बौधायनगृह्यसूत्रम्/गृह्यशेषः/प्रश्नः ५

विकिस्रोतः तः

अथ पञ्चमप्रश्ने प्रथमो ऽध्यायः
अथाग्निमुखप्रयोगः ।१।
शुचौ समे देशे गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य तत्र प्राङ्मुखस्स्नानादिपञ्चकं कृत्वोपविश्य स्फ्येनोद्धत्यावोक्ष्य पञ्चप्रस्थसिकताभिस्स्थण्डिलकरणं व्याहृतीभिर्नियुप्यारत्निमात्रं समचतुरश्रं कृत्वा तस्मिन्प्रादेशमात्रं चतुरश्रं दर्भैः त्रिःप्राचीनमुल्लिखेदङ्गुष्ठानामिकाभ्यां कनिष्ठिकया वा ब्रह्म जज्ञानमिति मध्ये ।दक्षिणे नाके सुपर्णमुत्तरे आप्यायस्व इति त्रिरुदीचीनम्।मध्ये यो रुद्रः इत्यप उपस्पृश्य पश्चिमे इदं विष्णुः प्राच्यां इन्द्रं विश्वा अवीवृधनिति दर्भं निरस्याप उपस्पृश्याग्नेरासनं कल्पयित्वा यथोक्तमग्निं पत्न्याहृतमङ्गाररूपं व्याहृतीभिर्नियुप्य तत्पात्रे ऽक्षतजलं निनयेत्।२।
अथ प्रोक्षितस्थूलकाष्ठत्रयेण तूष्णीमन्वाधायोपतिष्ठते ऽग्निम्जुष्टो दमूनाः इति ।३।
अथासनं कल्पयित्वा तृणं निरस्याप उपस्पृश्यात्र वा पूर्वे दक्षिणतः पश्चादुत्तरतो ऽथैनं प्रदक्षिणमग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्य दक्षिणानुत्तरानुत्तरानधरान्।४।
पात्रोत्तरासनं ब्रह्मदक्षिणासनं प्रणीतोत्तरासनं पश्चादात्मासन सर्वं कल्पयित्वा पात्राणि सादयेदाज्यस्थालीं स्रुवं च जुहूं प्रणीतां च चरुस्थालीं प्रोक्षणीं चेध्माबर्हिश्चेध्मप्रव्रश्चनानि मेक्षणं च सादयित्वा दर्भैः प्रतिच्छाद्य शूर्पं कृष्णाजिनं चेत्यत्र दर्वीहोमो विकल्पे ।५।
अथ बर्हिषः पवित्रे कुरुते प्रादेशमात्रे समे अप्रतिच्छिन्नाग्रे अनखच्छिन्ने तरुणे तूष्णीमद्भिरनुमृज्य कृत्वा प्रोक्षण्यां निधायाप आनीय त्रिरुत्पूयाद्भिः प्रोक्ष्योत्तानानि पात्राणि कृत्वा विस्रस्येध्मं त्रिः प्रोक्ष्य ब्राह्मणमिष्टिवद्दक्षिणत उपवेश्य ओं भूर्भुवस्सुवर्ब्रह्मन्ब्रह्मासि नमस्ते ब्रह्मन्ब्रह्मणे इति ब्राह्मणमुपतिष्ठत आदिशो व्युन्नयनादास्ते ।६।
यद्वा कूर्चमुपवेश्याभ्यर्च्य प्रणीतायां सपवित्रायां वरुणं पूजयित्वा सह पवित्रेण नासिकासममुत्थाप्योत्तरतस्सादयन्ति भूर्भुवस्सुवरों वरुणोसि घृतव्रतो वारुणमसि इति तमभ्यर्च्य दर्भैः प्रतिच्छाद्याथ व्रीहीन्निर्वपति अमुष्मै वो जुष्टं निर्वपामि इति वा तूष्णीं वा ।एवं त्रिस्सकृत्तूष्णीम्।७।
तथा तानभ्युक्ष्यावहत्य त्रिष्फलीकृत्य त्रिःप्रक्षाऌय निदधाति ।तण्डुलान्वा निर्वपति ।तानभ्युक्ष्य त्रिः प्रक्षाऌअयैवं निदधाति ।स्थाल्यामपः पयो वानीयाधिश्रित्य तिरःपवित्रं तण्डुलानावपति ।८।
अथ पक्वमोदनं पायसं वा याचति ।९।
तमभ्युक्ष्य स्रुवेण प्रणीताजलं निनयति ।१०।
अग्नावधिश्रित्याथाज्यस्थाल्यामाज्यं निरूप्योदीचो ऽङ्गारान्निरूह्य व्यन्तान्कृत्वा तेष्वधिश्रित्याभिद्योतनेनाभिद्योत्य द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाऌय प्रत्यस्य पुनरभिद्योत्योभयं त्रिः पर्यग्नि कृत्वा वर्त्म कुर्वन्नुदगुद्वास्य प्रत्यूह्याङ्गारानथैनदुदीचीनाग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय विस्रस्य पवित्र अद्भिस्संस्पृश्याग्नावनुप्रहरति ।११।
