सामग्री पर जाएँ

बौधायनगृह्यसूत्रम्/प्रश्नः १

विकिस्रोतः तः

अथ प्रथमप्रश्ने प्रथमो ऽध्यायः
यथो एतद्धुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसंस्था इति ।१।
ता अनु व्याख्यास्यामः ।२।
तत्र यद्धूयते स हुतो यथैतद्विवाहस्सीमन्तोन्नयनं चेति ।३।
तत्र हि हूयत एव ।४।
अथ यद्धुत्वा दीयते स प्रहुतो यथैतज्जातकर्म चौलं चेति ।५।
तत्र हि हुत्वा दीयत एव ।६।
अथ युद्धुत्वा दत्वा चादीयते स आहुतः यथैतदुपनयनं समावर्तनं चेति ।७।
तत्र हि हुत्वा दत्वा चादीयते ।८।
अथ यच्छूलेषूपनीय गव्यानि श्रपयन्ति स शूलगवः ।९।
अथ यत्गृह्याभ्यो देवताभ्यो ऽन्नं सन्प्रक्रिरन्ति तत्बलिहरणम्।१०।
अथ यदृतो ऋतुं प्रत्यवरोहन्ति तत्प्रत्यवरोहणम्।११।
अथ यदेकाष्टकायामन्नं क्रियते सो ऽष्टकाहोम इति ।१२।
विवाहं व्याख्यास्यामः ।१३।
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे युग्मान्ब्राह्मणान्वरान्प्रहिणोति प्रसुग्मन्ता धियसानस्य सक्षणि वरेभिर्वरां अभिषुप्रसीदत ।अस्माकमिन्द्र उभयं जुजोषति यत्सौम्यस्यान्धसो बुबोधति इति ।१४।
यतो ऽनुमन्त्रयते अनृक्षरा ऋजवस्सन्तु पन्था येभिस्सखायो यन्ति नो वरेयम्।समर्यमा सम्भगो नो निनीयात्सञ्जास्पत्यं सुयममस्तु देवाः इति ।१५।
अथ यदि दक्षिणाभिस्सह दत्ता स्यान्नात्र वरान्प्रहिणुयात्।१६।
तां प्रतिगृह्णीयात्प्रजापतिस्त्रियां यशः इत्येताभिष्षड्भिरनुच्छन्दसम्।१७।
सर्वे मासा विवाहस्य ।१८।
शुचितपस्तपस्यवर्जमित्येके ।१९।
रोहिणी मृगशीर्षमुत्तरे फल्गौनी स्वातीति विवाहस्य नक्षत्राणि ।२०।
पुनर्वसू तिष्यो हस्तश्श्रोणा रेवतीत्यन्येषां भूतिकर्मणाम्।२१।
यानि चान्यानि पुण्योक्तानि नक्षत्राणि तेषु पूर्वेद्युरेवर्द्धिपूर्तेषु युग्मान्ब्राह्मणान्भोजयेत्।२२।
प्रदक्षिणमुपचारः ।२३।
पुष्पफलाक्षतमिश्रैर्यवैस्तिलार्थमुपलिष्यां दध्योदनं सम्प्रकीर्य दक्षिणं जानुं भूमौ निधाय सव्यमुद्धृत्य इडा देवहूः इति जपित्वा नान्दीमुखाः पितरः प्रियन्तामिति वाचयित्वा अद्य विवाहः इति ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमित्योङ्कारपूर्वं त्रिस्त्रिरेकैकामाशिषो वाचयित्वा स्नातो ऽहतवासो गन्घानुलिप्तस्स्रग्वी भुक्तवान्प्रतोदपाणिरपदातिर्गत्वा वधूज्ञातिभिरतिथिवदर्चितस्स्नातामहतवाससां गन्धानुलिप्तां स्रग्विणीं भुक्तवतीमिषुहस्तां दत्तां वधूं समीक्षते अभ्रातृघ्नीं वरुणापतिघ्नीं बृहस्पते ।इन्द्रापुत्रघ्नीं लक्ष्म्यं तामस्यै सवितस्सुव इति ।२४।
तयेक्ष्यमाणो जपति अघोरचक्षुरपतिघ्न्येधि शिवा पतिभ्यस्सुमनास्सुवर्चाः ।जीवसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे इति ।२५।
अथैनामन्तरेण भ्रुमुखे दर्भेण सम्मार्ष्टि इदमहं या त्वयि पतिघ्न्यलक्ष्मिस्तां निर्दिशामि इति ।२६।
दर्भं निरस्याप उपस्पृश्याथैनां दक्षिणे हस्ते गृह्णाति मित्रो ऽसि इति ।२७।
अथैनां देवयजनमुदानयति एकमिषे विष्णुस्त्वा ऽन्वेतु ।द्वे ऊर्जे विष्णुस्त्वा ऽन्वेतु ।त्रीणि व्रताय विष्णुस्त्वा ऽन्वेतु ।चत्वारि मायोभवाय विष्णुस्त्वा ऽन्वेतु ।पञ्च पशुभ्यो विष्णुस्त्वा ऽन्वेतु ।षडायस्पोंषाय विष्णुस्त्वा ऽन्वेतु ।सप्तभ्यो होत्राभ्यो विष्णुस्त्वा ऽन्वेतु इति ।२८।
सप्तमं पदमुपसङ्गृह्य जपति सखायस्सप्तपदा उभूम सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मा योष्ठाः इति
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने प्रथमो ऽध्यायः
BaudhGS.1.2
अथ प्रथमप्रश्ने द्वितीयो ऽध्यायः
आवेद्यार्घ्यं कुर्यात्।१।
मध्ये ऽगारस्योदीचीनप्रतिषेवणा एरका उपस्तृणाति ।२।
तास्वहतानि बहुगुणान्युत्तरदशानि वासांस्यास्तीर्य तेष्वृत्विजः प्राङ्मुखा उपविशन्ति ।३।
उत्तरपूर्वे देशे ऽगारस्य प्राक्कूलान्दर्भान्संस्तीर्य तेष्वर्घ्यद्रव्याणि संसादयति ।४।
यावन्त ऋत्विजस्तावन्ति कांस्यानि पात्राणि सापिधानानि तावतः कूर्चान्।५।
द्वावन्यौ परिग्रहणीयौ कूर्चौ ।६।
दधि मधु घृतमापः पयो वस्त्रयुगानि कुण्डलयुगानि ।७।
यस्यै गोः पयश्चमसः स्रगलङ्करणीयं चेति ।८।
पवित्रे कृत्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रोक्ष्य कूर्चे कांस्यं निधाय तिरःपवित्रं मध्वानयति ।९।
दधि पयो वा द्वितीयं स द्विवृत्।१०।
घृतं तृतीयं स त्रिवृत्।११।
यद्द्वितीयं तच्चतुर्थं स चतुर्वृत्।१२।
आपः पञ्चमीस्स पाङ्क्तः ।१३।
