण्ड उपसंगृह्य नयवत्यर्चाग्नीध्रे जुहोत्यग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम स्वाहेत्यथ दिवं गच्छ सुवः पतेति हिरण्यꣳ हुत्वोद्गृह्णाति
सृज्यन्ते दक्षिणा दक्षिणापथेनान्तरेण सदश्च गार्हपत्यं चान्तरेण सदश्चाग्नीध्रं चान्तरेण चात्वालोत्करव्
एवमुदीच्यः प्रतिपद्यन्ते
ताः प्रदक्षिणं कृत्वाभ्यैति रूपेण वो रूपमभ्यैमि वयसा वय इत्यथैना विभजति तुथो वो विश्ववेदा विभजतु वर्षिष्ठे अधि नाक इत्यथ सदोऽभ्यैत्येतत्ते अग्ने राध ऐति सोमच्युतं तन्मित्रस्य पथा नयर्तस्य पथा प्रेत चन्द्र दक्षिणा यज्ञस्य पथा सुविता नयन्तीरिति ५ 8.5

अथैष आत्रेयोऽग्रेण सद आस्ते
तमभ्यैति ब्राह्मणमद्य राध्यासमृषिमार्षेयं पितृमन्तं पैतृमत्यꣳ सुधातुदक्षिणमित्यथैनमुत्क्रम्य पृच्छति क आत्रेय इत्ययमहमितीतरः प्रत्याह
तं तथैव द्वितीयमुत्क्रम्य पृच्छति क आत्रेय इत्ययमहमित्येवेतरः प्रत्याह
तं तथैव तृतीयमुत्क्रम्य पृच्छति क आत्रेय इत्ययमहमित्येवेतरः प्रत्याह
तस्य पाणौ हिरण्यमादधाति चन्द्र मꣳ हेति यदु चान्यदुपकल्पतेऽथाग्नीध्रं द्रुत्वा हिरण्यमुखमग्नीधे ददात्यथ सद आगत्य ब्रह्मणे ददाति होत्र उद्गात्रेऽथ हविर्धानं द्रुत्वाध्वर्यवे ददाति य उ चैनमन्येऽभितो भवन्त्यथ सद आगत्य प्रस्तोत्रे ददाति प्रशास्त्रे ब्रह्मणाच्छꣳ सिनेऽच्छावाकस्य सदस्यस्याग्नीधः पोतुर्नेष्टुर्ग्रावस्तुत उन्नेतुः सुब्रह्मण्यस्य प्रतिहर्तुरन्ततो यथासमुदितं प्रसर्पकेभ्योऽथाहैहि यजमानेत्याग्नीध्रं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वाग्नीध्रे पञ्च वैश्वकर्मणानि जुहोति यज्ञपतिमृषय एनसाहुरित्य्
अथातिक्रामातीमोक्षैश्चरत्यग्निना देवेन ये देवा यज्ञहन इत्येताभ्यामनुवाकाभ्याम्
अथ यजमानं प्राञ्चमीक्षयति वि सुवः पश्य व्यन्तरिक्षमित्यथैनꣳ सदस्युपवेशयति यतस्व सदस्यैरित्यथ दक्षिणाः समनुदिशत्यस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारमाविशतानवहायास्मान्देवयानेन पथेत सुकृतां लोके सीदत तन्नः सꣳस्कृतमिति ६ 8.6

अथ प्राङायन्नाहेन्द्रा य मरुत्वतेऽनुब्रूहीति
तच्छ्रुत्वा प्रतिप्रस्थाता ग्रहावादायोपनिष्क्रामत्युपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहावादत्त उत्तरतस्तिष्ठते प्रतिप्रस्थात्रेऽन्यतरं प्रयच्छत्यथाश्रावयत्यो श्रावयास्तु श्रौषडिन्द्रा य मरुत्वते प्रेष्येति
वषट्कृते सहोभौ जुहुतोऽथ प्रतिप्रस्थाताध्वर्योः पात्रे ग्रहस्य सꣳस्रावमवनयति
तमाह प्रतिप्रस्थातरेतेन पात्रेण तृतीयं मरुत्वतीयं ग्रहं गृहाणेति
तेन प्रतिप्रस्थाता तृतीयं मरुत्वतीयं ग्रहं गृह्णाति द्रो णकलशात्परिप्लुना पात्रेण मरुत्विआꣳ! न्द्र वृषभो रणायेत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वा मरुत्वते जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा मरुत्वत इत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य होत्रैतत्पात्रꣳ संभक्षयतीन्द्रे ण मरुत्वता पीतस्येत्यथ निगृह्य पात्रं पराङावर्तत इडा देवहूरिति
यावदेतस्य यजुषः पर्याप्नोति तावज्जपत्यभ्येनमाह्वयते होता