अथ स्रुवं जुहूं मेक्षणं च संमृज्य त्रिरन्तरतस्त्रिर्बाह्यतस्तथा मूलैर्मूलं संमृज्याद्भिस्संस्पृश्य पुनर्निष्टप्य निदधाति क्रमेण ।१२।
अथ दर्भानद्भिस्संस्पृश्याग्नावनुप्रहरति ।१३।
पश्चादग्नेर्बर्हिस्तीर्त्वा तत्राज्यं निदधाति चरुमभिचार्योदञ्चमुद्वास्य बर्हिष्यासाद्य प्रतिष्ठितमभिघारयति ।१४।
स्थविष्टो मध्यमो द्राघीयान्दक्षिणतो ऽणिष्ठो ह्रसिष्ठ उत्तरत ऊर्ध्वे समिधावादधाति ।१५।
अथाग्निं परिषिञ्चति अदिते ऽनुमन्यस्व इति दक्षिणतः प्राचीनमनुमते ऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वते ऽनुमन्यस्व इत्युत्तरतः प्राचीनं देव सवितः प्रसुव इति समन्तं प्रदक्षिणम्।समन्तमेव वा तूष्णीं परिषिञ्चति ।१६।
अथाग्निमैन्द्रादिक्रमेणाभ्यर्च्य परिसमिधं शिनष्टि ।ब्राह्मणेनानुज्ञातस्स्वाहाकारेणाभ्याधायानूयाजसमिधमिध्मसंनहनं प्रणीतापात्र निधायाघारावाघारयति प्रजापतये स्वाहा इति मनसोत्तरे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम्।इन्द्राय स्वाहा इत्युपांशु दक्षिणे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम्।१७।
अथाज्यभागौ जुहोति अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे ।१८।
प्रतिमुखं प्रबाहुग्जुहोति सोमाय स्वाहा इति दक्षिणार्धपूर्वार्धे ऽथाग्निमुखं जुहोति युक्तः चतस्रः आरभ्य व्याहृत्यन्तं हुत्वा ऽथ चरुप्रायश्चित्तं हुत्वा चरुमभिघार्याथाव्रत्यप्रायश्चित्तं कृत्वा स्रुवेण जुह्वामुपस्तीर्य मेक्षणेन चरुमालोड्य पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति पुरस्तात्स्रुवाहुतिं हुत्वा यथोक्तं पक्वाज्जुहोत्युपरिष्टात्स्रुवाहुतिं च ।१९।
अथोपस्तीर्योत्तरार्धात्स्विष्टकृत्सकृदवद्यति द्विरभिघारयति न इत्यनक्त्यन्तःपरिधि सह मेक्षणेन सादयित्वा यथोक्तमाज्याहुतीर्जुहोति ।२०।
अथ पुरस्तात्स्रुवाहुतिं स्विष्टकृतमुपरिष्टात्स्रुवाहुतिं च हुत्वा ऽप उपस्पृश्य मेक्षणमग्नौ प्रहृत्याथैनत्संस्रावेणाभिजुहोति स्रुक्स्रुवाभ्याम्।२१।
जुहूसङ्क्षाऌअनमन्तःपरिधि निनयति ।२२।
निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वा बहिःपरिधि निनयति ।२३।
स्थालीपाके ऽन्तःपरिधि वहिःपरिधि समन्त्रकम्।२४।
अथानूयाजसभिधमाधायेध्मसंहनमद्भिस्संस्पृश्याग्नावनुप्रहरति ।२५।
अथ जयानभ्यातानान्राष्ट्रभृतो ऽमात्यहोमांश्च हुत्वा ऽथ चतुर्गृहीतेन स्त्रुवेण वा प्राजापत्यं हुत्वा इध्मप्रव्रश्चनान्यभ्याधाय प्रायश्चित्तानि सौविष्टकृतं च हुत्वा स्त्रुवेण परिधीननक्ति ।२६।
अथ परिस्तरांत्समुल्लिप्याज्यस्थाल्यां प्रस्तरवद्बर्हिरक्त्वा तृणं प्रच्छाद्याग्नावनुप्रहरति ।२७।
