बौधायनगृह्यसूत्रम्/प्रश्नः २

विकिस्रोतः तः
Jump to navigation Jump to search

अथ द्वितीयप्रश्ने प्रथमो ऽध्यायः
अथ प्रहुतः ।१।
जातं कुमारमभिमन्त्रयते _अद्भ्यस्सम्भूतः इत्येतेनानुवाकेन ।२।
अथैनं स्नपयति _क्षेत्रियै त्वा निरृत्यै त्वा इति षड्भिरनुच्छन्दसम्।३।
अथैनं स्वोपस्थं आदधाति _अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ।आत्मा वै पुत्रनामासि संजीव शरदश्शतमिति ।४।
अथैनं मूर्ध्न्यभिजिघ्रति _अश्मा भव परशुर्भव हिरण्यमस्तृतं भव ।पशूनां त्वा हिङ्कारेणाभिजिघ्राम्यसौ इति नक्षत्रनामधेयेन ।५।
अथास्य दक्षिणे कर्णे जपति अग्निरायुष्मानिति पञ्चभिः पर्यायैः ।६।
अथैनं दधिमधुघृतमिति समुदायुत्य हिरण्येन प्राशयति _प्राणो रक्षति विश्वमेजतित्येतेनानुवाकेन प्रत्यृचम्।७।
अतिशिष्टं गोपदे निनयति व्याहृतीभिः ।८।
अथैनं मातुरुपस्थ आदधाति _सीद त्वं मातुरस्या उपस्थे इति चतसृभिस्सहंसाभिः ।९।
स्तनमभिमन्त्रयते _यस्ते स्तनश्शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्यणि ।यो रत्नधा वसुविद्यस्सुदत्रस्सरस्वति तमिह धातवेकः इति ।१०।
धयन्तमनुमन्त्रयते _द्यौस्ते पृष्ठं रक्षतु वायुरूरू अश्विनौ च स्तनं धयन्तं सविता ऽभिरक्षतु ।आवाससः परिघानाद्बृहस्पतिर्विश्वेदेवा अभिरक्षन्तु पश्चातिति ।११।
अथास्योदकुम्भमुच्छिरसि निदधाति _आपस्सुप्तेषु जाग्रत रक्षांसि नीरितो नुदध्वमिति ।१२।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति _हरिं हरन्तमनुयन्ति देवाः इति पुरो ऽनुवाक्यामनूच्य मा छिदो मृत्यो मा वधीः इति याज्यया जुहोति ।१३।
अथाज्याहुतीरुपजुहोति _सद्यश्चकमानाय इत्यान्तादनुवाकस्य ।१४।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।१५।
अथानोयुगं रथयुगं वा स्नाप्याच्छाद्यालंकृत्य अग्रेणाग्निमुद्धृत्य तस्याग्रेणाश्वत्थपर्णेषु हुतशेषं निदधाति _नम आव्याधिनीभ्यः इति ।१६।
अथास्तमित आदित्ये गौरसर्षपान्फलीकरणमिश्रानञ्जलिना जुहोति _कृणुष्व पाजः प्रसितिं न पृथ्वीमित्येतेनानुवाकेन प्रत्यृचम्।१७।
अथौदनम्तिलसक्तुर्भिघृतेनेति समुदायुत्य गोष्ठे ऽश्वत्थपर्णेषु हुतशेषं निदधाति _अघोराय महाघोराय नमो नमः इति ।१८।
अथातिशिष्टं सर्वा दिशस्सम्प्रकिरन्ति _आवेशिना व्यश्रुमुखी कुतूहलिन्येकस्तनी जृम्भणी स्तम्भनी मोहनी च ।कृष्णा विशाखा विमला ब्रह्मरात्री भ्रातृव्यसङ्ख्येषु पतन्त्यमोघाः ।ताभ्यो वै मातृभ्यो नमो नमः इति ।१९।
स एवमेव फलीकरणहोमप्रभृति सायंप्रातर्दशरात्रं करोति ।२०।
नानुत्थितायां सूतिकायां भोज्यान्नता ।२१।
दशम्यामुत्थानम्।२२।
दशम्यां द्वादश्यां वा नामकरणम्।२३।
प्राजापत्येन सूक्तेन हुत्वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयन्नामास्मै दधाति ।२४।
द्व्यक्षरं चतुरक्षरं षडक्षरमष्टाक्षरं वा ।२५।
घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तम्।२६।
अपि वा यस्मिन्स्वित्युपसर्गस्स्यात्तद्धि प्रतिष्ठितमिति विज्ञायते ।२७।
ऋष्यणूकं देवताणूकं वा ।२८।
यथैवैषां पूर्वपुरुषाणां नामानि स्युः ।२९।
अयुगक्षरं कुमार्याः ।३०।
अमुष्मै स्वस्तीति ।३१।
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने प्रथमो ऽध्यायः
BaudhGS.2.2
अथ द्वितीयप्रश्ने द्वितीयो ऽध्यायः
चतुर्थे मास्युपनिष्क्रमणम्।१।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्तिऋद्धिमिति वाचयित्वा ।२।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा स्वस्त्यात्रेयं होति ।३।
स्वस्ति नो मिमीतामश्विना भगस्स्वस्ति देव्यदितिरनर्णवः ।स्वस्ति पूषा असुरो दधातु नः स्वास्ति द्यावापृथिवी सुकेतुना ।४।
स्वस्तये वायुमुपब्रवामहै सोमं स्वास्ति भुवनस्य यस्पतिः ।बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आचित्यासो भवन्तु नः ।५।
विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निस्स्वस्तये ।देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ।६।
स्वस्ति मित्राववरुणा स्वस्ति पथ्ये रेवति ।स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ।७।
स्वति पन्थामनुचरेम सूर्याचन्द्रमसाविव ।पुनर्ददता ऽघ्नता जानता संगमेमहि ।८।
स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं महद्भूतं वायसं देवतानाम्।असुरघ्नीमिन्द्रसखं समत्सु बृहद्यशो नावमिवारुहेम ।९।
अंहोमुचमाङ्गिरसं गयं च स्वस्त्यात्रेयं मनसा च तार्क्ष्यम्।प्रयतपाणिश्शरणं प्रपद्य स्वस्ति संबाधेष्वभयं नो अस्तु ।१०।
स्वस्ति न इन्द्रो वृद्धश्रवास्स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिस्स्वस्ति नो बृहस्पतिर्दधातु इत्यष्टाभिरनुच्छन्दसम्।११।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।१२।
अथोपनिष्क्रम्य बाह्यानि चित्रियाण्यभ्यर्च्य त्रिवृता ऽन्नेन ब्राह्मणान्सम्पूज्याशिषो वाचयित्वा प्रदक्षिणीकृत्य स्वान्गृहानानयति ।१३।
इति बोधायनीये गृह्यसूत्रे द्वितीयप्रश्ने द्वितीयो ऽध्यायः
BaudhGS.2.3
अथ द्वितीयप्रश्ने तृतीयो ऽध्यायः
