सामग्री पर जाएँ

बोधिसत्त्वावदानकल्पलता

विकिस्रोतः तः
बोधिसत्त्वावदानकल्पलता
[[लेखकः :|]]


क्षेमेन्द्रविरचिता

बोधिसत्त्वावदानकल्पलता ।

नमः सर्वज्ञाय ।

१. प्रभासावदानम् ।

चित्तं यस्य स्फटिकविमलं नैव गृह्णाति रागं
कारुण्यार्द्रे मनसि निखिलाः शोषिता येन दोषाः ।
अक्रोधेन स्वयमभिहतो येन संसारशत्रुः
सर्वज्ञोऽसौ भवतु भवतां श्रेयसे निश्चलाय ॥ क्१.१ ॥
सच्छायः स्थिरधर्ममूलवलयः पुण्यालवालस्थितिर्
धीविद्याकरुणाम्भसा हि विलसद्विस्तीर्णशाखान्वितः ।
संतोषोज्ज्वलपल्लवः शुचियशःपुष्पः सदासत्फलः
सर्वाशापरिपूरको विजयते श्रीबुद्धकल्पद्रुमः ॥ क्१.२ ॥
जायते जगदुद्धर्तुं संसारमकराकरात् ।
मतिर्महानुभावानामत्रानुश्रूयते यथा ॥ क्१.३ ॥
अस्ति प्रभावती नाम हेमहर्म्यगृहैर्वृता ।
पुरी प्रभावतीव द्यौर्विमानैः पुण्यकर्मणाम् ॥ क्१.४ ॥
विद्याधरवती सिद्धगन्धर्वगणसेविता ।
गां श्रिता शक्रनगरी सुकृतेन सतामिव ॥ क्१.५ ॥
सेविता सततं सत्यव्रतदानदयामयैः ।
राजधानीव धर्मस्य पुण्यावसथशालिनी ॥ क्१.६ ॥
अभूद्भूतिलकस्तस्यां प्रभासो नाम भूपतिः ।
सप्रभा सादरैर्यस्य कीर्तिरभ्यर्च्यते सुरैः ॥ क्१.७ ॥
गुणसौरभसंभाराः सर्वासां हरिणीदृशाम् ।
यद्यशःपुष्पमञ्जर्यो याताः कर्णवतंसताम् ॥ क्१.८ ॥
उपायज्ञस्य यस्याज्ञां सुवणकुसुमोज्ज्वलाम् ।
मालामिव महीपाला मौलिचक्रेषु चक्रिरे ॥ क्१.९ ॥
तं कदाचित्समासीनमभ्येत्य भुवनेश्वरम् ।
उवाच क्षितिविन्यस्तजानुर्नागवनाधिपः ॥ क्१.१० ॥
देव दिव्यद्युतिर्दन्ती गृहीतोऽस्माभिरद्भुतः ।
त्वत्कीर्तिश्रवणाद्भूमिमैरावण इवागतः ॥ क्१.११ ॥
द्वारि स्थितोऽसौ द्विरदस्त्रिदशार्हः प्रदृश्यताम् ।
भृत्यानां प्रभुनां दृष्टः सफलो हि परिश्रमः ॥ क्१.१२ ॥
एतदाकर्ण्य नृपतिर्निर्गत्यामात्यसंमतः ।
ददर्श द्विरदं द्वारि कैलासमिव जङ्गमम् ॥ क्१.१३ ॥
उद्दामसौरभाहूतैर्भ्रमरैर्गण्डडिण्डिमैः ।
शृङ्गाराभरणोदारं वसन्तमिव सेवितम् ॥ क्१.१४ ॥
दन्तपर्यन्तविश्रान्तकरं मीलितलोचनम् ।
स्मरन्तं विन्ध्यकदलीसल्लकीकाननश्रियः ॥ क्१.१५ ॥
अगस्त्यशासनाद्यातं भुवि कुञ्जरराजताम् ।
स्फुरत्सप्तच्छदामोदं विन्ध्याचलमिवोन्नतम् ॥ क्१.१६ ॥
तं विलोक्य क्षितिपतिर्दन्तस्तम्भविभूषितम् ।
लक्ष्मीविलासभवनं विस्मयादित्यचिन्तयत् ॥ क्१.१७ ॥
अहो नवनवोत्कर्षा निर्माणाश्चर्यशालिनाम् ।
कर्मणामनवच्छिन्ना संसारसर्गसंततिः ॥ क्१.१८ ॥
अमन्थेन सुधाम्भोधेरनायासेन वासुकेः ।
अनाकर्षेण शैलस्य केनायं जनितो गजः ॥ क्१.१९ ॥
अथ हस्तिमहामात्रं संयातं नाम भूपतिः ।
आदिदेशार्चितादेशं गजोऽयं दम्यतामिति ॥ क्१.२० ॥
तदादिश्य महीपाले यातेऽन्तःपुरमन्दिरम् ।
नागं जग्राह संयातः सर्वशिक्षाभरक्षमम् ॥ क्१.२१ ॥
स सच्छिष्य इव प्राज्ञः प्राग्जन्माभ्यासयन्त्रितः ।
नीतस्तेन प्रयत्नेन सर्वशिक्षाविनीतताम् ॥ क्१.२२ ॥
बहुदाननिरुद्वेगः शक्त्युत्साहयुतः क्षमी ।
रिपुप्रघातसुगतिः स राज्ञस्तुल्यतां ययौ ॥ क्१.२३ ॥
दम्यक्रियासमुत्तीर्णं ततस्तं कुञ्जरेश्वरम् ।
