बौधायनगृह्यसूत्रम्/गृह्यशेषः/प्रश्नः ४

विकिस्रोतः तः

BaudhGSS.4.1
अथ चतुर्थप्रश्नप्रारम्भः
अथातो मिथ्यासत्यबलिं व्याख्यास्यामः ब्राह्मणक्षत्रियवैश्यशूद्राः पञ्चगव्येन स्नात्वा ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य देवगृहे नदीतीरे वा ऽथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति यत इन्द्रभयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम्।१।
अथाज्याहुतीरुपजुहोति अपैतु मृत्युः परं मृत्यो मा नो महान्तं मा नस्तोके त्र्यम्बकं ये ते सहस्रमिति विष्णोर्नुकं जातवेदसे अग्ने त्वं पारय इति व्याहृतिभिः मृत्युर्नश्यत्वायुर्वर्धतां भूस्स्वाहा ।मृत्युर्नश्यत्वायुर्वर्धतां भुवस्स्वाहा ।मृत्युर्नश्यत्वायुर्वर्धतां सुवस्स्वाहा ।मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवस्सुवस्स्वाहा इति ।स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।२।
अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति यो रुद्रो अग्नौ इति भस्मसमुल्लेखनम्।३।
आचार्येभ्यो गोवत्सं दद्यात्।४।
अन्नं संस्कृत्य ब्राह्मणान्संपूज्याशिषो वाचयित्वा ऋषभैकादश दक्षिणां दद्यादित्याह भगवान्बोधायनः ।५।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने प्रथमो ऽध्यायः
BaudhGSS.4.2
अथ चतुर्थप्रश्ने द्वितीयो ऽध्यायः
आहुतानुकृतिबलिहरणानुकृतिर्धूर्तबलिः चतुर्षु चतुर्षु मासेषु फाल्गुने मासि शुक्लपक्षस्य सप्तम्यां क्रियेत ।अपि वा त्रयोदश्यामेवमाषाढ एवं कार्तिके ।१।
साधनानि पुरस्तादेवोपकल्पयते बर्हिर्बैल्वानि चैव पञ्चदशेध्मदारूणि बैल्वं मेक्षणं परिधींश्च श्वेतरक्तं गन्धमाल्यं श्वेतरक्तांश्च प्रतिसरान्धूपं श्रपयत्यन्नानि विविधांश्च भक्ष्यान्स्थालीपाकं च श्रपयति ।२।
अथैनानादाय सहान्तेवासिभिर्ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रापस्तद्गत्वा स्नात्वा ऽप आचम्य सुरभिमत्या ऽब्लिङ्गवारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वा ऽन्तर्जलगतो ऽघमर्षणेन त्रीन्प्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वा ऽन्यत्प्रयतं वासः परिधायाप आचम्य देवयजनमुदानयति ।३।
अथ शुचौ समे देशे वेदिं कुर्वन्ति पुरुषमात्रमपरिमितं वा ।४।
तस्याः पूर्वार्धे स्थण्डिलं कल्पयित्वोदुम्बरशाखां बहुपर्णां बहुशाखामप्रतिशुष्काग्रां नियत्य दर्भैर्भगवते धूर्ताय प्रतिकृतिं कृत्वा ऽपरेणोदुम्बरशाखां प्रतिसरेण सह शाखया परिव्ययन्ते ।५।
ज्ञोपवीतमुपव्ययन्ते यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्।आयुष्यमग्रियं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः इति ।६।
तेन त्वामहं प्रतिगृह्णाम्यायुषा ब्रह्मणा ब्रह्मवर्चणाय इति ।७।
अपरार्धे वेद्यास्स्थण्डिलं कृत्वोल्लेखनप्रभृत्या पर्युक्षणात्कृत्वा वेदिं स्तृणात्यनतिदृश्नम्।८।
उत्तरेणाग्निं प्रागग्रान्दर्भान्संस्तीर्य तेषु द्वन्द्वं न्यञ्चि पात्राणि सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा विस्रस्येध्मं त्रिस्सर्वाभिः प्रोक्ष्य दर्भेषु दक्षिणतो ब्राह्मणमुपवेश्योत्तरत उदपात्रं निधाय पक्वमोदनं पायसं वायाचितमद्भिरभ्युक्ष्याग्न वधिश्रियाज्यं निरूप्याधिश्रित्योभयं पर्यग्नि कृत्वापरिधानात्कृत्वा समन्वारब्धेष्वन्तेवासिषु प्रदक्षिणमग्निं परिषिच्याथेध्ममभ्यज्यादधाति इमं स्तोममर्हते जातवेदसे रथमिव संमहेमा मनीषया ।भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव स्वाहा इति ।९।
एवमेवाभ्यज्य द्वितीयामभ्यादधाति यन्मै त्वमायजसे संसाधय त्यनर्वां क्षेति दधते सुवीर्यम्।स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषाभा वयं तव स्वाहा इति ।१०।
एवमेवाभ्यज्य तृतीयामभ्यादधाति शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतन्।त्वमादित्या आवह तान्ह्युश्मस्याग्ने सख्ये मा रिषामा वयं तव स्वाहा इति ।११।
एवमेवाभ्यज्य चतुर्भीमभ्यादधाति तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृडयत्तमः ।दधासि रत्नं द्रविणं च दाशुषे अग्ने सख्ये मा रिषामा वयं तव स्वाहा इति ।१२।
एवमेवाभ्यज्य पञ्चमीमभ्यादधाति तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि ।बृहच्छोचा यविष्ट्य स्वाहा इति ।१३।
एवमेवाभ्यज्य एकापचयेन भवे नमस्स्वाहा इति षडक्षरेण परिशिष्टाः ।१४।
आघारप्रभृत्या ऽग्निमुखात्कृत्वा दैवतमावाहयन्तो नृत्यन्तः त्रिः प्रदक्षिणं परियन्ति ।१५।
यस्य सिंहा रथे यक्ता व्याघ्राश्चाप्यनुगामिनः तमिमं पुत्रिकापुत्रं स्कन्दमावाहयाम्यहम्।१६।
आयातु देवोत्तमः कर्तिकेयो ब्रह्मण्यपुत्रस्सह मातृभिश्च धात्र्या विशाखेन च विश्वरूपो जुष्टं बलिं सानुचरो जुषस्व ।१७।
सप्ताहं जातयश्शक्तिस्सप्तपर्वमरिन्दमम्व्याघ्रावृतं महाधूर्तं प्रपद्ये सशितव्रतम्।१८।
परं देवं वरदं प्रपद्ये धूर्तं सेनामुग्रसेनामपर्णासुतं कृत्तिकानां षडास्यम्।अग्नेः पुत्रम्शमयैर्यथोक्तैश्चातुर्मास्यैस्सप्तमीं त्वामरण्ये ।गन्धैश्च भक्त्या च यजाम शक्ते वित्तं वित्ता यशसश्च राजन्।कामांश्च धूर्तः प्रयच्छतु नमश्शङ्कराय नमश्च स्थाम्ने नमो नीलग्रीवाय नमः कृत्तिकापुत्राय ।प्रीयतां विनियोगः प्रीयतां विशाखः प्रीयतां कृत्तिकापुत्रः प्रीयतां नमः प्रीयतां नमोनमः इति ।१९।
