सामग्री पर जाएँ

बौधायनधर्मसूत्रम्

विकिस्रोतः तः

  
अथ बौधायनधर्मसूत्रम्

१।१।१।१ उपदिष्टो धर्मः प्रतिवेदम् ॥
१।१।१।२ तस्यानु व्याख्यास्यामः ॥
१।१।१।३ स्मार्तो द्वितीयः ॥
१।१।१।४ तृतीयः शिष्टागमः ॥
१।१।१।५ शिष्टाः खलु विगतमत्सरा निरहंकाराः कुम्भीधान्या अलोलुपा दम्भदर्पलोभमोहक्रोधविवर्जिताः ॥
१।१।१।६कख धर्मेणाधिगतो येषां वेदः सपरिबृंहणः ।
१।१।१।६गघ शिष्टास् तदनुमानज्ञाः श्रुतिप्रत्यक्षहेतवः ॥ इति ॥ [cf. व ६।४३; म् १२।१०९]
१।१।१।७ तदभावे दशावरा परिषत् ॥
१।१।१।८ अथाप्य् उदाहरन्ति ।
१।१।१।८कख चातुर्वैद्यं विकल्पी च अङ्गविद् धर्मपाठकः ।
१।१।१।८गघ आश्रमस्थास् त्रयो विप्राः पर्षद् एषा दशावरा ॥
१।१।१।९कख पञ्च वा स्युस् त्रयो वा स्युर् एको वा स्याद् अनिन्दितः ।
१।१।१।९गघ प्रतिवक्ता तु धर्मस्य नेतरे तु सहस्रशः ॥
१।१।१।१०कख यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।
१।१।१।१०गघ ब्राह्मणश् चानधीयानस् त्रयस् ते नामधारकाः ॥
१।१।१।११कख यद् वदन्ति तमोमूढा मूर्खा धर्मम् अजानतः ।
१।१।१।११गघ तत् पापं शतधा भूत्वा वक्तृ̄न् समधिगच्छति ॥
१।१।१।१२कख बहुद्वारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः ।
१।१।१।१२गघ तस्मान् न वाच्यो ह्य् एकेन बहुज्ञेनापि संशये ॥
१।१।१।१३कख धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः ।
१।१।१।१३गघ क्रीडार्थम् अपि यद् ब्रूयुः स धर्मः परमः स्मृतः ॥
१।१।१।१४कख यथाश्मनि स्थितं तोयं मारुतार्कौ प्रणाशयेत् ।
१।१।१।१४गघ तद्वत् कर्तरि यत् पापं जलवत् संप्रलीयते ॥
१।१।१।१५कख शरीरं बलम् आयुश् च वयः कालं च कर्म च ।
१।१।१।१५गघ समीक्ष्य धर्मविद् बुद्ध्या प्रायश्चित्तानि निर्दिशेत् ॥
१।१।१।१६कख अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।
१।१।१।१६गघ सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ इति ॥
१।१।२।१ पञ्चधा विप्रतिपत्तिर् दक्षिणतस् तथोत्तरतः ॥
१।१।२।२ यानि दक्षिणतस् तानि व्याख्यास्यामः ॥
१।१।२।३ यथैतद् अनुपेतेन सह भोजनं स्त्रिया सह भोजनंपर्युषितभोजनं मातुलपितृस्वसृदुहितृगमनम् इति ॥
१।१।२।४ अथोत्तरत ऊर्णाविक्रयः सीधुपानम् उभयतोदद्भिर्व्यवहार आयुधीयकं समुद्रसंयानम् इति ॥
१।१।२।५ इतरद् इतरस्मिन् कुर्वन् दुष्यतीतरद् इतरस्मिन् ॥
१।१।२।६ तत्र तत्र देशप्रामाण्यम् एव स्यात् ॥
१।१।२।७ मिथ्यैतद् इति गौतमः ॥
१।१।२।८ उभयं चैव । नाद्रियेत शिष्टस्मृतिविरोधदर्शनात् ॥
१।१।२।९ प्राग् आदर्शात् प्रत्यक् कनखलाद् दक्षिणेनहिमवन्तम् उदक् पारियात्रम् एतद् आर्यावर्तम् । तस्मिन् य आचारः सप्रमाणम् ॥ [k: कालकवनाद्]
१।१।२।१० गङ्गायमुनयोर् अन्तरम् इत्य् एके ॥
१।१।२।११ अथाप्य् अत्र भाल्लविनो गाथाम् उदाहरन्ति ॥
१।१।२।१२कख पश्चात् सिन्धुर् विधरणी सूर्यस्योदयनं पुरः ।
१।१।२।१२गघ यावत् कृष्णा विधावन्ति तावद् धि ब्रह्मवर्चसम् ॥ इति ॥
१।१।२।१३कख अवन्तयोऽङ्गमगधाः सुराष्ट्रा दक्षिणापथाः ।
१।१।२।१३गघ उपावृद्सिन्धुसौवीरा एते संकीर्णयोनयः ॥
१।१।२।१४ आरट्टान् कारस्करान् पुण्ड्रान् सौवीरान् वङ्गान् कलिङ्गान्प्रानूनान् इति च गत्वा पुनस्तोमेन यजेत सर्वपृष्ठया वा ॥
१।१।२।१५-१ अथाप्य् उदाहरन्ति ।
१।१।२।१५-२कख पद्भ्यां स कुरुते पापं यः कलिङ्गान् प्रपद्यते ।
१।१।२।१५-२गघ ऋषयो निष्कृतिं तस्य प्राहुर् वैश्वानरं हविः ॥
१।१।२।१६कख बहूनाम् अपि दोषाणां कृतानां दोषनिर्णये ।
१।१।२।१६गघ पवित्रेष्टिं प्रशंसन्ति सा हि पावनमुत्तमम् ॥ इति ॥ [न्।ब्।: गेन्देर् दिसग्रेएमेन्त्]
१।१।२।१७-१ अथाप्य् उदाहरन्ति ।
१।१।२।१७-२कख वैश्वानरीं व्रातपतीं पवित्रेष्टिं तथैव च ।
१।१।२।१७-२गघ ऋतव् ऋतौ प्रयुञ्जानः पापेभ्यो विप्रमुच्यते ॥ पापेभ्योविप्रमुच्यत इति ॥
१।२।३।१ अष्टाचत्वारिंशद् वर्षाणि पौराणं वेदब्रह्मचर्यम् ॥
१।२।३।२ चतुर्विंशतिं द्वादश वा प्रतिवेदम् ॥
१।२।३।३ संवत्सरावमं वा प्रतिकाण्डम् ॥
१।२।३।४ ग्रहणान्तं वा जीवितस्यास्थिरत्वात् ॥
१।२।३।५ कृष्णकेशोऽग्नीन् आदधीतेति श्रुतिः ॥
१।२।३।६कख नास्य कर्म नियच्छन्ति किंचिद् आ मौञ्जिबन्धनात् ।
१।२।३।६गघ वृत्त्या शूद्रसमो ह्य् एष यावद् वेदेन जायते ॥ इति ॥
१।२।३।७ गर्भादिः संख्या वर्षाणाम् । तदष्टमेषु ब्राह्मणमुपनयीत ॥
१।२।३।८ त्र्यधिकेषु राजन्यम् ॥
१।२।३।९ तस्माद् एकाधिकेषु वैश्यम् ॥
१।२।३।१० वसन्तो ग्रीष्मः शरद् इत्य् ऋतवो वर्णानुपूर्व्येण ॥
१।२।३।११ गायत्रीत्रिष्टुब्जगतीभिर् यथाक्रमम् ॥
१।२।३।१२ आ षोडशाद् आ द्वाविंशाद् आ चतुर्विंशाद् अनात्यय एषां क्रमेण ॥
१।२।३।१३ मौञ्जी धनुर्ज्या शाणीति मेखलाः ॥
१।२।३।१४ कृष्णरुरुबस्ताजिनान्य् अजिनानि ॥
१।२।३।१५ मूर्धललाटनासाग्रप्रमाणा याज्ञिकस्य वृक्षस्य दण्डाः ॥
१।२।३।१६ भवत्पूर्वां भिक्षामध्यां याच्ञान्तां भिक्षां चरेत् सप्ताक्षरां क्षां च हिं च न वर्धयेत् ॥
१।२।३।१७ भवत्पूर्वां ब्राह्मणो भिक्षेत भवन्मध्यां राजन्योभवदन्तां वैश्यः सर्वेषु वर्णेषु ॥
१।२।३।१८ ते ब्राह्मणाद्याः स्वकर्मस्थाः ॥
१।२।३।१९ सदारण्यात् समिध आहृत्यादध्यात् ॥
१।२।३।२० सत्यवादी ह्रीमान् अनहंकारः ॥
१।२।३।२१ पूर्वोत्थायी जघन्यसंवेशी ॥
१।२।३।२२ सर्वत्राप्रतिहतगुरुवाक्योऽन्यत्र पातकात् ॥
१।२।३।२३ यावदर्थसंभाषी स्त्रीभिः ॥
१।२।३।२४ नृत्तगीतवादित्रगन्धमाल्योपानक्छत्त्रधारणाञ्जनाभ्यञ्जनवर्जी ॥
१।२।३।२५ दक्षिणं दक्षिणेन सव्यं सव्येन चोपसंगृह्णीयात् ॥
१।२।३।२६ दीर्घम् आयुः स्वर्गं चेप्सन् कामम् अन्यस्मै साधुवृत्तायगुरुणानुज्ञातः ॥
१।२।३।२७ असाव् अहं भो इति श्रोत्रे संस्पृश्य मनःसमाधानार्थम् ॥
१।२।३।२८ अधस्ताज् जान्वोर् आ पद्भ्याम् ॥
१।२।३।२९ नासीनो नासीनाय न शयानो न शयानाय नाप्रयतोनाप्रयताय ॥
१।२।३।३० शक्तिविषये मुहूर्तम् अपि नाप्रयतः स्यात् ॥
१।२।३।३१ समिद्धार्य् उदकुम्भपुष्पान्नहस्तो नाभिवादयेद् यच्चान्यद् अप्य् एवंयुक्तम् ॥
१।२।३।३२ न समवायेऽभिवादयेद् अत्यन्तशः ॥
१।२।३।३३ भ्रातृपत्नीनां युवतीनां च गुरुप्त्नीनां जातवीर्यः ॥
१।२।३।३४ नौशिलाफलककुञ्जरप्रासादकटेषु चक्रवत्सु चादोषम्सहासनम् ॥
१।२।३।३५ प्रसाधनोत्सादनस्नापनोच्छिष्टबोजनानीति गुरोः ॥ [k: उच्छादन]
१।२।३।३६ उच्छिष्टवर्जनं तत्पुत्रेऽनूचाने वा ॥ [k: वर्जं]
१।२।३।३७ प्रसाधनोत्सादनस्नापनवर्जनं च तत्पत्न्याम् ॥ [k: उच्छादन ॥। वर्जं]
१।२।३।३८ धावन्तम् अनुधावेद् गच्छन्तम् अनुगच्छेत् तिष्ठन्तमनुतिष्ठेत् ॥
१।२।३।३९ नाप्सु श्लाघमानःस्नायात् ॥ [k: श्लघमानः]
१।२।३।४० दण्ड इव प्लवेत् ॥
१।२।३।४१ अब्राह्मणाद् अध्ययनम् आपदि ॥
१।२।३।४२ शुश्रूषानुव्रज्या च यावदध्ययनम् ॥
१।२।३।४३ तयोस् तद् एव पावनम् ॥
१।२।३।४४ भ्रातृपुत्रशिष्येषु चैवम् ॥
१।२।३।४५ ऋत्विज्श्वशुरपितृव्यमातुलानां तु यवीयसांप्रत्युत्थायाभिभाषणम् ॥
१।२।३।४६ प्रत्यभिवाद इति कात्यः ॥
१।२।३।४७ शिशाव् आङ्गिरसे दर्शनात् ॥
१।२।४।१कख धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
१।२।४।१गघ विद्यया सह मर्तव्यं न चैनाम् ऊषरे वपेत् ॥ [cf. म् २।११२]
१।२।४।२कख अग्निर् इव कक्षं दहति ब्रह्म पृष्टम् अनादृतम् ।
१।२।४।२गघ तस्माद् वै शक्यं न ब्रूयाद् ब्रह्म मानम् अकुर्वताम् ॥ इति ॥
१।२।४।३ एवास्मै [k: अत्रैवास्मै] वचो वेदयन्ते ॥
१।२।४।४ ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत् । तस्मै ब्रह्मचारिणमेव न प्रायच्छत् । सोऽब्रवीद् अस्तु मह्यम् अप्य् एतस्मिन् भाग इति । याम् एव रात्रिं समिधं नाहरातईति ॥
१।२।४।५ तस्माद् ब्रह्मचारी यां रात्रिं समिधं नाहरत्य् आयुषएव ताम् अवदाय वसति । तस्माद् ब्रह्मचारी समिधम् आहरेन् नेदायुषोऽवदाय वसानीति ॥
१।२।४।६ दीर्गसत्त्रं वय् एष उपैति यो ब्रह्मचर्यम् उपैति । स यामुपयन् समिधम् आदधाति सा प्रायणीयाथ यां स्नास्यन्सोदयनीयाथ या अन्तरेण सत्त्र्या एवास्य ताः ॥
१।२।४।७-१ ब्राह्मणो वै ब्रह्मचर्यम् उपयंश् चतुर्धा भूतानिप्रविशत्य् अग्निं पदा मृत्युं पदाचार्यं पदात्मन्य् एवास्यचतुर्थः पादः परिशिष्यते ।
१।२।४।७-२ स यद् अग्नौ समिधम् आदधाति य एवास्याग्नौ पादस् तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन् धत्ते स एनम् आविशति ।
१।२।४।७-३ अथ यद् आत्मानं दरिद्रीक्रित्याह्रीर् भूत्वा भिक्षतेब्रह्मचर्यं चरति य एवास्य मृत्यौ पादस् तम् एव तेन परिक्रीणातितं संस्कृत्यात्मन् धत्ते स एनम् आविशति ।
१।२।४।७-४ अथ यद् आचार्यवचः करोति य एवास्याचार्ये पादस् तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन् धत्ते स एनम् आविशति ।
१।२।४।७-५ अथ यत् स्वाध्यायम् अधीते य एवास्यात्मनि पादस् तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन् धत्ते स एनम् आविशति ।
१।२।४।७-६ न ह वै स्नात्वा भिक्षेत । अपि ह वै स्नात्वा भिक्षांचरत्य् अपि ज्ञातीनाम् अशनायापि पितृ̄णाम् अन्याभ्यः क्रियाभ्यः ।
१।२।४।७-७ स यद् अन्यां भिक्षितव्यां न विन्देतापि स्वामेवाचार्यजायां भिक्षेताथो स्वां मातरम् ।
१।२।४।७-८ नैनं सप्तम्य् अभिक्षितातीयात् ।
१।२।४।७-९कख भैक्षस्याचरणे दोषः पावकस्यासमिन्धने ।
१।२।४।७-९गघ सप्तरात्रम् अकृत्वैतद् अवकीर्णिव्रतं चरेत् ॥
१।२।४।७-१० तम् एवं विद्वांसम् एवं चरन्तं सर्वे वेदा आविशन्ति ॥
१।२।४।८ यथा ह वा अग्निः समिद्धो रोचत एवं ह वय् एष स्नात्वारोचते य एवं विद्वान् ब्रह्मचर्यं चरतीति ब्राह्मणम् । इतिब्राह्मणम् ॥
१।३।५।१ अथ स्नातकस्य ॥
१।३।५।२ अन्तर्वास उत्तरीयम् ॥
१।३।५।३ वैणवं दण्डं धारयेत् ॥
१।३।५।४ सोदकं च कमण्डलुम् ॥
१।३।५।५ द्वियज्ञोपवीती ॥
१।३।५।६ उष्णीषम् अजिनम् उत्तरीयम् उपानहौ छत्त्रं चोपासनंदर्शपूर्णमासौ ॥
१।३।५।७ पर्वसु च केशश्मश्रुलोमनखवापनम् ॥
१।३।५।८ तस्य वृत्तिः ॥
१।३।५।९ ब्राह्मणराजन्यवैश्यरथकारेष्व् आमं लिप्सेत ॥
१।३।५।१० भैक्षं वा ॥
१।३।५।११ वाग्यतस् तिष्ठेत् ॥
१।३।५।१२ सर्वाणि चास्य देवपितृसंयुक्तानि पाकयज्ञसंस्थानिभूतिकर्मानि कुर्वीतेति ॥
१।३।५।१३ एतेन विधिना प्रजापतेः परमेष्ठिनः परमऋषयः परमांकाष्ठां गच्छन्तीति बौधायनः ॥
१।४।६।१ अथ कमण्डलुचर्याम् उपदिशन्ति ॥
१।४।६।२-१कख छागस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे ।
१।४।६।२-१गघ अप्सु चैव कुशस्तम्बे पावकः परिपठ्यते ॥
१।४।६।२-२ तस्माच् छौचं कृत्वा पाणिना परिमृजीत पर्यग्निकरणं हितत् । उद्दीप्यस्व जातवेद इति पुनर्दाहाद् विशिष्यते ॥
१।४।६।३ तत्रापि किंचित् संस्पृष्टं मनसि मन्येत [k: मन्यते] कुशैर्वा तृणैर् वा प्रज्वाल्य प्रदक्षिणं परिदहनम् ॥
१।४।६।४ अत ऊर्ध्वं श्ववायसप्रभृत्युपहतानाम् अग्निवर्ण इत्युपदिशन्ति ॥
१।४।६।५ मूत्रपुरीषलोहित[k: रोहित]रेतःप्रभृत्युपहतानामुत्सर्गः ॥
१।४।६।६ भग्ने कमण्डलौ व्याहृतिभिः शतं जुहुयाज् जपेद् वा ॥
१।४।६।७-१ भूमिर् भूमिम् अगान् माता मातरम् अप्य् अगात् । भूयास्मपुत्रैः पशुभिर् यो नो द्वेष्टि स भिद्यताम् इति ॥ [= आश्व्श्स् ३।१४।१२, अप्श्स् ३०।२०।९, आप्म्प् २।१५।१७; cf. शड्व्ब्र् १।६।२०, कौश्श्स् ३०।२०।९, कौश्स् १३६।२]
१।४।६।७-२ कपालानि संहृत्याप्सु प्रक्षिप्य सावित्रीं दशावरांकृत्वा पुनर् एवान्यं गृह्णीयात् ॥
१।४।६।८ वरुणम् आश्रित्य । एतत् ते वरुण पुनर् एव माम् ओम् इति । अक्षरं ध्यायेत् ॥
१।४।६।९कख शूद्राद् गृह्य शतं कुर्याद् वैश्याद् अर्धशतं स्मृतम् ।
१।४।६।९गघ क्षत्रियात् पञ्चविंशत् तु ब्राह्मणाद् दश कीर्तिताः ॥
१।४।६।१० अस्तमित आदित्य उदकं गृह्णीयान् न गृह्णीयाद् इतिमीमांसन्ते ब्रह्मवादिनः ॥
१।४।६।११ गृह्णीयाद् इत्य् एतद् अपरम् ॥
१।४।६।१२ यावद् उदकं गृह्णीयात् तावत् प्राणम् [k: प्राणान्] आयच्छेत् ॥
१।४।६।१३ अग्निर् ह वै ह्य् उदकं गृह्णाति ॥
१।४।६।१४ कमण्डलूदकेनाभिषिक्तपाणिपादो यावद् आर्द्रं तावदशुचिः परेषाम् । आत्मानम् एव पूतम् करोति । नान्यत् कर्मकुर्वीतेति विज्ञायते ॥
१।४।६।१५ अपि वा प्रतिशौचम् आ मणिबन्धाच् छुचिर् इति बौधायनः ॥
१।४।६।१६ अथाप्य् उदाहरन्ति ॥
१।४।७।१-१कख कमण्डलुर् द्विजातीनां शौचार्थं विहितः पुरा ।
१।४।७।१-१गघ ब्रह्मणा मुनिमुख्यैश् च तस्मात् तं धारयेत् सदा ॥
१।४।७।१-२कख ततः शौचं ततः पानं संध्योपासनम् एव च ।
१।४।७।१-२गघ निर्विशङ्केन कर्तव्यं यदीच्छेच् छ्रेय आत्मनः ॥
१।४।७।२ कुर्याच् छुद्धेन मनसा न चित्तं दूषयेद् बुधः । सहकमण्डलुनोत्पन्नः स्वयंभूस् तस्मात् कमण्डलुना चरेत् ॥
१।४।७।३ मूत्रपुरीषे कुर्वन् दक्षिणे हस्ते गृह्णाति सव्य आचमनीयम् । एतत् सिध्यति साधूनाम् ॥
१।४।७।४कख यथा हि सोमसंयोगाच् चमसो मेध्य उच्यते ।
१।४।७।४गघ अपां तथैव संयोगान् नित्यो मेध्यः कमण्डलुः ॥
१।४।७।५ पितृदेवाग्निकार्येषु तस्मात् तं परिवर्जयेत् ॥
१।४।७।६ तस्माद् विना कमण्डलुना नाध्वानं व्रजेन् न सीमन्तं नगृहाद् गृहम् ॥
१।४।७।७ पदम् अपि न गच्छेद् इषुमात्राद् इत्य् एके ॥
१।४।७।८ यद् इच्छेद् धर्मसंततिम् इति बौधायनः ॥
१।४।७।९ ऋग्विधेनेति वाग् वदति । ऋग्विधेनेति वाग् वदति ॥ [k: ऋग्विधम् ऋग्विधानं वाग् वदति ऋग्विधम् ऋग्विधानं वाग् वदति ॥]
१।५।८।१ अथातः शौचाधिष्ठानम् ॥
१।५।८।२कख अद्भिः शुध्यन्ति गात्राणि बुद्धिर् ज्ञानेन शुध्यति ।
१।५।८।२गघ अहिंसया च भूतात्मा मनः सत्येन शुध्यति ॥ इति ॥
१।५।८।३ मनःशुद्धिर् अन्तःशौचम् ॥
१।५।८।४ बहिःशौचं व्याख्यास्यामः ॥
१।५।८।५ कौशं सौत्रं वा त्रिस्त्रिवृद् यज्ञोपवीतम् ॥
१।५।८।६ आ नाभेः ॥
१।५।८।७ दक्षिणं बाहुम् उद्धृत्य सव्यम् अवधाय शिरोऽवदध्यात् ॥
१।५।८।८ विपरीतं पितृभ्यः ॥
१।५।८।९ कण्ठेऽवसक्तं निवीतम् ॥
१।५।८।१० अधोऽवसक्तं अधोवीतम् ॥
१।५।८।११ प्राङ्मुख उदङ्मुखो वासीनः शौचम् आरभेत शुचौ देशेदक्षिणम् बाहुं जान्वन्तरा कृत्वा प्रक्षाल्य पादौ पाणी चामणिबन्धात् ॥
१।५।८।१२ पादप्रक्षालनोच्छेषणेन नाचामेत् ॥
१।५।८।१३ यद्य् आचामेद् भूमौ स्रावयित्वाचामेत् ॥
१।५।८।१४ ब्राह्मेण तीर्थेनाचामेत् ॥
१।५।८।१५ अङ्गुष्ठमूलं ब्राह्मं तीर्थम् ॥
१।५।८।१६ अङ्गुष्ठाग्रं पित्र्यम् अङ्गुल्यग्रं दैवम् अङ्गुलिमूलम् आर्षम् ॥
१।५।८।१७ नाङ्गुलीभिर् न सबुद्बुदाभिर् न सफेनाभिर् नोष्णाभिर्न क्षाराभिर् न लवणाभिर् न कलुषाभिर् न विवर्णाभिर् नदुर्गन्धरसाभिः ॥
१।५।८।१८ न हसन् न जल्पन् न तिष्ठन् न विलोकयन् न प्रह्वो न प्रणतोन मुक्तशिखो न प्रावृतकण्ठो न वेष्टितशिरा न त्वरमाणोनायज्ञोपवीती न प्रसारितपादो न बद्धकक्ष्यो न बहिर्जानुःशब्दम् अकुर्वन् ॥
१।५।८।१९ त्रिर् अपो हृदयंगमाः पिबेत् ॥
१।५।८।२० त्रिः परिमृजेत् ॥
१।५।८।२१ द्विर् इत्य् एके ॥
१।५।८।२२ सकृद् उभयं शूद्रस्य स्त्रियाश् च ॥
१।५।८।२३-१ अथाप्य् उदाहरन्ति ।
१।५।८।२३-२कख गताभिर् हृदयं विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।
१।५।८।२३-२गघ वैश्योऽद्भिः प्राशिताभिः स्यात् स्त्रीशूद्रौ स्पृश्यचान्ततः ॥ इति ॥
१।५।८।२४कख दन्तवद् दन्तसक्तेषु दन्तवत् तेषु धारणात् ।
१।५।८।२४गघ स्रस्तेषु तेषु नाचामेत् तेषां संस्राववच् छुचिः ॥ इति ॥
१।५।८।२५-१ अथाप्य् उदाहरन्ति ।
१।५।८।२५-२कख दन्तवद् दन्तलग्नेषु यच् चाप्य् अन्तर् मुखे भवेत् ।
१।५।८।२५-२गघ आचान्तस्यावशिष्टं स्यान् निगिरन्न् एव तच् छुचिः ॥ इति ॥
१।५।८।२६ खान्य् अद्भिः संस्पृश्य पादौ नाभिं शिरः सव्यं पाणिमन्ततः ॥
१।५।८।२७ तैजसं चेद् आदायोच्छिष्टी स्यात् तदुदस्याचम्यादास्यन्न् अद्भिः प्रोक्षेत् ॥
१।५।८।२८ अथ चेद् अन्नेनोच्छिष्टी स्यात् तद् उदस्याचम्यादास्यन्नद्भिः प्रोक्षेत् ॥
१।५।८।२९ अथ चेद् अद्भिर् उच्छिष्टी स्यात् तद् उदस्याचम्यादास्यन्नद्भिः प्रोक्षेत् ॥
१।५।८।३० एतद् एव विपरीतम् अमत्रे ॥
१।५।८।३१ वानस्पत्ये विकल्पः ॥
१।५।८।३२ तैजसानाम् उच्छिष्टानां गोशकृन्मृद्भस्मभिः परिमार्जनमन्यतमेन वा ॥
१।५।८।३३ ताम्ररजतसुवर्णानाम् अम्लैः ॥
१।५।८।३४ अमत्राणां दहनम् ॥
१।५।८।३५ दारवाणां तक्षणम् ॥
१।५।८।३६ वैणवानां गोमयेन ॥
१।५।८।३७ फलमयानां गोवालरज्ज्वा ॥
१।५।८।३८ कृष्णाजिनानां बिल्वतण्डुलैः ॥
१।५।८।३९ कुतपानाम् अरिष्टैः ॥
१।५।८।४० और्णानाम् आदित्येन ॥
१।५।८।४१ क्षौमाणां गौरसर्षपकल्केन ॥
१।५।८।४२ मृदा चेलानाम् ॥
१।५।८।४३ चेलवच् चर्मणाम् ॥
१।५।८।४४ तैजसवद् उपलमणीनाम् ॥
१।५।८।४५ दारुवद् अस्थ्नाम् ॥
१।५।८।४६ क्षौमवच् छङ्खशृङ्गशुक्तिदन्तानाम् ॥
१।५।८।४७ पयसा वा ॥
१।५।८।४८ चक्षुर्घ्राणानुकूल्याद् वामूत्रपुरीषासृज्शुक्रकुणपस्पृष्टानां पूर्वोक्तानाम् अन्यतमेनत्रिःसप्तकृत्वः परिमार्जनम् ॥
१।५।८।४९ अतैजसानाम् एवंभूतानाम् उत्सर्गः ॥
१।५।८।५० वचनाद् यज्ञे चमसपात्रानाम् ॥
१।५।८।५१ न सोमेनोच्छिष्टा भवन्तीति श्रुतिः ॥
१।५।८।५२कख कालोऽग्निर् मनसः शुद्धिर् उदकाद्युपलेपनम् ।
१।५।८।५२गघ अविज्ञातं च भूताणां षड्विधं शौचम् उच्यते ॥ इति ॥
१।५।८।५३-१ अथाप्य् उदाहरन्ति ।
१।५।८।५३-२ कालं देशं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिम् अवस्थां च विज्ञाय शौचं शौचज्ञः कुशलो धर्मेप्सुःसमाचरेत् ॥
१।५।९।१कख नित्यं शुद्धः कारुहस्तः पण्यं यच् च प्रसारितम् ।
१।५।९।१गघ ब्रह्मचारिगतं भैक्षं नित्यं मेध्यम् इति श्रुतिः ॥
१।५।९।२कख वत्सः प्रस्नवने मेध्यः शकुनिः फलशातने ।
१।५।९।२गघ स्त्रियश् च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ॥
१।५।९।३कख आकराः शुचयः सर्वे वर्जयित्वा सुराकरम् ।
१।५।९।३गघ अदूष्याः संतता धारा वातोद्भूताश् च रेणवः ॥
१।५।९।४कख अमेध्येषु च ये वृक्षा उप्ताः पुष्पफलोपगाः ।
१।५।९।४गघ तेषाम् अपि न दुष्यन्ति पुष्पाणि च फलानि च ॥
१।५।९।५कख चैत्यवृक्षं चितिं यूपं चण्डालं वेदविक्रयम् ।
१।५।९।५गघ एतानि ब्राह्मणः स्पृष्ट्वा सचेलो जलम् आविशेत् ॥
१।५।९।६कख आत्मशय्यासनं वस्त्रं जायापत्यं कमण्डलुः ।
१।५।९।६गघ शुचीन्य् आत्मन एतानि परेषाम् अशुचीनि तु ॥
१।५।९।७कख आसनं शयनं यानं नावः पथि तृणानि च ।
१।५।९।७गघ चण्डालपतितस्पृष्टं मारुतेनैव शुध्यति ॥
१।५।९।८कख खलक्षेत्रेषु यद् धान्यं कूपवापीषु यज् जलम् ।
१।५।९।८गघ अभोज्याद् अपि तद् भोज्यं यच् च गोष्ठगतं पयः ॥
१।५।९।९कख त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् ।
१।५।९।९गघ अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥
१।५।९।१०कख आपः पवित्रं भूमिगता गोतृप्तिर् यासु जायते ।
१।५।९।१०गघ अव्याप्ताश् चेद् अमेध्येन गन्धवर्णरसान्विताः ॥
१।५।९।११ भूमेस् तु संमार्जनप्रोक्षणोपलेपनावस्तरणोल्लेखनैर्यथास्थानं दोषविशेषात् प्रायत्यम् ॥
