बौधायनगृह्यसूत्रम्/परिभाषा/प्रश्नः १

विकिस्रोतः तः


अथ बोधायनगृह्यसूत्रे परिभाषाप्रारम्भः
अथ प्रथमप्रश्नः
BaudhGSPB.1.1
अथ वै भवति जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः इति ।१।
ब्रह्मचर्य व्याख्यास्यामः ।२।
आ समावर्तनादेवैतद्भवति नाचीर्णव्रतो ब्रह्मचारी भवति इति तदाश्रमो व्याख्यातः ।३।
अत ऊर्ध्वं ब्रह्मचर्यं येनानृणो भवति ।४।
स्वदार इत्येकम्।५।
मन्त्रवत्प्रयोग इत्येकम्।६।
ऋतावित्यपरम्।७।
अथाधिब्रह्मचर्यम्विवाहे त्रिरात्रम्।८।
ऋतौ त्रिरात्रम्।९।
अमावास्यायां पौर्णमास्यां श्राद्धं दत्वा भुक्त्वा चैकरात्रम्।१०।
परस्त्रीषु दिवा च यावज्जीवम्।११।
अग्न्याधेये द्वादशरात्रम्।१२।
आग्रयणेष्टिपशुबन्धानामुपवसथेष्वेकरात्रम्।१३।
एवमेव सर्वेषु वेदकर्मसु ।१४।
चातुर्मास्येषु संवत्सरम्।१५।
यथाप्रयोगमन्येषु यज्ञक्रतुष्वन्यत्रर्तौ दीर्घसत्रेषु घर्मव्रतेषु च ।१६।
तदेतद्धर्म्यं पुण्यं पुत्र्यमायुष्यं स्वर्ग्यं यशस्यमानृण्यमिति व्याख्यातं ब्रह्मचर्यम्।१७।
यज्ञेन देवेभ्यः इति यज्ञं व्याख्यास्यामः ।१८।
एकविंशतिसंस्थो यज्ञ ऋग्यजुस्सामात्मकश्छन्दोभिश्चितो ग्राम्यारण्यपश्वौषधीभिर्हविष्मान्दक्षिणाभिरायुष्मान्।१९।
स चतुर्धा ज्ञेय उपास्यश्च स्वाध्यायज्ञो जपयज्ञः कर्मयज्ञो मानसश्चेति ।२०।
तेषां परस्पराद्दशगुणोत्तरो वीर्येण ।२१।
ब्रह्मचारिगृहस्थवनस्थयतीनामविशेषेण प्रत्येकशः ।२२।
सर्व एवैते गृहस्थस्याप्रतिषिद्धाः क्रियात्मकत्वात्।२३।
नाक्रियो ब्राह्मणो नासंस्कारो द्विजो नाविद्वान्विप्रो नैतैः हीनश्श्रोत्रियो नाश्रोत्रियस्य यज्ञ इति ।२४।
तस्मादाचारः प्रमाणं संस्था आचारः क्रिया सन्ततिरिति नित्याभावात्।२५।
तस्माद्यः कश्चन क्रियावान्सतामनुमताचारस्स श्रोत्रिय एव विज्ञेयः ।१६।
अथाप्युदाहरन्ति निषेके गर्भसंस्कारे जातकर्मक्रियासु च विधिवत्संस्कृता मन्त्रैश्चीर्णव्रतसमापनाः श्रोत्रिया इति ते ज्ञेयाश्शाखापाराश्च ये द्विजाः विधिवद्गृह्य ये पाणिमृतौ चीर्णव्रतावुभौ मन्त्रवत्सम्प्रयोगे तौ ब्राह्मण्य गर्भमादधुः इति ।२७।
तस्मादाचारः प्रमाणम्।२८।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने प्रथमो ऽध्यायः
BaudhGSPB.1.2
अथ प्रथमप्रश्ने द्वितीयो ऽध्यायः
अथ वै भवति सर्वेण वै यज्ञेन देवास्सुवर्गं लोकमायनिति स एष हुतादिरासहस्रसंवत्सरान्तस्सर्वो यज्ञो यो हि यद्वेद स्वाध्यायजपकर्ममानसेषु तेनैवास्य तद्गुणेनेष्टं भवतीति तदेतन्मन्त्रब्राह्मणं व्याख्यातम्।१।
अथ वै भवति देवा वै पुष्टिं नाविन्दन्तां मिथुने ऽपश्यनित्येताद्विज्ञाय दारानाहृत्य सर्वयज्ञभाजो भवन्तीति व्याख्यातो यज्ञः ।२।
प्रजया पितृभ्यः इति अथास्य प्रजा भवन्ति यानुत्पादयते यानुपनयते यान्ध्यापयते यान्याजयते इति सर्वा ऽस्यैषा प्रजा भवतीति प्रजा व्याख्याता ।३।
एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी इत्याहिताग्निरित्येवैष उक्तो भवति ।४।
अथाप्युदाहरन्ति पुदिति नरकस्याख्या दुःखं च नरकं विदुः पुदि त्राणात्ततः पुत्त्रमिहेच्छिन्ति परत्र च न मांसपेशलः पुत्त्रो नाविद्वान्नाप्यकर्मकृत्स्वयं न याति यस्स्वर्गं किं पुनः पितरं तरेतिति ।५।
विज्ञायते अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि ।ममैव सन्वह हव्यान्यग्रे पुत्रः पित्रे लोककृज्जातवेदः इति ।६।
एतस्माद्गार्हपत्य उक्तो भवति गार्हपत्यादाहवनीयस्तस्मादग्न्याधेयेनानृण आहवनीयादिति प्रणीतः तस्मात्पशुबन्धयाज्यनृणश्शालामुखीयादाग्नीध्रीय आग्नीध्रीयादपरे धिष्ण्याः ।७।
विभूरसि प्रवाहणः इत्येते विहरणोपस्थानीयाः एषा ऽस्य दैवी प्रजा भवति इति तस्मात्सोमयाज्यनृणः ।८।
तस्मात्गृहस्थस्य सर्व एवैते यज्ञास्तस्माद्गृहाश्श्रेय इति ।९।
अथास्य श्रेयो ऽवाप्तिरापूर्यमाणपक्ष इति पूर्वपक्ष एवैष उक्तो भवति सोमेनापूर्यमाणेन व्याख्यातः ।१०।
अहोरात्राणि वा वृद्धिमन्ति ह्रासवन्ति च भवन्ति ।यत्राह्नां वृद्धिर्भवति स एवैष उक्तो भवतीति ।११।
अथ हैकेषां विज्ञायते ऽह्नः पञ्चसु कालेषु कुर्वीतेत्युदगयन इत्येवेदमुक्तं भवति ।१२।
संवत्सरो वै देवानामहोरात्रं तस्यैतदुदगयनमहः दक्षिणायनं रात्रिस्तस्याह्नः पञ्चसु कालेषु कुर्वीतेति तस्य प्रातस्सङ्गवौ शिशिरवसन्तौ मध्यंदिनं ग्रीष्मो ऽपराह्णसायाह्ने वर्षाशरदौ प्रातस्सङ्गवे सायमिति विवाहं न कुर्वन्ति ।काममितराणि ।१३।
अथान्यत्रापि कुर्वन्भवति पुण्ये नक्षत्र इति ।देवनक्षत्राणि वा अन्यानि ।यमनक्षत्राण्यन्यानि ।यानि देवनक्षत्राणि ।तेषु कुर्वीत यत्कारी स्यातित्येवेदमुक्तं भवति ।१४।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने द्वितीयो ऽध्यायः
BaudhGSPB.1.3
अथ प्रथमप्रश्ने तृतीयो ऽध्यायः
विष्णुश्च ह वै सोमश्च ब्रह्मवाद्यमवदेतामहं ब्राह्मणानां प्रतिष्ठेति विष्णुरब्रवीदहं प्रतिष्ठेति सोमस्तौ प्रजापतिं प्रश्नमैतां सो ऽब्रवीत्प्रजापतिश्छन्दांसि विष्णुमधिगच्छन्ति नक्षत्राणि सोमं तावुभौ ब्रह्मण्याविति सो ऽब्रवीत्पूजितौ पूजयन्तों स्तुतौ स्तुन्वन्तौ प्रियौ प्रियन्तौ ब्रह्मण्यौ ब्रह्मवित्तौ वरप्रतिष्ठातारौ भवत इति ।१।
यन्मां ब्राह्मणा वक्ष्यन्ति यज्ञेषु सो ऽहमिति विष्णुरब्रवीत्तस्माद्विष्णुर्यज्ञो यज्ञो वै ब्राह्मणानां प्रतिष्ठेति ।विज्ञायते च ब्राह्मणा वै छन्दांसि इत्येतस्मात्।२।
यन्मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु सो ऽहमिति सोमो ऽब्रवीत्तस्माद्ब्राह्मणानां सोमो राजा तस्माद्विज्ञायते च ब्राह्मणो वा अष्टाविंशो नक्षत्राणां तत्तस्य वचः पुण्यमिति ।३।
तावुभौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ ।४।
य एवं विद्वान्ब्राह्मणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्ध्या इति ।५।
युग्ममयुग्ममिति समं विषमं चैतेन देवं पित्र्यं च व्याख्यातम्।६।
वेदकर्माणि प्रयोक्ष्यन्नादित एव तीर्थे स्नात्वोदेत्याहतं वासः परिधायाप अचम्यैकविंशत्या दर्भपुञ्जीलैरात्मानं पवयित्वा यस्य कुर्वन्भवति तं पवयति पवित्रं वै दर्भाः पवित्रं विष्णुस्स प्रतिष्ठा सोमस्य प्रतिष्ठित्यै इति विज्ञायते ।७।
एकविंशत्या पवयत्येकविंशो वै यज्ञ एकविंशः पुरुष एकविंशतिश्छन्दांस्येकविंशतिर्वै देवलोकाः छन्दोभिरेवैनं यज्ञेन यजमानमेकैवंशे प्रतिष्ठाप्य पूतं मेध्यं यज्ञियं पवयति ।सप्तभिः पवयति सप्त छन्दांसि छन्दोभिरेवैनं पवयति ।सप्तभिः पवयति सप्तैवास्यैते पुरुषास्सन्ततिमनुसन्तन्वन्ति त्रयः प्राञ्चस्त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनान्पवयति ।त्रेधा विभक्तैः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति इति ब्राह्मणम्।८।
अथाप आचम्य बाह्याभ्यन्तरतः पूतो मेध्यो यज्ञियो भूत्वा वेदकर्माणि प्रयोक्ष्यन्पूर्वेद्युरेव युग्मान्ब्राह्मणान्भोजयेदिति नान्दीमुखा एवैता उक्ता भवन्ति ।९।
तेषु भुक्तवत्सु स्वधायै स्थाने मधु मनिष्ये मधु जनिष्ये इत्येतद्यजुर्जपित्वा नान्दीमुखाः पितरः प्रीयन्तामित्यपो निनयति स्वधैवैषोक्ता भवति ।२०।
नैकाह्ना पित्र्यम्दैवं च कुर्वन्ति यस्यैकाह्ना पित्र्यं दैवं च कुर्वन्ति प्रजा हास्य प्रमायुका भवति तस्मात्पितृभ्यः पूर्वेद्युः क्रियते पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानः प्रतनुते इति ब्राह्मणम्।११।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने तृतीयो ऽध्यायः
BaudhGSPB.1.4
अथ प्रथमप्रश्ने चतुर्थो ऽध्यायः
अथापरेद्युर्देवानामिति ।१।
अथापरेद्युर्ब्राह्मणानन्नेन परिवेषयेदिति दैवतं भवति ।२।
यद्देवत्यं भवति तस्य पुण्याहं वाचयिष्यन्नाम गृह्णात्यसौ प्रीयतामिति ।३।
पुण्याहं वाचयिष्यन्ब्राह्मणान्संपूजयति ।४।
अरिक्तपाणयः प्राङ्मुखा युग्मास्तिष्ठन्ति ।५।
तेषां दक्षिणत उदङ्मुखो ऽपिहितमुदकुम्भं धारयन्वाचयिता तिष्ठति ।६।
तस्य दक्षिणं बाहुमन्वितरस्तिष्ठति ।७।
अथैनान्संपूजयति मनस्समाधीयतामिति ।८।
समाहितमनसः स्मः इतीतरेषां प्रतिवचनम्।९।
मनो वै चन्द्रमा ब्राह्मणा नक्षत्राणि तस्माद्ब्राह्मणेषु मनस्समादधाति ।१०।
प्रसीदन्तु भवन्तः इति ।प्रसन्नास्स्मः इतीतरेषां प्रतिवचनम्।११।
तथैवास्य प्रसन्ना भवन्ति ।१२।
शान्तिरस्तु ।पुष्टिरस्तु ।तुष्टिरस्तु ।ऋद्धिरस्तु ।अविघ्नमस्तु ।आयुष्यमस्तु ।आरोग्यमस्तु ।शिवं कर्मास्तु इत्याशिषमेवैतामाशास्ते ।१३।
तथैवेतरेषां प्रतिवचम्।१४।
ओमिति ब्रह्म ।ओमितीदं सर्वम्तस्मादोमिति सन्धाय पुण्याहं भवन्तो ब्रुवन्तु इत्येतेनाहश्च नक्षत्रं च पूते भवतस्ते एवैनं पूते पुनीतः ।१५।
ओं स्वस्ति भवन्तो ब्रुवन्तु इत्येतेन गोब्राह्मणस्याशीरुक्ता भवति ।त एवैनमशिषा समर्धयन्ति ।१६।
ऋद्धिं भवन्तो ब्रुवन्तु इत्येतेन ऋग्यजुस्साम्नामृद्धिरुक्ता ।तैरेव ऋद्धिमान्भवति ।१७।
य एवं विद्वान्पुण्याहं वाचयति नास्य कर्मोपहतं भवति ।१८।
यत्कर्म करोत्यपरेणाग्निं प्रदक्षिणमुपचारो यज्ञोपवीती दैवानि कर्माणि क्रियते विपरीतं पित्र्येषु ।१९।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने चतुर्थो ऽध्यायः
BaudhGSPB.1.5
अथ प्रथमप्रश्ने पञ्चमो ऽध्यायः
अथ शुचौ समे देशे इति कथं विज्ञायते ।१।
गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्तं भवति तच्छुचिर्भवति ।२।
तस्य मध्यातुद्धृत्यावोक्ष्यारत्निमात्रं समचतुरतुरश्रं स्थण्डिलं करोति ।तत्रोल्लेखनादि कर्म प्रतिपद्यते ।३।
दर्भेषु दक्षिणतो ब्राह्मण उपविशति ।स यद्युपविशत्यादिशो व्युन्नयन्नाशास्ते ।४।
यद्यु वै नोपविशति दर्भेषु दक्षिणतः प्रागग्रं कूर्चं निधाय ओं भूर्भुवस्सुवरों ब्रह्मन्ब्रह्मासि नमस्ते ब्रह्मणे इत्युपतिष्ठते ब्रह्मैवात्रासीनो भवति तस्मै वरं ददाति ब्राह्मणं वा भोजयेदिति ।५।
एतेन सशिरस्को यज्ञः यो वै यज्ञस्य शिरो वेद शीर्षण्वान्मेध्यो भवति इति ।६।
उत्तरत उदपात्रं ब्राह्मणमिध्माबर्हिरिति एतद्वै यज्ञस्य शिरो य एवं वेद शीर्षण्वान्मेध्यो भवति इति ब्राह्मणम्।७।
अथ शम्याः परिदधाति शम्या वा परिधयो वा इति विज्ञायते ।नापरिधाय जुहुयात्रक्षसामपहत्यै इति ।८।
सर्वत्र परिसमूहनपर्युक्षणपरिस्तरणपरिधानोपसमाधानालङ्करणमित्यादरादाचार्याः ।९।
सर्वत्रालङ्कृत्य ये तत्र ब्राह्मणास्सन्ति ताननुज्ञाप्य कुर्वीत यत्कारी स्यात्समृद्धमेवास्य तत्।१०।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने पञ्चमो ऽध्यायः
BaudhGSPB.1.6
अथ प्रथमप्रश्ने षष्ठो ऽध्यायः
सर्वत्र दर्वीहोमेष्वाघारवत्सु पुरोनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वाय इति ब्राह्मणम्।१।
यत्रैका ऽऽम्नाता स्यात्तां द्विरभ्यावर्तयेत्।२।
तत्सवितुर्वरेण्यमित्यनुद्रुत्याम्नातायां जुहोति ।अथ वा भूर्भुवस्सुवरोमित्यनुद्रुत्य तत्सवितुर्वरेण्यमिति जुहोति ।३।
अनाम्नातेषु तदेतत्सर्वप्रायश्चित्तम्।४।
विष्णव आहुतीषु नामकरणोपनिष्क्रामणान्नप्राशनोपाकर्मव्रतेषु च पक्वहोमस्स्यान्नापक्वाः पाकयज्ञास्सर्वत्र पक्वहोमं कुर्यादिति ।५।
एतेन होमदानप्राशनानि व्याख्यातानि भवन्ति पक्वाज्जुहोति पक्वाद्ददाति पक्वात्प्रश्नातीति पाकयज्ञास्तस्माद्धुतप्रहुताहुतेषु पक्वः कार्य इति ।६।
