बौधायनगृह्यसूत्रम्/प्रश्नः ४

विकिस्रोतः तः

अथ चतुर्थप्रश्ने प्रथमो ऽध्यायः
अथातस्सप्तपाकयज्ञानां प्रायश्चित्तानि व्याख्यास्यामः ।१।
तत्रादित एवोपलिप्ते श्वा वेटको वा यदि गच्छेत्कीटो वा पिण्डकारी स्यात्तत्पुनरुपलिप्य प्रोक्षति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नेस्तेजसा प्रोक्षामि इति प्रोक्ष्य स्थण्डिलमुपलिप्य स्थण्डिलमुद्धरेत्।२।
स्थण्डिलमुद्धृतं गौरश्वो वा यदि विकिरेदन्यद्वा श्वापदमधितिष्ठेत्तस्य पदमभ्युक्ष्य जपति पृथिवि देवयजन्योषध्यास्ते मूलं मा हिंसिषमिति ।३।
अथ कृतान्तेन प्रतिपद्यते ।४।
अथ यदि प्रणीतापात्रं भिद्येत तदभिमन्त्रयते अभिन्नो घर्मो जीरदानुर्यत आत्तस्तदगन्पुनः इति ।५।
अथान्यदाहरति घर्मो देवानप्येतु इति पूरयित्वा व्याहृतिभिरुपतिष्ठते ।६।
अथ यदि प्रणीताः प्रणीयमानाः प्रणीता वा परासिच्येरंस्ता अभिमन्त्रयते अक्षितो ऽस्य क्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिन्लोके इति ।७।
पूरयित्वोपतिष्ठते भूरायुर्मे धारयत प्राणं मे धारयत प्रजां मे धारयत पशून्मे धारयत मा म आयुः प्राणाः प्रजाः पशवः परासिच्येरनिति ।८।
अथ यदि कन्योपसाद्यमाना वोह्यमाना वा पतेत्तामुत्थापयेयुः उदस्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात्।इन्द्राय कृण्वती भागं मित्राय वरुणाय च इति ।९।
अथ यदि कन्योपसाद्यमाना वोह्यमाना वा रजस्वला स्यात्तामनुमन्त्रयते पुमांसौ मित्रावरुणौ पुमांसाश्विनावुभौ ।पुमानिन्द्रश्च सूर्यश्च पुमांसं वर्धयेतामिति ।१०।
अथ यदि कन्योपसाद्यमाना वोह्यमाना वा ऽश्रु कुर्यात्तामनुमन्त्रयते जीवां रुदन्ति विमयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः ।वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे इति ।११।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने प्रथमो ऽध्यायः
BaudhGS.4.2
अथ चतुर्थप्रश्ने द्वितीयो ऽध्यायः
सर्वत्र दर्वीकूर्चप्रस्तरपरिधिबर्हिःपवित्रेध्मद्रव्यसम्भाराणां चेद्दाहोपघातेषु नाशे विनाशे वा ऽन्यं यथालिङ्गं कृत्वा यथालिङ्गमुपसाद्य त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अया ऽसि प्रजापते इत्येताभिस्स्रुवाहुतीर्जुहुयात्।१।
अथ यदि परिस्तरणदाहे अग्नये क्षामवते स्वाहा इति हुत्वा परिस्तृणाति ।३।
इन्द्रं वो विश्वतस्परि इन्द्रं नरः इति द्वाभ्यां परिस्तीर्य जुहोति इन्द्राय स्वाहा इति ।३।
अथ यदि परिधिदाहे अन्यं यथालिङ्गमुपसाद्य जुहोति प्ररित्वा ऽग्ने पुरं वयमिति ।४।
अथ वस्त्राणां प्रोक्षितानां चेद्दाहोपघाते नाशे विनाशे अन्यत्यथालिङ्गं कृत्वा यथालिङ्गमुपसाद्य जुहोति सोसाय स्वाहा इति ।५।
अथ सिचा ऽभिघातस्स्यात्तदभिमन्त्रयते सिगसि नसि वज्रोसि नमस्ते अस्तु मा मा हिंसीः इति दशासूत्रमादाय मुखवातेन प्रध्वंसयेत्।६।
अथ यदि गौर्वा ऽऽश्वो वा श्वमृगमहिषमेषवराहदंष्ट्रावन्तो वा ऽन्यत्श्वापदमपसव्यं गच्छेत्तस्य पदमभ्युक्ष्य जपति तद्विष्णोः परमं पदमिति ।७।
एतेनैव रौद्रमभिव्याहरेद्वा ।रौद्र्यावृचौ जुहुयात्जपेद्वा त्वमग्ने रुद्रः आवो राजानमिति ।८।