षष्ठे मास्यन्नप्राशनम्।१।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ।२।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा अन्नसूक्तेन जुहोतिअहमस्मि प्रथमजा ऋतस्य इत्यष्टाभिरनुच्छन्दसम्।३।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।४।
अथौदनं दध्ना मधुना घृतेनाद्भिरिति समुदायुत्य हिरण्येनौषधस्य कुमारं प्राशयति _या जाता ओषधयः इति षड्भिरनुच्छन्दसम्।५।
भूर्भुवस्सुवरपां त्वौषधीनां रसं प्राशयामि शिवास्त आप ओषधयस्सन्त्वसौ इति सर्वास्वनुषजति ।६।
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने तृतीयो ऽध्यायः
BaudhGS.2.4
अथ द्वितीयप्रश्ने चतुर्थोध्यायः
संवत्सरे चूडाकर्म त्रिषु वा संवत्सरेषु ।१।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ।२।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति _ये केशिनः ।इति पुरोनुवाक्यामनूच्य नतें ब्रह्मणः ।इति याज्यया जुहोति ।३।
अथाज्याहुतीरुपजुहोति _आरोह प्रोष्ठं विषहस्व शत्रून्।इत्यान्तादनुवाकस्य ।४।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।५।
अथाग्रेणाग्निमुदुम्बरपर्णेषु हुतशेषं निदधाति _नमो हिरण्यबाहवे इति ।६।
अपरेणाग्निमुभयीरपस्संनिषिञ्चति ।७।
उष्णासु शीता आनयति _उष्णेन वायवुदकेनेह्यदितिः केशान्वपतु ।इति ।८।
ताभिरस्य शिर उनत्ति _आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे ।इति ।९।
ऊर्ध्वाग्रं बर्हिरनूछ्रयति _ओषधे त्रायस्वैनम्।इति ।१०।
क्षुरमभिमन्त्रयते _ज्योक्च सूर्यं दृशे इति ।११।
अथैनं निर्यञ्चं निदधाति _स्वधिते मैनं हिंसीः इति ।१२।
अथास्य केशान्वपति _येनावपत्सविता क्षूरेण ।इति ।१३।
प्रवपतो ऽनुमन्त्रयते _मा ते केशाननुगाद्वर्च एततिति ।१४।
अथैनान्समुच्चित्य दर्भस्तम्बे निदधाति _तेभ्यो निधानं बहुधा व्यैच्छन्।इति ।१५।
अथैनमुष्णोदकेनाप्लावयति _बलं ते बाहुवोस्सविता दधातु इति ।१६।
अथैनमेकशिखस्त्रिशिखः पञ्चशिखो वा यथैवैषां कुलधर्मस्स्यात्।१७।
यथर्षि शिखां निदधातीत्येके ।१८।
अथैनं स्नाप्याच्छाद्यालङ्कृत्य त्रिवृता ऽन्नेन ब्राह्माणान्सम्पूज्याशिषो वाचयति ।१९।
इति प्रहुतो व्याख्यातः ।२०।
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने चतुर्थो ऽध्यायः
BaudhGS.2.5
अथ द्वितीयप्रश्ने पञ्चमो ऽध्यायः
अथाहुतः ।१।
गर्भाष्टमेषु ब्राह्मणमुपनयीत गर्भैकादशेषु राजन्यं गभद्वादशेषु वैश्यम्।२।
आषोडशात्ब्राह्मणस्यानात्यय इति ।३।
एवमेवेतरयोः द्वाविंशतिश्च चतुर्विंशतिश्च ।४।
अथापि काम्यानि भवन्ति _सप्तमे ब्रह्मवर्चसकाममष्टम आयुष्कामं नवमे तेजस्कामं दशमे ऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकामं त्रयोदशे मेधाकामं चतुर्दशे पुष्टिकामं पञ्चदशे भ्रातृव्यवन्तं षोडशे सर्वकाममिति ।५।
वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यं वर्षासु रथकारमिति ।सर्वानेव वा वसन्ते ।६।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा कुमारं भोजयित्वा तस्य चौलवत्तूष्णीं केशानोष्य स्नातं शुचिवाससं बद्धशिखं यज्ञोपवीतं प्रतिमुञ्चन्वाचयति _यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्।आयुष्यमग्रियं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः इति ।७।
यज्ञोपवीतिनमप आचमय्याथ देवयजनमुदानयति ।८।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पालाशीं समिधमाज्येनाक्त्वा ऽभ्याधापयन्वाचयति आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमं स्वाहा इति ।९।
अथैनमुत्थाप्योत्तरेणाग्निं दक्षिणेन पदा अश्मानमास्थापयतिआतिष्ठेममश्मानमश्मेव त्वं स्थिरो भव ।अभितिष्ठ पृतन्यतस्सहस्व पृतनायतः इति ।१०।
अथैनं तिष्ये वासस्सद्यः कृत्तोतं परिधापयन्वाचयति या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तानभितो ऽददन्त ।तास्त्वदेवीर्जरसा संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः इति ।११।
परिहितमनुमन्त्रयते परिधत्त धत्त वाससैनं शतायुषं कृणुहि दीर्घमायुः ।बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ।जरां गच्छासी परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावा ।शतं च जीव शरदस्सुवर्चा रायश्च पोषमुप संव्ययस्व ।परीदं वासो अधि धास्खस्तये ऽभूरापीनामभिशस्तिपावा ।शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवनिति ।१२।
अथैनं मौञ्जीं मेखलां त्रिवृतां त्रिः प्रदक्षिणं परिव्ययन्वाचयतिमौञ्जी ब्राह्मणस्य ।ज्यामौर्बी राजन्यस्य ।आवीसूत्रं वैश्यस्य ।सर्वेषामेव वा मौञ्जीम्।इयं दुरुक्तात्परिबाधमाना शर्म वरूथं पुनती न आगात्।प्राणापानाभ्यां वलमाभरन्ती प्रिया देवानां सुभगा मेखलेयमिति ।१३।
परिवीतामनुमन्त्रयते क्षितस्य गौप्त्री तपसः परस्पीघ्नती रक्षस्सहमाना अरातीः ।सा नस्समन्तमनु परीहि भद्रया भर्तारस्ते मेखले मा रिषाम इति ।१४।
ग्रन्थिं करोति प्राणानां ग्रन्थिरसि स मा बिस्त्रंसः इति नाभिदेशे ।१५।