वर्षीयसा तेजोमयेनापिधाय नानापुरुषा अर्घ्यद्रव्याण्याददते अन्वगनुसंव्रजता ।१४।
कूर्चः इति कूर्चं प्राह ।१५।
तत्सुकूर्चः इतीतरः प्रतिगृह्णाति ।१६।
तं प्रदक्षिणं पर्यस्योदगावृत्त उपविशति ।१७।
पुरस्ताद्वंन प्रत्यञ्चमुपोहते राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषमिति ।१८।
अथास्मा उदपात्रमादाय कूर्चाभ्यां परिगृह्य पाद्या आप इति प्राह ।१९।
ता अभिमन्त्रयते आपः पादावनेजानीर्द्विषन्तं नाशयन्तु मे ।अस्मिन्कुले ब्रह्मवर्चस्यसानि इति ।२०।
दक्षिणं पादं पूर्वं ब्राह्मणाय प्रसारयति ।स्वयं शूद्राय ।२१।
स्त्री प्रक्षाऌअयति पुमानभिषिञ्चति ।विपरीतमित्येके ।२२।
नियमात्पत्नीयजमानौ जङ्घ्रे धावयतः ।२३।
अवनेक्तुः पाणी सम्मृशति मयि महो मयि भगो मयि भर्गो मयि यशः इति ।२४।
अथाप उपस्पृश्य मयीन्द्रियं वीर्यमित्युरःप्रत्यात्मानं प्रत्यभिमृशते ।२५।
अपो ब्रीहिभिर्यवैर्वा समुदायुत्य तथैव कूर्चाभ्यां परिगृह्यार्हणीया आप इति प्राह ।२६।
ता अभिमन्त्रये आम आगाद्वर्चसा यशमा संसृज पयसा तेजसा च ।तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनामिति ।२७।
एकदेशमञ्जलाबानीयमानमनुमन्त्रये विराजो ऽसि विराजो दोहमशीय ।मम पद्याय विराज इति ।२८।
अतिशिष्टाः पराचीर्निनीयमाना अनुमन्त्रये समुद्रं वः प्रहिणोम्य क्षिताः स्वा योनिमपि गच्छत ।अच्छिद्रः प्रजया भूयासं मा परासोचि मत्पयः इति ।२९।
अथ तथैव कूर्चाभ्यां परिगृह्योपस्तरणीया आप इति प्राह ।३०।
ता पिबति अमृतोपस्तरणमसि इति ।३१।
त्रिराचमेत्त्रिः परिमृजेत्।द्विरत्येके ।३२।
आचान्तायापावृत्ताय तथैव कूर्चाभ्यां परिगृह्यार्घ्य इति प्राह मधुपर्क इति वा ।३३।
मधुपर्कं प्रोक्तमनुमन्त्रयते त्रय्यै विद्यायै यशो ऽसि यशसो यशो ऽसि ब्रह्मणो दीप्तिरसि ।तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनामिति ।३४।
तमुभाभ्यां हस्ताभ्यां प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इइत ।३५।
तस्मिंश्चित्किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्व्या चोपसङ्गृह्येमां दिशं निरस्यति नेष्टावृद्धिं कृन्तामि या ते घोरा तनूः ।तया तमाविश योस्मान्द्वेष्टि यं च वयं द्विष्मः इति ।३६।
अथाप उपस्पृश्य सर्वाभिरङ्गुलीभिस्समुदायुत्य प्राश्नाति यन्मधुनो मधव्यं परममन्नाद्यं वीर्यम्।तेनाह मधुनो मधव्येन परमेणान्नाद्येन वीर्येण परमो ऽन्नादो मधव्यो ऽसानि इति ।३७।
त्रिः प्राश्य त्रिरनुपिबेच्छेषं च कुर्यात्।३८।
य आत्मनः श्रेयांसमिच्छेत्तस्मै शेषं दद्यादिति ।३९।
आचान्तायापावृत्ताय तथैव कूर्चाभ्यां परिगृह्यापिधानीया आप इति प्राह ।४०।
ताः पिबति अमृतापिधानमसि इति ।४१।
त्रिराचामेत्त्रिः परिमृजेत्।द्विरित्येके ।४२।
आचान्तायापावृत्ताय गौरिति गां प्राह ।४३।
तामनुमन्त्रयते गौरस्यपहतपाप्मा ऽप पाप्मानं नुद मम चामुष्य च इत्युपवेत्तुर्नाम गृह्णाति ।४४।
नाना महर्त्विग्भ्यो गाः प्राह ।४५।
एकां होतृकेभ्यः ।४६।
सर्वेभ्यो वैकामविभवत्वात्।४७।
यः प्राह तस्मा उपाकरोत्येकदेशं वपाय जुहोति अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः ।शिवा अस्माभ्यमोपधीः कृणोतु विश्वचर्षणिः इति ।४८।
एकदेशमुपहरति तत्प्राश्नाति अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः ।अरिष्टमस्माकं कृणोत्वसौ ब्राह्मणो ब्राह्मणेषु इति ।अथ यदुत्स्त्रक्ष्यन्भवति तामनुमन्त्रयते गौर्धेनुभव्या माता रुद्रआणां दुहिता वसूनां स्वसा ऽऽदित्यानाममृतस्य नाभिः ।प्रणुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ।पिबतूदकं तृणान्यत्त ।ओमुत्सृजत इति ।५०।
तस्यामुत्सृष्टायां मेषमजं वा ऽऽलभते ।५१।
आरण्येन वा मांसेन ।५२।
न त्वेवामांसो ऽर्घ्यस्स्यात्।५३।
अशक्तौ पिष्टान्नं संसिद्ध्येत्।५४।
सिद्धे भूतमिति प्राह ।५५।
तत्सुभूतमिति इतरः प्रत्याह ।५६।
तदभिमन्त्रयते भूतं सुभूतं सा विराट्र तन्मा क्षायि तन्मे ऽशीय तन्म ऊर्जं वा ओं कल्पयत इति ।५७।
चतुरो नानागोत्रान्ब्राह्मणान्भोजयतेत्येव ब्रूयात्।५८।
तेषु भुक्तवत्स्वन्नमस्मा उपहरति ।५९।
तत्प्राश्नाति विराडसि विराडन्नं विराड्रिवाराजो मयि धेहि इति ।६०।
भुक्तवद्भ्यो वस्त्रयुगानि कुण्डलयुगानि यस्यै गोः पयश्चमसः स्रगलङ्करणीयमिति च दद्यात्।एकधनं षष्ठौहीं दम्यावित्येके ।६१।
प्राङ्मधुपर्कादलङ्करणमेके समामनन्ति ।६२।
