सामग्री पर जाएँ

बौधायनगृह्यसूत्रम्/परिभाषा/प्रश्नः २

विकिस्रोतः तः

अथ द्वितीयप्रश्ने प्रथमो ऽध्यायः
अथ व्रीहिभ्यो यवेभ्यश्च नवानामनिरुप्तं स्थालीपाकं श्रपयित्वा ऽग्निमुपसमाधाय संपरिस्तीर्याघारावाघार्याज्यभागाविष्ट्वाग्रयणदेवताभ्य इन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां सोमाय स्विष्टकृच्चतुर्थीभ्यो जुहुयात्।१।
कामं पुरस्तात्स्विष्टकृतो ऽज्यानीरुपजुहोति ।२।
प्रसिद्धौ प्राशनमन्त्रौ ।३।
वैश्वदेवं कृत्वा ब्राह्मणेभ्यो दत्वा प्राशनम्।४।
एतेन सर्वासामोषधीनामाग्रयणं व्याख्यातमन्यत्र श्यामाकवेणुयवेभ्यश्च ।५।
सौम्यश्श्यामाकश्चरुरग्नीन्द्रो वेणुयवानां वैश्वदेवो वा ।६।
समानौ प्राशनमन्त्रौ ।७।
अथ फलानां मूलानां भक्षणानां ब्राह्मणेभ्यो दत्वा प्राशनमेव ।८।
पुष्पाणामन्येषां च नवानां ब्राह्मणेभ्यो दत्वोपयोगः ।९।
अथ षट्सु षट्सु मासेष्वयनप्रतिपत्तौ वा ऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा स्रुक्स्रवं निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा सग्राहं षड्ढोतारं हुत्वामिक्षां श्रपयित्वा पक्वमोदनं पायसं वा याचति ।१०।
तमभ्युक्ष्याग्नावधिश्रयति ।११।
आज्यं निर्वपति ।१२।
अथाज्यमधिश्रयति ।१३।
उभयं पर्यग्नि कृत्वा मेक्षणं स्रुवं च संमार्ष्टि ।१४।
अथैतं चरुं श्रपयित्वाभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति ।१५।
परिधानप्रभृत्याग्निमुखात्कृत्वा पुरस्तात्स्वाहाकृतिं स्रुवाहुतिं जुहोति स्वाहा देवेभ्यः इति ।१६।
अथ स्रुचि चतुर्गृहीतं गृहीत्वा वपां जुहोति जातवेदो वपया गच्छ देवान्त्वं हि होता प्रथमो बभूथ ।घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतं हविरदन्तु देवाः स्वाहा इति ।१७।
अथोपरिष्टात्स्वाहाकृतिं स्रुवाहुतिं जुहोति देवेभ्यस्स्वाहा इति ।१८।
अथ पक्वाज्जुहोति इन्द्राग्निभ्यां स्वाहा अग्नये स्वाहा इति ।१९।
अथ वाजिनस्य जुहोति घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा त्वान्तरिक्षाय स्वाहा इति ।२०।
अथामिक्षायै जुहोति इन्द्राग्नी रोचना दिवः श्नथद्वृत्रमिति ।२१।
अथ वाजिनस्यैव दिशो जुहोति दिशः प्रदिश आदिशो विदिश उद्विशस्स्वाहा दिग्भ्यो नमो दिग्भ्यस्स्वाहा इति ।२२।
अथ पृषदाज्यात्स्रुवाहुतिं जुहोति वनस्पतये स्वाहा इति ।२३।
अथामिक्षाया एव स्विष्टवतीभ्यां सौविष्टकृतं जुहोति ।२४।
अथ स्रुचि चतुर्गृहीतं गृहीत्वा समुद्रं गच्छ स्वाहा इत्येकादश विग्राहं जुहोति ।२५।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।२६।
एतेनास्य पशुबन्धयाजित्वं भवति ।२७।
