बौधायनगृह्यसूत्रम्/गृह्यशेषः/प्रश्नः १
अथ बोधायनगृह्यशेषसूत्रप्रारम्भः
BaudhGSS.1.1
अथातस्सप्तपाकयज्ञानामुक्तं तच्छैषं व्याख्यास्यामः ।१।
पवित्रकरणं प्रोक्षणीसंस्कारं प्रणीताप्रणयनं स्रुक्स्रुवसंमार्जनमिति दर्शपूर्णमासवत्तूष्णीम्।२।
अथाग्निं परिस्तीर्य दक्षिणेनाग्निं ब्रह्मायतने दर्भान्संस्तीर्योत्तरेणाग्निं प्रागग्रान्दर्भान्संस्तीर्य तेषु पात्राणि सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा विस्रस्येध्मं त्रिस्सर्वाभिः प्रोक्ष्य दर्भेसु दक्षिणतो ब्राह्मणमुपवेशयति दर्शपूर्णमासवत्तूष्णीम्।३।
अरत्निमात्राः परिधयः आर्द्रा वा सत्वक्काः ।४।
प्रादेशमात्राण्येकविंशतिरिध्मदारूणि भवन्ति इति ब्राह्मणेन व्याख्यातम्।५।
अथ यदि शम्याः परिदधाति शमीमय्यश्शम्याकृतयो वा ऽरत्निमात्राः ।६।
अथेध्ममभ्यज्य परिसमिधं शिनष्टि ।७।
स्वाहाकारेणाभ्याधायाघारावाघार्याज्यभागौ प्रतिमुखं प्रबाहुग्जुहोति ।८।
प्रसिद्धमाग्निमुखात्कृत्वा स्रुवेण दर्व्यामुपस्तीर्य पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति ।९।
यदि पञ्चावत्ती स्याद्दर्व्यामुपस्तीर्य मध्यात्पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति ।१०।
स्रुवं निमृज्य यथादेवतं पुरोनुवाक्यामनूच्य याज्यया जुहोति ।११।
अथोपस्तीर्य सकृदुत्तरार्धात्स्विष्टकृतमवद्यति द्विरभिघारयति न प्रत्यनक्ति ।१२।
तमन्तःपरिधि सादयित्वा यथाम्नातमाज्याहुतीर्जुहोति ।१३।
व्याहृतिभिरनाम्नातेषु ।१४।
अथ स्विष्टकृतमादायोत्तरार्धपूर्वार्धे जुहोति पूर्वेण वात्रैतं मेक्षणमनुप्रहरति ।१५।
अथैनत्संस्रावेणाभिजुहोति ।१६।
दर्व्यामप आनीय संक्षाऌअनमन्तः परिधि निनयति ।१७।
निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वा बहिः परिधि निनयति ।१८।
अथ समिधमाधाय जयान्जुहोति चित्तं च स्वाहा इति ।१९।
त्रयोदश स्रुवाहुतीर्हुत्वा ऽभ्यातानान्जुहोति अग्निर्भूतानामधिपतिस्स मावत्वस्मिन्ब्रह्मन्नस्मिन्क्षत्रे स्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्यां देवहूत्यां स्वाहा इति ।२०।
सप्तदश स्रुवाहुतीर्हुत्वा वाचयति पितरः पितामहाः परे ऽवरे ततास्ततामहा इह मा ऽवत इति ।२१।
अथ राष्ट्रभृतो जुहोति ऋताषाडृतधामा ऽग्निर्गन्धर्वस्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्यौषधयो ऽप्सरस ऊर्जो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्यस्स्वाहा इति ।२२।
एवमेवान्तादनुवाकस्यान्यत्र भुवनस्य पते स नो भुवनस्य पते इति ।२३।
अथामात्यहोमान्जुहोति यद्देवा देवहेडनमित्यन्तादनुवाकस्य प्रत्यृचम्।२४।
अथ प्राजापत्यां जुहोति प्रजापते न त्वदेतान्यन्यः इति ।२५।
अथ सौविष्टकृतं जुहोति यदस्य कर्मणः इति ।२६।
स्रुवेण परिधीननक्ति ।२७।
अथ परिस्तरात्समुल्लिप्याज्यस्थाल्यां प्रस्तरवद्बर्हिरक्त्वा तृणं प्रच्छिद्याग्नावनुप्रहृत्य तूष्णीं तृणं चाथ शम्या अपोह्य परिवीननुप्रहरति ।२८।
मध्यमं परिधिमनुप्रहृत्याथेतरावुपसमस्यति ।२९।
अथैनान्संस्रावेणाभिजुहोति ।३०।
अथाग्रेणाग्निं यथाम्नातं हुतशेषं दत्वा शेषं कुर्यादन्यत्र विवाहशेषात्।३१।
तथऐव परिषिञ्चति अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान्सन्नमयति ।३२।
अथ प्रणीताभ्यो दिशो व्युन्नयति दर्शपूर्णमासवत्तूष्णीम्।३३।
ब्राह्मणं विसृज्य शेषं प्राश्नाति आयुरसि विश्वायुरसि इति ।३४।
प्राश्याप आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम्।३५।
शेषमभिघारितं ब्राह्मणाय दद्यात्।३६।
न पत्न्या हविषां भक्षणमन्यत्रोच्छिष्टमभिसम्पाताभिहुतानां पिण्डदानस्य शेषं च नैव देवताहुतशेषमन्यत्र ब्रह्मौदनात्।३७।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने प्रथमो ऽध्यायः
BaudhGSS.1.2
अथ प्रथमप्रश्ने द्वितीयो ऽध्यायः
उपनयनादिरग्निस्तमौपासन इत्याचक्षते ।१।
दारकाले दायाद्यकाले वा नित्यो धार्यः ।२।
अनुगते प्रायश्चित्तं प्रसिद्धम्।३।
तस्मिन्पाकयज्ञसंस्थानि दैवानि कर्माणि क्रियन्ते ।४।
उपस्थानादि समानमन्यत्र प्रजासंस्कारात्।५।
प्रजासंस्कारार्थमन्यत्र शुचौ देशे स्थण्डिलं कृत्वोल्लिखेन्मध्ये प्राचीनमेवं दक्षिणत एवमुत्तरतो मध्यादुदीचीनमेवं पश्चादेवं पुरस्तात्।६।
औपासनादेकदेशं प्रणवेनाहृत्य व्याहृतिभिर्नियुप्यापि वा श्रोत्रियागारात्।७।
एवमौपासनमुपसमाधाय मयि गृह्याम्यग्रे अग्निं यो नो अग्निः पितरः इति द्वाभ्यामात्मन्यग्निं गृहीत्वोपस्थानादि समानमापात्रसादनात्।८।
कथमु खलु पात्रसादनानामानुपूर्व्यं भवति आज्यस्थालीं स्रुवं च जुहूं च दर्वीं च प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं मेक्षणं चेध्माबर्हिरिध्मप्रव्रश्चनान्येवमेवान्यानि द्वन्द्वं न्यञ्चि न हीने नातिरिक्ते सादयति ।९।
समानं कर्म स्रुक्संमार्जनात्।१०।
स्रुक्स्रुवं संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा पूर्णाहुतिं जुहोति सप्त ते अग्ने समिधस्सप्त जिह्वाः इति ।११।
औपासनादग्निप्रणयनं विद्यते ।१२।
अथ परिधानप्रभृति समानम्।१३।
अथाप्युदाहरन्ति असंस्कृताभिरद्भिः प्रोक्षणीभिरप्रोक्षितपात्रैर्होमश्चासंमार्जनैः स्रुक्स्रुवैर्नाधिश्रितपक्वैराज्येन न प्रचरितव्यं यदि प्रचरेद्यातुधाना असुरा रक्षांसि पिशाचा यज्ञं ग्राहयेयुः इति ।१४।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने द्वितीयो ऽध्यायः
BaudhGSS.1.3
अथ प्रथमप्रश्ने तृतीयो ऽध्यायः
अथातो ऽपूर्वं व्याख्यास्यामः ।१।
परिसमूह्य पर्युक्ष्य परिस्तीर्य परिषिच्योपसमाधायालङ्कृत्य यावदाम्नातमाहुतीर्जुहोत्याद्यन्तयोर्व्याहृतिभिराज्याहुतिः परिधानं प्रणीताप्रणयनं ब्रह्मोपवेशनं च न विद्यते विद्यते वा पूर्वैर्मन्त्रैरुपांशूक्त्वा उत्सृजत इत्युच्चैरेवमेवोपकल्पयतीति विज्ञायते ।२।
पाकयज्ञसंस्थानां न तिष्ठद्धोमो विद्यते विज्ञायते च अन्यत्र विहाराद्भूयते सर्वास्ताः पाकयज्ञसंस्थाः इति ।३।
अथ संस्थायामाद्यन्तयोः परिषेचनं यथा पुरस्तात्।४।
विज्ञायते नासमित्के जुहुयाद्यदसमित्के जुहुयाद्यथाजिह्वे ऽन्नं दद्यात्तदृक्तस्मात्समिद्वत्येव होतव्यमिति ।५।
अनादिष्ट उपसमाधाय होतव्यमनादिष्ट उपहत्यैव होतव्यमिति ।६।
मेक्षणेन अमुष्मै स्वाहा अमुष्मै स्वाहा इति दैवतं जुहोति ।७।
अथाप्युदाहरन्ति ओषध्यस्सक्तवः पुष्पं काष्ठं मूलं फलं तृणम्।एतद्धस्तेन होतव्यं नान्यत्किञ्चिदचोदनातिति ।८।
ओषध्यादिवद्बलिहरणं प्राक्परिषेचनाद्धुतशेषप्रदानं प्राशनं चैवमेव मूर्ध्नि संस्रावहोमः प्रदक्षिणं चान्यत्रोपनयनात्।९।
सावित्रीमर्थायार्थायाग्निं प्रणयति ।११।
अपवृत्ते कर्मणि लौकिकस्सम्पद्यते ।१२।
अथ यद्युत्करे ऽग्न्युपस्थानादि समानं निवर्तते पूर्णाहुतिस्समानमत ऊर्ध्वम्।१३।
इति बोधायनीये गृह्यशेषसूत्रे प्रथमप्रश्ने तृतीयो ऽध्यायः
BaudhGSS.1.4
अथ प्रथमप्रश्ने चतुर्थो ऽध्यायः
अथातस्स्थिण्डलविधिं व्याख्यास्यामः ।१।
सिकताश्चतुरङ्गुलं प्राचीनमुद्धृत्य पञ्चाङ्गुलिप्रमाणं पश्चिमत ऊर्ध्वमङ्गुलिविशेषं दक्षिणत ऊर्ध्वमङ्गुलिविहीनमुत्तरतः पञ्चप्रस्थं सिकताश्शुचयश्शुक्ला अनार्द्रा अरत्निमात्रं समचतुरश्रं प्राक्प्रवणं स्थण्डिलं करोति ।२।
न लोष्ठेन न काष्ठेन न शर्करैर्न नखैः ।काष्ठेन व्याधितस्स्याल्लोष्ठेन कुलनाशनम्।शर्करैः पुत्रनाशस्स्यान्नखैर्बन्धुविनाशनम्।३।
तस्मात्सुवर्णरजतताम्रशकलेन व्रीहिभिर्यवैर्वा दर्भैस्तदङ्गुष्ठेन च महानाम्न्या चोपसङ्गृह्य तस्य मध्यतः प्राचीनं सन्ततमृजुमुल्लिखेत्।किंदेवत्यं किंमन्त्रमिति ।ब्रह्मदेवत्यं ब्रह्म जज्ञानमिति ।४।
तस्य दक्षिणतः प्राचीनं सन्ततमृजुमुल्लिखेन्।किंदेवत्यं किंमन्त्रमिति यमदेवत्यं नाके सुपर्णमिति ।५।
तस्योत्तरतः प्राचीनं सन्ततमृजुमुल्लिखेत्।किंदेवत्यं किंमन्त्रमिति ।सोमदेवत्यं आप्यायस्व समेतु ते इति ।६।
तस्य मध्यत उदीचीनं सन्ततमृजुमुल्लिखेत्।किंदेवत्यं किंमन्त्रमिति रुद्रदेवत्यं यो रुद्रो अग्नौ इति ।७।