१।५।९।१२ अथाप्य् उदाहरन्ति ॥
१।५।१०।१कख गोचर्ममात्रम् अब्बिन्दुर् भूमेः शुध्यति पातितः ।
१।५।१०।१गघ समूढम् असमूढं वा यत्रामेध्यं न लक्ष्यते ॥ इति ॥
१।५।१०।२ परोक्षम् अधिश्रितस्यान्नस्यावद्योत्याभ्युक्षणम् ॥
१।५।१०।३ तथापणेयानां च भक्षाणाम् ॥
१।५।१०।४ बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर्जुषन्त इति ॥
१।५।१०।५-१कख शुचेर् अश्रद्दधानस्य श्रद्दधानस्य चाशुचेः ।
१।५।१०।५-१गघ मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन् ॥
१।५।१०।५-२कख प्रजापतिस् तु तान् आह न समं विषमं हि तत् ।
१।५।१०।५-२गघ हतम् अश्रद्दधानस्य श्रद्धापूतं विशिष्यते ॥ इति ॥
१।५।१०।६-१ अथाप्य् उदाहरन्ति ।
१।५।१०।६-२कख अश्रद्धा परमः पाप्मा श्रद्धा हि परमं तपः ।
१।५।१०।६-२गघ तस्माद् अश्रद्धया दत्तं हविर् नाश्नन्ति देवताः ॥
१।५।१०।७ इष्ट्वा दत्त्वापि वा मूर्खः स्वर्गं नहि स गच्छति ॥
१।५।१०।८कख शङ्काविहतचारित्रो यः स्वाभिप्रायम् आश्रितः ।
१।५।१०।८गघ शास्त्रातिगः स्मृतो मूर्खो धर्मतन्त्रोपरोधनात् ॥ इति ॥
१।५।१०।९ शाकपुष्पफलमूलौषधीनां तु प्रक्षालनम् ॥
१।५।१०।१० शुष्कं तृणम् अयाज्ञिकं काष्ठं लोष्टं वातिरस्कृत्याहोरात्रयोर् उदग्दक्षिणामुखः प्रवृत्य शिर उच्चरेदवमेहेद् वा ॥
१।५।१०।११ मूत्रे मृदाद्भिः प्रक्षालनम् ॥
१।५।१०।१२ त्रिः पाणेः ॥
१।५।१०।१३ तद्वत् पुरीषे ॥
१।५।१०।१४ पर्यायात् त्रिस् त्रिः पायोः पाणेश् च ॥
१।५।१०।१५ मूत्रवद् रेतस उत्सर्गे ॥
१।५।१०।१६ नीवीं विस्रस्य परिधायाप उपस्पृशेत् ॥
१।५।१०।१७ आर्द्रं तृणं गोमयं भूमिं वा समुपस्पृशेत् ॥
१।५।१०।१८ नाभेर् अधः स्पर्शनं कर्मयुक्तो वर्जयेत् ॥
१।५।१०।१९ ऊर्ध्वं वै पुरुषस्य नाभ्यै मेध्यम् अवाचीनम् अमेध्यम् इतिश्रुतिः ॥
१।५।१०।२० शूद्राणाम् आर्याधिष्ठितानाम् अर्धमासि मासि वा वपनमार्यवदाचमनकल्पः ॥
१।५।१०।२१ वैश्यः कुसीदम् उपजीवेत् ॥
१।५।१०।२२ पञ्चविंशतिस् त्व् एव पञ्चमाषिकी स्यात् ॥
१।५।१०।२३-१ अथाप्य् उदाहरन्ति ।
१।५।१०।२३-२कख यः समर्घम् ऋणं गृह्य महार्घं संप्रयोजयेत् ।
१।५।१०।२३-२गघ स वै वार्द्धुषिको नाम सर्वधर्मेषु गर्हितः ॥
१।५।१०।२३-३कख वृद्धिं च भ्रूणहत्यां च तुलया समतोलयत् ।
१।५।१०।२३-३गघ अतिष्ठद् भ्रूणहा कोट्यां वार्द्धुषिः समकम्पत ॥ इति ॥
१।५।१०।२४कख गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
१।५।१०।२४गघ प्रेष्यान् वार्द्धुषिकांश् चैव विप्राञ् छूद्रवद् आचरेत् ॥
१।५।१०।२५ कामं तु परिलुप्तकृत्याय कदर्याय नास्तिकाय पापीयसेपूर्वौ दद्याताम् ॥
१।५।१०।२६कख अयज्ञेनाविवाहेन वेदस्योत्सादनेन च ।
१।५।१०।२६गघ कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥
१।५।१०।२७कख ब्राह्मणातिक्रमो नास्ति मूर्खे मन्त्रविवर्जिते ।
१।५।१०।२७गघ ज्वलन्तम् अग्निम् उत्सृज्य नहि भस्मनि हूयते ॥
१।५।१०।२८कख गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया ।
१।५।१०।२८गघ कुलान्य् अकुलतां यान्ति यानि हीनानि मन्त्रतः ॥
१।५।१०।२९कख मन्त्रतस् तु समृद्धानि कुलान्य् अल्पधनान्य् अपि ।
१।५।१०।२९गघ कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥
१।५।१०।३०कख वेदः कृषिविनाशाय कृषिर् वेदविनाशिनी ।
१।५।१०।३०गघ शक्तिमान् उभयं कुर्याद् अशक्तस् तु कृषिं त्यजेत् ॥
१।५।१०।३१कख न वै देवान् पीवरोऽसंयतात्मा रोरूयमाणः ककुदीसमश्नुते ।
१।५।१०।३१गघ चलत्तुन्दी रभसः कमवादी कृशास इत्य् अणवस् तत्रयान्ति ॥
१।५।१०।३२कख यद् यौवने चरति विभ्रमेण सद् वासद् वा यादृशं वायदा वा ।
१।५।१०।३२गघ उत्तरे चेद् वयसि साधुवृत्तस् तद् एवास्य भवतिनेतराणि ॥
१।५।१०।३३कख शोचेत मनसा नित्यं दुष्कृतान्य् अनुचिन्तयन् ।
१।५।१०।३३गघ तपस्वी चाप्रमादी च ततः पापात् प्रमुच्यते ॥
१।५।१०।३४कख स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
१।५।१०।३४गघ न तैर् उच्छिष्टभावः स्यात् तुल्यास् ते भूमिगैः सह ॥ इति ॥
१।५।११।१ सपिण्डेष्व् आ दशाहम् आशौचम् इति जननमरणयोर् अधिकृत्यवदन्त्य् ऋत्विग्दीक्षितब्रह्मचारिवर्जम् ॥
१।५।११।२ सपिण्डता त्व् आ सप्तमात् सपिण्डेषु ॥
१।५।११।३ आ सप्तमासाद् आ दन्तजननाद् वोदकोपस्पर्शनम् ॥
१।५।११।४कख पिण्डोदकक्रिया प्रेते नात्रिवर्षे विधीयते ।
१।५।११।४गघ आ दन्तजननाद् वापि दहनं च न कारयेत् ॥
१।५।११।५ अप्रत्तासु च कन्यासु ॥
१।५।११।६ प्रत्तास्व् एके ह कुर्वते ॥
१।५।११।७ लोकसंग्रहणार्थं हि तद् अमन्त्राः स्त्रियो मताः ॥
१।५।११।८कख स्त्रीणाम् अकृतविवाहानां त्र्यहाच् छुध्यन्ति बान्धवाः ।
१।५।११।८गघ यथोक्तेनैव कल्पेन शुध्यन्ति च सनाभय इति ॥
१।५।११।९ अपि च प्रपितामहः पितामहः पिता स्वयं सोदर्या भ्रातरःसवर्णायाः पुत्रः पौत्रः प्रपौत्रस् तत्पुत्रवर्जं तेषां चपुत्रपौत्रम् अविभक्तदायम् सपिण्डान् आचक्षते ॥
१।५।११।१० विभक्तदायान् अपि सकुल्यान् आचक्षते ॥
१।५।११।११ असत्स्व् अन्येषु तद्गामी ह्य् अर्थो भवति ॥
१।५।११।१२ सपिण्डाभावे सकुल्यः ॥
१।५।११।१३ तदभावे पिताचार्योऽन्तेवास्य् ऋत्विग् वा हरेत् ॥
१।५।११।१४ तदभावे राजा तद्स्वं त्रैविद्यवृद्धेभ्यःसंप्रयच्छेत् ॥ [k: सत्स्वं]
१।५।११।१५ न त्व् एव कदा चित् स्वयं राजा ब्राह्मणस्वम् आददीत ॥
१।५।११।१६-१ अथाप्य् उदाहरन्ति ।
१।५।११।१६-२कख ब्रह्मस्वं पुत्रपौत्रघ्नं विषम् एकाकिनं हरेत् ।
१।५।११।१६-२गघ न विषं विषम् इत्य् आहुर् ब्रह्मस्वं विषम् उच्यते ॥
१।५।११।१६-३ तस्माद् राजा ब्राह्मणस्वं नाददीत । परमं ह्य् एतद्विषं यद् ब्राह्मणस्वम् इति ॥
१।५।११।१७ जननमरणयोः संनिपाते समानो दशरात्रः ॥
१।५।११।१८ अथ यदि दशरात्राः संनिपतेयुर् आद्यं दशरात्रमाशौचम् आ नवमाद् दिवसात् ॥
१।५।११।१९ जनने तावन् मातापित्रोर् दशाहम् आशौचम् ॥
१।५।११।२० मातुर् इत्य् एके तत्परिहरणात् ॥
१।५।११।२१ पितुर् इत्य् अपरे शुक्रप्राधान्यात् ॥
१।५।११।२२ अयोनिजा ह्य् अपि पुत्राः श्रूयन्ते ॥
१।५।११।२३ मातापित्रोर् एव तु संसर्गसामान्यात् ॥
१।५।११।२४ मरणे तु यथाबालं पुरस्कृत्य यज्ञोपवीतान्य् अपसव्यानिकृत्वा तीर्थम् अवतीर्य सकृत् सकृत् त्रिर् निमज्ज्योन्मज्ज्योत्तीर्याचम्य तत्प्रत्ययम् उदकम् आसिच्यात एवोत्तीर्याचम्य गृहद्वार्यङ्गारम् उत्कम् इति संस्पृश्याक्षारलवणाशिनो दशाहं कटमासीरन् ॥
१।५।११।२५ एकादश्यां द्वादश्यां वा श्राद्धकर्म ॥
१।५।११।२६ शेषक्रियायां लोकोऽनुरोद्धव्यः ॥
१।५।११।२७ अत्राप्य् असपिण्डेषु यथासन्नं त्रिरात्रम् अहोरात्रमेकाहम् इति कुर्वीत ॥
१।५।११।२८ आचार्योपाध्यायतत्पुत्रेषु त्रिरात्रम् ॥
१।५।११।२९ ऋत्विजां च ॥
१।५।११।३० शिष्यसतीर्थ्यसब्रह्मचारिषु त्रिरात्रम् अहोरात्रमेकाहम् इति कुर्वीत ॥
१।५।११।३१ गर्भस्रावे गर्भमाससंमिता रात्रयः स्त्रीणाम् ॥
१।५।११।३२ परशवोपस्पर्शनेऽनभिसंधिपूर्वं सचेलोऽपःस्पृष्ट्वा सद्यः शुद्धो भवति ॥
१।५।११।३३ अभिसंधिपूर्वं त्रिरात्रम् ॥
१।५।११।३४ ऋतुमत्यां च ॥
१।५।११।३५ यस् ततो जायते सोऽभिशस्त इति व्याख्यातान्य् अस्यै व्रतानि ॥
१।५।११।३६कख वेदविक्रयिणं यूपं पतितं चितिम् एव च ।
१।५।११।३६गघ स्पृष्ट्वा समाचरेत् स्नानं श्वानं चण्डालम् एव च ॥
१।५।११।३७कख ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे ।
१।५।११।३७गघ कृमिर् उत्पद्यते तत्र प्रायश्चित्तं कथं भवेत् ॥
१।५।११।३८कख गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
१।५।११।३८गघ त्र्यहं स्नात्वा च पीत्वा च कृमिदष्टः शुचिर् भवेत् ॥
१।५।११।३९ शुनोपहतः सचेलोऽवगाहेत ॥
१।५।११।४० प्रक्षाल्य वा तं देशम् अग्निना संस्पृश्य पुनः प्रक्षाल्यपादौ चाचम्य प्रयतो भवति ॥
१।५।११।४१-१ अथाप्य् उदाहरन्ति ।
१।५।११।४१-२कख शुना दष्टस् तु यो विप्रो नदीं गत्वा समुद्रगाम् ।
१।५।११।४१-२गघ प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥
१।५।११।४१-३कख सुवर्णरजताभ्यां वा गवां शृङ्गोदकेन वा ।
१।५।११।४१-३गघ नवैश् च कलशैः स्नात्वा सद्य एव शुचिर् भवेत् ॥ इति ॥
१।५।१२।१ अभक्ष्याः पशवो ग्राम्याः ॥
१।५।१२।२ क्रव्यादाः शकुनयश् च ॥
१।५।१२।३ तथा कुक्कुटसूकरम् ॥
१।५।१२।४ अन्यत्राजाविभ्यः ॥
१।५।१२।५ भक्ष्याः श्वाविद्गोधाशशशल्यककच्छपखङ्गाःखङ्गवर्जाः पञ्च पञ्चनखाः ॥
१।५।१२।६ तथा ऋश्यहरिणपृषतमहिषवराहकुलुङ्गाःकुलुङ्गवर्जाः पञ्च द्विखुरिणः ॥
१।५।१२।७ पक्षिणस्तित्तिरिकपोतकपिञ्जलवार्ध्राणसमयूरवारणावारणवर्जाः पञ्च विष्किराः ॥
१।५।१२।८ मत्स्याः सहस्रदंष्ट्रश् चिलिचिमोवर्मिबृहच्छिरोमशकरिरोहितराजीवाः ॥
१।५।१२।९ अनिर्दशाहसंधिनीक्षीरम् अपेयम् ॥
१।५।१२।१० विवत्सान्यवत्सयोश् च ॥
१।५।१२।११ आविकम् औष्ट्रिकम् ऐकशफम् अपेयम् ॥
१।५।१२।१२ अपेयपयःपाने कृच्छ्रोऽन्यत्र गव्यात् ॥
१।५।१२।१३ गव्ये तु त्रिरात्रम् उपवासः ।
१।५।१२।१४ पर्युषितंशाकयूषमांससर्पिःशृतधानागुडदधिमधुसक्तुवर्जम् ॥
१।५।१२।१५ शुक्तानि तथाजातो गुडः ॥
१।५।१२।१६ श्रावण्यां पौर्णमास्याम् आषाढ्यां वोपाकृत्य तैष्यांमाघ्यां वोत्सृजेयुः । उत्सृजेयुः ॥
१।६।१३।१ शुचिम् अध्वरं देवा जुषन्ते ॥
१।६।१३।२ शुचिकामा हि देवाः शुचयश् च ॥
१।६।१३।३-१ तद् एशाभिवदति । [ओम्]
१।६।१३।३-२कख शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरंशुचिभ्यः ।
१।६।१३।३-२गघ ऋतेन सत्यम् ऋतसाप आयञ् छुचिजन्मानः शुचयःपावकाः ॥ इति ॥ {ऋव् ७।५६।१२}
१।६।१३।४-१ अहतं वाससां शुचि ।
१।६।१३।४-२ तस्माद् यत् किं चेज्यासंयुक्तं स्यात् सर्वं तद् अहतैर्वासोभिः कुर्यात् ॥
१।६।१३।५ प्रक्षालितोपवातान्य् अक्लिष्टानि वासांसि पत्नीयजमानावृत्विजश् च परिदधीरन् ॥
१।६।१३।६ एवं प्रक्रमाद् ऊर्ध्वम् ॥
१।६।१३।७ दीर्घसोमेषु सत्त्रेषु चैवम् ॥
१।६।१३।८ यथासमाम्नातं च ॥
१।६।१३।९ यथैतद् अभिचरणीयेष्व् इष्टिपशुसोमेषु लोहितोष्णीषालोहितवाससश् च र्त्विजः प्रचरेयुश् चित्रवाससश् चित्रासङ्गावृषाकपाव् इति च ॥
१।६।१३।१० अग्न्याधाने क्षौमाणि वासांसि तेषाम् अलाभे कार्पासिकान्यौर्णानि वा भवन्ति ॥
१।६।१३।११ मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां मृदाद्भिरिति प्रक्षालनम् ॥
१।६।१३।१२ वासोवत् तार्प्यवल्कलानाम् [k: वृकलानाम्] ॥
१।६।१३।१३ वल्कलवत् कृष्णाजिनानाम् ॥
१।६।१३।१४ न परिहितम् अधिरूढम् अप्रक्षालितं प्रावरणम् ॥
१।६।१३।१५ नापल्पूलितं मनुष्यसंयुक्तं देवत्रा युञ्ज्यात् ॥
१।६।१३।१६ घनाया भूमेर् उपघात उपलेपनम् ॥
१।६।१३।१७ सुषिरायाः कर्षणम् ॥
१।६।१३।१८ क्लिन्नाया मेध्यम् आहृत्य प्रच्छादनम् ॥
१।६।१३।१९ चतुर्भिः शुध्यते भूमिर् गोभिर् आक्रमणात् खननाद्दहनाद् अभिवर्षणात् ॥
१।६।१३।२० पञ्चमाच् चोपलेपनात् षष्ठात् कालात् ॥
१।६।१३।२१ असंस्कृतायां भूमौ न्यस्तानां तृणानां प्रक्षालनम् ॥
१।६।१३।२२ परोक्षोपहतानाम् अभ्युक्षणम् ॥
१।६।१३।२३ एवं क्षुद्रसमिधाम् ॥
१।६।१३।२४ महतां काष्ठानाम् उपघाते प्रक्षाल्यावशोषणम् ॥
१।६।१३।२५ बहूनां तु प्रोक्षणम् ॥
१।६।१३।२६ दारुमयाणां पात्राणाम् उच्छिष्टसमन्वारब्धानामवलेखनम् ॥
१।६।१३।२७ उच्छिष्टलेपोपहतानाम् अवतक्षणम् ॥।
१।६।१३।२८ मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानाम् उत्सर्गः ॥
१।६।१३।२९ तद् एतद् अन्यत्र निर्देशात् ॥
१।६।१३।३० यथैतद् अग्निहोत्रे घर्मोच्छिष्टे च दधिघर्मे चकुण्डपायिनाम् अयने चोत्सर्गिणाम् अयने च दाक्षायणयज्ञेचेडादधे च चतुश्चक्रे च ब्रह्मौदनेषु चतेषु सर्वेषु दर्भैर् अद्भिः प्रक्षालनम् ॥ [क् चैडादधे]
१।६।१३।३१ सर्वेष्व् एव सोमभक्षेष्व् अद्भिर् एव मार्जालीये प्रक्षालनम् ॥
१।६।१३।३२ मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानाम् उत्सर्गः ॥
१।६।१४।१ मृन्मयानां पात्राणाम् उच्छिष्टसमन्वारब्धानाम् अवकूलनम् ॥
१।६।१४।२ उच्छिष्टलेपोपहतानां पुनर्दहनम् ॥
१।६।१४।३ मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानाम् उत्सर्गः ॥
१।६।१४।४ तैजसानां पात्राणां पूर्ववत् परिमृष्टानां प्रक्षालनम् ॥
१।६।१४।५ परिमार्जनद्रव्याणि गोशकृन्मृद्भस्मेति ॥
१।६।१४।६ मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां पुनर्करणम् ॥
१।६।१४।७ गोमूत्रे वा सप्तरात्रं परिशायनं महानद्यां वा ॥ [k: -द्यां वैवम्]
१।६।१४।८ एवम् अश्ममयानाम् ॥
१।६।१४।९ अलाबुबिल्वविनाडानां गोवालैः परिमार्जनम् ॥
१।६।१४।१० नडवेणुशरकुशव्यूतानां गोमयेनाद्भिर् इति प्रक्षालनम् ॥
१।६।१४।११ व्रीहीणाम् उपघाते प्रक्षाल्यावशोषणम् ॥
१।६।१४।१२ बहूनां तु प्रोक्षणम् ॥
१।६।१४।१३ तण्डुलानाम् उत्सर्गः ॥
१।६।१४।१४ एवं सिद्धहविषाम् ॥
१।६।१४।१५ महतां श्ववायसप्रभृत्युपहतानां तं देशंपुरुषान्नम् उद्धृत्य । पवमानः सुवर्जन इति । एतेनानुवाकेनाभ्युक्षणम् ॥
१।६।१४।१६ मधूदके पयोविकारे च पात्रात् पात्रान्तरानयनेशौचम् ॥
१।६।१४।१७ एवं तैलसर्पिषी उच्छिष्टसमन्वारब्धेउदकेऽवधायोपयोजयेत् ॥
१।६।१४।१८ अमेध्याभ्याधाने समारोप्याग्निं मथित्वा पवमानेष्टिः ॥
१।६।१४।१९ शौचदेशमन्त्रावृदर्थद्रव्यसंस्कारकालभेदेषुपूर्वपूर्वप्राधान्यम् । पूर्वपूर्वप्राधान्यम् ॥
१।७।१५।१ उत्तरत उपचारो विहारः ॥
१।७।१५।२ तथापवर्गः ॥
१।७।१५।३ विपरीतं पित्र्येषु ॥
१।७।१५।४ पादोपहतं प्रक्षालयेत् ॥
१।७।१५।५ अङ्गम् उपस्पृश्य सिचं वाप उपस्पृशेत् ॥
१।७।१५।६ एवंछेदनभेदनखनननिरसनपित्र्यराक्षसनैरृतरौद्राभिचरणीयेषु ॥
१।७।१५।७ न मन्त्रवता यज्ञाङ्गेनात्मानम् अभिपरिहरेत् ॥
१।७।१५।८ अभ्यन्तराणि यज्ञाङ्गानि ॥
१।७।१५।९ बाह्या ऋत्विजः ॥
१।७।१५।१० पत्नीयजमानाव् ऋत्विग्भ्योऽन्तरतमौ ॥
१।७।१५।११ यज्ञान्गेभ्य आज्यम् आज्याद् धवींषि हविर्भ्यः पशुः पशोःसोमः सोमाद् अग्नयः ॥
१।७।१५।१२ यथाकर्म र्त्विजो न विहाराद् अभिपर्यावर्तेरन् ॥
१।७।१५।१३ प्राङ्मुखश् चेद् दक्षिणम् अंसम् अभिपर्यावर्तेत ॥
१।७।१५।१४ प्रत्यङ्मुखः सव्यम् ॥
१।७।१५।१५ अन्तरेण चात्वालोत्करौ यज्ञस्य तीर्थम् ॥
१।७।१५।१६ अचात्वाल आहवनीयोत्करौ ॥
१।७।१५।१७ ततः कर्तारो यजमानः पत्नी च प्रपद्येरन् ॥
१।७।१५।१८ विसंस्थिते ॥
१।७।१५।१९ संस्थिते च संचरोऽनुत्करदेशात् ॥ [k:ऽनूत्करदेशात्]
१।७।१५।२० नाप्रोक्षितम् अप्रपन्नं क्लिन्नं काष्ठं समिधंवाभ्यादध्यात् ॥
१।७।१५।२१ अग्रेणाहवनीयं ब्रह्मयजमानौ प्रपद्येते ॥
१।७।१५।२२ जघनेनाहवनीयम् इत्य् एके ॥
१।७।१५।२३ दक्षिणेनाहवनीयं ब्रह्मायतनं तदपरेण यजमानस्य ॥
१।७।१५।२४ उत्तरां श्रोणिम् उत्तरेण होतुः ॥
१।७।१५।२५ उत्कर आग्नीध्रस्य ॥
१।७।१५।२६ जघनेन गार्हपत्यं पत्न्याः ॥
१।७।१५।२७ तेषु काले काल एव दर्भान् संस्तृणाति ॥
१।७।१५।२८ एकैकस्य चोदकमण्डलुर् उपात्तः स्याद् आचमनार्थः ॥
१।७।१५।२९ व्रतोपेतो दीक्षितः स्यात् ॥
१।७।१५।३० न परपापं वदेन् न क्रुध्येन् न रोदेन् मूत्रपुरीषेनावेक्षेत ॥
१।७।१५।३१ अमेध्यं दृष्ट्वा जपति । अबद्धं मनो दरिद्रं चक्षुःसूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीर् इति ॥
१।७।१५।३२ अथ यद्य् एनम् अभिवर्षति । उन्दतीर् बलं धत्तौजो धत्तबलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेति ॥ [k omits]
१।८।१६।१ चत्वारो वर्णा ब्राह्मणक्षत्रियविट्शूद्राः ॥
१।८।१६।२ तेषां वर्णानुपूर्व्येण चतस्रो भार्या ब्राह्मणस्य ॥
१।८।१६।३ तिस्रो राजन्यस्य ॥
१।८।१६।४ द्वे वैश्यस्य ॥
१।८।१६।५ एका शूद्रस्य ॥
१।८।१६।६ तासु पुत्राः सवर्णानन्तरासु सवर्णाः ॥
१।८।१६।७ एकान्तरद्व्यन्तरास्व् अम्बष्ठौग्रनिषादाः ॥
१।८।१६।८ प्रतिलोमास्व् आयोगवमागधवैणक्षत्तृपुल्कसकुक्कुटवैदेहकचण्डालः ॥ [k: क्षत्तु]
१।८।१६।९ अम्बष्ठात् प्रथमायां श्वपाकः ॥
१।८।१६।१० उग्राद् द्वितीयायां वैणः ॥
१।८।१६।११ निषादात् तृतीयायां पुल्कसः ॥
१।८।१६।१२ विपर्यये कुक्कुटः ॥
१।८।१६।१३ निषादेन निषाद्याम् आ पञ्चमाज् जातोऽपहन्ति शूद्रताम् ॥
१।८।१६।१४ तम् उपनयेत् षष्ठं याजयेत् ॥
१।८।१६।१५ सप्तमोऽविकृतबीजः समबीजः सम इत्य् एषां संज्ञाःक्रमेण निपतन्ति ॥ [क् तोगेथेर् wइथ् १।८।१६।१४: तम् उपनयेत् षष्ठंयाजयेत् सप्तमोऽविकृतो भवति]
१।८।१६।१६-१कख त्रिषु वर्णेषु सादृश्याद् अव्रतो जनयेत् तु यान् । [k omits]
१।८।१६।१६-१गघ तान् सावित्रीपरिभ्रष्टान् व्रात्यान् आहुर् मनीषिणः । [k omits]
१।८।१६।१६-२ व्रात्यान् आहुर् मनीषिण इति ॥ [k omits]
१।९।१७।१ रथकाराम्बष्ठसूतोग्रमागधायोगववैणक्षत्तृपुल्कसकुक्कुटवैदेहकचण्डालश्वपाकप्रभृतयः ॥ [k omits]
१।९।१७।२ तत्र सवर्णासु सवर्णाः ॥
१।९।१७।३ ब्राह्मणात् क्षत्रियायां ब्राह्मणो वैश्यायाम् अम्बष्ठःशूद्रायां निषादः ॥
१।९।१७।४ पारशव इत्य् एके ॥
१।९।१७।५ क्षत्रियाद् वैश्यायां क्षत्रियः शूद्रायाम् उग्रः ॥
१।९।१७।६ वैश्याच् छूद्रायां रथकारः ॥
१।९।१७।७ शूद्राद् वैश्यायां मागधः क्षत्रियायां क्षत्ताब्राह्मण्यां चण्डालः ॥
१।९।१७।८ वैश्यात् क्षत्रियायाम् आयोगवो ब्राह्मण्यां वैदेहकः । क्षत्रियाद् ब्राह्मण्यां सूतः ॥
१।९।१७।९ तत्राम्बष्ठोऽग्रयोः संयोगे भवत्य् अनुलोमः ॥ [k: अत्र]
१।९।१७।१० क्षत्तृवैदेहकयोः प्रतिलोमः ॥
१।९।१७।११ उग्राज् जातः क्षत्त्र्यां श्वपाकः ॥
१।९।१७।१२ वैदेहकाद् अम्बष्ठायां वैणः ॥
१।९।१७।१३ निषदाच् छूद्रायां पुल्कसः ॥
१।९।१७।१४ शूद्रान् निषाद्यां कुक्कुटः ॥
१।९।१७।१५ वर्णसंकराद् उत्पन्नान् व्रात्यान् आहुर् मनीषिणः । व्रात्यान् आहुर् मनीषिण इति ॥
१।१०।१८।१ षड्भागभृतो राजा रक्षेत् प्रजाः ॥
१।१०।१८।२ ब्रह्म वै स्वं महिमानं ब्राह्मणेष्व् अदधादध्ययनाध्यापनयजनयाजनदानप्रतिग्रहसंयुक्तं वेदानांगुप्त्यै ॥
१।१०।१८।३ क्षत्रे बलमध्ययनयजनदानशस्त्रकोशभूतरक्षणसंयुक्तं क्षत्रस्यवृद्ध्यै ॥
१।१०।१८।४ विट्स्वध्ययनयजनदानकृषिवाणिज्यपशुपालनसंयुक्तं कर्मणांवृद्ध्यै ॥
१।१०।१८।५ शूद्रेषु पूर्वेषां परिचर्याम् ॥
१।१०।१८।६ पत्तो ह्य् अषृज्यन्तेति ॥
१।१०।१८।७ सर्वतोधुरं पुरोहितं वृणुयात् ॥
१।१०।१८।८ तस्य शासने वर्तेत ॥
१।१०।१८।९ संग्रामे न निवर्तेत ॥
१।१०।१८।१० न कर्णिभिर् न दिग्धैः प्रहरेत् ॥
१।१०।१८।११ भीतमत्तोन्मत्तप्रमत्तविसंनाहस्त्रीबालवृद्धब्राह्मणैर् नयुध्येत ॥
१।१०।१८।१२ अन्यत्राततायिनः ॥
१।१०।१८।१३-१ अथाप्य् उदाहरन्ति ।
१।१०।१८।१३-२कख अध्यापकं कुले जातं यो हन्याद् आततायिनम् ।
१।१०।१८।१३-२गघ न तेन भ्रूणहा भवति मन्युस् तन् मन्युम् ऋच्छति ॥ इति ॥
१।१०।१८।१४ सामुद्रशुल्को वरं रूपम् उद्धृत्य दशपणं शतम् ॥
१।१०।१८।१५ अन्येषाम् अपि सारानुरूप्येणानुपहत्य धर्म्यं प्रकल्पयेत् ॥