महयेदृत्विजमाचार्य चात्मानं वा एष महयति यस्समृत्विजमाचार्यं च महयत्येवमेवंव्रता वा आत्यन्तिकास्स्युः पतितो ऽननूचान इति निमित्तानि ।६३।
वरणे ऽग्न्याधेयप्रभृतिषु चैषामृत्विजं स्मरेत्।६४।
तथैते अर्घ्या ऋत्विक्श्वशुरः पितृव्यो मातुल आचार्यो राजा वा स्नातकः प्रियो वरो ऽतिथिरिति ।६५।
संवत्सरपर्यागतेभ्य एतेभ्य एवं कुर्यात्विवाहे वराय ।६६।
अथर्त्विग्भ्यः कर्मणि कर्मणि ददाति ।६७।
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने द्वितीयो ऽध्यायः
BaudhGS.1.3
अथ प्रथमप्रश्ने तृतीयो ऽध्यायः
अथ शुचौ समे देशे अग्न्यायतनदेशं शकलेन त्रिः प्राचीनमुल्लिखेत्त्रिरुदीचीनम्।१।
अथाद्भिरभ्युक्ष्य शकलं निरस्याप उपस्पृश्य याज्ञिकात्काष्ठादग्निं मथित्वा श्रोत्रियागाराद्वा ऽऽहृत्य व्याहृतिभिर्निरुप्योपसमाधायोपदिष्ठते ।२।
जुष्टो दमूना अतिथिदुर्रोण इमं नो यज्ञमुपया हि विद्रान्।विश्वा अग्ने ऽभियुजो विहत्य शत्रूयतामाभरा भोजनानि इति ।३।
अथैनं प्रदाक्षिणमग्निं परिसमूह्य पर्यृक्ष्य परिस्तीर्य प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ।४।
अपि वोदगग्राः पश्चाच्च पुरस्ताच्च भवन्ति ।५।
दक्षिणानुत्तरानुत्तरानधरान्यदि प्रागुदगग्राः ।६।
उत्तरेणाग्निं प्रगग्रान्दर्भान्संस्तीर्य तेषु द्वन्द्वं न्यच्चि पात्राणि संसादयति देवसंयुक्तान्येकैकशः पितृसंयुक्तानि सकृदेव मनुष्यसंयुक्तानि ।७।
यत्सह सर्वाणि मानुषाणि इत्येतस्माद्ब्राह्मणात्।८।
पवित्रे कृत्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रोक्ष्य विस्त्रस्येध्मं त्रिस्सर्वाभिः प्रोक्षति ।९।
दर्भेषु दक्षिणतो ब्राह्मण उपविशति उतरत उदपात्रम्।१०।
अथ तिरःपवित्रमाज्यस्थाल्यामाज्यं निरुप्योदीचो ऽङ्गारान्निरूह्य यन्तान्कृत्वा तेष्वधिश्रित्याभिद्योतनेनाभिद्योत्य द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य प्रत्यस्य पुनरभिद्योत्य त्रिः पर्यग्निकृत्वा वर्त्म कुर्वन्नुदगुद्वास्य प्रत्यूह्याङ्गारान्बर्हिरास्तीर्य अथैनदुदीचीनाग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय विस्त्रस्य पवित्रे ऽद्भिस्संस्पृश्याग्नावनुप्रहरति ।११।
अथ दर्वी निष्टप्य दर्भैस्संमृज्याद्भिस्संस्पृश्य पुनर्निष्टप्य प्रोक्ष्य निधाय दर्भानद्भिस्संस्पृश्याग्नावनुप्रहराति ।१२।
अथ शम्याः परिदधाति खादिरी दर्वी तेजस्कामस्यौदुम्बर्यन्नाद्यकामस्य पालाशी ब्रह्मवर्चसकामस्य इति ।१३।
अथ हैकेषां विज्ञायते निरृतिगृहीता वै दर्वी यद्दर्व्या जुहुयान्निरृत्या ऽस्य यज्ञ ग्राहयेत्तस्मात्स्रुवेणैव होतव्यमिति ।१४।
पालाशेन स्रुवेणेत्यात्रेयः ।१५।
खादिरेणेत्याङ्गिरसः ।१६।
ताम्रायसेनेत्याथर्वणः ।१७।
कार्ष्णायसेनाभिचरन्निति सार्वत्रिकम्।१८।
अन्यो वा ऽस्यैतावत्कृत्वा ऽऽगमनं काङ्क्षेत्।१९।
अपरेणाग्निमुदीचीनप्रतिषेवणामेरकां साधिवासामास्तीर्य तस्यां प्राञ्चावुपविशत उत्तरतः पतिर्दक्षिणा पत्नी ।२०।
अथान्वारब्धायां प्रदक्षिणमग्निं परिषिञ्चति ।२१।
अदिते ऽनुमन्यस्व इति दक्षिणतः प्राचीनम्।२२।
अनुमते ऽनुमन्यस्व इति पश्चादुदीचीनम्।२३।
सरस्वते ऽनुमन्यस्व इत्युत्तरतः प्राचीनम्।२४।
देव सवितः प्रसुव इति समन्तं प्रदक्षिणं समन्तमेव वा तूष्णीम्।२५।
अथेभ्यमभ्यज्य परिसमिधं शिनष्टि स्वाहाकारेणाभ्याधायाघारावाघारयति ।२६।
प्रजापतये स्वाहा इति मनसोत्तरे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम्।२७।
इन्द्राय स्वाहा इत्युपांशु दक्षिणे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम्।२८।
अथाज्यभागौ जुहोति ।२९।
अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे ।३०।
सोमाय स्वाहा इति दक्षिणार्धपूर्वार्धे ।३१।
अथाग्निमुखं जुहोति ।३२।
युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम्।त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान्पुरुषान्सनेमि स्वाहा ।३३।
चतस्र आशाः प्रचरन्त्वग्नय इमं नो यज्ञं नयतु प्रजानन्।घृतं पिबन्नजरं सुवीरं ब्रह्म समिद्भवत्याहुतीनां स्वाहा ।३४।
आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः ।देवा नो यथा सदमिद्वृधे सन्न प्रायुवो रक्षितारो दिवे दिवे स्वाहा ।३५।
विरूपाक्ष मा विबांधिष्ठा मा विबाध विबाधिथाः ।निरृत्यै त्वा पुत्रमाहुस्स नः मर्माणि धारय स्वाहा ।३६।