नरेश्वराय संयातः कृतकृत्यो न्यवेदयत् ॥ क्१.२४ ॥
दृष्ट्वा तमङ्कुशायत्तं निर्विकारबलोदयम् ।
उत्साहशिखरारूढं मेने राजा जयश्रियम् ॥ क्१.२५ ॥
स संजातप्रहर्षोत्थदाक्ष्यशिक्षादिदृक्षया ।
तमारुरोह सोत्साहः सहस्रांशुरिवोदयम् ॥ क्१.२६ ॥
संयातोऽथ गजेन्द्रस्य मन्त्रीव वशवर्तिनः ।
सर्वमण्डलसंचारचातुर्थं समदर्शयत् ॥ क्१.२७ ॥
गजप्रेक्षाप्रसङ्गेन मृगयाकेलिलालसः ।
राजा निजोत्साहमिव व्यगाहत वनं महत् ॥ क्१.२८ ॥
स ययौ रत्नकेयूरकिरणैर्दूरसर्पीभिः ।
सल्लकीपल्लववरैर्दिग्नागानाह्वयन्निव ॥ क्१.२९ ॥
व्रजन्तं तत्र ददृशुस्तं वने वनदेवताः ।
प्रहर्षविस्मयाकीर्णकर्णपूरीकृतेक्षणाः ॥ क्१.३० ॥
शबरीकबरीपाशपुष्पसौरभनिर्भराः ।
वैन्ध्या वसुंधराधीशं मरुतस्तं सिषेविरे ॥ क्१.३१ ॥
अथ विन्ध्योपकण्ठेषु स्वच्छन्दसुखशाखिषु ।
स्मृत्वा विलासवृत्तान्तं गजः सोत्कण्ठतां ययौ ॥ क्१.३२ ॥
करिण्याः प्रेमबद्धाया गन्धमाघ्राय स द्विपः ।
नीतिं नृप इवोत्सिक्तस्तत्याजाङ्कुशयन्त्रणाम् ॥ क्१.३३ ॥
सवेगं धावतस्तस्य रागाकृष्टस्य दण्डिनः ।
विमूढस्येव संसारे नाभवद्विरतिः क्कचित् ॥ क्१.३४ ॥
दृष्ट्वा प्रभञ्जनजवं कुञ्जरं राजकुञ्जरः ।
व्रजन्तं जातसंदेहः संयातमिदमब्रवीत् ॥ क्१.३५ ॥
अहो बतायं भवता विनयं ग्राहितो गजः ।
दृष्टः प्रयातो वैमुख्यं गुरोरस्याङ्कुशस्य यः ॥ क्१.३६ ॥
भ्रमतीव दिशां चक्रमनुयान्तीव पादपाः ।
पादन्यासभरेणास्य क्षीबेणाधूर्णते क्षितिः ॥ क्१.३७ ॥
अस्मिन् देव इवाकाले प्रयाते प्रतिकूलताम् ।
सर्वाः पुरुषकारस्य निष्फला यत्नवृत्तयः ॥ क्१.३८ ॥
वचः श्रुत्वेति संयातः प्रभोरायातसाध्वसः ।
शिक्षापवादवैलक्ष्यादुवाच रचिताञ्जलिः ॥ क्१.३९ ॥
देव सर्वक्रियायत्तः कुञ्जरोऽयं मया कृतः ।
करिणीगन्धमाघ्राय यातः किं त्वद्य विक्रियाम् ॥ क्१.४० ॥
नोपदेशं न नियमं न दाक्षिण्यं न साधुताम् ।
स्मरन्ति जन्तवः कामं कामस्य वशमागताः ॥ क्१.४१ ॥
केन रतिरसोत्सिक्ता विषयाभिमुखी मतिः ।
अदभ्रश्वभ्रविभ्रष्टशओलकुल्येव वार्यते ॥ क्१.४२ ॥
शरीरश्रमशिक्षायां दमकाः कुशला वयम् ।
मनोनियमशिक्षायां मुनयोऽपि न पण्डिताः ॥ क्१.४३ ॥
रागादगणितायासः स्खलिताखिलसंयमः ।
एष धावत्यमारेण मूर्खः खल इव द्विपः ॥ क्१.४४ ॥
वृक्षशाखां समालम्ब्य त्यजेमं पृथिवीपते ।
व्यसनी पतितः सत्यं पातयत्येव दुर्जनः ॥ क्१.४५ ॥
संयातस्य वचः श्रुत्वा तत्कालसदृशं नृपः ।
तेनैव सहितः शाखामाललम्बे महातरोः ॥ क्१.४६ ॥
अवतीर्य तरोरश्वमारुह्य नृपतौ गते ।
प्राप्यालिलिङ्ग करिणीं विगाह्य गहनं गजः ॥ क्१.४७ ॥
ततः शान्तस्मरो हस्ती दिनैरभ्येत्य सप्तभिः ।
स्वयमालानसंबद्धस्तस्थौ भुक्त्वा यथासुखम् ॥ क्१.४८ ॥
शिक्षासंयमयन्त्रितं तं दृष्ट्वा स्वयमागतम् ।
संयातः कौशलोत्कर्षहर्षाद्राज्ञे न्यवेदयत् ॥ क्१.४९ ॥
रागवागुरयाकृष्टः प्रययौ यः स्मरातुरः ।
शिक्षायामविसंवादी सोऽयं प्राप्तः स्वयं गजः ॥ क्१.५० ॥
संकेतयन्त्रितो वश्यो रसज्ञः सल्लकीभुवाम् ।
संतप्तलोहकवलं गृह्णाति विनये स्थितः ॥ क्१.५१ ॥