तमायान्तमनुमन्त्रयते स्वागतं पुनरागतं भगवते धूर्तायैतदासनं क्लृप्तमत्रास्तां भगवान्महाधूर्तः इति ।२०।
अत्र कूर्चमर्हणं च ददाति भगवतो ऽयं कूर्चः दर्भमयः त्रिवृद्धरितस्सुवर्णमयस्तं जुषस्व इति ।२१।
अथास्मै कंसे वा चमसे वा पुष्पफलाक्षतमिश्रैर्वर्षीयसा तेजोमयेनापिधायार्हणीया आपो निवेदयन्ते इमा आपंश्शिवाश्शिवतमाः पूताः पूततमा मेध्य मेध्यतमा अमृता अमृतरसाः पाद्या अर्घ्या अभिषेचनीया मार्जनीयाश्च ता जुषन्तां प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान्महाधूर्तः इति ।आपो हिष्ठा मयुभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः एवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा प्रदक्षिणमावृत्य प्रत्यङ्ङावृत्य जघनेनाग्निमुपविश्यान्वारब्धेष्वाज्याहुतीर्जुहोति स्कन्दाय स्वाहा ।कुमाराय स्वाहा ।बालाय स्वाहा ।हिरण्यचूडाय स्वाहा ।अङ्गिरसे स्वाहा ।गुहाय स्वाहा ।भद्रासनाय स्वाहा ।नीलग्रीवाय स्वाहा ।भवपुत्राय स्वाहा ।धूर्ताय स्वाहा ।पशुभुवे स्वाहा ।षष्ठयै स्वाहा ।विशाखाय स्वाहा ।सनत्कुमाराय स्वाहा ।स्कन्दपार्षदेभ्यस्स्वाहा ।षष्ठीपार्षदेभ्यस्स्वाहा इत्येतैरेव नामधेयैः मेक्षणेनोपघातं पूर्वार्धे जुहोति ।२२।
उत्तरार्धात्स्विष्टकृतमवदायान्तःपरिधि सादयित्वोपोत्थाय दैवतमर्चयत्येतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्मै नमो ऽमुष्मै नमः इति ।अन्नेन अमुष्मै स्वाहा ऽमुष्मै स्वाहा इति ।फलोदकेन अमु तर्पयाम्यमुं तर्पयामि इति ।२३।
अत्र नमस्यति यं कामं कामयते तन्मे कामस्समृध्यतां तस्मिन्कामे समृद्धे द्रोणमुपहरिष्यामि कामं वर्धयतु इति ।कामे समृद्धे द्रोणान्नमुपहरिष्यति ।२४।
अथैनमुपतिष्ठते नमो भवोद्भव इति गुहो गुह्यपतिर्भवः ।२५।
वसुर्वसुपतिः नमो धूर्तस्वामी प्रसीदतु ।२६।
महायशा महातेजा महासेनो महारूपः ।२७।
महातपा मे भक्तस्य प्रतिगृह्णात्विमं बलिमिति ।२८।
अथोपविश्य स्विष्टकृतं हुत्वोपोत्थाय दैवतं प्रवाहयन्तो नृत्यन्तस्त्रिरपसलैः परियन्ति सिंहव्याघ्रसमायुक्तस्स रथो रथिनां वरः प्रयातु भगवान्धूर्तः प्रियवाणिः प्रियंकरः ओंनम इति अथोपविश्य जयप्रभृति सिद्धमाधेनुवरप्रदानात्।३०।
अथैनां प्रतिकृतिमादाय शिरसि निधायावभृथमन्त्रेणाप्सु प्रप्लाव्यातिशिष्टैर्गन्धमाल्यैरात्मानमलङ्कृत्य प्रतिसरं बध्नाति ।३१।
अदित्या सुकृतं सूत्रमिन्द्रेण त्रिवृतं कृतमश्विभ्यां ग्रथितो ग्रन्थिर्ब्रह्मणा प्रतिसरं कृतमभिचारं च सर्वं च यच्च मे दुष्कृतं कृतम्सर्वतो मे भय नास्ति यावत्सूत्रं धरिष्यति इति ।३२।
अथान्योन्यमपः प्रतिग्राहयन्ते प्रीयतां भगवान्महाधूर्तः इति ।३३।
अथ पक्वादुपादाय प्राश्नाति ।३४।
न स्त्रीकुमारौ प्राश्नीयाताम्।३५।
तत्प्राशनमन्त्रः आयुरसि इति ।३६।
प्राश्याप आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम्।३७।
पुनःपुनरवोक्ष्यान्त आयुष्यं वर्चस्यं राक्षोघ्नं स्वस्त्ययनमृद्धमिति ।३८।
आहुतानुकृतिर्व्याख्यातो बलिहरणानुकृतिः ।३९।
दैवतमावाह्य गन्धपुष्पधूपदीपान्नफलोदकैरभ्यर्च्य नमस्कृत्य प्रवाहयन्ते ।४०।
धूर्तबलिं चतुर्षु चतुर्षु मासेष्वेवं यजमानः चातुर्मास्यानां फलमवाप्नोतीति ह स्माह भगवान्बोधायनः ।४१।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने द्वितीयो ऽध्यायः
BaudhGSS.4.3
अथ चतुर्थप्रश्ने तृतीयो ऽध्यायः
अथातो मृतबलिं व्याख्यास्यामः प्राग्दक्षिणायतनं चतुरश्रं गोमयेनोपलिप्य प्राचीनावीती दक्षिणामुखस्सव्यं जानुं निपात्य सकृदुल्लिख्याद्भिरभ्युक्ष्य दक्षिणाग्रान्दर्भान्संस्तीर्याद्भिर्माजयित्वोपस्तीर्णाभिघारितं सकृत्तिलमिश्रं चरुमवद्यति मुष्टिप्रमाणं कुक्वटाण्डप्रमाणं वा हस्तेन अमुकगोत्रायैतत्ते ओदनस्स्वधा नमः इति ।१।
अथाङ्गुष्ठेनाभिमृश्याथाञ्जनाभ्यञ्जने मधु वासो दशोर्णा वा गन्धपुष्पधूपदीपैर्हस्ताद्विपरीतात्सायं प्रातर्दशरात्रं कृत्वा स्वस्तिग्रामं भोजयित्वा दशम्यां विकृताहारं सायं बलिं दत्वा ऽथैकादश्यामेकोद्दिष्टं कुर्वन्ति ।२।
न जातु श्येनकाकादीन्पक्षिणः प्रतिषेधयेत्तद्रूपास्तस्य पितरस्समायान्तीति वैदिकाः इति विज्ञायते ।३।
इति बोधायनीयं गृह्यशेषसूत्रे चतुर्थप्रश्ने तृतीयो ऽध्यायः
BaudhGSS.4.4
अथ चतुर्थप्रश्ने चतुर्थो ऽध्यायः
अथ प्रहुतानुकृतिः धर्मोपभोगविधिं व्याख्यास्यामः सेतुबन्धनदीखाततटाकपुष्करिणीवापीकूपदेवगृहप्रासादवसतीनामोषधिवनस्पतीनां च पूर्तं भवति भूतिकामो निशि जुहोति ।१।
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे यज्ञद्रव्याण्यध्वर्युरुपकल्पयते खादिरं पालाशं वा त्र्यरत्निमात्रं यूपं कृत्वा सौवर्णसर्पशिंशुमारकूर्ममकरकर्कटकमलकुवलयकुमुतोत्पलकह्लारांश्च राजतान्हंसमत्स्यमण्डूकांश्च देवगृहप्रासादवसतीनां तदाकृतिवदोषधिवनस्पतीनां तत्फलाकृतिवत्सुवर्णरत्नेषु सर्पिश्चरुतिलचूर्णपयो ऽपूपधानान्सक्तून्गन्धपुष्पधूपदीपवासांसीध्माबर्हिषी च ।२।
सप्रदोषे द्विजातीनां होमः ।३।
शूद्राणां नमस्कारैरावृतैर्वा ।४।