अप उपस्पृश्य तृणं च मध्यमं परिधिमनुप्रहरति ।२८।
अथेतरावुपसमस्यत्यूर्ध्वसमिधौ च ।२९।
अथैनान्संस्रावेणाभिजुहोति वसुभ्यः इति ।३०।
अत्र बलिं प्राशनं चान्यत्रोपनयनादन्यानि तत्तदुक्तकर्माणि ।३१।
अथाग्निं परिषिञ्चति अन्वमंस्थाः प्रासावीः इति ।३२।
वरुणमुद्वास्य बर्हिषि दिशो व्युन्नीय प्राच्यामित्यादिना स्वयं च प्रोक्ष्य ब्रह्मणे वरं दत्वा चरुशेषं सघृतं वा ब्रह्माणं विसृजति ।३३।
स्थालीपाकनक्षत्रहोमायुष्यहोमादिषु प्राशनमुक्तम्।३४।
पञ्चावत्तिनां पञ्चावदानं मध्यात्पूर्वार्धादपरार्धादवद्यति ।३५।
स्विष्टकृत उत्तरार्धात्द्विरवद्यति ।३६।
शेषं पूर्ववत्।३७।
अथ बहुदेवत्ये द्वितीयमवदानमपरार्धादवदाय पूर्वार्धादवद्यति ।सर्वमेवमा ऽन्तात्।३८।
अथ स्विष्टकृत उपस्तीर्य यावती देवतासङ्ख्या तावदवदानं सकृत्सकृत्।शेषं समानम्।३९।
तथा मध्यादपरार्धात्पूर्वार्धादवद्यति ।४०।
स्विष्टकृतो द्विर्द्विरवद्यति ।शेषं समानं भवति ।४१।
सर्वन्यायं ज्ञात्वाचार्यमुखेन कुर्यात्।४२।
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने प्रथमो ऽध्यायः
BaudhGSS.5.2
अथ पञ्चमप्रश्ने द्वितीयो ऽध्यायः
अथ विवाह्यकन्यारजस्वलाप्रायश्चित्तादिविधिं व्याख्यास्यामः
विवाहे वितते यज्ञे होमकाल उपस्थिते
कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः ।१।
यजः पवित्रैस्सावित्र्या प्रोक्षयेत्पूतवारिभिः
अनेन चानुवाकेन पवमानस्सुवादिना ।२।
स्रापयित्वा ऽथ विद्वद्भिरन्यवस्त्रादलङ्कृताम्
पूर्णाहुत्यथ मिन्दाभ्यां महाव्याहृतिभिस्सह ।३।
हुत्वा तन्तुमतीं चैव व्याहृतीभिस्तथैव च
अनाज्ञातं च विद्वद्भिश्शेषं कार्यं समाचरेत्।४।
प्रधानहोमे निर्वृत्ते मलवद्वाससी भवेत्
त्रियहे पर्यवेते ऽथ शेषकार्यं समाचरेत्।५।
लाजमाज्यं स्रुवं चैव प्रणीताश्मानमेव च
सर्वमभ्यन्तरं कृत्वा ब्रह्मैवैको बहिर्भवेत्।६।
दक्षिणां दिशमाश्रित्य यमो मृत्युश्च तिष्ठति
दम्पत्यो रक्षणार्थाय ब्रह्मैवैको बहिर्भवेत्।७।
अङ्गुऌयग्रैर्न होतव्यं न कृत्वा ऽञ्जलिभेदनम्
दञ्जलेर्वामभागेन लाजहोम इति स्मृतः ।८।
आद्यं प्रदक्षिणं कुर्याद्ब्रह्मणा सह मानवः
प्रदक्षिणत्रयं पश्चाद्विना तमिति केचन ।९।
नामादिनान्दीकरणमाशिषं द्विजभोजनम्
रक्षाबन्धनमन्नादि चौऌआद्यङ्कुरमेव च ।१०।
गर्भवर्जोत्सवात्पूर्वमयुगे ऽह्न्यङ्कुरार्पणम्
प्रदोषे वा ऽथ सायाह्ने गुणाधिक्य्ऽह्नि वेष्यते ।११।
आधानगर्भसंस्कारजातकर्माणि नाम च
हित्वा ऽन्यत्र विधातव्यं मङ्गऌआङ्कुरवापनम्।१२।
पुंसि नामान्नचौऌओपस्नानपाणिग्रहेषु च
अग्न्याधाने च सोमे च दशस्वभ्युदयं स्मृतम्।१३।
आधाने सोमयागे च दम्पत्योरुभयोरपि
सीमन्ते पुंसवे गर्भे स्त्रिया एव तु कौतुकम्।१४।
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने द्वितीयो ऽध्यायः
BaudhGSS.5.3
अथ पञ्चमप्रश्ने तृतीयो ऽध्यायः