अथ यदि शकुनमभिव्याहरेत्तां वाचमनुमन्त्रयते द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम्।उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि ।नश्शकुने अस्तु प्रति नस्सुमना भव इति ।९।
अथ यदि सालावृकी वाश्येत तामनुमन्त्रयते दीर्घमुखि दुर्हणु मा स्म दक्षिणतो वदः ।यदि दक्षिणतो वदाद्द्विषन्तं मे ऽव बाधासै इति ।१०।
अथ यद्यर्थी स्यात्परिक्षवे परिकासने चाप उपस्पृश्य जपेतनुहवं परिहवं परीवादं परिक्षपं दुस्स्वप्नं दुरुदितं तद्द्विषद्भ्यो दिशाम्यहम्।अनुहूतं परिहूतं शकुने यदशाकुनं मृगस्य सृतमक्ष्णया तद्द्विषद्भ्यो दिशाम्यहमिति ।११।
अथ नदीनां धन्वनां च व्यतिक्रमे पुरस्तादुपस्थानं जपति या ओषधयो या वनस्पतयो या नद्यो यानि धन्वानि ये वना ।ते त्वा वधु प्रजावतीं प्र त्वे मुञ्चन्त्वंहसः इति ।१२।
अथ शकृद्व्यतिक्रमे पुरस्तादुपस्थानं जपति नमश्शकृत्सदे रुद्राय नमश्शकृत्सदे ।गामर्हसि नमस्ते अस्तु मा मा हिंसीः इति ।१३।
अथ तीर्थस्थाणुचतुष्पथव्यतिक्रमे पुरस्तादुपस्थानं जपति कृतं तीर्थं सुप्रपाणं शुभस्पती ।स्थाणुं पथेष्टामप दुर्मतिं हनतिति ।१४।
अथ चित्रियाणां लक्षणानां व्यतिक्रमे पुरस्तादुपस्थानं जपति ये देवा याश्च देवीर्येषु वृक्षेष्वासते ।श्रिया मे श्रियं वृद्धिं वहन्तु मा मा हिंसिषुर्वहन्तु मोह्य मानामिति ।१५।
अथ कर्मान्तमेव प्रतिपद्यते ।१६।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने द्वितीयो ऽध्यायः
BaudhGS.4.3
अथ चतुर्थप्रश्ने तृतीयो ऽध्यायः
सर्वत्र स्वयं प्रज्वलिते ऽग्नौ समिधावादधाति उद्दीप्यस्व जातवेदः इति द्वाभ्याम्।१।
अथ श्मशानादिव्यतिक्रमे तमेवाग्निमुपसमाधाय सम्परिस्तीर्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति अग्निर्भूतानामधिपतिस्स मा ऽवतु स्वाहा इन्द्रो ज्येष्ठानामधिपतिस्स मा ऽवतु स्वाहा इति ।२।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।३।
अथैनन्मिथुनमभिमन्त्रयते इदं मिथुनमायुष्मदस्त्विदं मिथुनं प्रजावदस्त्विदं मिथुनं पशुमदस्त्विदं मिथुनं वीर्यवदस्तु इति ।४।
अथ उदुत्यं जातवेदसमिति दक्षिणमनड्वाहं युनक्ति ।चित्रं देवानामुदगादनीकमिति सव्यं युक्त्वा प्रयातीति ।५।
अथ तीर्थव्यतिक्रमे नावा सन्तारः स्यात्तामनुमन्त्रयते अयं नो मह्याः पारमेतं स्वस्ति नेषद्वनस्पतिः ।सीरा नस्सुतरा भव दीर्घायुत्वाय वर्चसे इति नावा तरन्तीं वधूं पश्यति ।६।
कूलमुत्तीर्यं जपति समुद्राय वयुनाय सिन्धूनां पतये नमः इति ।७।
दुर्गमध्वानं वा प्रपाद्य जातवेदसे इति सहस्रेणादित्यमुपतिष्ठते ।८।
आसन्नभये छल द्यूतव्यहारे राजकुले व्यसने बद्धो वा निरन्तरमुपांशु जपेदेतदेव ।दुस्स्वप्नेषु शतं जपेदेतदेव ।९।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने तृतीयो ऽध्यायः
BaudhGS.4.4
अथ चतुर्थप्रश्ने चतुर्थो ऽध्यायः
अथाभ्याघातस्स्यादग्निश्चोद्वातस्स्यात्सर्वं ततपहताः इति प्रोक्ष्य स्थण्डिलमुद्धृत्य तमेवाग्निमुपसमाधाय सम्परिस्तीर्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति ये देवा यज्ञहनो यज्ञमुषः इति तिसृभिरनुच्छन्दसम्।१।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।२।