पार्वणेनतो ऽन्यानि कर्माणि व्याख्यातान्येकदेवत्यान्याग्रयणेन बहुदेवत्यान्यामिक्षया पशुबन्ध आचाराद्यानि गृह्यन्ते ।२८।
यथोपदेशं देवताः ।२९।
अग्निं स्विष्टकृतं चान्तरेणोपहोमाः ।३०।
वैश्वदेवे विश्वेदेवाः पौर्णमास्यां पौर्णमासी यस्यां क्रियेत ।३१।
उपाकरणे समापने च ऋषिर्यः प्रज्ञायते ।३२।
सदसस्पतिर्द्वितीयः ।३३।
स्त्रियानुपतेन क्षारलवणावरान्नससृष्टस्य तु होमं परिचक्षते ।३४।
यथोपदेशं काम्यानि बलयश्च ।३५।
अथापि काम्यानि भवनित अथ वै भवति प्रजापतीः प्रजा असृजत तास्सृष्टा इन्द्राग्नी अपागूहतामित्येतस्माद्ब्राह्मणात्।३६।
ये ऽमुत्र पुरोडाशास्त इह चरवो यथादेवतं याज्यापुरोनुवाक्याः यो ऽमुत्र वषट्कारस्स इह स्वाहाकार इति ।३७।
अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि पशुबन्धस्सोम इत्येष आघारवान्दर्वीहोमः ।३८।
अथात आग्निहोत्रिकं व्याख्यास्यामः ।३९।
सर्वमेवैतत्स्वाहाकारप्रदानं कुर्यादिति सिद्धम्।४०।
आ परिधानात्कृत्वा अमुष्मै स्वाहा इति दैवतं जुहोति ।४१।
अग्निस्स्विष्टकृद्द्वितीयः ।४२।
द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचामति निर्लेढि इति ।४३।
एष आग्निहोत्रिकः ।४४।
अथातो ऽपूर्वं व्याख्यास्यामः ।४५।
सायंप्रातर्दशहोतारं जुहुयात्पर्वसु चतुर्होतारमाग्रयणेष्वज्यानीः चातुर्मास्येषु पञ्चहोतारं पशुबन्धं षड्ढोतारमृतुमुख ऋतुमुखीय सोमे सप्तहोतारमिति पयसा दशहोतारं जुहुयादन्नेन चतुर्होतारं पायसेनाज्यानीः पृषदाज्येन पञ्चहोतारमामिक्षया षड्ढोतारमाज्येन ऋतुमुखीयं सोमेन सप्तहोतारमिति ।४६।
स एष औपासननिष्ठानां याथातथ्यदर्शितां निरीप्सितानां श्रद्दधानानामपूर्वो होमः प्रजासंस्कारार्थो वा किञ्चिज्ज्ञानानां प्राकृतेन हविषां यत्कामयते तज्जुहोति हुतमेवास्य तद्भवति ।४७।
इत्यपूर्वो व्याख्यातः ।४८।
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने प्रथमो ऽध्यायः
BaudhGSPB.2.2
अथ द्वितीयप्रश्ने द्वितीयो ऽध्यायः
अथ वै भवति निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामिति ।१।
कथमु खल्वेतानि विजानीयादिति ।२।
उपरिष्टादंसाभ्यां ग्रीवां हृदयं च सपरिगृह्य हृदयस्याधस्तादूर्ध्वं नाभेरङ्गुष्ठाभ्यां परिगृह्णाति तन्निवीतं मनुष्याणामिति ऋषीणामित्येवेदमुक्तं भवति ।३।
एतेन कृष्णद्वैपायनादयो व्याख्याताः ।४।
तेषां सप्त ऋषयो राजानो भवन्ति येह सन्ततिस्ते मनुष्या इति ।५।
अथ निवीतकार्याणि ऋषीणां तर्पणं व्यवायः प्रजासंस्कारो ऽन्यत्रहोमान्मूत्रपुरीषोत्सर्गः प्रेतोद्वहनं यानि चान्यानि मनुष्यकार्याणि कण्ठे ऽवसक्तं निवीतमिति ।६।
दक्षिणस्यां सस्योपरिष्टाद्ग्रीवां हृदयं पृष्ठं च परिगृह्य सव्यस्य हस्तस्याधस्तात्प्राचीनावीतं पितृणामिति मृतानामित्येवेदमुक्तं भवति ।७।