अथ ऋतुशान्तिं व्याख्यास्यामः तिथिवारनक्षत्रयोगकरणलग्नदोषशान्त्यर्थं चतुर्थे वा पञ्चमे ऽह्नि वा शान्तिस्नानं प्रकुर्वीत ।१।
देवालये गृहे वा प्रस्थाष्टभिर्धान्यैस्तदर्धं तण्डुलैस्तदर्धं तिलैश्चोपर्युपरि चतुरश्रमरत्निमात्रं चतुरश्रं स्थण्डिलं कृत्वा तन्मध्ये नऌइनमुल्लिख्य तस्मिन्तन्तुवेष्टितं कुम्भं निधाय तूष्णीं संस्कृताभिरद्भिः प्रोक्ष्य ब्रह्म जज्ञानमिति कुम्भं निधाय सपवित्रेण आपो वा इदं सर्वमित्येतेनानुवाकेन अब्लिङ्गाभिश्च कुम्भमुदकैः पूरयित्वा गन्धादिभिरलङ्कृत्य कूर्चमन्तर्धाय गजाश्वरथवल्मीकमृदमाहृत्य गोकुलात्चतुष्पथाद्राजगृहात्तुलसीबिल्वमूलयोः ।२।
देवालयात्पर्वताद्वा गृह्णीयात्पञ्च मृत्तिकाः पालाशोदुम्बराश्वत्थवटप्लक्षकयाज्ञिषु ।३।
जम्बूबिल्वकपित्थाम्रशिरीषेषु च पल्लवान्तेषां त्वचश्च पञ्चैव गृह्णीयात्संभवेषु वै ।४।
इत्युक्तरीत्या पञ्च मृत्तिकाः पञ्च पल्लवान्पञ्च त्वचश्च निक्षिप्य नवरत्नमीषत्काञ्चनं नववस्त्रेणाच्छाद्य चूतपल्लवैर्बिल्वपल्लवैर्वा ऽवकीर्य नाऌइकेरफलेनापिधाय दर्भैर्दूर्वादिना प्रतिच्छाद्यालङ्कृत्य संपरिस्तीर्य पुरुषं पुण्डरीकाक्षं ध्यात्वा कुम्भं संपूज्य श्रोत्रियान्विप्रान्षडष्टौ वा वरणपूर्वकमभ्यर्च्याचार्यं चाभ्यर्चयेत्।५।
त ऋत्विजः कुम्भमन्वारभ्य वैष्णवीं गायत्रीमष्टसहस्रमष्टशतं वा वदन्तो वेदादीनापो हिष्ठा मयोभुवः इति तिस्रः हिरण्यवर्णाः पवमानः इत्यनुवाकौ वरुणसूक्तं श्रीसूक्तं पुरुषसूक्तं पञ्चशान्तिमृचां प्राची इत्येतमनुवाकं च जपेयुः ।नमो ब्रह्मण इति परिधानायां त्रिरन्वाह इति ब्राह्मणम्।६।
प्रणवेनोत्थाप्य आभिर्गीर्भिः इति जपेयुः ।७।
अथालङ्कृतामङ्कण उरुविष्टर आसीनां देवस्य त्वा इति त्रिभिः प्रोक्ष्य ऋतं च सत्यं च इति त्रिभिर्मन्त्रैः ऋत्विजः स्नापयेयुः ।८।
ततो नारीं पञ्चगव्यं प्राशयेत्।९।
गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयमाप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि तथा शुक्रमसीत्याज्यं देवस्य त्वा कुशोदकमिति पञ्चगव्यम्।१०।
अथ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रमुपलिप्य लौकिकमग्निं श्रोत्रियागारादाहृत्य स्वगृह्योक्तविधानेना ऽग्निमुखात्कृत्वा पालाशसमिद्भिरष्टोत्तरशतं विष्णुसूक्तेन जुहुयात्।११।
तथा ब्रह्मसूक्तेनान्नं रुद्रसूक्तेनाज्यम्।१२।
एतानि सूक्तान्यष्टादशकृत्वः प्रत्येकमावर्तयेत्तदानीं अष्टोत्तरशतं संपद्यते ।१३।
अथर्तुनक्षत्रस्य समिदन्नाज्याहुतीः प्रत्येकमष्टाविंशतिकृत्वः तन्मन्त्रेण जुहुयात्।१४।
मन्त्रौ चतुर्दशकृत्व आवर्तयेत्।१५।
अथ त्रियम्बकेन तिलहोममष्टोत्तरशतं जुहुयात्।१६।
अथाज्याहुतीर्घृतसूक्तेनाष्टौ जुहुयात्।१७।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।१८।
अथ ऋत्विग्भ्यो दक्षिणां ददात्याचार्याय विशेषतः ।१९।
एवं यदि शान्तिं कुर्यात्ततो नारी दोषान्मुच्यते सर्वारिष्टशान्तिरस्त्वित्याह भगवान्बोधायनः ।२०।