तस्यः पश्चादुदीचीनं सन्ततमृजुमुल्लिखेत्।किंदेवत्यं किंमन्त्रमिति ।विष्णुदेवत्यमिदं विष्णुर्विवक्रमे इति ।८।
तस्य पुरस्तादुदीचीनं सन्ततमृजुमुल्लिखेत्।किंदेवत्यं किंमन्त्रमिति ।इन्द्रदेवत्यमिन्द्रं विश्वा अवीवृधनित्येतस्मात्स्थण्डिलविधिर्भवति ।९।
न कपालो न धूमो न ज्वालो न विस्फुटो न नम्रमुखो द्रप्सं पतितं मुखज्वलितं च वर्जयित्वा देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां भूर्भुवस्सुवरोमित्याह भवगवान्बोधायनः ।१०।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने चतुर्थो ऽध्यायः
BaudhGSS.1.5
अथ प्रथमप्रश्ने पञ्चमो ऽध्यायः
अथातस्सिकतादोषं व्याख्यास्यामः ।१।
भस्मकेशतुषकपालशर्करतृणास्थिपिपीलिकैरार्द्रसिकतानि वर्जयेत्।२।
भस्मना यजमानक्षयः केशेन स्त्रीमरणं तुषेण पुत्रघ्नं कपालैरर्थनाशनं शर्करैर्बन्धुवियोगः तृणेन कर्मक्षयः अस्थिना ग्रामविनाशः पिपीलिकैः राष्ट्रविनाशः आर्द्रसिकतैर्व्याधिभयं भवतीत्याह भगवान्बोधायनः ।३।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने पञ्चमो ऽध्यायः
BaudhGSS.1.6
अथ प्रथमप्रश्ने षष्ठो ऽध्यायः
अथातः परिस्तरणविधिं व्याख्यास्यामः ।१।
दर्भैरविच्छिन्नाग्रैरनखच्छिन्नैरविवर्णकैरव्याधिकरदग्धमूलैश्चतुरङ्गुऌआधिकैर्मूलं छिन्द्याद्धस्तसममाज्येनाभ्यज्य वा स्पृष्ट्वाज्येन वा स्पृष्टैरद्भिरनुमृज्य देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां परिस्तृणामि इति पुरस्तात्परिस्तीर्य दक्षिणेन व्याहृतिभिः पश्चिमेन उद्वयं तमसस्परि इति उत्तरेण अग्न आयाहि वीतये इति दक्षिणेनाग्निं ब्रह्मायतन उपवेश्य ओं भूर्भुवस्सुवरों ब्रह्मन्।ब्रह्मासि नमस्ते ब्रह्मन्।ब्रह्मणे इत्यासनं कल्पयित्वोत्तरेणाग्निं प्रणीताभ्यः कल्पयित्वा वरुणो ऽसि धृतव्रतो वारुणमसि इति ।२।
एतस्मात्परिस्तरणविधिर्व्याख्यातः ।३।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने षष्ठो ऽध्यायः
BaudhGSS.1.7
अथ प्रथमप्रश्ने सप्तमो ऽध्यायः
सर्वत्र दर्वीहोमानामष्टोत्तरशतं दर्भाः द्वे हस्तपवित्रे द्वे आसने प्रागुदीचीनाग्रैष्षोडाश परिस्तरणं दक्षिणतः प्रागग्रैस्सप्तदश पश्चादुदीचीनाग्रैरष्टादशोत्तरतः प्रागग्रैस्सप्तदश पात्राणा पञ्च सप्तदश ब्रह्मासनं प्रणीतासने द्वे द्वे आज्यपवित्रे द्वे अभिद्योतने द्वे दर्भाग्रे द्वे पर्यग्निकरणे स्रक्सम्मार्जनं चतुर्भ्य इति ।१।
अरत्निमात्रं षडङ्गुलं तिस्रश्शम्याः परिधीन्कृत्वा मध्यमाङ्गुलिरनामिका कनिष्ठिकेति स्थविष्ठो मध्यमो ऽणीयान्द्राघीयान्दक्षिणतो ऽणिष्ठो ह्रसिष्ठ उत्तरतो ऽङ्गुष्ठपर्वमात्रमष्टादश याज्ञिकाः काष्ठाः प्रादेशमात्रं पवित्रं दर्भेतरुणकाभ्यामङ्गुष्ठपर्वमात्रं प्रोक्षणीमाज्यस्थालीं प्रस्थचतुर्भागं पूर्ण प्रस्थद्विभागं प्रणीताप्रणयनं चरुस्थालीं प्रस्थमाहुतिप्रमाणं चतुरङ्गुलमवदानप्रमाणमङ्गुष्ठपर्वमात्रं दर्वीप्रमाणमेकविंशत्यङ्गुष्ठं तस्या द्व्यङ्गुष्ठमुन्नतं पञ्चाङ्गुष्ठं बिलमेवमेव स्रुक्प्रादेशमात्रमुच्छ्रितं चतुरङ्गुलं वा किञ्चिद्दक्षिणत उन्नतो भवति मेक्षणमिति होमदर्वीप्रमाणमिति ह स्माह बोधायनः ।२।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने सप्तमो ऽध्यायः
BaudhGSS.1.8
अथ प्रथमप्रश्ने अष्टमो ऽध्यायः
अथ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा प्रादेशमात्रमुच्छ्रितं चतुरङ्गुलं वा किञ्चिद्दक्षिणत उन्नतो भवति ।१।
प्राचीनप्रवणं किंकामस्य उदीचीनप्रवणं किंकामस्य ।प्राचीनप्रवणं ब्रह्मवर्चसकामस्योदीचीनप्रवणमन्नाद्यक मस्य प्रागुदक्प्रवणं प्रजाकामस्य समं प्रतिष्ठाकामस्य ।२।
उपलिप्तं वैश्वदेवत्यमुद्धत्यं नाकदेवत्यमवोक्षणं पितृदेवत्यं सैकतं सिन्धु देवत्यमुल्लेखनं यमदेवत्यं निरसनं रुद्रदेवत्य स्पर्शनं वरुणदेवत्यमग्निविधानं विष्णुदेवत्यं विहरणं वामदेवत्यं कर्म गायत्र्याः परिस्तरणदर्भाज्यस्थालीस्रुवजुहूनां पृथिवीदेवत्यं स्रुक्सोमदेवत्यमाज्यं वसुदेवत्यं पवित्रं विष्णुदेवत्यं चरुः प्रजापतिदेवत्यं मेक्षणं अग्निदेवत्यं सम्मार्जनं रुद्रदेवत्यं कूर्चं प्रजापतिदेवत्यमुदकुम्भं अब्देवत्यं प्रणीता वरुणदेवत्यमश्म महेन्द्रदेवत्यं वासः सोमदेवत्यं कर्ता बृहस्पतिदेवत्यं धूमं अतिथिदेवत्यमिध्मं अग्निदेवत्यं मध्यमपरिधिः यजमानदेवत्यं दक्षिणपरिधिः इन्द्रदेवत्यमुत्तरपरिधिः वरुणदेवत्यमूर्ध्वसमिधौ सूर्यदेवत्यमिन्द्राग्नियमनिरृतिवरुणवायुसोमेशाना अष्ट दिग्देवत्यं व्यजनं वायुदेवत्यं गन्धं अश्विनिदेवत्यं पुष्पं गान्धर्वदेवत्यं धूपं इन्द्रदेवत्यं दीपं भानुदेवत्यं प्रयाजानूयाजं ऋतुदेवत्यं पक्वं प्रधानदेवत्यमुपहोमाः यथालिङ्गदेवत्यं यत्र यत्र होमे मन्त्रविधानं तत्र तत्र तल्लिङ्गदेवत्यं परिषत्ब्रह्मदेवत्यं सदस्याः सर्वदेवत्यमन्येषामनुक्ताना प्रजापतिदेवत्यं यो ऽस्य दैवतं मन्त्रतः कर्मतो वाभिज्ञाय जुहोति सो ऽश्नुते श्रियमायुष्यमारोग्यं स्वर्ग्यं च भवति ।३।
अग्निहीनमनावृष्टिः मन्त्रहीनं तु ऋत्विजः आज्यहीनं कुलं हन्ति स्वरहीनं तु पत्नयः ।४।
यजमानं दक्षिणाहीनमन्नहीनं तु राष्ट्रकम्सर्वहीनं सदस्यानि नास्ति यज्ञसमो रिपुः ।५।
तस्मात्सर्वप्रयत्नेन किञ्चिद्द्रव्यस्समाचरेत्श्रियःकामश्चरेत्सर्वं समृद्धं सहदक्षिणम्।६।
एवं ऋषिविधानोक्तं मुनीनां तत्त्ववेदिनाम्सर्ववेदाह्निकं होमं सर्वलोकेषु पूजितम्।७।
सर्वलोकेषु पूजितमितीत्याह भगवान्बोधायनः ।८।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने अष्टमो ऽध्यायः
BaudhGSS.1.9
अथ प्रथमप्रश्ने नवमो ऽध्यायः
अथातः पुण्याहदेवता व्याख्यास्यामः विवाहस्याग्निः प्रीयतां औपासनस्याग्निसूर्यप्रजापतयः प्रीयन्तां पञ्चमे ऽहन्युदुम्बरो दशमे ऽहन्यन्ते चित्र्याणि स्थालीपाकस्याग्निः गर्भाधानस्य ब्रह्मा पुंसवनस्य प्रजापतिः सीमन्तस्य धाता विष्णुबलेस्सविता जातकर्मणो मृत्युः नामकरणस्य सविता तस्यान्ते प्रजापतिः उपनिष्क्रामणस्य सविता तस्यान्ते चित्र्याणि अन्नप्राशनस्य सविता चौऌअस्य केशिनः तस्यान्ते प्रजापतिः उपनयनस्येन्द्रश्श्रद्धामेधे इत्यन्ते विसर्गे सुश्रवाः पुनरुपनयनस्याग्निः अथ यदि ब्रह्मचार्यव्रत्यमिव चरेत्तस्मिन्नध्यायहोमे सविता समावर्तनस्य श्रीरिन्द्रो वा शूलगवस्येशानः प्रत्यवरोहणस्य सविता उपाकर्मव्रतेषु च सविता वास्तुहोमस्य वास्तोष्पतिः अन्ते प्रजापतिः अद्भुतहोमस्येन्द्रेः अन्ते प्रजापतिः आयुष्यहोमस्याग्निरायुष्मान्नक्षत्रहोमस्य नक्षत्रेष्टिषूक्तमष्टमी प्रदोषस्येशानः आग्रयणहोमस्याग्रयणदेवताः सर्पबलेस्सर्पाः आदित्यपुरोगा ग्रहाः प्रीयन्तामथैकोद्दिष्टस्यान्ते प्रजापतिस्तटाकादीनां वरुणो देवता यक्षिबलेर्यक्षी गृहशान्तिहोमस्यादित्यादिनवग्रहाः गर्भाधानादितन्त्रहोमस्य ब्रह्मादयः प्रीयन्तामित्येवमन्येषां होमानां याज्यापुरोनुवाक्ययोर्देवता तस्यासौ प्रीयतामिति ।सूतकान्ते प्रेतकान्ते प्रथमोदक्यान्ते च प्रजापतिः कूश्माण्डहोमस्याग्न्यादयः चान्द्रायणहोमस्याग्न्यादयः अग्न्याधेये ऽग्नीषोमेन्द्राः एवमनादिष्टकर्मसु प्रजापतिः ।१।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने नवमो ऽध्यायः
BaudhGSS.1.10
अथ प्रथमप्रश्ने दशमो ऽध्यायः
अथातः पुण्याहं व्याख्यास्यामः ।१।
शुचौ समे देशे दर्भान्दूर्वां धारयमाणाः चत्वारो ब्राह्मणा अरिक्तहस्ताः प्राङ्मुखा युग्मास्तिष्ठन्ति ।२।
तेषां दक्षिणत उदङ्मुखो वापिहितमुदकुम्भं धारयन्वाचयिता तस्य दक्षिणं बाहुमाश्रित्य पत्न्यस्तिष्ठन्ति ।३।
पूर्णकुम्भमभ्यर्च्य दर्भेष्वासीनो दर्भान्धारयमाणो ऽनुज्ञां कुर्यात्भवद्भिरनुज्ञातः पुण्याहं वाचयिष्ये इति ।ते प्रणवपूर्वं वाच्यतामिति प्रतिब्रूयुः ।४।
ओं स्थित्वा तेषां सपवित्रेषु पाणिषु जलं ददाति ओमापः इति ।शिवा आपस्तन्तु इति प्रत्यूचुः ।५।
ततः गन्धाः इति गन्धं ददाति ।सुगन्धाः पान्तु इति प्रतिगृह्णन्ति ।६।