तटाकतीरे मध्यपूर्वे स्थण्डिलमुपलिप्य यूपावटं खात्वा ऽध्वर्युश्च यूपं प्रतिष्ठापयति आब्रह्मन्ब्राह्मणः इति ब्राह्मणस्य अस्मिन्राष्ट्रे इति राजन्यस्य दोग्ध्री धेनुः इति वैश्यस्य ।५।
मणिमुक्ताप्रवाऌअसुवर्णगजताक्षतैरवकीर्य जघनेन यूपं स्थण्डिलं कृत्वा ऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं देवानावाहयति ब्रह्मणे विष्णवे श्रियै सूर्याय चन्द्रायाग्नये यमाय निरृत्यै वरुणाय वायवे सोमायेशानाय इत्यावाह्य सुवर्णरजताक्षतैरवकीर्य यूपदेवतां गन्धपुष्पधूपदीपैरभ्यर्च्य यूपमुपतिष्ठते तद्विष्णोः परमं पदमिति ।६।
तं वासोभिर्वेष्टयित्वा तस्मिन्रूपाणि बध्वा परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति अवतए हेडः उदुत्तममिति द्वाभ्याम्।७।
अथाज्याहुतीरुपजुहोति कूप्याभ्यस्स्वाहा अद्भ्यस्स्वाहा इत्येताभ्यामनुवाकाभ्यामिमं मे वरुण तत्त्वायामि यच्चिद्धि यत्किं चेदं कितवासो हिरण्यवर्णाश्शुचयः पावकाः त्वं नो अग्ने स त्वं नो अग्ने इति ।८।
स्विष्टकृतो ऽथ यूपाहुतीर्जुहोति ब्रह्मणे स्वाहा ।विष्णवे स्वाहा ।श्रियै स्वाहा ।सूर्याय स्वाहा ।चन्द्रमसे स्वाहा ।इन्द्राय स्वाहा ।अग्नये स्वाहा ।यमाय स्वाहा ।निरृत्यै स्वाहा ।वरुणाय स्वाहा ।वायवे स्वाहा ।सोमाय स्वाहा ।ईशानाय स्वाहा इति ।९।
अथौषधिवनस्पतीनां पक्वाज्जुहोति या जाताः शतं वो अम्ब धामानि इति द्वाभ्याम्।१०।
अथाज्याहुतीरुपजुहोति पुष्पावतीः प्रसूवतीः ओषधीभ्यस्स्वाहा वनस्पतिभ्यस्स्वाहा इति त्रिभिरनुवाकैः प्रत्यृचम्।११।
स्विष्टकृतो ऽथ देवगृहेभ्यः पक्वाज्जुहोति वास्तोष्पते वास्तोष्पते इति द्वाभ्याम्।१२।
अथाज्याहुतीरुपजुहोति वास्तोष्पते ध्रुवास्थूणा इति षड्भिः ।१३।
स्विष्टकृतो ऽथ नमस्ते रुद्र मन्यवे इत्यान्तादनुवाकस्य प्रत्यृचम्।१४।
अथ कूश्माण्डानि हुत्वा पुरस्तात्स्विष्टाकृतो वैश्वानराय प्रतिवेदयामः इति ।१५।
अथ चरतिलचूर्णपयस्सर्पिर्मिश्रैरपूपैर्धानाभिस्सक्तून्करम्भान्दर्भेषु बलिमुपहरति ब्रह्मणे नमः इति पूर्वोक्तद्वादशनामभिः ।१६।
त्रिः प्रदक्षिणं यजमानो बलीन्सम्पकीर्यं यमसूक्तं वाचयित्वा पुरुषसूक्तं चोर्मिमन्तमुदधिं कृत्वा स्नात्वा ऽप आचम्य ब्राह्मणेभ्यो वासांसि दद्यादाचार्याय गोमिथुनं दद्यादृषभैकादश गा दद्यादाशिषो वाचयित्वा रूपाणि विसर्जयेत्।१७।
एवं प्रयुञ्जानो दशपूर्वान्दशापरानात्मानं चैकविंशतिं पंक्तिं च पुनाति ।१८।
अथाप्युदाहरन्ति नृत्तगीतवाद्यघोषैः प्रत्यूषे बोधयन्ति ।एतेषां नष्टानां पुनः करणमधिकं फलमिति षष्टिर्वर्षसहस्राणि ब्रह्मलोके महीयत इत्याह भगवान्बोधायनः ।१९।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने चतुर्थो ऽध्यायः
BaudhGSS.4.5
अथ चतुर्थप्रश्ने पञ्चमो ऽध्यायः
अथातः काम्यविधिं व्याख्यास्यामः अन्नकामस्य जुहोति अन्नपते ऽन्नस्य नो धेहि जातो यदग्ने वषट्ते वास्तोष्पते एवावन्दस्व आनो नियुद्भिः हिरण्यवर्णाः अश्वावतीः त्वं वरुण बृहस्पते युवमिन्द्रश्च स्वस्ति न इन्द्रः इत्येता अन्नहोमा बलयश्च ।१।
अथ समिद्धोमो यदग्ने यानि कानि इति ।२।
औदुम्बरीं शमीमयीं वा शान्तिकामः शन्नो देवीरभिष्टये इति ।३।
दूर्वामायुष्कामः आयुष्टे आयुर्दां अग्ने अपैतु परं वातं प्राणं अमुत्र भूयात्हरि हरन्तं मानो महान्तं मानस्तोके वास्तोष्पते जातवेदसे तत्सवितुर्वरेण्यं ऋतेन यमादित्याः प्रजापते इति ।४।
यदपामार्गहोमो भवति रक्षसामपहत्यै इति ब्राह्मणम्।सर्वस्य भेषजो ऽपामार्गहोमः यदपामार्गस्सपत्नहासहस्राणां पुष्ठिवर्धनाय ।यन्मे शिरसि पापं केशेषु निहितं ललाटे पृष्ठे जठरे च यद्विश्वं सर्वस्य भेषजो ऽपामार्गो ऽवलुम्पतु स्वाहा इति ।५।
व्याहृतीभिस्तिलहोमो रक्षोघ्नाः पापनाशनश्च ।६।
अथाप्युदाहरन्ति ओषध्यस्सक्तवः पुष्पं काष्ठं मूलं फलं तृणमेतद्धस्तेन होतव्यं नान्यत्किञ्चिदचोदनातिति ।७।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने पञ्चमो ऽध्यायः
BaudhGSS.4.6
अथ चतुर्थप्रश्ने षष्टो ऽध्यायः
अथातश्शौचविधिं व्याख्यास्यामः ग्रामाद्दूरतो गत्वा यज्ञोपवीतं शिरसि दक्षिणे कर्णे वा कृत्वा मृत्तिकां गृह्णाति ।१।
काष्ठमन्तर्धाय मध्य उपविशेत्।२।
अहन्युत्तरत उपेयान्निशायां दक्षिणत उभयोस्सन्ध्ययोरुदङ्मुखः ।३।
नाग्निं नापो न नग्नो वृक्षमूले पर्वतमूले चतुष्पथे ऽग्न्यगारे गवां मध्ये गोष्ठे दहनपुऌइनवर्जमन्तर्जले देवगृहे वल्मीके मूषिकस्थले प्रत्यग्निं प्रतिसूर्यं प्रत्यगारं प्रति गां प्रतिब्राह्मणं च ।४।
एकां लिङ्गे मृदं दद्यात्सव्ये पाणौ मृदस्त्रयः उभयोर्द्विर्मृदं दद्यान्मूत्रवच्छौचमिष्यते ।५।
पञ्चापाने दशैकस्मिन्नुभयोत्सप्त मृत्तिकाः एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ।६।
त्रिगुणं तु वनस्थस्य यतीनां तु चतुर्गुणमाचार्यगुरुदाराभिगमने नाभिभाषते ।७।
संस्थिते न म्रियते योनिसंस्कारादिति बोधायनः ।८।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने षष्टो ऽध्यायः
BaudhGSS.4.7
अथ चतुर्थप्रश्ने सप्तमो ऽध्यायः
अथात आचमनविधिं व्याख्यास्यामः प्राङ्मुख उदङ्मुखो वा बद्धशिखो यज्ञोपवीती नोष्णाभिर्न क्षाराभिर्न विवर्णाभिर्न दुर्गन्धरसाभिः न सफेनाभिर्न चैकहस्ताभिर्न दूषिताभिर्न बहिर्जानुभिर्न विरऌअङ्गुऌईभिर्न बुद्बुदाभिर्न तिष्ठन्न हसन्न जल्पन्न विलोकयन्न प्रह्वो न प्रणतो न रोचयन्।१।