एकविंशतिदारुमिध्मं करोति यज्ञस्य सरूपत्वाय ।७।
अभिघारयति तेजसैवैनं समर्धयति इति ब्राह्मणम्।८।
अरत्निमात्रीं दर्वीं बाहुमात्रीमित्यपरम्।९।
अथ वै भवति निरृतिगृहीता वै दर्वी यद्दर्व्या जुहुयान्निरृत्या ऽस्य यज्ञं ग्राहयेतिति दर्व्या ऽन्नस्य जुहोति स्रुवेणाज्यस्य वैकङ्कती स्रुगाकृतिर्भवति इति विज्ञायते ।१०।
अथाप्युदाहरन्ति यथा सुभूमिजो वृक्षस्सुमूलस्सुप्रतिष्ठितः बहुशाखस्सुपुष्पश्च फलवानुपयुज्यते ।११।
देवदानवगन्धर्वैः ऋषिभिः पितृभिस्तथा पक्षिभिः षट्पदैश्चापि मशकैश्च पिपीलिकैः ।१२।
एवं हि पाकयज्ञेषु सर्वमेतत्प्रतिष्ठितम्हुतस्सुभूमिर्विज्ञेया मूलं प्रहुत उच्यते ।१३।
आहुतोत्र प्रतिष्ठानं यज्ञवृक्षो महोच्छ्रयः बह्व्यस्तस्य स्मृताश्शाखास्सुपुष्पास्सुफलोपगाः ।१४।
मन्त्रब्राह्मणतत्त्वज्ञैस्सुदृष्टास्ता उपासकैः एवं हि यज्ञवृक्षस्य यो ऽभिज्ञः श्रोत्रियस्स्मृतः ।१५।
दारस्याहरणं कुर्यात्कर्मेत्येवं विपश्चितः सुभूमिं च सुमूलं च सुप्रतिष्ठानमेव च ।१६।
वृक्षं पुष्पफलोपेतं बहुशाखं स पश्यति ज्ञानं सुभूमिराचारो मूलं श्रद्धा प्रतिष्ठितिः ।१७।
क्षमा ऽहिंसा दमश्शाखाः सत्यं पुष्पफलोपगम्ज्ञानोपभोग्यं बुद्धानां गृहिणां यज्ञपादपम्।१८।
अकामहतया बुद्ध्या त्यक्ताहङ्कारलोभया निश्चयाध्यवसायाभ्यां चक्षुर्भ्यां स तु पश्यति ।१९।
तस्यैको वज्रसङ्काशः क्रोधः परशुरुच्यते तेनैव माच्छिनन्मोहात्त्याज्यः क्रोधो गृहेष्वतः ।२०।
गृहा मूलं हि यज्ञानां गृहा ह्यानृण्यकारणम्गृहाह्याश्रमपूजार्थं स्थित्यर्थं च गृहास्स्मृताः ।२१।
पाकयज्ञा हविर्यज्ञास्सोमयज्ञाश्च ते त्रयः स्थिता मूलेषु वृक्षेषु प्रमादी तेषु सीदति ।इति
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने षष्ठो ऽध्यायः
BaudhGSPB.1.7
अथ प्रथमप्रश्ने सप्तमो ऽध्यायः
अथ विवाहस्यारुन्धत्युपस्थानात्कृत्वा व्रतमुपैति अग्ने व्रतपत उपयमनव्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां वायो व्रतपते आदित्य व्रतपते व्रतानां व्रतपते उपयमनं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामिति ।१।
उभौ जायापती व्रतचारिणौ भवतो ऽधश्शयाते तयोश्शय्यामन्तरेणौदुम्बरदण्डो गन्धानुलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठत्यापक्वहोमान्निशायाम्।२।
हुते पक्वहोमे व्रतं विसृज्य दण्डमुत्थापयति ऊर्जः पृथिव्या अध्युत्थितो ऽसि वनस्पते शतवल्शो विरोह त्वया वयमिषमूर्जं वदन्तो रायस्पोषेण समिषा मदेम इति ।३।
अथैनं वध्वै प्रयच्छति प्रजया त्वा संसृजामि मासरेण सुरामिव इति ।४।
तं वधूः प्रतिगृह्णाति प्रजावती भूयासमिति ।५।
अथैनं वराय प्रयच्छति प्रजया त्वा पशुभिस्संसृजामि मासरेण सुरामिव इति ।६।
तं वरः प्रतिगृह्णाति प्रजावान्पशुमान्भूयासमिति ।७।
अथैनं स्थूणादेशे निधायान्तिकेन प्रतिपद्यते ।८।
प्रसिद्धमुपसंवेशनम्।९।
श्वोभूते दण्डमादाय पुण्याहं वाचयित्वा ऽप्सु विसर्जयति ।१०।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुवः इति द्वाभ्याम्।११।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।१२।
स एष पार्वणो भवति ।१३।
अथास्तमित आदित्ये ऽन्योन्यमलङ्कृत्योपरि शय्यायां शयाते ।१४।
अथ वधूमभिमन्त्रयते सुमङ्गलीरियं वधूरिमां समेत पश्यत ।सौभाग्यमस्यऐ दत्वा याथास्तं विपरेतन इति ।१५।
अथैनां सर्वसुरभिगन्धया मालया युनक्ति सं नौ मनस्सं हृदयानि नौ सं नाभिस्सं तनुत्वचः सं त्वा कामस्य योक्त्रेण युज्याम्यविमोचनाय इति ।१६।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने सप्तमो ऽध्यायः
BaudhGSPB.1.8
अथ प्रथमप्रश्ने अष्टमो ऽध्यायः
अथ दशमो ऽहन्ययुग्मा ब्राह्मणाः श्राविता भवन्ति ।१।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति विश्वे देवाः विश्वे देवाः इति द्वाभ्याम्।२।
अथ वैश्वदेवं करोति ।३।
तूष्णीं सर्वाण्यायतनानि गन्धपुष्पधूपदीपैः प्रत्यलङ्करोति ।४।
प्रसिद्धं बलिहरणम्।५।
वैश्वदेवं कृत्वा ऽपरेणाग्निं दर्भेष्वासीनो दर्भान्धारयमाणः प्राङ्मुखस्सावित्रीं सहस्रकृत्य आवर्तयेच्छतकृत्वो ऽपरिमितकृत्वो वा दशवारं वा ।६।
वेदादीन्छन्दांसि कूष्माण्ड्यानि चाधीयीत ।७।
अथ यज्ञसमृद्धीर्जुहोति इष्टेभ्यस्स्वाहा वषडनिष्टेभ्यस्स्वाहा इति ।८।
अष्टौ स्रवाहुतीर्हुत्वा स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।९।
अथापरः आपरिधानात्कृत्वा विश्वेभ्यो देवेभ्यः ब्राह्मणावुपवेश्य गन्धपुष्पधूपदीपैरभ्यर्च्य वैश्वदेवेन चरुणा ऽनुदिश्य विश्वेभ्यो देवेभ्यस्स्वाहा इति ।१०।
अथ प्राचीनावीतं कृत्वा सौवर्णं राजतं ताम्रायसकांस्यं मृन्मयं वा पात्रं याचति ।११।
तद्दक्षिणाग्रेषु दर्भेषु सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानं पात्रं कृत्वा प्रोक्ष्य तस्मिन्तिरः पवित्रमप आनयन्नाह आम आगन्तु पितरो देवयानान्समुद्रान्सलिलान्सवर्णानस्मिन्यज्ञे सर्वकामान्लभन्ते ऽक्षीयमाणमुपदुह्यन्तामिमाः पितृभ्यो वो गृह्णामि पितामहेभ्यो वो गृह्णामि प्रपितामहेभ्यो वो गृह्णामि इति ।१२।
अपोद्धुत्य पवित्रं तिलानावपति तिलो ऽसि सोमदेवत्यो गोसवे देवनिर्मितः ।प्रत्नवद्भिः पर्त्नस्वधयेहि पितॄनिमान्लोकान्प्रीणयाहि नस्स्वधा नमः इति ।१३।
अथ तिरः पवित्रं मध्वानयति मधु वाता ऋतायते इति तिसृभिरनुच्छन्दसम्।१४।
अथैनत्सर्वाभिरङ्गुलीभिस्समुदायुत्याभिमृशति सोमस्य त्वित्विषिरसि तवेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाहि इति ।१५।