एतेन वैशम्पायनादयो व्याख्याताः ।८।
तेषां सोमः पितृमान्यमो ऽङ्गिरस्वानग्निकव्यवाहन इति राजानो भवन्ति या प्रेत्य सन्ततिस्ते पितर इति ।९।
सव्यस्यांसस्योपरिष्टाद्ग्रीवां हृदयं पृष्ठं च संपरिगृह्य दक्षिणस्य हस्तस्याधस्तादुपवीतं देवानामित्यमृतानामेवेदमुक्तं भवति ।१०।
एतेन ब्रह्म दयो व्याख्याताः ।११।
तेषामिन्द्रस्सोमो यमो वरुणः कुबेर इति राजानो भवन्ति या ऽमुत्र सन्ततिस्ते देवा इति ।१२।
कथमु खलु यज्ञोपवीतमिति विजानीयात्।१३।
तदेतद्दक्षिणस्य हस्तस्याधस्ताद्भवति यो ऽयं दक्षिणो हस्तस्य यज्ञ इति यज इत्ययं शब्दो देवपूजासङ्गतिकरणदानेषु यस्मादेतानि कुर्वते तस्माद्यज्ञः ।१४।
वाग्यज्ञस्तस्याग्निरधिदैवतं स चात्र यतस्तस्माद्यज्ञोपवीतम्।१५।
यश्चायमङ्गुष्ठस्स विस्णुस्स यज्ञस्याधिदैवतं तस्माच्च भवतीति तीर्थत्वाच्च ।१६।
वागेव यज्ञो यद्वाचा वदति तदनेन निर्वर्तयतीति ।१७।
यज्ञोपवीतं व्याख्यातम्।१८।
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने द्वितीयो ऽध्यायः
BaudhGSPB.2.3
अथ द्वितीयप्रश्ने तृतीयो ऽध्यायः
अथ वै भवति ब्राह्मण एकहोता ।स यज्ञः इति स एष कुसिन्धो ऽधिकृतस्तस्य दशहोता निदानं तस्य यश्च कश्चन भवति सो ऽन्तरात्मा कुसिन्ध आत्मा यज्ञः परमात्मा स पुरुषः पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यं यद्भविष्यदिति तदग्निहोत्रं तदेव तत्कुसिन्धो ऽधिकृतस्तदस्य दशहोता निदानं स यज्ञस्स आत्मनि वर्तते तस्योपवीतं यज्ञोपवीतमिति ।१।
अथ वै भवति यज्ञवित्सर्वविद्भवति यज्ञस्सर्वमिति श्रुतिः तस्माद्याज्ञीषु चिन्तासु रमन्ते तत्त्वदर्शिनः इत्यग्निहोत्रं कुसिन्धमेकहोतृत्वं स्थूरिः केवलमित्येकार्थवाचकाश्शब्दाः श्रद्धालक्षाणा भवन्ति अप्सु प्रतिष्ठिताः श्रद्धा वा आपः इति विज्ञायते ।ताश्च यज्ञ आप्यमग्निहोत्रमाप्यं कुसिन्धमेवहोतृत्वं स्थौर्यं कैवल्यं तद्ब्रह्मैकाक्षरं परं ब्रह्मेत्योमिति ब्रह्मेति ।२।
अथ वै भवति अक्ति ब्रह्म प्रणक्त्यापः पापं नुदति कर्मणा ।नोदनाच्चैव सङ्गानां ब्राह्मणस्तुतिरुच्यते ।इति ब्राह्मणत्वमेकहोतृत्वं च ।जिह्वाया आप्यत्वादध्यात्मभावेन रसवाचकस्थानत्वादधिभूतभावेन बुद्धिकर्मणोरेकत्वादधिदैवतभावेनाग्नीषोमयोरेकत्वादधिदैवतभावेन एष सोमो वै चन्द्रमाः इति मानसत्वाद्यज्ञत्वात्प्राजापत्यो यज्ञो यज्ञो मनः इति यज्ञोपवीत्यप आचामेदिति नित्यमित्याचार्यास्सम्प्रतिपन्नाः कथमेतदुच्यत इति ।४।
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने तृतीयो ऽध्यायः
BaudhGSPB.2.4
अथ द्वितीयप्रश्ने चतुर्थो ऽध्यायः