एष कामरसाकृष्टः कष्टां विकृतिमाययौ ।
पुनः प्रकृतिमापन्नः प्रशान्तमदनज्वरः ॥ क्१.५२ ॥
शक्या दमयितुं देव सिंहव्याघ्रगजादयः ।
न तु रागासवक्षीबविषयाभिमुखं मनः ॥ क्१.५३ ॥
एतदाकर्ण्य भूपालस्तत्तथेति विचिन्तयन् ।
उवाच सत्यमुचितं संयात कथितं त्वया ॥ क्१.५४ ॥
अप्यस्ति कश्चिल्लोकेऽस्मिन् येन चित्तमदद्विपः ।
नीतः प्रशमशीलेन संयमालानलीनताम् ॥ क्१.५५ ॥
इत्युक्ते दे वताविष्टः संयातस्तमभाषत ।
देव सन्ति जगत्क्लेशनिःशेषोन्मूलनोद्यताः ॥ क्१.५६ ॥
विवेकालोकिता लोके वैराग्यजनिताग्रहाः ।
शमसंतोषविशदा बुद्धा एव प्रबोधिनः ॥ क्१.५७ ॥
इति बुद्धाभिधां श्रुत्वा सम्यक्संबोधिचेतसः ।
राज्ञः प्राग्जन्मजाभ्यासप्रणिधानमजायत ॥ क्१.५८ ॥
विनिमज्जज्जगदिदं संसारे मकराकरे ।
संतारयेयं संबोधिमुक्तः कुशलसेतुना ॥ क्१.५९ ॥
अथोचुर्देवता व्योन्मस्तं शुद्धावासकायिकाः ।
सम्यक्संबोधिसंबुद्धो भविष्यसि महामते ॥ क्१.६० ॥
इति तद्वचनं श्रुत्वा राजा विरजसां वरः ।
जातिस्मरो दिव्यचक्षुः प्रययौ बोधिसत्त्वताम् ॥ क्१.६१ ॥
अथ स विपुलसत्त्वस्तत्त्वनिक्षिप्तचक्षुर्
भवजलनिधिमज्जत्सर्वभूतानुकम्पी ।
अभवदभिनवोद्यत्संवुदित्साहयोगाद्
दलितकुशलसेतुः सत्त्वसंतारणाय ॥ क्१.६२ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां प्रभासावदानं नाम प्रथमः पल्लवः समाप्तः ॥


२. श्रीसेनावदानम् ।

ते जयन्ति जगत्यस्जिन् पुण्यचन्दनपादपाः ।
छेदनिर्घर्षदाहेऽपि ये परार्थेषु निर्व्यथाः ॥ क्२.१ ॥
गणनीया गुणगणैरस्त्यरिष्टाभिधा पुरी ।
स्पर्धया शक्रनगरी यस्या न स्याद्गरीयसी ॥ क्२.२ ॥
तस्यां बभूव भूपालः श्रीसेन इति विश्रुतः ।
समग्रगुणरत्नानां रत्नाकर इवाकरः ॥ क्२.३ ॥
परोपकारशक्तस्य चतुरस्य प्रभावतः ।
अनुरक्ता दिशः सर्वाः सूर्यस्येव प्रभावतः ॥ क्२.४ ॥
यशोभि शोभितं येन धनदानसुगन्धिभिः ।
गजैश्च भूतिधवलैर्जगत्कल्पद्रुमैरिव ॥ क्२.५ ॥
कलालयोऽपि सरलः सरलोऽपि महामतिः ।
यो बभूव प्रजापुण्यैर्मतिमानप्यवञ्चकः ॥ क्२.६ ॥
यावत्तपति तिग्मांशुर्यावद्वहति मारुतः ।
तावदाज्ञा च कीर्तिश्च यस्याप्रतिहताभवत् ॥ क्२.७ ॥
शमव्यायामविदुषां षस्ङ्गुणज्ञानचक्षुषाम् ।
यं द्वादशसहस्राणि मन्त्रिणां पर्युपासते ॥ क्२.८ ॥
तस्मिन्धर्मपरे राज्ञि बभूव सुकृती जनः ।
भर्तृतुल्या भवन्त्येव गुणैः स्त्रिय इव प्रजाः ॥ क्२.९ ॥
तस्य पुण्याधिवासेन जनास्त्रिदिवगामिनह् ।
विमानैः शक्रनगरीं निःसंचाराः प्रवक्रिरे ॥ क्२.१० ॥
दृष्ट्वा मनुजलोकेन सुरलोकसमावृतिम् ।
जातवैरः क्षितिओपतौ शतक्रतुरचिन्तयत् ॥ क्२.११ ॥
सेनेव लक्ष्मी वसुधेषु चारस्याश्चर्यकर्तव्य च दत्तनित्यम् ।
कल्याणशीलेन च स र्वचेतन्यप्रव्यहासामन अस्मकाश्च (?) ॥ क्२.१२ ॥
तस्याखण्डितचेतसः दद्धिद्वल्यानुभावपाम् (?) ।
कर्तव्या धैर्याजिज्ञासा मया मायाविधायिना ॥ क्२.१३ ॥
इति संचिन्त्य सुचिरं सर्वैरनुगतः सुरैः ।
रूपं शक्रः परावर्त्य मर्त्यलोकमवातरत् ॥ क्२.१४ ॥
अत्रान्तरे प्रजाकार्यपर्यालोचनतत्परः ।