अथास्मा अजिनं प्रतिमुञ्चन्वाचयति कृष्णाजिनं ब्राह्मणस्य ।रौरवं राजन्यस्य ।वस्ताजिनं वैश्यस्य ।सर्वेषां वा कृष्णाजिनम्।मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थैवरं समिद्धम्।अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं दधे ऽहमिति ।१६।
अथास्मै दण्डं प्रयच्छति पालाशं बैल्वं वा ब्राह्मणस्य ।नैयग्रोधं स्कन्धजमवाङ्ग्रं रौहीतकं वा राजन्यस्य ।वादरमौदुम्बरं वा वैश्यस्य ।सर्वेषां वा वार्क्षम्।१७।
सोमोसि सोमपं मा कुरु इति पालाशम्।१८।
ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वा इति बैल्वम्।१९।
ओजोस्योजो मयि धेहि इति नैयग्रोधम्।२०।
बलमसि बलं मयि धेहि इति रौहीतकम्।२१।
पुष्टिरसि पुष्टिं मयि धेहि इति बादरम्।२२।
ऊर्गस्यूर्जं मयि धेहि इत्यौदुम्बरम्।२३।
अहं वृक्षस्य रेरिवा ।कीर्तिः पृष्ठं गिरेरिव ।ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि ।द्रविणं सवर्चसमिति वार्क्षम्।२४।
कोनामास्यसौ नामास्मि इति शाठ्यायनकम्।२५।
अथैनं दक्षिणे हस्ते गह्णाति यस्मिन्भूतं च भव्यं च सर्वे लोकास्समाहिताः ।तेन गृह्णामि त्वामहं मह्यं गृह्णामि त्वामहं प्रजापतिना त्वा मह्यं गृह्णाम्यसौ इति ।२६।
अथैनं देवताभ्यः परिददाति देवेभ्यस्त्वा परिददामि विश्वदेवेभ्यस्त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वाभ्यस्त्वा देवताभ्यः परिददाम्यसौ इति ।२७।
अथैनमुपनयति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हृस्ताभ्यामुपनये ऽसौ इति ।२८।
अथ कुमारः पक्वाज्जुहोति _यश्छन्दसामृषभो विश्वरूपश्छन्दोभ्यो ऽध्यमऋतात्सम्बभूव ।समेन्द्रो मेधया स्पृणोत्वमृतस्य देव धारणो भूयासं स्वाहा इति ।२९।
अथाज्याहुतीरुपजुहोति क्षेत्रियै त्वा निरृत्यै त्वा इति षड्भिरनुच्छन्दसम्।६०।
एवमेव ब्रह्मसूक्तेन हुत्वा ब्रह्मजज्ञानमिति षड्भिः ।३१।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।३२।
अग्रेणाग्निं पलाशपर्णेषु हुतशेषं निदधाति नमो अस्तु नीलग्नी वाय इति ।३३।
अत्र सावित्रिव्रतम्।३४।
अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशास्सप्रारोहाः प्रादेशमात्रीरपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति याज्ञिकानां वा वृक्षाणां अन्यतमस्य ।३५।
अग्ने व्रतपते सावित्रं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा ।३६।
वायो व्रतपत आदित्य व्रतमते व्रतानां व्रतपते सावित्रं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति ।३७।
अपरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन्प्राङ्मुख आचार्य उपविशति _राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषमिति ।३८।
तस्याग्रेण कुमारो दर्भेषु प्रत्यङ्मुख उपविश्य पादावन्वारभ्याहसावित्रीं भो अनुब्रूहि इति ।३९।
तस्मा अन्वाहोमिति प्रतिपद्यते तत्सवितुर्वरेण्यमित्येतां पच्छो ऽर्धर्चशस्ततस्समस्तां व्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथा ऽर्धर्चयोरुत्तमां कृत्स्नायामिति ।४०।
अथ कुमारः पक्वादुपादाय प्राश्नाति शरीरं मे विचर्षणम्।जिह्वा मे मधुमत्तमा ।कर्णाभ्यां भूरि विश्रुवम्।ब्रह्मणः कोशो ऽसे मेधया पिहितः ।श्रुतं मे गोपाय इति ।४१।
अथ हैके प्रक्सावित्र्याः प्राश्नाति ब्रह्म वा अन्नमिति वदन्तः ।४२।
तदु तथा न कुर्यान्नानुक्तायां सावित्र्यां प्राश्नीयादित्यनूक्तायामनूक्तायां सावित्र्यां प्राश्नीयादिति शाठ्यायनकम्।४३।
अथाप उपस्पृश्य ज्योतिष्मत्या ऽऽदित्यमुपतिष्ठते उद्वयं तमसस्परि इति ।४४।
अथैनं संशास्ति ब्रह्मचार्यस्यपोशान कर्म कुरु मा दिवा सुषुप्थाः समिध आधेहि भैक्षाचर्यं चर सदा ऽरण्यात्समिध आहरोदकुम्भं चाहराचार्याधीनो भव वेदमधीष्व इति ।४५।
स एवमेवैतत्सर्वं करोति ।४६।
अथास्मा अरिक्तं पात्रं प्रयच्छन्नाह मातरमेवाग्रे भिक्षस्व इति ।४७।
स मातरमेवाग्रे भिक्षेत ।४८।
भवति भिक्षां देहीति ब्राह्मणो भिक्षेत ।४९।
भिक्षां भवति देहीति राजन्यः ।५०।
देहि भिक्षां भवतीति वैश्यः ।५१।
तत्समाहृत्याचार्याय प्राह भैक्षमिदमिति ।५२।
तत्सुभैक्षमितीतरः प्रतिगृह्णाति ।५३।
उत्तरेणाग्निं द्वे स्त्रीप्रतिकृती कृत्य गन्धैर्माल्येन चासङ्कृत्य त्रिवृता ऽन्नेन ब्राह्मणान्सम्पूज्याशिषो वाचयित्वा श्रद्धामेधे प्रियेतामिति ।५४।
त्र्यहमेतमग्निं धारयन्ति क्षारलवणवर्जमधश्शय्या च ।५५।
एतस्मिन्नेवाग्नौ व्याहृतीभिस्सायंप्रातस्समिधो ऽभ्यादध्यात्।५६।
एवमन्यस्मिन्नपि सदा ।५७।
अथैनं प्रदक्षिणमग्निं परिसमूहति जुषस्व नस्समिधमग्ने अद्यशोचा बृहद्यजनं धूममृण्वन्।उदश्पृश दिव्यं सा नु स्तूपैस्सं रश्मिभिस्ततनस्सूर्यस्य इति ।५८।
अथैनं प्रदक्षिणमग्निं परिषिञ्चति अदिते ऽनुमन्यस्व इति दक्षिणतः प्राचीनम्।अनुमते ऽनुमन्मस्व इति पश्चादुदीचीनम्।सरस्वते ऽनुमन्यस्व इत्युत्तरतः प्राचीनम्।देवसवितः प्रसुव इति समन्तं प्रदक्षिणम्।समन्तमेव वा तूष्णीम्।५९।
तस्मिन्व्याहृतीभिस्सायं प्रातस्समिधो ऽभ्यादधाति भूस्स्वाहा भुवस्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इति ।६०।
तथैव परिसमूह्य तथैव परिषिञ्चति अन्वमंस्थाः प्रासावीः इति मन्वान्तान्सन्नमयति ।६१।