१।१०।१८।१६ अब्राह्मणस्य प्रनष्टस्वामिकं रिक्थं संवत्सरंपरिपाल्य राजा हरेत् ॥
१।१०।१८।१७ अवध्यो वै ब्राह्मणः सर्वापराधेषु ॥
१।१०।१८।१८ ब्राह्मणस्यब्रह्महत्यागुरुतल्पगमनसुवर्णस्तेयसुरापानेषु कुसिन्धभगसृगालसुराध्वजांस् तप्तेनायसा ललाटेऽङ्कयित्वा विषयान् निर्धमनम् ॥
१।१०।१८।१९ क्षत्रियादीनां ब्राह्मणवधे वधः सर्वस्वहरणम् च ॥
१।१०।१८।२० तेषाम् एव तुल्यापकृष्टवधे यथाबलम् अनुरूपान्दण्डान् प्रकल्पयेत् ॥
१।१०।१९।१ क्षत्रियवधे गोसहस्रम् ऋषभाधिकं राज्ञ उत्सृजेद्वैरनिर्यातनार्थम् [k: वैरनिर्यातनाम्] ॥
१।१०।१९।२ शतं वैश्ये दश शूद्र ऋषभश् चात्राधिकः ॥
१।१०।१९।३ शूद्रवधेन स्त्रीवधो गोवधश् चव्याख्यातोऽन्यत्रात्रेय्या वधाद् धेन्वनडुहोश् च ॥
१।१०।१९।४ वधे धेन्वनडुहोर् अन्ते चान्द्रायणं चरेत् ॥
१।१०।१९।५ आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः ॥
१।१०।१९।६ हंसभासबर्हिणचक्रवाकप्रचलाककाकोलूकमण्डूक[k:कण्टक]डिड्डिक[k: डिड्डिकमण्डूक]डेरिकाश्वबभ्रुनकुलादीनांवधे शूद्रवत् ॥
१।१०।१९।७ लोकसंग्रहणार्थं यथा दृष्टं श्रुतं वा साक्षीसाक्ष्यं ब्रूयात् ॥
१।१०।१९।८-१कख पादोऽधर्मस्य कर्तारं पादो गच्छति साक्षिणम् ।
१।१०।१९।८-१गघ पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥
१।१०।१९।८-२कख राजा भवत्य् अनेनाश् च मुच्यन्ते च सभासदः ।
१।१०।१९।८-२गघ एनो गच्छति कर्तारं यत्र निन्द्यो ह निन्द्यते ॥
१।१०।१९।९ साक्षिणं चैवम् उद्दिष्टं यत्नात् पृच्छेद् विचक्षणः ॥
१।१०।१९।१०कख यां रात्रिम् अजनिष्ठास् त्वं यां च रात्रिं मरिष्यसि ।
१।१०।१९।१०गघ एतयोर् अन्तरा यत् ते सुकृतं सुकृतं भवेत् ।
१।१०।१९।१०ए तत् सर्वं राजगामि स्याद् अनृतं ब्रुवतस् तव ॥
१।१०।१९।११कख त्रीन् एव च पितृ̄न् हन्ति त्रीन् एव च पितामहान् ।
१।१०।१९।११गघ सप्त जातान् अजातांश् च साक्षी साक्ष्यं मृषा वदन् ॥
१।१०।१९।१२-१कख हिरण्यार्थे अनृते हन्ति त्रीन् एव च पितामहान् ।
१।१०।१९।१२-१गघ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ॥
१।१०।१९।१२-२कख शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ।
१।१०।१९।१२-२गघ सर्वं भूम्यनृते हन्ति साक्षी साक्ष्यं मृषा वदन् ॥
१।१०।१९।१३ चत्वारो वर्णाः पुत्रिणः साक्षिणः स्युर् अन्यत्रश्रोत्रियराजन्यप्रव्रजितमानुष्यहीनेभ्यः ॥
१।१०।१९।१४ स्मृतौ प्रधानतः प्रतिपत्तिः ॥
१।१०।१९।१५ अतोऽन्यथा कर्तपत्यम् ॥
१।१०।१९।१६ द्वादशरात्रं तप्तं पयः पिबेत् कूश्माण्डैर् वाजुहुयाद् इति । कूश्माण्डैर् वा जुहुयाद् इति ॥
१।११।२०।१ अष्टौ विवाहाः ॥
१।११।२०।२ श्रुतशीले विज्ञाय ब्रह्मचारिणेऽर्थिने दीयते स ब्राह्मः ॥
१।११।२०।३ आच्छाद्यालंकृत्य । एषा सह धर्मश्[k: धर्मं]चर्यताम् इति । प्राजाप्त्यः ॥
१।११।२०।४ पूर्वां लाजाहुतिं हुत्वा गोभ्यां सहार्षः ॥ [k:पूर्वां लाजाहुतिं हुत्वा गोमिथुनं कन्यावते दत्त्वा ग्रहणमार्षः]
१।११।२०।५ दक्षिणासु नीयमानास्व् अन्तर्वेद्य् ऋत्विजे स दैवः ॥
१।११।२०।६ धनेनोपतोष्यासुरः ॥ [k: सकामेन सकामाया मिथस्संयोगो गान्धर्वः]
१।११।२०।७ सकामेन सकामाया मिथः संयोगो गान्धर्वः ॥ [k:धनेनोपतोष्यासुरः]
१।११।२०।८ प्रसह्य हरणाद् राक्षसः ॥
१।११।२०।९ सुप्तां मत्तां प्रमत्तां वोपगच्छेद् इति पैशाचः ॥
१।११।२०।१० तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्व् अपि पूर्वः पूर्वःश्रेयान् ॥
१।११।२०।११ उत्तरेषाम् उत्तर उत्तरः पापीयान् ॥ [k: उत्तरोत्तरः]
१।११।२०।१२ अत्रापि षष्ठसप्तमौ क्षत्रधर्मानुगतौ तत्प्रत्ययत्वात् क्षत्रस्य ॥
१।११।२०।१३ पञ्चमाष्टमौ वैश्यशूद्राणाम् ॥
१।११।२०।१४ अयन्त्रितकलत्रा हि वैश्यशूद्रा भवन्ति ॥
१।११।२०।१५ कर्षणशुश्रूषाधिकृतत्वात् ॥
१।११।२०।१६ गान्धर्वम् अप्य् एके प्रशंसन्ति सर्वेषां स्नेहानुगतत्वात् ॥
१।११।२१।१ यथा युक्तो विवाहस् तथा युक्ता प्रजा भवतीतिविज्ञायते ॥
१।११।२१।२-१ अथाप्य् उदाहरन्ति । [क् अद्द्स्: साधवस् त्रिपुरुषम् आर्षाद्दश दैवाद् दश प्राजापत्याद् दश पूर्वान् दशापरान् आत्मानं चब्राह्मीपुत्र इति विज्ञायते ॥ वेदस्वीकरणशक्तिर् अप्य् एवंविधानामेव पुत्राणाम् भवतीति ॥]
१।११।२१।२-२कख क्रीता द्रव्येण या नारी सा न पत्नी विधीयते ।
१।११।२१।२-२गघ सा न दैवे न सा पित्र्ये दासीं तां काश्यपोऽब्रवीत् ॥
१।११।२१।३-१कख शुल्केन ये प्रयच्छन्ति स्वसुतां लोभमोहिताः ।
१।११।२१।३-१गघ आत्मविक्रयिणः पापा महाकिल्बिषकारकाः ॥
१।११।२१।३-२कख पतन्ति नरके घोरे घ्नन्ति चा सप्तमं कुलम् ।
१।११।२१।३-२गघ गमनागमनं चैव सर्वं शुल्के विधीयते ॥
१।११।२१।४ पौर्णमस्यष्टकामावास्याग्न्युत्पातभूमिकम्पश्मशानदेशपतिश्रोत्रियैकतीर्थप्रयाणेष्व् अहोरात्रम् अनध्यायः ॥
१।११।२१।५ वाते पूतिगन्धे नीहारे चनृत्तगीतवादित्ररुदितसामशब्देषु तावन्तं कालम् ॥
१।११।२१।६ स्तनयित्नुवर्षविद्युद्संनिपाते त्र्यहम् अनध्यायोऽन्यत्रवर्षाकालात् ॥
१।११।२१।७ वर्षाकालेऽपि वर्षवर्जम् अहोरात्रयोश् च तत्कालम् ॥
१।११।२१।८ पित्र्यप्रतिग्रहभोजनयोश् च तद्दिवसशेषम् ॥
१।११।२१।९ भोजनेष्व् आ जरणम् ॥
१।११।२१।१० पाणिमुखो हि ब्राह्मणः ॥
१।११।२१।११-१ अथाप्य् उदाहरन्ति ।
१।११।२१।११-२कख भुक्तं प्रतिगृहीतं च निर्विशेषम् इति श्रुतिः ॥
१।११।२१।१२ पितर्य् उपरते त्रिरात्रम् ॥ [k: पितुर्य्]
१।११।२१।१३ द्वयम् उ ह वै सुश्रवसोऽनूचानस्य रेतोब्राह्मणस्योर्ध्वं नाभेर् अधस्ताद् अन्यत् । स यद् ऊर्ध्वं नाभेस्तेन हैतत् प्रजायते यद् ब्राह्मणान् उपनयति यद् अध्यापयति यद्याजयति यत् साधु करोति । सर्वास्यैषा प्रजा भवति । अथ यदवाचीणं नाभेस् तेन हास्यौरसी प्रजा भवति । तस्माच् छ्रोत्रियमनूचानम् अप्रजोऽसीति न वदन्ति ॥
१।११।२१।१४ तस्माद् द्विनामा द्विमुखो विप्रो द्विरेता द्विजन्मा चेति ॥
१।११।२१।१५ शूद्रापपात्रश्रवणसंदर्शनयोश् च तावन्तं कालम् ॥
१।११।२१।१६ नक्तं शिवाविरावे नाधीयीत स्वप्नान्तम् ॥
१।११।२१।१७ अहोरात्रयोश् च संध्ययोः पर्वसु च नाधीयीत ॥
१।११।२१।१८ न मांसम् अश्नीयान् न स्त्रियम् उपेयात् ॥
१।११।२१।१९ पर्वसु हि रक्षःपिशाचा व्यभिचारवन्तो भवन्तीतिविज्ञायते ॥
१।११।२१।२० अन्येषु चाद्भुतोत्पातेष्व् अहोरात्रम् अनध्यायोऽन्यत्रमानसात् ॥
१।११।२१।२१ मानसेऽपि जननमरणयोर् अनध्यायः ॥
१।११।२१।२२-१ अथाप्य् उदाहरन्ति ।
१।११।२१।२२-२कख हन्त्य् अष्टमी ह्य् उपाध्यायं हन्ति शिष्यं चतुर्दशी ।
१।११।२१।२२-२गघ हन्ति पञ्चदशी विद्यां तस्मात् पर्वणि वर्जयेत् ।
१।११।२१।२२-३ तस्मात् पर्वणि वर्जयेद् इति ॥
२।१।१।१ अथातः प्रायश्चित्तानि ॥
२।१।१।२ भ्रूणहा द्वादश समाः ॥
२।१।१।३ कपाली खट्वाङ्गी गर्दभचर्मवासा अरण्यनिकेतनःश्मशाने ध्वजं शवशिरः कृत्वा कुटीं कारयेत् । ताम् आवसेत् । सप्तागाराणि भैक्षं चरन् स्वकर्माचक्षाणस् तेन प्राणान्धारयेत् । अलब्ध्वोपवासः ॥
२।१।१।४ अश्वमेधेन गोसवेनाग्निष्टुता वा यजेत ॥
२।१।१।५ अश्वमेधावभृथे वात्मानं पावयेत् ॥
२।१।१।६-१ अथाप्य् उदाहरन्ति ।
२।१।१।६-२कख अमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः ।
२।१।१।६-२गघ ऋषयो निष्कृतिं तस्य वदन्त्य् अमतिपूर्वके ।
२।१।१।६-२ए मतिपूर्वं घ्नतस् तस्य निष्कृतिर् नोपलभ्यते ॥
२।१।१।७कख अपगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने ।
२।१।१।७गघ कृच्छ्रं चान्द्रायणं चैव लोहितस्य प्रवर्तने ।
२।१।१।७ए तस्मान् नैवापगुरेत न च कुर्वीत शोणितम् ॥ इति ॥
२।१।१।८ नव समा राजन्यस्य ॥
२।१।१।९ तिस्रो वैश्यस्य ॥
२।१।१।१० संवत्सरं शूद्रस्य ॥
२।१।१।११ स्त्रियाश् च ॥
२।१।१।१२ ब्राह्मणवद् आत्रेय्याः ॥
२।१।१।१३ गुरुतल्पगस् तप्ते लोहशयने शयीत ॥
२।१।१।१४ सूर्मिं वा ज्वलन्तीं श्लिष्येत् ॥
२।१।१।१५ लिङ्गं वा सवृषणं परिवास्याञ्जलाव् आधायदक्षिणाप्रतीच्योर् दिशोर् अन्तरेण गच्छेद् आ निपतनात् ॥
२।१।१।१६ स्तेनः प्रकीर्य केशान् सैध्रकम् मुसलम् आदाय स्कन्धेनराजानं गच्छेद् अनेन मां जहीति । तेनैनं हन्यात् ॥
२।१।१।१७-१ अथाप्य् उदाहरन्ति ।
२।१।१।१७-२कख स्कन्धेनादाय मुसलं स्तेनो राजानम् अन्वियात् ।
२।१।१।१७-२गघ अनेन शाधि मां राजन् क्षत्रधर्मम् अनुस्मरन् ॥
२।१।१।१७-३कख शासने वा विसर्गे वा स्तेनो मुच्येत किल्बिषात् ।
२।१।१।१७-३गघ अशासनात् तु तद् राजा स्तेनाद् आप्नोति किल्बिषम् ॥ इति ॥
२।१।१।१८ सुरां पीत्वोष्णया कायं दहेत् ॥
२।१।१।१९ अमत्या पाने कृच्छ्राब्दपादं चरेत् पुनरुपनयनं च ॥
२।१।१।२० वपनव्रतनियमलोपश् च पूर्वानुष्ठितत्वात् ॥
२।१।१।२१-१ अथाप्य् उदाहरन्ति ।
२।१।१।२१-२कख अमत्या वारुणीं पीत्वा प्राश्य मूत्रपुरीषयोः ।
२।१।१।२१-२गघ ब्राह्मणः क्षत्रियो वैश्यः पुनःसंस्कारम् अर्हति ॥
२।१।१।२२कख सुराधाने तु यो भाण्डे अपः पर्युषिताः पिबेत् ।
२।१।१।२२गघ शङ्खपुष्पीविपक्वेन षडहं क्षीरेण वर्तयेत् ॥
२।१।१।२३ गुरुप्रयुक्तश् चेन् म्रियेत गुरुस् त्रीन् कृच्छ्रांश् चरेत् ॥
२।१।१।२४ एतद् एवासंस्कृते ॥
२।१।१।२५ ब्रह्मचारिणः शवकर्मणा व्रतावृत्तिर् अन्यत्रमातापित्रोर् आचार्याच् च ॥
२।१।१।२६ स चेद् व्याधीयीत कामं गुरोर् उच्छिष्टं भैषज्यार्थेसर्वं प्राश्नीयात् ॥
२।१।१।२७ येनेच्छेत् तेन चिकित्सेत् ॥
२।१।१।२८ स यदा गदी स्यात् तद् उत्थायादित्यम् उपतिष्ठेत । हंसः शुचिषद् इति । एतया ॥ [k:उपतिष्ठते]
२।१।१।२९ दिवा रेतः सिक्त्वा त्रिर् अपो हृदयंगमाः पिबेद् रेतस्याभिः ॥
२।१।१।३० यो ब्रह्मचारी स्त्रियम् उपेयात् सोऽवकीर्णी ॥
२।१।१।३१ स गर्दभं पशुम् आलभेत ॥
२।१।१।३२ नैरृतः पशुः पुरोडाशश् च रक्षोदेवतो यमदेवतो वा ॥ [k: -दैवतो ॥। -दैवतो]
२।१।१।३३ शिश्नात् प्राशित्रम् अप्स्व् अवदानैश् चरन्तीति विज्ञायते ॥
२।१।१।३४ अपि वामावास्यायां निश्य् अग्निम् उपसमाधायदार्विहोमिकीं परिचेष्टां कृत्वा द्वे आज्याहुतीजुहोति । कामावकीर्णोऽस्म्य् अवकीर्णोऽस्मि काम कामाय स्वाहा । कामाभिद्रुग्धोऽस्म्य् अभिद्रुग्धोऽस्मि काम कामाय स्वाहेति ॥ [k: दाविंहोमिकीं]
२।१।१।३५ हुत्वा प्रयताञ्जलिः कवातिर्यङ्ङ् अग्निम् अभिमन्त्रयेत[k:उपतिष्ठेत] । सं मा सिञ्चन्तु मरुतः सम् इन्द्रः सं बृहस्पतिः । संमायम् अग्निः सिञ्चत्व् आयुषा च बलेन चायुष्मन्तं करोत मेति ॥
२।१।१।३६ अथास्य ज्ञातयः परिषद्य् उदपात्रंनिनयेयुर् असाव् अहम् इत्थंभूत इति । चरित्वापः पयो घृतं मधुलवणम् इत्य् आरब्धवन्तं ब्राह्मणा ब्रूयुश् चरितं त्वयेति । ओम् इतीतरः प्रत्याह । चरितनिर्वेशं सवनीयं कुर्युः ॥ [k: अथ यस्य]
२।१।१।३७ सगोत्रां चेद् अमत्योपगच्छेन् मातृवद् एनांबिभृयात् ॥ [k: उपयच्छेन्]
२।१।१।३८ प्रजाता चेत् कृच्छ्राब्दपादं चरित्वा । यन् मआत्मनो मिन्दाभूत् । पुनर् अग्निश् चक्षुर् अदाद् इति । एताभ्यांजुहुयात् ॥ [k: -आब्दषादं]
२।१।१।३९कख परिवित्तः परिवेत्ता या चैनं परिविन्दति ।
२।१।१।३९गघ सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥
२।१।१।४०कख परिवित्तः परिवेत्ता दाता यश् चापि याजकः ।
२।१।१।४०गघ कृच्छ्रद्वादशरात्रेण स्त्री त्रिरात्रेण शुध्यति ॥ इति ॥
२।१।२।१ अथ पतनीयानि ॥
२।१।२।२ समुद्रसंयानम् ॥
२।१।२।३ ब्रह्मस्वन्यासापहरणम् ॥
२।१।२।४ भूम्यनृतम् ॥
२।१।२।५ सर्वपण्यैर् व्यवहरणम् ॥
२।१।२।६ शूद्रसेवनम् ॥
२।१।२।७ शूद्राभिजननम् ॥
२।१।२।८ तदपत्यत्वं च ॥
२।१।२।९ एतेषाम् अन्यतमं कृत्वा ॥ [k: एषाम् अन्यतमत् कृत्वा]
२।१।२।१०कख चतुर्थकाला मितभोजिनः स्युर् अपोऽभ्यवेयुःसवनानुकल्पम् । [k omits: अपोऽभ्यवेयुः]
२।१।२।१०गघ स्थानासनाभ्यां विहरन्त एते त्रिभिर् वर्षैस् तदपघ्नन्ति पापम् ॥ [k: अपहन्ति]
२।१।२।११कख यद् एकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणःसेवमानः ।
२।१।२।११गघ चतुर्थकाल उदकाभ्यवायी त्रिभिर् वर्षैस् तद् अपहन्तिपापम् ॥ इति ॥
२।१।२।१२ अथोपपातकानि ॥
२।१।२।१३ अगम्यागमनं गुर्वीसखीं गुरुसखीम् अपपात्रां पतितांच गत्वा भेषजकरणं ग्रामयाजनं रङ्गोपजीवनंनाट्याचार्यता गोमहिषीरक्षणं यच् चान्यद् अप्य् एवंयुक्तंकन्यादूषणम् इति ॥
२।१।२।१४ तेषां तु निर्वेशः पतितवृत्तिर् द्वौ संवत्सरौ ॥
२।१।२।१५ अथाशुचिकराणि ॥
२।१।२।१६ द्यूतम् अभिचारोऽनाहिताग्नेर् उञ्छवृत्तिता समावृत्तस्यभैक्षचर्या तस्य चैव गुरुकुले वास ऊर्ध्वं चतुर्भ्यो मासेभ्यस्तस्य चाध्यापनं नक्षत्रनिर्देशश् चेति ॥
२।१।२।१७ तेषां तु निर्वेशो द्वादश मासान् द्वादश अर्धमासान्द्वादश द्वादशाहान् द्वादश षडहान् द्वादश त्र्यहान् द्वादशाहंषडहं त्र्यहम् अहोरात्रम् एकाहम् इति यथा कर्माभ्यासः ॥
२।१।२।१८ अथ पतिताः समवसाय धर्मांश् चरेयुर् इतरेतरयाजकाइतरेतराध्यापका मिथो विवहमानाः । पुत्रान् संनिष्पाद्य ब्रूयुर्विप्रव्रजतास्मत् त एवम् आर्यान् संप्रतिपत्स्यथेति ॥
२।१।२।१९ अथापि न सेन्द्रियः पतति ॥
२।१।२।२० तद् एतेन वेदितव्यम् । अङ्गहीनोऽपि साङ्गंजनयेत् ॥ [k: अपि हि साङ्गं जनयतीति]
२।१।२।२१ मिथ्यैतद् इति हारीतः ॥
२।१।२।२२ दधिधानीसधर्माः स्त्रियः स्युः । यो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तच् छिष्टा धर्मकृत्येषूपयोजयन्ति ॥
२।१।२।२३ एवम् अशुचि शुक्रं यन् निर्वर्तते न तेन सह संप्रयोगो विद्यते ॥
२।१।२।२४ अशुचिशुक्रोत्पन्नानां तेषाम् इच्छतां प्रायश्चित्तिः ॥
२।१।२।२५ पतनीयानां तृतीयोंऽशः स्त्रीणाम् अंशस् तृतीयः ॥
२।१।२।२६-१ अथाप्य् उदाहरन्ति । [k omits]
२।१।२।२६-२कख भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।
२।१।२।२६-२गघ श्वविष्ठायां कृमिर् भूत्वा पितृभिः सहमज्जति ॥ इति ॥
२।१।२।२७ पितृ̄न् वा एष विक्रीणीते यस् तिलान् विक्रीणीते । प्राणान्वा एष विक्रीणीते यस् तण्डुलान् विक्रीणीते । सुकृतांशान् वा एषविक्रीणीते यः पणमानो दुहितरं ददाति ॥
२।१।२।२८ तृणकाष्ठम् अविकृतं विक्रेयम् ॥ [k: तृणं काष्ठम्]
२।१।२।२९-१ अथाप्य् उदाहरन्ति । [k: उदारन्ति]
२।१।२।२९-२कख पशवश् चैकतोदन्ता अश्मा च लवणोद्धृतः ।
२।१।२।२९-२गघ एतद् ब्राह्मण ते पण्यं तन्तुश् चारजनीकृतः ॥ इति ॥
२।१।२।३० पातकवर्जं वा बभ्रुं पिङ्गलां गां रोमशांसर्पिषावसिच्य कृष्णैस् तिलैर् अवकीर्यानूचानाय दद्यात् ॥
२।१।२।३१ कूश्माण्डैर् वा द्वादशाहम् ॥
२।१।२।३२ यद् अर्वाचीनम् एनो भ्रूणहत्यायास् तस्मान् मुच्यत इति ॥
२।१।२।३३ पातकाभिशंसने कृच्छ्रः ॥
२।१।२।३४ तदब्दोऽभिशंसितुः ॥ [k: तदशब्दो]
२।१।२।३५ संवत्सरेण पतति पतितेन समाचरन् । याजनाध्यापनाद्यौनान् न तु यानासनाशनाद् इति ॥
२।१।२।३६ अमेध्यप्राशने प्रायश्चित्तिर् [k: प्रायश्चित्तं] नैष्पुरीष्यम् । तत् सप्तरात्रेणावाप्यते ॥
२।१।२।३७ अपः पयो घृतं पराक इति प्रतित्र्यहम् उष्णानि सतप्तकृच्छ्रः ॥
२।१।२।३८ त्र्यहं प्रातस् तथा सायम् अयाचितं पराक इति कृच्छ्रः ॥ [k: सायम् त्र्यहम् अन्यद् अयाचितं त्र्यहं परं तु नाश्नीयात् पराक]
२।१।२।३९ प्रातः सायम् अयाचितं पराक इति त्रयश् चतूरात्राः स एषस्त्रीबालवृद्धानां कृच्छ्रः ॥
२।१।२।४० यावत् सकृद् आददीत तावद् अश्नीयात् पूर्ववत् सोऽतिकृच्छ्रः ॥
२।१।२।४१ अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः ॥
२।१।२।४२ कृच्छ्रे त्रिषवणम् उदकोपस्पर्शनम् ॥
२।१।२।४३ अधःशयनम् ॥
२।१।२।४४ एकवस्त्रता केशश्मश्रुलोमनखवापनम् ॥
२।१।२।४५ एतद् एव स्त्रियाः केशवपनवर्जम् । केशवपनवर्जम् ॥
२।२।३।१कख नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायीवृषलान्नवर्जी ।
२।२।३।१गघ ऋतौ च गच्छन् विधिवच् च जुह्वन् न ब्राह्मणश् च्यवतेब्रह्मलोकात् ॥
२।२।३।२ मनुः पुत्रेभ्यो दायं व्यभजद् इति श्रुतिः ॥
२।२।३।३ समशः सर्वेषाम् अविशेषात् ॥
२।२।३।४ वरं वा रूपम् उद्धरेज् ज्येष्ठः ॥
२।२।३।५ तस्माज् ज्येष्ठं पुत्रं धनेन निरवसाययन्तीति श्रुतिः ॥
२।२।३।६ दशानां वैकम् उद्धरेज् ज्येष्ठः ॥
२।२।३।७ समम् इतरे विभजेरन् ॥
२।२।३।८ पितुर् अनुमत्या दायविभागः सति पितरि ॥
२।२।३।९ चतुर्णां वर्णानां गोअश्वाजावयो ज्येष्ठांशः ॥
२।२।३।१० नानावर्णस्त्रीपुत्रसमवाये दायं दशांशान् कृत्वाचतुरस् त्रीन् द्वाव् एकम् इति यथाक्रमं विभजेरन् ॥
२।२।३।११ औरसे तूत्पन्ने सवर्णास् तृतीयांशहराः ॥
२।२।३।१२ सवर्णापुत्रानन्तरापुत्रयोर् अनन्तरापुत्रश् चेद् गुणवान्स ज्येष्ठांशं हरेत् ॥
२।२।३।१३ गुणवान् हि शेषाणां भर्ता भवति ॥
२।२।३।१४-१ सवर्णायां संस्कृतायां स्वयमुत्पादितम् औरसं पुत्रंविद्यात् ।
२।२।३।१४-२ अथाप्य् उदाहरन्ति । [k omits]
२।२।३।१४-३कख अङ्गाद् अङ्गात् संभवसि हृदयाद् अधि जायसे । [k omits]
२।२।३।१४-३गघ आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ इति ॥ [k omits]
२।२।३।१५ अभ्युपगम्य दुहितरि जातं पुत्रिकापुत्रम् अन्यं दौहित्रम् ॥
२।२।३।१६-१ अथाप्य् उदाहरन्ति ।
२।२।३।१६-२कख आदिशेत् प्रथमे पिण्डे मातरं पुत्रिकासुतः ।
२।२।३।१६-२गघ द्वितीये पितरं तस्यास् तृतीये च पितामहम् ॥ इति ॥
२।२।३।१७ मृतस्य प्रसूतो यः क्लीबव्याधितयोर् वान्येनानुमते स्वे क्षेत्रे स क्षेत्रजः ॥ [k:ऽनुमतेन]
२।२।३।१८ स एष द्विपिता द्विगोत्रश् च द्वयोर् अपि स्वधारिक्थभाग्भवति ॥
२।२।३।१९-१ अथाप्य् उदाहरन्ति ।
२।२।३।१९-२कख द्विपितुः पिण्डदानं स्यात् पिण्डेपिण्डे च नामनी ।
२।२।३।१९-२गघ त्रयश् च पिण्डाः षण्णां स्युर् एवं कुर्वन् न मुह्यति ॥ इति ॥
२।२।३।२० मातापितृभ्यां दत्तोऽन्यतरेण वा योऽपत्यार्थेपरिगृह्यते स दत्तः ॥
२।२।३।२१ सदृशं यं सकामं स्वयं कुर्यात् स कृत्रिमः ॥
२।२।३।२२ गृहे गूढोत्पन्नोऽन्ते ज्ञातो गूढजः ॥ [k: गूढोः]
२।२।३।२३ मातापितृभ्याम् उत्सृष्टोऽन्यतरेण वा योऽपत्यार्थेपरिगृह्यते सोऽपविद्धः ॥
२।२।३।२४ असंस्कृताम् अनतिसृष्टां याम् उपगच्छेत् तस्यां यो जातः स कानीनः ॥ [k: उपयच्छेत्]
२।२।३।२५ या गर्भिणी संस्क्रियते विज्ञाता वाविज्ञाता वा तस्यांयो जातः स सहोढः ॥
२।२।३।२६ मातापित्रोर् हस्तात् क्रीतोऽन्यतरेण वा योऽपत्यार्थेपरिगृह्यते स क्रीतः ॥
२।२।३।२७ क्लीबं त्यक्त्वा पतितं वा यान्यं पतिं विन्देत् तस्यांपुनर्भ्वां यो जातः स पौनर्भवः ॥
२।२।३।२८ मातापितृविहीनो यः स्वयम् आत्मानं दद्यात् स स्वयंदत्तः ॥
२।२।३।२९ द्विजातिप्रवराच् छूद्रायां जातो निषादः ॥
२।२।३।३० कामात् पारशव इति पुत्राः ॥
२।२।३।३१-१ अथाप्य् उदाहरन्ति ।
२।२।३।३१-२कख औरसं पुत्रिकापुत्रं क्षेत्रजं दत्तकृत्रिमौ ।
२।२।३।३१-२गघ गूढजं चापविद्धं च रिक्थभाजः प्रचक्षते ॥
२।२।३।३२कख कानीनं च सहोढं च क्रीतं पौनर्भवं तथा ।
२।२।३।३२गघ स्वयंदत्तं निषादं च गोत्रभाजः प्रचक्षते ॥