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने तृतीयो ऽध्यायः
BaudhGSS.5.4
अथ पञ्चमप्रश्ने चतुर्थो ऽध्यायः
अथातो मृत्तिकास्नानविधिं व्याख्यास्यामः ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजको वा अश्वक्रान्ते सहस्रपरमा देवी इति भूमिं दूर्वाभिरभिमन्त्र्य उद्धृता ऽसि इति नदीतटे लोष्टमादाय काण्डात्काण्डात्प्ररोहन्ती इति द्वाभ्यां दूर्वामादाय मृत्तिके हन मे पापमिति दूर्वा लोष्टे प्रतिष्ठाप्य यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः स्वस्ति न इन्द्रो वृद्धश्रवाः त्रातारमिन्द्रमापान्तमन्युः परं मृत्यो अनु परेहि इति षड्भिः प्रतिमन्त्रं प्रदक्षिणं प्रतिदिशं लोष्टमुत्सृज्य गन्धद्वारामिति लोष्टमादाय उदुत्यं जातवेदसमिति लोष्टमादित्यं दर्शयित्वा श्रीर्मे भजत्वलक्ष्मीर्मे नश्यतु इति शिरः प्रदक्षिणीकृत्य सहस्रशीर्षा इति शिर आलिप्य विष्णुमुखाः इति मुखमोजो ग्रीवाभिः इति ग्रीवां महां इन्द्रो वज्रबाहुः इति बाहू सोमानं स्वरणमिति कक्षः शरीरं यज्ञशमलमिति शरीरं नाभिर्मे चित्तमिति नामिं आपान्तमन्युः इति कटिम्विष्णो रराटमासि इति पृष्ठम्वरुणस्य स्कम्भनमसि इति मेढ्रमानन्दनन्दौ इत्यण्डौ उरुवोरोजः इत्यूरू ऊरू अरत्नी इति जानुनी जङ्घाभ्यामिति जङ्घयोः चरणं पवित्रमिति चरणौ इदं विष्णुः त्रीणि पदा इति द्वाभ्यां पादौ सजोषा इन्द्र इति शेषं दूर्वासहितं लोष्टं शिरसि निधाय हिरण्यशृङ्गमिति तीर्थं गत्वा सुमित्रा न आप ओषधयस्सन्तु इत्यात्मानमभिषिञ्चेत्।उदकाञ्जलिमादाय लोष्टदेशे निनीय दुर्मित्रास्तस्मै भूयासुः इति प्रथमं यो ऽस्मान्द्वेष्टि इति द्वितीयं यं च वयं द्विष्मः इति तृतीयम्।हिरण्यशृङ्गमिति चतुर्थं आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानस्सुवर्जनः इत्यनुवाकेन च मार्जयित्वा नमो ऽग्नये ऽप्सुमते इति नमस्कृत्य यदपां क्रूरमित्यद्भिः त्रिरावृत्य इमं मे गङ्गे इत्यभिमन्त्र्य ऋतं च सत्यं च इत्यघमर्षणसूक्तेनापो ऽवगाह्य एष भूतस्य इति मार्जयित्वा आर्द्रं ज्वलति इति पीत्वा अकार्यकारी इति पुनरवगाह्य देवानृषीन्पितॄन्तर्पयित्वा येकेचास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ।ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम्।इति वस्त्रं निष्पीड्य शुची वो हव्या इति वस्त्रं प्रोक्ष्य देवस्य त्वा इति वस्त्रमादाय अवधूतमित्यवधूय उदुत्यं चित्रमिति वस्त्रमादित्यं दर्शयित्वा आवहन्ती वितन्वाना इति वासः परिधाय द्विराचम्योत्क्रामन्तु भूतप्रेतपिशाचाद्यास्सर्वे ते भूमिभारकाः ।सर्वेषामविरोधेन ब्रह्मकर्म समारभे ।इति दर्भासनं प्रतिष्ठाप्योप्य त्रिः प्राणानायम्याष्टोत्तरशतं गायत्रीं जपेत्।२।
ब्राह्मणः पूतो भवति ।३।
ब्रह्महत्यागोवधगुरुतल्पसुगपानसुवर्णस्तेयादिसर्वपापप्रणाशनमिति विज्ञायते ।४।
हित्वा तद्देहं