तेभ्यः सुमनसः इति पुष्पं ददाति ।ते सौमनस्यमस्तु इति प्रतिगृह्णन्ति ।७।
तेषां पाणिषु अक्षतमिति अक्षतान्ददाति ।अक्षतशब्देन व्रीहिमिश्रास्तण्डुला उच्यन्ते ।अक्षतं चारिष्टं चास्तु इति प्रतिगृह्णन्ति ।८।
ब्राह्मणा अभुक्ताश्चेतोमन्वाहार्यः इत्योदनं ददाति ।ते स्वन्वाहार्यो ऽस्तु इति प्रतिगृह्णन्ति ।९।
तेभ्यो दक्षिणाः इति दक्षिणां ददाति ।स्वस्ति दक्षिणाः पान्तु बहुदेयं चास्तु इति प्रत्यूचुः ।१०।
ततो वाचयिता दक्षिणं जानुं भूमौ निधाय सव्यमुत्थाप्योदुङ्मुखः इडा देवहूः इति जपति ।उदकुम्भमादायोपतिष्ठ इति प्रत्यूचुः ।११।
ततो वाचयिता मनस्समाधीयतामिति समाहितमनसस्स्मः इतीतरे प्रत्याहुः ।१२।
कर्ता प्रसीदनतु भवन्तः इति प्रसन्नास्स्मः इति वाचयित्वा यद्वा सर्वैर्मन्त्रैरनवानं वदेत्।१३।
शान्तिरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्तु अविघ्नमस्तु आरोग्यमस्तु शिवं कर्मास्तु इति ।एवमेवेतरे प्रत्याहुः ।१४।
यद्देवत्यं भवति तस्य नाम गृह्णाति असौ प्रीयतामिति ।एवमेवेतरे ।१५।
वाचयिता पुण्याहं भवन्तो ब्रवन्तु ओं पुण्याहमितीतरे प्रत्याहुः ।एवमेव त्रिः ।१६।
ततः स्वस्ति भवन्तो ब्रुवन्तु इति ।ओं स्वस्ति इतीतरे प्रत्यूचुः ।१८।
ततो वाचयिता ओं ऋद्धिं भवन्तो ब्रवन्तु इति ।ओं ऋध्यतामितीतरे प्रत्याहुः ।१८।
एवमेव त्रिर्वाचयित्वा ओं पुण्याहसमृद्धिरस्तु अस्तु इति ओं शिवं कर्मास्तु अस्तु इतीतरे प्रत्याहुः ।१९।
यद्देवत्यं भवति तस्य नाम गृह्णाति असौ प्रीयतामिति ।२०।
प्रीयतामसौ इति प्रतिब्रूयुः ।२१।
अथ व्याहृतिभिर्भूमौ जलं विसृज्योपविश्य सुरभिमत्या ऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिरिति मार्जयित्वा पत्नीं च प्रोक्षतीत्याह भगवान्बोधायनः ।२२।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने दशमो ऽध्यायः
BaudhGSS.1.11
अथ प्रथमप्रश्ने एकादशो ऽध्यायः
अथ प्रहुते प्रसिद्धं जातकर्म कृत्वा दशम्यां द्वादश्यां वा मातापितरौ स्नात्वा शुच्यगारं कृत्वा पुत्रस्य नामधेयस्य निदधीयातामिति ।१।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा प्राजापत्येन सूक्तेन जुहोति प्रजापते न त्वदेतान्यन्यः इति षड्भिरनुच्छन्दसम्।२।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।३।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयन्नामास्मै दधाति नक्षत्रनामधेयेन ।४।
द्वितीयमस्य नामधेयं गुह्यमस्यान्यदभिवादनीयमोपनयनकालान्मातापितरौ संविदितौ भवतः ।५।
विज्ञायते च तस्मात्द्विनामा ब्राह्मणो ऽर्धुकः इति ।६।
सोमयाजी तृतीयं नामधेयं कुर्वीत इति विज्ञायते ।७।
अयुगक्षरं कुमार्यै स्वस्ति श्रीसोम्येति दीर्घवर्णान्तम्।८।
अथाप्युदाहरन्ति शर्मान्तं ब्राह्मणस्य बर्मान्तं क्षत्रियस्य गुप्तान्तं वैश्यस्य भृत्यदासान्तं शूद्रस्य दासान्तमेव वा ।९।
अथ यदि ब्राह्मणं न विन्देतौपासने ज्योतिष्मत्या पुत्रस्य नाम गृह्णात्युपतिष्ठते वा ।१०।
अथ नक्षत्राणि रोहिणीमृगशीर्षमखाचित्राज्येष्ठाश्रवणशतभिषक्रेवत्या श्वयुक्षु प्रथमाक्षरवृद्धिस्स्याद्रोहिण्यां रौहिणायेति ।तथेतराणि ।११।
तिष्य आश्लेषा हस्त विशाखा अनूराधा आषाढा श्रविष्ठासु प्रकृतिवत्तिष्यायेति ।तथेराणि ।१२।
फल्गुन्यां फाल्गुनायेति ।१३।
स्वातीपुनर्वस्वोः स्वातये पुनर्वसव इति ।१४।
मूलार्द्रयओः मूलकायार्द्रकायेति ।१५।
प्रोष्ठपदासु प्रोष्ठपदाय प्रौष्ठपदायेति वा ।१६।
अपभरण्यामपभरणायापभरणायेति वा ।१७।
अग्नये कृत्तिकाय कार्तिकायेति वा व्याख्यातान्यग्नेहोतुः ।१८।
स्त्रीविषये कुमार्यै रोहिण्यै सुश्रियै गौर्यै स्वस्तीति ।१९।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने एकादशो ऽध्यायः
BaudhGSS.1.12
अथ प्रथमप्रश्ने द्वादशो ऽध्यायः
सप्तमे ऽष्टमे वा मासि कर्णवेधः ।१।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ऽथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति श्रोत्रेण भद्रमिति पुरोनुवाक्यामनूच्य येन प्राच्यै इति याज्यया जुहोति ।२।
अथाज्याहुतीरुपजुहोति प्राणो रक्षति विश्वमेजतित्येतेनानुवाकेन प्रत्यृचम्।३।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।४।
अथाग्रेणाग्निं वेणुपर्णेषु हुतशेषं निदधाति समुद्राय वायुनाय सिन्धूनां पतये नमः इति ।५।
अथाशिषो वाचयित्वा लोहितसूच्या वा कण्ठकेन वा दक्षिणं कर्णमातृणत्ति गा त्री त्रिष्टुपिति ।द्विपदा इत्युत्तरम्॥६।
अथ लोहितसूत्रेण वा वेणुसूत्रेण वा कर्णौ बध्नाति वरुणस्य स्कम्भनमसि इति ।७।
श्वोभूते विस्रंसयति वरुणस्य स्कम्भसर्जनमसि इति ।८।
सूत्रेण वा वेणुकाण्डेन वा वर्धयति ।९।
अथाप्युदाहरन्ति पुत्राय च दुहित्रे च समानि ब्राह्मणक्रिया मन्त्रवद्गर्भ आजन्म जन्माद्य आवृतं स्त्रियै ।१०।
सर्वेषु व्याहृतीर्विद्यादनाम्नातेषु कर्मसु होतव्या ब्रह्मभूताय नाक्रियो ब्राह्मणो भवेत्।११।
अनग्निरक्रियश्शूद्रः तस्माज्जातो ऽग्निना द्विजः नामधेयादि कर्तव्यमाकार्यादरणीकृतम्।१२।
मथित्वा वा ऽथ शकलान्समिद्धे मन्त्रवत्तथा उपनयनादिवाजस्रं स्वयं चारणिमग्निना ।१३।
सायंप्रातर्विधानेन समिद्भिस्तत्र हूयते गुरुशुश्रूषणपरस्समारोप्यात्मनि स्वयम्।१४।
या ते अग्नेतिमन्त्रेणोपावरोहेति लौकिके हुत्वा व्रतानुचरितं समावृत्ते गुरोर्मतात्।१५।
विवाहं विधिवत्कृत्वा गृहस्थाश्रममाविशेत्वैवाहिको विधिः स्त्रीणामौपनायनिकस्स्मृतः ।१६।
तावुभौ चारिणौ तस्मादौपासनमिति श्रुतिः
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने द्वादशो ऽध्यायः
BaudhGSS.1.13
अथ प्रथमप्रश्ने त्रयोदशो ऽध्यायः
अथ नक्षत्रहोमं व्याख्यास्यामः संवत्सरे संवत्सरे षट्सु षट्सु मासेषुचतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा कुमारस्य जन्मनक्षत्रे क्रियेत ।१।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुवः इति द्वाभ्याम्।२।
अथ नक्षत्रदेवताभ्यो जुहोति यथानक्षत्रम्।३।
अनु नो ऽद्यानुमतिरन्विदनुमते इति तृतीयम्।४।
अथाज्याहुतीरुपजुहोति नक्षत्रदेवताभ्यो यथानक्षत्रम्।५।
चन्द्रमसे स्वाहा ।प्रतीदृश्यायै स्वाहा ।अहोरात्रेभ्यस्स्वाहा अर्धमासेभ्यस्स्वाहा ।मासेभ्यस्स्वाहा इति मासि मासि ।६।
ऋतुभ्यस्स्वाहा इत्यृतावृतौ ।७।
संवत्सराय स्वाहा इति संवत्सरे ।८।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।९।
अन्नशेषं सगणः प्राश्नाति ।१०।
अथ संवत्सरे पर्यवेते प्रसिद्धमाग्निमुखात्कृत्वा पक्वाज्जुहोत्याग्नेयं प्रधानदेवत्यम्।११।
यथानक्षत्रं द्वितीयम्।१२।
अनु नो ऽद्यानुमतिरन्विदनुमतेत्वमिति तृतीयम्।१३।
नवो नवो भवति जायमानः यमादित्या अंशुमाप्याययन्ति इत्यान्तादनुवाकस्य ।१४।
अथ पूर्ववदाज्याहुतीरुपजुहोति नक्षत्रदेवताभ्यो यथानक्षत्रम्।१५।
चन्द्रमसे स्वाहा ।प्रतीदृश्यायै स्वाहा इत्येतैः स्वाहाकारैरान्तादनुवाकस्य ।१६।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।१७।
नक्षत्रहोमो व्याख्यातः ।१८।
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने त्रयोदशो ऽध्यायः
BaudhGSS.1.14
अथ प्रथमप्रश्ने चतुर्दशो ऽध्यायः
अथ वै भवति श्रद्धा वा आपश्श्रद्धामेवारभ्येति ।यज्ञो वा आपो यज्ञमेवारभ्येति ।वज्रो वा आपो वज्रमेव भ्रातृव्येभ्यः प्रहृत्य इति ।आपो वै रक्षोघ्नी रक्ष सामपहत्यै इति ।आपो वै देवान प्रियं धाम इति ।अमृतं वा अपास्तस्मादद्भिरवतांतमभिषिञ्चन्ति इति ।आपो वै सर्वा देवता देवता एवारभ्य इति आपो वै शान्ताश्शान्ताभिरेवास्यशुचं शमयति इति ब्राह्मणम्।१।
तस्मात्पवित्रेण शान्युदकं करोति जन्मनक्षत्रे पुण्ये नक्षत्रे विवाहचौऌओपनयनसमावर्तनसीमन्ताग्न्याधेयान्यन्यानि मङ्गलकार्याणि ग्रहोपरागे ग्रहोत्पाते वा द्विपात्सु चतुष्पात्सु भयं विन्देताथ शान्तिमारभेत ।२।