राज्यरक्षागुरुर्मन्त्री नृपमूचे महामतिः ॥ क्२.१५ ॥
राजन् विरजसा राज्यराजमानेन निर्जितः ।
निर्व्याजदानैर्भवता लज्जते त्रिदशेश्वरः ॥ क्२.१६ ॥
परस्य पूर्णगुणतामात्मनस्तद्विहीनताम् ।
दृष्ट्वा को नाम नायाति मात्सर्यस्य विधेयताम् ॥ क्२.१७ ॥
ईर्ष्यालवः परोत्कर्षसंघर्षस्य जुषो जनाः ।
प्रायेणोद्वेगमायान्ति महतां सुकृतेष्वपि ॥ क्२.१८ ॥
सर्वस्वदानमर्यादादानव्यसनिनोऽस्तु ते ।
पुत्रदारात्मदाने तु संकल्पो ह्यतिसाहसः ॥ क्२.१९ ॥
दृश्यन्ते दारुणास्ते ते स्वप्नाः साध्वसहेतवः ।
जगतः सूच्यते तीव्रं यैश्चूडामणिखण्डनम् ॥ क्२.२० ॥
दैवज्ञानां प्रवादश्च श्रूयते तत्त्ववादिनाम् ।
शरीरं पृथिवीपालो दास्यतीति सुदुःसहः ॥ क्२.२१ ॥
शरीरदानं सर्वार्थिसार्थनैष्फल्यकारणम् ।
सर्वप्रदो भवत्येव तिष्ठन् कल्पमहीरुहः ॥ क्२.२२ ॥
तस्मादस्मान्महीपाल विरम त्यागसाहसात् ।
रक्षारत्नं हि जगतः प्रजायत्तं वपुस्तव ॥ क्२.२३ ॥
इति मन्त्रिरेणोक्तमाकर्ण्य वसुधाधिपः ।
तमूचे सत्त्वधवलस्मितघौताधरद्युतिः ॥ क्२.२४ ॥
उक्तं हितं म्हामात्य भवता सचिवोचितम् ।
किं त्वर्थिनवैमुख्यसंतापं नाहमुत्सहे ॥ क्२.२५ ॥
देहीति वादिषु गिरो निषेधपरुषाक्षराः ।
स्फुरन्ति वदने येषां सजीवास्ते गतासवः ॥ क्२.२६ ॥
इदमस्मादवाप्स्यामीत्याधाय हृदि याचकः ।
प्राप्यः प्रयाति वैमुख्यं यस्मिन् किं तेन जीवता ॥ क्२.२७ ॥
धिग्जन्म पुण्यहीनस्य तस्य निष्करुणात्मनः ।
यस्यार्तजनसंतापश्रवणे शीतलं मनः ॥ क्२.२८ ॥
एतदर्थमयं कायः सापायोऽपि सतां प्रियः ।
यत्कस्यचित्क्कचिद्याति कदाचिदुपकारिताम् ॥ क्२.२९ ॥
श्रुत्वेति नृपतेर्वाक्यममात्यः सत्त्वशालिनः ।
नोवाच किंचिदचलां विचिन्त्य भवितस्यताम् ॥ क्२.३० ॥
ततः कदाचिद्भूभर्तुस्तस्य लीलाविहारिणः ।
जायां जयप्रभां नाम रतिं रतिपतेरिव ॥ क्२.३१ ॥
दूराद्यदृच्छयायातां चित्तसासङ्गवागुराम् ।
मुनिरध्यापकः कान्तां ददर्श विनिमेषदृक् ॥ क्२.३२ ॥
प्राग्जन्माभ्याससंबन्धस्नेहात्परिचितामिव ।
तां दृष्ट्वा स धृतेः प्राप धैर्यराशिरनीशताम् ॥ क्२.३३ ॥
तस्य वीतस्पृहस्यापि वासनोल्लसितं मनः ।
उत्सृज्य भववैमुख्यमभिलाषभुवं ययौ ॥ क्२.३४ ॥
इयं हि सततस्यूता संततप्रीतितन्तुभिः ।
नापैति सर्वजन्तूनां प्राग्जन्माभ्यासवासना ॥ क्२.३५ ॥
तदाश्रमपदं प्राप्तः समाप्ताध्ययनव्रतः ।
शिष्यो माणवकः प्राह दक्षिणा गृह्यतामिति ॥ क्२.३६ ॥
स तमूचे न मे वत्स वने वृत्तिः प्रयोजनम् ।
तथापि यदि निर्बन्धः श्रूयतां यदभीप्सितम् ॥ क्२.३७ ॥
श्रीसेनस्य क्षितिपतेयदि देवी जयप्रभा ।
लभ्यते भवता दातुं तदसौ मम दक्षिणा ॥ क्२.३८ ॥
इत्युक्तं गुरुणा श्रुत्वा शिष्यः कम्पितमानसः ।
अशक्यप्रार्थनालाभे संशयाकुलितोऽभवत् ॥ क्२.३९ ॥
स गत्वा सततस्वेच्छाविवृतद्वारमर्थिनाम् ।
विवेश स्वैरविश्रम्भभवनं भूभृतां प्रभोः ॥ क्२.४० ॥
अलभ्यार्थार्थनादैन्यचिन्तातिक्लिष्टमानसः ।
नम्राननोऽतिवैलक्ष्याद्वीक्षमाण इव क्षितिम् ॥ क्२.४१ ॥
तं दृष्ट्वार्थिनमायातं प्रहृष्टोऽभून्महीपतिः ।