२।२।३।३३ तेषां प्रथम एवेत्य् आहौपजङ्घनिः ॥
२।२।३।३४-१कख इदानीम् अहम् ईर्ष्यामि स्त्रीणां जनक नो पुरा ।
२।२।३।३४-१गघ यतो यमस्य सदने जनयितुः पुत्रम् अब्रुवन् ॥
२।२।३।३४-२कख रेतोधाः पुत्रं नयति परेत्य यमसादने ।
२।२।३।३४-२गघ तस्मात् स्वभार्यां रक्षन्तु बिभ्यतः पररेतसः ॥ [k: तस्माद् भार्यां रक्षन्ति बिभ्यन्तः पररेतसः]
२।२।३।३५कख अप्रमत्ता रक्षत तन्तुम् एतं मा वः क्षेत्रेपरबीजानि वाप्सुः । [k: रक्षथ ॥। वप्सुः]
२।२।३।३५गघ जनयितुः पुत्रो भवति सांपराये मोघंवेत्ता कुरुते तन्तुम् एतम् ॥ इति ॥ [k: साम्षराये]
२।२।३।३६ तेषाम् अप्राप्तव्यवहाराणाम् अंशान् सोपचयान् सुनिगुप्तान्निदध्युर् आ व्यवहारप्रापणात् ॥
२।२।३।३७ अतीतव्यवहारान् ग्रासाच्छादनैर् बिभृयुः ॥
२।२।३।३८ अन्धजडक्लीबव्यसनिव्याधितादींश् च ॥
२।२।३।३९ अकर्मिणः ॥
२।२।३।४० पतिततग्जातवर्जम् ॥
२।२।३।४१ न पतितैः संव्यवहारो विद्यते ॥
२।२।३।४२ पतिताम् अपि तु मातरं बिभृयाद् अनभिभाषमाणः ॥
२।२।३।४३ मातुर् अलंकारं दुहितरः सांप्रदायिकं लभेरन्न् अन्यद् वा ॥
२।२।३।४४ न स्त्रियाः स्वातन्त्र्यं विद्यते ॥ [k: न स्त्री ॥। विदन्ते]
२।२।३।४५-१ अथाप्य् उदाहरन्ति ।
२।२।३।४५-२कख पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
२।२।३।४५-२गघ पुत्रस् तु स्थविरीभावे न स्त्रीस्वातन्त्र्यम् अर्हति ॥ इति ॥ [k: स्थाविरे भावे]
२।२।३।४६ निरिन्द्रिया ह्य् अदायाश् च स्त्रियो मता इति श्रुतिः ॥
२।२।३।४७ भर्तृहिते यतमानाः स्वर्गं लोकं जयेरन् ॥
२।२।३।४८ व्यतिक्रमे कृच्छ्रः ॥
२।२।३।४९ शूद्रे चान्द्रायणं चरेत् ॥
२।२।३।५० वैश्यादिषु प्रतिलोमं कृच्छ्रातिकृच्छ्रादींश् चरेत् ॥
२।२।३।५१ पुंसां ब्राह्मणादीनां संवत्सरं ब्रह्मचर्यम् ॥
२।२।३।५२ शूद्रं कटाग्निना दहेत् ॥ [k: कटारिनना]
२।२।३।५३ अथाप्य् उदाहरन्ति ॥
२।२।४।१कख अब्राह्मणस्य शारीरो दण्डः संग्रहणे भवेत् ॥
२।२।४।२कख सर्वेषाम् एव वर्णानां दारा रक्ष्यतमा धनात् ॥
२।२।४।३कख न तु चारणदारेषु न रङ्गावतरे वधः । [k: रङ्गावतारे]
२।२।४।३गघ संसर्जयन्ति ता ह्य् एतान् निगुप्तांश् चालयन्त्य् अपि ॥
२।२।४।४कख स्त्रियः पवित्रम् अतुलं नैता दुष्यन्ति कर्हिचित् ।
२।२।४।४गघ मासिमासि रजो ह्य् आसां दुरितान्य् अपकर्षति ॥
२।२।४।५कख सोमः शौचं ददौ तासां गन्धर्वः शिक्षितां गिरम् । [k: ददत्]
२।२।४।५गघ अग्निश् च सर्वभक्षत्वं तस्मान् निष्कल्मषाः स्त्रियः ॥ [k: सर्वभक्ष्यत्वं]
२।२।४।६कख अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् ।
२।२।४।६गघ मृतप्रजां पञ्चदशे सद्यस् त्व् अप्रियवादिनीम् ॥
२।२।४।७ संवत्सरं प्रेतपत्नी मधुमांसमद्यलवणानि वर्जयेदधः शयीत ॥
२।२।४।८ षण्मासान् इति मौद्गल्यः ॥
२।२।४।९ अत ऊर्ध्वं गुरुभिर् अनुमता देवराज् जनयेत् पुत्रम् अपुत्रा ॥
२।२।४।१०-१ अथाप्य् उदाहरन्ति ।
२।२।४।१०-२कख वशा चोत्पन्नपुत्रा च नीरजस्का गतप्रजा ।
२।२।४।१०-२गघ नाकामा संनियोज्या स्यात् फलं यस्यां न विद्यते ॥ इति ॥
२।२।४।११ मातुलपितृस्वसा भगिनी भागिनेयी स्नुषा मातुलानीसखिवधूर् इत्य् अगम्याः ॥
२।२।४।१२ अगम्यानां गमने कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इतिप्रायश्चित्तिः ॥
२।२।४।१३ एतेन चण्डालीव्यवायो व्याख्यातः ॥
२।२।४।१४-१ अथाप्य् उदाहरन्ति ।
२।२।४।१४-२कख चण्डालीं ब्राह्मणो गत्वा भुक्त्वा च प्रतिगृह्य च ।
२।२।४।१४-२गघ अज्ञानात् पतितो विप्रो ज्ञानात् तु समतां व्रजेत् ॥
२।२।४।१५कख पितुर् गुरोर् नरेन्द्रस्य भार्यां गत्वा प्रमादतः ।
२।२।४।१५गघ गुरुतल्पी भवेत् तेन पूर्वोक्तस् तस्य निष्क्रयः ॥ इति ॥ [k:निश्चयः]
२।२।४।१६ अध्यापनयाजनप्रतिग्रहैर् अशक्तः क्षत्रधर्मेण जीवेत्प्रत्यनन्तरत्वात् ॥
२।२।४।१७ नेति गौतमः । अत्युग्रो हि क्षत्रधर्मो ब्राह्मणस्य ॥
२।२।४।१८-१ अथाप्य् उदाहरन्ति ।
२।२।४।१८-२कख गवार्थे ब्राह्मणार्थे वा वर्णानां वापि संकरे ।
२।२।४।१८-२गघ गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यपेक्षया ॥
२।२।४।१९ वैश्यवृत्तिर् अनुष्ठेया प्रत्यनन्तरत्वात् ॥
२।२।४।२० प्राक् प्रातराशात् कर्षी स्यात् ॥
२।२।४।२१ अस्यूतनासिकाभ्यां समुष्काभ्याम् अतुदन्न् आरयामुहुर्मुहुर् अभ्युच्छन्दयन् ॥ [२।२।४।२०-२१ = ३।२।३]
२।२।४।२२ भार्यादिर् अग्निः । तस्मिन् कर्मकरणं प्राग् अग्न्याधेयात् ॥
२।२।४।२३ अग्न्याधेयप्रभृत्य् अथेमान्य् अजस्राणि भवन्ति यथैतदग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासाव् आग्रयणमुदगयनदक्षिणायनयोः पशुश् चातुर्मास्यान्य् ऋतुमुखे षड्ढोता वसन्तेज्योतिष्तोम इत्य् एवं क्षेमप्रापणम् ॥
२।२।४।२४ अथाप्य् उदाहरन्ति ।
२।२।४।२४कख न दिवास्वप्नशीलेन न च सर्वान्नभोजिना ।
२।२।४।२४गघ कामं शक्यं नभो गन्तुम् आरूढपतितेन वा ॥
२।२।४।२५ दैन्यं शाठ्यं जैह्म्यं च वर्जयेत् ॥
२।२।४।२६-१ अथाप्य् अत्रोशनसश् च वृषपर्वणश् च दुहित्रोः संवादेगाथाम् उदाहरन्ति ।
२।२।४।२६-२कख स्तुवतो दुहिता त्वं वै याचतः प्रतिगृह्णतः ।
२।२।४।२६-२गघ अथाहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ।
२।२।४।२६-३ ददतोऽप्रतिगृह्णत इति ॥
२।३।५।१ तपस्यम् अपोवगाहनम् ॥ [k: तपस्यम् अवगाहनम्]
२।३।५।२ देवतास् तर्पयित्वा पितृतर्पणम् ॥
२।३।५।३ अनुतीर्थम् अप उत्सिञ्चति । ऊर्जं वहन्तीर् इति ॥ [k: उत्सिञ्चेद्]
२।३।५।४-१ अथाप्य् उदाहरन्ति ।
२।३।५।४-२कख स्रवन्तीष्व् अनिरुद्धासु त्रयो वर्णा द्विजातयः ।
२।३।५।४-२गघ प्रातरुत्थाय कुर्वीरन्देवऋषिपितृतर्पणम् ॥ [k: प्रातरुत्थायाय]
२।३।५।५ निरुद्धासु न कुर्वीरन्न् अंशभाक् तत्र सेतुकृत् ॥
२।३।५।६ तस्मात् परकृतान् सेतून् कूपांश् च परिवर्जयेद् इति ॥
२।३।५।७-१ अथाप्य् उदाहरन्ति ।
२।३।५।७-२कख उद्धृत्य वापि त्रीन् पिण्डान् कुर्याद् आपत्सु नो सदा ।
२।३।५।७-२गघ निरुद्धासु तु मृत्पिण्डान् कूपात् त्रीन् अब्घटांस् तथा ॥ इति ॥
२।३।५।८ बहुप्रतिग्राह्यस्याप्रतिग्राह्यस्य वा प्रतिगृह्यायाज्यं वायाजयित्वानाश्यान्नस्य वान्नम् अशित्वा तरत्समन्दीयं जपेद् इति ॥ [k: बहुप्रतिग्राह्यस्य प्रतिगृह्याप्रतिग्राह्यस्य वा]
२।३।५।९-१ अथाप्य् उदाहरन्ति ।
२।३।५।९-२कख गुरुसंकरिणश् चैव शिष्यसंकरिणश् च ये ।
२।३।५।९-२गघ आहारमन्त्रसंकीर्णा दीर्घं तम उपासते ॥ इति ॥
२।३।५।१० अथ स्नातकव्रतानि ॥
२।३।५।११ सायं प्रातर् यद् अशनीयं स्यात् तेनान्नेन वैश्वदेवंबलिम् उपहृत्य ब्राह्मणक्षत्रियविट्शूद्रान् अभ्यागतान् यथाशक्तिपूजयेत् ॥
२।३।५।१२ यदि बहूनां न शक्नुयाद् एकस्मै गुणवते दद्यात् ॥
२।३।५।१३ यो वा प्रथमम् उपगतः स्यात् ॥ [k: उपागतः]
२।३।५।१४ शूद्रश् चेद् आगतस् तं कर्मणि नियुञ्ज्यात् ॥
२।३।५।१५ श्रोत्रियाय वाग्रं दद्यात् ॥
२।३।५।१६ ये नित्या भाक्तिकाः स्युस् तेषामनुपरोधेन संविभागो विहितः ॥ [k: नित्याभक्तिकास्]
२।३।५।१७ न त्व् एव कदाचिद् अदत्त्वा भुञ्जीत ॥
२।३।५।१८-१ अथाप्य् अत्रान्नगीतौ श्लोकाव् उदाहरन्ति ।
२।३।५।१८-२कख यो माम् अदत्त्वा पितृदेवताभ्योभृत्यातिथीनां च सुहृग्जनस्य ।
२।३।५।१८-२गघ संपन्नम् अश्नन् विषम् अत्ति मोहात् तम् अद्म्य् अहं तस्य चमृत्युर् अस्मि ॥
२।३।५।१८-३कख हुताग्निहोत्रः कृतवैश्वदेवः पूज्यातिथीन् भृत्यजनावशिष्टम् ।
२।३।५।१८-३गघ तुष्टः शुचिः श्रद्दधद् अत्ति यो मां तस्यामृतं स्यांस च मां भुनक्ति [k: भुनक्तीति] ॥
२।३।५।१९ सुब्राह्मणश्रोत्रियवेदपारगेभ्योगुर्वर्थनिवेशाउषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो यथाशक्ति कार्यो बहिर्वेदिभिक्षमाणेषु ॥
२।३।५।२० कृतान्नम् इतरेषु ॥
२।३।५।२१ सुप्रक्षालितपादपाणिर् आचान्तः शुचौ संवृते देशेऽन्नमुपहृतम् उपसंगृह्य कामक्रोधद्रोहलोभमोहान् अपहत्य सर्वाभिरङ्गुलीभिः शब्दम् अकुर्वन् प्राश्नीयात् ॥
२।३।६।१ न पिण्डशेषं पात्र्याम् उत्सृजेत् ॥
२।३।६।२ मांसमत्स्यतिलसंसृष्टप्राशनेऽप उपस्पृश्याग्निमभिमृशेत् ॥
२।३।६।३ अस्तमिते च स्नानम् ॥
२।३।६।४ पालाशम् आसनं पादुके दन्तधावनम् इति वर्जयेत् ॥
२।३।६।५ नोत्सङ्गेऽन्नं भक्षयेत् ॥
२।३।६।६ आसन्द्यां न भुञ्जीत ॥
२।३।६।७ वैणवं दण्डं धारयेद् रुक्मकुण्डले च ॥
२।३।६।८ पदा पादस्य प्रक्षालनम् अधिष्ठानं च वर्जयेत् ॥
२।३।६।९ न बहिर्मालां धारयेत् ॥
२।३।६।१० सूर्यम् उदयास्तमये न निरीक्षेत ॥
२।३।६।११ नेन्द्रधनुर् इति परस्मै प्रब्रूयात् ॥
२।३।६।१२ यदि ब्रूयान् मणिधनुर् इत्य् एव ब्रूयात् ॥
२।३।६।१३ पुरद्वारीन्द्रकीलपरिघाव् अन्तरेण नातीयात् ॥
२।३।६।१४ प्लेङ्खयोर् [k: प्रेङ्खयोर्] अन्तरेण न गच्छेत् ॥
२।३।६।१५ वत्सतन्तीं च नोपरि गच्छेत् ॥
२।३।६।१६ भस्मास्थिरोमतुषकपालापस्नानानि नाधितिष्ठेत् ॥
२।३।६।१७ गां धयन्तीं न परस्मै प्रब्रूयात् ॥
२।३।६।१८ नाधेनुम् अधेनुर् इति ब्रूयात् ॥
२।३।६।१९ यदि ब्रूयाद् धेनुं भव्येत्य् [k: धेनुभव्येत्य्] एव ब्रूयात् ॥
२।३।६।२० शुक्ता रूक्षाः परुषा वाचो न ब्रूयात् ॥
२।३।६।२१ नैकोऽध्वानं व्रजेत् ॥
२।३।६।२२ न पतितैर् न स्त्रिया न शूद्रेण ॥
२।३।६।२३ न प्रतिसायं व्रजेत् ॥
२।३।६।२४ न नग्नः स्नायात् ॥
२।३।६।२५ न नक्तं स्नायात् ॥
२।३।६।२६ न नदीं बाहुकस् तरेत् ॥
२।३।६।२७ न कूपम् अवेक्षेत ॥
२।३।६।२८ न गर्तम् अवेक्षेत ॥
२।३।६।२९ न तत्रोपविशेद् यत एनम् अन्य उत्थापयेत् ॥
२।३।६।३०कख पन्था देयो ब्राह्मणाय गवे राज्ञे ह्य् अचक्षुषे ।
२।३।६।३०गघ वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥
२।३।६।३१ प्रभूतैधोदकयवससमित्कुशमाल्योपनिष्क्रमणमाढ्यजनाकुलम् अनलससमृद्धम् आर्यजनभूयिष्ठमदस्युप्रवेश्यं ग्रामम् आवसितुं यतेत धार्मिकः ॥ [k: प्रभूतधोदक]
२।३।६।३२कख उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः ।
२।३।६।३२गघ उषित्वा द्वादश समाः शूद्रसाधर्म्यम् ऋच्छति ॥
२।३।६।३३कख पुररेणुकुण्ठितशरीरस् तत्परिपुर्णनेत्रवदनश् च । [k: तत्परिपूर्ण]
२।३।६।३३गघ नगरे वसन् सुनियतात्मा सिद्धिम् अवाप्स्यतीति न तदस्ति ॥
२।३।६।३४कख रथाश्वगजधान्यानां गवां चैव रजः शुभम् ।
२।३।६।३४गघ अप्रशस्तं समूहन्याः श्वाजाविखरवाससाम् ॥
२।३।६।३५ पूज्यान् पूजयेत् ॥
२।३।६।३६कख ऋषिविद्वन्नृपवरमातुलश्वशुरऋत्विजः ।
२।३।६।३६गघ एतेऽर्घ्याः शास्त्रविहिताः स्मृताः कालविभागशः ॥
२।३।६।३७कख ऋषिविद्वन्नृपाः प्राप्ताः क्रियारम्भे वरऋत्विजौ ।
२।३।६।३७गघ मातुलश्वशुरौ पूज्यौ संवत्सरगतागतौ ॥ इति ॥
२।३।६।३८कख अग्न्यगारे गवां मध्ये ब्राह्मणानां च संनिधौ ।
२।३।६।३८गघ स्वाध्याये भोजने चैव दक्षिणं बाहुम् उद्धरेत् ॥
२।३।६।३९कख उत्तरं वासः कर्तव्यं पञ्चस्व् एतेषु कर्मसु ।
२।३।६।३९गघ स्वाध्यायोत्सर्गदानेषु भोजनाचामयोस् [k:भोजनाचमनयोस्] तथा ॥
२।३।६।४०कख हवनं भोजनं दानम् उपहारः प्रतिग्रहः ।
२।३।६।४०गघ बहिर्जानु न कार्याणि तद्वद् आचमनं स्मृतम् ॥
२।३।६।४१कख अन्ने श्रितानि भूतानि अन्नं प्राणम् इति श्रुतिः ।
२।३।६।४१गघ तस्माद् अन्नं प्रदातव्यम् अन्नं हि परमं हविः ॥
२।३।६।४२-१कख हुतेन शाम्यते पापं हुतम् अन्नेन शाम्यति ।
२।३।६।४२-१गघ अन्नं दक्षिणया शान्तिम् उपयातीति न श्रुतिः [k: नश्श्रुतिर् इति] ।
२।३।६।४२-२ उपयातीति नः श्रुतिर् इति ॥ [k omits]
२।४।७।१ अथातः संध्योपासनविधिं व्याख्यास्यामः ॥
२।४।७।२ तीर्थं गत्वाप्रयतोऽभिषिक्तः प्रयतो वानभिषिक्तःप्रक्षालितपादपाणिर् अप आचम्य सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर् हिरण्यवर्णाभिः पावमानीभिर् व्याहृतिभिर् अन्यैश् चपवित्रैर् आत्मानं प्रोक्ष्य प्रयतो भवति ॥
२।४।७।३-१ अथाप्य् उदाहरन्ति ।
२।४।७।३-२कख अपोवगाहनं स्नानं विहितं सार्ववर्णिकम् ।
२।४।७।३-२गघ मन्त्रवत्प्रोक्षणं चापि द्विजातीनां विशिष्यते ॥ इति ॥
२।४।७।४ सर्वकर्मणां चैवारम्भेषु प्राक् संध्योपासनकालाच्चैतेनैव पवित्रसमूहेनात्मानं प्रोक्ष्य प्रयतो भवति ॥
२।४।७।५ अथाप्य् उदाहरन्ति । दर्भेष्व् आसीनो दर्भान् धारयमाणःसोदकेन पाणिना प्रत्यङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेत् ॥
२।४।७।६ प्राणायामशो वा शतकृत्वः ॥
२।४।७।७ उभयतःप्रणवां ससप्तव्याहृतिकां मनसा वा दशकृत्वः ॥
२।४।७।८ त्रिभिश् च प्राणायामैस् तान्तो ब्रह्महृदयेन ॥
२।४।७।९ वारुणीभ्यां रात्रिम् उपतिष्ठते । इमं मे वरुण । तत् त्वायामीति । द्वाभ्याम् ॥
२।४।७।१० एवम् एव प्रातः प्राङ्मुखस् तिष्ठन् ॥
२।४।७।११ मैत्रीभ्याम् अहर् उपतिष्ठते । मित्रस्य चर्षणीधृतः । मित्रोजनान् यातयतीति । द्वाभ्याम् ॥
२।४।७।१२ सुपूर्वाम् अपि पूर्वाम् उपक्रम्योदित आदित्ये समाप्नुयात् ॥
२।४।७।१३ अनस्तमित उपक्रम्य सुपश्चाद् अपि पश्चिमाम् ॥
२।४।७।१४ संध्ययोश् च संपत्ताव् अहोरात्रयोश् च संतत्यै [k: सन्ततिः] ॥
२।४।७।१५-१ अपि चात्र प्रजापतिगीतौ श्लोकौ भवतः ।
२।४।७।१५-२कख अनागतां तु ये पूर्वाम् अनतीतां तु पश्चिमाम् ।
२।४।७।१५-२गघ संध्यां नोपासते विप्राः कथं ते ब्राह्मणाः स्मृताः ॥
२।४।७।१५-३कख सायं प्रातः सदा संध्यां ये विप्रा नो उपासते ।
२।४।७।१५-३गघ कामं तान् धार्मिको राजा शूद्रकर्मसु योजयेद् ॥ इति ॥
२।४।७।१६ तत्र सायमतिक्रमे रात्र्युपवासःप्रातरतिक्रमेऽहरुपवासः ॥
२।४।७।१७ स्थानासनफलम् अवाप्नोति ॥
२।४।७।१८-१ अथाप्य् उदाहरन्ति ।
२।४।७।१८-२कख यद् उपस्थकृतं पापं पद्भ्यां वा यत् कृतं भवेत् ।
२।४।७।१८-२गघ बाहुभ्यां मनसा वापि वाचा वा यत् कृतं भवेत् ।
२।४।७।१८-२चछ सायं संध्याम् उपस्थाय तेन तस्मात् प्रमुच्यते ॥
२।४।७।१९ रात्र्या चापि संधीयते न चैनं वरुणो गृह्णाति ॥
२।४।७।२० एवम् एव प्रातर् उपस्थाय रात्रिकृतात् पापात् प्रमुच्यते ॥
२।४।७।२१ अह्ना चापि संधीयते मित्रश् चैनं गोपायत्य् आदित्यश्चैनं स्वर्गं लोकम् उन्नयति ॥
२।४।७।२२ स एवम् एवाहरहर् अहोरात्रयोः संधिषूपतिष्ठमानोब्रह्मपूतो ब्रह्मभूतो ब्राह्मणः शास्त्रम् अनुवर्तमानो ब्रह्मलोकमभिजयतीति विज्ञायते । ब्रह्मलोकम् अभिजयतीति विज्ञायते ॥
२।५।८।१ अथ हस्तौ प्रक्षाल्य कमण्डलुं मृत्पिण्डं च संगृह्य [k:गृह्य] तीर्थं गत्वा त्रिः पादौ प्रक्षालयते त्रिर् आत्मानं ॥
२।५।८।२ अथ हैके ब्रुवते । श्मशानम् आपो देवगृहं गोष्ठं यत्र चब्राह्मणा अप्रक्षाल्य पादौ तन् न प्रवेष्टव्यम् इति ॥
२।५।८।३-१ अथापोऽभिप्रपद्यते ।
२।५।८।३-२कख हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः ।
२।५।८।३-२गघ यन् मया भुक्तम् असाधूनां पापेभ्यश् च प्रतिग्रहः ॥
२।५।८।३-३कख यन् मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् ।
२।५।८।३-३गघ तन् न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तुपुनःपुनः ॥ इति ॥ [k: तन् म]
२।५।८।४ अथाञ्जलिनाप उपहन्ति । सुमित्रा न आप ओषधयः सन्त्व् इति ॥ [k: अथाञ्जलिना उपहन्ति]
२।५।८।५ तां दिशं निरुक्षति यस्याम् अस्य दिशि द्वेष्यो भवति ।दुर्मित्रास् तस्मै भूयासुर् योऽस्मान् द्वेष्टि यं च वयं द्विष्म इति ॥
२।५।८।६ अथाप उपस्पृश्य त्रिः प्रदक्षिणम् उदकम् आवर्तयति । यदपां क्रुरं यद् अमेध्यं यद् अशान्तं तदपगच्छताद् इति ॥ [k: यद् अर्पां क्रूरं॥। अप गच्छताद्]
२।५।८।७ अप्सु निमज्ज्योन्मज्ज्य ॥
२।५।८।८ नाप्सु सतः प्रयमणं विद्यते न वासःपल्पूलनंनोपस्पर्शनम् ॥
२।५।८।९ यद्य् उपरुद्धाः स्युर् एतेनोपतिष्ठते । नमोऽग्नयेऽप्सुमतेनम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्य इति ॥
२।५।८।१०-१ उत्तीर्याचम्याचान्तः पुनर् आचामेत् ।
२।५।८।१०-२ आपः पुनन्तु पृथिवीं पृथिवी पूतापुनातु माम् । पुनन्तु ब्रह्मणस्पतिर् ब्रह्म पूता पुनातु माम् ॥ [k: पृथिवी पृथिवी]
२।५।८।१०-३ यद् उच्छिष्टम् अभोज्यं यद् वा दुश्चरितं मम । सर्वंपुनन्तु माम् आपोऽसतां च प्रतिग्रहं स्वाहेति ॥
२।५।८।११ पवित्रे कृत्वाद्भिर् मार्जयति । आपो हि ष्ठा मयोभुव इतितिसृभिः । हिरण्यवर्णाः शुचयः पावका इति चतसृभिः । पवमानः सुवर्जन इति । एतेनानुवाकेनमार्जयित्वान्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वा प्रक्षालितोपवातान्यक्लिष्टानि वासांसि परिधायाप आचम्य दर्भेष्व् आसीनो दर्भान्धारयमाणः प्राङ्मुखः सावित्रीं सहस्रकृत्वआवर्तयेच् छतकृत्वोऽपरिमितकृत्वो वा दशावरम् ॥ [k: सुवर्चन]
२।५।८।१२ अथादित्यम् उपतिष्ठते । उद् वयं तमसस् परि । उद् उ त्यम् । चित्रम् । तच् चक्षुर् देवहितम् । य उदगाद् इति ॥
२।५।८।१३ अथाप्य् उदाहरन्ति । प्रणवो व्याहृतयः सावित्री चेत्य् एतेपञ्च ब्रह्मयज्ञा अहरहर् ब्राह्मणं किल्बिषात् पावयन्ति ॥
२।५।८।१४ पूतः पञ्चभिर् ब्रह्मयज्ञैर् अथोत्तरं देवतास् तर्पयति ॥
२।५।९।१ ओम् अग्निः प्रजापतिः सोमो रुद्रोऽदितिर् बृहस्पतिःसर्पा इत्य् एतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणिसाहोरात्राणि समुहूर्तानि तर्पयामि । ॐ वसूंश् च तर्पयामि ॥
२।५।९।२ ॐ पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी इत्य् एतानि दक्षिणद्वाराणि दैवतानि सनक्षत्राणिसग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । ॐ रुद्रांश् चतर्पयामि ॥ [क् गेनेरल्ल्य् ओमित्स्: ॐ]
२।५।९।३ ॐ मित्र इन्द्रो महापितर आपो विश्वे देवा ब्रह्माविष्णुर् इत्य् एतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणिसाहोरात्राणि समुहूर्तानि तर्पयामि । ओम् आदित्यांश् च तर्पयामि ॥
२।५।९।४ ॐ वसवो वरुणोऽज एकपाद् अहिर्बुध्न्यःपूषाश्विनौ यम इत्य् एतान्य् उदग्द्वाराणि दैवतानि सनक्षत्राणिसग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । ॐ विश्वान्देवांस् तर्पयामि । ॐ साध्यांश् च तर्पयामि [k: साध्यांस्तर्पयामि] ॥
२।५।९।५ ॐ ब्रह्माणं तर्पयामि । ॐ प्रजापतिं तर्पयामि । ॐ चतुर्मुखं तर्पयामि । ॐ परमेष्ठिनं तर्पयामि । ॐ हिरण्यगर्भंतर्पयामि । ॐ स्वयंभुवं तर्पयामि । ॐ ब्रह्मपार्षदांस् तर्पयामि । ॐ ब्रह्मपार्षदीश् चतर्पयामि । ॐ अग्निं तर्पयामि । ॐ वायुंतर्पयामि । ॐ वरुणं तर्पयामि । ॐ सूर्यंतर्पयामि । ॐ चन्द्रमसं तर्पयामि । ॐ नक्षत्राणि तर्पयामि । [क् अद्द्स्: ज्योतींषि तर्पयामि ।] ॐ सद्योजातं तर्पयामि । ॐ भूः पुरुषं तर्पयामि । ॐ भुवः पुरुषंतर्पयामि । ॐ सुवः पुरुषं तर्पयामि । ॐ भूर् भुवः सुवः पुरुषंतर्पयामि । ॐ भूस् तर्पयामि । ॐ भुवस् तर्पयामि । ॐ सुवस्तर्पयामि । ॐ महस् तर्पयामि । ॐ जनस् तर्पयामि । ॐ तपस्तर्पयामि । ॐ सत्यं तर्पयामि ॥