अथैनमुपतिष्ठते यत्ते अग्ने तेजः इति तिसृभिः मयि मेधां मयि प्रजामिति तिसृभिः षोढा विहितो वै पुरुषः ।इत्येतस्माद्ब्राह्मणात्।६२।
अथ तिसृषु व्युष्टास्वेतमग्निमादाय तां दिशं यन्ति यत्रास्य पलाशस्स्पष्टो भवति ।६३।
तं प्रदक्षिणं परिसमूहति सुश्रवस्सुश्रवसं मा कुरु यथा त्वं सुश्रवस्सुश्रवा अस्येवमहं सुश्रवस्सुश्रवा भूयासं यथा त्वं सुश्रवस्सुश्रवो देवानां निधिगोपोस्येवमहं ब्राह्मणानां ब्रह्मणो निधिगोपो भूयासमिति ।६४।
तस्याग्रेण उत्तरेण वा ऽग्निमुपसमाधाय सम्परिस्तीर्या ऽथाव्रत्यप्रायश्चित्ते जुहोति यन्म आत्मनो मिन्दा ऽभूत्पुनरग्निश्चक्षुरदात्।इति द्वाभ्याम्।६५।
अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशाः सप्रारोहाः प्रादेशमात्रीरपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति याज्ञिकानां वा वृक्षाणामन्यतमस्य ।६६।
अग्ने व्रतपते सावित्रं व्रतमचारिषं तदशकं तनमे राधि स्वाहा ।६७।
वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते सावित्रं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा इति ।६८।
तथैव सुश्रवसमभ्यर्च्य त्रिवृता ऽन्नेन ब्राह्मणान्सम्पूज्याशिषो वाचयित्वा ।६९।
अत्रैके दण्डमजिनं मेखलां वासश्चातिसृजन्ति ।७०।
अन्यान्यादायास्य वास आदत्ते यस्य ते प्रथमबास्यं हरामस्तं त्वा विश्वे अनुमदनतु देवाः ।तं त्वा भ्रातरस्सुहृदो वर्धमानमनुजायन्तां बहवस्सुजातमिति ।७१।
अथाधोनाभ्युपरि जान्वाच्छाद्य दण्डमजिनं मेखलां च धारयन्श्राद्धसूतकमैथुनमधुमांसानि वर्जयन्भैक्षाहारो ऽधश्शायी चाचार्यस्य गृहानेतीति विज्ञायते आचार्यो वै ब्रह्मेति ।७२।
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने पञ्चमो ऽध्यायः
BaudhGS.2.6
अथ द्वितीयप्रश्ने षष्ठो ऽध्यायः
वेदमधीत्य स्नात्यन्नित्युक्तं समावर्तनम्।१।
मन्त्रब्राह्मणं वेद इत्याचक्षते ।२।
मन्त्रब्राह्मणयोर्वेदनामधेयम्।३।
मन्त्रब्राह्मणे यज्ञस्य प्रमाणम्।४।
मन्त्रब्राह्मणे अधीत्य चीर्णेषु वा व्रतेषु ।५।
एतावदेव नाना ।६।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पालाशीं समिधमाज्येनाक्त्वा मध्यंदिने ऽभ्यादधाति ।७।
तत्पुरस्ताद्व्याख्यातम्।८।
अथ केशश्मश्रुलोमनखावापनेनैव प्रतिपद्यते सिद्धमाच्छत्रादानात्कृत्वा पक्वाज्जुहोति आवहन्ती वितन्वाना ।कुर्वाणा चीरमात्मनः ।वासांसि मम गावश्च ।अन्नपाने च सर्वदा ।ततो मे श्रियमावह ।लोमशां पशुभिस्सह स्वाहा इति ।९।
अथाज्याहुतीरुपजुहोति अमायन्तु ब्रह्मचारिणस्स्वाहा ।यशोजने ऽसानि स्वाहा ।श्रेयान्वस्यसो ऽसानि स्वाहा ।तं त्वा भग प्रविशानि स्वाहा ।स मा भग प्रविश स्वाहा इति ।१०।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।११।
अथाग्रेणाग्निं बिल्वशाखायां हुतशेषं निदधाति तस्मिन्सहस्रशाखे ।निभगाहं त्वयि मृजे स्वाहा इति ।१२।
अथ पक्वादुपादाय प्राश्नति यथा ऽऽपः प्रवता यन्ति ।यथा मासा अहर्जरम्।एवं मां ब्रह्मचारिणःस्र ।धातरायन्तु सर्वतस्स्वाहा इति ।१३।
प्राश्याप आचम्योरः प्रत्यात्मानं प्रत्यभिमृशते प्रतिवेशोसि प्र मा पाहि प्र मा पद्यस्व इति ।१४।
सो ऽत्रैवास्ते आनक्षत्राणामुदयात्।१५।
अथोदितेषु नक्षत्रेषूपनिष्क्रम्य दिश उपतिष्ठत इति सिद्धमत ऊर्ध्वम्।१६।
यस्मिन्नग्नावुपनयति तस्मिन्ब्रह्मचर्यं तस्मिन्व्रतचर्यं तस्मिन्समावर्तनं तस्मित्पाणिग्रहणं तस्मिन्गृह्यानि कर्माणि क्रियन्ते ।१७।
तस्मिन्काम्यानि तस्मिन्प्रजासंस्कारा इत्येके ।१८।
स एष उपनयनप्रभृति व्याहृतीभिस्समिद्धिर्हूयत आ समावर्तनात्।१९।
समावर्तनप्रभृत्याज्येन व्याहृतीभिर्हूयत आ पाणिग्रहणात्।२०।
पाणिग्रहणप्रभृति व्रीहिभिर्यवैर्वा हस्तेनैते आहुतीर्जुहोति अग्नये स्वाहा प्रजापतये स्वाहा इति सायम्।सूर्याय स्वाहा प्रजापतये स्वाहा प्रातरपि ।२१।
अग्निहोत्रहविषामन्यतमेन जुहुयात्।२२।
पर्वणि पर्वणि चाग्नेयस्थालीपाकः ।२३।
स एष आघारवान्स्यादाग्निहोत्रिको वा ऽप्यापूर्विको वा ।२४।
तेन सर्पिष्कता विद्यावन्तं ब्राह्मणं भोजयेत्।२५।
यो ऽस्यापचिततमस्तस्मा ऋषभं दद्यादित्येके ।२६।
अथास्यानुगतस्य या प्रकृतिस्तत आहरणम्।२७।
उपवासो ऽनुगते ऽन्यतरस्य भार्यायाः पत्युर्वा ।२८।
अपि वैकां जुहुयात् _अयाश्चाग्ने ऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि ।अयसा मनसा धृतो ऽयसा हव्यमूहिषे ऽया नो धेहि भेषजं स्वाहा इति ।२९।
आहुतो व्याख्यातः ।३०।
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने षष्ठो ऽध्यायः
BaudhGS.2.7
अथ द्वितीयप्रश्ने सप्तमो ऽध्यायः
अथ शूलगवस्संवत्सरे संवत्सरे मार्गशीर्ष्यां पौर्णमास्यां क्रियेत ।१।
अपि वा ऽऽर्द्रायाम्।२।
गोषु वोपतप्तासु गोषु गुप्तासु ।३।
अरण्ये ऽग्निमुपसमाधाय सम्परिस्तीर्या प्रणीताभ्यः कृत्वा बर्हिरादाय गामुपाकरोति ईशानाय त्वा जुष्टामुपाकरोमि इति ।४।
तूष्णीमित्येके ।५।
अथैनामद्भिः प्रोक्षति ईशानाय त्वा जुष्टां प्रोक्षामि इति ।६।
तूष्णीमित्येके ।७।
तामत्रैव प्रतीचीनशिरसीमुदीचीनपदीं संज्ञपयन्ति ।८।