अजिनं वासस्सूत्रं वा द्वितीयम्यस्य यद्भवति तेन स उपव्ययते देवलक्ष्ममेव तत्कुरुते इति ब्राह्मणम्।१।
अथाप आचम्येति तदपि द्वितीयमब्लिङ्गाभिस्त्रिः पिबेद्व्याहृतिभिस्त्रिः परिमृजेदपि वा व्याहृतिभिस्त्रिः पिबेदब्लिङ्गाभिः त्रिः परिमृजेद्यज्ञस्य देवा देवानां यज्ञ इति यज्ञस्य देवानां च संयोगं करोति ।२।
अथ दर्शपूर्णमासयोश्चत्वार ऋत्विज आदित्यो ऽध्वर्युश्चन्द्रमा ब्रह्माग्निर्होता वायुराग्नीध्रश्चातुर्मास्यप्रभृत्यश्विनावध्वर्यू पर्जन्य उद्गातापो होत्रका रश्मयश्चमसाध्वर्यव इति यज्ञस्य देवानां च संयोगं करोति ।३।
अथ गृहस्थस्य वैश्वदेवं कृत्वाग्रं दत्वा कालयोर्भोजन मानुषम्।४।
मासिमास्यपरपक्षे मासिकं पितृणामिति ।५।
उभौ कालावग्निपरिचर्या च होमाश्चार्धमासे ऽर्धमासे पार्वणो विधिर्देवानामिति ।६।
त्रयाणां त्रयो नियमाष्षट्सम्पद्यन्ते षोढाविहितो वै पुरुषः इति तस्मादात्मनिष्क्रयणम्।७।
पञ्च महायज्ञाः देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति ।८।
देवयज्ञस्स्वाहाकारः आ काष्ठात्।९।
पितृयज्ञस्स्वधाकार औदनपात्रात्।१०।
भूतयज्ञो नमस्कार आपुष्पेभ्यः ।११।
मनुष्ययज्ञो दानमामूलफलशाकेभ्यः ।१२।
ब्रह्मयज्ञ ओंकार आव्याहृतिभ्यः ।१३।
अथास्यातिथयो ऽभ्यागता वर्णाश्रमा आनुशंसा अभ्युत्थेया अर्घ्या अर्चनीया आभ्यन्तरा रहस्या विश्वास्याश्च भवन्ति ।१४।
श्रान्तो ऽदृष्टपूर्वो ऽश्रुतः केवलमन्नार्थी नान्यत्प्रयोजनो य एति सो ऽतिथिर्भवति ।१५।
अपि वा सर्ववर्णानामन्यतमः काले यथोपपन्नस्सर्वेषामतिथीनां श्रेष्ठतमो ऽतिथिर्भवति ।१६।
श्वश्रूश्वशुरयोनिसम्बन्धाः स्नेहवन्धमाभिभाषमाणा भूयोभूयो ऽभ्यागच्छेरन्तथा प्रेषणिकाश्चाभ्यागता भवन्ति ।१७।
सखा सहाधीतिस्सहाध्वनीनः ब्राह्मणक्षत्रियवैश्यरथकाराः सगृहास्साग्निहोत्रिका अनस्विनो रथिनश्चातिथयो भवन्ति ।१८।
तेषामन्तराऌए विपङ्क्तीः कृत्वा सर्वान्कामानुपहरेत्सानड्वाहपशूनाम्।१९।
विज्ञायते च तस्मादनस्वी च रथी चातिथीनामपचिततमावपचिततमो भवति य एवं वेद इति ब्राह्मणम्।२०।
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने चतुर्थो ऽध्यायः
BaudhGSPB.2.5
अथ द्वितीयप्रश्ने पञ्चमो ऽध्यायः
अथ यदि ब्राह्मणः क्षत्रियश्च समेत्यायातां ब्राह्मणो ऽतिथिः क्षत्रिये सान्त्वम्।१।
अथ यदि क्षत्रियो वैश्यश्च समेत्यायातां क्षत्रियो ऽतिथिर्वैश्ये सान्त्वम्।२।
अथ यदि वैश्यश्शूद्रश्च समेत्यायातां वैश्यो ऽतिथिश्शूद्रे सान्त्वम्।३।
अथ यदि शूद्रमभ्यागतं कर्मणि नियुञ्ज्यात्।४।
अथ यदि ब्रह्मचारी मातापित्रोराचार्यार्थं वा ऽध्वनि वर्तमानो गृहमागच्छेन्नैनं प्रत्युत्तिष्ठेत्स्वागतमित्युक्त्वासनं पादशौचं च दत्वा कुशलमभिभाष्योपासीत ।५।