२।५।९।६-१ ॐ भवं देवं तर्पयामि । ॐ शर्वं देवम् तर्पयामि । ओम् ईशानं देवं तर्पयामि । ॐ पशुपतिं देवं तर्पयामि । ॐ रुद्रं देवं तर्पयामि । ओम् उग्रं देवं तर्पयामि । ॐ भीमं देवं तर्पयामि । ॐ महान्तं देवं तर्पयामि ।
२।५।९।६-२ ॐ भवस्य देवस्य पत्नीं तर्पयामि । ॐ शर्वस्य देवस्यपत्नीं तर्पयामि । ओम् ईशानस्य देवस्य पत्नीं तर्पयामि । ओंपशुपतेर् देवस्य पत्नीं तर्पयामि । ॐ रुद्रस्य देवस्य पत्नींतर्पयामि । ओम् उग्रस्य देवस्य पत्नीं तर्पयामि । ॐ भीमस्य देवस्यपत्नीं तर्पयामि । ॐ महतो देवस्य पत्नीं तर्पयामि ।
२।५।९।६-३ ॐ भवस्य देवस्य सुतं तर्पयामि । ॐ शर्वस्य देवस्यसुतं तर्पयामि । ओम् ईशानस्य देवस्य सुतं तर्पयामि । ॐ पशुपतेर्देवस्य सुतं तर्पयामि । ॐ रुद्रस्य देवस्य सुतं तर्पयामि । ओमुग्रस्य देवस्य सुतं तर्पयामि । ॐ भीमस्य देवस्य सुतं तर्पयामि । ॐ महतो देवस्य सुतं तर्पयामि । ॐ रुद्रांस् तर्पयामि । ॐ रुद्रपार्षदांस् तर्पयामि । ॐ रुद्रपार्षदीश्च तर्पयामि ॥
२।५।९।७ ॐ विघ्नं तर्पयामि । ॐ विनायकं तर्पयामि । ॐ वीरं तर्पयामि । ॐ स्थूलं [k: शूरं] तर्पयामि । ॐ वरदं तर्पयामि । ॐ हस्तिमुखं तर्पयामि । ॐ वक्रतुण्डं तर्पयामि । ओम् एकदन्तं तर्पयामि । ॐ लम्बोदरं तर्पयामि । [k: गणपतिं तर्पयामि ।] ॐ विघ्नपार्षदांस् तर्पयामि । ॐ विघ्नपार्षदीश् च तर्पयामि ॥
२।५।९।८ ॐ सनत्कुमारं तर्पयामि । ॐ स्कन्दंतर्पयामि । ओम् इन्द्रं तर्पयामि । ॐ षष्ठींतर्पयामि । ॐ षण्मुखं तर्पयामि । ॐ जयन्तं [k: विशाखं] तर्पयामि । ॐ विशाखं [k:जयन्तं] तर्पयामि । ॐ महासेनं तर्पयामि । ओंसुब्रह्मण्यं तर्पयामि [k omits: ॐ सुब्रह्मण्यं तर्पयामि] । ॐ स्कन्दपार्षदांस् तर्पयामि । ॐ स्कन्दपार्षदीश् च तर्पयामि ॥
२।५।९।९ ओम् आदित्यं तर्पयामि । ॐ सोमं तर्पयामि । ओम् अङ्गारकं तर्पयामि । ॐ बुधं तर्पयामि । ॐ बृहस्पतिं तर्पयामि । ॐ शुक्रं तर्पयामि । ॐ शनैश्चरं तर्पयामि । ॐ राहुंतर्पयामि । ॐ केतुं तर्पयामि ॥
२।५।९।१० ॐ केशवं तर्पयामि । ॐ नारायणं तर्पयामि । ॐ माधवं तर्पयामि । ॐ गोविन्दंतर्पयामि । ॐ विष्णुं तर्पयामि । ॐ मधुसूदनं तर्पयामि । ॐ त्रिविक्रमं तर्पयामि । ॐ वामनं तर्पयामि । ॐ श्रीधरं तर्पयामि । ॐ हृषीकेशं तर्पयामि । ॐ पद्मनाभंतर्पयामि । ॐ दामोदरं तर्पयामि । ॐ श्रियं देवीं तर्पयामि । ॐ सरस्वतीं देवीं तर्पयामि । ॐ पुष्टिंतर्पयामि । ॐ तुष्टिं तर्पयामि । ॐ गरुत्मन्तं तर्पयामि । ॐ विष्णुपार्षदांस् तर्पयामि । ॐ विष्णुपार्षदीश् च तर्पयामि ॥ [k: पुष्टिं देवीं ॥। तुष्टिं देवीं ॥। वैनतेयं]
२।५।९।११ ॐ यमं तर्पयामि । ॐ यमराजं तर्पयामि । ॐ धर्मं तर्पयामि । ॐ धर्मराजंतर्पयामि । ॐ कालं तर्पयामि । ॐ नीलंतर्पयामि । ॐ मृत्युं तर्पयामि । ॐ वैवस्वतं [k: अन्तकं] तर्पयामि । ॐ चित्रं तर्पयामि । ॐ चित्रगुप्तं तर्पयामि । ओम् औदुम्बरं तर्पयामि । [क् अद्द्स्: वैवस्वतं तर्पयामि] । ॐ वैवस्वतपार्षदांस् तर्पयामि । ॐ वैवस्वतपार्षदीश्च तर्पयामि ॥
२।५।९।१२ ॐ भूमिदेवांस् तर्पयामि । ॐ काश्यपम् तर्पयामि । ओम् अन्तरिक्षं तर्पयामि । ॐ विद्यां तर्पयामि । ज्येष्ठां तर्पयामि । ॐ धन्वन्तरिं तर्पयामि । ॐ धन्वन्तरिपार्षदांस् तर्पयामि । ॐ धन्वन्तरिपार्षदीश् च तर्पयामीति ॥ [k: भरद्वाजं तर्पयामि गौतमं तर्पयामि अत्रिं तर्पयामि आङ्गिरसं तर्पयामि विद्यां तर्पयामि दुर्गां तर्पयामि ज्येष्टां ॥। ओमित्स्: इति]
२।५।९।१३ अथ निवीती ॥
२।५।९।१४-१ ओम् ऋषींस् तर्पयामि । ॐ महर्षींस् तर्पयामि । ॐ परमर्षींस् तर्पयामि । ॐ ब्रह्मर्षींस् तर्पयामि । ॐ देवर्षींस् तर्पयामि । ॐ राजर्षींस् तर्पयामि । ॐ श्रुतर्षींस् तर्पयामि । ॐ जनरृषींस् तर्पयामि । ॐ तपरृषींस् तर्पयामि । ॐ सत्यर्षींस् तर्पयामि । ॐ सप्तर्षींस् तर्पयामि । ॐ काण्डर्षींस् तर्पयामि । ॐ ऋषिकांस् तर्पयामि । ओम् ऋषिपत्नीस् तर्पयामि । ओम् ऋषिपुत्रांस्तर्पयामि । ओम् ऋषिपौत्रांस् तर्पयामि । [k: परमर्षींस् ॥। महर्षींस्]
२।५।९।१४-२ ॐ काण्वं बौधायनं तर्पयामि । ओम् आपस्तम्बं सूत्रकारं तर्पयामि । ॐ सत्याषाढंहिरण्यकेशिनं तर्पयामि । ॐ वाजसनेयिनं याज्ञवल्क्यम्तर्पयामि । ओम् आश्वलायनं शौनकं तर्पयामि । ॐ व्यासं तर्पयामि । ॐ वसिष्ठं तर्पयामि ।
२।५।९।१४-३ ॐ प्रणवं तर्पयामि । ॐ व्याहृतीस् तर्पयामि । ॐ सावित्रीं तर्पयामि । ॐ गायत्रीं तर्पयामि । ॐ छन्दांसि तर्पयामि । ओम् ऋग्वेदं तर्पयामि । ॐ यजुर्वेदंतर्पयामि । ॐ सामवेदं तर्पयामि । ओम् अथर्ववेदं तर्पयामि । ओम् अथर्वाङ्गिरसस् तर्पयामि । ओम् इतिहासपुराणानितर्पयामि । ॐ सर्ववेदांस् तर्पयामि । ॐ सर्वदेवजनांस् तर्पयामि । ॐ सर्वभूतानि तर्पयामीति ॥ [k: अथर्वाङ्गिरसं ॥। तर्पयामि ॥]
२।५।१०।१ अथ प्राचीनावीति । ॐ पितृ̄न् स्वधा नमस् तर्पयामि । ॐ पितामहान् स्वधा नमस् तर्पयामि । ॐ प्रपितामहान् स्वधा नमस् तर्पयामि । ॐ मातृ̄ः स्वधानमस् तर्पयामि । ॐ पितामहीः स्वधा नमस् तर्पयामि । ॐ प्रपितामहीः स्वधा नमस् तर्पयामि । ॐ मातामहान् स्वधा नमस् तर्पयामि । ॐ मातुः पितामहान्स्वधा नमस् तर्पयामि । ॐ मातुः प्रपितामहान् स्वधानमस् तर्पयामि । ॐ मातामहीः स्वधा नमस् तर्पयामि । ॐ मातुः पितामहीः स्वधा नमस् तर्पयामि । ॐ मातुः प्रपितामहीः स्वधा नमस् तर्पयामि ॥
२।५।१०।२ ओम् आचार्यान् स्वधा नमस् तर्पयामि । ओम् आचार्यपत्नीः स्वधा नमस् तर्पयामि । ॐ गुरून् स्वधानमस् तर्पयामि । ॐ गुरुपत्नीः स्वधा नमस् तर्पयामि । ॐ सखीन् स्वधा नमस् तर्पयामि । ॐ सखिपत्नीः स्वधा नमस् तर्पयामि । ॐ ज्ञातीन् स्वधानमस् तर्पयामि । ॐ ज्ञातिपत्नीः स्वधा नमस्तर्पयामि । ओम् अमात्यान् स्वधा नमस् तर्पयामि । ओम् अमात्यपत्नीः स्वधा नमस् तर्पयामि । ॐ सर्वान् स्वधा नमस् तर्पयामि । ॐ सर्वाः स्वधा नमस्तर्पयामीति ॥
२।५।१०।३ अनुतीर्थम् अप उत्सिञ्चति ॥
२।५।१०।४ ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितृ̄न् । तृप्यत तृप्यत तृप्यतेति ॥
२।५।१०।५ नैकवस्त्रो नार्द्रवासा दैवानि [k: देवानि] कर्माण्यनुसंचरेत् ॥
२।५।१०।६ पितृसंयुक्तानि चेत्य् एकेषाम् । पितृसंयुक्तानि चेत्य् एकेषाम् ॥
२।६।११।१ अथेमे पञ्च महायज्ञाः । तान्य् एव महासत्त्राणि ।देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति ॥
२।६।११।२ अहरहः स्वाहाकुर्याद् आ काष्ठात् । तथैतंदेवयज्ञं समाप्नोति ॥
२।६।११।३ अहरहः स्वधाकुर्याद् ओदपात्रात् । तथैतंपितृयज्ञं समाप्नोति ॥
२।६।११।४ अहरहर् नमस्कुर्याद् आ पुष्पेभ्यः । तथैतम्भूतयज्ञं समाप्नोति ॥
२।६।११।५ अहरहर् ब्राह्मणेभ्योऽन्नं दद्याद् आ मूलफलशाकेभ्यः । तथैतं मनुष्ययज्ञं समाप्नोति ॥
२।६।११।६ अहरहः स्वाध्यायं कुर्याद् आ प्रणवात् । तथैतं ब्रह्मयज्ञं समाप्नोति ॥
२।६।११।७ स्वाध्यायो वै ब्रह्मयज्ञः । तस्य ह वा एतस्यब्रह्मयज्ञस्य वाग् एव जुहूर् मन उपभृच् चक्षुर् ध्रुवा मेधा स्रुवःसत्यम् अवभृथः स्वर्गो लोक उदयनम् । यावन्तं ह वा इमां वित्तस्य पूर्णां ददत् स्वर्गं लोकं जयति तावन्तं लोकं जयति भूयांसं चाक्षय्यं चाप पुनर्मृत्युं जयतिय एवं विद्वान् स्वाध्यायम् अधीते । तस्मात् स्वाध्यायोऽध्येतव्य इति हि ब्राह्मणम् ॥ [k omits:तावन्तं लोकं जयति]
२।६।११।८ अथाप्य् उदाहरन्ति । स्वभ्यक्तः सुहितः सुखे शयनेशयानो यं यं क्रतुम् अधीते तेन तेनास्येष्टं भवतीति ॥ [On the आश्रमस्]
२।६।११।९ तस्य ह वा एतस्य धर्मस्य चतुर्धा भेदम् एक आहुः । अदृष्टत्वात् । ये चत्वार इति । कर्मवादः ॥
२।६।११।१० ऐष्टिकपाशुकसौमिकदार्विहोमाणाम् ॥ [क् दार्वीहोमाणाम्]
२।६।११।११-१ तद् एषाभिवदति ।
२।६।११।११-२कख ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति ।
२।६।११।११-२गघ तेषां यो अज्यानिम् अजीतिम् आवहात् तस्मै नो देवाः परिदत्तेह सर्वे ॥ इति ॥
२।६।११।१२ ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजक इति ॥
२।६।११।१३ ब्रह्मचारी गुरुशुश्रूष्य् आ मरणात् ॥
२।६।११।१४ वानप्रस्थो वैखानसशास्त्रसमुदाचारः ॥
२।६।११।१५ वैखानसो वने मूलफलाशी तपःशीलः सवनेषूदकमुपस्पृशञ् छ्रामणकेनाग्निम् आधायाग्राम्यभोजीदेवपितृभूतमनुष्यऋषिपूजकः सर्वातिथिः प्रतिषिद्धवर्जंबैष्कम् अप्य् उपयुञ्जीत । न फालकृष्टम् अधितिष्ठेद् ग्रामं च नप्रविशेत् । जटिलश् चीराजिनवासा नातिसांवत्सरं भुञ्जीत ॥
२।६।११।१६ परिव्राजकः परित्यज्य बन्धून् अपरिग्रहः प्रव्रजेद् यथाविधि ॥ [k:परिव्रजेद्]
२।६।११।१७ अरण्यं गत्वा ॥
२।६।११।१८ शिखामुण्डः ॥
२।६।११।१९ कौपीनाच्छादनः ॥ [k: कौपीनाच्छादनाः]
२।६।११।२० वर्षास्व् एकस्थः ॥
२।६।११।२१ काषायवासाः ॥
२।६।११।२२ सन्नमुसले व्यङ्गारे निवृत्तशरावसंपाते भिक्षेत ॥
२।६।११।२३ वाङ्मनःकर्मदण्डैर् भूतानाम् अद्रोही ॥
२।६।११।२४ पवित्रं बिभ्रच् छौचार्थम् ॥ [k: बिभृयात्]
२।६।११।२५ उद्धृतपरिपूताभिर् अद्भिर् अप्कार्यं कुर्वाणः [k: अद्भिः कार्यं कुर्यात्] ॥
२।६।११।२६ अपविध्य वैदिकानि कर्माण्य् उभयतः परिच्छिन्ना मध्यमंपदं संश्लिष्यामह इति वदन्तः ॥
२।६।११।२७ ऐकाश्रम्यं त्व् आचार्या अप्रजनत्वाद् [k: अप्रजननत्वाद्]इतरेषाम् ॥
२।६।११।२८ तत्रोदाहरन्ति । प्राह्लादिर् ह वै कपिलो नामासुरआस । स एतान् भेदांश् चकार देवैः [k: देवैस् सह] स्पर्धमानः । तान् मनीषी नाद्रियेत ॥
२।६।११।२९ अदृष्टत्वात् । ये चत्वार इति । कर्मवाद ऐष्टिकपाशुकसौमिकदार्विहोमाणाम् [क् दार्वीहोमाणाम्] ॥
२।६।११।३०-१ तद् एषाभ्यनूच्यते ।
२।६।११।३०-२कख एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नोकनीयान् ।
२।६।११।३०-२गघ तस्यैवात्मा पदवित् तं विदित्वा न कर्मणा लिप्यतेपापकेन ॥ इति ॥ {cf. २।१०।१७।७}
२।६।११।३१-१ स ब्रूयात् ।
२।६।११।३१-२कख येन सूर्यस् तपति तेजसेद्धः पिता पुत्रेण पितृमान्योनियोनौ ।
२।६।११।३१-२गघ नावेदविन् मनुते तं बृहन्तं सर्वानुभूम् आत्मानं संपराये [k: साम्पराये] ॥ इति ॥ [k:सर्वानुभुम्]
२।६।११।३२कख इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो नसुतेकरासः ।
२।६।११।३२गघ त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वतेअप्रजज्ञये ॥ इति ॥
२।६।११।३३ प्रजाभिर् अग्ने अमृतत्वम् अश्याम् । जायमानो वै ब्राह्मणस्त्रिभिर् ऋणवा जायते ब्रह्मचर्येण र्षिभ्यो यज्ञेन देवेभ्यः प्रजयापितृभ्य इति । एवम् ऋणसंयोगवादिन्योऽसंख्येया [k: ऋणसंयोगादीन्यसंख्येयानि] भवन्ति ॥ {cf. २।९।१६।७}
२।६।११।३४-१कख त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपोयज्ञम् अनुप्रदानम् ।
२।६।११।३४-१गघ य एतानि कुर्वते तैर् इत् सह स्मो रजो भूत्वाध्वंसतेऽन्यत् प्रशंसन् ॥ इति ।
२।६।११।३४-२ ध्वंसतेऽन्यत् प्रशंसन्न् इति ॥ [k omits: ध्वंसतेऽन्यत्]
२।७।१२।१ अथ शालीनयायावराणाम् आत्मयाजिनां प्राणाहुतीर्व्याख्यास्यामः ॥
२।७।१२।२ सर्वावश्यकावसाने संमृष्टोपलिप्ते देशे प्राङ्मुखौपविश्य तद् भूतम् आह्रियमाणम् । भूर् भुवः सुवर् ओम् इति । उपस्थाय वाचं यच्छेत् ॥
२।७।१२।३ न्यस्तम् अन्नं महाव्याहृतिभिः प्रदक्षिणम् उदकं परिषिच्यसव्येन पाणिनाविमुञ्चन् । अमृतोपस्तरणम् असीति । पुरस्ताद् अपःपीत्वा पञ्चान्नेन प्राणाहुतीर् जुहोति । प्राणे निविष्टोऽमृतंजुहोमि । शिवो मा विशाप्रदाहाय । प्राणाय स्वाहा । अपानेनिविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । अपानाय स्वाहा । व्याने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । व्यानायस्वाहा । उदाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । उदानाय स्वाहा । समाने निविष्टोऽमृतं जुहोमि । शिवो माविशाप्रदाहाय । समानाय स्वाहेति ॥ [k omits: अपाने निविष्टो समानाय स्वाहा]
२।७।१२।४ पञ्चान्नेन प्राणाहुतीर् हुत्वा तूष्णीं भूयो व्रतयेत्प्रजापतिं मनसा ध्यायन् । नान्तरा वाचं विसृजेत् ॥
२।७।१२।५ यद्य् अन्तरा वाचं विसृजेत् । भूर् भुवः सुवर् ओम् इति । जपित्वा पुनर् एव भुञ्जीत ॥ [k: यद्]
२।७।१२।६ त्वक्केशनखकीटाखुपुरीषाणि दृष्ट्वा तं देशं पिण्डमुद्धृत्याद्भिर् अभ्युक्ष्य भस्मावकीर्य पुनर् अद्भिः प्रोक्ष्य वाचाच प्रशस्तम् उपयुञ्जीत ॥
२।७।१२।७-१ अथाप्य् उदाहरन्ति ।
२।७।१२।७-२कख आसीनः प्राङ्मुखोऽश्नीयाद् वाग्यतोऽन्नम् अकुत्सयन् ।
२।७।१२।७-२गघ अस्कन्दयंस् तन्मनाश् च भुक्त्वा चाग्निम् उपस्पृशेद् ॥ इति ॥
२।७।१२।८ सर्वभक्ष्यापूपकन्दमूलफलमांसानि दन्तैर् नावद्येत् ॥ [k: मांसादीनि]
२।७।१२।९ नातिसुहितः ॥
२।७।१२।१० अमृतापिधानम् असीति । उपरिष्टाद् अपः पीत्वाचान्तोहृदयदेशम् अभिमृशति । प्राणानां ग्रन्थिर् असि रुद्रो माविशान्तकः । तेनान्नेनाप्यायस्वेति ॥
२।७।१२।११-१ पुनर् आचम्य दक्षिणे पादाङ्गुष्ठे पाणी निस्रावयति ।
२।७।१२।११-२कख अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः ।
२।७।१२।११-३गघ ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ॥ इति ॥
२।७।१२।१२ हुतानुमन्त्रणम् ऊर्ध्वहस्तः समाचरेत् । श्रद्धायांप्राणे निविश्यामृतं हुतम् । प्राणम् अन्नेनाप्यायस्व । श्रद्धायामपाने निविश्यामृतं हुतम् । प्राणम् अन्नेनाप्यायस्व । श्रद्धायांव्याने निविश्यामृतं हुतम् । प्राणम् अन्नेनाप्यायस्व । श्रद्धायामुदाने निविश्यामृतं हुतम् । प्राणम् अन्नेनाप्यायस्व । श्रद्धायांसमाने निविश्यामृतं हुतम् । प्राणम् अन्नेनाप्यायस्वेति । पञ्चभिः ॥ [k omits: श्रद्धायाम् अपाने श्रद्धायां समाने अन्नेनाप्यायस्व]
२।७।१२।१३ ब्रह्मणि म आत्मामृतत्वायेति [k: आत्मामृतत्वायेत्यात्मानम्] ॥
२।७।१२।१४ अक्षरेण चात्मानं योजयेत् ॥
२।७।१२।१५ सर्वक्रतुयाजिनाम् आत्मयाजी विशिष्यते ॥
२।७।१२।१६ अथाप्य् उदाहरन्ति ॥
२।७।१३।१कख यथा हि तूलम् ऐषीकम् अग्नौ प्रोतं प्रदीप्यते ।
२।७।१३।१गघ तद्वत् सर्वाणि पापानि दह्यन्ते ह्य् आत्मयाजिनः ॥
२।७।१३।२ केवलाघो भवति केवलादी । मोघम् अन्नं विन्दतेअप्रचेता [k omits अप्रचेता] इति ॥
२।७।१३।३ स एवम् एवाहरहः सायं प्रातर् जुहुयात् ॥
२।७।१३।४ अद्भिर् वा सायम् ॥
२।७।१३।५-१ अथाप्य् उदाहरन्ति ।
२।७।१३।५-२कख अग्रे भोजयेद् अतिथीन् अन्तर्वत्नीर् अनन्तरम् ।
२।७।१३।५-२गघ बालवृद्धांस् तथा दीनान् व्याधितांश् च विशेषतः ॥
२।७।१३।५-३कख अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते यथाविधि ।
२।७।१३।५-३गघ भुज्यमानो न जानाति न स भुङ्क्ते स भुज्यते ॥
२।७।१३।६कख पितृदैवतभृत्यानां मातापित्रोर् गुरोस् तथा ।
२।७।१३।६गघ वाग्यतो विघसम् अश्नीयाद् एवं धर्मो विधीयते ॥ इति ॥
२।७।१३।७-१ अथाप्य् उदाहरन्ति ।
२।७।१३।७-२कख अष्टौ ग्रासा मुनेर् भक्ष्याः षोडशारण्यवासिनः ।
२।७।१३।७-२गघ द्वात्रिंशत् तु गृहस्थस्य अमितं [k: गृहस्थस्यापरिमितं] ब्रह्मचारिणः ॥ [k: द्वात्रिंशतं]
२।७।१३।८कख आहिताग्निर् अनड्वांश् च ब्रह्मचारी च ते त्रयः ।
२।७।१३।८गघ अश्नन्त एव सिध्यन्ति नैषां सिद्धिर् अनश्नताम् ॥ इति ॥
२।७।१३।९कख गृहस्थो ब्रह्मचारी वा योऽनश्नंस् तु तपश् चरेत् ।
२।७।१३।९गघ प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत् तु सः ॥
२।७।१३।१० अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तद् एव विधानम् ॥
२।७।१३।११-१ अथाप्य् उदाहरन्ति ।
२।७।१३।११-२कख अन्तरा प्रातराशं च सायमाशं तथैव च ।
२।७।१३।११-२गघ सदोपवासी भवति यो न भुङ्क्ते कदाचन ॥ [k:कदाचनेति]
२।७।१३।१२कख प्राणाग्निहोत्रमन्त्रांस् तु निरुद्धे भोजने जपेत् ।
२।७।१३।१२गघ त्रेताग्निहोत्रमन्त्रांस् तु द्रव्यालाभे यथा जपेत् ॥ इति ॥
२।७।१३।१३ एवम् आचरन् ब्रह्मभूयाय कल्पते । ब्रह्मभूयाय कल्पत इति ॥ [k: एवम् एवाचरन्]
२।८।१४।१ पित्र्यम् आयुष्यं स्वर्ग्यं यशस्यं पुष्टिकर्म च ॥
२।८।१४।२ त्रिमधुस् त्रिणाचिकेतस् त्रिसुपर्णः पञ्चाग्निःषडङ्गविच् छीर्षको ज्येष्ठसामकः स्नातक इति पङ्क्तिपावनाः ॥
२।८।१४।३ तदभावे रहस्यवित् ॥
२।८।१४।४ ऋचो यजूंषि सामानीति श्राद्धस्य महिमा । तस्मादेवंविदं सपिण्डम् अप्य् आशयेत् ॥
२।८।१४।५कख राक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च ।
२।८।१४।५गघ मध्वृचोऽथ पवित्राणि श्रावयेद् आशयञ् छनैः ॥
२।८।१४।६ चरणवतोऽनूचानान् योनिगोत्रमन्त्रासंबद्धाञ् छुचीन् मन्त्रवतस् त्र्यवरान् अयुजः पूर्वेद्युः प्रातर् एववा निमन्त्र्य सदर्भोपकॢप्तेष्व् आसनेषु प्राङ्मुखान् उपवेशयत्युदङ्मुखान् वा ॥
२।८।१४।७ अथैनांस् तिलमिश्रा अपः प्रतिग्राह्य गन्धैर् माल्यैश्चालंकृत्य । अग्नौ करिष्यामीति । अनुज्ञातोऽग्निम् उपसमाधायसंपरिस्तीर्याग्निमुखात् कृत्वान्नस्यैव तिस्र आहुतीर् जुहोति । सोमाय पितृपीताय स्वधा नमः स्वाहा । यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । अग्नयेकव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहेति ॥ [k: कृत्वाज्यस्यैव]
२।८।१४।८ तच्छेषेणान्नम् अभिघार्यान्नस्यैता एव तिस्रो जुहुयात् ॥ [k: तिस्र आहुतीर्]
२।८।१४।९ वयसां पिण्डं दद्यात् ॥
२।८।१४।१० वयसां हि पितरः प्रतिमया चरन्तीति विज्ञायते ॥
२।८।१४।११ अथेतरत् साङ्गुष्ठेन पाणिनाभिमृशति ॥
२।८।१४।१२-१ पृथिवीसमन्तस्य तेऽग्निर् उपद्रष्टा ऋचस् ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतांप्राणापानयोर् जुहोम्य् अक्षितम् असि मा पितृ̄णां क्षेष्ठा अमुत्रामुष्मिंलोक इति । [k: पृथिवीसमं तस्य]
२।८।१४।१२-२ अन्तरिक्षसमन्तस्य [k: अन्तरिक्षस्समं तस्य] ते वायुर् उपश्रोता यजूंषि ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वाविद्यावतां प्राणापानयोर् जुहोम्य् अक्षितम् असि मा पितामहानांक्षेष्ठा अमुत्रामुष्मिं लोक इति ।
२।८।१४।१२-३ द्युसमन्तस्य त आदित्योऽनुख्यातासामानि ते महिमा दत्तस्य अप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतांप्राणापानयोर् जुहोम्य् अक्षितम् असि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिं लोक इति ॥ [k: द्यौसमं तस्य]
२।८।१५।१ अथ वै भवति ॥
२।८।१५।२कख अग्नौ करणशेषेण तद् अन्नम् अभिघारयेत् ।
२।८।१५।२गघ निरङ्गुष्ठं तु यद् दत्तं न तत् प्रीणाति वै पितृ̄न् ॥
२।८।१५।३कख उभयोः शाखयोर् मुक्तं पितृभ्योऽन्नं निवेदितम् ।
२।८।१५।३गघ तद् अन्तरम् उपासन्ते असुरा दुष्टचेतसः ॥ [k: उपासन्तेऽसुरा वै]
२।८।१५।४कख यातुधानाः पिशाचाश् च प्रतिलुम्पन्ति तद् धविः ।
२।८।१५।४गघ तिलदाने ह्य् अदायाश् च तथा क्रोधवशेऽसुराः ॥
२।८।१५।५कख काषायवासा यान् कुरुते जपहोमप्रतिग्रहान् ।
२।८।१५।५गघ न तद् देवंगमं भवति हव्यकव्येषुयद् धविः ॥ [k: देवगमं]
२।८।१५।६कख यच् च दत्तम् अनङ्गुष्ठं यच् चैव प्रतिगृह्यते ।