विरूपाक्षमहं यजे निजङ्घं शबऌओदरम्।यो मा ऽयं परिबाधते श्रियै पुष्ट्यै च नित्यदा तस्मै स्वाहा ।३७।
या तिरश्ची निपद्यसे ऽहं विघरणी इति ।तां त्वा घृतस्य धारया ऽग्नौ संराधिर्नी यजे स्वाहा ।३८।
संराधिन्यै देव्यै स्वाहा ।प्रसाधिन्यै देन्यै स्वाहा ।भूस्स्वाहा ।भुवस्स्वाहा ।सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इत्येतावत्सर्वदर्वीहोमानामेष कल्पः ।३९।
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने तृतीयोध्यायः
BaudhGS.1.4
अथ प्रथमप्रश्ने चतुर्थो ऽध्यायः
अथास्या उपोत्थाय दक्षिणेन हस्तेन दक्षिणमंसं प्रतिबाहुमन्ववहृत्य हृदयदेशमभिमृशति _मम हृदये हृदयं ते अस्तु मम चित्ते चित्तमस्तु ते ।मम वाजमेकमनाः शृणु मामेवानुव्रता सहचर्या मया भव इति ।१।
अथास्यै दक्षिणे कर्णे जपति ।२।
मां ते मनः प्रविशतु मां चक्षुर्मामु ते भगः मयि सर्वाणि भूतानि मयि प्रज्ञानमस्तु ते ।३।
मधुगे मध्वगाहे जिह्वा मे मधुवादिनी ।मुखे मे सारघं मधु दत्सु संवननं कृतम्।४।
चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम्।यद्वित्तौ देवगन्धर्वौ तेन संवनिनौ स्वः ।५।
स्पृशामि ते ऽहमङ्गानि वायुरापश्च मा मरः ।मां चैव पश्य सूर्यं च मा चान्येषु मनः कृथाः ।६।
सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ।७।
सोमो ऽददद्गन्धर्वाय गन्धर्वो ऽददग्नये ।रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम्।८।
सरस्वति प्रेदमव सुभगे वाजिनीवति ।तां त्वा विश्वस्य भूतस्य प्रगायामस्यग्रतः इति ।९।
अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं साङ्गुष्ठमभीव लोमानि गृह्णाति गृभ्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथा ऽसः ।भगोअर्यमा सविता पुरन्धिर्मह्यं त्वा ऽदुर्गार्हपत्याय देवाः इति ।१०।
अथैनां प्रदक्षिणमग्निं पर्याणयति _परित्वा ऽग्ने पुरं वयं विप्रं सहस्य धीमहि ।धृषद्वर्णं दिवेदिवे भेत्तारं भङ्गुरावतः इति ।११।
अथ तथोपविश्यान्वारब्धायामुपयमनीर्जुहोति ।१२।
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।सञ्जास्पत्यं सुयममाकृणुष्व शत्रूयतामभितिष्ठा महांसि स्वाहा ।१३।
सोमाय जनिविदे स्वाहा ।१४।
गन्धर्वाय जनिविदे स्वाहा ।१५।
अग्नये जनिविदे स्वाहा ।१६।
कन्यला पितृभ्यो यती पतिलोकमव दीक्षामदास्थ स्वाहा ।१७।
प्रेतो मुञ्चाति नामुतस्सुबद्धाममुतस्करत्।यथेयमिन्द्रमीढ्वस्सुपुत्रा सुभगा सती स्वाहा ।१८।
इमां त्वमिन्द्र मीढ्वस्सुपुत्रां सुभगां कुरु ।दशास्यां पुत्रानाधेहि पतिमेकादशं स्वाहा ।१९।
अग्निरैतु प्रथमो देवतानां सो ऽस्यै प्रजां मुञ्चतु मृत्युपाशात्।तदयं स्त्री पौत्रमघं न रोदात्स्वाहा ।२०।
इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः ।अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुध्यतामियं स्वाहा ।२१।
मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यस्संविशन्तु ।मा त्वं विकेश्युर आवधिष्ठा जीवपत्री पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां स्वाहा ।२२।
अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वा ऽघम्।शीर्ष्णस्स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाशं स्वाहा इति ।२३।
अथैनामुत्थाप्योत्तरेणाग्निं दक्षिणेन पदा ऽश्मानमास्थापयति आतिष्ठेममश्मानमश्मेव त्वं स्थिरा भव ।अभितिष्ठ पृतन्यतस्सहस्व पृतनायतः इति ।२४।
अथास्या अञ्जलावुपस्तीर्य तस्यास्सोदर्यो द्विर्लाजानावपति ।२५।
तानभिधार्य जुहोति _इयं नार्युपब्रूते ऽग्नौ लाजानावपन्ती ।दीर्घायुस्स्तु मे पतिर्जीवातु शरदश्शतं स्वाहा ।२६।
अथैनां प्रदक्षिणमग्निं पर्याणयति _तुभ्यमग्ने पर्यवहन्सूर्यं वहतुना सह ।पुनः पतिभ्यो जायां दा अग्ने प्रजया सह इति ।२७।
तथा ऽऽस्थापयति तथा जुहोति ।२८।
अथैनां पुनः प्रदक्षिणमग्निं पर्याणयति _पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।दीर्घायुरस्या यः पतिस्स एतु शरदश्शतमिति ।२९।
तथैवास्थापयति तथैव जुहोति ।३०।
अथैनां पुनरेव पर्याणयति _विश्वा उत त्वया वयं धारा उदन्या इव ।आतिगाहेमहि द्विषः इति ।३१।
अथ तथोपविश्यान्वरब्धायां जयानभ्यातानात्राष्ट्रभृत इति हुत्वा अथामात्यहोमान्जुहोति ।३२।
अथ प्राजापत्यात्जुहोति _प्रजापते न त्वदेतान्यन्यः इति ।३३।