तस्यै संज्ञप्ताया अद्भिरभिषेकम्।९।
प्राणानाप्याययति तूष्णीम्।१०।
तूष्णीं वपामुत्स्विद्य हृदयमुद्धरति ।११।
प्रज्ञातानि चावदानानि ।१२।
तान्येष्वेव शूलेषूपनीक्ष्य तस्मिन्नेवाग्नौ श्रपयन्ति ।१३।
अथैतानि शूलेभ्य उपनीक्ष्य पुनः कुम्भ्यां श्रपयन्ति ।१४।
अथैतान्यभिघारितान्युद्वास्य प्रतिष्ठितमभिघारयति ।१५।
परिधानप्रभृत्या ऽग्निमुखात्कृत्वा दैवतमावाहयति आ त्वा वहन्तु हरयस्सचेतसश्श्वेतैरश्वैस्सहकेतुमद्भिः ।वाताजिरैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वोमिति ।१६।
अथ स्नुवेणोपस्तीर्णामभिघारितां वपां जुहोति सहस्राणि सहस्रशः इति पुरोनुवाक्यामनूच्य ईशानं त्वा भुवनानामभिश्रियमिति याज्यया जुहोति ।१७।
अत्रैतान्यवदानानीडासूने प्रच्छौदनं मासं यूषमित्याज्येन समुदायुत्य मेक्षणेनोपघातं पूर्वार्धे जुहोति भवाय देवाय स्वाहा शर्वाय देवाय स्वाहा ईशानाय देवाय स्वाहा पशुपतये देवाय स्वाहा रुद्राय देवाय स्वाहा उग्राय देवाय स्वाहा मीमाय देवाय स्वाहा महते देवाय स्वाहा इति ।१८।
अथ मध्ये जुहोति _भवस्य देवस्य पत्न्यै स्वाहा शर्वस्य देवस्य पत्न्यै स्वाहा ईशानस्य देवस्य पत्न्यै स्वाहा पशुपतेर्देवस्य पत्न्यै स्वाहा रुद्रस्य देवस्य पत्न्यै स्वाहा उग्रस्य देवस्य पत्न्यै स्वाहा महतो देवस्य पत्न्यै स्वाहा इति ।१९।
अथापरार्धे जुहोति भवस्य देवस्य सुताय स्वाहा शर्वस्य देवस्य सुताय स्वाहा ईशानस्य देवस्य सुताय स्वाहा पशुपतेर्देवस्य सुताय स्वाहा रुद्रस्य देवस्य सुताय स्वाहा उग्रस्य देवस्य सुताय स्वाहा मीमस्य देवस्य सुताय स्वाहा महतो देवस्य सुताय स्वाहा इति ।१९।
अथाज्याहुतीरुपजुहोति _नमस्ते रुद्र मन्यवे इत्या ऽन्तादनुवाकस्य ।स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।२२।
अथाग्रेणाग्निमर्कपर्णेषु हुतशेषं निदधाति _यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना ऽऽविवेश तस्मै रुद्राय नमो अस्तु इति ।२३।
स्थालीसङ्क्षालनमाज्यशेषमुदकशेषं च पात्र्यां समानीय वेतसशाखयावोक्षन्सर्वतः त्रिः प्रदक्षिणं गाः पर्येति _आ गावो अग्मन्नुत भद्यमक्रनित्येतेन सूक्तेन ।२४।
महत्स्वस्त्ययनमित्याचक्षते ।२५।
अथ यदि गां न लभते मेषमजं वा ऽऽलभते ।२६।
ईशानाय स्थालीपाकं वा श्रपयन्ति तस्मादेतत्सर्वं करोति यद्गवा कार्यम्।२७।
शूलगवो व्याख्यातः ।२८।
एवमेवाष्टम्यां प्रदोषे क्रियेतैतावदेव नाना ।२९।
नात्रोपाकरणं पशोः ।३०।
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने सप्तमो ऽध्यायः
BaudhGS.2.8
अथ द्वितीयप्रश्ने अष्टमो ऽध्यायः
अथ बलिहरणम्।१।
सायं प्रातर्यदशनीयस्य क्रियेतौपासवे पचवे वा होमः ।२।
एतावदेव नाना ।३।
क्षारलवणावरान्नसंसृष्टस्य तु होमं परिचक्षते ।४।
काममितरेष्वायतनेषु ।५।
अथ यद्येतदेव स्यादुत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जुहुयात्।६।
सर्वेष्वायतनेषु पाणिना परिसमूह्योभयतः परिषेकं निदध्यात्।७।
देशाभ्यासे मन्त्राभ्यासः कामं समानस्थानेषु ।८।
अवग्राहशो हस्तेन होमः _अग्नये स्वाहा सोमाय स्वाहा ध्रुवाय स्वाहा ध्रुवाय भूमाय स्वाहा ध्रुवक्षितये स्वाहा अच्युतक्षितये स्वाहा ईशानाय स्वाहा जयन्ताय स्वाहा धर्मरुचये स्वाहा धन्वन्तरये स्वाहा विद्यायै स्वाहा अम्बिकायै स्वाहा हरये स्वाहा गणेभ्यस्स्वाहा गणपतिभ्यस्स्वाहा परिषद्भ्यस्स्वाहा विश्वेभ्यो देवेभ्यस्स्वाहा साध्येभ्यो देवेभ्यस्स्वाहाः सर्वेभ्यो देवेभ्यस्स्वाहा सर्वाभ्यो देवताभ्यस्स्वाहा भूस्स्वाहा भुवस्स्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा ।९।
अग्नये स्विष्टकृते स्वाहा इत्युत्तरार्धपूर्वार्धे ।१०।
अपरेणाग्निं _धर्माय स्वाहा अधर्माय स्वाहा इति ।११।
अग्रेणाग्निं _कद्रुवै नाकमात्रे स्वाहा सर्पेभ्यस्स्वाहा इति ।१२।
अब्भ्रिण्यावकाशे _अवलायै देव्यै स्वाहा वास्तुपाल्यै सगणायै स्वाहा इति ।१३।
अब्भ्रिणदेशे _अद्भ्यस्स्वाहा वरुणाय स्वाहा इति ।१४।
स्थाल्या _प्रजापतये स्वाहा परमेष्ठिने स्वाहा इति ।१५।
देवता ऽवकाशे _ऋषभाय स्वाहा रुद्राय स्वाहा रुद्राण्यै स्वाहा इति ।१६।
मध्ये ऽगारस्य _ओषधिवनस्पतिभ्यस्स्वाहा रक्षोदेवजनेभ्यस्स्वाहा इति ।१७।
उच्छिरसि _कामाय स्वाहा भगाय स्वाहा श्रियै स्वाहा विष्णवे स्वाहा इति ।१८।
स्थूणादेशे गृहाय स्वाहा गृहराजाय स्वाहा इति ।१९।
धनधान्याकाशे धनधन्याभ्यां स्वाहा वैश्रवणाय स्वाहा इति ।२०।
गोष्ठे वा पल्वले वा श्रियै स्वाहा पुष्ट्यै स्वाहा इति ।२१।
उलूखलमुसलावकाशे उलूखलमुसलाभ्यां स्वाहा इति ।२२।
दृषदुपलावकाशे दृषदुपलाभ्यां स्वाहा इति ।२३।
समूहन्यवकाशे समूहन्यै देव्यै स्वाहा इति ।२४।
उत्तरपूर्वदेशे ऽगारस्य गृह्याभ्यस्स्वाहा अवसानेभ्यस्स्वाहा अवसानपतिभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ।२५।
द्वारमध्ये अन्तरिक्षाय स्वाहा अवान्तरिक्षाय स्वाहा इति ।२६।
पार्श्वयोः धात्रे स्वाहा विधात्रे स्वाहा इति ।२७।
उपपार्श्वयोः भूत्यै स्वाहा प्रभूत्यै स्वाहा इति ।२८।