युग्मान्ब्राह्मणान्सुप्रक्षाऌइतपाणिपादानप आचमय्य प्रतिदिशमासनेषूपवेश्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य दर्भेषु प्राङ्मुख उपविश्य दर्भान्दूर्वाश्च धारयमाणः पवित्रपाणिस्स्थण्डिलं कृत्वा प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्य दूर्वाभिर्दर्भैरवकीर्य गन्धोदकेनाभ्युक्ष्य पुष्पैरवकीर्य ब्रह्मपात्रं सूत्रेण परिवेष्ट्य तेषु ब्रह्मपात्रं निदधाति ब्रह्म जज्ञानमिति ।३।
अथ तिरः पवित्रमप आनयन्जपति तत्सवितुर्वरेण्यमिति ।४।
यवाक्षततण्डुलानावपति भूर्भुवस्सुवरोमिति ।५।
अथ पुष्पैर्दूर्वाभिः फलैरवकीर्य दूर्वाभिः दर्भैः प्रतिच्छाद्याभिमृशति शं नो देवीरभिष्टये इति ।६।
अन्वारब्धेषु जपति तत्सवितुर्वरेण्यमित्येतां पच्छो ऽर्धर्चशो ऽनवानमुक्त्वा वेदादीन्जपति ।७।
राक्षोघ्नं कृणुष्व पाजः प्रसितिमित्येवमनुवाकं मदे चिदस्य इत्यर्धर्चमवोद्धृत्य इन्दुं वो विश्वतस्परि हवामहे जनेभ्यः इत्येतमनुवाकं यत इन्द्रभयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां महां इन्द्रः सजोषा इन्द्र इति द्वाभ्यां ये देवा पुरस्पदः इति पञ्चभिः पर्यायैः अग्नये रक्षोघ्ने इति पञ्च अङ्गिरायुष्मानिति पञ्च या वामिन्द्रावरुणौ इति चतस्रः यो वामिन्द्रावरुणौ इत्यष्टौ अग्ने यशस्विनिति चतस्रः राष्ट्र भृतं ऋताषाडृतघामा इत्येतमनुवाकं नमो अस्तु सर्पेभ्यः इति तिसृभिरनुचच्छन्दसं पञ्च चोडा अयं पुरो हरिकेशः इति पञ्चभिः पर्यायैरप्रतिरथं अशुशिशशानः इत्येतमनुवाकं शं च मे मयश्च मे इत्येतमनुवाकं विहव्यं ममाग्ने वर्चो विहवेष्वस्तु इत्येतमनुवाकं सृगारं अग्नेर्मन्वे इत्येतमनुवाकं सर्पाहुतीः समीची नामासि प्राची दिक्षड्भिः पर्यायैः गन्धर्वाहुतीः हेतयो नाम स्थ तेषां वः पुरोगृहाः इति षड्भिः अज्यानीः शतायुधाय इति पञ्च भूतं भव्यं भविष्यतित्येतमनुवाकं अथर्वशिरसं इन्द्रो दधीचो अस्थभिः इत्येतमनुवाकं प्रत्याङ्गिरसं चक्षुषो हैते मनसो हैते इति प्रतिपद्य भ्रातृव्य पादयामसि इत्यन्तं प्राणो रक्षति विश्वमेजतित्येतमनुवाकं सिंहे व्वाघ्र उत या पृदाकौ इत्येतमनुवाकं अहमस्मि इत्येतमनुवाकं ता सूर्याचन्द्रमसा इत्येतमनुवाकं अग्निर्नः पातु ऋध्या स्म नवोनवः इत्येतैस्त्रिभिरनुवाकैरुत्तमैरुपहोमैश्च सुरभिमत्या ऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिः तश्छंयोरावृणीमहे इत्येतमनुवाकं नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह इति ब्राह्मणम्।८।
प्रणवेनोस्थाप्य व्याहृतीभिः प्रोक्षति ।९।
अथ दक्षिणां ददाति पुरस्तादुपविष्टाय हिरण्यं ददाति दक्षिणतो रजतं पश्चात्कांस्यमुत्तरतो वासो ददाति ।१०।
अथ ग्रहगृहीतानां ज्वरगृहीतानां भूतोपसृष्टानां मित्र बन्धुसुहृज्ज्ञातिसखिसम्बन्धिबान्धवानां राज्ञां च राजपुरोहितानां च बालवृद्धान्तर्वात्निपापरोगिदीर्घ रोगिकृशातुरान्प्रोक्षति ।११।
हस्त्यश्वोष्ट्रगोमहिष्यजाविकभृत्यांश्च धनधान्यानि च प्रोक्षति ।१२।
एवमेकरात्रं त्रिरात्रं पञ्चरात्रं सप्तरात्रं नवरात्रमित्यपपुनर्मृत्युं जयतीत्याह भगवान्बोधायनः ।१३।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने चतुर्दशो ऽध्यायः
BaudhGSS.1.15
अथ प्रथमप्रश्ने पञ्चदशो ऽध्यायः
अथातः प्रतिसरबन्धं व्याख्यास्यामः ।१।
यस्मिन्दिने नान्दीमुखं कुर्यात्तस्यां रात्र्यां प्रदोषान्ते प्रतिसरमारभेत ।२।
शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य युग्मान्ब्राह्मणान्सुप्रक्षाऌइतपाणिपादानप आचमय्य प्रतिदिशमासनेषूपवेश्य पश्चात्प्राङ्मुख आचार्य उपविशति ।३।
तस्य दक्षिणं बाहुमन्वितरः ।४।
अथ हस्तमात्रं सैकतं स्थण्डिलं कृत्वोल्लिख्याद्भिरभ्युक्ष्य स्थण्डिलस्य मध्ये प्रागग्रान्दर्भान्संस्तीर्य तेषूपरि कुम्भं निधाय व्याहृतीभिश्शुद्धोदकैः पूरयित्वा दूर्वाक्षतफलैरवकीर्य गन्धपुष्पधूपदीपैरुदकुम्भमभ्यर्च्य दूर्वाभिर्दर्भैः प्रतिच्छाद्योत्तरतः शालितण्डुलस्योपरि प्रतिसरसूत्रं गन्धानुलिप्तं निधाय आचार्यमुखांस्त्रीन्प्राणायामान्धारयित्वा उदकुम्भमन्वारभ्य सावित्रीं जपति तत्सवितुर्वरेण्यमित्येतां पच्छो ऽर्धर्चशो ऽनवानमुक्त्वा वेदादीन्जपति ।५।
राक्षोघ्नं कृणुष्व पाजः इत्येतमनुवाकं अग्ने यशस्विनिति चतस्र आप्यं हिरण्यवर्णाश्शुचयः पावकाः इत्येतमनुवाकं पवमानस्सुवर्जनः इत्येतमनुवाकं वरुणसूक्तमुदुत्तमं वरुण पाशमिति षडृचं रुद्रसूक्तं परि णो रुद्रस्य हेतिः इति षडृचं ब्रह्मसूक्तं ब्रह्म जज्ञानमिति षडृचं विष्णुसूक्तं विष्णोर्नुकमिति षडृचं पञ्च दुर्गाः जातवेदसे इति श्रीसूक्तं हिरण्यवणां हरिणीमिति पञ्चदशर्चं नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह इति ब्राह्मणम्।६।
प्रणवएनोत्थाप्य व्याहृतीभिस्सुरभिमत्या ऽब्लिङ्गाभिः प्रोक्ष्य प्रतिसरसूत्रमादाय वासुकिं ध्यात्वा अङ्गुष्ठेनोपकनिष्ठिकाभ्यां त्र्यम्बकेन त्रिरूर्ध्वं भस्मना सम्मृज्य अग्निरायुष्मानिति पञ्चभिः तस्य दक्षिणहस्तं गृहीत्वा बृहत्साम इति बध्वा स्त्रीणां वामहस्तं भस्मना घृतसूक्तेन यो ब्रह्म ब्रह्मणः इत्यष्टर्चेन रक्षां कुर्यादित्याह भगवान्बोधायनः ।७।
इति बोधायनीये गृह्यशेषसूत्रे प्रथमप्रश्ने पञ्चदशो ऽध्यायः
BaudhGSS.1.16
अथ प्रथमप्रश्ने षोडशो ऽध्यायः
अथातो ग्रहातिथ्यवलिकर्मोपहारान्व्याख्यास्यामः
अश्रद्दधानमशुचिमजपं त्यक्तमङ्गऌअम्
ग्रहा नयन्ति सुव्यक्तं पुरुषं यमसादनम्।१।
ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणाम्
उपचारान्प्रवक्ष्यामि शान्त्यर्थं तु यथाविधि ।२।
मासिमास्यृतावृतावयने चन्द्रग्रहे सूर्यग्रहे विषुवे शुभाशुभे जन्मनक्षत्रे वा
तद्ग्रहाणामातिथ्यं संवत्सरादपि प्रयुञ्जानस्सर्वान्कामानवाप्नोतीति ।३।
उक्तमेकाग्निविधानम्।४।
एको वा विषमस्थस्स्यात्सर्व एवार्चनीया भवन्ति ।५।
भास्कराङ्गारकौ रक्तौ श्वेतौ शुक्रनिशाकरौ
सोमपुत्रो गुरुश्चैव तावुभौ पीतकौ स्मृतौ ।६।
कृष्णं शनैश्चरं विद्याद्राहुं केतुं तथैव च
ग्रहवर्णानि पुष्पाणि प्राज्ञस्तत्रोपकल्पयेत्।७।
बलींश्चैवोपहारांश्च गन्धमाल्यं तथैव च
यथाक्रमेणोपहरेत्सर्वेषामानुपूर्वशः इति ।८।
अर्कसमिधमादित्याय खादिरमङ्गारकायौदुम्बरं शुक्राय पालाशं सोमायापामार्गं बुधायाश्वत्थं बृहस्पतये शमीमयं शनैश्चराय राहवे दूर्वाः केतवे कुशा इति ।९।
सर्वेषामलाभे पालाशीर्वा ।ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा हवींषि निर्वपति ।१०।
अथोपोत्थायाग्रेणाग्निं तण्डुलैः स्थण्डिलं कृत्वा ग्रहदेवता आवाहयति ।११।
मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु
पूर्वे तु भार्गवं विद्यात्पूर्वदक्षिणतश्शशी ।१२।
पूर्वोत्तरे बुधं विद्यादुत्तरे तु गुरुं तथा
पश्चिमे तु शनिं विद्याद्राहुं दक्षिणपश्चिमे ।१३।
पश्चिमोत्तरतः केतुः ग्रहस्थानं विधीयते
दक्षिणोत्तरभागे तु साधिप्रत्यधिदेवताः ।१४।
वृत्तमादित्याय त्रिकोणमङ्गारकाय पञ्चकोणं शुक्राय चतुरश्रं सोमाय बाणं
बुधाय दीर्घचतुरश्रं बृहस्पतये धनुश्शनैश्चराय राहवे शूर्पं केतवे ध्वजमिति ।१५।
अर्कश्शुक्रो बुधः पूर्वो गुरुरुत्तरतोमुखः
पश्चिमे तु शनिश्चन्द्रः शेषा दक्षिणतोमुखाः ।१६।
यवा आढक्यस्तण्डुलाश्श्यामाका मुद्गमेव च
चणकास्तिलमाषाश्च कुऌउत्थाश्च क्रमात्क्षिपेत्।१७।
अग्नीश्वरौ भास्करस्य भूक्षेत्रेशौ कुजस्य हि
इन्द्राणीन्द्रौ सितस्याथ ह्यापो गौरी निशापतेः ।१८।
विष्णुर्विष्णुर्बुधस्येन्द्रमरुत्वान्ब्रह्म वै गुरोः
शनेः प्रजापतियमौ राहोस्सर्पस्तु निरृतिः ।१९।
केतोः ब्रह्मा च चित्रश्च स्वस्वमन्त्रैस्स्वनामभिः
लोकपालान्दुर्गविघ्नक्षेत्रवास्तुत्रियम्बकान्।२०।
अभयंकरमृत्यू च ह्यग्निं वैश्वानरं क्रमात्
आवाहयेद्भ्य हृतिभिर्यजेद्व्यष्टोपचारकैः ।२१।
परिधानप्रभृत्या ऽग्निमुखात्कृत्वा आ सत्येन इत्यादित्याय अग्निर्मूर्धा
इत्यङ्गारकाय प्रवश्शुक्राय इति शुक्राय आप्यायस्व इति सोमाय उद्बुध्यस्व इति बुधाय बृहस्पते अति यदर्यो अर्हातिति बृहस्पतये शं नो देवीरभिष्टये इति शनैश्चराय कया नश्चित्र आ भुवतिति राहवे केतुं कृण्वनिति केतवे ।२२।
पुरोनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वाय इति ब्राह्मणम्।२३।
यत्रैका ऽम्नाता स्यात्तां द्विरभ्यवर्तयेत्तत्सवितुर्वरेण्यमित्यनुद्रुत्याम्नातया जुहोति वा ।२४।
नवानां ग्रहाणां पक्वं हृत्वा घृतान्वक्तानां समिधामष्टसहस्रमष्टशतमष्टाविंशतिं वा जुहुयात्प्रत्यृचं हविषो जुहुयात्प्रत्यृचमाज्यस्य जुहुयात्प्रत्यृचम्।२५।
गुऌओदनमादित्यायि हविष्यमन्नमङ्गारकाय घृतोदनं शुक्राय घृतपायसं सोमाय क्षीरोदनं बुधाय दध्योदनं बृहस्पतये तिलपिष्टमिश्रमाषोदनं शनैश्चराय राहोः मांसोदनं केतोः चित्रोदनमिति ।२६।
सर्वेषामलाभे हविष्यं वा ।२७।
यदा ऽष्टासहस्रं तदा ऽधिप्रत्यधिदेवतानामष्टाविंशतिं यदा ऽष्टशतं तदा ऽष्टावष्टौ यदा विंशतिं तदा तिस्रस्तिस्र आहुतीर्जुहुयादेवमेव लोकपालादीनाम्।१८।
अग्निं दूतं येषामीशे इत्यादित्याय ।स्योना पृथिवि क्षेत्रस्य पते इत्यङ्गारकाय ।इन्द्राणीं इन्द्रं वो विश्वतः इति शुक्राय ।अप्सु मे सोमो अब्रवीत्गौरी मिमाय इति सोमाय ।विष्णोर्नुकं विष्णो रगटमिति बुधाय ।इन्द्र मरुत्वः ब्रह्म जज्ञानमिति बृहस्पतये ।प्रजापते इमं यम प्रस्तरमिति शनैश्चराय ।आयङ्गौः यत्ते देवी इति राहवे ।ब्रह्मा देवानां सवित्र चित्रमिति केतवे ।२९।
त्रतारमिन्द्रमग्निर्दां द्रविणम्यमो दाधर पृथिवीमसुन्वन्तम्सधमादो द्युम्निनीः आनो नियुद्भिः सोमो धेनुम्सहस्राणि सहस्रधा इति लोकपालानाम्।३०।
जातवेदसे गणानां त्वा क्षेत्रस्य पतिना वयम्वास्तोष्पते त्र्यम्बकं यजामहे यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः ये ते सहस्रमयुते पाशाः मूर्धानं दिवो अरतिं पृथिव्याः इति दुर्गादीनाम्।३१।
एवमेव हुत्वाज्यमिश्रतिलव्रीहिभिर्व्याहृतिभिर्हुत्वा सर्वस्मात्सकृत्सकृदवदाय द्विरभिघार्य स्विष्टकृतं अर्यमणमिति पुरोनुवाक्यामनूच्य सोमं राजानमिति याज्यया जुहोति ।३२।
मेक्षणमभ्याधाय जयप्रभृति सिद्धम्।३३।
मूर्धानं दिवो अरतिमिति पूर्णां हुत्वा ऽग्रेणाग्निं ग्रहानभ्यर्चयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा स्वस्वनामभिस्तर्पयित्वा स्वेन स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य वलिमुपहृत्य लाजापूपपृथुकाद्यपहारांश्च दत्त्वा समस्कृत्य प्रवाह्य जघनेनाग्निमुपविश्याद्भिर्मार्जयति आपो हिष्ठा मयोभवः इति तिसृभिः देवस्य त्वा इति तिसृभिः शंयुवाकेन च ।३४।
अथ दक्षिणां ददाति कपिलां धेनुमादित्याय रक्तमनड्वाहमङ्गारकाय रजतं शुक्राय शङ्खं सोमाय काञ्चनं बुधाय वासो बृहस्पतये कृष्णां गां शनैश्चराय राहवे छागं केतवे कुञ्जामिति ।३५।
सर्वेषमलाभे हिरण्यं वा ।३६।
येन वा तुष्येदाचार्यः ।३७।
अथाप्युदाहरन्ति
यथा समुत्थितं घोरं यन्त्रेण प्रतिहन्यते
एवं समुत्थितं घोरं शीघ्रं शान्तिं नयेत्सदा ।३८।
यथा शस्त्रप्रहरणात्कवचं भवति निवारणम्
एवं दैवोपघातानां शान्तिर्भवति वारणम्।३९।
अहिंसकस्य दान्तस्य धर्मार्जितधनस्य च
नित्यं च नियमस्थस्य सदा सानुग्रहा ग्रहाः ।४०।
ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः
पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः ।४१।
ईश्वरं भास्करं विद्यात्स्कन्धमङ्गारकं तथा
शुक्रं शचीपतिं विद्यादुमां चैव निशाकरम्।४२।
बुधं नारायणं विद्याद्ब्रह्माणं च बृहस्पतिम्
यमं शनैश्वरं विद्याद्राहुं कालं तथैव च ।४३।
केतुमग्निमयं विद्याद्देव देवा यथा ग्रहाः
देवता ग्रहरूपेण दर्शयन्ति शुभाशुभम्
दर्शयन्ति शुभाशुभमित्याह भगवान्बोधायनः ।४४।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने षोडशो ऽध्यायः
BaudhGSS.1.17
अथ प्रथमप्रश्ने सप्तदशो ऽध्यायः
अथ नवग्रहपूजाविधिः
त्रैलोक्यदीपकं देवं गुणरूपं त्रयीमयम्
स्थापयामि महाभक्त्या भास्करं ग्रहनायकम्।१।
मध्ये वर्तुलाकारमण्डले प्रत्यङ्मुखं कलिङ्गदेशजं काश्यपगोत्रजं विश्वामित्रार्षं विशाखानक्षत्रजं त्रिष्टुप्छन्दसं कपिलाग्निकं पद्मासनं पद्मवर्णं द्विभुजं रक्तवस्त्रं पृक्तगन्धं माणिक्यरत्नाभरणभूषितं किरीटिनं रक्तच्छत्रध्वजपताकिनं छन्दोमयहरितसप्ताश्वं सप्तरज्जुकमेकचक्रं रक्तं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवता ऽग्निं प्रत्यधिदेवतारुद्रम्।२।
वन्दे रविं द्युमणिमम्बुरुहे निषण्णं
दोर्भ्यां दधानमरुणाम्बुरुहे ग्रहेन्द्रम्
माणिक्यभूषमरुणांशुकगन्धमाल्यैः
भ्राजन्तमर्कममितद्युतिमब्जमित्रम्।३।
कपिले सर्वदेवानां पूजनीया सुरोहिणी
सर्वदेवमयी यस्मादतश्शान्तिं प्रयच्छ मे ।४।
जपाकुसुमसंकाशं कायपेयं महाद्युतिम्
तमोहरं कल्मषघ्न भास्करं प्रणमाम्यहम्।५।
दीवाकरं दीप्तसहस्ररश्मिं तेजोमयं जगतः कर्मसाक्षिम्
मित्रं भानुं सूर्यमादिं ग्रहाणां रविं सदा शरणमहं प्रपद्ये ।६।
रक्तस्रगम्बरालेपं गदाशक्त्यसिशूलिनम्
चतुर्भुजं मेषगमं भारद्वाजं धरासुतम्।७।
रक्तकाञ्चनसङ्काशं रक्तकिञ्जल्कसन्निभम्
स्थापयामि महारौद्रं रुद्रमूर्तिं महाबलम्।८।
सूर्यस्य दक्षिणादिग्भागे त्रिकोणाकारमण्डले दक्षिणाभिमुखमवन्तीदेशजं
भारद्वाजगोत्रजं जामदग्न्यार्षं गायत्रीछन्दसं धूमकेत्वग्निकं खङ्गशक्तिशूलगदाधरं चतुर्भुजं रक्ताम्बरधरं रक्तविद्रुमरत्नाभरणभूषितं किरीटिनं रक्तच्छत्रध्वजपताकिन रक्तमेषवाहनमग्निजरक्ताष्टाश्वं काञ्चनं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताभूमिं प्रत्यधिदेवताक्षेत्रपालम्।९।
रक्तस्रग्गन्धवासा करविधृतगदाशक्तिखड्गत्रिशूलः
भारद्वाजस्त्रिणेत्रो वसुमतितनयो लोहिताङ्श्शुभाङ्गः
मेषव्याघ्रध्वजो ऽर्कद्युतिसदृशमहाकुण्डलाश्लिष्टकर्णः
पायाद्भास्वत्किरीटाङ्गृदवलयलसद्विद्रुमालङ्कतो नः ।१०।
धर्मस्त्वं वृषरूपेण जगदानन्दकारक
अष्टमूर्तेरधिष्ठान अतश्शान्तिं प्रयच्छ मे ।११।
धारणीगर्भसम्भूतं विद्युत्काञ्चनसन्निभम्
कुमारं शक्तिहस्तं च लोहिताङ्गं नमाम्यहम्।१२।
महेश्वरस्याननस्वेदबिन्दोर्भूमौ जातं रक्तमाल्याम्बराढ्यम्
सुदीधितिं लोहिताङ्गं कुमारमङ्गारकं सदा शरणमहं प्रपद्ये ।१३।
शुक्रं शुक्लतनुं श्वेतवस्त्राढ्यं दैत्यमन्त्रिणम्
भार्गवं दण्डवरदकमण्डल्वक्षसूत्रिणम्।१४।
कुन्दपुष्पसमानाभं मुक्ताफलसमप्रभम्
स्थापयामि महाशान्तं भृगुं दैत्यगुरुं प्रभुम्।१५।
सूर्यस्य पूर्वदिग्भागे पञ्चकोणाकारमण्डले प्राङ्मुखं भोजकटकदेशजं भार्गवगोत्रजं शौनकार्षं तिष्यनक्षत्रजं त्रिष्टुप्छन्दसं हाटकाग्निकं श्वेतमक्षसूत्रदण्डकमण्डलुवरदचतुर्भुजं श्वेताम्बरगन्धमाल्यवज्ररत्नाभरणभूषितं किरीटिनं श्वेतच्छत्रध्वजपताकिनं श्वेताश्ववाहनं भूसम्भवश्वेतदशाश्वं श्वेतं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवतेन्द्राणी प्रत्यधि देवतेन्द्रम्।१६।
वन्दे विराजितसितांशुकगन्धमाल्यं
अच्छाश्वगं तनुविराजितवज्ररत्नम्
दोर्भिस्सदण्डवरकुण्डिकमक्षसूत्रं
बिभ्राणमासुरगुरुं भृगुपुत्रमीड्यम्।१७।
विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः
विष्णोरर्कस्य वाहः स्यादतश्शान्तिं प्रयच्छ वे ।१८।
हिमकुन्दतुषाराभं दैत्यानां परमं गुरुम्
सर्वशस्त्रप्रदातारं भार्गवं प्रणमाम्यहम्।१९।
वर्षप्लवं चिन्तितार्थानुकूलं नयप्रधानं विनयोपपन्नम्
तं भार्गवं योगविशुद्धसत्त्वं शुक्रं सदा शरणमहं प्रपद्ये ।२०।
श्वेतवस्त्रधरं श्वेतदशाश्वरथवाहनम्
द्विभुजं साभयगदमात्रेयं सामृतं विधुम्।२१।
शान्तं नक्षत्रनाथं च रोहिणीवल्लभं प्रभुम्
कुन्दपुष्पोज्ज्वलाकारं स्थापयामि निशाकरम्।२२।
सूर्यस्याग्नेयदिग्भागे चतुरस्राकारमण्डले प्रस्यङ्मुख यमुनादेशजमात्रेयगोत्रजमात्रेयार्षं कृत्तिकानक्षत्रजं गायत्रीछन्दसं पिङ्गलाग्निकं अभयगदाधरं द्विभुजं श्वेताम्बरगन्धमाल्यमुक्ताभरणभूषितं किरीटिनं श्वेतच्छत्रध्वजपताविनं वारिसंभूतदशाश्वं त्रिचक्रं श्वेतरथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रह मण्डले
प्रविष्टमधिदेवतापं प्रत्यधिदेवतागौरीम्।२३।
श्वेताम्बरस्रगनुलेपनमत्रिनेत्रजातं दशाश्वरथवाहनमोषधीशम्दोर्भ्यां धृताभयगदं भपतिं सुधांशुं श्रीमत्सुमौक्तिकधरं प्रणमाभि चन्द्रम्।२४।