ब्राह्मणस्य दक्षिणे हस्ते पञ्च तीर्थानि भवन्ति अङ्गुलीमध्ये देवतीर्थमङ्गुल्यग्र आर्षं तीर्थं मध्ये ऽग्नितीर्थमङ्गुष्ठतर्जन्योर्मध्ये पैतृकतीर्थमङ्गुष्ठतले ऽतिहृत्य पश्चाल्लेखं तद्ब्रह्मतीर्थम्।२।
माषमग्नं तु तन्मात्रं प्रतिगृह्य त्रिः पिबेदपो गोकर्णवद्धस्तेन त्रिराचामेत्।३।
प्रथमं यत्पिबति तेन ऋग्वेदं प्रीणाति यद्द्वितीयं तेन यजुर्वेदं प्रीणाति यत्तृतीयं तेन सामवेदं प्रीणाति प्रथमं यत्परिमृजति तेनाथर्ववेदं प्रीणाति यद्द्वितीयं तेनेतिहासपुराणानि यन्मुखं तेनाग्निं यत्सव्यं पाणिमभ्युक्षति तेन नक्षत्राणि यत्पादमभ्युक्षति तेन विष्णुं यच्चक्षुषी तेन चन्द्रादित्यौ यन्नासिके तेन प्राणापानौ यच्छ्रोत्रं तेन दिशो यद्बाहू तेनेन्द्रं यद्धृदयं तेन रुद्रं यन्नाभिं तेन पृथिवीं यदङ्गुष्ठयोः स्रवन्त्यापः कुबेरादयः सर्वा देवताः प्रीणन्त्यग्निर्वायुः प्रजापतिरर्कचन्द्रौ मघवानिति वैदिकाः ।४।
अनामिकाङ्गुष्ठाभ्यां चक्षुषी समुपस्पृशेत्।प्रादेशिन्यङ्गुष्ठाभ्यां तु नासिके अङ्गुष्ठकनिष्ठकाभ्यां तु श्रोत्रे अङ्गुष्ठमध्यमाभ्यां तु बाहू चतुरङ्गुलीभिर्हृदयमङ्गुष्ठेन नाभिं सर्वैर्मूर्धानं समुपस्पृशेदेतेन विधिना युक्ता न लिप्यन्ते कदाचनेति ।५।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने सप्तमो ऽध्यायः
BaudhGSS.4.8
अथ चतुर्थप्रश्ने अष्टमो ऽध्यायः
अथ वै भवति आपो वा इदमग्रे सलिलमासीत्तस्मिन्प्रजापतिर्वायुर्भूत्वा ऽचरत्स इमामपश्यत्तां वराहो भूत्वा ऽहरत्तां विश्वकर्मा भूत्वा व्यमार्ट्सा ऽप्रथत सा पृथिव्यभवत्तत्पृथिव्यै पृथिवित्वं तस्यामश्राम्यतिति तदु हैक औपासनमेवोपासते स्त्रिया एव संस्कारार्थमौपासनो नित्यो धार्यो ऽनुगतो मन्थ्यः श्रोत्रियागाराद्वा ऽऽहार्यो द्वादशाहं विच्छिन्नः पुनराधेयो ऽथ यदि द्वादशाहं विच्छिन्नः पुनराधेयस्स्याद्या प्रकृतिस्तत आहरणमित्युक्तमेतत्सन्तिष्ठते ।१।
अथ गृहस्थस्यौपासनम्षण्मासान्नाजुहवुर्यथोपपादमाहृत्याग्निं प्रतिष्ठाप्य परिस्तीर्य द्वादशाहप्रायश्चित्तं हुत्वा तदानीमेव सम्परिस्तीर्या ऽप्रणीताभ्याः कृत्वा चतुश्शरावमोदनं श्रपयित्वा ऽभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघार्य परिधानप्रभृत्याग्निमुखात्कृत्वा मेक्षणेनोपघातं पक्वाज्जुहोति अग्नये स्वाहा सोमाय स्वाहा अग्नये ऽन्नवते स्वाहा अग्नये ऽन्नादाय स्वाहा अग्नये ऽन्नपतये स्वाहा अग्नये पवमानाय स्वाहा अग्नये पावकाय स्वाहा अग्नये शुचये स्वाहा अग्नये ज्योतिष्मते स्वाहा अग्नये व्रतपयते स्वाहा अग्नये पथिकृते स्वाहा अग्नये तन्तुमते स्वाहा अग्नये वैश्वानराय स्वाहा सूर्याय स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा भूस्स्वाहा भुवस्स्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा ।अग्नये स्विष्टकृते स्वाहा इत्युत्तरार्धपूर्वार्धे ।२।
तूष्णीं मेक्षणमभ्याधाय जयप्रभृति सिद्धमाधेनुवरप्रदानात्।३।
अथास्तमित आदित्यए व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोति अग्नये स्वाहा प्रजापतये स्वाहा इति सायं सूर्याय स्वाहा प्रजापतये स्वाहा इति प्रातरप्यग्निहोत्रहविषामन्यतमेन जुहुयात्।४।
पर्वणि पर्वणि चाग्नेयस्थालीपाकेन यजेत ।५।
उपवास एव कालान्तरे भोजनमतृप्तिश्चान्नस्य च ।६।
एवमेव सायंहोमेन प्रतिपद्यते सन्तिष्ठत औपासनतन्त्रम्।७।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने अष्टमो ऽध्यायः
BaudhGSS.4.9
अथ चतुर्थप्रश्ने नवमो ऽध्यायः
कथमु खल्वनाहिताग्नेर्दर्शपूर्णमासौ भवत इति ।१।
पौर्णमास्याममावास्यायामिध्माबर्हिस्सन्नह्योपवसथस्य रूपं कृत्वोपवसति ।२।
अथ श्वोभूते ऽग्निमुपसमाधाय सम्परिस्तीर्य दक्षिणतो ब्राह्मणमुपवेशयति ।३।
उत्तरत उदपात्रमिति निधाय जघनेनाग्निं कृष्णाजिने व्रीहीन्निर्वपति ।४।
अथ तिरःपवित्रं स्थाल्यामपः पयो वानीयाधिशृत्य पर्यग्नि कृत्वा स्रुक्स्रुवं मेक्षणमिति सम्मृज्याथैतं चरुं श्रपयित्वा ऽभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति ।५।
परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुवः इति द्वाभ्याम्।६।
चतुरवत्तं पुरस्तादुपस्तरणं पूर्वार्धादपरार्धादवदानमभिघारणं मध्यात्पूर्वार्धादपरार्धादवदानं पञ्चावत्तिनामभिघारणं प्रत्यञ्जनम्।७।
अथ पुरस्तात्स्विष्टकृतः ।८।
पौर्णमास्यां ऋषभं वाजिनं वयमिति ।अमावास्यायां अमावास्या सुभगा इत्याज्याहुती हव्यवाहं स्विष्टमिति स्विष्टकृतं हुत्वा मेक्षणमभ्याधाय संस्रावेणाभिहुत्वा स्रुचा ऽद्भिरन्तःपरिधि निनयति वैश्वानरे हविरिदं जुहोमि इति ।९।
स्रुचं प्रक्षाऌय निष्टप्याद्भिः पूरयित्वा बहिःपरिधि निनयति इमं समुद्रं शतधारमिति ।जयप्रभृति सिद्धमाधेनुवरप्रदानात्।१०।
अथ पक्वादुपादाय प्राश्नाति आयुरसि इति ।११।
प्राश्याप आचम्य जठरमभिमृशति यत इन्द्रभयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम्।१२।
प्रथमे स्थालीपाक आज्यं संस्कृत्य कूश्माण्डैर्जुहुयात्कर्मादिवेतैर्जुहुयात्पूतो देवलोकान्समश्नुते इति ब्राह्मणम्।१३।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने नवमो ऽध्यायः