तस्मिंश्चित्किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्न्या चोपसङ्गृह्येमां दिशं निरस्यति अवेष्टा दन्दशूका निरस्तं नमुचेश्शिरः इति ।१६।
अथाप उपस्पृश्य पुनरेवाभिमृशति शं नो देवीरभिष्टय आपो भवन्तु पीतये ।शं योरभिस्रवन्तु नः इति ।१७।
अथैनद्गन्धपुष्पधूपदीपैरभ्यर्च्य दक्षिणाम्रेषु दर्मैः प्रतिच्छाद्य भोजनस्थानेष्वासनेषु च तिलान्सिकताश्च सम्प्रकिरति अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु ।अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः इति ।१८।
अथैनदद्भिरवोक्षति उदीरतामवर उत्परास उन्मध्यमाः ।पितरस्सोम्यासः ।असुं य ईयुरवृका ऋतज्ञास्ते नो ऽवन्तु पितरो हवेषु इति ।१९।
अथ पितॄनावाहयति आयात पितरस्सोम्या गम्भीरैः पथिभिः पूर्व्यैः ।प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च इति ।२०।
अथ ब्राहमणानाहूय सदर्भोपक्लृप्तेष्वासनेषूपवेश्य प्रसिद्धमग्नौ कृत्वा श्राद्धं पञ्च स्रुवाहुतीर्जुहोति याः प्राचीस्सं भवन्त्याप उत्तरतश्च याः ।अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमस्स्वआहा ।अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या ।दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमस्स्वाहा ।अन्तर्दध ऋतुभिस्सर्वैरहोरात्रैस्ससन्धिकैः ।अर्धमासैश्च मासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमस्स्वाहा ।यन्मे माता प्रलुलोभ चरत्यननुव्रता ।तन्मे रेतः पिता वृङ्क्तां मा ऽऽभुरन्यो ऽवपद्यतां स्वधा नमस्स्वाहा ।यद्वः क्रव्यादङ्गमदहर्लोकाननयन्जातवेदाः ।तद्वो अहं पुनरावेशयाम्यरिष्टास्सर्वैरङ्गैस्संभवथ पितरस्स्वधा नमस्स्वाहा इति ।२१।
त्रेधा वपां विभज्यौदुम्बर्या दर्व्या जुहोति सोमाय पितृमते शुष्मिणे जुहुमो हविः ।वाजन्निदं जुषस्व नस्स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा ।अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे ।वैवस्वतेदमद्धि नस्स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा ।यदग्ने कव्यवाहन पितॄन्यक्षि ऋतावृधः ।प्र देवेभ्यो वह हव्यं पितृभ्यश्च स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा इति ।२२।
अथापूपमष्टधा विभज्य त्रीण्यवदानानि वपायाः कल्पेन हुत्वा ऽथेतराणि ब्राह्मणेभ्यो दत्वा ऽत्रैतान्यवदानानीडासूने प्रतिच्छाद्यौदनं मांसं यूषमित्याज्येन समुदायुत्यौदुम्बर्या दर्व्योपघातं दक्षिणार्धे जुहोति पितृभ्यस्स्वधा नमस्स्वाहा इत्यादिः ।सर्वाभ्यस्स्वधा नमस्स्वाहा इत्यन्तो मन्त्र ऊह्यः ।२३।
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा इति ।२४।
परिवेष्य भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्यैतेनैव यथेतमेत्यान्नशेषेण तिस्र आहुतीर्जुहोति यन्मे माता प्रलुलोभ चरत्यननुव्रता ।तन्मे रेतः पिता वृङ्क्तां मा ऽऽभुरन्यो ऽवपद्यतां स्वधा नमस्स्वाहा ।२५।
यन्मे पितामही प्रलुलोभ चरत्यननुव्रता ।तन्मे रेतः पितामहो वृङ्क्तां मा ऽऽभुरन्यो ऽवपद्यतां स्वधा नमस्स्वाहा ।२७।
यन्मे प्रपितामही प्रलुलोभ चरत्यननुव्रता ।तन्मे रेतः प्रपितामहो वृङ्क्तां माभुरन्यो ऽवपद्यतां स्वधा नमस्स्वाहा इति ।२६।
दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य तेष्वन्नशेषैः त्रीन्पिण्डान्ददाति एतत्ते ततासौ ये ते मातामहा ये त आचार्यां ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये ते ऽमात्या ये ते ऽन्तेवासिनस्तेभ्यश्च पत्न्यस्तेभ्यस्ताभ्यश्च स्वधा नमः इति ।२८।
द्वितीयं ददाति एतत्ते पितामहासौ ये ते मातामहा ये त आचार्या ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये ते ऽमात्या ये ते ऽन्तेवासिनस्तेभ्यश्च पत्न्यस्तेभ्यस्ताभ्यश्च स्वधा नमः इति ।२९।
तृतीयं ददाति एतत्ते प्रपितामहासौ ये ते मातामहा ये त आचार्या ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये ते ऽमात्या ये ते ऽन्तेवासिनस्तेभ्यश्च पत्न्यस्तेभ्यस्ताभ्यश्च स्वधा नमः इति ।३०।
अत्र भूमौ लेपं निमार्ष्टि ये नः पतिता गर्भा असृग्भाज उपासते तेभ्यस्स्वजा स्वधा नमस्तृष्णुवन्तु मदन्तु च ।३१।
य आमा ये पक्वा ये च दुष्टाः पतन्ति नः तेभ्यस्स्वजा स्वधा नमस्तृष्णुवन्तु मदन्तु च ।३२।
ये कुमारा यास्त्रियो ये ऽविज्ञाताः पतन्ति नः तेभ्यस्स्वजा स्वधा नमस्तृष्णुवन्तु मदन्तु च इति ।३३।
अथैनान्सङ्क्षाऌअनेनाभिषिञ्चति ये समानाः ये सजाताः इति द्वाभ्याम्।३४।
अथ ये बर्हिषि पिण्डास्तेषां तथैव सङ्क्षाऌअनेन त्रिरपसलैः परिषिञ्चति ऊर्जं वहन्तीः इति ।३५।
जयप्रभृति सिद्धमत ऊर्ध्वम्।३६।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने अष्टमो ऽध्यायः
BaudhGSPB.1.9
अथ प्रथमप्रश्ने नवमो ऽध्यायः
अथ वै भवति किञ्चिद्यज्ञस्य वा ऽतिवेलं वा श्रद्धायुक्तस्य तत्त्वविदः ।१।
पात्रमासाद्य नक्षत्रे वा ब्राह्मणानाहूय सदर्भोपक्लुप्तेष्वासनेषूपवेश्यामन्त्रयते भवत्स्वेवाग्नौ करणं पिण्डाश्च इत्येव ब्रूयात्।२।
तथेत्युक्तस्तेषां सपवित्रेषु पाणिषु तिलोदकं ददाति ।तथा ऽलङ्कृत्य ददाति ।तथैव भुक्तवत्सु च ददाति ।३।
नोच्छिष्टं परिससूहति ।४।
अत्र त्रीन्पिण्डान्ददाति ब्राह्मणेभ्यो दक्षिणतः ।५।
विज्ञायते च ब्राह्मणो वै सर्वा देवताः एष वा अग्निर्वैश्वानरो यद्ब्राह्मणः इति ।६।
हुतमेवास्य भवति ।७।
अथ यद्यग्नौ कुर्यादौपासने पचने वा ऽन्नस्य तिस्र आहुतीर्जुहोति सोमाय पितृपीताय स्वधा नमस्स्वाहा ।यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा ।अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा इति ।८।