पुण्यस्त्वं शङ्ख पुण्यानां मङ्गऌआनां च मङ्गऌअम्
विष्णुना विधृतो नित्यमतश्शान्तिं प्रयच्छ मे ।२५।
दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्
नमामि शशिनं भक्त्या शम्भोर्मकुटभूषणम्।२६।
यः कालहेतोः क्षयवृद्धिमेति यं देवताः पितरो वा पिबन्ति
तं वै वरेण्यं ब्रह्मेन्द्रवन्द्यं सोमं सदा शरणमहं प्रपद्ये ।२७।
पीतस्रग्गन्धवस्त्राढ्यं स्वर्णाभं च चतुर्भुजम्
शक्तिचर्मासिगदिनमात्रेयं सिंहगं बुधम्।२८।
चाम्पेयपुष्पसङ्काशं विशुद्धकनकप्रभम्
स्थापयामि महासौम्यं बुधं सोमात्मजं प्रभुम्।२९।
सूर्यस्येशानदिग्भागे बाणाकारमण्डले प्राङ्मुखं मगधदेशजमात्रेयगोत्रजं भारद्वाजार्षां श्रविष्ठानक्षत्रजं त्रिष्टुप्छन्दसं जाठराग्निकं शक्तिखङ्गचर्मगदाधरं चतुर्भुजं पीताम्बरगन्धमाल्यमरकतरत्नाभरणभूषितं किरीटिनं पीतच्छत्रध्वजपताकिनं पीतसिंहवाहनं वाय्वग्निजपीताष्टादवं पीतं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवताविष्णु प्रत्यधिदेवताविष्णुम्वन्दे बुधं मरकतोज्ज्वलदेहकान्तिं पीताम्बरस्रगनुलेपनभूषिताङ्गम्
शक्तिं च दोर्भिरसिचर्मगदा दधानं
सिंहध्वजं शशिसुतं बुधमत्रिवंशम्।३१।
हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः
अनन्तपुण्यफलदमतश्शान्तिं प्रयच्छ मे ।३२।
प्रियङ्गुगुलिकाभासं रूपेणाप्रतिभं बुधम्
सौम्यं सौम्यगुणोपेतं नमासि शशिनस्सुतम्।३३।
विशुद्धबुद्धिं श्रुतिकालबोधं सद्व्याहरं सोमवंशप्रदीपम्
सुदीधितिं छान्दसं विश्वरूपं बुधं सदा शरणमहं प्रपद्ये ।३४।
आङ्गीरसं देवगुरुं पीतस्रग्गन्धवाससम्
दण्डिनं वरदं पीतं साक्षसूत्रकमण्डलुम्।३५।
कुन्दपुष्पसमानाभं तप्तकाञ्चनसन्निभम्
स्थापयामि महाभक्त्या प्रसन्नवदनं गुरुम्।३६।
सूर्यस्योत्तरदिग्भागे दीर्घचतुरश्रमण्डले उदङ्मुखं सिन्धुदेशजमाङ्गिरसगोत्रजं वसिष्ठार्षमुत्तराफल्गुनीनक्षत्रजं त्रिष्टुप्छन्दसं शिख्यग्निकं पीतमक्षसूत्रदण्डकमण्डलुवरदचतुर्भुजं पीताम्बरगन्धमाल्यपुष्यरागरत्नाभरणभूषितं किरीटिनं पीतच्छत्रध्वजपताकिनं विश्वरूपाख्यपाण्डुराष्टाश्वं कांचनं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवतेन्द्रं प्रत्यधिदेवता ब्रह्माणम्।३७।
पीताम्बरं तनुलसद्धृतपुष्यरागं
केयूरहारमणिकुण्डलमण्डिताङ्गं
दण्डं वराक्षगुणकुण्डियुतं दधानं
आङ्गीरसं सुरगुरुं हयगं नमामि ।३८।
पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम्
प्रदानादस्य मे विष्णुः प्रीतो भवतु सर्वदा ।३९।
देवतानामृषीणां च गुरुं काञ्चनसन्निभम्
सुवन्द्यं त्रिषु लोकेषु प्रणमामि बृहस्पतिम्।४०।
बुद्ध्या समो यस्य न कश्चिदन्यो मतिं देवा उपजीवन्ति यस्य प्रजापतेरात्मजं धर्मनित्यं बृहस्पतिं सदा शरणमहं प्रपद्ये ।४१।
इन्द्रनीलनिभं मन्दं काश्यपिं चित्रभूषणम्
चापबाणधरं चर्मशूलिनं गृध्रवाहनम्।४२।
इन्द्रनीलसमानाभं नीलोत्पलसमप्रभम्
स्थापयामि महारौद्रं सूर्यपुत्रं शनैश्चरम्।४३।
सूर्यस्य पश्चिमदिग्भागे धनुराकारमण्डले उदङ्मुखं काश्यपगोत्रजं भृग्वार्षेयं रेवतीनक्षत्रजं सौराष्ट्रदेशजं गायत्रीछन्दसं महातेजोग्निकं नीलं चर्मबाणधनुश्शूलचतुर्भुजं नीलाम्बरगन्धमाल्यनीलरत्नाभरणभूषितं किरीटिनं नीलच्छत्रध्वजपताकिनं नीलगृध्रवाहनमाकाशजजम्बालाष्टाश्वं नीलं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवताप्रजापतिं प्रत्यधिदेवतायमम्।४४।
दोर्भिर्धनुर्विशिखचर्मधरं त्रिशूलं
भास्वत्किरीटमकुटोज्जवलितेन्द्रनीलम्
नीलातपत्रकुसुमांशुकगन्धभूषं
गृध्रस्थितं रविसुतं प्रणतो ऽस्मि मन्दम्।४५।
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश
यस्मात्तस्माच्छिवं मे स्यादतश्शान्तिं प्रयच्छ मे ।४६।
नीलाञ्जनचयाकारं रविसूनु नपुंसकम्
छायागर्भसमुद्भूतं वन्दे भक्त्या शनैश्चरम्।४७।
शनैश्चरः प्रजापतिं यो ऽधि यस्य शनैर्भोगो गमनं चेष्टितं च सूर्यान्भजं क्रोधनसुप्रसन्नं शनैश्चरं सदा शरणमहं प्रपद्ये ।४८।
सैहिकेयं करालास्यं कौण्डिनेयं तमोमयम्
खड्गचर्मधरं भीमं नीलसिंहासने स्थितम्।४९।
नीलाञ्जनसमानाभं नीलमेघसमद्युतिम्
स्थापयामि महावक्त्रं राहुं चन्द्रार्कवैरिणम्।५०।
सूर्यस्य नैरृत्यदिग्भागे शूर्पाकारमण्डले दक्षिणाभिमुखं बर्बरदेशजं पैठीनसिगोत्रजमङ्गिरसाषमश्विनीनक्षत्रजं गायत्रीछन्दसं हुताशनाग्निकं कृष्णं खड्गचर्मधरं द्विभुजं कृष्णाम्बरगन्धमाल्यगोमेदरत्नाभरणभूषितं किरीटिनं कृष्णच्छत्रध्वजपताकिनं कराऌअवदनमुरगालङ्कारं कृष्णसिंहासने स्थितमष्टाश्वं रथमारुह्य दिव्यं मेरुमप्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवतासर्पं प्रत्यादिदेवतानिरृतिम्।५१।
राहुं कराग्रपरिमण्डितचर्मखड्गं
भीमं तमोमयतनुं तममिन्द्विनारिम्
कौण्डिन्यसूनुमसितांशुकगन्धभूषं
गोमेदभूषिततनुं हरिगं नमामि ।५२।
यस्मात्त्वं छाग यज्ञानामङ्गत्वेन व्यवस्थितः
यानं विभावसोनित्यमतश्शान्तिं प्रयच्छ मे ।५३।
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्
सिंहकागर्भसंभूतं तं राहुं प्रणमाम्यहम्।५४।
यो विष्णुनैवामृतं पीयमानं
छित्वा शिरो ग्रहभावे नियुक्तः
यो ऽभ्यर्कचन्द्रौ ग्रसति पर्वकाले
राहुं सदा शरणमहं प्रपद्ये ।५५।
धूम्रान्द्विबाहुगदिनो विकृतास्यान्शतात्मकान्
गृध्रासनगतान्केतून्वरदान्ब्रह्मणस्सुतान्।५६।
नीलमेघसमानाभं चित्रवर्णं महाबलम्
स्थापयामि महारौद्रं केतुं सर्वफलप्रदम्।५७।
सूर्यस्य वायव्यदिग्भागे ध्वजाकारमण्डले दक्षिणाभिमुखमन्तर्वेदिदेशजं जैमिनीसूत्रजं रौद्राग्निकं धूम्रं वरदगदाधरं द्विभुजं चित्राम्बरगन्धमाल्यवैडूर्यरत्नाभरणभूषितं किरीटिनं धूम्रच्छत्रध्वजपताकिनं चित्रगृध्रवाहनं धूमारुणाष्टाश्वं धूम्रं रथमारुह्य दिव्यं मेरुमप्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवताब्रह्माणं प्रत्यधिदेवताचित्रगुप्तम्।५८।
गृध्रस्थितान्जलजयोनिसमानवक्त्रान्
धूम्रान्वराभयकरान्सुभुजान्कुमारान्
वैदूयभूषिततनून्वरजैमिनीयान्
केतून्भयानकमुखान्द्विभुजान्नमामि ।५९।
महासत्त्व महाकाय क्षीरोदार्णवसम्भव
सर्वसङ्ग्रामविजय जयं गज कुरुष्व मे ।६०।
करालधूम्रसङ्काशान्तारकाग्रहमस्तकान्
रुद्रान्रौद्रात्मकान्घोरान्तान्केतून्प्रणमाम्यहम्।६१।
ये ब्रह्मपुत्रा ब्रह्मसमानवक्त्राः
ब्रह्मोद्भवाः ब्रह्मसमाः कुमाराः
ब्रह्मोत्तमा वरदा जैमिनीय्याः
केतून्सदा शरणमहं प्रपद्ये ।६२।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने सप्तदशो ऽध्यायः
BaudhGSS.1.18
अथ प्रथमप्रश्ने अष्टादशो ऽध्यायः
अथातो गृहकर्मणां गृहवृद्धिमिच्छन्मासि मासि ऋतावृतौ संवत्सरे संवत्सरे वापूर्यमाणपक्षे पुण्ये नक्षत्रे गृहशान्तिमारभेत ।१।
अपामार्गपलाशसर्षपोदुम्बर सदाभद्रामृततृणमिन्द्रवल्ल्या बध्वा गृहं संमार्ष्टि मा नो महान्तं मा नस्तोके इति द्वाभ्याम्।२।
पञ्चगव्यैर्दर्भमुष्टिना च संप्रोक्षति यत इन्द्र भयामहे स्वस्तिदा इति द्वाभ्याम्।३।
कृणुष्व पाजः इत्येतेनानुवाकेन सिद्धार्थान्सम्प्रकीर्य वास्तुमध्ये ऽथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति वास्तोष्पते वास्तोष्पते इति द्वाभ्याम्।४।
अथाज्याहुतीरुपजुहोति वास्तोष्पते ध्रुवा स्थूणां इति षड्भिरनुच्छन्दसम्।५।
सावित्र्या सहस्रं जुहुयात्।६।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।७।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वैवं प्रयुञ्जानो महान्तं पोषं पुष्यति वहवः पुत्रा भवन्ति न च बालाः प्रमीयन्ते न प्रहव्याधयो गृह्णन्ति न दंष्ट्रिणो धातयेयुर्न तस्करसर्पराक्षसपिशाचा बाधन्ते ।८।
यदि गावः प्रतप्येरन्गवां मध्ये आहुतिसहस्रं जुहुयात्गवां शान्तिरित्याचक्षते ।९।
द्विपदां चतुष्पदां चैतदेव व्याख्यातं वासो दक्षिणे ति ह स्माह भगवान्बोधायनः ।१०।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने अष्टादशो ऽध्यायः
BaudhGSS.1.19
अथ प्रथमप्रश्ने एकोनविंशो ऽध्यायः