BaudhGSS.4.10
अथ तृतीयप्रश्ने अष्टादशो ऽध्यायः
अथ गृहस्थस्तु द्वे भार्ये विन्देत कथं तत्र कुर्यादिति ।१।
यस्मिन्काले विन्देतोभावाग्नी परिचरेत्।२।
अपराग्निमुपसमाधाय सम्परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा ऽन्वारब्धायां यजमानो जुहोति नमस्त ऋषे गद ।अव्यथायै त्वा स्वधायै त्वा ।मा न इन्द्राभितस्त्वदृष्वारिष्टासः ।एवाब्रह्मन्तवेदस्तु स्वाहा इति ।३।
अथ समारोपयति अयं ते योनिरृत्वियः इति ।४।
अथ पूर्वाग्निमुपसमाधाय आजुह्वानः उद्बुध्यस्वाग्रे इति समिधमाधाय सम्परिस्तीर्य आज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य गृहीतं गृहीत्वा द्वयोर्भार्ययोरन्वारब्धयोर्यजमानो जुहोति यो ब्रह्मा ब्रह्मणः इत्यान्तेन सूक्तेनैकैकं चतुर्गृहीतं गृहीत्वा जुहोति ।५।
प्रसिद्धमग्निमुखात्कृत्वा पक्वाज्जुहोति समितं संकल्पेथामिति पुरोनुवाक्यामनूच्य अग्ने पुरीष्य इति याज्यया जुहोति ।६।
अथाज्याहुतीरुपजुहोति पुरीष्यस्त्वमग्ने इत्यान्तादनुवाकस्य ।स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।७।
अथाग्रेणाग्निं दर्भस्तम्बेषु हुतशेषं निदधाति ब्रह्मजज्ञानं पिता विराजां इति द्वाभ्याम्।८।
प्रसिद्धमौपासने पार्वणानि कुर्यात्सन्तिष्ठत औपासनतन्त्रः ।९।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने दशमो ऽध्यायः
BaudhGSS.4.11
अथ चतुर्थप्रश्ने एकादशो ऽध्यायः
अथ वै भवति जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः इति प्रजातन्तु मा व्यवच्छेत्सीः इत्येतस्माद्ब्राह्मणादाहिताग्नेर्दशवर्षाणामूर्ध्वं यदि प्रजा नोत्पद्येत कथं तत्र कुर्यादिति ।१।
पुनरेव कुमारीं संस्कृत्य दशमे ऽहन्येकादशाहे द्वादशाहे वा ऽरण्योरग्नीन्समारोप्योदवसाय मथित्वा ऽग्नीत्विहृत्योद्वासन्येष्येद्वा ।२।
तदानीमेवारण्योरग्नीन्समारोप्यौपासने ब्रह्मौदनं श्रपयित्वोपवसथहविःप्रभृति सिद्धमप्न्याधेयं कुर्वन्ति ।३।
तस्मिन्संस्थिते पवित्रेष्ट्या यजेत ।४।
तस्यां संस्थितायां तन्तुमतीं निर्वपेत्।५।
तस्यां संस्थितायां त्रैधातवीयां निर्वपेत्।६।
अपि वैन्द्राग्नेन पशुना यजेत ।पुनराधेयं वा कुर्यात्।७।
अथ यद्येको बह्वीर्जायाः प्रयुञ्जान एवमेवैतत्कुर्यात्तस्मादेको बह्वीर्जाया विन्दते इति ब्राह्मणन्।८।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने एकादशो ऽध्यायः
BaudhGSS.4.12
अथ चतुर्थप्रश्ने द्वादशो ऽध्यायः
अथ यद्यग्निविमोकमीक्षेताग्निमुपसमाधाय संपरिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा द्वयोर्भार्ययोरन्वारब्ध योर्यजमानो जुहोति इमं स्तनमूर्जस्वन्तं धयापां प्रप्यातमग्ने सरिरस्य मध्ये ।उत्संजुषस्व मधुमन्तमूर्व संमुद्रियं सदनमाविशस्व स्वाहा इत्यग्निविमोकं हुत्वा तमनलं विभजेत्।१।
पुनस्संयोगो न भवति विभक्तं न हि संसृजेतिति स्मरणात्।२।
पूर्वस्मिन्नग्नौ यदि विवहेत्स हि साधारणो भवति न तत्र विभाग एकत्वादग्नेरित्याह भगवान्बोधायनः ।३।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने द्वादशो ऽध्यायः
BaudhGSS.4.13
अथ चतुर्थप्रश्ने त्रयोदशो ऽध्यायः
अथ लौकिकोपासनग्रहणधारणोपावरोहणविधिं व्याख्यास्यामः त्रिविधं समारोपणमात्मन्यरण्योस्समिधीति ।१।
समिधि समारोपयति पालाशीमाश्वत्थीं खादिरीमौदुम्बरीं शमीमयीं वा समिधमादाय समारोपयति अयं ते योनिरृत्वियः इति ।२।
अरण्योर्वा समारोप्य मथित्वा जुहुयात्।३।
अपि वात्मनि समारोपणं भवति या ते अग्ने यज्ञिया तनूः इति ।४।
अथैनमुपावरोहयति उपावरोह जातवेदः इति ।५।
यत्र गच्छेत्तत्र नो हरेत्तत्र प्राप्य लौकिकमग्निमाहृत्य न्युप्योपसमाधाय तां समिधमादधाति यस्यात्मनि समारूढो भवति आजुह्वानः उद्बुध्यस्वाग्ने इति द्वाभ्याम्।६।
अथाग्निं परिचरति व्रीहिभिर्यवैर्वा ।७।
यवैर्ग्रामकामस्य तण्डुलैरोजस्कामस्य पयसा पशुकामस्य दध्नेन्द्रियकामस्याज्येन तेजस्कामस्य ।८।
अथातिपन्नाः प्रतिजुहोति ।९।
प्रसिद्धमग्निपरिचरणम्।१०।
प्रसिद्धं दर्शपूर्णमासाभ्यां यजनम्।११।
प्रसिद्धः पञ्चानां महायज्ञानामनुप्रयोगः ।१२।
एतदेव विधानमहरहरध्वनि वर्तते ।१३।
लौकिको व्याख्यातः ।१४।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने त्रयोदशो ऽध्यायः
BaudhGSS.4.14
अथ चतुर्थप्रश्ने चतुर्दशो ऽध्यायः
अथ गृहस्थस्यौपासनं विच्छिद्येत प्राणेषूत्क्रान्तेषूभयोः श्रोत्रिययोर्वचनादुद्धरेत्।श्रोत्रियागाराद्वाहृत्य व्याहृतीभिर्नियुप्योपसमाधाय पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य संमृत्य स्रुचि चतुर्गृहीतं गृहीत्वा ऽन्वारब्धो यजमानो जुहोति सप्त ते अग्ने सप्तव्याहृतिभिश्च पूर्वं देवा अपरेण प्राणापानौ इति द्वाभ्यां मा त्वा वृक्षौ सम्बाधिष्टाम्मा त्वा वृक्षौ सम्बाधेथामिति द्वाभ्यामग्ने ऽभ्यावर्तिनग्ने अङ्गिरः इति द्वाभ्यामेकैकं प्रति चतुर्गृहीतं गृहीत्वा जुहोति ।१।
न च ब्रह्मा न च प्रणीता न चरुर्न च स्विष्टकृतम्।२।
अत ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्यते ।३।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने चतुर्दशो ऽध्यायः