अथ यद्यक्षभेदस्स्यात्तमेवाग्निमुपसमाधाय सम्परिस्तीर्या ऽग्निमुखात्कृत्वा प्रधानाहुतीर्जुहोति इह धृतिस्स्वाहेह विधृतिस्स्वाहेह रन्तिस्स्वाहेह रमतिस्स्वाहा इति ।३।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।४।
अथान्यमक्षमाहरति अक्षितो ऽस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिन्लोके इति ।५।
अथैनं रथे योजयति आतिष्ठ वृत्रहन्रथमिति ।६।
अथ रथे मिथुनं प्रतिष्ठापयति प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे ।प्रत्यश्वेषु प्रति तिष्ठामि गोषु ।प्रत्यङ्गेषु प्रति तिष्ठाम्यात्मन्।प्रति प्रजायां प्रति तिष्ठामि भव्ये इति ।७।
पूर्ववददनड्वाहौ युनक्ति ।अथ मिथुनं प्रतिष्ठाप्य प्रयातीति ।८।
अथ यदि बलवता समरथस्स्यात्पथाद्रथं प्रसर्पयति अनृणा अस्मिन्ननृणाः परस्मिंस्पृतीये लोके अनृणास्स्याम ।ये देवयाना उत पितृयाणास्सर्वान्पथो अनृणा आक्षीयेम इति ।९।
अथ पथमवस्थाय यानाय जपति मिथुनस्य स्वस्त्ययन्यस्यपि पन्थामगस्महि स्वस्ति गामनेहसम्।येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु इति ।१०।
अथ रथमभिप्रेति पथस्पथः परिपतिमिति ।११।
अथ विद्युत्स्तनिते संत्रासस्स्यात्तमस्यैन्द्र्यावृचौ जपति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति ।१२।
अथ कर्मान्तमेव प्रतिपद्यते ।१३।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने चतुर्थो ऽध्यायः
BaudhGS.4.5
अथ चतुर्थप्रश्ने पञ्चमो ऽध्यायः
अथ पाकयज्ञानां प्रायश्चित्तिः ।१।
तद्यथा द्रव्यहविर्मन्त्रकर्मादीनामतिपन्नस्कन्नभिन्नभग्ननष्टदुष्टविपरीतदग्धाशृत्यनिकृतानामनाम्नातेषु जुहुयात्मनो ज्योतिः अयाश्चाग्ने यदस्मिन्कर्मणि स्वस्ति न इन्द्रो वृद्धश्रवाः इति व्याहृतिभिश्च ।२।
व्याहृतीनां प्रयोगे यथाकृतं यथावद्भवतीत्याचार्या ब्रुवते ।३।
तत्रोदाहरन्ति भूरित्यृचो भुव इति यजूंषि सुवरिति सामानि ।४।
प्रवृत्ते कर्मणि प्रधानादौ जुहुयादिति बोधायनः ।५।
प्रधानान्त इति शालिकिः ।६।
पुरस्तात्स्विष्टकृत इत्यौपमन्यवः ।७।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने पञ्चमो ऽध्यायः
BaudhGS.4.6
अथ चतुर्थप्रश्ने षष्ठो ऽध्यायः
अथ गर्भाधानपुंसवनसीमन्तोन्नयनविष्णुबलिजातकर्मनामकरणोउपनिष्क्रमणअन्नप्राशनचोऌऔपनयनादि कार्यं न करयेदिति समानं कर्म ।तत म आपः यत्पाकत्रा मनस्वती मिन्दाहुती महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति ।१।
कालातिक्रमे प्रधानादौ द्वे द्वे मिन्दाहुती जुहुयादिति ।२।
व्याहृतिर्पूर्वकं चेति सर्वेषां समानमाचार्यां ब्रुवते ।३।
तत्रोदाहरन्ति पक्वं सौविष्टकृतमाज्यं प्रणीताप्रणयनं ब्राह्मणमिध्माबर्हिरेकमिति विज्ञायत इति हि ब्राह्मणमिति हि ब्राह्मणम्।४।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने षष्ठो ऽध्यायः
BaudhGS.4.7
अथ चतुर्थप्रश्ने सप्तमो ऽध्यायः