अथ सौविष्टकृतं जुहोति यदस्य कर्मणो ऽत्यरीरिचं यद्वा न्यूनमिहाकरम्।अग्निस्तत्स्विष्टकृद्विद्वान्सर्व स्विष्टं सुहुतं करोतु मे ।अग्नये स्विष्टकृते सुहुतहुत आहुतीनां कामानां समर्धयित्रे स्वाहा इति ।३४।
अथ स्त्रुवेण परिधीननक्ति ।३५।
अथ परिस्तरात्समुल्लिप्याज्यस्थाल्यां प्रस्तरवत्बर्हिरक्त्वा तृणं प्रच्छाद्याग्नावनुप्रहरति ।३६।
अथ शम्या अपोह्य तथैव परिषिञ्चति ।अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान्सन्नमयति ।३७।
अथ प्रणोताद्भ्यो दिशो व्युन्नीय ब्रह्मणे वरं ददामीति गां ब्राह्मणेभ्यः ।३८।
एष आघारबान्दर्वीहोमः ।३९।
अथापरः _परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्त्रुक्स्त्रुवं निष्टप्य सम्मृज्य स्त्रुचि चतुर्गृहीतं गृहीत्वा सर्वान्मन्त्रान्समनुद्रुत्य सकृदेवाहुतिं जुहोति ।४०।
अग्निस्स्विष्टकृद्वितीयः ।४१।
द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचामति निर्लेढीत्येष आग्निहोत्रिकः ।४२।
अथापरः _परिसमूह्य पर्युक्ष्य परिस्तीर्य प्राकृतेन हविषा यावदाम्नातमाहुतीर्जुहोत्येष ह्यपूर्वः ।४३।
तत्रोदाहरन्ति आघारं प्रकृतिं प्राह दर्वीहोमस्य बादरिः ।आग्निहोत्रिकं तथा ऽऽत्रेयः काशकृत्स्नस्त्वपूर्वतामिति
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने चतुर्थो ऽध्यायः
BaudhGS.1.5
अथ प्रथमप्रश्ने पञ्चमो ऽध्यायः
तां न मिथस्संसादयेदनादेशात्।१।
अनुनयन्त्येतमग्निम्।२।
अथैनां पितुरङ्कादुद्वहति गुरोर्वा _ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जना ं अनु ।पुनस्तान्यज्ञिकीया देवा नयन्तु यत आगताः इति ।३।
अथैनां दक्षिणे हस्ते गृहीत्वा स्वरथमारोप्य स्वान्गृहानानयति पूषा त्वेतो नयतु हस्तगृह्याश्विनौ त्वा प्रवहतां रथेन ।गृहान्गच्छ गृहपत्नी यथा ऽसो वशिनी त्वं विदथमावदासि इति ।४।
पन्थानमनुमन्त्रयते _सु गं पन्थानमारुक्षमरिष्टं स्वस्तिवाहनम्।यस्मिन्वीरो न रिष्यत्यन्येषां विन्दते वसु इति ।५।
ओषधिवनस्पतयो नद्यो वनान्यनुमन्त्रयते _या ओषधयो या वनस्पतयो या नद्यो यानि धन्वानि ये वना ।ते त्वा वधु प्रजावतीं प्रत्वे मुञ्चन्त्वंहसः इति ।६।
अथ जायामानीय स्वान्गृहान्प्रपादयति _भद्रान्गृहान्सुमनमः प्रपद्ये ऽवीरध्नी वीरवतस्सुवीरान्।इरां वहतो घृतमुक्षमाणास्तेष्वहं सुमनास्संविशानि इति ।७।
अथैनामानडुहे चर्मण्युपवेशयति _इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः ।इहो सहस्रदक्षिणो रायप्सोषो निषीदतु इति ।८।
अत्राभ्याममात्यास्स्तोक्माण्यारोपयन्ते ।९।
अथ वाचं यच्छतः आ नक्षत्राणामुदयात्।१०।
अथाहोरात्रयोस्सन्धिमनुमन्त्रयते _नीललोहिते भवतः कृत्यासक्तिर्व्यज्यते ।एधन्ते ऽस्या ज्ञातयः पतिर्बन्धेषु बध्यतामिति ।११।
अथोदितेषु नक्षत्रेषूपनिष्क्रम्य ध्रुवमरुन्धतीं च दर्शयति ।१२।
ध्रुवो ऽसि ध्रुवक्षितिर्ध्रुवमसि ध्रुवतस्स्थितम्।त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यतः इति ध्रुवम्।१३।
सप्त ऋषयः प्रथमां कृत्तिकानामरुन्धतीं यद्ध्रुवतां ह निन्युः ।षट्कृत्तिका मुख्ययोगं वहन्तीयमस्माकमेधत्वष्टम्यरुन्धती इत्यरुन्धतीम्।१४।
अथ विवाहस्यारुन्धत्युपस्थानात्कृत्वा व्रतमुपैति _अग्ने व्रतपते उपयमनं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्।वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते उपयननं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामिति ।१५।
उभौ जायापती व्रतचारिणौ ब्रह्मचारिणौ भवतो ऽधश्शयाते ।१६।
तयोश्श्यामन्तरेणोदुम्बरदण्डो गन्धानुलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठत्यापक्वहोमात्।१७।
चतुर्थ्यां निशायां हुते पक्वहोमे व्रतं विसृज्य दण्डमुत्थापयतिऊर्जः पृथिव्या अध्युत्थितो ऽसि वनस्पते शतवल्शो विरोह ।त्वया वयमिषमूर्ज वदन्तो रायस्पोषेण समिषा मदेम इति ।१८।
अथैनं वध्वै प्रयच्छति _प्रजया त्वा संसृजामि मासरेण सुरामिव इति ।१९।
तं वधूः प्रतिगृह्णाति _प्रजावती भूयासमिति ।२०।
अथैनं वराय प्रयच्छति _प्रजया त्वा पशुभिस्संसृजामि मासरेण सुरामिव इति ।२१।
तं वरः प्रतिगृह्णाति _प्रजावान्पशुमान्भूयासमिति ।२२।
अथैनं स्थूणादेशे निधायान्तिकेन प्रतिपद्यते ।२३।
प्रसिद्धमुपसंवेशनम्।२४।