हुतमेवास्य भवति ।९।
अपि वा सङ्कल्पेन ब्राह्मणान्भोजयेत्सङ्कल्पसिद्धिरस्तु इति वाचयित्वा ।१०।
एवमापत्सु कुर्वीत न च नित्यं तु कारयेत्ये नित्या उपासते श्राद्धानि च हवींषि च ।११।
गामत्र कुर्यादिति बोधायनः ।१२।
तस्या औपवसथ्यया कल्पो व्याख्यातः ।१३।
आमिक्षया वैतत्क्रियत इति शालीकिः ।१४।
अपूपेनेत्यौपमन्यवः ।१५।
चरुणा वेत्योपमन्यवीपुत्रः ।१६।
पितृणामनृणो भवति इति विज्ञायते ।१७।
अथोपनिष्क्रम्य बाह्यानि चित्रियाण्यभ्यर्च्य त्रिवृता ऽन्नेन ब्राह्मणान्सम्पूज्याशिषो वाचयित्वा प्रतोदमिषुं च ब्राह्मणेभ्यो दत्त्वा प्रदक्षिणीकृत्य गृहानेत्य अध्वर्युं वृणीते कुनखिनमाङ्गिरसमिति ।१८।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने नवमो ऽध्यायः
BaudhGSPB.1.10
अथ प्रथमप्रश्ने दशमो ऽध्यायः
विवाहो व्याख्यातः ।अत्राग्न्याधेयस्य कालः ।१।
यथाश्रद्धमत ऊर्ध्वं जीवति पितर्यग्नीनादधीतेति बोधायनः ।२।
जीवति मृते वा जायामवाप्य दशमे ऽहनीति शालीकिः ।३।
मा दुर्ब्राह्मणो भवति ।४।
अथाप्युदाहरन्ति यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम्।स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः ।इति ।५।
औपासनो वा नित्यो धार्य इति न दुर्ब्राह्मणो भवति ।६।
औपासनं वा धारयमाणो ब्रह्मौदनं कृत्वोत्त्सृज्य कर्मणि कर्मण्येवैनं पुनस्संस्कृत्याहरति ।७।
यद्यु वै नाधास्यमानो भवति नैनमुत्सृजति ।८।
अथ वै भवति अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्तस्या उच्छेषणमददुस्तत्प्रश्नातिति ।९।
यस्य पत्नी गृहे ऋतुमती भवति तस्यैतद्व्रतं यथा विवाहे त्रिरात्रम्।१०।
एतावदेव नाना नात्र पत्नी दण्डेन सह शेते ।न स्नाति ।चतुर्थ्यां स्नाति ।ब्रह्मौदनस्य च प्राश्नाति ।११।
यः कामयेत देवेभ्य ऋषिभ्यः पितृभ्यो ऽनृणो भूयासमिति तस्यैतद्व्रतमृतावृतौ भवति ।१२।
पुंसवनं विष्णव आहुतीश्च नित्याः ।१३।
पुंसवनप्रभृत्याज्याभिघारितं पत्न्यश्नात्या प्रसवात्।१४।
अष्टममासमुष्णोदकेन स्नात्वा विष्णवे बलिमुपहृत्य व्रतयति ।१५।
अथ पुत्रप्रसूर्भवतीति विज्ञायते ।१६।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने दशमो ऽध्यायः
BaudhGSPB.1.11
अथ प्रथमप्रश्ने एकादशो ऽध्यायः
स यदि पुत्रप्रसूर्भवति प्रसिद्धमौपासने जातकर्म कृत्वा ऽन्यत्र फलीकरणहोमं जुहोति स सूतकाग्निर्भवति ।१।
तं दशाहं धारयति ।२।
अथ नवम्यां व्युष्टायां सूतकाग्नावाज्यं विलाप्योत्पूय युगमुत्थापयति ब्रह्मजज्ञानमिति ।३।
अथोदकुम्भमुत्थापयति भूर्भुवस्सुवरोमिति ।४।
अथैनमप्सु विसर्जयति समुद्रं वः प्रहिणोम्यक्षितास्स्वां योनिमपि गच्छत ।अच्छिद्रः प्रजथा भूयासं मा परासेचि मत्पयः इति ।५।
अथैतेनैव यथेतमेत्य सूतकाग्निमुपतिष्ठते बोधा नो अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधा वः ।पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तनुवं वन्दे अग्ने इति ।६।
अथ पुत्रप्रसूमुपतिष्ठते सबोधि सूरिर्मघवा वसुदा वा वसुपतिः ।युयोध्यस्मद्द्वेषांसि इति ।७।
अथ कुमारमुत्थापयति उत्तिष्ठ ब्रह्मणस्पते ।देवयन्तस्त्वेमहे ।उपप्रयन्तु मरुतस्सुदानवः ।इन्द्र प्राशूर्भवा सचा इति ।८।
अथैनमादायोपनिष्क्रम्य आदित्यमुदीक्षयति उद्वयं तमसस्परि उदुत्यं चित्रं तद्विष्णोः परमं पदमिति चतसृभिः ।९।
अथ तेनैव यथेतमेत्य कुमारं मातृहस्ते दत्वा सूतकाग्ना वाज्यस्य जुहोति हिरण्यगर्भस्समवर्तताग्रे इत्यान्तादनुवाक्यस्य प्रत्यृचम्।१०।
उत्सृजसि सूतकाग्निम्।२२।
आयुर्दा अग्ने हविषो जुषाणः इत्यरण्योर्वा समारोपयते ।१२।
तमुपनयने मन्थति ।१३।
अथौपासनमुपतिष्ठते अग्न आयूंषि पवसे अग्ने पवस्व स्वपाः इति द्वाभ्याम्।१४।
ज्योतिष्मत्या पुत्रस्य नाम गृह्णाति अन्नादमेवैनं करोति इति ब्राह्मणम्।१५।
अथैनं मूर्ध्न्यवघ्रायाभिमन्त्रयते अग्निरायुष्मानिति पञ्चभिः पर्या यैः ।१६।
प्रवासादेत्यागतं वा पुत्रमेतैरेवाभिमन्त्रयते ।१७।
प्रसिद्धं दशम्यामुत्थानम्।१८।
दशम्यां द्वादश्यां वा नामकरणम्।१९।
नामकरणोपनिष्क्रामणान्नप्राशनानि ब्राह्मणभोजनादेवैकेषाम्।२०।
पुण्याहवाचनादेवैकेषाम्।२१।
प्रसिद्धे चौऌओप नयने ।२२।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने एकादशो ऽध्यायः
BaudhGSPB.1.12
अथ प्रथमप्रश्ने द्वादशो ऽध्यायः
अथोपनीतस्याव्रत्यानि भवन्ति ।१।
नान्यस्योच्छिष्टं भुञ्जीतान्यत्र पितृज्येष्ठाभ्याम्।२।
न स्त्रिया सह भुञ्जीत ।३।
मधुमांसश्राद्धसूतकान्नमनिर्दशाहं सन्धिनीक्षीरं छत्राकनिर्यासौ विलयनं गणान्नं गणिकान्नमित्येतेषु पुनस्संस्कारः ।४।
प्रतिषिद्धदेशगमनमित्येकेषाम्।५।
अथाप्युदाहरन्ति सौराष्ट्रं सिन्धुसौवीरमवन्तीं दक्षिणापथम्।एतानि ब्राह्मणो गत्वा पुनस्संस्कारमर्हति ।इति ।६।
अथ पुनस्संस्कारान्व्याख्यास्यामः ।७।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पालाशीं समिधमाज्येनाक्त्वा ऽभ्याधापयन्वाचय्ति पुनस्त्वा ऽऽदित्या रुद्रा वसवस्समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः ।घृतेन त्वं तनुवो वर्धयस्व सत्यास्सन्तु यजमानस्य कामास्स्वाहा इति ।८।
अथाव्रत्यप्रायश्चित्ते जुहोति यन्म आत्मनो मिन्दा ऽभूत्पुनरग्निश्चक्षुरदातिति द्वाभ्याम्।९।
अथ पक्वाज्जुहोति सप्त ते अग्ने समिधस्सप्त जिह्वाः इति ।१०।
अथाज्याहुतीरुपजुहोति येन देवाः पवित्रेण इति तिसृभिरनुच्छन्दसम्।११।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।१२।