प्रत्याह्वयतेऽध्वर्युः
शꣳ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं तृतीयं मरुत्वतीयं ग्रहम्
अनूद्यच्छन्ते नाराशꣳ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विर्नाराशꣳ साननुप्रकम्पयन्त्येतत्पात्रं नाराशꣳसा अन्वायन्त्यनुसवनभक्ष इन्द्रे ण मरुत्वता पीतस्येति
होता चैवाध्वर्युश्चैतत्पात्रꣳ संभक्षयतो नराशꣳ सपीतेन नाराशꣳसान्नराशꣳ सपीतस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्त आप्याययन्ति चमसानाप्यायस्व समेतु त इति
सीदन्ति नाराशꣳ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽधो माहेन्द्रा य ७ 8.7

अथ प्राङेत्य शुक्रपात्रमाददान आहोन्नेतर्यदेमं माहेन्द्रं ग्रहं गृह्णाम्यथोदञ्चꣳ राजानं पूतभृतमभि संपवयताद्दशाभिद्रो र्ण!कलशं मृष्ट्वा न्युब्जतादिति
स तथा करोति
स शुक्रपात्रेण माहेन्द्रं द्रो णकलशाद्गृह्णाति महाꣳ इन्द्रो य ओजसेत्यनुद्रुत्योपयामगृहीतोऽसि महेन्द्रा य त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्महेन्द्रा य त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते माहेन्द्रा य

प्रस्तुते साम्नि संप्रैषमाहाभिषोतारोऽभिषुणुताग्नीदाशिरं विनयोलूखलमुद्वादय प्रतिप्रस्थातर्वारुणमेककपालं निर्वप सौम्यस्य विद्धीति
यथासंप्रैषं ते कुर्वन्ति
होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शꣳ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं माहेन्द्रं ग्रहम्
अनूद्यच्छन्ते नाराशꣳ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विर्नाराशꣳ साननुप्रकम्पयन्त्येतत्पात्रं नाराशꣳ सा अन्वायन्त्यनुसवनभक्षो महेन्द्रे ण पीतस्येति
होता चैवाध्वर्युश्चैतत्पात्रꣳ संभक्षयतो नराशꣳ सपीतेन नाराशꣳ सान्नरशꣳ सपीतस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथेन्द्रा य त्वेन्द्रा य त्वेत्येवं त्रिभिरुक्थ्यपर्यायैश्चरति
तं तथैवोत्तमेऽतिशिष्ट आहाच्छावाकस्य चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिचः प्रतिप्रस्थातरुपैतेन ग्रहेण रमैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्याथोदुब्ज्याधवनीयꣳ सर्वश एव वसतीवरीः पर्यस्यति
सर्वश एवैकधनान्
पुरोऽक्षमेव वसतीवरीकलशं मृष्ट्वा न्युब्जति

पश्चादक्षमेकधनान्
अच्छावाकचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
सर्वश एव राजानꣳ समुन्नीयोत्तरवेद्याꣳ सꣳसादयन्त्यथादत्त उक्थ्यस्थाल्या औपशयं पात्रं तस्मिन्नेतꣳ सर्वश एव राजानं गृह्णाति य उक्थ्यस्थाल्यां भवति
स उ वा ऐन्द्र एव भवत्यथोक्थं वाचीत्याह माध्यंदिनꣳ सवनं प्रतिगीर्य प्रशास्तः प्रसुहीति
सर्पतेत्याह प्रशास्ता
संतिष्ठते माध्यंदिनꣳ सवनम् ८ 8.8

प्रसर्पन्ति तृतीयसवनाय देवी द्वारवित्यत एवोर्ध्वेन
प्रस्थातराशिरमानय शृतातङ्क्यमादित्यग्रहाय दध्याहरैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य य एष उपाꣳ शुपात्रेऽꣳ! शुः प्रास्तो भवति तं माध्यंदिनीय ऋजीषेऽपिसृज्य यमेव कं च ग्रावाणमादायोन्नेतारमाहाहरोपसृजेत्युपसृजत्युन्नेताधवनीयादुदचनेनापरिमितमभिषुत्याथैनꣳ सुसंभृतꣳ संभरण्याꣳ संभृत्योन्नेत्र उत्प्रयच्छति
तमुन्नेताधवनीयेऽवनयत्येवमेव द्वितीयः पर्यायः संतिष्ठत एवं तृतीय ऋजीषमन्ततो दशापवित्रेण परिवेष्ट्योन्नेत्र उत्प्रयच्छति
तदुन्नेताधवनीये विक्षाल्य प्रपीड्य दक्षिणस्य हविर्धानस्यान्तरेणेषे उपातिहृत्य नीड उत्सादयति
परिश्रयन्ति पूर्वां द्वारमपरां चाथादत्त आदित्यस्थाल्या औपशयं पात्रं
तस्मिन्नेतस्य राज्ञस्तृतीयवेलां गृह्णाति य आदित्यस्थाल्यां भवति कदा चन स्तरीरसीत्यनुद्रुत्योपयामगृहीतोऽस्यादित्येभ्यस्त्वा जुष्टं गृह्णामीति
बर्हिषी अन्तर्धाय शृतातङ्क्येन श्रीणाति कदा चन प्रयुच्छसीत्यनुद्रुत्योपयामगृहीतोऽस्यादित्येभ्यस्त्वा जुष्टं गृह्णामीत्यपोद्धृत्य बर्हिषी अर्धवेलाꣳ राज्ञो गृह्णाति यज्ञो देवानां प्रत्येति सुम्नमित्यनुद्रुत्योपयामगृहीतोऽस्यादित्येभ्यस्त्वा जुष्टं गृह्णामीत्यथैनꣳ स्थविमत उपाꣳ शुसवनेन श्रीणाति विवस्व आदित्यैष ते सोमपीथस्तेन मन्दस्व तेन तृप्य तृप्यास्म ते वयं तर्पयितारो या दिव्या वृष्टिस्तया त्वा श्रीणामीत्यथैनमुद्गृह्णात्यत्र विज्ञानमुपैति यदि ताजक्प्रस्कन्देद्वर्षुकः पर्जन्यो भवति
यदि चिरमवर्षुको न सादयतीति ब्राह्मणम्
अथैनमुपाꣳ शुसवनं दशापवित्रेण परिवेष्ट्य तेनाधस्तात्पात्रमुद्धन्त्यूर्मिकारमविषिञ्चन् ९ 8.9