सुधाप्रदानसन्नद्धसमुद्भूतिरिवाम्बुधिः ॥ क्२.४२ ॥
किं तवेप्सितमित्युक्त्वा पूजितः स महीभुजा ।
उवाचानुचिताख्यानवैलज्जस्खलिताक्षरः ॥ क्२.४३ ॥
अनर्थितपरः पूर्वमर्थिकल्पतरोस्तव ।
गर्वर्थमर्थितां यातः सुदुर्लभपदेऽप्यहम् ॥ क्२.४४ ॥
मम विद्याव्रते पूर्णे दक्षिणाभिमता गुरोः ।
राजन् जयप्रभा देवी दीयता यदि शक्यते ॥ क्२.४५ ॥
इत्युक्रे मुनिशिष्येण सहसैव महीपतेः ।
स्नेहदानसाविद्धं द्विधाभूतमभून्मनः ॥ क्२.४६ ॥
स जगाद्विजं दन्तज्योतिषाग्रविसारिणा ।
गृह्यतां दयिता स्वच्छवाससाच्छादयन्निव ॥ क्२.४७ ॥
अविचार्य मया देयमीप्सितं तव यद्गुरोः ।
वियोगचकितं चेतः सत्यं न गणयाम्यहम् ॥ क्२.४८ ॥
इत्युक्त्वाहूय दयितां राजा राजीवलोचनाम् ।
सदा हृदयसंसक्तां जीववृत्तिमिवापराम् ॥ क्२.४९ ॥
निवारितोऽपि गुरुणा वियोगव्यसनाग्निना ।
निषिद्धोऽप्यतिवृद्धेन स्नेहेन स्मरबन्धुना ॥ क्२.५० ॥
प्रददौ मुनिशिष्याय सहसा हरिणीमिव ।
किमेतदिति सायाससंत्रासतरलेक्षणाम् ॥ क्२.५१ ॥
दत्तायां त्यागशीलेन प्रियायां पृथिवीभुजा ।
चकम्पे त्यागभीतेव भूमिर्लोलाब्धिमेखला ॥ क्२.५२ ॥
यत्कृते दुर्दशां देहे सेहिरे दुःसहामपि ।
इन्द्रचन्द्रादयो देवास्ताह्प्रियाः कस्य न प्रियाः ॥ क्२.५३ ॥
शीलं केचिद्धनं केचिद्धर्मं केचित्तपः परे ।
लज्जां केचित्तनुं केचित्त्यजन्ति योषितां कृते ॥ क्२.५४ ॥
यदेव रागसर्वस्वं पुंसां जीवितजीवितम् ।
तदेव स्फीटसत्त्वानां दाने तृणलवायते ॥ क्२.५५ ॥
तामादाय गते तस्मिन् विरहाकुलितो नृपः ।
विरहेण सुखद्वेषी मनोभव इवाभवत् ॥ क्२.५६ ॥
शिष्येण मुनिरानीतां दृष्ट्वा भूपतिवल्लभाम् ।
रहितां जीवितेनेव परलोकभुवं गताम् ॥ क्२.५७ ॥
गाढानुशयसंतप्तः परं लज्जानिमीलितः ।
अचिन्तयदनौचित्यमात्मनः कर्मवुप्लवात् ॥ क्२.५८ ॥
अहो नु बालकेनेव मया केवलचापलात् ।
निःशन्कमयशःपङ्के स्वयमात्मा निपतितः ॥ क्२.५९ ॥
इयं प्रजानां जननी भर्म्याणां धर्मकारिणा ।
वर्णाश्रमगुरोर्जायां मया दुःखानलेऽर्पिता ॥ क्२.६० ॥
किं तु नाकलितं शीलं न स्मृतः संयमो मया ।
गणितं नैव वैराग्यं विवेको नावलोकितः ॥ क्२.६१ ॥
अहोऽत्र निर्विचाराणां सन्मार्गविमुखं मनः ।
असंयमासवक्षीबमपथेष्वेव धावति ॥ क्२.६२ ॥
इति संचित्य स मुनिर्वैलक्ष्यक्षपितद्युतिः ।
अभ्येत्य राजदयितामुवाच विनताननः ॥ क्२.६३ ॥
समाश्वसिहि हे मातर्न शोकं कर्तुकर्हसि ।
भवितव्यतयैवायं क्लेशस्ते दुर्नयश्च मे ॥ क्२.६४ ॥
त्यक्त्वा हि श्रमसंतापमस्य तीरतरोरधः ।
अधुनैव निजं धाम सहास्माभिर्गमिष्यसि ॥ क्२.६५ ॥
इत्युक्ते मुनिना देवी सीक्तेवामृतवृष्टिभिः ।
अवाप्तजीवितधृतिस्तत्याज भयसंभ्रमम् ॥ क्२.६६ ॥
श्रुत्वैतत्त्रिदिवव्यापि दातुश्चरितमद्भुतम् ।
राज्ञः सत्त्वदयां ज्ञातुं वासवः समुपाययौ ॥ क्२.६७ ॥
भक्षिताधःशरीरार्धो व्याघ्रेण विजने वने ।
पुत्रैश्चतुर्भिराक्रन्दैर्गृहीतो ब्राःमणाकृतिः ॥ क्२.६८ ॥
प्रस्रवद्भूरिरूधिरो लम्बमानान्त्रमण्डलह् ।
कृच्छेष्वपगतप्राणः पापैरिव दृढीकृतः ॥ क्२.६९ ॥
प्रत्यग्रामिष्यागन्धेन क्रव्यादैर्भृशमन्वितः ।