अथापरः आपरिधानात्कृत्वा पालाशीं समिधमाधायाव्रत्यप्रायश्चित्ते जुहोति ।१३।
अथ व्याह्यतिभिर्जुहोति ।१४।
अथापरः ब्राह्मणवचनादेव सावित्र्या शतकृत्वो घृतमभिमन्त्र्य प्राश्य कृतप्रायश्चित्तो भवति ।१५।
गुरोर्वोच्छिष्टं भुञ्जीत ।१६।
अथाप्युदाहरन्ति वपनं दक्षिणादानं मेखलादण्डमजिनं भैक्षाचर्या व्रतानि चैतआनि निवर्तन्ते पुनस्संस्कारकर्मणीति ।१७।
एते पुनस्संस्कारा व्याख्याताः ।१८।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने द्वादशो ऽध्यायः
BaudhGSPB.1.13
अथ प्रथमप्रश्ने त्रयोदशो ऽध्यायः
वेदमधीत्य स्नात्यन्नुपकल्पयते एरकां चोपबर्हणं च नापितं क्षुरं च दारूणि चोपस्तरणं च वृकलांश्च दन्तधावनमुष्णाश्चापश्शीताश्च सर्वसुरभिपिष्टं चाञ्जनं च स्रजं चादर्शं चाहतं च वासः प्रावारं च वसनान्तरं बादरमणिं सुवर्णोपधानं सूधं च प्रवर्तौ च दण्डं चोपानहौ च छत्रमानडुहं चर्म सर्वलोहितमित्येते ऽस्य सम्भारा उपक्लृप्ता भवन्ति ।१।
अथ स्नानस्य मीमांसा ।२।
रोहिण्यां स्नायादित्येकम्प्राजापत्यं वा एतन्नक्षत्रं तदस्य प्राजापत्य एव नक्षत्रे स्नातं भवत्यथो सर्वान्रोहान्रोहति इति ।३।
तिष्ये स्नायादित्येकम्बार्हस्पत्यं वा एतन्नक्षत्रं तदस्य बार्हस्पत्य एव नक्षत्रे स्नातं भवत्यथो बृहस्पतिप्रसूतो ऽसानि इति ।४।
उत्तरयोः फल्गुन्योस्स्नायादित्येकम्भग्यं वा एतन्नक्षत्रं तदस्य भग्य एव नक्षत्रे स्नातं भवत्यथो भग्यो ऽसानि इति ।५।
हस्ते स्नायादित्येकम्सावित्रं वा एतन्नक्षत्रं तदस्य सावित्र एव नक्षत्रे स्नातं भवत्यथो सवितृप्रसूतो ऽसानि इति ।६।
चित्रायां स्नायादित्येकमैन्द्रं वा एतन्नक्षत्रं तदयैन्द्र एव नक्षत्रे स्नातं भवत्यथो चित्रो ऽसानि इति ।७।
विशाखयोस्स्नायादित्येकमैन्द्राग्नं वा एतन्नक्षत्रं तदस्यैन्द्राग्न एव नक्षत्रे स्नातं भवत्यथो विशाखो ऽसानि प्रजया पशुभिः इति ।८।
एतेषामेकस्मिन्नापूर्यमाणपक्षे पुरादित्यस्योदयाद्व्रजमभिप्रपद्यते नैनमेतदहरादित्योभितपेत्तदहस्स्नातानां मुखं वा एष एतत्तेजसा यशसा तपति ।९।
अन्तर्लोम्ना चर्मणा व्रजमभिनिध्नन्ति ।१०।
पूर्वार्धमध्ये व्रजस्याग्निमुपसमाधाय सम्परिस्तीर्य आहरन्त्येतान्सम्भारान्सकृदेव सर्वान्यत्सह सर्वाणि मानुषाणि इत्येतस्मात्ब्राह्मणात्।११।
दक्षिणतो ब्राह्मण उपविशति ।१२।
उत्तरत उदपात्रं पालाशीं च समिधं निदधाति ।१३।
अपरेणाग्निमुदीचीनप्रतिषेवणामेरकां साधिवासामास्तीर्य तस्यां प्राङ्मुख उपविशति ।१४।
उत्तरतो नापितः ।१५।
उत्तरत उपबर्हणम्।१६।
आमध्यन्दिनं भिक्षां दद्यात्।१७।
अपीह गां पचेद्वशा चेत्स्यादत्रैताम्।१८।
पालाशीं समिधमाज्येनाक्त्वा मध्यन्दिने ऽभ्यादधाति इमं स्तोममर्हते जातवेदसे रथमिव संमहे मा मनीषया ।भद्रा हि नः प्रमतिरस्य संसद्यग्रे सख्ये मा रिषामा वयं तव स्वाहा इति ।१९।
अथैरकायामुदीचीनशिरा निपद्यते त्र्यायुषं जमदग्ने कश्यपस्य त्र्यायुषं अगस्त्यस्य त्र्यायुषमृषीणां त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषमिति ।२०।
क्लिद्यमानमनुमन्त्रयते शिवा मे भवथ संस्पर्शाः इति ।२१।
क्षुरमभिमन्त्रयते क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिंसीः इति ।२२।
उप्यमानमनुमन्त्रयते यत्क्षुरेण वर्चयसि वप्ता वपसि केशश्मश्रु वर्चया मे मुखं मा म आयुः प्रमोषीः इति ।२३।
श्मश्रूण्येवाग्रे वपते ऽथोपपक्षावथ वेशान्यथोपपादभितराण्यङ्गानि ।२४।
एतस्माद्ध्येषा जरसा पूर्व आयुषि प्रयान्ति पर्व आयुष्यन्नादा भवन्ति य एवं विद्वासो लोमानि वापयन्ते स यदि लोमानि वापयिष्यमाणस्स्यात्केशश्मश्रु वापयित्वा लोमानि संहृत्य नखानि निकृन्तयीत ।२५।
अथैनानि समुच्चित्य ब्रह्मचारिणे प्रयच्छन्नाह इमानि हृत्वा दर्भस्तम्बे वोदुम्बरमूले वा निधत्तातिति ।तानि स तत्र निदधाति ।२६।
अपरेणाग्निं प्राङ्मुख उपविश्य मेखलां विस्रंसयति इमं विष्यामि वरुणस्य पाशमिति ।२७।
यो ऽस्य तत्र रातेः पुत्रो वान्तेवासी भवति तस्मै प्रयच्छन्नाह इमा हृत्वा न्यग्रोधे वोदुम्बरमूले वा निधत्तातिति ।२८।
तामु स तत्र निदधाति इदमहममुष्यायणस्य शुचा पाप्मानमपगूहाम्युत्तरस्य द्विषद्भ्यः इति ।२९।
वृकलैः प्रधाव्य दान्तान्विधावते अन्नाद्याय व्यपोहध्वं भगो सजा यमागतम्।स मे मुखं प्रसर्पतु वर्चसे च भगाय च इति ।३०।
उभयीरपस्संनिषिञ्चति उष्णासु शीता आनयति देवमानुषस्य व्यावृत्त्यै इति ।३१।
तासामञ्जलीनोपहत्याभिषिञ्चति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति तिसृभिः षोढा विहितो वै पुरुषः इत्येतस्मात्ब्राह्मणात्।३२।
अथैतस्य सर्वसुरभिपिष्टं समुदायुत्य त्रिः प्रसिञ्चति नमश्शाकजञ्जभाभ्यां तमस्ताभ्यो देवताभ्यो या अभिग्राहिणीः इति ।३३।
अनुलिम्पेतप्सरासु यो गन्धो गन्धर्वेषु च यद्यशः ।दिव्यो यो मानुषो गन्धस्स मामाविशात्विह इति ।३४।
अहतं वासः परिधत्ते स्वा मा तनूराविश शिवो मा तनूराविश इत्येवमेव सायमेवमेवात ऊर्ध्वम्।३५।
अथैतं बादरमणिं स्वणोर्पधानं सूत्रे प्रोत्य दर्व्यामाधाय दर्वीदण्डे सूत्रेण पर्यस्य जुहोति इयमोषधे त्रायमाणा सहमाना सहस्वती ।सा मा करोतु सोमवर्चसं सूर्यवर्चसं ब्रह्मवर्चसं ब्रह्मवर्चसिनं मान्नादं करोतु स्वाहा इति ।३६।
अथैनमुदपात्रेण परिप्लावयति विश्वा उत त्वया वयं धारा उदन्या इव ।अतिगाहेमही द्विषः इति ।३७।
अपाशोसि इत्युक्त्वा ऽक्ष्णया परिहरति ।वध्यं हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै इत्येतस्माद्ब्राह्मणात्।३८।