आ समुद्रा दान्तरिक्षात्प्रजापतिरुदधिं च्यावयातीन्द्र ः! प्रस्नौतु मरुतो वर्षयन्तून्नम्भय पृथिवीं भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो विसृजा दृतिमित्यथैनमुपाꣳ शुसवनं दशापवित्रेण परिमृज्य ग्रावस्वपिसृजति
विवृण्वन्ति पूर्वां द्वारमपरां चाथैतं ग्रहं बर्हिर्हस्तेनापिधायोपोत्तिष्ठन्नाहादित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूहीत्य्
अत्याक्रम्याश्राव्याहादित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्येति
वषट्कृत ओषधीः प्रास्याग्नावादित्यं जुहोति सकृदेव
न हुत्वान्वीक्षते
पर्यावृत्तस्यैव प्रतिप्रस्थाता पात्रमादत्त एतस्मिन्काले प्रतिहर्ता पूतभृतो बिले पवित्रं वितत्य द्वौ वा त्रीन्वा राज्ञ उदचनानानयत्याग्रयणमेवाध्वर्युरादत्त आदित्यस्थालीं प्रतिप्रस्थाता सोपशयाꣳ संप्रगृह्णाति
तासां तिसृणां चतसृणां वा धाराणां तथोपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति
तं तथैव त्रिरभिहिङ्कृत्य परिमृज्य सादयत्यपोद्धृत्य पवित्रं बर्हिषी अन्तर्धायाशिरमवनयत्यन्वारब्धायां पत्न्यामस्मे देवासो वपुषे चिकित्सतेति चतसृभिरनुच्छन्दसम्
अपोद्धृत्य बर्हिषीपूतभृतो बिले द्र प्साननुमन्त्रयते
द्वौ पवमानस्य ग्रहौ गृह्णाति
तथोन्नेतरित्याह प्राञ्चꣳ राजानं पूतभृतमभि संपवयताद्दशाभिराधवनीयं मृष्ट्वा न्युब्जतादिति
स तथा करोति
तथाप उपस्पृश्य बर्हिषी आदायोपनिःसर्पति
तेषु तथैव समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति १० 8.10

इदं तृतीयꣳ सवनं कवीनामृतेन ये चमसमैरयन्त । ते सौधन्वनाः सुवरानशानाः स्विष्टिं नो अभि वसीयो नयन्तु स्वाहेत्येतयाध्वर्यू जुहुतो यथावेदमितरे जुह्वति
तथा प्रदक्षिणमावृत्य सदोऽभिपवमानꣳ सर्पन्ति

तथा सदसि यथायतनमुपविशन्ति
तथोद्गात्रे वा प्रस्तोत्रे वा बर्हिषी प्रयच्छत्यृक्सामयोरुपस्तरणमसि मिथुनस्य प्रजात्या इति वा तूष्णीं वा
तथोपाकरणं जपति वायुर्हिङ्कर्तेति
स एष सप्तदश आर्भवः पवमानो भवति
तस्य नवम्यां प्रस्तुतायां वाचयति सघासि जगतीच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेत्यत्र पञ्चहोतारं व्याचष्ट उद्द्रुते साम्नि संप्रैषमाहाग्नीच्छालाकान्विहर बर्हि स्तृणाहि पुरोडाशाꣳ अलंकुरु प्रतिप्रस्थातः पशौ संवदस्वेति
यथासंप्रैषं तौ कुरुतस्
तथाप उपस्पृश्याहैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य तथा समस्तꣳ राजानमुपतिष्ठते
नात्रावकाशैश्चरति
तथा प्रचरण्यां नवकृत्वो गृह्णीते
तथैष आग्नीध्र आग्नीध्रीयाद्धिष्णियादनुपूर्वं धिष्णियेषु शालाकान्विहरति
तथा पुरस्तात्प्रत्यङ्ङासीनो विहृतञ्छालाकान्व्याघारयति
तथोत्तरस्य हविर्धानस्य चुबुके प्रचरणीꣳ सादयति
तथा सांकाशिनेन पथा पृष्ठ्याꣳस्तृणाति संततां गार्हपत्यादाहवनीयात् ११ 8.11