अथातो ऽश्वशान्तिं व्याख्यास्यामः अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति तदश्विनावश्वयुजोपयातामिति पुरोनुवाक्यामनूच्य यौ देवानां भिषजौ इति याज्यया जुहोति ।१।
अथाज्याहुतीरुपजुहोति अश्विभ्यां स्वाहा ऽश्वयुग्भ्यां स्वाहा श्रोत्राय स्वाहा श्रुत्यै स्वाहा इति ।२।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।३।
अथाग्रेणाग्निं अश्वत्थपर्णेषु हुतशेष निदधाति यो अश्वत्थश्शमीगर्भ आरुरोह त्वे सचा ।तं ते हरामि ब्रह्मगा यज्ञियैः केतुभिस्सह इति ।४।
स्थालीसङ्क्षालनमाज्यशेषमुदकशेषं च पात्र्यां समानीयाश्वत्थशाखया प्रोक्षन्त्रिः प्रदक्षिणमश्वान्पर्येते यो वा अश्वस्य मेध्यस्य लोमनी वेद इत्येतेनानुवाकेने ते ह स्माह भगवान्बोधायनः ।५।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने एकोनविंशो ऽध्यायः
BaudhGSS.1.20
अथ प्रथमप्रश्ने विंशो ऽध्यायः
अथातो गजशान्तिं व्याख्यास्यामः शुक्लपक्षे ऽष्टम्यामेकादश्यां चतुर्दश्यां श्रोणायां वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वा पुरस्तात्तिलतण्डुलान्निरुप्य सावित्र्या अप अनीय सावित्र्या पूर्णकुम्भौ नवेन वाससा वेष्टयित्वा फलेनापि धाय पश्चादुक्तं चरुं निधाय पञ्चदूर्वास्तम्बे प्रतिष्ठापयति ।१।
अथ दर्भमालाभिर्गजशालामलङ्कृत्य हस्ती हुतस्य गन्धमाजिघ्रति ।२।
आश्वत्थं मेक्षणमिध्माबर्हिः करोति ।३।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा घृतेनाथ पक्वं गजसूक्तेन जुहुयाता तू न इन्द्र क्षुमन्तमिति ।४।
अथाज्याहुतीरुपजुहोति नमस्ते रुद्र मन्यवे इत्येतैः पञ्चभिरष्टसहस्रं जुहुयात्।५।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।६।
अग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति भूतेभ्यस्स्वाहा इति ।७।
अथ स्थालीपाकशेषं पञ्चदूर्वास्तम्बं चायुष्यसूक्तेन प्राशयित्वा प्रणीताजलेन प्रोक्षति आषो हिष्ठा इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा स्वस्थानं नागजातिं नयति हस्ती दीर्घायुर्भवतीत्याह भगवान्बोधायनः ।८।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने विंशो ऽध्यायः
BaudhGSS.1.21
अथ प्रथमप्रश्ने एकविंशो ऽध्यायः
यमयज्ञः स्वयं प्रोक्तः प्रवक्ष्ये विधिमुत्तमम्
मासि मासि तु कर्तव्यो ह्यन्तकाय बलिस्तथा ।१।
मेधाकामो ऽर्थकामो वा पुत्रकामस्तु वै द्विजः
याम्यो ऽहनि सनक्षत्रे सर्वान्कामात्समश्नुते ।२।
संवत्सरस्य कार्तिक्यां बलिं कुर्वीत यत्नतः
अकुर्वन्नह्नि कार्तिक्यां नरके तु निमज्जति ।३।
तस्मात्कुर्वीत कार्तिक्यां सर्वकामस्तु वै द्विजः
तिलप्रस्थस्य कर्तव्यं गुडमिश्रं तथा हविः
एकेन न तु कर्तव्यः कर्तव्यो बहुभिस्सह ।४।
हविरुद्वास्याभिमृश्य हविरादाय ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्यानिर्णवदेशे नदीतीरे समे वान्यस्मिन्शुचौ देशे दिक्षु सृक्तिं वेदिं करोति मृण्मयीं सिकताभिर्वा ।५।
तिस्र उत्तरवेद्या दिशासृक्तयो भवन्ति ।६।
दक्षिणेन करकूपं खात्वोत्तरेणाग्निं प्रतिष्ठाप्य दर्भैरुत्तरवेदिं च प्रच्छादयति ।प्रागगैस्तथैव विष्टरं निधाय प्रस्तरं निधाय प्रस्तरे च आयातु देवस्सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता ।आसीदतां सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्यै इति यममावाह्य यमे इव यतमाने यदैतं प्रवा भरनिति च इमं यम प्रस्तरमा हि सीद इति तिसृभिः प्रस्तरमभिमन्त्र्य पवित्रपाणिरर्घ्यपाद्याचमनीयस्नानीयं च प्रदाय वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वा सर्वसुरभिगन्धमाल्यं च प्रदाय यथोपलब्धं ददाति ।७।
कृष्णाः प्रतिसराः कृष्णसूत्रं वा ।८।
मध्यमेन पलाशपर्णेनाज्येनाग्निमन्वारब्धे जुहुयात्यमाय स्वाहा ।अन्तकाय स्वाहा ।धर्माय स्वाहा ।अनन्ताय स्वाहा ।वैवस्तताय स्वाहा ।मृत्यवे स्वाहा ।विष्णवे स्वाहा इति ।९।
व्याहृतीभिर्हुत्वा प्रागग्राण्यर्कपर्णान्यौदुम्बरपर्णानि वा निधाय तेषु मध्यमस्यामुत्तरवेद्यां हविर्निवेदयते यमाय सोमं सुनुत इति तिसृभिः ।१०।
दक्षिणस्यामुत्तरवेद्यां श्वभ्यां हविर्निवेदयते यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा ।ताभ्यामेनं परिदेहि राजन्स्वस्ति चास्मा अनमीवं च धेह्योमिति ।११।
उत्तरस्यामुत्तरवेद्यां यमदूताभ्यां हविर्निवेदयते उरुणसावसुतृपा बुलुम्बलौ यमस्य दूतौ चरतो जनां अनु ।तावस्मभ्यं दृशये सूर्याय पुनर्दत्तामसुमद्येह भद्रमोमिति ।१२।
यो ऽस्य कौष्ठ्य इति तिसृभिर्यमगाधाभिः प्रदक्षिणं परीगायते ।१३।
दक्षिणेन करकूपं गत्वा प्राचीनावीतं कृत्वा सव्य जान्वाच्य इषमिषं स्वधा पितृभ्यः इति त्रीनुदकाञ्जलीन्निनयति ।१४।
आयम्य प्राणान्सप्तभिर्व्याहृतीभिस्सप्त पदानि प्राञ्चो गच्छन्ति त्रयो ऽभि स्वर्गं लोकाः इति सप्त लोकाः अवरूढा भवन्तीति विज्ञायते ।१५।
दधिक्राव्ण्णो अकारिषमिति पुनः प्राणानाप्याय्याथैनं प्रत्येत्य नमोनमस्करकूपेभ्यो नमोनमस्करकूपेभ्यः इति करकूपमुपस्थाय यस्मै कामाय यमभिवादयन्ते यमो दाधार इति तिसृतिः सर्वा ता यम आहिता इति नाके सुपर्णमिति प्रवाहयन्ते ।१६।
हविरुत्तरतः पञ्चभिर्व्याहृतिभिस्स्वयमवभृथं गच्छति उरुं हि राजा इत्येतेनानुवाकेन ।१७।
प्रवक्ता ऽवभृथे कलेकलुषमुक्ता अरोगशरीरा भवन्ति इति विज्ञायते ।१८।
यमेन दत्तं त्रित एनमिति चतसृभिरादित्यमुपतिष्ठते ।१९।
उद्वयं तमसस्परि इति प्रतिसरमाबध्नन्ति ।२०।
सर्वसुरभिगन्धमाल्यं च गृहीत्वा हविषा सर्वप्रायश्चित्तं च हुत्वा ऽप्सु निमज्जन्तस्तत्र हविश्शेषान्भक्षयन्ते भक्षो ऽस्यमृतभक्षः ।तस्य ते मृत्युपीतस्य मृतवतः स्वगाकृतस्य मधुमत उपहूतस्योपहूतो भक्षयामि इति ।२१।
शेषं निनयति पुत्राय प्रियाय प्रियवादिने पुत्रभार्यायै पुत्रस्य भवति ।२२।
यमो यष्टारमितः प्रयातमङ्के समाधाय पितेव पुत्रम्।सुहृच्च गच्छेत न चास्य भिन्नं पन्थानमस्यैव सहैव गच्छेत्।२३।
इति ह स्माह बोधायनः ।२४।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने एकविंशो ऽध्यायः
BaudhGSS.1.22
अथ प्रथमप्रश्ने द्वाविंशो ऽध्यायः
सर्वपापहरं चैव सर्वव्याधिविनाशनम्
तृणगर्भं प्रवक्ष्यामि विद्धि धर्म्यं सनातनम्।१।
सङ्क्रमेषु च सर्वेषु ग्रहणे चन्द्रसूर्ययोः
पर्वणोरुभयोश्चैव जन्मनि श्रवणे तथा ।२।
सरोगाभिभवे चैव व्यतीपाते तथैव च
गोमयेनोपलिप्ते तु शुचौ देशे समारभेत्।३।
चतुर्णामपि वर्णानां संस्कारश्च तथा भवेत्
गृहीत्वा ब्राह्मणान्शुद्धान्चतुरो वेदपारगान्।४।
आचार्यं च द्विजश्रेष्ठं सर्वशास्त्रविशारदम्
प्रागादिषु प्रतिष्ठाप्य तान्विप्रान्दिक्षु मध्यतः ।५।
व्रीहिभिस्स्थण्डिले शुद्धैश्चतुरश्रं तु कान्येत्
तन्मध्ये लेखयेत्पद्मं स्वर्णपद्मं ततः क्षिपेत्।६।
तस्योपरि समासीनं वस्त्रे वस्त्रेण संवृतम्
आशिषो वाचयित्वा तु गुरुविप्रैस्समन्वितः ।७।
प्रच्छाद्य तु तृणैश्शुर्द्धैदूर्वाभिश्च विशेषतः
विष्णोर्नामसहस्रं वा शैवं वापि तथा जपेत्।८।
गायत्रीमथ वा शैवं वैष्णवं मा जपेद्गुरुः
जपेयुः परितो विप्रास्तथा मन्त्रांश्च वैष्णवान्।९।
ततस्तृणं समुत्थाप्य मधुपर्कं क्रमेण तु
प्रोक्षयेत्पावमानीभिर्घृतपात्रं निरीक्षयेत्।१०।
गुरोश्च दक्षिणां दद्यात्ब्राह्मणेभ्यश्च शक्तितः
वस्त्रे च गुरवे दद्याद्धिरण्यं च विशेषतः ।११।
घृतपात्रं च तस्यैव नमस्कुर्याच्च तं गुरुम्
दत्वैव विधिना तेभ्यो दक्षिणां च विशेषतः ।१२।
विष्णुलोकमवाप्नोति शिवलोकमथापि वा
सर्वरोगविनिर्मुक्तः सर्वान्कामानवाप्नुयात्।१३।
गोसूक्तेन तृणं दद्यात्गवामेव विशेषतः
यश्शृणोति पठेद्वापि स याति परमां गतिम्।१४।
यो देवस्य प्रियो विद्वान्देवस्य पदमाप्नुयात्
देवस्य पदमाप्नुयादित्याह भगवान्बोधायनः ।१५।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने द्वाविंशो ऽध्यायः
BaudhGSS.1.23
अथ प्रथमप्रश्ने त्रयोविंशो ऽध्यायः
अथातो राजाभिषेकं व्याख्यास्यामः ।१।