अथैतौ प्रवर्तौ सूत्रे प्रोत्य दर्व्यामाधाय दर्वीदण्डे सूत्रेण पर्यस्य जुहोति आयुष्यं वर्चस्यं रायस्पोषमौद्भिद्यम्।इदं हिरण्यं वर्चसे जैत्र्यायाविशतादिमं रयिं स्वाहा इति ।३९।
द्वितीयां जुहोति शुनीमिवाहं हिरण्यस्य पितुरिव नामग्राहम्।तं मा करोतु सोमवर्चसं सूर्यवर्चसं ब्रह्मवर्चसिनं मा ऽन्नादं करोतु स्वाहा इति ।४०।
तृतीयां जुहोति उच्चैर्वाजि पृतनासाहं सभासाहं धनञ्जयम्।सर्वास्समृद्धीरृद्धयो हिरण्ये यास्समाहितास्स्वाहा इति ।४१।
चतुर्थीं जुहोति विराजं च स्वराजं चाभिष्टीर्या च नोगृहे ।लक्ष्मी राष्ट्रस्य या मुखे तया मा सं सृजामसि स्वाहा इति ।४२।
पञ्चमीं जुहोति यशो मा कुरु ब्राह्मणेषु यशो राजसु मा कुरु ।यशो विश्येषु शूद्रेष्वहमस्मै यशस्तव स्वाहा इति ।४३।
अथैतावुदपात्रे ऽनुप्लावयति विश्वा उत त्वया वयमित्येतया ।४४।
तयोरन्तरमादाय दक्षिणे कर्ण आबध्नआति आयुष्यं वर्चस्यमित्येताभिः पञ्चभिः ।४५।
अथैनमनुपरिवर्तते ऋतुभिस्त्वातवैस्संवत्सरस्य धायसा तैस्त्वा सहानुकरोमि इति ।४६।
एवमेवोत्तरे कर्णे प्रवर्तमाबध्नीत ।४७।
अत स्रजं प्रतिमुञ्चति शुभिके शिर आरोह शोभयन्ती मुखं मम ।मुखं हि मम शोभय भूयांसं च भगं कुरु ।यां त्वा जहार जमदग्निश्श्रद्धायै कामायान्यै ।तां त्वेमां प्रतिमुञ्चामि वर्चसे च भगाय च इति ।४८।
त्रैककुदेनाञ्जनेनाङ्क्ते यदाञ्जनं त्रैककुदं जातं हिमवत उपरि ।तेन वामाञ्जे मयि पर्वतवर्चसमस्तु इति ।४९।
आदर्शे परिपश्यते यन्मे मनः परागतमादर्शे परिपश्यतः ।इदं तं मयि पश्याम्यायुष्यं वर्चस्यं मे अस्तु इति ।५०।
अथोपानहावुपमुञ्चते द्यौरसि इति दक्षिणे पादे ।पृथिव्यसि इत्युत्तरे ।५१।
अथ दण्डमादत्ते सखा मा गोपाय इति ।५२।
छत्रमादत्ते दिव्यो ऽसि सुपर्णो ऽन्तरिक्षान्मा पाहि इति ।५३।
अथोपनिष्क्रम्य दिशमुपतिष्ठते देवीष्षडुर्वीरुरुणः कृणोत विश्वेदेवास इव वीरयध्वम्।मा हास्महे प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजनिति ।५४।
चन्द्रमसं सूपस्थाः इति ।५५।
यत्र यत्र कामयते तदेतीत्येतत्समावर्तनम्।५६।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने त्रयोदशो ऽध्यायः
BaudhGSPB.1.14
अथ प्रथमप्रश्ने चतुर्दशो ऽध्यायः
अथ व्रतस्नातकस्य वेदमनधीयानस्य तूष्णीं समावर्तनम्।१।
तीर्थे स्नात्वा ऽग्निमुपसमाधाय सम्परिस्तीर्य मध्याह्ने पालाशीं समिधमाज्येनाक्त्वा ऽभ्यादधाति इमं स्तोममित्येतया ।२।
तूष्णीं वपनं तूष्णीं सम्भारग्रहणं च कृत्वा रथस्य दक्षिणं चक्रमभिमृशति रथन्तरमसि इति ।सव्यं बृहदसि इति ।३।
रथस्य मध्यममभिमृशति वामदेव्यमसि इति ।४।
रथं प्रवर्तमानमभिमन्त्रयते रथं वामश्विना रथो मा दुःखे मा सुखे रिषतिति ।५।
रथाभावे ऽप उपस्पृश्य भूमिमभिमृशति इह धृतिरिह विधृतिरिह रन्तिरिह रमतिः इति ।६।
अथाप उपस्पृश्य हृदयमभिमृशति मयीन्द्रियं वीर्यमिति ।७।
अपो व्रीहिभिर्यवैर्वा समुदायुत्य शिष्याय प्रयच्छति ।८।
तत्प्रतिगृह्णाति आ म आगाद्वर्चसा यशसा इति ।९।
ब्राह्मणः आ म आगाद्वर्चसा यशसा संसृज प्रियः पशूनामधिपतिः प्रजानामिति तदुपस्पृश्य वदेत्।१०।
प्राक्सिक्तं तज्जलं पुरस्तात्सिञ्चति ।११।
अथ दधिमध्वाज्योदकमिश्रं वा दधिमध्वाज्योदकक्षीरमिश्रं वा ऽर्घ्यमिति निवेदयेत्।१२।
शिष्यो ऽर्घ्यमभिमन्त्रयते स मा ऽवतु समा ऽवन्तु स माजुषतामिति ।१३।
अथ द्वाभ्यां हस्ताभ्यां प्रतिगृह्णाति आ म आगाद्वर्चसा इति ।१४।
तस्मिंश्चित्किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्न्या च सङ्गृह्येमां दिशं निरस्यति नेष्टा विद्धिमिति ।१५।
अथाप उपस्पृश्य सर्वाभिरङ्गुलीभिस्समुदायुत्य प्राश्नाति इदं ते बलं हरामि इति पर्थमम्।श्रेष्ठं मा ऽधिपतिं कुरु इति द्वितीयम्।सोमो ऽसि सोमपं मा कुरु इति तृतीयमन्नमस्यन्नं मा कुरु इति चतुर्थम्।१६।
एवं चतुष्कृत्वः प्राश्य त्रिरनुपिबेन्न सर्वं न तृप्तिं गच्छेत्।१७।
यमात्मनश्श्रेयां समिच्छेत्तस्मै शेषं दद्यादिति ।१८।
अथ कर्णे दाम्ना बद्धां गामनुमन्त्रयते जहि मे पाप्पानमुपवेत्तुः इति ।१९।
अथ गामुत्सृजेत्गौर्धेनुभव्या इति ।२०।
अथादैनमाहृतं प्राश्नाति ब्रह्मन्त्वाश्नामि इति ।२१।
अथोदकमिश्रं सक्तुमाहृतमश्नाति ब्रह्मन्त्वा ऽश्नामि इति ।२२।
एवमेव जडबधिरमूकान्धकुब्जादीनामशक्तस्तूष्णीं समिधमाधाय शेषं तूष्णीमाचरेत्।२३।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने चतुर्दशो ऽध्यायः
BaudhGSPB.1.15
अथ प्रथमप्रश्ने पञ्चदशो ऽध्यायः
त्रयः स्नातका भवन्ति वेदस्नातको व्रतस्नातको वेदव्रतस्नातकश्चेति ।१।
अथैतेषामत ऊर्ध्वं नित्यानि भवन्ति औपासनो दण्डः कमण्डलुरुपानहौ छत्रं द्वे वाससी द्वे यज्ञोपवीते उष्णीषमजिनमन्तर्वासः इति ।२।
पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि च वाग्यत उत्तरेण वा ।३।
बहिर्वाचं विसृजेत्।४।
प्रश्नमनुवाकं वा ऽधीयीत ।५।
ब्रह्मपरो ब्रह्मनित्यो देवेभ्य ऋषिभ्यः पितृभ्यस्तर्पणानि कृत्वा ऽश्नीयात्।६।
दिवा नोष्णीषी नक्तमुष्णीषी मूत्रपुरीषोत्सर्गेषु च निवीती नित्ययज्ञोपवीती ।७।
तिष्ठन्नाचामेत्प्रह्वो वा ।८।
सन्ध्ययोश्च बहिर्ग्रामादासनं वाग्यतश्च ।९।
आ जायासङ्गमात्स्नातका भवन्त्यत ऊर्ध्वं गृहस्थाः ।१०।
अविच्छेदाय वेदव्रतैर्व्यवहरेत्कौमारेण माहेश्वरेण धान्वन्तरेणेति ।११।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने पञ्चदशो ऽध्यायः
BaudhGSPB.1.16
अथ प्रथमप्रश्ने षोडशो ऽध्यायः
स यद्यौणमनं न धारयत्या दशाहादेवैनमाज्येन व्याहृतीभिर्हुत्वा ऽग्नीनाधास्यमानो ब्रह्मौदनं कृत्वोत्सृजति ।१।