संवरणदेशे यदेजति जगति यच्च चेष्टति नाम्नो भागो ऽयं नाम्ने स्वाहा इति ।२९।
अथोपनिष्क्रम्य ज्येष्ठावकाशे ज्येष्ठाभ्यां स्वाहा करस्करावकाशे करस्कराभ्यां स्वाहा इति ।३०।
अनसि वा रथे वा श्रियै स्वाहा विष्णवे स्वाहा इति ।३१।
गोष्ठे रुद्राय स्वाहा पशुभ्यस्स्वाहा पशुपतये स्वाहा इति ।३२।
वस्तुमध्ये वास्तोष्पतये स्वाहा पृथिव्यै स्वाहा अन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यस्स्वाहा अद्भ्यस्स्वाहा ओषधीभ्यस्स्वआहा वनस्पतिभ्यस्स्वाहा चराचरेभ्यस्स्वाहा परिप्लवेभ्यस्स्वाहा सरीसृपेभ्यस्स्वाहा देशेभ्यस्स्वाहा कालेभ्यस्स्वाहा लोकेभ्यस्स्वाहा देवेभ्यस्स्वाहा ऋषिभ्यस्स्वाहा स्वसुभ्यस्स्वाहा रुद्रेभ्यस्स्वाहा आदित्येभ्यस्स्वाहा इन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा इति ।३३।
अथ दक्षिणतः प्राचीनावीती पितृभ्यस्स्वधा नमस्स्वाहा पितामहेभ्यस्स्वधा नमस्स्वाहा प्रपितामहेभ्यस्स्वधा नमस्स्वाहा इति ।३४।
अथाप उपस्पृश्योत्तरतो यज्ञोपवीती नमो रुद्राय भगवते स्वाहा इति ।३५।
अथ दिक्षु प्राच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहा प्रतीच्यै दिशे स्वाहा उदीच्यै दिशे स्वाहा ऊर्ध्वायै दिशे स्वाहा अधरायै दिशे स्वाहा इति ।३६।
अथावान्तरदिक्षु यमाय स्वाहा निरृत्यै स्वाहा रक्षोभ्यस्स्वाहा ईशानाय स्वाहा इति ।३७।
अथाकाश उत्क्षिपति ये भूताः प्रचरन्ति दिवा वलिमिच्छन्तो वितुदस्य प्रेष्याः ।तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा इति दिवा ।३७।
ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः ।तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा इति नक्तम्।३९।
संक्षालनं प्रागुदीच्यां दिशि निनयति नमो रुद्राय भौमाय स्वाहा इति ।४०।
इति बोधायनीये गृह्यसूत्रे द्वितीयप्रश्ने अष्टमो ऽध्यायः
BaudhGS.2.9
अथ द्वितीयप्रश्ने नवमो ऽध्यायः
अथ वैश्वदेवं हुत्वा ऽतिथिमाकाक्षेदागोर्दोहकालम्।१।
अग्रं वोद्धृत्य दद्यात्।२।
विज्ञायते यज्ञो वा एष पञ्चमो यदतिथिः ।३।
जघनेन गार्हपत्ययुपविश्यौपासनस्य वा अधीहि भो इति गार्हपत्यमुक्त्वा प्राणायामैस्त्रिरायभ्य सावित्रीं सहस्रकृत्वा आवर्तयेच्छतकृत्वो ऽपरिमितकृत्वो वा दशावरम्।४।
वेदादयश्छन्दांसि कूश्माण्डानि चाधीयीत अग्निमीऌए पुरोहितमिति ऋग्वेदस्य इषे त्वोर्जे त्वा इति यजुर्वेदस्य अग्न आयाहि वीतये इति सामवेदस्य शं नो देवीरभिष्टये इत्यथर्ववेदस्य अग्निर्मूर्धा भुवः इति छन्दांसि यद्देवा देवहेऌअनमिति कूश्माण्ड्यः ।५।
यदधीते स ब्रह्मयज्ञो यज्जुहोति स देवयज्ञो यत्पितृभ्यस्स्वधा करोति स पितृयज्ञो यद्भूतेभ्यो बलिं हरति स भूतयज्ञो यद्ब्राह्मणेभ्यो ऽन्नं ददाति स मनुष्ययज्ञ इति ।६।
एते पञ्च महायज्ञाः सततं सुप्रयुक्ता नयन्ति परमां गतिम्।७।
एतेभ्यो यस्य पञ्चभ्यो यज्ञ एको ऽपि हीयते मनस्वत्याहुतिस्तत्र प्रायश्चित्तं विधीयते ।८।
द्व्यहं त्र्यहं वा ऽपि प्रमादादकृतेषु तु तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेत्।९।
दशाहं द्वादशाहं वा विच्छिन्नेषु तु सर्वशः चतस्रो ऽभ्यावर्तिनीर्हुत्वा कार्यस्तान्तुमतश्चरुः ।१०।
यस्य स्त्री वा ऽनुपेतो वा गृहेष्वेतान्बलीन्हरेत्कूश्माण्ड्यस्तत्र होतव्यो हुत्वा यज्ञसमृद्धये ।११।
प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते पञ्चानां महतामेषां स यज्ञैस्सह गच्छति ।१२।
प्रवासे कुरुते चैनान्यदन्नमुपपद्यते न चेदुत्पद्यते चान्नमद्भिरेनान्समापयेत्।१३।
अद्भिरेव व्रतं कुर्याद्यथालाभमनुव्रतम्देवानां देवयज्ञेन द्विजा गच्छन्ति साम्यताम्।१४।
पितॄणां पितृयज्ञेन भूतयज्ञेन भूतिनः मनोर्मनुष्ययज्ञेन ब्रह्मयज्ञेन ब्रह्मणः ।१५।
एतासां साम्यतां गत्वा देवतानां शतं समाः आनन्दं ब्रह्म गच्छन्ति ध्रुवं शाश्वतमव्ययमिति ।१६।
अथास्मा अतिथिर्भवति गुरोस्समानवृत्तिर्वैखानसो वा गृहस्थो वानप्रस्थः परिव्राजको गतश्रीस्स्नातको राजा वा धर्मयुक्तः ।१७।
तेषामभ्युत्थायासनं पाद्यमर्हणमर्घ्यं वा प्रयुञ्जीत ।१८।
यास्तत्रौषधयस्सन्ति ता देयाः ।१९।
अन्यां वा प्रक्रियां प्रकुर्वीत ।२०।
सर्वेभ्यो ऽभ्यागतेभ्य आ श्वचाण्डालेभ्यस्स्वागतं कार्यम्।२१।
ओषधिविभागस्तु बिभववता कार्यो ऽभावे भूमिरुदकं तृणानि कल्याणी वागिति ।२२।
एतानि वै सतो ऽगारे न क्षीयन्ते कदाचन इति तानेतान्परं ब्रह्मेत्याचक्षते ।२३।
तेषां ग्रहणे तु द्वादशरात्रमक्षारलवणभोजनमधश्शयनं ब्रह्मचर्यम्।त्रिरात्रोपोषित उत्क्षेपणौ परौ गृह्णीयात्।२५।
बलिहरणं व्याख्यातम्।२६।
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने नवमो ऽध्यायः
BaudhGS.2.10
अथ द्वितीयप्रश्ने दशमो ऽध्यायः
अथ प्रत्यवरोहणम्।१।
वसन्तादौ मधुश्च माधवश्च इति हुत्वा वासन्तिकैरलङ्कारैरलङ्कृत्य वासन्तिकान्यन्नानि ब्राह्मणेभ्यो दत्वा ऽन्नशेषान्सगणः प्राश्नाति ।२।
अथ ग्रीष्मादौ शुक्रश्च शुचिश्च इति हुत्वा ग्रैष्मिकैरलङ्कारैरलङ्कृत्य ग्रैष्मिकान्यन्नानि ब्राह्मणेभ्यो दत्वा ऽन्नशेषान्सगणः प्राश्नाति ।३।