अथ पशुना चरति मनोताप्रभृतिनेडान्तेन
तथा सवनीयान्पुरोडाशान्याचति
तेषां तथैव समवद्यन्नाह तृतीयस्य सवनस्येन्द्रा य पुरोडाशानामवदीयमानानामनुब्रूहीति

पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
प्रत्यनक्ति
तथोपभृति स्विष्टकृते सर्वेषाꣳ सकृत्सकृदुत्तरार्धादवद्यति
द्विरभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याह तृतीयस्य सवनस्येन्द्रा य पुरोडाशान्प्रस्थितान्प्रेष्येति
वषट्कृते जुहोति
तथा समावपमान आहाग्नयेऽनुब्रूहीत्याश्राव्याहाग्नये प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथोदङ्ङत्याक्रम्य यथायतनꣳ स्रुचौ सादयित्वा तथैव पात्र्! यामिडाꣳ समवधाय प्रतीचः पुरोडाशान्प्रहिणोत्यनु हैके संयन्ति पशव इडेति वदन्तोऽथ प्राङायन्नाहोन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वं तीव्राआꣳ! शीर्वतः कुरुध्वमुन्नेतः सोमं प्रभावयेति
होतृचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याꣳ सꣳसादयन्त्यथ प्राङेत्य होतृचमसमादायाश्राव्याह तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतो वाजवतः सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्राआꣳ! शीर्वत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति
वषट्कृते जुहोति श्येनाय पत्वने स्वाहेत्यनुवषट्कृते तृम्पन्ताꣳ होत्रा मधोर्घृतस्य स्वाहेति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाꣳर्! श्चमसाञ्जुह्वति
तथा संप्रैषमाह प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य प्र सदस्यस्य होत्रकाणां चमसाध्वर्यवः सकृत्सकृदाशीर्वतोऽभ्युन्नीयोपावर्तध्वमिति
यन्त्येते महर्त्विजां चमसास्
तथैते होत्रकाणां चमसाध्वर्यवः सकृत्सकृदाशीर्वतोऽभ्युन्नीयोपावर्तन्ते

तेषां तथैव मैत्रावरुणचमसमादायाश्राव्याह प्रशास्तर्यजेति
वषट्कृते जुहोति विष्टम्भाय धर्मणे स्वाहेति
परिधये जनप्रथनायेति ब्राह्मणाच्छꣳ सिन ऊर्जे होत्राणामिति पोतुः
पयसे होत्राणामिति नेष्टुः
प्रजापतये मनव इत्यच्छावाकस्यर्तमृतपाः सुवर्वाडित्यग्नीधश्चमसं चमसमेवानुवषट्करोति तृम्पन्ताꣳ होत्रा मधोर्घृतस्य स्वाहेति
सप्त होत्राः संयाज्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्याग्रेण होतारमुपविशत्ययाडग्नीदिति
स भद्र मकरित्याह होता यो नः सोमꣳ राजानं पाययिष्यतीति
तथाप उपस्पृश्य होत्र इडामुपोद्यच्छन्त उपहूयमानायामिडायामुपप्रगृह्णन्ति चमसान्
उपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्त इडोपहूताꣳश्चमसान्भक्षयन्ति भक्षेहि माविशेति दीर्घभक्षमनुद्रुत्यादित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्र पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्त आप्याययन्ति चमसानाप्यायस्व समेतु त इति
सीदन्ति नाराशꣳ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽध उपासनवन्तो वैश्वदेवाय

चमसायचमसायैव त्रीꣳस्त्रीन्पुरोडाशशकलानुपास्यति
नव होतृचमसे
तानत एवानुमन्त्रयतेऽत्र पितरो यथाभागं मन्दध्वमित्येतस्मिन्काल आग्नीध्रे यजमानः पुरोडाशानां प्राश्नाति
यदशना स्यात्पत्नी पत्नीशाले १२ 8.12

अथ प्राङायन्नाह देवाय सवित्रेऽनुब्रूहि प्रतिप्रस्थातरन्तर्यामपात्रेण सावित्रमाग्रयणाद्ग्रहं गृहीत्वोपास्व मा सीषद इति
तच्छ्रुत्वा प्रतिप्रस्थातान्तर्यामपात्रेण सावित्रमाग्रयणाद्ग्रहं गृह्णाति वाममद्य सवितरित्यनुद्रुत्योपयामगृहीतोऽसि देवाय त्वा सवित्रे जुष्टं गृह्णामीति
न सादयतीति ब्राह्मणम्
असादयित्वैवोपनिष्क्रम्याश्राव्याह देवाय सवित्रे प्रेष्येति
वषट्कृते जुहोत्यथ वै भवति
सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति सोमे सोममभिगृह्णातीति
स सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति सोमे सोममभिगृह्णात्युपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षे नमो विश्वेभ्यस्त्वा देवेभ्यो जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्र् तुय होत्रा समीक्ष्य पराङावर्तत इडा देवहूरिति
यावदेतस्य यजुषः पर्याप्नोति तावज्जपत्यभ्येनमाह्वयते होता