पूर्वपक्षस्व पञ्चम्यां त्रयोदश्यां तिष्ये श्रोणायां वा यानि चान्यानि शुभानि नक्षत्राणि तेषु पूर्वेद्युरेव युग्मान्ब्राह्मणान्भोजयेत्।२।
आशिषो वाचयित्वा योनिगोत्रश्रुतवृत्तसम्पन्नं ब्राह्मणं पुरोहितं वृणीत आकूत्यै त्वा कामाय त्वा इति ।३।
पुरोहितो जपति आकूतिमस्यावसे ।काममस्य समृद्ध्यै ।इन्द्रस्य युञ्जते धियः इति ।४।
स्वयं जपति आकूतिं देवीं मनसः पुरोदधे यज्ञस्य मातां सुहवा मे अस्तु ।यदिच्छामि मनसा सकामो विदेयमेनद्धृदये निविष्टमिति ।५।
अथास्तमित आदित्ये पद्माकृतिं मण्डल कृत्वोपकल्पयते व्रीहिभिर्यवैस्तिलमाषैः पञ्चगव्यैस्सामुद्राश्चापो नद्याश्चौदुम्बरं भद्रासनं व्याघ्रचर्म हेमकलशैर्गोशृङ्गैश्च सम्भृत्य सह सादयति यत्सह सर्वाणि मानुषाणि इत्येतस्मात्ब्राह्मणात्।६।
उत्तरपूर्वे देशे ऽगारस्य पाकयज्ञविधानेन व्रीहिभिर्यवैस्तिलमाषैर्व्यांहृतिभिर्महाव्याहृतिभिस्सावित्र्या च त्रियम्बकेनाष्टसहस्रं जुहोति ।७।
अथ दक्षिणार्धे श्रीसुक्तविधानेन श्रीदेवीमाराध्य मकुटं प्रक्षाऌअयति ।८।
गायत्र्या गृह्य गोसूत्रं गन्धद्वारेति गोमयम्।आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।शुक्रमसीत्याज्यं देवस्य त्वेति कुशोदकम्।इति ।९।
मकुटं प्रक्षाऌय प्रतिसरं बध्नाति प्रतत्ते अद्य शिपिविष्ट इति ।१०।
राजानं राजवाहनं चाग्रे ऽभिषिञ्चेत्।११।
अथैतां रात्रिमुपविशेत्संविशेद्वा ।१२।
अथोदित आदित्ये भद्रासनं निधाय तत्मिन्व्याघ्रचर्मास्तीर्यं तस्मिन्प्राङ्मुख उपविश्य हेमकलशानादाय आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिर्गृह्णाति ।१३।
अव ते हेडः उदुत्तममिति द्वाभ्यामापो भद्राः आदित्पश्यामि इति चाभिषिच्य अब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरन्यैश्च पवित्रमन्त्रैरथ शृङ्गोदकैश्चाभिषिञ्चति ।१४।
अपां यो द्रवणे रसस्तमहमस्मा आमुष्यायणाय तेजसे श्रियै यशसे ब्रह्मवर्चसायान्नाद्यायाभिषिञ्चामि इति सम्मृष्टे समुत्क्रोशन्तीति समानमामुखस्य विमार्जनात्।१५।
एतस्मिन्काले राजवाहनं चाभिषिञ्चेत्।१६।
स्नापयित्वा ब्राह्मणेभ्यो निष्कसहस्रं दासीशतं ददाति ।१७।
स्वस्त्ययनं वाचयित्या मकुटं वा पट्टं वा करोति अग्ने यशस्विन्यशसेममर्पय इति ।१८।
अथ दुन्दुभिशब्दं करोति दुन्दुभीन्समाघ्नन्ति इति ब्राह्मणम्।१९।
प्रदक्षिणीकृत्य स्वराष्ट्रमनुपालयतीत्याह भगवान्बोधायनः ।२०।
इति बोधायनगृह्यशेषे प्रथमप्रश्ने त्रयोविंशो ऽध्यायः
BaudhGSS.1.24
प्रथमप्रश्ने चतुर्विंशो ऽध्यायः
अथातश्शताभिषेकं व्याख्यास्यामः ।१।
शतसंवत्सरं जीवतस्सहस्रचन्द्रदर्शिनो वोदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे ऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा ऽग्रेणाग्निं व्रीहिभिर्यवैर्वा मिश्रितं सुवर्णं संव्रतानुगुणं चतुरश्रं स्थण्डिलं करोति ।२।
तत्र सुवर्णरजतताम्रमृण्मयैर्वा कलशैस्तन्तुना परिवृतैः प्रक्षाऌय मध्ये प्रधानकलशं निधाय गन्धपुष्पधूपदीपैः फलै रत्नैरवकीर्यैन्द्रादिक्रमेण दक्षिणापरोत्तरान्कलशान्स्थापयित्वा तिरः पवित्रं निधाय शुद्धोदकेन पूरयित्वा मध्ये प्रधानकलशे नवरत्नैरवकीर्याहतेन वाससा प्रतिच्छाद्य गन्धपुष्पधूपदीपैरलङ्कृत्य मध्ये प्रधानकलशे ब्रह्माणमावाहयत्यैन्द्रादिक्रमेण प्रजापतिं परमेष्ठिनं चतुर्मुखं हिरण्यगर्भमावाहयामि इत्यावाह्य परिधानप्रभृत्याग्निमुखात्कृत्वा दैवतमर्चयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा ऽथैनान्गन्धपुष्पधूपदीपैः अमुष्मै नमो ऽमुष्मै नमः इति ।अन्नेन अमुष्मै स्वाहा ऽमुष्मै स्वाहा इति ।३।
अथ पक्वाज्जुहोति आयुष्टे विश्वतो दधतिति पुरोनुवाक्यामनूच्य आयुर्दा अग्ने इति याज्यया जुहोति ।४।
अथाज्याहुतीरुपजुहोति ब्रह्मसूक्तेन ब्रह्म जज्ञानमिति षड्भिः अग्निरायुष्मानिति पञ्चभिः पर्यायैस्स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।५।
अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं इनदधाति आयुष्टे आयुर्दां अग्ने इति द्वाभ्याम्।६।
अथैनमद्भिरभिषेकं करोति यासु गन्धा रसा वर्णाः इति चतसृभिः प्रत्यृचं प्रधानकलशेनाभिषिञ्चति ऐन्द्रादिक्रमेण याः प्राचीः इति चतसृभिरनुच्छन्दसमभिषेकं करोति ।या ऊर्ध्वाः इति प्रधानकलशशेषेणाभिषिञ्चति ।७।
अहतानि वासांसि परिधायाप आचम्यालङ्कृत्य तत आदित्यमुदीक्षयति उद्वयं तमसस्परि उदु त्य चित्रं तच्चक्षुर्देवहितम्य उदगातिति ।८।
अथैतेनैव यथेतमेत्यैरकां साधिवासामास्तीर्य तस्यां प्राङ्मुख उपविश्य सुवर्णरजतताम्रकांस्ये वा पात्रे हविराज्यं हिरण्यं निधाय निमील्योन्मील्यावेक्ष्य ब्राह्मणाय प्रयच्छति ।९।
अथ रथमारुह्य ग्रामं प्रदक्षिणीकृत्य दुन्दुभिशब्देन स्वस्तिसूक्तेन गृहं प्रविश्य गुरवे वरं दत्वा ब्राह्मणान्सम्पूज्याशिषो वाचयित्वा दश पूर्वान्दशापरानात्मानं च एकविंशतिं पङ्क्तिं च पुनाति पुत्रपौत्रैश्च षष्टिर्वर्षसहस्राणि स्वर्गलोकमतीय ब्रह्मणस्सायुज्यं सलोकतामाप्नोतीत्याह भगवान्बोधायनः ।१०।
इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने चतुर्विंशो ऽध्यायः
BaudhGSS.2.1
अथातश्शताभिषेकम्।अथातो राजाभिषेकम्।सर्वपापहरं चैव ।यमयज्ञस्स्वयं प्रोक्तः ।अथातो गजशान्तिम्।अथातो ऽश्वशान्तिम्।अथातो गृहकर्मणाम्।अथ नवग्रहपूजाविधिः ।अथातो ग्रहातिथ्यबलिः ।अथातः प्रतिसरबन्धम्।अथ वै भवति ।अथ संवत्सरेसंवत्सरे ।सप्तमे ऽष्टमे वा मासि ।अथ प्रहुते प्रसिद्धम्।अथातः पुण्याहम्।अथातः पुण्याहदेवताः ।अथ शुचौ समे देशे ।सर्वत्र दर्वीहोमानाम्।अथातः परिस्तरणविधिम्।अथातस्सिकतादोषम्।अथातस्स्थण्डिलविधिम्।अथातो ऽपूर्वम्।उपनयनादिरग्निः ।अथातस्सप्तपाकयज्ञानाम्।२४।
अथातस्सप्तपाकयज्ञानाम्।उपनयनादिरग्निः ।अथातो ऽपूर्वम्।अथातस्स्थण्डिलविधिम्।अथातस्सिकतादोषम्।अथातः परिस्तरणविधिम्।सर्वत्र दर्वीहोमानाम्।अथ शुचौ समे देशे ।अथातः पुण्याहदेवताः ।अथातः पुण्याहम्।अथ प्रहुते प्रसिद्धम्।सप्तमे ऽष्टमे वा मासि ।अथ संवत्सरेसंवत्सरे ।अथ वै भवति ।अथातः प्रतिसरबन्धम्।अथातो ग्रहातिथ्यबलिः ।अथ नवग्रहपूजाविधिः ।अथातो गृहकर्मणाम्।अथातो ऽश्वशान्तिम्।अथातो गजशान्तिम्।यमयज्ञस्स्वयं प्रोक्तः ।सर्वपापहरं चैव ।अथातो राजाभिषेकम्।अथातश्शताभिषेकम्।२४।
इति बोधायनगृह्यशेषे प्रथमः प्रश्नः समाप्तः अथ द्वितीयप्रश्नप्रारम्भः अथातः पञ्चमीश्राद्धं व्याख्यास्यामः शैशिरे मास्यारभ्य शुक्लपक्षस्य पञ्चम्यां कृष्णपक्षस्य सप्तम्यां च पुत्रकामी संवत्सरं दीक्षां कृत्वा तस्मात्पूर्वेद्युस्सायमौपासनहोमे हुते प्राचीनावीती सङ्कल्पयेत्प्रथमसंवत्सरं कर्ता ऽस्मि इति ।१।
मनसा सङ्कल्पे कृते सायमनशनः त्र्यवरान्ब्राह्मणान्निमन्त्रयते ।२।
पादप्रक्षाऌअनं कृत्वा गन्धादिभिरलङ्कृत्य पुत्रानिच्छे वः पञ्चमं श्राद्धं भविता तत्र भवद्भिः प्रसादः करणीयः इति ।३।
अपरेद्युरामन्त्र्य पादप्रक्षाऌअनं कृत्वा अद्य श्राद्धं भवति इति ।४।
मध्याह्ने तृतीयमामन्त्रणम्।५।
अवटखननादि मासिश्राद्धवत्।६।
पितॄणां श्राद्धं मातामहानां च श्राद्धं कुर्यादिति ।७।
अथा ऽग्निमुखात्कृत्वा मासिश्राद्धवद्धोमं कृत्वा पृथक्पृथग्घोमं च कुर्यात्।८।
वस्त्राभरणकुण्डलाद्यैरलङ्कृत्य रिद्धं भवतु इति वाचयित्वा तान्भोजयेत्।९।
भोजनवेऌआयां दिवाकीर्त्यपठनं पुण्यकथनं स्मृतिपठनं च ।१०।
खाचान्तान्प्रणम्य भुक्तदक्षिणां यथाशक्ति दत्वा पुनस्सिद्धं वाचयित्वा तान्विसृज्य द्वारान्तमनुव्रज्य पिण्डदानानि मासिश्राद्धवत्कृत्वा ततश्शेषं दम्पती अश्नीयाताम्।११।
मध्यमपिण्डां पत्नीं प्राशयति ।१२।
षूर्वेद्यू रात्रावपरेद्यू रात्रौ च भोजनं मैथुनादि न कुर्याद्ये श्राद्धभोजिनश्च ।१३।
एवं कुर्वन्पुत्रस्सगणोपेतो भवति पुत्रो न शीर्यते तस्मात्पञ्चमीश्राद्धं कुर्यात्।१४।
पुत्त्र इति निर्वचनम्पुदिति नरकस्तस्मात्त्रायते इति पुत्त्रो ऽपुत्त्रस्य गतिनाह्ह्स्सीत्याह भगवान्बोधायनः ।१५।
इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने प्रथमो ऽध्यायः