श्वोभूते दण्डमादाय पुण्याहं वाचयित्वा ऽप्सु विसर्जयति ।२५।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुत्वात्कृत्वा पक्वाज्जुहोति _अग्निर्मूर्धा भुवः इति द्वाभ्याम्।२६।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।२७।
स एष पार्वणो भवति ।२८।
अथास्तमित आदित्ये ऽन्योन्यमलङ्कृत्योपरिशय्यां शयाते ।२९।
अथ वधूमभिमन्त्रयते _सुमङ्गलीरियं वधूरिमां समेत पश्यत ।सौभाग्यमस्यै दत्वायाथास्तं विपरेतन इति ।३०।
अथैनां सर्वसुरभिगन्धया मालया युनक्ति _सं ना मनस्सं हृदयानि सं ना ऽभि सं तनुत्यजः ।सं त्वा कामस्य याक्रेणे युञ्जत्यविमोचनाय इति
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने पञ्चमो ऽध्यायः
BaudhGS.1.6
अथ प्रथमप्रश्ने षष्ठो ऽध्यायः
आनयन्त्येतमग्निम्।१।
अथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा पद्यामोदनं पायसं वा याचति ।२।
तमभ्युक्ष्याग्नावधिश्रयतिं ।३।
आज्यं निर्वपति ।४।
अथाज्यमधिश्रयति ।५।
उभयं पर्यग्नि कृत्वा मेक्षणं स्त्रुवं च संमार्ष्टि ।६।
अथैतं चरुं श्रपयित्वा ऽभिधार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति ।७।
परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति ।८।
स एवमेव सर्वेषां स्थालीपाकानां चरुकल्पः ।९।
यस्त्वा हृदा कीरिणा मन्यमानः इति पुरोनुवाक्यामनूच्य यस्मै त्वं सुकृते जातवेदः इति याज्यया जुहोति ।१०।
अथाज्याहुतीरुपजुहोति ।११।
अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये या ऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा ।१२।
वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये या ऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा ।१३।
आदित्य प्रायश्चिते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये या ऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा ।१४।
प्रजापते प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये या ऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा इति ।१५।
पक्वादेव स्विष्टवतीभ्यां सौविष्टकृतम्।१६।
लाजैरितरत्र ।१७।
हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम्।ज्योतिष्मन्तं दीद्यतं पुरन्धिमग्निं स्विष्टकृतमाहुवेमोम्।स्विष्टमग्ने अभि तत्पृणाहि विश्वादेव पृतना अभिष्य ।उरुं नः पन्थां प्रदिशन्विभाहि ज्योतिष्मद्धेह्यजरं न आयुस्स्वाहा इति ।१८।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।१९।
अथाज्यशेषेण हिरण्यमन्तर्धाय मूर्ध्नि संस्रावं जुहोतिभूस्स्वाहा भुवस्स्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इति ।२०।
अथैनां प्रदक्षिणमग्निं पर्याणयति अर्यम्णो अग्निं परियन्तु क्षिप्रं प्रतीक्षन्तां श्वश्रुवो देवराश्च इति ।२१।
अथ श्रीमन्तमगारं सम्मृष्टोपलिप्तं गन्धवन्तं पुष्पवन्तं धूपवन्तं दीपवन्तं तल्पवन्तं साधिवासं दिक्षु सर्पिस्सूत्रेन्धनप्रद्योतितमुदकुम्भादर्शोच्छिरसं प्रपाद्य तस्मिन्नेनां संवेश्य तस्या अन्तिके जपति ।२२।
उदीर्ष्वातो विश्वावसो नमसेडामहे त्वा ।अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ।उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीट्टे ।अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि इति ।२३।
अथैनामुपसंवेशयति प्रजापतिस्स्त्रियां यशः इत्येतया ।२४।
अथास्यासतोकोतिं विवृणोति प्रजायै त्वा इति ।२५।
सा यद्यश्रु कुर्यात्तामनुमन्त्रयते जीवां रुदन्ती विमयन्तो अध्वरे दीर्घामनुप्रसितिं दीधियुर्नरः ।वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे इति ।२६।
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने षष्ठो ऽध्यायः
BaudhGS.1.7
अथ प्रथमप्रश्ने सप्तमो ऽध्यायः
ब्राह्मणेन ब्राह्मण्यामुत्पन्नः प्रागुपनयनाज्जात इत्यभिधीयते ।१।
उपनीतमात्रो व्रतानुचारी वेदानां किञ्चिदधीत्य ब्राह्मणः ।२।
एकां शाखामधीत्य श्रोत्रियः ।३।
अङ्गाध्याय्यनूचानः ।४।
कल्पाध्यायी ऋषिकल्पः ।५।
सूत्रप्रवचनाध्यायी भ्रूणः ।६।
चतुर्वेदादृषिः ।७।
अत ऊर्ध्वं देवः ।८।
अथ यदि कामयेत श्रोत्रियं जनयेयमित्या ऽरुन्धत्युपस्थानात्कृत्वा त्रिरात्रमक्षारलवणाशिनावधश्शायिनौ ब्रह्मचारिणावासाते ।९।
अहतानां च वाससां परिधानं सायं प्रातश्चालङ्करणामिषुप्रतोदयोश्च धारणमग्निपरिचर्या च ।१०।
चतुर्थ्यां पक्वहोम उपसंवेशनं च ।११।