अथ वर्षादौ नभश्च नभस्यश्च इति हुत्वा वार्षिकैरलङ्कारैरलङ्कृत्य वार्षिकान्यन्नानि ब्राह्मणेभ्यो दत्वा ऽन्नशेषान्सगणः प्राश्नाति ।४।
अथ शरदादौ इषश्चोर्जश्च इति हुत्वा शारदिकैरलङ्कारैरलङ्कृत्य शारदिकान्यन्नानि ब्राह्मणेभ्यो दत्वा ऽन्नशेषान्सगणः प्राश्नाति ।५।
अथ हेमन्तादौ सहश्च सहस्यश्च इति हुत्वा हैमन्तिकैरलङ्कारैरलङ्कृत्य हैमन्तिकान्यन्नानि ब्राह्मणेभ्यो दत्वा ऽन्नशेषान्सगणः प्राश्नाति ।६।
अथ शिशिरादौ तपश्च तपस्यश्च इति हुत्वा शैशिरिकैरलङ्कारैरलङ्कृत्य शैशिरिकान्यन्नानि ब्राह्मणेभ्यो दत्वा ऽन्नशेषान्प्राश्नाति ।७।
अथाधिमासे संसर्पो ऽस्यंहस्पत्याय त्वा इति हुत्वा चैत्रिकैरलङ्कारैरलङ्कृत्य चैत्रिकान्यन्नानि ब्राह्मणेभ्यो दत्वा ऽन्नशेषान्सगणः प्राश्नाति ।८।
स एष आघारवान्वा स्यादाग्निहोत्रिको वा ऽप्यापूर्विको वा ।९।
प्रत्यवरोहणं व्याख्यातम्।१०।
इति बोधायनीये गृह्यसूत्रे द्वितीयप्रश्ने दशमो ऽध्यायः
BaudhGS.2.11
अथ द्वितीयप्रश्ने एकादशो ऽध्यायः
अथाष्टकाहोमः ।१।
तैषे मास्यपरपक्षस्याष्टम्यां क्रियेत ।२।
एवं माघ एवं फाल्गुने यदि विहृतः ।३।
यद्यु वै समस्त उपरिष्टान्माध्याः पौर्णमास्या आरपक्षस्य सप्तम्याष्टम्यां नवम्यामिति क्रियेतापि वा ऽष्टम्यामेव ।४।
श्वः करिष्यामीति ब्राह्मणान्निमन्त्रयते योनिगोत्रश्रुतवृत्तसम्बन्धानित्येके ।५।
कामं सम्बन्धानपि श्रुतवृत्तसम्पन्नान्श्रुतवृत्तयोर्हि स्वधा निधीयत इत्युपदिशन्ति ।६।
तान्श्वोभूते श्मश्रुकर्माभ्यञ्जनस्नानैर्यथोपपादं सम्पूज्य स्वयमाप्लुत्य शुचौ समे देशे देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा बर्हिरादाय गामुपाकरोति _पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टामुपाकरोमि इति तूष्णीमित्येके ।७।
अथैनामद्भिः प्रोक्षति पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टां प्रोक्षामि इति ।तूष्णीमित्येके ।८।
तामत्रैव प्रतीचीनशिरसीं दक्षिणापदीं संज्ञपन्ति ।९।
तस्यै संज्ञप्ताया अद्भिरभिषेकम्।१०।
प्राणानाप्याययति तूष्णीम्।११।
तूष्णीं वपामुत्खिद्य हृदयमुद्धरति ।१२।
प्रज्ञातानि चावदानानि ।१३।
तान्येतेष्वेवं शूलेषूपनीक्ष्ये तस्मिन्नेवाग्नौ श्रपयन्ति ।१४।
पृथङ्मांसं चौदनं चापूपांश्च श्रपयन्त्यन्यांश्च भक्ष्यविशेषांत्सर्वं सिद्धं समानीयायुग्मान्ब्राह्मणान्सुप्रक्षाऌइतपाणिपादानप आचमय्य संदर्भोपक्लृप्तेष्वासनेषु द्वौ दैवे त्रीन्पित्र्ये एकैकमुभयत्र वा प्राङ्मुखानुपवेशयत्युदङ्मुखान्वा ।१५।
स यदि प्राङ्मुखान्दक्षिणआपवर्गः ।यद्युदङ्मुखान्प्रागपवर्गः ।१६।
तेषामेवोदकं निनीय सप्रणवेन क्षणं ग्राहयति ।१७।
अष्टकाश्राद्धे क्षणः क्रियतामित्यों तथेति प्रतिवचनम्।१८।
प्राप्नोतु भवान्प्राप्नोतु भवानिति ।१९।
प्राप्नवानि प्राप्नवानि इतीतरे प्रत्याहुः ।२०।
अथैतान्तिलमिश्रा अपः प्रतिग्राहयति अमुष्मै स्वधा नमो ऽमुष्मै स्वधा नमः इति ।२१।
त्रिस्तिलोदकमेके समामनन्ति पुरो ऽन्नं द्विस्तिलोदकम्दद्यात्भुक्तवत्सु च तृतीयमिति ।२२।
अथैनान्वस्त्रगन्धपुष्पधूपदीपमाल्यैर्यथोपपादं सम्पूज्य पृच्छति उद्ध्रियतामग्नौ च क्रियतां इतीतरे प्रत्याहुः ।२३।
अपि वा अग्नौ करिष्यामि इति कुरुष्व इतीतरे प्रत्याहुः ।२४।
अथाभ्यनुज्ञातः परिधानप्रभृत्या ऽग्निमुखात्कृत्वा शृतायां वपायां पञ्च स्त्रुवाहुतीर्जुहोति याः प्राचीस्सम्भवन्त्याय उत्तरतश्च याः ।अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमस्स्वाहा ।२५।
अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या दिवा ।दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमस्स्वाहा ।२६।
अन्तर्दध ऋतुभिस्सर्वैरहोरात्रैस्ससन्धिकैः ।अर्धमा सैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमस्स्वाहा ।२७।
यन्मे माता प्रलुलोभ चरत्यननुत्रता ।तन्मे रेतः पिता वृङ्कां मा ऽऽभुरन्यो ऽवपद्यतां स्वधा नमस्स्वाहा ।२८।
यद्वः क्रव्यादङ्गमदहं लोकाननयन्प्रणयन्जातवेदाः ।तद्वो अहं पुनरावेशयाम्यरिष्टास्सर्वैरङ्गैस्सम्भवथ पितरस्स्वधा नमस्स्वाहा इति ।२९।
त्रेधा वपां विच्छिद्यौदुम्बर्या दर्व्यां जुहोति सो माय पितृमते शुष्मिणे जुहुमो हविः ।वाजन्निदं जुषस्व नः स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा ।३०।
अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे ।वैवस्वतेदमद्धि नस्स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा ।३१।
यदग्ने कव्यवाहन पितॄन्यक्षि ऋतावृधः ।प्र देवेभ्यो वह हव्यं पितृभ्यश्च स्वधा कव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा इति ।३२।
अथाष्टकाहोमं जुहोति इयमेव सा या प्रथमा व्यौच्छतिति पञ्चदश ।ईयुष्टे ये पूर्वतरामपश्यनित्येकाम्।संवत्सरस्य प्रतिमाणमित्येकां तास्सप्तदश ।३३।