२।८।१५।६गघ आचामति च यस् तिष्ठन् न स तेन समृध्यते ॥ इति ॥
२।८।१५।७ आद्यन्तयोर् अपां प्रदानं सर्वत्र ॥
२।८।१५।८ जयप्रभृति यथाविधानम् ॥
२।८।१५।९ शेषम् उक्तम् अष्टकाहोमे ॥
२।८।१५।१०कख द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा । [k: देवे]
२।८।१५।१०गघ भोजयेत् सुसमृद्धोऽपि न प्रसज्येत [k: प्रसज्जेत] विस्तरे ॥
२।८।१५।११कख सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् ।
२।८।१५।११गघ पञ्चैतान् विस्तरो हन्ति तस्मात् तं परिवर्जयेत् ॥
२।८।१५।१२कख उरस्तः पितरस् तस्य वामतश् च पितामहाः ।
२।८।१५।१२गघ दक्षिणतः प्रपितामहाः पृष्ठतः पिण्डतर्ककाः ॥ इति ॥
२।९।१६।१ प्रजाकामस्योपदेशः ॥
२।९।१६।२ प्रजनननिमित्ता समाख्येत्य् अश्विनाव् ऊचतुः ॥
२।९।१६।३कख आयुषा तपसा युक्तः स्वाध्यायेज्यापरायणः ।
२।९।१६।३गघ प्रजाम् उत्पादयेद् युक्तः स्वेस्वे वर्णे [k: वंशे]जितेन्द्रियः ॥
२।९।१६।४कख ब्राह्मणस्य र्णसंयोगस् त्रिभिर् भवति जन्मतः ।
२।९।१६।४गघ तानि मुच्यात्मवान् भवति विमुक्तो धर्मसंशयात् ॥
२।९।१६।५कख स्वाध्यायेन ऋषीन् पूज्य सोमेन च पुरंदरम् ।
२।९।१६।५गघ प्रजया च पितृ̄न् पूर्वान् अनृणो दिवि मोदते ॥
२।९।१६।६कख पुत्रेण लोकाञ् जयति पौत्रेणानन्त्यम् [k: पौत्रेणामृतम्]अश्नुते ।
२।९।१६।६गघ अथ पुत्रस्य पौत्रेण नाकम् एवाधिरोहति ॥ इति ॥
२।९।१६।७ विज्ञायते च । जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवाजायते ब्रह्मचर्येण र्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति । एवम् ऋणसंयोगं वेदो दर्शयति ॥ {cf. २।६।११।३३}
२।९।१६।८ सत्पुत्रम् उत्पाद्यात्मानं तारयति ॥
२।९।१६।९ सप्तावरान् सप्त पूर्वान् षड् अन्यान् आत्मसप्तमान् । सत्पुत्रम् अधिगच्छानस् तारयत्य् एनसो भयात् ॥
२।९।१६।१० तस्मात् प्रजासंतानम् उत्पाद्य फलम् अवाप्नोति [k: फलं प्राप्नोति] ॥
२।९।१६।११ तस्माद् यत्नवान् प्रजाम् उत्पादयेत् ॥
२।९।१६।१२ औषधमन्त्रसंयोगेन ॥
२।९।१६।१३ तस्योपदेशः श्रुतिसामान्येनोपदिश्यते ॥
२।९।१६।१४ सर्ववर्णेभ्यः फलवत्त्वाद् इति । फलवत्त्वाद् [k: फलत्त्वाद्] इति ॥ [k: फलत्त्वाद्]

[देउतेरो-बौधायन]

२।१०।१७।१ अथातः संन्यासविधिं व्याख्यास्यामः ॥
२।१०।१७।२ सोऽत एव ब्रह्मचर्यवान् प्रव्रजतीत्य् एकेषाम् ॥
२।१०।१७।३ अथ शालीनयायावराणाम् अनपत्यानाम् ॥
२।१०।१७।४ विधुरो वा प्रजाः स्वधर्मे प्रतिष्ठाप्य वा ॥
२।१०।१७।५ सप्तत्या ऊर्ध्वं संन्यासम् उपदिशन्ति ॥
२।१०।१७।६ वानप्रस्थस्य वा कर्मविरामे ॥
२।१०।१७।७कख एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नोकनीयान् ।
२।१०।१७।७गघ तस्यैवात्मा पदवित् तं विदित्वा न कर्मणा लिप्यतेपापकेन ॥ इति ॥ {cf. २।६।११।३०}
२।१०।१७।८ अपुनर्भवं नयतीति नित्यः ॥
२।१०।१७।९ महद् एनं गमयतीति महिमा ॥
२।१०।१७।१० केशश्मश्रुलोमनखानि वापयित्वोपकल्पयते ॥
२।१०।१७।११ यष्टयः शिक्यं जलपवित्रं कमण्डलुं पात्रम् इति ॥
२।१०।१७।१२ एतत् समादाय ग्रामान्ते ग्रामसीमान्तेऽग्न्यगारेवाज्यं पयो दधीति त्रिवृत् प्राश्योपवसेत् ॥
२।१०।१७।१३ अपो वा ॥
२।१०।१७।१४ ॐ भूः सावित्रीं प्रविशामि तत् सवितुर् वरेण्यम् । ओंभुवः सावित्रीं प्रविशामि भर्गो देवस्य धीमहि । ॐ सुवः सावित्रीं प्रविशामि धियो यो नः प्रचोदयाद् इति । पच्छोऽर्धर्चशस्ततः समस्तया च व्यस्तया च ॥
२।१०।१७।१५ आत्मानम् आत्मन आश्रमादाश्रमम् उपनीय ब्रह्मपूतो भवतीति विज्ञायते ॥ [k omits: आत्मानम् आत्मन]
२।१०।१७।१६-१ अथाप्य् उदाहरन्ति ।
२।१०।१७।१६-२कख आश्रमाद् आश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
२।१०।१७।१६-२गघ भिक्षाबलिपरिश्रान्तः पश्चाद् भवति भिक्षुकः ॥ इति ॥
२।१०।१७।१७ स एष भिक्षुर् आनन्त्याय ॥
२।१०।१७।१८ पुरादित्यस्यास्तमयाद् गार्हपत्यमुपसमाधायान्वाहार्यपचनम् आहृत्य ज्वलन्तम् आहवनीयमुद्धृत्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतंगृहीत्वा समिद्वत्य् आहवनीये पूर्णाहुतिं जुहोति । ॐ स्वाहेति ॥
२।१०।१७।१९ एतद् ब्रह्मान्वाधानम् इति विज्ञायते ॥
२।१०।१७।२० अथ सायं हुतेऽग्निहोत्र उत्तरेण गार्हपत्यं तृणानिसंस्तीर्य तेषु द्वंद्वं न्यञ्चि पात्राणि सादयित्वादक्षिणेनाहवनीयं ब्रह्मायतने दर्भान् संस्तीर्य तेषुकृष्णाजिनं चान्तर्धायैतां रात्रिं जागर्ति ॥
२।१०।१७।२१ य एवं विद्वान् ब्रह्मरात्रिम् उपोष्य ब्राह्मणोऽग्नीन् समारोप्य प्रमीयते सर्वं पाप्मानं तरति तरतिब्रह्महत्याम् ॥ [k: उपोष्याग्नीन्]
२।१०।१७।२२ अथ ब्राह्मे मुहूर्त उत्थाय काल एव प्रातरग्निहोत्रंजुहोति ॥
२।१०।१७।२३ अथ पृष्ठ्यां स्तीर्त्वापः प्रणीय वैश्वानरंद्वादशकपालं निर्वपति । सा प्रसिद्धेष्टिः संतिष्ठते ॥
२।१०।१७।२४ आहवनीयेऽग्निहोत्रपात्राणि प्रक्षिपत्य् अमृन्मयान्यनश्ममयानि ॥ [k: प्रक्षिपेद् अमृण्मयान्य् अनायसानि]
२।१०।१७।२५ गार्हपत्येऽरणी । भवतं नः समनसाव् इति ॥
२।१०।१७।२६ आत्मन्य् अग्नीन् समारोपयते । या ते अग्नेयज्ञिया तनूर् इति त्रिस् त्रिर् एकैकं समाजिघ्रति ॥ [k: अथात्मन्य्]
२।१०।१७।२७ अथान्तर्वेदि तिष्ठन् । ॐ भूर् भुवः सुवः संन्यस्तंमया संन्यस्तं मया संन्यस्तं मयेति । त्रिर् उपांशूक्त्वा त्रिरुच्चैः ॥
२।१०।१७।२८ त्रिषत्या हि देवा इति विज्ञायते ॥
२।१०।१७।२९ अभयं सर्वभूतेभ्यो मत्त इति चापां पूर्णम् अञ्जलिंनिनयति ॥
२।१०।१७।३०-१ अथाप्य् उदाहरन्ति ।
२।१०।१७।३०-२कख अभयं सर्वभूतेभ्यो दत्त्वा यश् चरते मुनिः ।
२।१०।१७।३०-२गघ न तस्य सर्वभूतेभ्यो भयं चापीह जायते ॥ इति ॥ [k: चापि ह]
२।१०।१७।३१ स वाचंयमो भवति ॥
२।१०।१७।३२ सखा मा गोपायेति दण्डम् आदत्ते ॥ [k: मे]
२।१०।१७।३३ यद् अस्य पारे रजस इति शिक्यं गृह्णाति ॥
२।१०।१७।३४ येन देवाः पवित्रेणेति जलपवित्रं गृह्णाति ॥
२।१०।१७।३५ येन देवा ज्योतिषोर्ध्वा उदायन्न् इति कमण्डलुं गृह्णाति ॥
२।१०।१७।३६ सप्तव्याहृतिभिः पात्रं गृह्णाति ॥
२।१०।१७।३७ यष्टयः शिक्यं जलपवित्रं कमण्डलुं पात्रम् इत्य् एतत्समादाय यत्रापस् तत्र [k: तद्] गत्वा स्नात्वाप आचम्यसुरभिमत्याब्लिङ्गाभिर् वारुणीभिर् हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वान्तर्जलगतोऽघमर्षणेन षोडश प्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वान्यत् प्रयतं वासःपरिधायाप आचम्य । ॐ भूर् भुवः सुवर् इति । जलपवित्रमादाय तर्पयति । ॐ भूस् तर्पयामि । ॐ भुवस् तर्पयामि । ओंसुवस् तर्पयामि । ॐ महस् तर्पयामि । ॐ जनस् तर्पयामि । ॐ तपस्तर्पयामि । ॐ सत्यं तर्पयामीति ॥
२।१०।१७।३८ देववत् पितृभ्योऽञ्जलिम् आदाय [k:उपादाय] । ॐ भूः स्वधा । ॐ भुवः स्वधा । ॐ सुवः स्वधा । ओंभूर् भुवः सुवर् महर् नम इति ॥ [k omits: देववत्]
२।१०।१७।३९ अथ । उद् उ त्यम् । चित्रम् इति । द्वाभ्याम् आदित्यम् उपतिष्ठते ॥
२।१०।१७।४० ओम् इति ब्रह्म ब्रह्म वा एष ज्योतिर् य एष तपत्य् एष वेदो य एष तपति वेद्यम् एवैतद् य एष तपति । एवम् एवैष आत्मानं तर्पयति । आत्मने नमस्करोति । आत्माब्रह्मात्मा ज्योतिः ॥ [k: ओम् एष ज्योतिः य एष ज्योतिः य एष तर्पत्यैष वेदा य एव तर्पयति वेद्यम् एवैतद् य एष तर्पयति॥।]
२।१०।१७।४१ सावित्रीं सहस्रकृत्व आवर्तयेच् छतकृत्वोऽपरिमितकृत्वो वा ॥

===================================

२।१०।१७।४२ ॐ भूर् भुवः सुवर् इति जलपवित्रम् आदायापो गृह्णाति ॥ [k: पवित्रम्]
२।१०।१७।४३ नात ऊर्ध्वम् अनुद्धृताभिर् अद्भिरपरिस्रुताभिर् अपरिपूताभिर् वाचामेत् ॥ [k: न चात]
२।१०।१७।४४ न चात ऊर्ध्वं शुक्लं वासो धारयेत् ॥
२।१०।१८।१ एकदण्डी त्रिदण्डी वा ॥
२।१०।१८।२ अथेमानि व्रतानि भवन्ति । अहिंसा सत्यम् अस्तैन्यंमैथुनस्य च वर्जनम् । त्याग इत्य् एव ॥
२।१०।१८।३ पञ्चैवोपव्रतानि भवन्ति । अक्रोधोगुरुशुश्रूषाप्रमादः शौचम् आहारशुद्धिश् चेति ॥
२।१०।१८।४ अथ भैक्षचर्या । ब्राह्मणानां शालीनयायावराणामपवृत्ते वैश्वदेवे भिक्षां लिप्सेत ॥
२।१०।१८।५ भवत्पूर्वां प्रचोदयेत् [k: प्रचोदयात्] ॥
२।१०।१८।६ गोदोहमात्रम् [k: गोदोहनमात्रम्] आकाङ्क्षेत् ॥
२।१०।१८।७ अथ भैक्षचर्याद् उपावृत्य शुचौ देशेन्यस्य हस्तपादान् प्रक्षाल्यादित्यस्याग्रं निवेदयेत् । उद् उ त्यम् । चित्रम् इति । ब्रह्मणे निवेदयते । ब्रह्म जज्ञानम् इति ॥ [k: उपावृत्तः ॥। अग्रे]
२।१०।१८।८ विज्ञायते । आधानप्रभृति यजमान एवाग्नयो भवन्ति । तस्य प्राणो गार्हपत्योऽपानोऽन्वाहार्यपचनो व्यान आहवनीयौदानसमानौ सभ्यावसथ्यौ । पञ्च वा एतेऽग्नय आत्मस्थाः ।आत्मन्य् एव जुहोति ॥
२।१०।१८।९ स एष आत्मयज्ञ आत्मनिष्ठ आत्मप्रतिष्ठ आत्मानंक्षेमं नयतीति विज्ञायते ॥
२।१०।१८।१० भूतेभ्यो दयापूर्वं संविभज्य शेषम् अद्भिः संस्पृश्यौषधवत् प्राश्नीयात् ॥
२।१०।१८।११ प्राश्याप आचम्य ज्योतिष्मत्यादित्यम् उपतिष्ठते । उद्वयं तमसस् परीति । वाङ् म आसन् नसोः प्राण इति जपित्वा ॥ [k:प्राश्याप आचम्य वाङ् म आसन् नसोः प्राण इति जपित्वाज्योतिष्मत्यादित्यम् उपतिष्ठते उद् वयं तमसस् परीति]
२।१०।१८।१२कख अयाचितम् असंकॢप्तम् उपपन्नं यदृच्छया ।
२।१०।१८।१२गघ आहारमात्रं भुञ्जीत केवलं प्राणयात्रिकम् ॥ इति ॥
२।१०।१८।१३-१ अथाप्य् उदाहरन्ति ।
२।१०।१८।१३-२कख अष्टौ ग्रासा मुनेर् भक्ष्याः षोडशारण्यवासिनः ।
२।१०।१८।१३-२गघ द्वात्रिंशत् तु गृहस्थस्य अमितं ब्रह्मचारिणः ॥ [k: द्वात्रिंशतं]
२।१०।१८।१४कख भैक्षं वा सर्ववर्णेभ्य एकान्नं वा द्विजातिषु ।
२।१०।१८।१४गघ अपि वा सर्ववर्णेभ्यो न चैकान्नं द्विजातिषु ॥ इति ॥
२।१०।१८।१५-१ अथ यत्रोपनिषदम् आचार्या ब्रुवते तत्रोदाहरन्ति ।
२।१०।१८।१५-२ स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य कणपिण्याकयावकदधिपयोव्रतत्वं चेति ॥
२।१०।१८।१६ तत्र मौने युक्तस् त्रैविद्यवृद्धैर् आचार्यैर् मुनिभिरन्यैर् वाश्रमिभिर् बहुश्रुतैर् दन्तैर् [k omits दन्तैर्] दन्तान्संधायान्तर्मुख एव यावदर्थसंभाषी न स्त्रीभिर् न यत्र लोपोभवतीति विज्ञायते ॥ [k: यावदर्थं सम्भाषीत; ओमित्स्: न स्त्रीभिर्]
२।१०।१८।१७ स्थानमौनवीरासनानाम् अन्यतमेन संप्रयोगः । नत्रयं संनिपातयेत् ॥
२।१०।१८।१८ यत्र गतश् च यावन्मात्रम् अनुव्रतयेद् आपत्सु न यत्रलोपो भवतीति विज्ञायते ॥
२।१०।१८।१९ स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य । अष्टौ तान्य् अव्रतघ्नानि [k: अव्रतध्वनि]आपो मूलं घृतं पयः । हविर् ब्राह्मणकाम्या च गुरोर् वचनमौषधम् इति ॥
२।१०।१८।२० सायंप्रातरग्निहोत्रमन्त्राञ् जपेत् ॥
२।१०।१८।२१ वारुणीभिः सायं संध्याम् उपस्थाय मैत्रीभिः प्रातः ॥ [k:वारुणोभिस्॥।उपतिष्ठते]
२।१०।१८।२२कख अनग्निर् अनिकेतः स्याद् अशर्माशरणो मुनिः ।
२।१०।१८।२२गघ भैक्षार्थी ग्रामम् अन्विच्छेत् स्वाध्याये वाचमुत्सृजेद् ॥ इति ॥
२।१०।१८।२३ विज्ञायते च । परिमिता वा ऋचः परिमितानि सामानिपरिमितानि यजूंषि । अथैतस्यैवान्तो नास्ति यद् ब्रह्म । तत्प्रतिगृणत आचक्षीत । स प्रतिगर इति ॥
२।१०।१८।२४ एवम् एवैष आ शरीरविमोक्षणाद् वृक्षमूलिकोवेदसंन्यासी ॥
२।१०।१८।२५ वेदो वृक्षः । तस्य मूलं प्रणवः । प्रणवात्मको वेदः ॥
२।१०।१८।२६ प्रणवं ध्यायन् सप्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापतिः ॥ [k: प्रणवो ब्रह्म प्रणवंध्यायेत् प्रणवो]
२।१०।१८।२७ सप्तव्याहृतिभिर् ब्रह्मभाजनं प्रक्षालयेद् इति । प्रक्षालयेद् इति ॥
३।१।१ अथ शालीनयायावरचक्रचरधर्मकाङ्क्षिणां नवभिर्वृत्तिभिर् वर्तमानानाम् ॥
३।१।२ तेषां तद्वर्तनाद् वृत्तिर् इत्य् उच्यते ॥
३।१।३ शालाश्रयत्वाच् छालीनत्वम् ॥
३।१।४ वृत्त्या वरया यातीति यायावरत्वम् ॥
३।१।५ अनुक्रमेण चरणाच् चक्रचरत्वम् ॥ [k: अनुक्रमचरणाच्]
३।१।६ ता अनुव्याख्यास्यामः ॥
३।१।७ षण्णिवर्तनी कौद्दाली ध्रुवा संप्रक्षालनीसमूहा फालनी शिलोञ्छा कापोतासिद्धेच्छेति नवैताः ॥ [k: कोद्दाली॥।पालिनी सिलोञ्छा]
३।१।८ तासाम् एव वान्यापि दशमी वृत्तिर् भवति ॥ [k: वृद्धिर्]
३।१।९ आ नववृत्तेः ॥
३।१।१० केशश्मश्रुलोमनखानि वापयित्वोपकल्पयते ॥
३।१।११ कृष्णाजिनं कमण्डलुं यष्टिं वीवधं कुतपहारम् इति ॥ [k:कुथहारिम्]
३।१।१२ त्रैधातवीयेनेष्ट्वा प्रस्थास्यति वैश्वानर्या वा ॥
३।१।१३ अथ प्रातर् उदित आदित्ये यथासूत्रम् अग्नीन्प्रज्वाल्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्यसंमृज्य स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये वास्तोष्पतीयंजुहोति ॥ [k omits अथ]
३।१।१४ वास्तोष्पते प्रति जानीह्य् अस्मान् इति पुरोनुवाक्याम् अनूच्य । वास्तोष्पते शग्मया संसदा त इति याज्यया जुहोति ॥
३।१।१५ सर्व एवाहिताग्निर् इत्य् एके ॥
३।१।१६ यायावर इत्य् एके ॥
३।१।१७ निर्गत्य ग्रामान्ते ग्रामसीमान्ते वावतिष्ठते । तत्रकुटीं मठं वा करोति कृतं वा प्रविशति ॥
३।१।१८ कृष्णाजिनादीनाम् उपकॢप्तानां यस्मिन्न् अर्थे येन येन यत्प्रयोजनं तेन तेन तत् कुर्यात् ॥ [k: यस्मिन् यस्मिन्न्]
३।१।१९ प्रसिद्धम् अग्नीनां परिचरणम् । प्रसिद्धंदर्शपूर्णमासाभ्यां यजनम् । प्रसिद्धः पञ्चानां महतां यज्ञानामनुप्रयोगः । उत्पन्नानाम् ओषधीनां निर्वापणं दृष्टं भवति ॥
३।१।२० विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामीति वा तूष्णीं वा ताःसंस्कृत्य साधयति ॥
३।१।२१ तस्याध्यापनयाजनप्रतिग्रहा निवर्तन्तेऽन्ये चयज्ञक्रतव इति ॥
३।१।२२ हविष्यं च व्रतोपायनीयं दृष्टं भवति ॥
३।१।२३ तद् यथा सर्पिर्मिश्रं दधिमिश्रम् अक्षारलवणम् अपिशितम् अपर्युषितम् ॥ [k omits: तद् यथा]
३।१।२४ ब्रह्मचर्यम् ऋतौ वा गच्छति ॥
३।१।२५ पर्वणिपर्वणि केशश्मश्रुलोमनखवापनं शौचविधिश् च ॥
३।१।२६-१ अथाप्य् उदाहरन्ति ।
३।१।२६-२कख श्रूयते द्विविधं शौचं यच् छिष्टैः पर्युपासितम् ।
३।१।२६-२गघ बाह्यं निर्लेपनिर्गन्धम् अन्तःशौचम् अहिंसकम् ॥ [k: अहिंसनम्]
३।१।२७कख अद्भिः शुध्यन्ति गात्राणि बुद्धिर् ज्ञानेन शुध्यति । [k:शुद्ध्यतीति]
३।१।२७गघ अहिंसया च भूतात्मा मनः सत्येन शुध्यति ॥ इति ॥
३।२।१ यथो एतत् षण्णिवर्तनीति ॥
३।२।२ षड् एव निवर्तनानि निरुपहतानि करोति । स्वामिने भागमुत्सृजत्य् अनुज्ञातं वा गृह्णाति ॥
३।२।३ प्राक् प्रातराशात् कर्षी स्याद् अस्यूतनासिकाभ्यांसमुष्काभ्याम् अतुदन्न् आरया मुहुर्मुहुर् अभ्युच्छन्दयन् ॥ {=
२।२।४।२०-२१}
३।२।४ एतेन विधिना षण्निवर्तनानि करोतीतिषण्णिवर्तनी ॥ [k: षण्णिवर्तनानि]
३।२।५ कौद्दालीति । जलाभ्याशे कुद्दालेन वा फालेन वा तीक्ष्णकाष्ठेन वा खनति बीजान्य् आवपति कन्दमूलफलशाकौषधीर् निष्पादयति ॥
३।२।६ कुद्दालेन करोतीति कौद्दाली ॥
३।२।७ ध्रुवया वर्तमानः शुक्लेन वाससा शिरो वेष्टयति । भूत्यैत्वा शिरो वेष्टयामीति । ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय त्वेतिकृष्णाजिनम् आदत्तेऽब्लिङ्गाभिः पवित्रम् । बलम् असि बलाय [H:वलाय] त्वेति कमण्डलुम् । धान्यम् असि पुष्ट्यै त्वेति वीवधम् । सखा मा गोपायेति दण्डम् ॥
३।२।८-१ अथोपनिष्क्रम्य व्याहृतीर् जपित्वा दिशाम् अनुमन्त्रणं जपति ।
३।२।८-२कख पृथिवी चान्तरिक्षं च द्यौर् नक्षत्राणि या दिशः ।
३।२।८-२गघ अग्निर् वायुश् च सूर्यश् च पान्तु मां पथि देवताः ॥ इति ॥
३।२।९ मानस्तोकीयं जपित्वा ग्रामं प्रविश्य गृहद्वारेगृहद्वारआत्मानं वीवधेन सह दर्शनात् संदर्शनीत्य् आचक्षते ॥
३।२।१० वृत्तेर् वृत्तेर् अवार्त्तायां तयैव तस्य ध्रुवं वर्तनाद्ध्रुवेति परिकीर्तिता ॥
३।२।११ संप्रक्षालनीति । उत्पन्नानाम् ओषधीनां प्रक्षेपणम् । निक्षेपणं नास्ति निचयो वा । भाजनानि संप्रक्षाल्य न्युब्जतीतिसंप्रक्षालनी ॥
३।२।१२ समूहेति । अवारितस्थानेषु पथिषु वा क्षेत्रेषुवाप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्र तत्रसमूहन्या समुह्य ताभिर् वर्तयतीति समूहा ॥
३।२।१३ फालनीत्य् अहिंसिकेत्य् एवेदम् उक्तंभवति । तुषविहीनांस् तण्डुलान् इच्छति सज्जनेभ्यो बीजानि वा । फालयतीति फालनी ॥ [k: पालनीत्य्॥।पालयतीति पालनी]
३।२।१४ शिलोञ्छेति । अवारितस्थानेषु पथिषु वाक्षेत्रेषु वाप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्रतत्रैकैकं कणिशम् उञ्छयित्वा कालेकाले शिलैर् वर्तयतीतिशिलोञ्छा ॥ [k: सिलोञ्छेति ॥। सिलोञ्छा]
३।२।१५ कापोतेति । अवारितस्थानेषु पथिषु वा [k omits: वा] क्षेत्रेषु वाप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्रतत्राङ्गुलीभ्याम् एकैकाम् ओषधिम् उञ्छयित्वा संदंशनात् [k:सन्दर्शनात्] कपोतवद् इति कापोता ॥
३।२।१६ सिद्धेच्छेति । वृत्तिभिः श्रान्तो वृद्धत्वाद् धातुक्षयाद् वासज्जनेभ्यः सिद्धम् अन्नम् इच्छतीति सिद्धेच्छा ॥
३।२।१७ तस्यात्मनि समारोपणं विद्यतेसंन्यासिवद् उपचारः पवित्रकाषायवासोवर्जम् ॥ [k: तस्यात्मसमारोपणं]
३।२।१८ वान्यापि वृक्षलतावल्ल्योषधीनां च तृणौषधीनां चश्यामाकजर्तिलादीनाम् । वन्याभिर् वर्तयतीतिवान्या ॥ [k: वान्याभिर्]
३।२।१९-१ अथाप्य् उदाहरन्ति ।
३।२।१९-२कख मृगैः सह परिस्पन्दः संवासस् तेभिर्[!] एव च ।
३।२।१९-२गघ तैर् एव सदृशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणम् ॥
३।२।१९-३ प्रत्यक्षं स्वर्गलक्षणम् इति ॥ {३।२।१९ = ३।३।२२}
३।३।१ अथ वानप्रस्थद्वैविध्यम् [k: वानप्रस्थस्य द्वैविध्यम्] ॥
३।३।२ पचमानका अपचमानकाश् चेति ॥
३।३।३ तत्र पचमानकाः पञ्चविधाः सर्वारण्यका वैतुषिकाःकन्दमूलभक्षाः फलभक्षाः शाकभक्षाश् चेति ॥
३।३।४ तत्र सर्वारण्यका नाम द्विविधा द्विविधम् आरण्यमाश्रयन्त इन्द्रावसिक्ता रेतोवसिक्ताश् चेति ॥
३।३।५ तत्रेन्द्रावसिक्ता नाम वल्लीगुल्मलतावृक्षाणामानयित्वा श्रपयित्वा सायंप्रातरग्निहोत्रं हुत्वायत्यतिथिव्रतिभ्यश् च दत्त्वाथेतरच् छेषभक्षाः ॥
३।३।६ रेतोवसिक्ता नाम मांसंव्याघ्रवृकश्येनादिभिर् अन्यतमेन वा हतम् आनयित्वा श्रपयित्वासायंप्रातरग्निहोत्रं हुत्वा यत्यतिथिव्रतिभ्यश् चदत्त्वाथेतरच् छेषभक्षाः ॥
३।३।७ वैतुषिकास् तुषधान्यवर्जं तण्डुलान् आनयित्वा श्रपयित्वासायंप्रातरग्निहोत्रं हुत्वा यत्यतिथिव्रतिभ्यश् चदत्त्वाथेतरच् छेषभक्षाः ॥
३।३।८ कन्दमूलफलशाकभक्षाणाम् अप्य् एवम् एव ॥
३।३।९ पञ्चैवापचमानका उन्मज्जकाः प्रवृत्ताशिनो मुखेनादायिनस्तोयाहारा वायुभक्षाश् चेति ॥
३।३।१० तत्रोन्मज्जका नाम लोहाश्मकरणवर्जम् ॥
३।३।११ हस्तेनादाय प्रवृत्ताशिनः ॥
३।३।१२ मुखेनादायिनो मुखेनाददते ॥
३।३।१३ तोयाहाराः केवलं तोयाहाराः ॥
३।३।१४ वायुभक्षा निराहाराश् च ॥
३।३।१५ इति वैखानसानां विहिता दश दीक्षाः ॥ [k omits इति]