BaudhGSS.4.15
अथ चतुर्थप्रश्ने पञ्चदशो ऽध्यायः
अथ यद्याहिताग्निर्द्वे भार्ये विन्देत प्राक्संयोगान्म्रियेत कथं तर्हि कुर्यादिति ।१।
औपासनं संपरिस्तीर्याज्यं बिलाप्योत्पूय स्रुक्स्रुवं निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्यग्नौ परिश्रिते पूर्णाहुतिं जुहोति समितं सङ्कल्पेथामिति मिन्दाहुती व्याहृतीभिश्च हुत्वा तमग्निं अयं ते योनिः इति समिधि समारोप्य गार्हपत्ये समिधमादधाति भवतं नस्समनसौ इति ।गार्हपत्य आज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा गार्हपत्ये जुहोति अग्नावग्निश्चरति प्रविष्टः इति ।२।
अपरं चतुर्गृहीतं गृहीत्वा गार्हपत्य एव जुहोति चित्तिस्स्रुकिति ।३।
अथ गार्हपत्ये स्रुवाहुतीर्जुहोति ब्राह्मण एकहोता इति दशभिः ।४।
अथ प्राचीनावीतं कृत्वा ऽन्वाहार्यपचने जुहोति ये समानाः ये सजाताः इति द्वाभ्याम्।५।
अथान्वाहार्यपचन एव स्रुवाहुतीर्जुहोति अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा इति ।६।
अथ यज्ञोपवीतं कृत्वा द्वादशगृहीतेन स्रुचं पूरयित्वा पुरुषसूक्तेन मनसा ऽनुद्रत्याहवनीये जुहोति ।७।
अथ स्रुवाहुतीर्जुहोति अग्नये विविचये स्वाहा अग्नये व्रतपतये स्वाहा अग्नये पवमानाय स्वाहा अग्नये पावकाय स्वाहा अग्नये शुचये स्वाहा अग्नये पथिकृते स्वाहा अग्नये तन्तुमते स्वाहा अग्नये वैश्वानराय स्वाहा इति ।८।
अथ स्रुचि चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञं समिमं दधातु ।या इष्टा उषसो निम्रचश्च तास्संदधामि हविषा घृतेन स्वाहा इति ।९।
अत ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्यते ।१०।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने पञ्चदशो ऽध्यायः
BaudhGSS.4.16
अथ चतुर्थप्रश्ने षोडशो ऽध्यायः
अथातः कपिलसंन्यासविधिं व्याख्यास्यामः अनग्निकस्तु मुण्डी शिखी वा ऽहोरात्रोपोषितः स्नात्वा ऽप आचम्याप एव पाणिना ऽप्स्वाहुती जुहोति आपो वै सर्वा देवतास्स्वाहा इति ।१।
पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च सर्वभूतेभ्यश्च व्युत्थितो ऽहं स्वाहा इति ।२।
संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया इति त्रिरुपांशूक्त्वा त्रिरुच्चैः त्रिषत्या हि देवाः इति विज्ञायते ।३।
अभयं सर्वभूतेभ्यो मत्तस्स्वाहा इति दण्डात्गृहीत्वा जलपवित्रं पवित्रमिति समादाय पुत्रमित्रसुहृद्बन्धुज्ञातिसन्निधौ त्यक्त्वा ऽथ ग्रामादाहृत्यैकपात्रमुदकेनाप्लाव्य सकृदल्पेन भुञ्जीत ।४।
न केन चित्सह सम्भाषेत ।५।
न किञ्चन याचेत ।६।
पर्वतगुहानदीपुऌइनशून्यागारे देवतायतने बिलदर्योर्निवसेत्।७।
स्वयं पतितं प्रक्षाऌय जीवितमुक्तम्।८।
जीर्णमानीयाहतानि दृढान्यजिनानि यदर्थं बिभृयात्।९।
सूर्योदयहीनयाचितेन कार्यं कुर्वीत ।१०।
व्रतं स्नानसमर्थो न लभेत्।११।
अथ प्रक्षाऌय जलार्द्रेण कर्पटेन सशि स्कजलाकर्षणं कृत्वा ऽन्तर्वासाः परितस्सन्ध्यामुपासीत ।१२।
नित्यं मध्याह्ने प्रातस्स्नायीतेत्याह भगवान्बोधायनः ।१३।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने षोडशो ऽध्यायः
BaudhGSS.4.17
अथ चतुर्थप्रश्ने सप्तदशो ऽध्यायः
अथातस्संप्रवक्ष्यामि संस्कारविधिमुत्तमन्
समाहितानां युक्तानां यतीनां च महात्मनाम्।१।
शुचौ देशे तु सावित्र्या देह प्रक्षाऌय यत्नतः
अलङ्कृत्य च गायत्र्या गन्धैर्माल्यैः पृथक्पृथक्।२।
वहन्ति ब्राह्मणा ये वै शुचयस्सर्व एव ते
तेषां तु वहतां सम्यक्सद्यश्शौचं विधीयते ।३।
प्रक्षाऌअनादि तत्कर्म ये कुर्वन्ति महीयसाम्
तेषामपि तथा सद्यश्शौचमेव विधीयते ।४।
पुत्रो वा सन्निकृष्टो वा शुचौ देशे निधाय तम्
उपावरोहमन्त्रेण तस्याग्नीनवरोप्य तु ।५।
तूष्णीं संमार्जनं कृत्वा व्याहृतीभिश्च सप्तभिः
प्रोक्ष्य काष्ठं च तद्देहं निधाय तु समन्त्रकम्।६।
विष्णो हव्यं रक्षस्वेति मुखे जलपवित्रकम्
पवित्रं तेति मन्त्रेण निदधाति तथा पुनः ।७।
त्रिदण्डं दक्षिणे हस्ते वैष्णव्यर्चा निधाय च
उदरे च तथा पात्रं सावित्र्या निदधाति वै ।८।
यदस्य पारे रजसस्सव्ये शिक्यं निधाय च
गुह्ये कमण्डलुं चैव भूमिर्भूमिमगादिति ।९।
पितृमेधप्रयोगेण दहेदग्निभिरेव हि
संस्कर्तुश्च तथा तस्य नाशौचं नोदकक्रिया ।१०।
एकोद्दिष्टं न कुर्वीत संन्यस्तानां कदाचन
अहन्येकादशे प्राप्ते पार्वणं तु विधियते ।११।
द्वादश्यामह्नि वा पुण्ये नारायणबलिर्भवेत्
सर्वं नारायणोद्देशमेकोद्दिष्टवदाचरेत्।१२।
अनाहिताग्निनां चैव संन्यस्तानां महात्मनाम्
अपि होतृविधानेन गायत्र्या प्रणवेन वा ।१३।
अप्राकृतानां महतां ब्रह्मनिष्ठमनस्विनाम्
तेषां तु स्वननं कार्यमिति प्राहुर्मनीषिणः ।१४।
तिसृभिर्व्याहृतीभिस्तु खात्वा दण्डप्रमाणतः
त्रिदण्डादीन्यथास्थानममन्त्रैस्स्थापयेद्बुधः ।१५।
प्रच्छादयेदसंस्पृष्टं सृगालश्वापदादिभिः
श्वादयो यदि खादन्ति महान्दोषो भविष्यति ।१६।
तस्माद्भूमिं भृशं खात्वा सम्यक्प्रच्छादयेद्यतीन्
सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च ।१७।
न तस्य दहनं कुर्यान्नाशौचं नोदकक्रिया
निषेकाद्याश्श्मशानान्तास्सत्क्रिया ब्राह्मणाश्रिताः ।१८।
तस्माद्यत्नेन संस्कारः कर्तव्यो गृहमेधिभिः