अथापूपमष्टधा विच्छिद्य त्रीण्यवदानानि वपायाः कल्पेन हुत्वा ऽथेतराणि ब्राह्मणेभ्यो दत्वा ऽत्रैतान्यवदानानीडासूने प्रतिच्छाद्यौदनं मांसं यूषमित्याज्येन समुदायुत्यौदुम्बर्या दर्व्योपघातं दक्षिणार्धे जुहोति पितृभ्यस्स्वधा नमस्स्वाहा ।पितामहेभ्यस्स्वधा नमस्स्वाहा ।प्रपितामहेभ्यस्स्वधा नमस्स्वाहा ।मातृभ्यस्स्वधा नमस्स्वाहा ।पितामहीभ्यस्स्वधा नमस्स्वाहा ।प्रपितामहीभ्यस्स्वधा नमस्स्वाहा ।मातामहेभ्यस्स्वधा नमस्स्वाहा ।मातुः पितामहेभ्यस्स्वधा नमस्स्वाहा ।मातुः प्रपितामहेभ्यस्स्वधा नमस्स्वाहा ।मातामहीभ्यस्स्वधा नमस्स्वाहा ।मातुः पितामहीभ्यस्स्वधा नमस्स्वाहा ।मातुः प्रपितामहीभ्यस्स्वधा नमस्स्वाहा ।आचार्याय स्वधा नमस्स्वाहा ।आचार्यपत्नीभ्यस्स्वधा नमस्स्वाहा ।गुरुभ्यस्स्वधा नमस्स्वाहा ।गुरुपत्नीभ्यस्स्वधा नमस्स्वाहा ।सखिभ्यस्स्वधा नमस्स्वाहा ।सखिपत्नीभ्यस्स्वधा नमस्स्वाहा ।ज्ञातिभ्यस्स्वधा नमस्स्वाहा ।ज्ञातिपत्नीभ्यस्स्वधा नमस्स्वाहा ।अमात्येभ्यस्स्वधा नमस्स्वाहा ।अमात्यपत्नीभ्यस्स्वधा नमस्स्वाहा ।सर्वेभ्यस्स्वधा नमस्स्वाहा ।सर्वाभ्यस्स्वधा नमस्स्वाहा इति ।३४।
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा इति दक्षिणार्धपूर्वार्धे ।३५।
मांसोदनं पात्रेषूद्धृत्य विशेषानुपनिक्षिप्य हुतशेषेन संसृज्य दक्षिणाग्रेषु दर्भेषु सादयित्वा दक्षिणाग्नैः दर्भैः प्रतिच्छाद्याभिमृशति पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितृणां पितामहानां प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिन्लोके इति ।३६।
अथैतानि ब्राह्मणैभ्य उपनिक्षिप्य ब्राह्मणानामङ्गुष्ठेनानखेनानुदिशति अयुष्मै स्वधा नमो ऽमुष्मै स्वधा नमः इति ।३७।
भुञ्जानान्समीक्षते प्राणे निविष्टो ऽमृतं जुहोमि इति पञ्चभिः ।ब्राह्मणि म आत्मा ऽमृतत्वाय इत्यात्मानम्।३८।
न चात ऊर्ध्वं निरीक्षते ह्णीका हि पितरः इति विज्ञायते ।३९।
सर्वै कामैस्तर्पयन्स्वधायुक्तानि ब्रह्माण्यभिश्रावयन्रक्षोघ्नानि च नैरृतानि च ।४०।
तृप्त्यन्ते तृप्ताः स्थेत्युक्त्वा तृप्ताः स्म इति पर्तिवचनम्।४१।
तृप्तानप आचमय्याशयेष्वन्नशेषान्सम्प्रकिरति ये ऽग्निदग्धा जाता जीवा ये ये त्वदग्धाः कुले मम ।भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिमिति ।४२।
अथैनान्संक्षाऌअनेन विषिञ्चन्नवकीर्य स्वदितमिति वाचयित्वा दक्षिणाभिराराधयति ।४३।
सुवर्णहिरण्यप्राणिवस्त्रलोहभूमिभाण्डैर्गवाश्वाजाविकहस्तिदासपुरुषव्रीहियवमाषतिलदण्डोपानच्छत्रकमण्डलुयानासनशयनोपधानैस्सर्वोपकरणैर्यथोपपादं सम्पूज्याक्षय्यं वाचयित्वोपसङ्गृह्य स्वधां वाचयित्वोत्थाप्य प्रसाद्य संसाद्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्यैतेनैव यथेतमेत्यान्नशेषान्निवेदयते ।यथा ब्रूयुस्तथा कुर्यात्तैस्त्वभ्यनुज्ञेयम्।४४।
अथा ऽभ्यनुज्ञातो दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य तेष्वन्नशेषैः पिण्डं ददाति पितृभ्यस्स्वधा नमः इति चतुर्विंशतिः ।४५।
अथैनान्मङ्क्षाऌअनेन त्रिरपसलैः परिषिञ्चति ऊर्जं वहन्तीरमृतं घृतं मधु पयः कलिलं परिस्नुतं स्वधा स्थ तर्पयत मे पितॄन्तृप्यत तृप्यत तृप्यत इति ।४६।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।४७।
आचमने चाग्निमुखे चाभिश्रावणे चोपसङ्ग्रहणे च पश्चाद्धोमेषु च यज्ञोपवीतम्।४८।
अथेतरत्र प्राचीनावीतम्।४९।
एवमेव श्वोभूते मांसशेषेणैवमेव श्वोभूते यदि त्र्यहम्।५०।
अथ यदि गां न लभते मेषमजं वा ऽऽलभते ।५१।
आरण्येन वा मांसेन यथोपपन्नेन ।५२।
खङ्गमृगमहिषमेषवराहपृषतशशरोहितशार्ङ्गतित्तिरिकपोतकपिञ्जलवार्ध्राणसानामक्षय्यं तिलमधुसंसृष्टम्।५३।
तथा मत्स्यस्य शतवलैः क्षीरोदनेन वा सूपोदनेन वा ।५४।
यद्वा भवत्यामैर्वा मूलफलैः प्रदानमात्रम्।५५।
हिरण्येन वा प्रदानमात्रम्।५६।
अपि वा गोग्रासमाहरेत्।५७।
अपि वा ऽनूचानेभ्य उदकुम्भानाहरेत्।५८।
अपि वा श्राद्धमन्त्रानधीयीत ।५९।
अपि वा ऽरण्ये ऽग्निना कक्षमुपोषेदेषामेकाष्टकेति ।६०।
न त्वेवानष्टकस्स्यात्।६१।
सिकता श्राद्धे पवित्रं यद्यध्यवसनाय यद्यन्ववकिरणाय ।६२।
कुशाः कुतपो दूर्वा इति श्राद्धे पवित्रं यद्यासनाय यदि परिस्तरणाय यद्युत्पवनाय ।६३।
तिलाश्श्राद्धे पवित्रं यदि दानाय यदि भोजनाय यद्यपां संसर्जनाय ।खङ्गः श्राद्धे पवित्र यदि मांसं यद्यस्थिमयं पात्रम्।६५।
दौहित्रः श्राद्धे पवित्रं यदि भोक्ता यदि परिवेष्टा यद्यभिश्रावयिता ।६६।
इत्यष्टकाहोमो व्याख्यातः ।६७।
एवमेव मासिश्राद्धमपरपक्षस्यान्यतमे ऽहनि क्रियेत ।६८।
एतावदेव नाना नात्राष्टकाहोमो भवति ।६९।
इत्यष्टका व्याख्याता ।७०।
इतीमास्सप्त पाकयज्ञसंस्था व्याख्याताः ।७१।
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने एकादशो ऽध्यायः
अथाष्टकाहोमः ।अथ प्रत्यवरोहणम्।अथ वैश्वदेवम्।अथ बलिहरणम्।अथ शूलगवः ।वेदमधीत्य स्नास्यन्नित्युक्तम्।अथाहुतो गर्भाष्टमेषु ।संवत्सरे चूडाकर्म ।षष्ठे मास्यन्नप्राशनम्।चतुर्थे मास्युपनिष्क्रमणम्।अथ प्रहुतः ।११।
अथ प्रहुतः ।चतुर्थे मास्युपनिष्क्रमणम्।षष्टे मास्यन्नप्राशनम्।संवत्सरे चूडाकर्म ।अथाहुतो गर्भाष्टमेषु ।वेदमधीत्य स्नास्यन्नित्युक्तम्।अथ शूलगवः ।अथ बलिहरणम्।अथ वैश्वदेवम्।अथ प्रत्यवरोहणम्।अथाष्टकाहोमः ।११।

इति बोधायानीयगृह्यसूत्रे द्वितीयप्रश्नः