३।३।१६ यः स्वशास्त्रम् अभ्युपेत्य दण्डं च मौनं चाप्रमादं च ॥ [k: शास्त्रम्]
३।३।१७ वैखानसाः शुध्यन्ति निराहाराश् चेति ॥
३।३।१८ शास्त्रपरिग्रहः सर्वेषां ब्रह्मवैखानसानाम् ॥
३।३।१९कख न द्रुह्येद् दंशमशकान् हिमवांस् तापसो भवेत् ।
३।३।१९गघ वनप्रतिष्ठः संतुष्टश् चीरचर्मजलप्रियः ॥
३।३।२०कख अतिथीन् पूजयेत् पूर्वं काले त्व् आश्रमम् आगतान् ।
३।३।२०गघ देवविप्राग्निहोत्रे च युक्तस् तपसि तापसः ॥
३।३।२१-१कख कृच्छ्रां वृत्तिम् असंहार्यां सामान्यां मृगपक्षिभिः ।
३।३।२१-१गघ तद् अहर् जनसंभारां कषायकटुकाश्रयाम् ॥
३।३।२१-२कख परिगृह्य शुभां वृत्तिम् एतां दुर्जनवर्जिताम् ।
३।३।२१-२गघ वनवासम् उपाश्रित्य ब्राह्मणो नावसीदति ॥
३।३।२२-१कख मृगैः सह परिस्पन्दः संवासस् तेभिर्[!] एव च ।
३।३।२२-१गघ तैर् एव सदृशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणम् ॥
३।३।२२-२ प्रत्यक्षं स्वर्गलक्षणम् इति ॥ {३।३।२२ = ३।२।१९}
३।४।१ अथ यदि ब्रह्मचार्य् अव्रत्यम् इव चरेन् मांसं वाश्नीयात्स्त्रियं वोपेयात् सर्वास्व् एवार्तिषु ॥
३।४।२ अन्तरागारेऽग्निम् उपसमाधाय संपरिस्तीर्याग्निमुखात्कृत्वा, अथाज्याहुतीर् उपजुहोति । कामेन कृतंकामः करोति कामायैवेदं सर्वं यो मा कारयति तस्मै स्वाहा । मनसा कृतं मनः करोति मनस एवेदं सर्वं यो मा कारयति तस्मैस्वाहा । रजसा कृतं रजः करोति रजस एवेदं सर्वं यो माकारयति तस्मै स्वाहा । तमसा कृतं तमः करोति तमस एवेदंसर्वं यो मा कारयति तस्मै स्वाहा । पाप्मना कृतं पाप्मा करोतिपाप्मन एवेदं सर्वं यो मा कारयति तस्मै स्वाहा । मन्युना कृतंमन्युः करोति मन्यव एवेदं सर्वं यो मा कारयति तस्मै स्वाहेति ॥ {cf. २।८।१४।७}
३।४।३ जयप्रभृति सिद्धम् आ धेनुवरप्रदानात् ॥
३।४।४ अपरेणाग्निं कृष्णाजिनेन प्राचीनग्रीवेणोत्तरलोम्नाप्रावृत्य वसति ॥
३।४।५ व्युष्टायां जघनार्धाद् आत्मानमपकृष्य तीर्थं गत्वा प्रसिद्धंस्नात्वान्तर्जलगतोऽघमर्षणेन षोडश प्राणायामान्धारयित्वा प्रसिद्धम् आदित्योपस्थानात् कृत्वाचार्यस्य गृहानेति ॥ [k: अथ व्युष्टायां]
३।४।६ यथाश्वमेधावभृथ एवम् [k: यथाश्वमेधावभृथम्]एवैतद् विजानीयाद् इति ॥
३।५।१ अथातः पवित्रातिपवित्रस्याघमर्षणस्य कल्पंव्याख्यास्यामः ॥
३।५।२ तीर्थं गत्वा स्नातः शुचिवासा उदकान्ते स्थण्डिलम् उद्धृत्य सकृत्क्लिन्नेन वाससा सकृत्पूर्णेन पाणिनादित्याभिमुखोऽघमर्षणं स्वाध्यायम् अधीयीत ॥
३।५।३ प्रातः शतं मध्याह्ने शतम् अपराह्णे शतम् अपरिमितं वा ॥
३।५।४ उदितेषु नक्षत्रेषु प्रसृतियावकं [k: प्रसृतयावकं]प्राश्नीयात् ॥
३।५।५ ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश् चोपपातकेभ्यः सप्तरात्रात्प्रमुच्यते द्वादशरात्राद् भ्रूणहननं गुरुतल्पगमनंसुवर्णस्तैन्यं सुरापानम् इति च वर्जयित्वा ॥
३।५।६ एकविंशतिरात्रात् तान्य् अपि तरति तान्य् अपि जयति ॥
३।५।७ सर्वं तरति सर्वं जयति सर्वक्रतुफलम् अवाप्नोति सर्वेषुतीर्थेषु स्नातो भवति सर्वेषु वेदेषु चीर्णव्रतो भवति सर्वैर्देवैर् ज्ञातो भवत्य् आ चक्षुषः पङ्क्तिं पुनाति कर्माणि चास्यसिध्यन्तीति बौधायनः ॥
३।६।१ अथ कर्मभिर् आत्मकृतैर् गुरुम् इवात्मानंमन्येतात्मार्थे प्रसृतियावकं [k: प्रसृतयावकं] श्रपयेदुदितेषु नक्षत्रेषु ॥
३।६।२ न ततोऽग्नौ जुहुयात् ॥
३।६।३ न चात्र बलिकर्म ॥
३।६।४ अशृतं श्रप्यमाणं शृतं चाभिमन्त्रयेत ॥
३।६।५-१कख यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
३।६।५-१गघ निर्णोदः सर्वपापानां पवित्रम् ऋषिभिः स्मृतम् ॥
३।६।५-२कख घृतं यवा मधु यवा आपो यवा अमृतं यवाः ।
३।६।५-२गघ सर्वं पुनीत मे पापं यन् मया दुष्कृतं कृतम् ॥ [k: पुनथ]
३।६।५-३कख वाचा कृतं कर्म कृतं मनसा दुर्विचिन्तितम् ।
३।६।५-३गघ अलक्ष्मीं कालकर्णीं च सर्वं पुनीत मे यवाः ॥ [k: कालरात्रीं ॥। पुनथ]
३।६।५-४कख श्वसूकरावधूतं च काकोच्छिष्टहतं च यत् । [k: श्वसूकरावधूतं यत्काकोच्छिष्टोपहतं च यत्]
३।६।५-४गघ मातापित्रोर् अशुश्रूषां सर्वं पुनीत [k: पुनथ] मे यवाः ॥
३।६।५-५कख महापातकसंयुक्तं दारुणं राजकिल्बिषम् ।
३।६।५-५गघ बालवृद्धम् अधर्मं च सर्वं पुनीत मे यवाः ॥ [k: बालवृत्तम्॥।पुनथ]
३।६।५-६कख सुवर्णस्तैन्यम् अव्रत्यम् अयाज्यस्य च याजनम् ।
३।६।५-६गघ ब्राह्मणानां परीवादं सर्वं पुनीत मे यवाः ॥ [k: पुनथ]
३।६।५-७कख गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् ।
३।६।५-७गघ चोरस्यान्नं नवश्राद्धं सर्वं पुनीत मेयवाः ॥ इति ॥ [k: पुनथ]
३।६।६ श्रप्यमाणे रक्षां कुर्यात् । नमो रुद्राय भूताधिपतये ।द्यौः शान्ता । कृणुष्व पाजः प्रसितिं न पृथ्वीम् इत्य् एतेनानुवाकेन । ये देवाः पुरःसदोऽग्निनेत्राः +रक्षोहण इति पञ्चभिः पर्यायैः । मा नस् तोके । ब्रह्मा देवानाम् इतिद्वाभ्याम् ॥ [k omits: इत्य् एतेनानुवाकेन]
३।६।७ शृतं च लघ्व् अश्नीयात् प्रयतः पात्रे निषिच्य ॥
३।६।८ ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस् ते नःपान्तु ते नोऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहेति । आत्मनि जुहुयात् ॥
३।६।९ त्रिरात्रं मेधार्थी ॥
३।६।१० षड्रात्रं पीत्वा पापकृच् छुद्धो भवति ॥
३।६।११ सप्तरात्रं पीत्वा भ्रूणहननं गुरुतल्पगमनंसुवर्णस्तैन्यं सुरापानम् इति च पुनाति ॥
३।६।१२ एकादशरात्रं पीत्वा पूर्वपुरुषकृतम् अपि पापं निर्णुदति ॥
३।६।१३ अपि वा गोनिष्क्रान्तानां यवानाम् एकविंशतिरात्रं पीत्वागणान् पश्यति गणाधिपतिं पश्यति विद्यां पश्यति विद्याधिपतिंपश्यतीत्य् आह भगवान् बौधायनः ॥
३।७।१ कूश्माण्डैर् जुहुयाद् योऽपूत इव मन्येत ॥ [k: अथ कूष्माण्डैर्]
३।७।२ यथा स्तेनो यथा भ्रूणहैवम् एष भवति योऽयोनौ रेतःसिञ्चति ॥
३।७।३ यद् अर्वाचीनम् एनो भ्रूणहत्यायास् तस्मान् मुच्यत इति ॥
३।७।४ अयोनौ रेतः सिक्त्वान्यत्र स्वप्नाद् अरेपा वा पवित्रकामः[k: पवित्रकामो वा] ॥
३।७।५ अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानिवापयित्वा ब्रह्मचारिकल्पेन व्रतम् उपैति ॥
३।७।६ संवत्सरं मासं चतुर्विंशत्यहं [k: चतुर्विंशत्यहो] द्वादशरात्रीः षट् तिस्रो वा ॥
३।७।७ न मांसम् अश्नीयान् न स्त्रियम् उपेयान् नोपर्यासीतजुगुप्सेतानृतात् ॥
३।७।८ पयोभक्ष इति प्रथमः कल्पः । यावकं वोपयुञ्जानःकृच्छ्रद्वादशरात्रं चरेद् भिक्षेद् वा ॥
३।७।९ तद्विधेषु यवागूं राजन्यो वैश्य आमिक्षाम् ॥
३।७।१० पूर्वाह्णे पाकयज्ञिकधर्मेणाग्निम् उपसमाधायसंपरिस्तीर्याग्निमुखात् कृत्वाथाज्याहुतीर् उपजुहोति [k omits: अथाज्याहुतीर् उपजुहोति] । यद् देवा देवहेडनम् । यद् अदीव्यन्न् ऋणम् अहं बभूव । आयुष् टे विश्वतो दधद् इति । एतैस् त्रिभिर् अनुवाकैः ॥ [k: देवहेलनम् ॥। एतैस् त्रिदित्य् अनुवाकैः]
३।७।११ प्रत्यृचम् आज्यस्य जुहुयात् ॥ [k: आज्यस्य हुत्वा]
३।७।१२ सिंहे व्याघ्र उत या पृदाकाव् इति चतस्रः स्रुवाहुतीः । अग्नेऽभ्यावर्तिन् । अग्ने अङ्गिरः । पुनर् ऊर्जा । सह रय्येतिचतस्रोऽभ्यावर्तिनीर् हुत्वा समित्पाणिर् यजमानलोकेऽवस्थाय । वैश्वानराय प्रति वेदयाम इति द्वादशर्चेन सूक्तेनोपतिष्ठते ॥ [k: सूक्तेनोपस्थाय]
३।७।१३ यन् मया मनसा वाचा कृतम् एनः कदाचन । [k: यन् मे] सर्वस्मात्तस्मान् मेडितो मोग्धि त्वं हि वेत्थयथातथं स्वाहेति । समिधम् आधाय वरं ददाति ॥ [k: सर्वस्मान् मेwइतो]
३।७।१४ जयप्रभृति सिद्धम् आ धेनुवरप्रदानात् ॥
३।७।१५ एक एवाग्नौ परिचारी [k: परिचर्यायाम्] ॥
३।७।१६ अथाग्न्याधेये [k: अग्न्याधेये] । यद् देवा देवहेडनम् [k:देवोदेवमहेलनम्] । यद् अदीव्यन्न् ऋणम् अहं बभूव । आयुष् टे विश्वतोदधद् इति । पूर्णाहुतीः [k: पूर्णाहुतिम्] ॥
३।७।१७ हुत्वाग्निहोत्रम् आरप्स्यमानो दशहोत्रा । हुत्वादर्शपूर्णमासाव् आरप्स्यमानश् चतुर्होत्रा । हुत्वा चातुर्मास्यान्यारप्स्यमानः पञ्चहोत्रा । हुत्वा पशुबन्धे षड्ढोत्रा । हुत्वा [कोमित्स् हुत्वा] सोमे सप्तहोत्रा ॥
३।७।१८ विज्ञायते च [k: omits च] । कर्मादिष्व् एतैर् जुहुयात् । पूतो देवलोकान् समश्नुत इति हि ब्राह्मणम् । इति हि ब्राह्मणम् ॥
३।८।१ अथातश् चान्द्रायणस्य कल्पं व्याख्यास्यामः ॥ [k: चान्द्रायणकल्पं]
३।८।२ शुक्लचतुर्दशीम् उपवसेत् ॥
३।८।३ केशश्मश्रुलोमनखानि वापयित्वापि वा श्मश्रूण्य् एवाहतंवासो वसानः सत्यं ब्रुवन्न् आवसथम् अभ्युपेयात् ॥
३।८।४ तस्मिन्न् अस्य सकृत्प्रणीतोऽग्निर् अरण्योर् निर्मन्थ्यो वा ॥
३।८।५ ब्रह्मचारी सुहृत् प्रैषायोपकल्पी स्यात् ॥
३।८।६ हविष्यं च व्रतोपायनीयम् ॥ [k: व्रतोपायनम्]
३।८।७ अग्निम् उपसमाधाय संपरिस्तीर्याग्निमुखात् कृत्वापक्वाज् जुहोति ॥
३।८।८ अग्नये या तिथिः स्यान् नक्षत्राय सदैवताय । अत्राह गोरमन्वतेति चान्द्रमसीं पञ्चमीं द्यावापृथिवीभ्यां षष्ठीमहोरात्राभ्यां सप्तमीं रौद्रीम् अष्टमीं सौरीं नवमीं वारुणींदशमीम् ऐन्द्रीम् एकादशीं वैश्वदेवीं द्वादशीम् इति ॥
३।८।९ अथापराः समामनन्ति दिग्भ्यश् च सदैवताभ्य उरोरन्तरिक्षाय सदैवताय ॥
३।८।१० नवोनवो भवति जायमान इति सौविष्टकृतींहुत्वाथैतद् धविरुच्छिष्टं कंसे वा चमसे वा व्युद्धृत्यहविष्यैर् व्यञ्जनैर् उपसिच्य पञ्चदश पिण्डान् प्रकृतिस्थान् प्राश्नाति ॥
३।८।११ प्राणाय त्वेति प्रथमम् । अपानाय त्वेति द्वितीयम् । व्यानाय त्वेति तृतीयम् । उदानाय त्वेति चतुर्थम् । समानायत्वेति पञ्चमम् । यदा चत्वारो द्वाभ्यां पूर्वम् । यदा त्रयोद्वाभ्यां द्वाभ्यां पूर्वौ । यदा द्वौ द्वाभ्यां पूर्वं त्रिभिरुत्तरम् । एकं सर्वैः ॥
३।८।१२ निग्राभ्या स्थेति । अपः पीत्वाथाज्याहुतीरुपजुहोति । प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा । वाङ्मनः । शिरःपाणि । त्वक्चर्ममांस [k: त्वक्चर्म] । शब्दस्पर्शरूप पृथिव्यप्तेजो । [k: शब्दस्पर्श पृथिवी] अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्तां ज्योतिर् अहं विरजा विपाप्मा भूयासं स्वाहेति सप्तभिर् अनुवाकैः ॥ [k: अन्नमयप्राणमय इत्य् एतैस् सप्तभिर् अनुवाकैः]
३।८।१३ जयप्रभृति सिद्धम् आ धेनुवरप्रदानात् ॥
३।८।१४ सौरीभिर् आदित्यम् उपतिष्ठते चान्द्रमसीभिश् चन्द्रमसम् ॥
३।८।१५ अग्ने त्वं सु जागृहीति संविशञ् जपति ॥
३।८।१६ त्वम् अग्ने व्रतपा असीति प्रबुद्धः ॥
३।८।१७ स्त्रीशूद्रैर् नाभिभाषेत मूत्रपुरीषे नावेक्षेत ॥
३।८।१८ अमेध्यं दृष्ट्वा जपति । अबद्धं मनो दरिद्रं चक्षुः सूर्योज्योतिषां श्रेष्ठो दीक्षे मा मा हासीर् इति ॥ [k adds: अथ यद्य् एनमभिवर्षत्य् उन्दतीर् बलं धत्तेति]
३।८।१९ प्रथमायाम् अपरपक्षस्य चतुर्दश ग्रासान् ॥
३।८।२० एवम् एकापचयेनामावास्यायाः ॥
३।८।२१ अमावास्यायां ग्रासो न विद्यते ॥
३।८।२२ अथ [k omits अथ] प्रथमायां पूर्वपक्षस्यैकः । द्वौद्वितीयायाम् [k: द्वितीयस्याम्] ॥
३।८।२३ एवम् एकोपचयेना पौर्णमास्याः ॥
३।८।२४ पौर्णमास्यां स्थालीपाकस्य जुहोत्य् अग्नये या तिथिः स्यान्नक्षत्रेभ्यश् च सदैवतेभ्यः ॥
३।८।२५ पुरस्ताच् छ्रोणाया अभिजितः सदैवतस्य हुत्वा गांब्राह्मणेभ्यो दद्यात् ॥
३।८।२६ तद् एतच् चान्द्रायणं पिपीलिकामध्यम् । विपरीतं यवमध्यम् ॥
३।८।२७ अतोऽन्यतरच् चरित्वा सर्वेभ्यः पातकेभ्यः पापकृच् छुद्धोभवति ॥
३।८।२८ कामाय कामायैतद् आहार्यम् इत्य् आचक्षते ॥
३।८।२९ यं कामं कामयते तम् एतेनाप्नोति ॥
३।८।३० एतेन वा ऋषय आत्मानं शोधयित्वा पुरा कर्माण्य् असाधयन् । तद् एतद् धन्यं पुण्यं पुत्र्यं पौत्र्यं पशव्यम् आयुष्यं स्वर्ग्यंयशस्यं सार्वकामिकम् ॥
३।८।३१ नक्षत्राणां द्युतिं सूर्याचन्द्रमसोर् एव [k omits एव]सायुज्यं सलोकताम् आप्नोति य उ चैनद् अधीते । य उ चैनद् अधीते ॥
३।९।१ अथातोऽनश्नत्पारायणविधिं व्याख्यास्यामः ॥
३।९।२ शुचिवासाः स्याच् चीरवासा वा ॥
३।९।३ हविष्यम् अन्नम् इच्छेद् अपः फलानि वा ॥
३।९।४ ग्रामात् प्राचीं वोदीचीं वा दिशम् उपनिष्क्रम्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलम् उपलिप्य प्रोक्ष्य लक्षणम् उल्लिख्य अद्भिर् अभ्युक्ष्य अग्निम् उपसमाधाय संपरिस्तीर्यैताभ्यो देवताभ्यो जुहुयात् । अग्नये स्वाहा । प्रजापतये स्वाहा । सोमायस्वाहा [k: सोमाय स्वाहा प्रजापतये स्वाहा] विश्वेभ्यो देवेभ्यःस्वयंभुव ऋग्भ्यो यजुर्भ्यः सामभ्योऽथर्वभ्यः श्रद्धायै प्रज्ञायैमेधायै श्रियै ह्रियै सवित्रे सावित्र्यै सदसस्पतयेऽनुमतये च ॥ [क् अद्द्स्: व्याहरेन् न चान्तरा विरमेत्]
३।९।५ हुत्वा वेदादिम् आरभेत संततम् अधीयीत ॥ [k omits]
३।९।६ नान्तरा व्याहरेन् न चान्तरा विरमेत् ॥ [k omits]
३।९।७ अथान्तरा व्याहरेद् अथान्तरा विरमेत् त्रिः प्राणान् आयम्य वृत्तान्ताद् एवारभेत ॥ [k: त्रीन्]
३।९।८ अप्रतिभायां यावता कालेन न वेद तावन्तं कालं तदधीयीत स यदा जानीयाद् ऋक्तो यजुष्टः सामतैति ॥ [k: यज् जानीयात्]
३।९।९ तद्ब्राह्मणं तक्छान्दसं तद्दैवतम् अधीयीत ॥
३।९।१० द्वादश वेदसंहिता अधीयीत । यदनेनानध्यायेऽधीयीत यद् गुरवः कोपिता यान्य् अकार्याणि भवन्तिताभिः पुनीते । शुद्धम् अस्य पूतं ब्रह्म भवति ॥
३।९।११ अत ऊर्ध्वं संचयः ॥
३।९।१२ अपरा द्वादश वेदसंहिता अधीत्य ताभिर् उशनसो लोकमवाप्नोति ॥
३।९।१३ अपरा द्वादश वेदसंहिता अधीत्य ताभिर् बृहस्पतेर् लोकमवाप्नोति ॥
३।९।१४ अपरा द्वादश वेदसंहिता अधीत्य ताभिः प्रजापतेर् लोकमवाप्नोति ॥
३।९।१५ अनश्नन् संहिता सहस्रम् अधीयीत । ब्रह्मभूतो विरजो [k:विराजो] ब्रह्म भवति ॥
३।९।१६ संवत्सरं भैक्षं प्रयुञ्जानो दिव्यं चक्षुर् लभते ॥
३।९।१७ षण् मासान् यावकभक्षश् चतुरो मासान् उदकसक्तुभक्षो द्वौमासौ फलभक्षो मासम् अब्भक्षो द्वादशरात्रं वाप्राश्नन् क्षिप्रमन्तर्धीयते ज्ञातीन् पुनाति सप्तावरान् सप्त पूर्वान् आत्मानंपञ्चदशं पङ्क्तिं च पुनाति ॥
३।९।१८ ताम् एतां देवनिश्रयणीत्य् [k: देवनिश्श्रयणीत्य्] आचक्षते ॥
३।९।१९ एतया वै देवा देवत्वम् अगच्छन्न् ऋषय ऋषित्वम् ॥
३।९।२० तस्य ह वा एतस्य यज्ञस्य त्रिविध एवारम्भकालःप्रातःसवने माध्यंदिने सवने ब्राह्मे वापररात्रे ॥
३।९।२१ तं वा एतं प्रजापतिः सप्तर्षिभ्यः प्रोवाच सप्तर्षयोमहाजज्ञवे महाजज्ञुर् ब्राह्मणेभ्यः । ब्राह्मणेभ्यः ॥
३।१०।१ उक्तो वर्णधर्मश् चाश्रमधर्मश् च ॥
३।१०।२ अथ खल्व् अयं पुरुषो याप्येन कर्मणा मिथ्या वा चरत्ययाज्यं वा याजयत्य् अप्रतिग्राह्यस्य वा प्रतिगृह्णात्य् अनाश्यान्नस्यवान्नम् अश्नात्य् अचरणीयेन वा चरति ॥
३।१०।३ तत्र प्रायश्चित्तं कुर्यान् न कुर्याद् इति मीमांसन्ते [कोमित्स् मीमांसन्ते] ॥
३।१०।४ नहि कर्म क्षीयत इति ॥
३।१०।५ कुर्याद् इत्य् एव ॥ [k: कुर्यात् त्व्]
३।१०।६ पुनस्तोमेनेष्ट्वा पुनः सवनम् आयान्तीति विज्ञायते ॥ [k: पुनस्तोमेन यजेत ॥। आयन्तीति]
३।१०।७ अथाप्य् उदाहरन्ति । सर्वं पाप्मानं तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजत इति ॥
३।१०।८ अग्निष्टुता वाभिशंस्यमानो यजेतेति च ॥ [k: वाभिशस्यमानो]
३।१०।९ तस्य निष्क्रयणानि जपस् तपो होम उपवासो दानम् ॥
३।१०।१० उपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दःसु संहिता मधून्यघमर्षणम् अथर्वशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे सामनीबृहद्रथंतरे पुरुषगतिर् महानाम्न्यो महावैराजं महादिवाकीर्त्यंज्येष्ठसाम्नाम् अन्यतमं बहिष्पवमानः कूश्माण्ड्यः पावमान्यः सावित्री चेति पावनानि ॥ [k: बहिष्पवमानं]
३।१०।११ उपसन्न्यायेन पयोव्रतता शाकभक्षता फलभक्षतामूलभक्षता प्रसृतियावको हिरण्यप्राशनं घृतप्राशनंसोमपानम् इति मेध्यानि ॥
३।१०।१२ सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः सरितः पुण्या ह्रदास्तीर्थान्य् ऋषिनिकेतनानि गोष्ठक्षेत्रपरिष्कन्दा इति देशाः ॥
३।१०।१३ अहिंसा सत्यम् अस्तैन्यं सवनेषूदकोपस्पर्शनंगुरुशुश्रूषा ब्रह्मचर्यम् अधःशयनम् एकवस्त्रतानाशक इतितपांसि ॥
३।१०।१४ हिरण्यं गौर् वासोऽश्वो भूमिस् तिला घृतम् अन्नम् इति देयानि ॥
३।१०।१५ संवत्सरः षण्मासाश् चत्वारस् त्रयो द्वाव् एकश्चतुर्विंशत्यहो द्वादशाहः षडहस् त्र्यहोऽहोरात्र एकाह इतिकालाः ॥
३।१०।१६ एतान्य् अनादेशे क्रियेरन् ॥
३।१०।१७ एनःसु गुरुषु गुरूणि लघुषु लघूनि ॥
३।१०।१८ कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इति सर्वप्रायश्चित्तिः । सर्वप्रायश्चित्तिः ॥
४।१।१कख प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् ।
४।१।१गघ तेषुतेषु च दोषेषु गरीयांसि लघूनि च ॥
४।१।२कख यद्य् अत्र हि भवेद् युक्तं तद् धि तत्रैव निर्दिशेत् ।
४।१।२गघ भूयोभूयो गरीयःसु लघुष्व् अल्पीयसस् तथा ॥
४।१।३कख विधिना शास्त्रदृष्टेन प्राणायामान् समाचरेत् ।
४।१।३गघ यद् उपस्थकृतं पापं पद्भ्यां वा यत् कृतं भवेत् ।
४।१।३चछ बाहुभ्यां मनसा वाचा श्रोत्रत्वग्घ्राणचक्षुषा ॥
४।१।४ अपि वा चक्षुःश्रोत्रत्वग्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैःशुध्यति ॥ [k: अथ वाचा]
४।१।५ शूद्रान्नस्त्रीगमनभोजनेषु केवलेषु पृथक्पृथक्सप्ताहं सप्तसप्त प्राणायामान् धारयेत् ॥
४।१।६ अभक्ष्याभोज्यापेयानाद्यप्राशनेषु तथापण्यविक्रयेषुमधुमांसघृततैलक्षारलवणावरान्नवर्जेषु यच् चान्यद् अप्येवंयुक्तं द्वादशाहं द्वादशद्वादश प्राणायामान् धारयेत् ॥
४।१।७ पातकपतनीयोपपातकवर्जेषु यच् चान्यद् अप्य् एवंयुक्तमर्धमासं द्वादशद्वादश प्राणायामान् धारयेत् ॥
४।१।८ पातकपतनीयवर्जेषु यच् चान्यद् अप्य् एवंयुक्तं द्वादशद्वादशाहान् द्वादशद्वादश प्राणायामान् धारयेत् ॥
४।१।९ पातकवर्जेषु यच् चान्यद् अप्य् एवंयुक्तं द्वादशार्धमासान्द्वादशद्वादश प्राणायामान् धारयेत् ॥
४।१।१० अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान्धारयेत् ॥
४।१।११कख दद्याद् गुणवते कन्यां नग्निकां ब्रह्मचारिणे ।
४।१।११गघ अपि वा गुणहीनाय नोपरुन्ध्याद् रजस्वलाम् ॥
४।१।१२कख त्रीणि वर्षाण्य् ऋतुमतीं यः कन्यां न प्रयच्छति ।
४।१।१२गघ स तुल्यं भ्रूणहत्यायै दोषम् ऋच्छत्य् असंशयम् ॥
४।१।१३कख न याचते चेद् एवं स्याद् याचते चेत् पृथक्पृथक् ।
४।१।१३गघ एकैकस्मिन्न् ऋतौ दोषं पातकं मनुर् अब्रवीत् ॥
४।१।१४कख त्रीणि वर्षाण्य् ऋतुमती काङ्क्षेत पितृशासनम् ।
४।१।१४गघ ततश् चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ।
४।१।१४चछ अविद्यमाने सदृशे गुणहीनम् अपि श्रयेत् ॥
४।१।१५कख बलाच् चेत् प्रहृता कन्या मन्त्रैर् यदि न संस्कृता ।
४।१।१५गघ अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥
४।१।१६कख निसृष्टायां हुते वापि यस्यै भर्ता म्रियेत सः ।