जनार्दनं प्रपद्यत इत्याह भगवान्बोधायनः ।५।
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने चतुर्थो ऽध्यायः
BaudhGSS.5.5
अथ पञ्चमप्रश्ने पञ्चमो ऽध्यायः
अथातो ऽर्कोद्वाहं व्याख्यास्यामः मूकान्धबधिरादीनां जडानां च तृतीयविवाहिनां च ।१।
पूर्वपक्षे पुण्ये नक्षत्रे पूर्वाह्ने ब्रह्मसमूहे ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रैको बालो ऽर्को भवति तस्योत्तरत उपलिप्य स्वयं स्नात्वा ऽर्कं च स्नापयित्वा पादौ प्रक्षाऌयाचम्यालङ्कृत्य तन्त्रेण नान्दीमुखं कृत्वा स्वस्तिसूक्तं वाचयित्वा यत्किंचिद्धिरण्यं गृहीत्वा आसत्येन इति जपित्वा ब्राह्मणेभ्यो दत्वा ऽलङ्कृत्यार्कं स्पृष्ट्वा ऽऽदित्यमुपतिष्ठते सूर्यो देवीमिति पञ्चभिः ।२।
अथ वस्त्रं माङ्गल्यसूत्रं चार्के बध्वा पुण्याहं स्वस्ति ऋद्धिमिति वाचयेदादित्योत्र देवता ।३।
पूर्वोक्तविधिना ऽग्निमुखमुपसमाधाय संपरिस्तीर्याज्यं संस्कृत्य स्रुक्स्रुवं संमृज्यादित्यं ध्यायन्नर्कं गृह्णाति हस्तः प्रयच्छत्वमृतमिति ।४।
अथाग्निं प्रदक्षिणं करोति परि त्वा ऽग्ने पुरं वयमिति ।५।
अथार्कमूलं स्पृष्ट्वा ऽऽदित्यभीक्षते अभीवृतं शकुनैर्विश्वरूपमिति ।६।
अथ व्याहृतीर्हुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा जुहोति उद्वयं तमसस्परि उदुत्यं चित्रमिति ।७।
अपरं चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति मनो ज्योतिः इति ।८।
अपरं चतुर्गृहीतं गृहीत्वा लाजमन्त्रेण द्विरावर्त्य जुहोति ।९।
अथ स्रुवेण व्याहृतीर्हुत्वा समाप्यादित्यं व्रतऋग्भ्यामुपतिष्ठते अदाभ्यो भुवनानि प्रचाकशत्त्रिरन्तरिक्षं सविता महित्वना इति द्वाभ्याम्।१०।
अथ गोक्षीरमर्कं स्पृष्टा आयुष्यसूत्तमुक्त्वा प्राश्याचम्य पुनरादित्यमुपतिष्ठते अचित्ती यच्चकृम इति ।११।
अथार्काधिदैवतमुद्वास्यार्कमुत्पाट्य व्याहृतीभिरग्नौ दग्ध्वा स्नात्वा यत्किञ्चिद्दत्वा शुद्धो भवति ।१२।
सद्य एवं कदऌईविवाहं कुर्यात्।१३।
कदऌईं छित्वा त्रिरात्रमशुचिर्भवति ।१४।
अथाप्युदाहरन्ति अर्कोद्वाहो जडादीनामुच्यते तु यवीयसः विवाहार्थं मुनिश्रेष्ठैः तमुत्पाट्य दहेत्तदा व्याहृतीभिस्तदा दत्वा यथाशक्ति हिरण्यकम्स्नात्वा सद्यश्शुचिर्भूयादुद्वाहे च तृतीयके तृतीया स्त्री म्रियेच्छीघ्रं तस्मादेवं चरेद्बुधः रम्भोद्वाहं तथा कुर्याच्छित्वा तत्रैव मानवः त्रिरात्रं सूतकं भूयादिति बोधायनो ऽब्रवीत्।१५।
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने पञ्चमो ऽध्यायः
BaudhGSS.5.6
अथ पञ्चमप्रश्ने षष्ठो ऽध्यायः
अथातः पञ्चमीश्राद्धं व्याख्यास्यामः मार्गशीर्ष्यां माध्यां प्रोष्ठपद्यां वोपरिष्टात्पञ्चम्यामारभ्य संवत्सरं वा कुर्यात्।१।
पूर्वदिने व्रती भूयातिदं करिष्याम्येवं करिष्यामि इति ।२।
ब्राह्मणान्निमन्त्रयते योनिगोत्रश्रुतवृत्तसम्पन्नान्।३।