कापालमस्मै दद्यात्नियममेवोपतिष्ठस्व इति ।६।
उपावृत्ताय भैक्षमिति ब्रुवते गृहादेवान्नं भैक्षमित्युपहरेत्स तस्योपचारः ।७।
अथ यदि वानप्रस्थमभ्यागतं स्वागतमित्युक्त्वाभ्युत्थायासनं पादशौचं च दत्वा कुशलमभिभाष्योपासीत ।८।
विदित्वा चरणं कन्दमूलफलशाकान्यारण्याश्चौषधय इत्युपहरेत्स तस्योपचारः ।९।
अथ यदि यतिमागतं स्वागतमित्युक्त्वाभ्युत्थायासनं पादशौचं च दत्वा कुशलमभिभाष्योपासीत ।१०।
नैनं पूर्वमुपामन्त्रयेन्न चास्मै प्रक्रियां प्रकुर्वीत ।११।
काले त्वन्नं भैक्षमित्युपहरेत्स तस्योपचारः ।१२।
अथ यद्यर्थी वसत्या शय्यादेशमुपकल्प्य काले ज्योतिष्करणं नोपस्तरणमेके ब्रुवते दद्याद्वा ।१३।
बालानां वृद्धानां स्त्रीणां तु विभ्रष्टानां गूढचरितविकृतवेषाणामपि वा श्वचण्डालादीनामानृशंस्यवत्संविभागो विहितः ।१४।
मूढो मत्त उन्मत्त आर्तो भीतो राजा चोरश्चेति सम्भ्रमेणाभ्युस्थेयाः ।१५।
आचार्य ऋत्विक्पिता मातुलः श्वशुरो वेदविद्ब्राह्मणः क्षत्रियो ऽभिषिक्तस्सहस्रप्रदो वैश्यो राजपुरोहितश्चेत्यर्घ्यार्हा भवन्ति ।१६।
पितृज्येष्ठकनीयसामुपाध्यायपुत्रस्त्रिमधुस्त्रिणाचिकेतस्त्रिसुपर्णः पञ्चाग्निष्षडङ्गवित्शीर्षको ज्येष्ठसामिको ऽथर्वाङ्गिरसो ऽध्येतारस्स्नातका इत्येते संवाहनस्नापनशय्यालङ्कारविभूषणाच्छादनैरर्चनीया भवन्ति ।१७।
अथ यदि बहवो ऽतिथयो ऽभ्यागच्छेरन्तत्रापि विद्वद्वृद्धकृशबालाश्चार्चनीया भवन्ति ।१८।
अथ यद्यतिथिरार्तो व्याधितो वा यद्ब्रूयादिदं मे क्रियतामित्यविद्यमानो ऽन्यां प्रक्रियां प्रकुर्वीत ।१९।
अथ यद्याग्रयणेष्टिपशुचातुर्मास्याध्वराणामुद्यतां दक्षिणां नोत्सृजेत्तां तस्मै दद्याततिथिस्सर्वयज्ञक्रतुसम्मितः इति विज्ञायते ।२०।
अथ यद्यतिथिरभ्यागतो वा यस्य गृहे नाश्नीयात्तस्य सर्वा देवता अवरुद्धा भवन्ति तस्मात्सदारस्सापत्यो ऽभ्युत्थायासनं पाद्यमर्हणमर्घ्यं वा प्रयच्छेत यास्तत्रौषधयस्ता उपहरेत्।२१।
य एतेन विधिना ऽतिथीन्नियच्छति यश्चेतेन विधिना ऽतिथीन्पूजयति नैनं मृत्युरभिभवति नार्तिर्नावृत्तिर्न जरा न शोको यश्चैवं वेद यश्चैवं वेद ।२२।
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने पञ्चमो ऽध्यायः
BaudhGSPB.2.6
अथ द्वितीयप्रश्ने षष्ठो ऽध्यायः
यथो एतद्यत्किञ्चिदन्यत्र विहाराद्धूयते सर्वास्ताः पाकयज्ञसंस्था इति ।१।
या एवैता अभिचाराय पावनाय शान्तये समृद्धये स्वस्तये वा हूयन्ते ता एवैता उक्ता भवन्ति ।२।
ताश्चेद्राजन्यो वैश्यश्च ब्राह्मणं पुरोदधीत ।३।
तदभिगम्याभिबाद्य ब्रूयाताकूत्यै त्वा कामाय त्वा समृधे त्वा पुरोदधे अमृतत्वाय जीवसे इति ।४।