अथ यदि कामयेतानृचानं जनयेयमिति द्वादशरात्रमेतद्व्रतं चरेत्।१२।
व्रतान्ते पक्वहोम उपसंवेशनं च ।१३।
अथ यदि कामयेत ऋषिकल्पं जनयेयमिति मासमेतद्व्रतं चरेत्।१४।
व्रतान्ते पक्वहोम उपसंवेशनं च ।१५।
अथ यदि कामयेत भ्रूणं जनयेयमिति चतुरो मासानेतद्व्रतं चरेत्।१६।
व्रतान्ते पक्वहोम उपसंवेशनं च ।१७।
अथ यदि कामयेत ऋषिं जनयेयमिति षण्मासानेतद्व्रतं चरेत्।१८।
व्रतान्ते पक्वहोम उपसंवेशनं च ।१९।
अथ यदि कामयेत देवं जनयेयमिति संवत्सरमेतद्व्रतं चरेत्।२०।
व्रतान्ते पक्वहोम उपसंवेशनं च ।२१।
अथ यदैषा मलवद्वासास्स्यात् _नैनया सह संवदेत न सहासीत नास्या अन्नमद्याद्भ्रह्महत्यायै ह्योषा वर्णं प्रतिमुच्यास्ते ऽथो स्वल्वाहुरभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमेव न प्रतिगृह्यं काममन्यतिति ।२२।
नैनामुपेयात्।२३।
नारण्ये ।२४।
न पराचीम्।२५।
न स्नाति ।२६।
नाभ्यङ्क्ते ।२७।
न प्रलिखते ।२८।
नाङ्क्ते ।२९।
न दतो धावते ।३०।
न नखानि निकृन्तते ।३१।
न कृणत्ति ।३२।
न रज्जुं सृजति ।३३।
न पर्णेन पिबति ।३४।
न खर्वेण पिबति ।३५।
तस्यै खर्वस्रिस्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथाय इति ब्राह्मणम्।३६।
चतुर्थ्यां स्नातायां निशायामलङ्कृत्य शयने ऽभिमन्त्रयते विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।३७।
यथा ऽग्निगर्भा पृथिवी द्यौर्यथेन्द्रेण गर्भिणी ।वायुर्यथा दिशां गर्भ एवं गर्भं दधातु ते ।३८।
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।गर्भं धेहि अश्विनौ देवावाघत्तां पुष्करस्रजा ।३९।
हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।तंते गर्भं दधाम्यहं दशमे मासि सूतवे ।४०।
नेजमेष परापत सपुत्रः पुनरापत ।अस्यै मे पुत्रकामायै गर्भमाधेहि यः पुमानिति ।४१।
अथैनां परिष्वजति _अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं रेतो ऽहं रेतोभृत्त्वं मनो ऽहमस्मि वाक्त्वं सामाहमस्मि ऋक्त्वं तावेहि सम्भवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय इति ।४२।
आत्मानं प्रत्यभिमृशतै _अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः ।अहं प्रजा अजनयन्पितृणामहं जनिभ्यो अपरीषु पुत्रानिति ।४३।
अथैनामुपैति _तां पूपञ्छिवतमोमरयस्व यस्यां बीजं मनुष्या वपन्ति ।या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेफमिति ।४४।
स एवमेव चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मामुपैति ।४५।
प्रजानिश्श्रेयसमृतुगमनमित्याचार्याः ।४६।
सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः ।४७।
यच्चादौ यच्चर्ताविति शालिकिः ।४८।
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने सप्तमो ऽध्यायः
BaudhGS.1.8
अथ प्रथमप्रश्ने अष्टमो ऽध्यायः
अथाभ्यां पञ्चमे ऽहनि नापितकर्म कुर्वन्ति ।१।
नापिताय पयोदनं दत्वा ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रैकमुदुम्बरमूलं पश्यन्ति तं प्रदक्षिणं परिसमूह्य प्रदक्षिणं गन्धैरनुलिम्पन्जयति _यथा त्वं वनस्पत ऊर्जा अभ्युत्थितो वनस्पते ।शतवलूशो विरोहस्येवमहं पुत्रैश्च पशुभिश्च सहस्रवल्शा वि वयं रुहेम इति ।२।
सुमनोभिः प्रच्छादयति _यथा त्वं वनस्पते फलवानस्येवमहं पुत्रैश्च पशुभिश्च फलवान्भवानि इति ।३।
अत्रैव त्रिवृता ऽन्नेन बलिमुपहरति ।४।
मन्त्रं चोदाहरन्ति _ऊर्जस्वान्पयस्वान्पयसा पिन्वमानो ऽस्मान्वनस्पते पयसा ऽभ्याववृत्स्व इति ।५।
अन्नं संस्कृत्य ब्राह्मणान्सम्पूज्याशिषो वाचयित्वा जानुदघ्नमुदकमवतीर्य प्राचीनदशेनाहतेन वाससा मत्स्यान्गृह्णतो ब्रह्मचारिणं पृच्छतो ब्रह्मचारिन्किं पश्यसि इति ।६।
स पृष्टः प्रतिब्रूयात्पुत्रांश्च पशूंश्च इति ।७।
अथैतान्मन्स्यानुदुम्बरमूले बकानां बलिमुपहरति दीर्घायुत्वाय वर्चसे इति ।८।
अत्रैव निर्माल्यानि परिभुक्तानि वासांसि प्रतिसरांश्च प्रतिमुच्योदुम्बरशाखायां संसृज्य ।९।
अथावगाह्यान्योन्यस्य पृष्ठे धावयित्वोदकान्तं प्रति यौति _प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः इति ।१०।
अन्योन्यमलङ्कृत्य रक्तानि वासांसि परिधायाहतेन वाससा वेति ।११।
यानेन पद्भ्यां वा गृहं गत्वा प्रक्षाऌइतपादावप आचम्य वाग्यतौ शयनमारभेते ।१२।
श्वोभूते वैश्वदेवेन प्रतिपद्यते ।१३।
मासिश्राद्धेन चापरपक्षे ।१४।