प्रत्याह्वयतेऽध्वर्युः
शꣳ सति
प्रतिगृणात्यथ यत्र होतुरभिजानात्येकया च दशभिश्च स्वभूत इति तत्प्रतिप्रस्थाता द्विदेवत्यपात्राणि मार्जालीये मार्जायित्वा पात्रेष्वपिसृजत्यथ यत्र होतुरभिजानाति प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति तदन्यतोमदं प्रतिगृणात्योथा मोद इव मदा मोद इवेत्या व्याहावादथ यत्र होतुरभिजानाति तद्रा धो अद्य सवितुर्वरेण्यमिति तदुभयतोमदमेव प्रतिगृणाति मदा मोद इव मदा मोद इवेत्या व्याहावात्
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं वैश्वदेवं ग्रहम्
अनूद्यच्छन्ते नाराशꣳ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विर्नाराशꣳ साननुप्रकम्पयन्त्येतत्पात्रं नाराशꣳ सा अन्वायन्त्यनुसवनभक्षो विश्वैर्देवैः पीतस्येति
होता चैवाध्वर्युश्चैतत्पात्रꣳ संभक्षयतो नराशꣳ सपीतेन नाराशꣳ सान्नराशꣳ सपीतस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगतीच्छन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति

होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्ते १३ 8.13

अथ होतारं विपृच्छति परियक्ष्यसि सौम्या३ं! न परियक्ष्यसी३ इति
स यथैनꣳ होता प्रत्याह तच्छ्रुत्वासन्नꣳ सौम्यमागच्छत्यथ स्रुचि चतुर्गृहीतं गृहीत्वात्याक्रम्याश्राव्याह घृतस्य यजेति
वषट्कृते जुहोत्यथोपस्तीर्य द्विश्चरोरवद्यति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याह सौम्यस्य यजेति
वषट्कृते दक्षिणार्धपूर्वार्धे प्राचीनावीती सौम्यं जुहोत्यथैनं वैष्णव्यर्चा स्रुवाहुत्याभिजुहोति विष्णो त्वं नो अन्तम इति
यद्यु वै होताग्नावैष्णव्यर्चा परियजति संपन्नमिति नाद्रि येत
तस्मिन्नाज्यमानीयावेक्षते
पवित्रं वै सौम्य आत्मानमेव पवयन्ते
य आत्मानं न परिपश्येदितासुः स्यादभिददिं कृत्वावेक्षेतेति
तस्मिन्भूय आज्यमानीयावेक्षते यन्मे मनः परागतं यद्वा मे अपरागतम्। राज्ञा सोमेन तद्वयमस्मासु धारयामसीति
मन एवात्मन्दधार न गतमना भवतीति ब्राह्मणम्

अथैनमुद्गातृभ्यो हरन्ति
तस्मिꣳस्तच्चेष्टन्ति यत्ते विदुरथ प्राङायन्नाह प्रतिप्रस्थातरुपाꣳ शुपात्रेण पात्नीवतमाग्रयणाद्ग्रहं गृहीत्वोपास्व मा सीषद इति
तच्छ्रुत्वा प्रतिप्रस्थातोपाꣳ शुपात्रेण पात्नीवतमाग्रयणाद्ग्रहं गृह्णात्युपयामगृहीतोऽसि बृहस्पतिसुतस्य त इन्दो इन्द्रि यावतः पत्नीवन्तं ग्रहं गृह्णाम्यग्नाइ!३ पत्नीवा३ इति
बर्हिषी अन्तर्धाय घृतेन श्रीणात्यहं परस्तादहमवस्तादहं ज्योतिषा वि तमो ववार । यदन्तरिक्षं तदु मे पिताभूदहꣳ सूर्यमुभयतो ददर्शाहं भूयासमुत्तमः समानानामित्यपोद्धृत्य बर्हिषी न सादयतीति ब्राह्मणम्
असादयित्वोपनिष्क्रम्याश्राव्याहाग्नीत्पात्नीवतस्य यजेति
वषट्कृते जुहोति सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहेत्युपाꣳ श्वनुवषट्कृते हुत्वा हरति भक्षं स यद्यस्मिन्नाग्नीध्र उपहवमिच्छत उपैवैनꣳ ह्वयते
नो त्वेव संभक्षयतोऽथाहाग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा संख्याप्याप उपप्रवर्तयतादूरुणोपप्रवर्तयताद्नग्नं कृत्वोरुमुपप्रवर्तयताधोतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिचः प्रतिप्रस्थातर्होतृचमसे ध्रुवायावकाशं कुरुतादेहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य यजमानं ध्रुवमुपस्थापयति भूतमसि भूते मा धा मुखमसि मुखं भूयासमिति
होतृचमसमेव प्रथममुन्नयन्ति