असबन्धानपि श्रुतवृत्तसम्पन्नान्निमन्त्रयते ।४।
तस्य मासि श्राद्ध उक्त एतावदेव नाना ।५।
पुरस्तात्स्विष्टकृत एता आहुतीर्जुहोति आयुष्टे आयुर्दा अग्ने जातो यदग्ने अन्नपते ऽन्नस्य नो देहि इति चतस्रः ।६।
विष्णुसूक्तेन चान्नस्य जुहोति ।७।
अथ लाजैर्जुहोति पुरुषसूक्तेन प्रत्यृचम्।८।
अथ तिलैर्जुहोति शं नो देवीः प्रजापते इमं यम प्रस्तरम्व्याहृतीभिश्च ।९।
अथाज्यस्य जुहोति अग्न आयूंषि पवसे अग्ने पवस्व यस्त्वा हृदा कीरिणा इति चतस्रः धाता ददातु नो रयिमीशानः इत्यान्तादनुवाकस्य प्रत्यृचमव ते हेडः उदुत्तममिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अया ऽसि उद्वयं तमसस्परि उदुत्यं चित्रं वैश्वानरो न ऊत्या पृष्टो दिवि सोमो धेनुमिति दशहोत्राद्यैष्षड्भिः ब्राह्मण एकहोता इति दशभिः ।स्विष्टकृत्प्रभृति सिद्धमापिण्डदानात्।१०।
दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य तेष्वन्नशेषैस्त्रीन्पिण्डान्ददाति ।११।
दशमे ऽहनि वैवाहिकश्राद्धवत्भूमौ लेपमन्त्रत्रयान्तं कृत्वा ऽथैनान्संक्षाऌअनेन त्रिरपसलैः परिषिञ्चति ऊर्जं वहन्तीः इति ।१२।
अथ मध्यमपिण्डं पत्न्यै प्रयच्छति वीरं मे दत्त पितरः इति ।१३।
तं पत्नी प्राश्नाति आधत्त पितरो गर्भं कुमारं पुष्करस्रजम्।यथेह पुरुषो हसतिति पुमांस एव मे पुत्रा जायेरमिति ब्राह्मणम्।१४।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।१५।
यदि जीवपिता पिण्डं न दद्यात्पितृभ्यस्स्वधा इति मन्त्रान्सन्नमय्य प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य चतुष्पथे दर्भस्तम्बेषु बलिमुपहरति ।१६।
नमस्त्रियै नमः पुंसे नमस्सवयसे नमः शुक्लाय कृष्णदन्ताय पापिनां पतये नमः ।१७।
ये मे प्रजामुपलोपयन्ति ग्रामे वसन्त उत वा ऽरण्ये तेभ्यो नमो अस्तु बलिमेतेभ्यो हरामि स्वस्ति मे ऽस्तु प्रजां मे दध इति ।१८।
सह देवमनुष्या अस्मिन्लोके पुरा बभूवुरथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्यास्तेषां ये तथा कर्माण्यारभन्ते सह देवैर्ब्रह्मणा चामुष्मिन्लोके भवन्त्यथैतन्मनुश्श्राद्धशब्दं कर्म प्रोवाच प्रजानिश्श्रेयसाय इति पञ्चम्यां श्राद्धेन बह्वयत्यो भवति ।न चानपत्यः प्रमीयते ।श्राद्धेन वार्षयो दिवमागच्छनिति ।१९।
विज्ञायते च प्रजामनुप्रजायसे ।तदु ते मर्त्यामृतमिति ।२०।
तस्मिन्प्रजापतौ यत्नः कार्यः ।अत्रोदाहरन्ति ।२१।
परानपहरेद्यस्तु बालवृक्षान्छिनत्ति यः भक्षयन्दण्डिशिशुकान्गुरून्वा सर्वदा द्विषन्।२२।
परपुत्रांश्च यो द्वेष्टि क्रीडन्बद्धमृगादिभिः निर्दयस्सर्वभूतेषु पितृपूजां विलोपयन्।२३।
स वध्यो मृतपुत्रो वा भवेत्तेषां तु निष्कृतिः मौनी व्रती हविष्याशी हूयते नियतेन्द्रियः ।२४।
जुह्वा घृतेन कूश्माण्डैर्गणानष्टौ घृतोदनैः जपन्वा पौरुषं सूक्तं हेमगोभूतिलान्ददत्।२५।
कृच्छ्रातिकृच्छ्रैः जपकृन्मुच्यते सो ऽहसः क्षणातित्याह भगवान्बोधायनः ।२६।