४।१।१६गघ सा चेद् अक्षतयोनिः स्याद् गतप्रत्यागता सती ।
४।१।१६चछ पौनर्भवेन विधिना पुनःसंस्कारम् अर्हति ॥
४।१।१७कख त्रीणि वर्षाण्य् ऋतुमतीं यो भार्यां नाधिगच्छति ।
४।१।१७गघ स तुल्यं भ्रूणहत्यायै दोषम् ऋच्छत्य् असंशयम् ॥
४।१।१८कख ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
४।१।१८गघ पितरस् तस्य तं मासं तस्मिन् रजसि शेरते ॥
४।१।१९कख ऋतौ नोपैति यो भार्याम् अनृतौ यश् च गच्छति ।
४।१।१९गघ तुल्यम् आहुस् तयोर् दोषम् अयोनौ यश् च सिञ्चति ॥
४।१।२०कख भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेद् ऋतुम् ।
४।१।२०गघ तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं [ः: भ्रुण-]निर्धमेद् गृहात् ॥
४।१।२१कख ऋतुस्नातां न चेद् गच्छेन् नियतां धर्मचारिणीम् ।
४।१।२१गघ नियमातिक्रमे तस्य प्राणायामशतं स्मृतम् ॥
४।१।२२कख प्राणायामान् पवित्राणि व्याहृतीः प्रणवं तथा ।
४।१।२२गघ पवित्रपाणिर् आसीनो ब्रह्म नैत्यकम् अभ्यसेत् ॥
४।१।२३कख आवर्तयेत् सदा युक्तः प्राणायामान् पुनःपुनः ।
४।१।२३गघ आ केशान्तान् नखाग्राच् च तपस् तप्यत उत्तमम् ॥
४।१।२४कख निरोधाज् जायते वायुर् वायोर् अग्निश् च जायते ।
४।१।२४गघ तापेनापोऽधिजायन्ते ततोऽन्तः शुध्यते त्रिभिः ॥
४।१।२५कख योगेनावाप्यते ज्ञानं योगो धर्मस्य लक्षणम् ।
४।१।२५गघ योगमूला गुणाः सर्वे तस्माद् युक्तः सदा भवेत् ॥
४।१।२६कख प्रणवाद्यास् त्रयो वेदाः प्रणवे पर्यवस्थिताः ।
४।१।२६गघ प्रणवो व्याहृतयश् चैव नित्यं ब्रह्म सनातनम् ॥
४।१।२७गघ प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
४।१।२७गघ त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥
४।१।२८कख सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ।
४।१।२८गघ त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥
४।१।२९कख सव्याहृतिकाः सप्रणवाः प्राणायामास् तु षोडश ।
४।१।२९गघ अपि भ्रूणहनं मासात् पुनन्त्य् अहरहर्धृताः ॥ [k: अहरहः कृताः]
४।१।३०-१कख एतदाद्यं तपः श्रेष्ठम् एतद् धर्मस्य लक्षणम् ।
४।१।३०-१गघ सर्वदोषोपघातार्थम् एतद् एव विशिष्यते ॥
४।१।३०-२ एतद् एव विशिष्यत इति ॥
४।२।१कख प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् ।
४।२।१गघ तेषुतेषु च दोषेषु गरीयांसि लघूनि च ॥
४।२।२कख यद्य् अत्र हि भवेद् युक्तं तद् धि तत्रैव निर्दिशेत् ।
४।२।२गघ भूयोभूयो गरीयःसु लघुष्व् अल्पीयसस् तथा ॥
४।२।३कख विधिना शास्त्रदृष्टेन प्रायश्चित्तानि निर्दिशेत् ॥
४।२।४कख प्रतिग्रहीष्यमाणस् तु प्रतिगृह्य तथैव च ।
४।२।४गघ ऋचस् तरत्समन्द्यस् तु चतस्रः परिवर्तयेत् ॥
४।२।५कख अभोज्यानां तु सर्वेषाम् अभोज्यान्नस्य भोजने ।
४।२।५गघ ऋग्भिस् तरत्समन्दीभिर् मार्जनंपापशोधनम् ॥ [k: तरत्समन्दीयैर्]
४।२।६कख भ्रूणहत्याविधिस् त्व् अन्यस् तं तु वक्ष्याम्य् अतः परम् ।
४।२।६गघ विधिना येन मुच्यन्ते पातकेभ्योऽपि सर्वशः ॥
४।२।७कख प्राणायामान् पवित्राणि व्याहृतीः प्रणवं तथा ।
४।२।७गघ जपेद् अघमर्षणं सूक्तं पयसा द्वादश क्षपाः ॥ [k: -मर्षणं युक्तः पयसा]
४।२।८कख त्रिरात्रं वायुभक्षो वा क्लिन्नवासाः प्लुतः शुचिः ॥ [k: क्लिन्नवासाप्लुतश्]
४।२।९कख प्रतिषिद्धांस् तथाचारान् अभ्यस्यापि पुनःपुनः ।
४।२।९गघ वारुणीभिर् उपस्थाय सर्वपापैः प्रमुच्यते ॥ इति ॥
४।२।१० अथावकीर्ण्य् अमावास्यायां निश्य् अग्निम् उपसमाधायदार्विहोमिकीं परिचेष्टां कृत्वा द्वे आज्याहुती जुहोति । कामअवकीर्णोऽस्म्य् अवकीर्णोऽस्मि काम कामाय स्वाहा । कामअभिद्रुग्धोऽस्म्य् अभिद्रुग्धोऽस्मि काम कामाय स्वाहेति ॥ [cf. २।१।१।३४]
४।२।११ हुत्वा प्रयताञ्जलिः कवातिर्यङ्ङ् अग्निम् उपतिष्ठेत । सं मासिञ्चन्तु मरुतः सम् इन्द्रः सं बृहस्पतिः । सं मायम् अग्निः सिञ्चत्वायुषा च बलेन चायुष्मन्तं करोत मेति [= २।१।१।३५] । प्रति हास्मै मरुतः प्राणान् दधति प्रति इन्द्रो बलं प्रतिबृहस्पतिर् ब्रह्मवर्चसं प्रत्य् अग्निर् इतरत् सर्वम् । सर्वतनुर् भूत्वासर्वम् आयुर् एति । त्रिर् अभिमन्त्रयेत । त्रिषत्या हि देवा इतिविज्ञायते ॥ [k: करोतु]
४।२।१२कख योऽपूत इव मन्येत आत्मानम् उपपातकैः ।
४।२।१२गघ स हुत्वैतेन विधिना सर्वस्मात् पापात् प्रमुच्यते ॥
४।२।१३ अपि वानाद्यापेयप्रतिषिद्धभोजनेषु दोषवच् च कर्मकृत्वाभिसंधिपूर्वम् अनभिसंधिपूर्वं वा शूद्रायां च रेतःसिक्त्वायोनौ वाब्लिङ्गाभिर् वारुणीभिश् चोपस्पृश्य प्रयतोभवति ॥
४।२।१४-१ अथाप्य् उदाहरन्ति ।
४।२।१४-२कख अनाद्यापेयप्रतिषिद्धभोजने विरुद्धधर्माचरिते [k:अनाद्यप्राशनापेयप्रतिषिद्धभोजनेविशुद्धधर्माचरिते] च कर्मणि ।
४।२।१४-२गघ मतिप्रवृत्तेऽपि च पातकोपमैर् विशुध्यतेऽथापि चसर्वपातकैः ॥
४।२।१५कख त्रिरात्रं वाप्य् उपवसंस् त्रिर् अह्नोऽभ्युपयन्न् अपः । [k: अह्नोभ्युपेयाद्]
४।२।१५गघ प्राणान् आत्मनि संयम्य त्रिः पठेद् अघमर्षणम् ।
४।२।१५चछ यथाश्वमेधावभृथ एवं तन् मनुर् अब्रवीत् ॥
४।२।१६-१ विज्ञायते च ।
४।२।१६-२कख चरणं पवित्रं विततं पुराणं येन पूतस् तरति दुष्कृतानि ।
४।२।१६-२गघ तेन पवित्रेण शुद्धेन पूता अति पाप्मानम् अरातिं तरेम ॥ इति ॥
४।३।१कख प्रायश्चित्तानि वक्ष्यामोऽविख्यातानि विशेषतः ।
४।३।१गघ समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥
४।३।२ ओंपूर्वाभिर् व्याहृतिभिः सर्वाभिः सर्वपातकेष्व् आचामेत् ॥
४।३।३ यत् प्रथमम् आचामति तेन र्ग्वेदं प्रीणाति यद् द्वितीयं तेनयजुर्वेदं यत् तृतीयं तेन सामवेदम् ॥
४।३।४ यत् प्रथमं परिमार्ष्टि तेनाथर्ववेदं यद् द्वितीयंतेनेतिहासपुराणम् ॥
४।३।५ यत् सव्यं पाणिं प्रोक्षति पादौ शिरो हृदयं नासिके चक्षुषीश्रोत्रे नाभिं चोपस्पृशति तेनौषधिवनस्पतयः सर्वाश् च देवताःप्रीणाति । तस्माद् आचमनाद् एव सर्वस्मात् पापात् प्रमुच्यते ॥
४।३।६ अष्टौ वा समिध आदध्यात् । देवकृतस्यैनसोऽवयजनम् असि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनम् असि स्वाहा । पितृकृतस्यैनसोऽवयजनम् असि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि स्वाहा । यद् दिवा च नक्तं चैनश् चकृम तस्यावयजनम् असिस्वाहा । यत् स्वपन्तश् च जाग्रतश् चैनश् चकृम तस्यावयजनम् असिस्वाहा । यद् विद्वांसश् चाविद्वांसश् चैनश् चकृम तस्यावयजनमसि स्वाहा । एनस एनसोऽवयजनम् असि स्वाहेति ॥
४।३।७ एतैर् अष्टाभिर् हुत्वा सर्वस्मात् पापात् प्रमुच्यते ॥
४।३।८-१ अथाप्य् उदाहरन्ति ।
४।३।८-२कख अघमर्षणं देवकृतं शुद्धवत्यस् तरत्समाः ।
४।३।८-२गघ कूश्माण्ड्यः पावमान्यश् च विरजा मृत्युलाङ्गलम् ।
४।३।८-२चछ दुर्गा व्याहृतयो रुद्रा महादोषविनाशनाः ॥
४।३।८-३ महादोषविनाशना इति ॥
४।४।१कख प्रायश्चित्तानि वक्ष्यामोऽविख्यातानि विशेषतः ।
४।४।१गघ समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥
४।४।२ ऋतं च सत्यं चेति । एतद् अघमर्षणं त्रिर् अन्तर्जले पठन्सर्वस्मात् पापात् प्रमुच्यते ॥
४।४।३ आयं गौः पृश्निर् अक्रमीद् इति । एताम् ऋचं त्रिर् अन्तर्जले पठन्सर्वस्मात् पापात् प्रमुच्यते ॥
४।४।४ द्रुपदाद् इवेन् मुमुचान इति । एताम् ऋचं त्रिर् अन्तर्जलेपठन् सर्वस्मात् पापात् प्रमुच्यते ॥
४।४।५ हंसः शुचिषद् इति । एताम् ऋचं त्रिर् अन्तर्जले पठन् सर्वस्मात्पापात् प्रमुच्यते ॥
४।४।६ अपि वा सावित्रीं पच्छोऽर्धर्चशस्ततः समस्तां त्रिर् अन्तर्जले पठन् सर्वस्मात्पापात् प्रमुच्यते ॥ [k: सावित्रीं गायत्रीं पच्छो ॥। समस्ताम् इत्य् एताम् ऋचं त्रिर्]
४।४।७ अपि वा व्याहृतीर् व्यस्ताः समस्ताश् चेति त्रिर् अन्तर्जले पठन्सर्वस्मात् पापात् प्रमुच्यते ॥
४।४।८ अपि वा प्रणवम् एव त्रिर् अन्तर्जले पठन् सर्वस्मात् पापात्प्रमुच्यते ॥
४।४।९ तद् एतद् धर्मशास्त्रं नापुत्राय नाशिष्याय नासंवत्सरोषिताय दद्यात् ॥ [k: नाभक्ताय नापुत्राय]
४।४।१० सहस्रं दक्षिण ऋषभैकादशं गुरुप्रसादो वा । गुरुप्रसादो वा ॥ [k: दक्षिणा]
४।५।१कख अथातः संप्रवक्ष्यामि सामऋग्यजुरथर्वणाम् ।
४।५।१गघ कर्मभिर् यैर् अवाप्नोति क्षिप्रं कामान् मनोगतान् ॥
४।५।२कख जपहोमेष्टियन्त्राद्यैः शोधयित्वा स्वविग्रहम् ।
४।५।२गघ साधयेत् सर्वकर्माणि नान्यथा सिद्धिम् अश्नुते ॥
४।५।३कख जपहोमेष्टियन्त्राणि करिष्यन्न् आदितो द्विजः ।
४।५।३गघ शुक्लपुण्यदिनऋक्षेषु केशश्मश्रूणि वापयेत् ॥
४।५।४कख स्नायात् त्रिषवणं पायाद् आत्मानंक्रोधतोऽनृतात् ।
४।५।४गघ स्त्रीशूद्रैर् नाभिभाषेत ब्रह्मचारी हविर्व्रतः ॥
४।५।५कख गोविप्रपितृदेवेभ्यो नमस्कुर्याद् दिवास्वपन् । [k: नमस्कुर्वन्]
४।५।५गघ जपहोमेष्टियन्त्रस्थो दिवास्थानो निशासनः ॥
४।५।६कख प्राजापत्यो भवेत् कृच्छ्रो दिवा रात्राव् अयाचितम् ।
४।५।६गघ क्रमशो वायुभक्षश् च द्वादशाहं त्र्यहंत्र्यहम् ॥
४।५।७कख अहर् एकं तथा नक्तम् अज्ञातं वायुभक्षणम् ।
४।५।७गघ त्रिवृद् एष परावृत्तो बालानां कृच्छ्र उच्यते ॥
४।५।८कख एकैकं ग्रासम् अश्नीयात् पूर्वोक्तेन त्र्यहंत्र्यहम् ।
४।५।८गघ वायुभक्षस् त्र्यहं चान्यद् अतिकृच्छ्रः स उच्यते ॥
४।५।९कख अम्बुभक्षस् त्र्यहान् एतान् वायुभक्षस् ततः परम् ।
४।५।९गघ कृच्छ्रातिकृच्छ्रस् तृतीयो विज्ञेयः सोऽतिपावनः ॥
४।५।१०कख त्र्यहंत्र्यहं पिबेद् उष्णं पयः सर्पिः कुशोदकम् ।
४।५।१०गघ वायुभक्षस् त्र्यहं चान्यत् तप्तकृच्छ्रः स उच्यते ॥
४।५।११कख गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
४।५।११गघ एकरात्रोपवासश् च कृच्छ्रः सांतपनः स्मृतः ॥
४।५।१२कख गायत्र्यादाय गोमूत्रंगन्धद्वारेति गोमयम् । [k: गायत्र्यागृह्य]
४।५।१२गघ आ प्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।
४।५।१२चछ शुक्रम् असि ज्योतिर् इत्य् आज्यं देवस्यत्वेति कुशोदकम् ॥ [k: ज्योतिर् असीत्य् ॥। कुशोदकम् इति]
४।५।१३कख गोमूत्रभागस् तस्यार्धं शकृत् क्षीरस्य तु त्रयम् । [k: क्षीरस्य तयम्]
४।५।१३गघ द्वयं दध्नो घृतस्यैक एकश् च कुशवारिणः ।
४।५।१३चछ एवं सांतपनः कृच्छ्रः श्वपाकम् अपि शोधयेत् ॥
४।५।१४कख गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा [k: गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्] ।
४।५।१४गघ पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति ॥
४।५।१५कख यत् आत्मनोऽप्रमत्तस्य द्वादशाहम् अभोजनम् ।
४।५।१५गघ पराको नाम कृच्छ्रोऽयं सर्वपापप्रणाशनः ॥
४।५।१६कख गोमूत्रादिभिर् अभ्यस्तम् एकैकं तं त्रिसप्तकम् ।
४।५।१६गघ महासांतपनं कृच्छ्रं वदन्ति ब्रह्मवादिनः ॥
४।५।१७कख एकवृद्ध्या सिते पिण्डान् एकहान्यासिते ततः । [k: पिण्डे]
४।५।१७गघ पक्षयोर् उपवासौ द्वौ तद् धि चान्द्रायणं स्मृतम् ॥
४।५।१८कख चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः ।
४।५।१८गघ चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं चरेत् ॥ [k: स्मृतम्]
४।५।१९कख अष्टावष्टौ मासम् एकं पिण्डान् मध्यंदिने स्थिते ।
४।५।१९गघ नियतात्मा हविष्यस्य यतिचान्द्रायणंचरेत् ॥ [k: -चान्दायणं]
४।५।२०कख यथा कथंचित् पिण्डानां द्विजस् तिस्रस् त्व् अशीतयः ।
४।५।२०गघ मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥
४।५।२१कख यथोद्यंश् चन्द्रमा हन्ति जगतस् तमसो भयम् ।
४।५।२१गघ एवं पापाद् भयं हन्ति द्विजश् चान्द्रायणं चरन् ॥ [k: तथा पापाद्]
४।५।२२कख कणपिण्याकतक्राणि यवाचामोऽनिलाशनः । [k: तथा चापो]
४।५।२२गघ एकत्रिपञ्चसप्तेति पापघ्नोऽयं तुलापुमान् ॥
४।५।२३कख यावकः सप्तरात्रेण वृजिनं हन्ति देहिनाम् ।
४।५।२३गघ सप्तरात्रोपवासो वा दृष्टम् एतन् मनीषिभिः ॥
४।५।२४कख पौषभाद्रपदज्येष्ठास्व् आर्द्राकाशातपाश्रयात् । [k: पौषभाद्रपदज्येष्ठार्द्रा-]
४।५।२४गघ त्रीञ् छुक्लान् मुच्यते पापात् पतनीयाद् ऋते द्विजः ॥
४।५।२५कख गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
४।५।२५गघ यवाचामेन संयुक्तो ब्रह्मकूर्चोऽतिपावनः ॥
४।५।२६कख अमावास्यां निराहारः पौर्णमास्यां तिलाशनः ।
४।५।२६गघ शुक्लकृष्णकृतात् पापान् मुच्यते अब्दस्य पर्वभिः ॥
४।५।२७कख भैक्षाहारोऽग्निहोत्रिभ्यो मासेनैकेन शुध्यति ।
४।५।२७गघ यायावरवनस्थेभ्यो दशभिः पञ्चभिर् दिनैः ॥
४।५।२८कख एकाहधनिनोऽन्नेन दिनेनैकेन शुध्यति ।
४।५।२८गघ कापोतवृत्तिनिष्ठस्य पीत्वापः शुध्यते त्रिभिः ॥
४।५।२९कख ऋग्यजुःसामवेदानां वेदस्यान्यतमस्य वा ।
४।५।२९गघ पारायणं त्रिर् अभ्यस्येद् अनश्नन् सोऽतिपावनः ॥
४।५।३०कख अथ चेत् त्वरते कर्तुं दिवसं मारुताशनः । [k: दिवसे]
४।५।३०गघ रात्रौ जलस्थितो व्युष्टः प्राजापत्येन तत्समम् ॥ [k: जले स्थितो]
४।५।३१कख गायत्र्याष्टसहस्रं तु जपं कृत्वोत्थिते रवौ ।
४।५।३१गघ मुच्यते सर्वपापेभ्यो यदि न भ्रूणहा भवेत् ॥
४।५।३२कख योऽन्नदः सत्यवादी च भूतेषु कृपया स्थितः ।
४।५।३२गघ पूर्वोक्तयन्त्रशुद्धेभ्यः सर्वेभ्यः सोऽतिरिच्यते ॥
४।६।१कख समाधुच्छन्दसा रुद्रा गायत्री प्रणवान्विता ।
४।६।१गघ सप्त व्याहृतयश् चैव जप्याः पापविनाशनाः ॥ [k: जाप्याः]
४।६।२कख मृगारेष्टिः पवित्रेष्टिस् त्रिहविः पावमान्य् अपि ।
४।६।२गघ इष्टयः पापनाशिन्यो वैश्वानर्या समन्विताः ॥
४।६।३कख इदं चैवापरं गुह्यम् उच्यमानं निबोधत ।
४।६।३गघ मुच्यते सर्वपापेभ्यो महतः पातकाद् ऋते ॥
४।६।४कख पवित्रैर् मार्जनं कुर्वन् रुद्रैकादशिनीं [k:रुद्रैकार्देशिकां] जपन् ।
४।६।४गघ पवित्राणि घृतैर् जुह्वत् प्रयच्छन् हेमगोतिलान् ॥
४।६।५कख योऽश्नीयाद् यावकं पक्वं गोमूत्रे सशकृद्रसे ।
४।६।५गघ सदधिक्षीरसर्पिष्के मुच्यते सोंऽहसः क्षणात् ॥
४।६।६कख प्रसूतो यश् च शूद्रायां येनागम्या च लङ्घिता ।
४।६।६गघ सप्तरात्रात् प्रमुच्येते विधिनैतेन ताव् उभौ ॥
४।६।७कख रेतोमूत्रपुरीषाणां प्राशनेऽभोज्यभोजने ।
४।६।७गघ पर्याधानेज्ययोर् एतत् परिवित्ते च भेषजम् ॥
४।६।८कख अपातकानि कर्माणि कृत्वैव सुबहून्य् अपि ।
४।६।८गघ मुच्यते सर्वपापेभ्य इत्य् एतद् वचनं सताम् ॥
४।६।९कख मन्त्रमार्गप्रमाणं तु विधानं समुदीरितम् । [k: विधाने]
४।६।९गघ भरद्वाजादयो येन ब्रह्मणः सात्मतां गताः ॥ [k: समतां]
४।६।१०-१कख प्रसन्नहृदयो विप्रः प्रयोगाद् अस्य कर्मणः ।
४।६।१०-१गघ कामांस् तांस् तान् अवाप्नोति ये ये कामा हृदि स्थिताः ॥
४।६।१०-२ ये ये कामा हृदि स्थिता इति ॥
४।७।१कख निवृत्तः पापकर्मभ्यः प्रवृत्तः पुण्यकर्मसु ।
४।७।१गघ यो विप्रस् तस्य सिध्यन्ति विना यन्त्रैर् अपि क्रियाः ॥
४।७।२कख ब्राह्मणा ऋजवस् तस्माद् यद् यद् इच्छन्ति चेतसा ।
४।७।२गघ तत् तद् आसादयन्त्य् आशु संशुद्धा ऋजुकर्मभिः ॥
४।७।३कख एवम् एतानि यन्त्राणि तावत् कार्याणि धीमता ।
४।७।३गघ कालेन यावतोपैति विग्रहः शुद्धिम् आत्मनः ॥ [k: विग्रहं]
४।७।४कख एभिर् यन्त्रैर् विशुद्धात्मा त्रिरात्रोपोषितस् ततः ।
४।७।४गघ तद् आरभेत येन र्द्धिं कर्मणा प्राप्तुम् इच्छति ॥
४।७।५कख क्ष्मापवित्रः सहस्राक्षो मृगारोंऽहोमुचौ गणौ । [k: क्षापवित्रं]
४।७।५गघ पावमान्यश् च कूश्माण्ड्यो वैश्वानर्य ऋचश् च याः ॥
४।७।६कख घृतौदनेन ता जुह्वत् सप्ताहं सवनत्रयम् ।
४।७।६गघ मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥
४।७।७कख सिंहे म इत्य् अपां पूर्णे पात्रेऽवेक्ष्य चतुष्पथे ।
४।७।७गघ मुच्यते सर्वपापेभ्यो महतः पातकाद् अपि ॥
४।७।८कख वृद्धत्वे यौवने बाल्ये यः कृतः पापसंचयः ।
४।७।८गघ पूर्वजन्मसु चाज्ञानात् तस्माद् अपि विमुच्यते ॥ [k: वाज्ञानात्]
४।७।९कख भोजयित्वा द्विजान् अन्ते पायसेन ससर्पिषा [k: सुसर्पिषा] ।
४।७।९गघ गोभूमितिलहेमानि भुक्तवद्भ्यः प्रदाय च ॥
४।७।१०कख विप्रो भवति पूतात्मा निर्दग्धवृजिनेन्धनः ।
४।७।१०गघ काम्यानां कर्मणां योग्यस् तथाधानादिकर्मणाम् ॥ [k: योज्यः]
४।८।१कख अतिलोभात् प्रमादाद् वा यः करोति क्रियाम् इमाम् ।
४।८।१गघ अन्यस्य सोऽंह आविष्टो गरगीर् इव सीदति ॥
४।८।२कख आचार्यस्य पितुर् मातुर् आत्मनश् च क्रियाम् इमाम् ।
४।८।२गघ कुर्वन् भात्य् अर्कवद् विप्रः सा कार्यैषाम् अतः क्रिया ॥
४।८।३कख क एतेन सहस्राक्षं पवित्रेणाकरोच् छुचिम् ।
४।८।३गघ अग्निं वायुं रविं सोमं यमादींश् च सुरेश्वरान् ॥
४।८।४कख यत् किंचित् पुण्यनामेह त्रिषु लोकेषु विश्रुतम् ।
४।८।४गघ विप्रादि तत् कृतं केन पवित्रक्रिययानया ॥
४।८।५कख प्राजापत्यम् इदं गुह्यं पापघ्नंप्रथमोद्भवम् । [k: प्रजापत्यम्]
४।८।५गघ समुत्पन्नान्य् अतः पश्चात् पवित्राणि सहस्रशः ॥
४।८।६कख योऽब्दायनऋतुपक्षाहाञ् जुहोत्य् अष्टौ गणान् इमान् ।
४।८।६गघ पुनाति चात्मनो वंश्यान् दश पूर्वान् दशावरान् [k:दशापरान्] ॥
४।८।७कख ज्ञायते चामरैर् द्युस्थैः पुण्यकर्मेति भूस्थितः ।
४।८।७गघ देववन् मोदते भूयः स्वर्गलोकेऽपि पुण्यकृत् ॥ [ k puts this verse after ४।८।१२]
४।८।८कख एतान् अष्टौ गणान् होतुं न शक्नोति यदि द्विजः ।
४।८।८गघ एकोऽपि तेन होतव्यो रजस् तेनास्य नश्यति ॥
४।८।९कख सूनवो यस्य शिष्या वा जुह्वत्य् अष्टौ गणान् इमान् ।
४।८।९गघ अध्यापनपरिक्रीतैर् अंहसः सोऽपि मुच्यते ॥
४।८।१०कख धनेनापि परिक्रीतैर् आत्मपापजिघांसया ।
४।८।१०गघ हावनीया ह्य् अशक्तेन नावसाद्यः शरीरधृक् ॥
४।८।११कख धनस्य क्रियते त्यागः कर्मणां सुकृताम् अपि ।
४।८।११गघ पुंसोऽनृणस्य पापस्य विमोक्षः क्रियते क्वचित् ॥
४।८।१२कख विमुक्तो विधिनैतेन सर्वपापार्णसागरात् । [k: मुक्तो यो]
४।८।१२गघ आत्मानं मन्यते शुद्धं समर्थं कर्मसाधने ॥
४।८।१३कख सर्वपापार्णमुक्तात्मा क्रिया आरभते तु याः ।
४।८।१३गघ अयत्नेनैव ताः सिद्धिं यान्ति शुद्धशरीरिणः ॥
४।८।१४कख प्राजापत्यम् इदं पुण्यम् ऋषिणा समुदीरितम् । [k: प्रजापत्यम् ॥। ऋषीणां]
४।८।१४गघ इदम् अध्यापयेन् नित्यं धारयेच् छृणुतेऽपि वा ।
४।८।१४चछ मुच्यते सर्वपापेभ्यो ब्रह्मलोके महीयते ॥
४।८।१५कख यान् सिषाधयिषुर् मन्त्रान् द्वादशाहानि ताञ् जपेत् ।
४।८।१५गघ घृतेन पयसा दध्ना प्राश्य निश्य् ओदनं सकृत् ॥ [k bचछre ४।८।१६-१कख: ऋग्यजुस्सामवेदानाम् अथर्वाङ्गिरसाम् अपि ।]
४।८।१६-१कख दशवारं तथा होमः सर्पिषा सवनत्रयम् ।
४।८।१६-१गघ पूर्वसेवा भवेद् एषां मन्त्राणां कर्मसाधने ॥ [k: एषा]
४।८।१६-२ मन्त्राणां कर्मसाधन इति ॥ अतिलोभात् प्रमादाद् वा । निवृत्तः पापकर्मभ्यः ॥ समाधुश्छन्दसारुद्राः ॥ अथातः संप्रवक्ष्यामि ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानिवक्ष्यामः ॥ इति चतुर्थः प्रश्नः ॥ ४

॥ इति बौधायनधर्मसूत्रंसमाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=बौधायनधर्मसूत्रम्&oldid=403269" इत्यस्माद् प्रतिप्राप्तम्