यथोपपादमितरान्
सर्वश एव राजानꣳ समुन्नीयोत्तरवेद्याꣳ सꣳसादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते यज्ञायज्ञियेनात्र सप्तहोतारं व्याचष्टे
प्रस्तुते साम्नि नेष्टा पत्नीमुद्गात्रा संख्याप्य वाचयति विश्वस्य ते विश्वावतो वृष्णियावतस्तवाग्ने वामीरनु संदृशि विश्वा रेताꣳ सि धिषीयागन्देवान्यज्ञो नि देवीर्देवेभ्यो यज्ञमशिषन्नस्मिन्त्सुन्वति यजमान आशिषः स्वाहाकृताः समुद्रे ष्ठा गन्धर्वमातिष्ठतानु वातस्य पत्मन्निड ईडिता इति
स यदेवैनामुद्गातोपमीवति तदेषा पत्न्यूरुणा पन्नेजनीरुपप्रवर्तयति
नग्नं कृत्वोरुमुपप्रवर्तयति १४ 8.14

होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शꣳ सति
प्रतिगृणात्यथ यत्र होतुरभिजानाति स्वादुष्किलायं मधुमाꣳ उतायमिति तदुभयतोमोदं प्रतिगृणाति मोदा मोद इव मदा मोद इवेत्या व्याहावादथ यत्र होतुरभिजानाति तन्तुं तन्वन्रजसो भानुमन्विहीति तत्प्रतिप्रस्थाता ध्रुवम्परिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीत्यथैनं प्रच्यावयति विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्त्वित्य्
अथैनमाहरति दिवि देवान्दृꣳ हान्तरिक्षे वयाꣳ सि पृथिव्यां पार्थिवानित्यथैनꣳ होतृचम्सेऽवनयति ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वमिज्जगदयक्ष्मꣳ सौमना असत्॥ यथा न इन्द्र इद्विशः केवलीः सर्वाः समनसः करत्। यथा नः सर्वा इद्दिशोऽस्माकं केवलीरसन्निति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतꣳ होतृचमसम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाꣳर्! श्चमसाञ्जुह्वत्यथ भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्षोऽग्निना वैश्वानरेण मरुद्भिः पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथैताꣳश्चमसानद्भिः पूरयित्वोत्तरेणाहवनीयं प्राचो वोदीचो वायातयति
तेषु त्रीꣳस्त्रीꣳश्च दूर्वाग्रन्थीन्प्रास्यत्येकैकं च दर्भपुञ्जीलम्
अथोक्थं वाचीन्द्रा येत्याह तृतीयसवनं प्रतिगीर्य प्रशास्तः प्रसुहीति
सर्पतेत्याह प्रशास्ता
संतिष्ठते तृतीयसवनम् १५ 8.15

अथ संप्रैषमाहाग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्याहरन्त्येतानाग्नीध्रादौपयजानङ्गारांस्तानग्रेण होतारं निवपत्युपसीदत्युपयष्टा गुदतृतीयेनाथाध्वर्युः पृषदाज्यं विहत्य जुह्वाꣳ समानीयात्याक्रम्याश्राव्याह देवेभ्यः प्रेष्येति

वषट्कृते जुहोति प्रेष्य प्रेष्येत्येकादशानूयाजानिष्ट्वोदङ्ङत्याक्रम्य यथायतनꣳ स्रुचौ सादयित्वा वाजवतीभ्याꣳ स्रुचौ व्यूहति
शंयुना प्रस्तरपरिधि संप्रकीर्य संप्रस्राव्य स्रुचौ विमुच्योन्नेतारमाहोन्नेतर्ग्रहस्ते प्रचरेति
तच्छ्रुत्वोन्नेता द्रो णकलश आग्रयणतृतीयं ग्रहं गृह्णात्युपयामगृहीतोऽसि हरिरसि हारियोजनो हर्यो स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामीति
बर्हिषी अन्तर्धाय धानाभिः श्रीणाति हरी स्थ हर्योर्धाना इत्यपोद्धृत्य बर्हिषी अथैनमादायोपोत्तिष्ठन्नाहेन्द्रा य हरिवते धानासोमानामनुब्रूहीति
शीर्षन्नधिनिधाय विक्रम्याश्राव्याहेन्द्रा य हरिवते धानासोमान्प्रस्थ्तान्प्रेष्येति
वषट्कृते जुहोति सहसोमा इन्द्रा य स्वाहेत्यनुवषट्कृते हुत्वा हरति भक्षं स यावन्त ऋत्विजस्तेभ्य उन्नेता धाना व्यावपति
त उन्नेतर्युपहवमिष्ट्वैकैकामन्वस्यन्ते
मनसा संबाधते १६ 8.16

इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य हरिवत इन्द्र पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्यथैना निर्णिज्योत्तरवेद्याꣳ संनिवपन्त्यापूर्या स्था मा पूरयत प्रजया च धनेन चेति
निवपन्नेव यजमानस्तिस्रो धानाः सचतेऽथ याचति स्फ्यमुदपात्रं बर्हिरित्येतत्समादायाहैहि यजमानेति