ये वहन्ति महात्मानं स्पृष्ट्वा दृष्ट्वा द्विजातयः ।१९।
हयमेधफलं तेषामस्तीत्येवं विदर्बुधाः ।२०।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने सप्तदशो ऽध्यायः
BaudhGSS.4.18
अथ चतुर्थप्रश्ने अष्टादशो ऽध्यायः
अथातो ऽङ्कुरार्पणविधिं व्याख्यास्यामः ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्तण्डिलमुपलिप्याक्षतान्सम्प्रकीर्याद्भिरभ्युक्ष्य पञ्च पालिकास्सौवर्णा राजतास्ताम्रा मृण्मयीर्वा यथासम्भवं गृह्णाति ।१।
मध्ये चतुर्मुखं विन्द्यात्पूर्वे वज्रिणमेव च
दक्षिणे तु यम विन्द्यात्पश्चिमे वरुणं तथा
उत्तरे शशिनं विन्द्यात्पालिकास्थापनं क्रमात्।२।
वल्मीकमृत्तिकां हृत्वा गोमयं च तथैव च
एतानि प्रक्षिपेत्तासु पालिकासु यथाक्रमम्।३।
दूर्वामश्वत्थपत्रं च शिरीषं बिल्वपत्रकम्
तासां मूलेषु बध्नीयाच्छ्वेतसूत्रेण वेष्टयेत्।४।
मध्यमायां व्याहृतीभिर्ब्रह्माणमावाहयति ओं भूः ब्रह्माणमावाहयाम्यों भुवः प्रजापतिमावाहयाम्यों सुवः चतुर्मुखमावाहयाम्यों भूर्भुवस्सुवः हिरण्यगर्भमावाहयामि इति ।एताभिरेव प्राच्यामिन्द्रं वज्रिणं शचीपतिं शतक्रतुमिति ।एताभिरेव दक्षिणस्याम्यमं वैवस्वतं पितृपतिं धर्मराजमिति ।एताभिरेव प्रतीच्याम्प्रचेतसं सुरूपिणमपांपतिमिति ।एताभिरेवोदीच्याम्शशिनं निशाकरं चन्द्रं सोममिति ।५।
अथैतान्स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा ऽथैनान्गन्धपुष्पधूपदीपैरभ्यर्चयति अमुष्मै नमो ऽमुष्मै नमः इति ।६।
अथैनानुपतिष्ठते
दिशां पतीन्नमस्यामि सर्वकामफलप्रदान्
कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभमिति ।७।
व्रीहियवमाषतिलमुद्गसर्षपान्मिश्रीकृत्य क्षीरेण प्रक्षाल्यौषधिसूक्तेन या जाताः इत्यनुवाकेनाभिमन्त्र्य यथाक्रमं निवपति ब्रह्म जज्ञानं पिता विराजामिति द्वाभ्यां मध्यमायां यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां प्राच्यां यो ऽस्य कौष्ठ्य यमं गाय इति द्वाभ्यां दक्षिणस्यां इमं मे वरुण तत्त्वा यामि इति द्वाभ्यां प्रतीच्यां सोमो धेनुमाप्यायस्व इति द्वाभ्यामुत्तरस्याम्।८।
यथाक्रमं शुद्धाभिस्सिकताभिः प्रच्छादयेत्।९।
पञ्चगव्येन यथाक्रमं सेचयेत्।१०।
प्रणवेनैव सापिधानं कृत्वा यावत्कर्म तावत्सुरक्षितं गोपायेत्।१२।
समाप्ते कर्मणि ब्राह्मणान्पञ्च भोजयेत्।१२।
व्याहृतीभिः देवता यथाक्रममुद्वासयेत्।१३।
आसप्तमात्प्रजाकाम आषष्ठात्पुत्रनाशनम्
पञ्चमे भक्तिकामानां विष्णोस्सर्वात्मनस्तथा ।१४।
चतुर्थे चाङ्कुरं विद्यात्पापीयान्जायते तु सः
त्रियहे सर्वकामानां सद्यो वा ऽप्यङ्कुरार्पणम्।१५।
इत्याह भगवान्बोधायनः ।१६।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने अष्टादशो ऽध्यायः
BaudhGSS.4.19
अथ चतुर्थप्रश्ने एकोनविंशो ऽध्यायः
अथातो नान्दीमुखं व्याख्यास्यामः आदित एव द्वौ विप्रौ निमन्त्र्य चतुरवरांश्च पित्रर्थानथ श्मस्रुकर्माभ्यञ्जनस्नानैर्यथोपपादं संपूज्याग्निमुपसमाधाय संपरिस्तीर्याज्यं विलाप्योत्पूय दध्ना घृतेन संयुत्य स्रुवं संमृज्य देवार्थौ विप्रावुपवेश्यालङ्कृत्यानुदेश्य द्विःपवित्र एव यवोदकं निधाय पुष्पफलाक्षतमिश्रं भोजनस्थानेष्वासनेषु यवान्सिकताश्च सम्प्रकीर्य पित्रर्थानुपवेश्य तेषां सपवित्रेषु पाणिषु नान्दीमुखाः पितरः प्रीयन्तामित्यनेन मन्त्रेण पात्रान्तरेणोपहत्य यवोदकं दत्वा द्विरथालङ्कृत्यैवमेव दत्वा ऽग्नौकरणमनुज्ञाप्यालङ्कृत्य पृषदाज्यात्स्रुवेणोपहत्य नान्दीमुखेभ्यः पितृभ्यस्स्वाहा इत्येतावदग्नौ कृत्वा ऽन्नमुपस्तीर्णाभिघारितं पात्रेषूद्धृत्य पृषदाज्येन संसृज्य दर्भेषु सादयित्वा दर्भैः प्रतिच्छाद्य नान्दीमुखार्थानां पितॄणां क्षेष्ठा अमुत्रामुष्मिन्लोके इति मन्त्रमूह्याभिमृश्य विप्रेभ्यो द्विरुपस्तीर्याभिमृष्टस्यान्नस्य द्विरवदाय द्विरभिघार्य यथावद्भोजयेत्।१।
पितृसामान्यवाचिस्वधायुक्तानि ब्रह्माण्यभिश्राव्य भुक्तवत्स्वाचान्तेषूपलिप्याशयेषु दध्योदनं संप्रकीर्य संक्षाऌअनेन प्रदक्षिणं द्विःपरिषिच्य पूर्ववद्यबोदकं दत्वा दक्षिणां प्रदाय नान्दीमुखाः पितरः प्रीयन्तामिति वाचयित्वा ऽभिवाद्य स्वधायै स्थाने सर्वैस्समानं दक्षिणं जानुं निपात्य सव्यमुद्धृत्य जपति इडा देवहूः इत्यान्तादनुवाकस्य जपित्वा नान्दीमुखाः पितरः प्रीयन्तामित्यपो निनीय ब्राह्मणानुत्थाप्य प्रसाद्य संसाद्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्य देवतां च विसृज्य दक्षिणेनाग्निं प्रागग्रेषु दर्भेषु नान्दीमुखेभ्यः पितृभ्यो दद्यात्नान्दीमुखेभ्यः पितृभ्यस्स्वाहा इति संक्षाऌअनेन प्रदक्षिणं परिषिच्य ऊर्जं वहन्तीः इति भाविजयाद्यर्थेन कालहोमान्पृषदाज्येन पूर्ववद्धोमं केचिदिच्छन्तीत्युक्तमेतन्नान्दीमुखम्।२।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने एकोनविंशो ऽध्यायः
BaudhGSS.4.20
अथ चतुर्थप्रश्ने विंशो ऽध्यायः
अथातो ग्रामस्योत्पातशान्तिं व्याख्यास्यामः अग्निदाहे व्याघ्रादिभिरभिभूते सृगालपीडने ग्रामादन्तश्चण्डालाध्यवसिते ग्रामस्य स्थूणावरोहणे मधुन उपवेशने वल्मीकपुष्करोत्पन्ने देवगात्रस्वेदकम्पने ज्वराभिभूते बहुब्राह्मणमरणे ग्राममध्ये श्मशाने वा दस्युभिश्चापि पीडिते रात्रौ तटाकसेतुभङ्गे जले विवर्णे वा स्वन्तस्थे ऽशनिपाते चिरकालशून्यग्रामप्रवेशे तेष्वन्येषु चोत्पातेषु शान्तिं कुर्यात्।१।