लुब्धपार्थिवचौरोत्थैरनर्थैरर्थवानिव ॥ क्२.७० ॥
नगरान्तरमासाद्य स ययौ पुरवासिनाम् ।
कारुण्यदैन्यदुःखार्तो स्मयाविस्मयहेतुताम् ॥ क्२.७१ ॥
स शोक इव साकारः स त्रास इव दुःसहः ।
विदधे साध्वसायासं सहसा पौरयोषिताम् ॥ क्२.७२ ॥
सोऽर्थिसंदर्शनस्थानस्थितस्याथ महीपतेः ।
पुत्ररूपैश्चतुर्भिस्तैर्न्यस्तोऽग्रे मञ्चिकार्पितह् ॥ क्२.७३ ॥
तं दृष्ट्वा वैशसावेशविषमक्लेशविह्वलम् ।
निष्कूणिताननवनो जनोऽभून्मीलितेक्षणह् ॥ क्२.७४ ॥
स कम्पविह्वलं वक्षो मुक्तमुद्यम्य दक्षिणम् ।
भुजं जगाद भूपालं व्यथाशिथिलिताक्षरः ॥ क्२.७५ ॥
स्वस्ति तुभ्यं महीपते ब्राह्मणोऽहमिमां दशाम् ।
तीव्रपाप इव प्रातः पश्य मां करुणानिधे ॥ क्२.७६ ॥
संसारेघोरगहने वने व्याघ्रेण भक्षितः ।
जीवाम्यवश्यभोग्यत्वाद्दुःखस्यास्य गरीयसः ॥ क्२.७७ ॥
अस्मिन्नपि विपत्तापे तीव्रक्लेशसहिष्णवः ।
विमुञ्चन्ति न मां प्राणाः सहृदः सज्जना इव ॥ क्२.७८ ॥
ददाति यदि ते कश्चित्छित्त्वा देहार्धमात्मनः ।
तत्ते जीवितमस्तीति मामूचे व्योमदेवता ॥ क्२.। ७९ ॥
को ददाति जगत्यस्मिन् जीवितं करुणानिधे ।
प्रायेण स्वसुखान्वेषी परार्थविमुखो जनः ॥ क्२.८० ॥
सर्वदा सर्वदातारं दीनव्यसनबान्धवम् ।
देहदानेऽप्यविमुखं त्वामस्मि शरणं गतः ॥ क्२.८१ ॥
एकस्त्वमेव लोकेऽस्मिन् जातः सुकृतपादपः ।
निर्व्याजमादरोदारं दानं यस्य फलोद्गतिः ॥ क्२.८२ ॥
किमन्यैर्वा वदान्यस्य कीर्तितैर्भवतो गुणैः ।
दानमेवाहतो यस्य लोके सुकृतडिण्डिमः ॥ क्२.८३ ॥
आपन्नार्तिपरित्राणपवित्रचरितव्रताः ।
प्रायन्ते पुण्यपण्येन विपत्काले भवद्विधाः ॥ क्२.८४ ॥
अमन्दानन्दसुहृदो हरिचन्दनशीतलाः ।
हरन्ति सन्तः संतापं दक्षिणाः पवना इव ॥ क्२.८५ ॥
पूर्णेन्दुसुन्दरादस्मादुदिता वदनात्तव ।
ज्योप्त्स्नेव जीवयत्येव वाणी पीयूषवर्षिणी ॥ क्२.८६ ॥
इत्युक्तस्तेन सहसा हृदि संक्रान्ततद्व्यथः ।
संमोहमूर्च्छितं राजा तमूचे वाचमाकुलम् ॥ क्२.८७ ॥
समाश्वसिहि मुञ्च त्वं बह्यं प्राणवियोगजम् ।
प्रयच्छामि शरीरार्धमविचार्यैव ते द्विज ॥ क्२.८८ ॥
धन्यस्ययात्ययं कायः परोपकृतये क्षतिम् ।
क्षणक्षयी हि देहोऽयं रक्ष्यमाणोऽपि नाक्षयः ॥ क्२.८९ ॥
इत्युक्तवति भूपाले समुत्कम्पितमानसः ।
वज्राहत इवोवाच महामात्यो महामतिः ॥ क्२.९० ॥
अहो नु साहसाभ्यासादायासव्यसनी प्रभुः ।
हितं न गणयत्येव प्रजापुण्यपरिक्षयात् ॥ क्२.९१ ॥
प्रजानां भूतये शक्तः कोऽन्यस्त्वत्सदृशो गुणी ।
यद्भक्तिमुखरो भृत्यः श्रोता कर्ता च भूपतिः ॥ क्२.९२ ॥
न करोति हितं स्वामी गजलीलानिमीलितः ।
गणनीयाः सुभृत्यानामियत्यो भोगसंपदः ॥ क्२.९३ ॥
भान्ति ते सुचिरं कर्णे यैः कृता मधुमञ्जरी ।
कल्याणकर्णिकाकीर्णा वाणी विनयवादिनाम् ॥ क्२.९४ ॥
राक्षसोऽयं पिशाचो च छद्मना ब्राह्मणाकृतिः ।
रक्षारत्नस्य जगतां शरीरैरर्थितां गतह् ॥ क्२.९५ ॥
यदि नाम न मायेयं कृता तेन महीयसी ।
तत्कथं कृत्तदेहस्य क्षणमप्यस्ति जीवितम् ॥ क्२.९६ ॥
अविचार्यैव सुकृतं क्रियते दुर्ग्रहेण यत् ।