कर्मणिकर्मण्येवैनं पुनस्संस्कृत्याहरति ।२।
यद्यु वै नाधास्यमानो भवति नैनमुत्सृजति ।३।
यस्मिन्नग्नावुपनयति तस्मिन्व्रतचर्यं तस्मिन्समावर्तनं तस्मिन्पाणिग्रहणं तस्मिन्गृह्याणि कर्माणि क्रियन्ते ।तस्मिन्प्रजासस्कारा इत्येके ।४।
स एष उपनयनप्रभृति व्याहृतिभिस्समिद्भिर्हूयत आ समावर्तनात्।५।
समावर्तनप्रभृति आज्येन व्याहृतिभिरेव हूयत आ पाणिग्रहणात्।६।
पाणिग्रहणप्रभृति व्रीहिभिर्यवैर्वा ।७।
हस्तेनैते आहुती जुहोति अग्नये स्वाहा प्रजापतये स्वाहा इति सायम्।८।
सूर्याय स्वाहा प्रजापतये स्वाहा इति प्रातरपि ।९।
अग्निहोत्रहविषामन्यतमेन हूयते ।१०।
अथास्य पार्वणः प्रसिद्ध आग्नेयस्थालीपाकः तस्यायुधानि भवन्त्युलूखलमुसले कृष्णाजिनं शूर्पं स्फ्यः चरुस्थाल्याज्यस्थाली स्रुक्स्रुवं दर्वी मेक्षणमिति ।११।
अथामावास्यायां प्रसिद्धः पिण्डपितृयज्ञः ।१२।
नात्र गार्हपत्यशब्दो विद्यते ।१३।
एतेनास्य दर्शपूर्णमासयाजित्वम्।१४।
उपनयनादिरग्निस्तमौपासन इत्याचक्षते ।१५।
पाणिग्रहणादिरित्येके ।१६।
नियो धार्यो ऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः ।१७।
उपवासश्चानुगते ऽन्यतरस्य भार्यायाः पत्युर्वा ।१८।
अपि वैकां जुहुयातयाश्चाग्ने इति ।१९।
अथास्याहुतप्रायश्चित्तं मनो ज्योतिर्जुषातामिति ।२०।
अथास्यातिपन्न प्रायश्चित्तमग्ने नया देवानामिति ।२१।
अथास्याव्रत्यप्रायश्चित्तं त्वमग्ने व्रतपा असि यद्वो वयमिति ।२२।
अथास्यानाज्ञातप्रायश्चित्तमनाज्ञातं पुरुषसम्मितः इति ।२३।
अथ यद्युखा भिद्येत तामभिमन्त्रयते अभिन्नो घर्मो जीरदानुर्यत आत्तस्तदगन्पुनः इति ।२४।
अथाज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा सन्तनीं जुहोति इध्मो वेदिः परिधयश्च सर्वे यज्ञस्यायुरनुसञ्चरन्ति ।त्रयस्त्रिंशत्तन्तवो ये वितत्रिरे य इमं यज्ञं स्वधया मदन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा इति ।२५।
अथान्यामाहरति घर्मो देवानाप्येतु इति ।२६।
एकाहं मनस्वतीं द्व्यहं वारुणीं त्र्यहं तन्तुमतीं चतस्रो ऽभ्यावर्तिनीराद्वादशाहात्।२७।
द्वादशाहं विच्छिन्नः पुनराधेयः ।२८।
अथ यदि द्वादशाहं विच्छिन्नः पुनराधेयस्स्याद्या प्रकृतिस्तत आहरणं प्रणवेनाहाति ब्रह्मा प्रणवेन प्रसौति ।२९।
व्याहृतिभिस्पिकतोपोप्ते यथोपपादमग्न्याधेयिकान्सम्भारानाहृत्य व्याहृतिभिर्नियुप्योपसमाधायोपतिष्ठते जुष्टोदमूनाः इति ।३०।
अथैनं प्रदक्षिणमग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य संसृज्य स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्यग्नौ परिशृते पूर्णाहुतिं जुहोत्यपरिशृते वा सप्त ते अग्ने इति ।३१।
पूर्णाहुतौ वरं ददाति धेनुमृषभमनड्वाहं कंसं हिरण्यं वासो वा इति ।३२।
अपरं चतुर्गृहीतं गृहीत्वा तिस्रस्तन्तुमतीर्विग्राहं जुहोति तन्तुं तन्वनुद्बुध्यस्वाग्ने त्रयस्त्रिंशत्तन्तवः इति ।३३।
अपरं चतुर्गृहीतं गृहीत्वा चतस्रो ऽभ्यावर्तिनीर्विग्राहं जुहोति अग्ने ऽभ्यावर्तिनग्ने अङ्गिरः पुनरूर्जा सहरय्या इति ।३४।
अपरं चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति मनो ज्योतिः इति ।३५।
अपरं चतुर्गृहीतं गृहीत्वा प्राजापत्यां जुहोति प्रजापते न त्वदेतान्यन्यः इति ।३६।
अपरं चतुर्गृहीतं गृहीत्वा ऽनुख्यां जुहोति अन्वग्निरुषसामग्रमख्यतिति ।३७।
अपरं चतुर्गृहीतं गृहीत्वा प्रायश्चित्तं जुहोति अयाश्चाग्ने इति ।३८।
अपरं चतुर्गृहीतं गृहीत्वा ज्योतिष्मतीं जुहोति उद्वयं तमसस्परि इति ।३९।
अपरं चतुर्गृहीतं गृहीत्वा ऽऽयुर्दां जुहोति आयुर्दां अग्ने इति ।४०।
अपरं चतुर्गृहीतं गृहित्वा द्वे मिन्दाहुती जुहोति यन्म आत्मनो मिन्दा ऽभूत्पुनरग्निश्चक्षुरदातिति ।४१।
अपरं चतुर्गृहीतं गृहीत्वा व्याहृतीर्व्यस्तास्समस्ताश्च जुहोति ।४२।
एकाहुत्या वा प्रतिसन्धानं पुनस्त्वादित्या रुद्रा वसवः इति ।४३।
अथास्याध्वनि समारोपणमयं ते योनिरृत्वियः इति ।४४।
अरण्योर्वा समारोप्य मथित्वा जुहुयात्।४५।
अपि वात्मानि समारोपणं भवति या ते अग्ने यज्ञिया तनूः इत्यात्मनि समारोप्य उपावरोह जातवेदः इति लौकिके ऽग्नावुपावरोह्य जुहुयात्।४६।
अपि वा अयं ते योनिरृत्वियः इति समिधि समारोप्य आजुह्वानः उद्बुध्यस्वाग्ने इति द्वाभ्यां लौकिके ऽग्नौ सैमधमभ्याधाय जुहुयात्।४७।
आत्मानि समारूदेष्वग्निषु न खादेन्न पिबेन्नोपरिशय्यायां शयीत नाप्सु निमज्यान्न मैथुनं व्रजेत्।४८।
कामं खादेत्कामं पिबेत्कामं त्वेवोपरि शय्यायां शयीत पालाशीमाश्वत्थीं खादिरीमौदुम्बरीं वा ।४९।
तेषामेतेन प्रसिद्धं समारोपणम्।५०।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने षोडशो ऽध्यायः
BaudhGSPB.1.col.
स यद्यौपासनं धारयति ।त्रयः स्नातका भवन्ति ।अथ व्रतस्नातकस्य ।वेदमधीत्य स्नास्यन्।अथोपनीतस्य ।सा यदि पुत्रप्रसूः ।अत्राग्न्याधेयस्य कालः ।अथ वै भवति किञ्चित्।अथ दशमे ऽहनि ।अथ विवाहस्य ।सर्वत्र दर्वीहोमेषु ।अथ शुचौ समे देशे ।अथापरेद्युर्देवानाम्।विष्णुश्च ह वै ।अथ वै भवति सर्वेण वै ।अथ वै भवति जायमानः ।१६।
अथ वै भवति जायमानः ।अथ वै भवति सर्वेण वै ।विष्णुश्च ह वै ।अथापरेद्युर्देवानाम्।अथ शुचौ समे देशे ।सर्वत्र दर्वीहोमेषु ।अथ विवाहस्य ।अथ दशमे ऽहनि ।अथ वै भवति किंचित्।अत्राग्न्याधेयस्य कालः ।सा यदि पुत्रप्रसूः ।अथोपनीतस्य ।वेदमधीत्य स्नास्यन्।अथ व्रतस्नातकस्य ।त्रयस्स्नातका भवन्ति ।स यद्यौपासनं न धारयति ।१६।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमः प्रश्नः समाप्तः
BaudhGSPB.2.1