जघनेन दक्षिणेन हविर्धाने परीत्य दक्षिणेन मार्जालीयं धिष्णियꣳ स्फ्येनोद्धत्यावोक्ष्य दक्षिणाग्रं बर्हि स्तीर्त्वाद्भिर्मार्जयति मार्जयन्तां पितरो मार्जयन्तां पितामहार्मार्जयन्तां प्रपितामहा इत्यथ तिस्रो धाना ददात्येतत्ते ततासौ ये च त्वामन्वेतत्ते पितामहासौ ये च त्वामन्वेतत्ते प्रपितामहासौ ये च त्वामन्वित्यत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदङ्पर्यावृत्यात्र षड्ढोतारं व्याचष्टेऽथाभिपर्यावृत्य तथैवाद्भिर्मार्जयित्वैतेनैव यथेतमेत्याग्नीध्रीये द्वे स्रुवाहुती जुहोति यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादिति द्वाभ्याम्
अथाहवनीये शाकलैश्चरन्ति देवकृतस्यैनसोऽवयजनमसि स्वाहा मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा पितृकृतस्यैनसोऽवयजनमसि स्वाहेत्यथाप्सुषोमान्पर्युपविश्यावघ्रेण भक्षयन्त्यप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर्यो गोसनिस्तस्य ते पितृभिर्भक्षंकृतस्योपहूतस्योपहूतो भक्षयामीत्यथैना निनीयोपोत्थायादित्यमुपतिष्ठन्ते १७ 8.17

अपाम सोमममृता अभूमादर्श्म ज्योतिरविदाम देवान्। किमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्येति
यद्यु वा अस्तमित आदित्यो भवत्याहवनीयमेवैतेन यजुषोपतिष्ठन्तेऽथाग्नीध्रं द्रुत्वाग्नीध्रे दधिद्र प्सान्भक्षयन्ति दधिक्राव्णो अकारिषमित्य्
अथ सख्यवैसर्जनं जपन्त्युभा कवी युवाना सत्या ता धर्मणस्पती । सत्यस्य धर्मणस्पते वि सख्यानि सृजामह इत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्य षडृग्मियाणि जुहोति धाता रातिः सवितेदं जुषन्तामिति
त्रीणि यजूꣳ षि यज्ञ यज्ञं गच्छैष ते यज्ञो यज्ञपते देवा गातुविद इत्यथ स्रुचि चतुर्गृहीतं गृहीत्वायुर्दां दशमीं जुहोत्यायुर्दा अग्ने हविषो जुषाण इत्येतस्मिन्काले चात्वाले यजमानः कृष्णविषाणां प्रास्यतीन्द्र स्य योनिरसि यज्ञस्य त्वा योनौ सादयामीति वा तूष्णीं वाथ प्रतिप्रस्थाता पत्नीमुदानयति सा चात्वाले शङ्कुं प्रास्यति तूष्णीम् १८ 8.18

अत्रैतमवभृथꣳ सꣳसादयन्त्यग्रेणाग्नीध्रमुच्छ्राय्यां वा चर्मणि वा
पत्नीशालादाददते वारुणमुपस्तीर्णाभिघारितमाज्यस्थालीꣳ सस्रुवाꣳ स्रुचं बर्हिः प्रतिवसनीये वाससी औदुम्बरीꣳ राजासन्दीं सदस औदुम्बरीꣳ स्थूणां मैत्रावरुणदण्डं हविर्धानाभ्यां पूतभृदाधवनीयौ चमसानधिषवणं चर्माधिषवणे फलके षट्छङ्कून्ग्राव्णो वायव्यानि स्थालीद्रो र्ण!कलशं दशापवित्रे ऋजीषमित्येतत्सह कृष्णाजिने यत्किञ्चित्सोमलिप्तं भवत्यथ वै भवति
परा स्थालीरस्यन्त्युद्वायव्यानि हरन्तीत्येतत्समादाय प्रस्तोतारमाह प्रस्तोतः साम गायेति

साम्ना प्रस्तोतान्ववैति
त्रिर्निधनमुपैति
पुरुषःपुरुषो निधनमुपैतीति ब्राह्मणम्
अथान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रामन्त्युरुꣳ हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ । अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चिदिति
विषुवति द्वितीयं निधनमुपयन्त्यपः पराख्याय वाचयति शतं ते राजन्भिषजः सहस्रमुर्वी गम्भीरा सुमतिष्टे अस्तु । बाधस्व द्वेषो निरृतिं पराचैः कृतं चिदेनः प्रमुमुग्ध्यस्मदित्युदकान्ते तृतीयं निधनमुपयन्त्यथापामन्तमभितिष्ठन्त्यभिष्ठितो वरुणस्य पाश इत्यथाप्सु बर्हिः प्रास्यत्यग्नेरनीकमप आविवेश । अपां नपात्प्रतिरक्षन्नसुर्यं दमेदमे समिधं यक्ष्यग्न इत्यथैनत्स्रुवाहुत्याभिजुहोति प्रति ते जिह्वा घृतमुच्चरण्येत्स्वाहेत्यथ स्रुचि चतुर्गृहीतं गृहीत्वापबर्हिषश्चतुरः प्रयाजान्यजत्यथाग्नये सोमायेत्याज्यभागाभ्यां चरत्यथोपस्तीर्य पूर्वार्धात्पुरोडाशस्यावद्यन्नाह १९ 8.19

वरुणायानुब्रूहीति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
प्रत्यनक्त्यत्याक्रम्याश्राव्याह वरुणं यजेति
वषट्कृते जुहोत्यथोपस्तीर्य सर्वश एव वारुणमवदधदाहाग्नीवरुणाभ्याꣳ स्विष्टकृद्भ्यामनुब्रूहीति
द्विरभिघारयत्याश्राव्याहाग्नीवरुणौ स्विष्टकृतौ यजेति

वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथ स्रुचि चतुर्गृहीतं गृहीत्वापबर्हिषौ द्वावनूयाजौ यजत्यथाप्सु स्रुचं प्रतिष्ठापयति समुद्रे ते हृदयमप्स्वन्तरित्यथैनामद्भिः पूरयति सं त्वा विशन्त्वोषधीरुताप इत्यप्स्वेवापो जुहोति यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम स्वाहेत्यत्रैतमवभृथꣳ संप्रकिरन्ति यत्किंचित्सोमलिप्तं भवत्यवभृथ निचंकुण निचेरुरसि निचंकुणाव देवैर्देवकृतमेनोऽयाडव मर्त्यैर्मर्त्यकृतमुरोरा नो देव रिषस्पाहीत्यथाञ्जलिनाप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति
तां दिशं निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपस्पृश्यात्रैतदृजीषं प्रप्लावयन्ति सह कृष्णाजिनेन देवीराप एष वो गर्भस्तं वः सुप्रीतꣳ सुभृतमकर्म देवेषु नः सुकृतो ब्रूतादिति
बिन्दूनुपैव स्पृशति
न भक्षयत्यथानुपमज्जन्तावन्योन्यस्य पृष्ठे धावयतो विस्रस्य मेखले प्रतिवसनीये वाससी परिधायोन्नेतारमाहोन्नेतरुन्नो नयेति
तिसृभिरुद्वतीभिरुदायन्त्युद्वयं तमसस्पर्युदु त्यं चित्रमित्यथापामन्तं प्रतियौति प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाश इत्यथाप्रतीक्षमायन्ति
वरुणस्यान्तर्हित्यै
प्रपथे समिधः कुर्वत एधोऽस्येधिषीमहीत्य्
एत्याहवनीयेऽभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहीत्यथाहवनीयमुपतिष्ठन्तेऽपो अन्वचारिषꣳ रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमं तं मा सꣳसृज वर्चसेति
व्यवच्छिन्दन्ति परिश्रयणानि
विवर्तयन्ति हविर्धाने दक्षिणेन दक्षिणमुत्तरेणोत्तरम् २० 8.20

यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपत्येष एव वेद एतन्मेक्षणमेतद्बर्हिरथैतां चरुस्थालीꣳ सक्षामकाषामुत्खिद्य निर्णिज्य तयोदयनीयꣳ श्रपयति
तस्मिꣳस्तथैव श्रप्यमाणे जघनेन गार्हपत्यमौपसदायां वेद्याꣳ स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
समानं कर्म यथा प्रायणीयस्यैतावदेव नाना
पथ्याममुत्र स्वस्तिंप्रथमां यजति तामिहोपोत्तमां यजति
नो तु दिशश्च्यवन्तेऽथ पुरस्तात्स्विष्टकृतः स्रुवाहुतिमुपजुहोति यास्ते विश्वाः समिधः सन्त्यग्न इत्युपस्तरणाभिघार्णाभ्यामेवैतद्ध्रुवाजयं विच्छिꣳ षन्ति
समिष्टयजुरु हैके जुह्वति

शंय्वन्त उदयनीयः संतिष्ठतेऽत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यथ पृषदाज्यवन्त्याज्यानि गृहीत्वा मैत्रावरुणीं वशामुपाकरोति
तस्यै प्रसिद्धं वपया चरित्वा दक्षिणे वेद्यन्ते केशश्मश्रु वपते
नखानि निकृन्तते
सर्वसꣳस्थां पशोः कुर्वन्त्यथ यदि वशां न लभते मैत्रावरुणीमामिक्षां गार्हपत्ये श्रपयित्वा तयाहवनीये प्रचरति
साज्यभागप्रतिपत्केडान्ता संतिष्ठते २१ 8.21

अथारण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्याग्नेयमष्टाकपालमुदवसानीयामिष्टिं निर्वपति
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः
पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोऽग्ने तमद्याधा ह्यग्न इति
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्यानड्वाहं ददाति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथारण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्य पूर्वाणि देविकाहवीꣳषि निर्वपत्यनुमत्यै चरुꣳ राकायै चरुं धात्रे पुरोडाशं द्वादशकपालमित्य्
अन्वाहार्यमासाद्य वत्सतरीं ददाति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ तदानीमेव पृष्ठ्याꣳस्तीर्त्वापः प्रणीयोत्तराणि देविकाहवीꣳषि निर्वपति सिनीवाल्यै चरुं कुह्वै चरुं धात्र एव पुरोडाशं द्वादशकपालमित्यन्वाहार्यमासाद्य वत्सतरं ददाति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथारण्योरग्नीन्समारोह्य स्वान्यग्न्यायतनान्यध्यवसाय मथित्वाग्नीन्विहृत्य सायंप्रातरग्निहोत्रे प्रतिजुहोति
संतिष्ठतेऽग्निष्टोमः संतिष्ठतेऽग्निष्टोमः २२ 8.22