शुभवारे शुभनक्षत्रे शुभलग्ने विष्णोस्स्नापनार्थं महादेवाभिषेकार्थं द्वौ द्वौ ब्राह्मणौ कल्पयित्वा नवग्रहशान्त्यर्थं चतुरो ब्राह्मणांस्तयैव सङ्ख्यया ग्रामशान्तिहोमार्थं कल्पयित्वा ऽथ ग्रामशान्तिहोमे ग्रामस्योत्तरपूर्वदेशे देवागारे चतुष्पथे वा शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य तिलसर्षपलाजैर्गन्धपुष्पाक्षतैरवकीर्य स्थण्डिलं कल्पयित्वा कुम्भस्थापनं कृत्वा ऽग्निमुपसमाधाय संपरिस्तीर्याप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं देवताश्चाबाहयति व्याहृतीभिः यज्ञपुरुषमावाहयामि देवस्य दक्षिणतो ब्रह्मणमावाहयामि उत्तरतः त्रियम्बकमावाहयामि देवस्याग्ने वास्तुपुरुषमावाहयामि इन्द्रादिदेवताश्चावाहयामि इत्यावाह्य पुरुषसूक्तेन विष्णुमभ्यर्च्य ब्रह्मसूक्तेन चतुर्मुखं रुद्रसूक्तेन त्रियम्बकं चाभ्यर्च्यान्येषां देवानमावाहनादिक्रमेण स्वैस्स्वैर्नामभिरभ्यर्च्यापरेणाग्निं प्राङ्मुख उपविश्याग्निमुखात्कृत्वा पक्वाज्जुहोति वास्तोष्पते प्रति जानीह्यसमानिति पुरोनुवाक्यामनूच्य वास्तोष्पते शग्मया संसदा ते इति याज्यया जुहोति ।२।
तेनैव मन्त्रेन शमीमयीं समिधमष्टोत्तरसहस्रं जुहुयात्।वास्तोष्पते प्रतरणो न एधि इत्यष्टोत्तरसहस्रमन्नाहुतीर्जुहुयात्।३।
अमविहा वास्तोष्पते इत्यष्टोत्तरसहस्रमाज्याहुतीर्जुहुयात्।४।
मृगारेष्टिवतंहोमुचे इत्यभिज्ञैः प्रत्यृचमाज्याहुतीर्हुत्वा या वामिन्द्रावरुणा इति द्वादशाहुतीर्हुत्वा पवमानस्सुवर्जनः इत्येतेनानुवाकेन प्रत्यृचमाज्याहुतीर्हुत्वा पुरुषसूक्तेन ब्रह्मसूक्तेन रुद्रसूक्तेन च प्रत्यृचमाज्याहुतीर्हुत्वा यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां अग्निरायुष्मानिति पञ्चभिः अग्ने नय सुपथा इति षड्भिः यो ऽस्य कौष्ठ्य इति एष ते निरृते भागः इति इमं मे वरुण तत्त्वा यामि इति द्वाभ्यां समुद्राय त्वा वाताय स्वाहा इति त्रयोदशाहुतीः आप्यायस्व सं ते पयांसि इति द्वाभ्यां ईशानस्सर्वविद्यानामिति त्रियम्बकं यजामहे इति प्रत्येकमाज्याहुतीर्हुत्वा आसत्येन इत्यादि केतुं कृण्वन्नकेतवे इत्यन्तं नवग्रहमन्त्रेणाज्याहुतीर्हुत्वा स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।५।
अथाग्रेणाग्निं शमीपत्रेषु हुतशेषं निदधाति यो रुद्रो अग्नौ इति ।६।
अथ देवताभ्यो हविर्निवेदयेत्।७।
अथोपतिष्ठते हेतयो नाम स्थ इति ।८।
यथाक्रमं दिश उपस्थाय पुण्याहं वाचयित्वा उदकुम्भं चान्वारभ्य पञ्चशान्तिं च जपित्वा हुतशेषमाज्यशेषं च पूर्णकुम्भे निक्षिप्य उदुमबरशाखया शमीशाखया दर्भमुष्टिना वा शिवं शिवं शं नो देवीरभिष्टये इति च शाकुनेन सूक्तेन ग्रामं त्रिः प्रदक्षिणं परिषिच्य ब्राह्मणेभ्यो भूरिदक्षिणां दत्वैवं सप्ताहं द्वादशाहं वा कुर्यात्समस्तोत्पातशान्तिरित्याह भगवान्बोधायनः ।९।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने विंशो ऽध्यायः
BaudhGSS.4.21
अथ चतुर्थप्रश्ने एकविंशो ऽध्यायः
अथाशनिपाते भूमिं जानुदघ्नमुद्धृत्य अद्भिः प्रोक्ष्य _पत्रावकां च संस्थाप्य ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा खननात्पश्चात्स्थण्डिलं कृत्वा परिधानप्रभृत्यग्निमुखपर्यन्तं कृत्वा शं न इन्द्राग्नी इति त्रिभिर्मन्त्रैराज्याहुतीर्हुत्वा स प्रत्नथा सहसा जायमानः इति सूक्तेन चरुणा जुहोति ।१।
स्वस्ति नो मिमीतामिति प्रतिपद्य स्वस्ति नो बृहस्पतिर्दधातु इति स्वस्त्यात्रेयं जपित्वा ब्राह्मणान्सम्पूज्याशिषो वाचयित्वाचार्याय दक्षिणां ददाति ।२।
चरुं विद्यावन्तं ब्राह्मणं भोजयेत्।३।
दग्धभूमिसमं ब्राह्मणाय दद्यात्जीवनागन्धमियदिति स्वर्णं ददातीत्याह भगवान्बोधायनः ।४।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने एकविंशो ऽध्यायः
BaudhGSS.4.col.
अथाशनिपाते ।अथातो ग्रामस्योत्पातशान्तिम्।अथातो नान्दीमुखम्।अथातो ऽङ्कुरार्पणविधिम्।अथातस्संप्रवक्ष्यामि ।अथातः कपिलसंन्यासविधिम्।अथ यद्याहिताग्निः ।अथ गृहस्थस्यौपासनम्।अथ लौकिकौपासनग्रहणधारणोपावरोहणविधिम्।अथ यद्यग्निविमोकम्।अथ वै भवति जायमानः ।अथ गृहस्थस्तु ।कथमु खल्वनाहिताग्नेः ।अथ वै भवत्यापः ।अथात आचमनविधिम्।अथातश्शौचविधिम्।अथातः काम्यविधिम्।अथ प्रहुतानुकृतिर्धर्मोपभोगविधिम्।अथातो मृतबलिम्।आहुतानुकृतिर्बलिहरणानुकृतिर्धूर्तबलिः ।अथातो मिथ्यासत्यबलिम्।२१।
अथातो मिथ्यासत्यबलिम्।आहुतानुकृतिर्बलिहरणानुकृतिर्धूर्तबलिः ।अथातो मृतबलिम्।अथ प्रहुतानुकृतिर्धर्मोपभोगविधिम्।अथातः काम्यविधिम्।अथातश्शौचविधिम्।अथात आचमनविधिम्।अथ वै भवत्यापः ।कथमु खल्वनाहिताग्नेः ।अथ गृहस्थस्तु ।अथ वै भवति जायमानः ।अथ यद्यग्निविमोकम्।अथ लौकिकौपासनग्रहणधारणोपावरोहणविधिम्।अथ गृहस्थस्यौपासनम्।अथ यद्याहिताग्निः ।अथातः कपिलसंन्यासविधिम्।अथातस्संप्रवक्ष्यामि ।अथातो ऽङ्कुरार्पणविधिम्।अथातो नान्दीमुखम्।अथातो ग्रामस्योत्पातशान्तिम्।अथाशनिपाते ।२२।
इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्नः समाप्तः