अथ विपरीतदर्भास्तरणपवित्रकरणपात्रसादनप्रोक्षणीसंस्कारब्रह्मप्रणीताहविर्निर्वापणआज्यसंस्कार स्रुक्सम्मार्जनपरिधिपरिषेचन इध्माभ्याधानविपरीतेषुप्रायश्चित्तं ततं म आपः यत्पाकत्रा मनस्वती मिन्दाहुती महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति बोधायनः ।१।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने सप्तमो ऽध्यायः
BaudhGS.4.8
अथ चतुर्थप्रश्ने अष्टमो ऽध्यायः
अथ प्रायश्चित्तानि व्याख्यास्यामः भग्ननष्टदुष्टविपरीतस्फुटितद्विजश्वबिडालकाकखरमृगपशुपक्षिसरीसृपाणामन्यत्कीटो वा ऋत्विजो ऽग्नीनन्तरा गच्छेत्
दुर्गा मनस्वती महाव्याहृतीस्तिस्रस्तन्तुमतीर्जुहुयात्सैव ततः प्रायश्चित्तिः ।१।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने अष्टमो ऽध्यायः
BaudhGS.4.9
अथ चतुर्थप्रश्ने नवमो ऽध्यायः
अथातस्सप्तपाकयज्ञानां प्रायश्चित्तसमुच्चयं व्याख्यास्यामः ।१।
हुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्तपाकयज्ञानां न प्रयाजा इज्यन्ते नानूयाजाः न सामिधेनीः ।२।
अन्वाहतेषु कर्मस्वग्निमुपसमाधाय सम्परिस्तीर्य यत्र यत्र दर्वीहोमं कुर्यात्तत्रतत्र चरुं समवदाय जुहोति ।३।
सर्वत्र स्कन्ने भिन्ने छिन्ने क्षामे विपर्यासे उद्दाहे ऊनातिरिक्ते पवित्रनाशे पात्रभेदे द्वे मिन्दाहुती जुहोति ।४।
मक्षिकैर्मशकैर्वा रोमभिः पिपीलिकैर्वा व्यापद्येत प्रजपतये होमं कुर्यात्।५।
व्यापन्नमाज्यमव्यापन्नमन्तर्हितमनाज्ञातप्रायश्चित्तं यज्ञसमृद्धीर्जुहोति ।६।
अन्तरागमने प्रायश्चित्तं दशहोतारं चानुख्यां च जुहोति ।७।
अन्तर्हृते प्रायश्चित्तं चतुर्होतारं चानुख्यां च जुहोति ।८।
मण्डूकसर्पमूषिकमार्जारान्तरागमने प्रायश्चित्तं पञ्चहोतारं चानुख्यां च जुहोति ।९।
विकृतरूपे विकृतशब्दे विस्फुटे प्रायश्चित्तं शंयुवाकं चानुख्यां च जुहोति ।१०।
अनादिष्टं सर्वप्रायश्चित्तं व्याख्यातं वारुणीमिति निर्दिशेत्।११।
संस्कारान्ते ऽग्नावुत्सन्ने तद्भस्मसमारोपणं समिधं वा यदि नोपविन्देद्याज्ञिकं वा प्रायश्चित्तं महाव्याहृतीः प्रणवं मनस्वतीं च जुहोति ।१२।
स्वराक्षरपदवृत्तभ्रेषेषु आभिर्गीर्भिः इति ।१३।
सर्वत्र पाकयज्ञानां सदस्येभ्यो धेनुमृषभमनड्वाहं दद्यात्।१४।
सदस्यास्सर्वप्रायश्चित्तानि प्रतिनिधींश्च बोधयिष्यन्तीति ।१५।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने नवमो ऽध्यायः
BaudhGS.4.10
अथ चतुर्थप्रश्ने दशमो ऽध्यायः
अथ यदि होमकालेष्वग्निरुद्वातस्स्यात्सर्वं ततपहताः इति प्रोक्ष्य स्थण्डिलमुद्धृत्याग्निमुपसमाधाय सम्परिस्तीर्य प्रायश्चित्तं जुहोति अयाश्चाग्ने पञ्चहोता ब्राह्मण एकहोता दश मनस्वतीः मिन्दाहुती महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति ।१।
अथ यद्युपनयनाग्निर्विवाहाग्निर्जातकाग्निश्श्मशानाग्निराचतुर्थादादशाहादासञ्चयनादुद्वातस्स्यातपहता असुराः इति प्रोक्ष्य क्षिप्रं भस्मसमारोहणम्।अयं ते योनिरृत्वियः इति समिधि समारोप्य लौकिकमग्निमाहृत्य समिधमादधाति आजुह्वानः उद्बुध्यस्वाग्ने इति द्वाभ्याम्।२।