तदात्मपीडाओपरुषं परलोकेऽपि निःसुखम् ॥ क्२.९७ ॥
शक्यमेव सदा दद्यादशक्यं दीयते कथम् ।
सर्वस्वदेहदानादिप्रवाद एव शोभनः ॥ क्२.९८ ॥
कर्णामृतमिदं दूराद्यन्महार्थिमणिप्रदः ।
संप्राप्तानां पुनस्तत्र पानमस्यान्यतोऽर्थिनाम् ॥ क्२.९९ ॥
रक्ष्यः सर्वप्रयत्नेन परेषामपि जीवितैः ।
प्रजानां जीवितं राजन्नर्थिचिन्तामणिर्भवान् ॥ क्२.१०० ॥
प्रसीद दयस्वास्मासु देव मा साहसं कृथाः ।
नकाचशकलस्यार्थे क्रियते चात्मविक्रयः ॥ क्२.१०१ ॥
इत्युक्त्वा पादयोः पत्युः पपातामात्यपुंगवः ।
शरीरदानसंकल्पान्नोच्चचाल च भूपतिः ॥ क्२.१०२ ॥
सोऽवदत्प्रणयस्मेरचिकसद्दशनद्युतिः ।
जीवितस्नेहसंमोहतमह्परिहरन्निव ॥ क्२.१०३ ॥
केवलं भक्तिसंयुक्तमुक्तं व्यक्तमिदं त्वया ।
न सहेऽहं महामात्य विप्रस्य प्राणसंशयम् ॥ क्२.१०४ ॥
हारैस्तुषारैः कमलैर्मृणालैरिन्दुचन्दनैः ।
निवर्ततेऽन्तःसंतापो नार्थिवैमुख्यदुःखजः ॥ क्२.१०५ ॥
सर्वथा सर्वदुःखार्तिहरणोद्यतचेतसः ।
न बोधेरन्तरायं मे सुमते कर्तुमर्हसि ॥ क्२.१०६ ॥
जन्मान्तरेऽपि ददतो देहं मे न व्यथाभवत् ।
स्मराम्यतीतवृत्तस्य सम्यक्संबोधिचेतसा ॥ क्२.१०७ ॥
पुरा दृष्ट्वोद्यतां व्याघ्रीं क्षुत्क्षामां पोतभक्षणे ।
तद्रक्षायै मया दत्तं शरीरमविक्षरिणा ॥ क्२.१०८ ॥
शिबिजन्मनि चान्धाय दत्तं नेत्रयुगं मया ।
रक्षितश्च स्वदेहेन कपोतः श्येनकाद्भयात् ॥ क्२.१०९ ॥
चन्द्रप्रभावतारे च रौद्राक्षायार्पितं शिरः ।
सर्वस्वपुत्रदारादि दत्तं चान्येषु जन्मसु ॥ क्२.११० ॥
इत्युक्ते बोधिसत्त्वेनभूभुजामात्यपुंगवः ।
न सजीवो ननिर्जीव इवाभूद्व्यथितेन्द्रियः ॥ क्२.१११ ॥
अलङ्घ्यशासनेनाथ राज्ञा क्रकचधारया ।
नियुक्तौ पलगण्डाख्यौ शरीरच्छेदकर्मणि ॥ क्२.११२ ॥
तौ तीव्रशोकविवशौ शक्रमायाविमोहितौ ।
कथंचिदिव भूभर्तुर्देहच्छेदे समुद्यतौ ॥ क्२.११३ ॥
नृपतेर्निर्विकारस्य क्रूरक्रकचधारया ।
विदार्यमाणे देहार्धे पृथिवी समकम्पत ॥ क्२.११४ ॥
भ्रष्टोल्का रक्तवसना विर्घातच्युततारका ।
द्यौः सशब्दं रुरोदेव कीर्णाश्रुकणसंततिः ॥ क्२.११५ ॥
वैशसालोकनेद्भूततीव्रदुःखासहिष्णुना ।
तूर्णं रजःपटेनेव रविणा पिहितं मुखम् ॥ क्२.११६ ॥
तस्मिन् प्रजाह्प्रजानाथे क्रकचाक्रान्तविग्रहे ।
चक्रन्दुः पूरिताक्रन्दा दिग्वधूमिः प्रतिस्वनैः ॥ क्२.११७ ॥
अक्षुब्धसत्त्वमालोक्य नृपं शक्रो द्विहाकृतिः ।
विस्मयानुशयाक्रान्तचित्तश्चिरमचिन्तयत् ॥ क्२.११८ ॥
अहो महामतेरस्य करुणाकोमलं मनः ।
प्राप्तं परार्थपीडासु वज्रादपि कठोरताम् ॥ क्२.११९ ॥
सागरादपि गम्भीरं मेरोरपि समुन्नतम् ।
त्रिदिवादपि साश्चर्यमहो वृत्तं महात्मनाम् ॥ क्२.१२० ॥
अहि प्राणप्रवासेऽपि सत्त्वं सत्त्वमहोदधेः ।
साधोरिव विपत्पाते महत्त्वं नावहीयते ॥ क्२.१२१ ॥
इति चिन्तयति क्षिप्रं सहस्राक्षे क्षितिप्रभोः ।
नाभेरधःशरीरार्धं निकृत्तमपतत्क्षितौ ॥ क्२.१२२ ॥
स द्विधाभूतदेहोअपि हर्षोत्साहमयोऽभवत् ।
सर्वभूतपरित्राणसत्त्वेन धृतजीवितः ॥ क्२.१२३ ॥
तदाज्ञया शरीरार्धे श्लेष्टे संपूर्णविग्रहः ।