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने अष्टमो ऽध्यायः
BaudhGS.1.9
अथ प्रथमप्रश्ने नवमो ऽध्यायः
विज्ञाते गर्भे तिप्ये पुंसवनम्।१।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ।२।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति प्रजापते तन्वं मे जुषस्व त्वष्टर्देवेभिस्सहसाम इन्द्र ।विश्वैर्देवैरातिभिस्संरराणः पुंसां बहूना मातरस्स्याम स्वाहा इति ।३।
अथाज्याहुतीरुपजुहोति _गर्भो अस्योषधीनां गर्भो वनस्पतीनामिति तिसृभिरनुच्छन्दसम्।४।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।५।
अथास्या आज्यशेषमास्ये प्रच्योतयति _अस्मे देवासो वपुषे चिकित्सत इति चतसृभिरनुच्छन्दसम्।६।
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने नवमो ऽध्यायः
BaudhGS.1.10
अथ प्रथमप्रश्ने दशमो ऽध्यायः
प्रथमगर्भायाश्चतुर्थे मासि सीमन्तोन्नयनम्।१।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ।२।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति ।३।
धाता ददातु नः इति पुरोनुवाक्यामनूच्य धाता प्रजाया उत राय ईशे इति याज्यया जुहोति ।४।
अथाज्याहुतीरुपजुहोति _धाता ददातु नो रयिं प्राचीमित्यान्तादनुवाकस्य ।५।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।६।
अथास्यास्त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैरुदुम्बरप्रसूनैर्यवप्रसूनैरिति केशान्विभजन्सीमन्तमुन्नयति राकामहम्यास्ते राके इति द्वाभ्याम्।७।
अथास्यै यवप्रसूनान्याबध्नाति यवोसि यवयास्मद्द्वेषो यवयारातीः इति ।८।
अथैनौ वीणागाथिनाविति प्रतिगृह्णीते ।९।
अथैनौ संशास्ति गायतमिति ।१०।
तावेतां गाथां गायतः सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः ।विवृत्तचक्रा आसीनास्तीरेणासौ तव इति ।११।
यस्यै नद्यास्तीरे संश्रिता वसन्ति तस्यै नाम गृह्णाति ।१२।
अष्टमे मासि विष्णव आहुतीर्जुहोति विष्णोर्नुकमित्येतेन सूक्तेन ।१३।
विष्णवे बलिमुपहरति ।१४।
वैष्णवो ह्येष मासो विज्ञायते ।१५।
विष्णुर्हि गर्भस्य देवता ।१६।
इति हुतो व्याख्यातः ।१७।
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने दशमो ऽध्यायः
BaudhGS.1.11
प्रथमप्रश्ने एकादशो ऽध्यायः
यथैतद्धुते बलिहरणम्।१।
विष्णवे बलिरष्टमे मासि पूर्वपक्षस्य सप्तम्यां द्वादश्यां रोहिण्यां श्रोणायां वा ।२।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ।३।
अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं दैवतमावाहयति ओं भूः पुरुषमावाहयामि ओं भुवः पुरुषमावाहयामि ओं सुवः पुरुषमावाहयामि ओं भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य ।४।
परिधानप्रभृत्या ऽग्निमुखात्कृत्वा दैवतमर्चयति ।५।
आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा ।६।
अथाद्भिस्तर्पयति केशवं तर्पयामि नारायणं माघवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं तर्पयामि इति ।७।
एतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्मै नमो ऽमुष्मै नमः इत्यभ्यर्च्य ।८।
अथ विष्णव आहुतीर्जुहोति विष्णोर्नु कम्तदस्य प्रियम्प्रतद्विष्णुः परो मात्रया विचक्रमे त्रिर्देवः इति ।९।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।१०।
अथ गुडपायसं घृतमिश्रमन्नं निवेदयति अमुष्मै स्वाहा नमो ऽमुष्मै स्वाहा नमः इति द्वादशभिर्यथालिङ्गम्।११।
वैष्णवीभिः ऋग्यजुस्सामाथर्वभिस्स्तोत्रैस्स्तुतिभिस्स्तुवन्ति ।१२।
व्याहृतीभिः पुरुषमुद्वासयामीत्युद्वास्यान्नशेषं पत्नीं प्राशयेन्।१३।
पुमानस्यै जायत इति विज्ञायते ।१४।
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने एकादशो ऽध्यायः
यथो एतत्।आवेद्यार्घ्यं कुर्यात्।अथ शुचौ समे देशे ।अथास्या उपोत्थाय ।तां न मिथस्संसादयेत्।आनयन्त्येतमग्निम्।ब्राह्मणेन ब्राह्मण्यामुत्पन्नः ।अथाभ्यां पञ्चमे ऽहनि ।विज्ञाते गर्भे ।प्रथमगर्भायाश्चतुर्थे मासि ।यथैतद्धुते बलिहरणम्।११।
यथैतद्धुते बलिहरणम्।प्रथमगर्भायाश्चतुर्थे मासि ।विज्ञाते गर्भे ।अथाभ्यां पञ्चमे ऽहनि ।ब्राह्मणेन ब्राह्मण्यामुत्पन्नः ।आनयन्त्येतमग्निम्।तां न मिथस्संसादयेत्।अथास्या उपोत्थाय ।अथ शुचौ समे देशे ।आवेद्यार्घ्यं कुर्यात्।यथो एतत्।११।

इति बोधायनीयगृह्यसूत्रे प्रथमः प्रश्नः समाप्तः