सम्परिस्तीर्य प्रायश्चित्तं जुहोति अयाश्चाग्ने पञ्चहोता ब्राह्मण एकहोता दश मनस्वती मिन्दाहुती महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति बोधायनः ।३।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने दशमो ऽध्यायः
BaudhGS.4.11
अथ चतुर्थप्रश्ने एकादशो ऽध्यायः
अथ गृहमेधिनो ब्रह्मचारिणश्चानुगते ऽग्नो कालातिक्रमे होमयोर्दर्शपूर्णमासयोश्चाग्रयणेनानिष्ट्वा नवान्नप्राशनाज्यस्कन्नावधूतहीनमन्त्राधिककर्मणश्चाकृतसीमन्तायां प्रसूतायां भार्यायां स्त्रीषु गोषु यमऌअजनने रजस्वला ऽभिगमने पतितसम्भाषणे दिवामैथुने शूद्रा ऽभिगमने स्वप्नान्ते रेतस्स्कन्दने उदके मूत्रपुरीषकरणे कुमारस्य जातस्यासंस्कारे ऽकृताग्निसंसर्गे देवताविपर्यासे मन्त्रविपर्यासे कर्मविपर्यासे ब्रह्मचारिणश्च व्रतविपर्यासे मेखलायज्ञोपवीतस्योच्छेदने कृष्णाजिनस्याधारणे कमण्डल्वधारणे दण्डभङ्गे सन्ध्यालोपे ऽग्निकार्यलोप उदकुम्भलोपे भिक्षाचरणस्वाध्यायलोपे शुश्रूषालोपे एतैश्चान्यैश्चानाम्नातेषु प्रायश्चित्तम्।१।
अग्निमुपसमाधाय सम्परिस्तीर्य प्रायश्चित्तं जुहोति पाहि नो अग्न एनसे स्वाहा ।पाहि नो विश्ववेदसे स्वाहा ।यज्ञं पाहि विभावसो स्वाहा ।सर्वं पाहि शतक्रतो स्वाहा ।पाहि नो अग्न एकया ।पाह्युत द्वितीयया ।पाहि गीर्भिस्तिसृभिरूर्जां पते ।पाहि चतसृभिर्वसो स्वाहा इति ।२।
पुरस्ताच्चोपरिष्टाच्च सानुक्रमणं यथा ऽनुपूर्वकरणमविच्छिन्नं सन्ततं भवतीति ।३।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने एकादशो ऽध्यायः
BaudhGS.4.12
अथ चतुर्थप्रश्ने द्वादशो ऽध्यायः
अथ गृहस्थस्य विद्यार्थिनस्त्रिया ऽभ्यनुज्ञातस्य ऋतुसंवेशनविच्छेदप्रायश्चित्तं व्याख्यास्यामः ।१।
वसन्तो ग्रीष्मो वर्षाश्शरद्धेमन्तश्शिशिरेणर्तुकालमुक्त्वा ब्राह्मणेभ्यो निवेदयित्वा चीर्णव्रतान्तेनाथ प्रदोषे देवयजनमुदानयति ।२।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति यस्त्वा हृदा कीरिणा मन्यमानः इति पुरो ऽनुवाक्यामनूच्य यस्मै त्वं सुकृते जातवेदः इति याज्यया जुहोति ।३।
अथाज्याहुतीरुपजुहोति मधुश्च स्वाहा ।माधवश्च स्वाहा इत्या ऽन्तादनुवाकस्य ।४।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।५।
अपरेणाग्निं आज्यशेषमुदकशेषं चोभौ जायापती प्राश्नीयाताम्।६।
ऋतुसंवेशनविच्छेदप्रायश्चित्तं व्याख्यातम्।७।
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने द्वादशो ऽध्यायः
BaudhGS.4.col.
अथ गृहस्थस्य ।अथ गृहमेधिनः ।अथ यदि होमकालेषु ।अथातस्सप्तपाकयज्ञानाम्।अथ प्रायश्चित्तानि ।अथ विपरीत ।अथ गर्भाधान ।अथ पाकयज्ञानाम्।अथाभ्याघातः ।सर्वत्र स्वयम्।सर्वत्र दर्वी ।अथातस्सप्तपाकयज्ञानाम्।१२।
अथातस्सप्तपाकयज्ञानाम्।सर्वत्र दर्वी ।सर्वत्र स्वयम्।अथाभ्याघातः ।अथ पाकयज्ञानाम्।अथ गर्भाधान ।अथ विपरीत ।अथ प्रायश्चित्तानि ।अथातस्सप्तपाकयज्ञानाम्।अथ यदि होमकालेषु ।अथ गृहमेधिनः ।अथ गृहस्थस्य ।१२।

इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्नः

इति बोधायनीयगृह्यसूत्रं समाप्तम्