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने षष्ठो ऽध्यायः
BaudhGSS.5.7
अथ पञ्चमप्रश्ने सप्तमो ऽध्यायः
अथातो वनस्पतिहोमं व्याख्यास्यामः क्रमुकपनसनाऌइकेरकदऌईष्वन्यस्मिन्पक्वे ब्राह्मणैर्बन्धुभिस्सहागत्य यजमानः क्रमुकादिवृक्षमध्ये अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा ऽग्नेर्दक्षिणतो व्रीहीनवकीर्य मेधां म इन्द्रः इति श्रीदेवीं सरस्वतीमावाह्य प्रागाद्यष्टदिक्पालानावाह्य चतुरः प्रतिदिशं क्रमुकादिवृक्षानर्चयित्वा चतस्र ओषधीस्तेषां पार्श्वे निधाय उच्छ्रयस्व वनस्पते इति गोमयं क्रमुकमूले निधाय लाजैः पुष्पैरक्षतैस्संप्रकीर्य पूर्णपात्रं निधाय क्षेत्रस्य पते इति क्षेत्रमभ्यर्च्य या जाता ओषधयः या ते धामानि या ओषधयस्सोमराज्ञीः शतं वो अम्ब अश्रवं हि भूरिदावत्तरावामिति वनस्पतिभ्यस्स्वाहा इत्येतेनानुवाकेन हविराज्यचरून्हुत्वा जयादि प्रतिपद्यते ।परिषेचनान्तं कृत्वा ब्राह्मणान्भोजयित्वा दक्षिणाभिस्संपूज्य स्वस्तिसूक्तेनाध्वर्युराशिषो वाचयित्वा ऽऽचार्याय दक्षिणां ददातीत्याह भगवान्बोधायनः ।१।
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने सप्तमो ऽध्यायः
BaudhGSS.5.8
अथ पञ्चमप्रश्ने अष्टमो ऽध्यायः
अथात उग्ररथशान्तिविधिं व्याख्यास्यामः ब्राह्मणराजन्यवैश्यानां जन्मदिनादारभ्य षष्टितमसंवत्सरे जन्ममासे जन्मनक्षत्रे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा तस्याग्नेयदिग्भागे निष्कद्वयेन मृत्युप्रतिमां कृत्वा धान्यानामुपरि यथाविधि कलशस्थापनं कृत्वा कलशस्योपरि प्रतिमां पूजयेतपैतु मृत्युः परं मृत्यो मा नस्तोके त्रियम्बकमित्यष्टोत्तरशतवारं जपित्वा ऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखान्तं कृत्वा पक्वाज्जुहोति द्विरवदानम्मा नो महान्तमिति पुरोनुवाक्यामनूच्य मा नस्तोके इति याज्यया जुहोति ।१।
अथाज्याहुतीरुपजुहोति घृतसूक्तेन प्रत्यृचम्।२।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।३।
अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति ।४।
अपरेणाग्निं प्राङ्मुख उपविश्य मृत्युसुक्तपुराणयन्त्रैः कलशोदकेनात्मानमभिषिच्याचार्यं संपूज्य ऋत्विग्भ्यो यथाशक्ति दक्षिणां दत्वा ब्राह्मणान्भोजयेदित्याह भगवान्बोधायनः ।५।
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने अष्टमो ऽध्यायः
BaudhGSS.5.col.
अथात उग्ररथशान्तिविधिम्।अथातो वनस्पतिहोमम्।अथातः पञ्चमीश्राद्धम्।अथातो ऽर्कोद्वाहम्।अथातो मृत्तिकास्नानविधिम्।अथर्तुशान्तिम्।अथ विवाह्यकन्या ।अथाग्निमुखप्रयोगः ।८।
अथाग्निमुखप्रयोगः ।अथ विवाह्यकन्या ।अथर्तुशान्तिम्।अथातो मृत्तिकास्नानम्।अथातो ऽर्कोद्वाहम्।अथातः पञ्चमीश्राधम्।अथातो वनस्पतिहोमम्।अथात उग्ररथशान्तिविधिम्।९।
इति बोधायनीयगृह्यशेषसूत्रे पञ्चमप्रश्नः
इति बोधायनीयगृह्यशेषसूत्रं समाप्तम्