पुरोहितो जपति आकूतिमस्यावसे काममस्य समृद्ध्यै ।इन्द्रस्य युञ्जते धियः इति ।५।
स्वयं जपति आकूतिं देवीं मनसः पुरोदधे ।यज्ञस्य माता सुहवा मे अस्तु ।यदिच्छामि मनसा स कामो विदेयमेनद्धृदये निविष्टमिति ।६।
सर्वत्र दैवेषु पुरस्तादुदग्वोपक्रमो ऽपवर्गः प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रैर्दर्भैरग्नीनां परिस्तरण प्रागुदगग्रैर्वा पवित्राभ्यामुत्पवनम्।७।
एवमेव विपरीतोपक्रमोपवर्गः पित्र्येषु दक्षिणाग्रैर्दर्भैरग्नीनां सम्परिस्तरणं दक्षिणाप्रतीच्यग्रैर्वा पवित्रेणोत्पवनम्।८।
तेषामियमेव प्रतिपत्तिर्व्याहृतिपर्यन्तो होमः ।९।
अतो ऽन्ये कर्मव्यञ्जका उपहोमाः पृथग्विनिविष्टा अन्योन्यमुपजीवन्तः ।१०।
तदानींतनेष्वाचार्या ऊहसन्नमनैश्च मन्त्रैर्यज्ञं प्रतिसन्दधुरविच्छेदाय ।११।
य एवं विद्वान्यज्ञं यजेत यश्चैवं विद्वान्यज्ञेन यजते सर्वेण वै यज्ञेन यजते सर्वं चैव यज्ञं यजति ।१२।
तदेषा ऽभिवदति आ देवानामपि पन्थामगन्म यच्छक्रवाम तदनु प्रवोढुम्।अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरांत्स ऋतऊन्कल्पयाति इति ।१३।
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने षष्ठो ऽध्यायः
BaudhGSPB.2.7
अथ द्वितीयप्रश्ने सप्तमो ऽध्यायः
षष्ठो ऽहनि शुची स्नातौ शुक्लवस्त्रौ स्वलङ्कृतौ
हविष्यमन्नमादाय ब्राह्मणान्सुसमाहितान्।१।
भोजयित्वोपसङ्गृह्य सुसंतृप्तेषु तेष्वथ
पुण्याहं वाचयित्वा तानभिवाद्य प्रणम्य च ।२।
श्वेतायाश्श्वेतवत्सायास्स्थालीपाकं तु पाचयेत्
गायत्र्या ऽष्टसहस्रं तु सम्पाताभिहुतो भवेत्।३।
उभौ तु तद्धुतं प्राश्य कुर्वीत प्रतिमन्त्रणम्
जघन्ये रात्रिपर्याये सर्वत्रोपगमस्स्मृतः ।४।
प्रागग्रेषु तु दर्भेषु प्राक्शिरां तु निपातयेत्
चतुर्होतारं मनसा ऽनुद्रुत्य प्रणवेनाहुतिर्भवेत्।५।
एवमुत्पादिताः पुत्रा न लुप्यन्ते कदाचन
न लुप्यन्ते कदाचनेति ।६।
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने सप्तमो ऽध्यायः
BaudhGSPB.2.col.
षष्ठे ऽहनि शुची स्नातौ ।यथो एतद्यत्किञ्चित्।अथ यदि ब्राह्मणः क्षत्रियश्च समेत्यायाताम्।अजिनं वासस्सूत्रं वा द्वितीयम्।अथ वै भवति ब्राह्मण एकहोता ।अथ वै भवति निवीतं मनुष्याणाम्।अथ व्रीहिभ्यो यवेभ्यश्च ।७।
अथ व्रीहिभ्यो यवेभ्यश्च ।अथ वै भवति निवीतं मनुष्याणाम्।अथ वै भवति ब्राह्मण एकहोता ।अजिनं वासस्सूत्रं वा द्वितीयम्।अथ यदि ब्राह्मणः क्षत्रियश्च समेत्यायाताम्।यथो एतद्यत्किञ्चित्।षष्ठो ऽहनि शुची स्नातौ ।७।
इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयः प्रश्नः समाप्तः
इति बोधायनीयगृह्यपरिभाषा समाप्ता