स्वस्थक्षतिः समुत्थाय ब्राःमणस्तमभाषत ॥ क्२.१२४ ॥
अहो विराजसे राजन् पून्जं विरजसस्तव ।
निर्व्याजदेहदानेन विशेषं तु ब्न्हवद्यशः ॥ क्२.१२५ ॥
त्वन्मनोमणिवैमल्यतुल्यं किंचिदकुर्वतः ।
उपमानेन दारिद्य्रमहो मुग्धस्य वेधसः ॥ क्२.१२६ ॥
कृत्तः सुवृत्तः सरलः परार्थे मधुराशयः ।
सहसे दुःसहां पीडामिक्षुकाण्ड इवोन्नतः ॥ क्२.१२७ ॥
इत्युक्त्वा ब्राह्मणाकारः शक्रस्त स्मृतिजन्मभिः ।
संजीवनैषधिजातैः सुधास्यन्दैरपूरयत् ॥ क्२.१२८ ॥
ततः प्रकटिताकारः परितोषात्पुरंदरः ।
सुश्लिष्टनिजदेहार्धं प्रशशंस महीपतिम् ॥ क्२.१२९ ॥
अथाब्मरान्निपतितः सितकुसुमसंचयः ।
तत्कालोल्लासितक्षोणीहर्षहास इवाबभौ ॥ क्२.१३० ॥
अत्रान्तरे मुनिस्तस्मौ प्रियां जायां जयप्रभाम् ।
आदायाभ्येत्य तद्वृत्तं जाताश्चर्यो न्यवेदयत् ॥ क्२.१३१ ॥
पूतया संगतः पत्नया स्वकीर्त्येव विशुद्धया ।
उवाच पृष्टः शक्रेण निकारे निर्विकारितह् ॥ क्२.१३२ ॥
ततः सिंहासने दिव्यए विश्वकर्मविनिर्मिते ।
रत्नवर्षसमाकीर्णे जम्बुद्वीपे स भूपतिः ॥ क्२.१३३ ॥
अभिषिक्तः सुरेन्द्रेण प्रसाद्य दयितासखः ।
दानपुण्यप्रभावोत्थकुशलव्यापितप्रजः ॥ क्२.१३४ ॥
समाप्तसत्त्वसंसारसंतारणकृतव्रतह् ।
सम्यक्संबोधिसंबुद्धमनाः प्रमुदितोऽभवत् ॥ क्२.१३५ ॥
मैत्रं चेतस्तरुणकरुणं सत्त्वसिद्धं विशुद्धमापन्नार्तिप्रशमनफलस्फूईतमात्मप्रदानम् ।
दृष्ट्वा राज्ञह्प्रमुदसलिलक्षालिताक्षो विलक्षः
शक्रः प्रायादमरनगरीं पूरितां तद्यशोभिः ॥ क्२.१३६ ॥
इति स विबुधवृन्दैः सिद्धयक्षोरगेन्द्रैः पुलकरुचिरवर्चैरर्च्यमानप्रभावः ।
अवनिमवनशक्तः कल्पयन्नाककल्पामबह्वविभवशोभामाप्तवान् बोधिसत्त्वः ॥ क्२.१३७ ॥
पूर्वावतारसंवादे दानोत्कर्षमुदाहरन् ।
उपदेशाय भिक्षूणामित्याह भगवान् जिनह् ॥ क्२.१३८ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां श्रीसेनावदानं नाम द्वितीयः पल्लवः ॥


३. मणिचूडावदानम् ।

अस्मिन्नद्भुतसर्गे मकराकरजायमानमणीवर्ते ।
कोऽपि प्रकटितसुगतिः पुरुषमणिर्जायते (भव्यः) ॥ क्३.१ ॥
अस्ति सौभिप्रभापूरकर्पूरपरिपाण्डुरम् ।
साकेतं नाम नगरं सौभाग्यतिलकं भुवः ॥ क्३.२ ॥
सेव्यैः प्रभासत्त्वमयैर्गङ्गाविमलमानसैः ।
तीर्थैरिव स्थितं यत्र पवित्रः पुण्यकर्तृभिः ॥ क्३.३ ॥
यशःकुसुमिते यत्र पुण्यसौरभनिर्भरे ।
रमन्ते सुकृतोद्याने नन्दने पुरवासिनः ॥ क्३.४ ॥
तत्राभूद्भूपतिर्भुरिगुणरत्नमहोदधिः ।
भीतुर्यशःशशाङस्य मेहचूड इति श्रुतः ॥ क्३.५ ॥
सदा सदाश्रयार्हेण कलिकालापहारिणा ।
कृतः कृतयुगेनेव येन धर्मधरो जनः ॥ क्३.६ ॥
महीपतिः क्षमाशक्तः श्रीवृतः करुणारतः ।
वल्लभोऽभूत्प्रजानां यः प्रख्यातो विजितेन्द्रियः ॥ क्३.७ ॥
अमरासवसंपूर्णमहिंसासत्रदीक्षितः ।
ददौ यः सर्वभूतानां पुण्यामभयदक्षिणम् ॥ क्३.८ ॥
निर्मदो यः प्रभावेऽपि विभवेऽपि प्रियंवदः ।
क्षमाशीलः प्रभुत्वेऽपि यौवनेऽपि जितेन्द्रियः ॥ क्३.९ ॥
गम्भीरेणोन्नतिमता शूरेण शशिकान्तिना ।
सत्पक्षेण क्षितिभृता येनातन्यत विस्मयः ॥ क्३.१० ॥
राज्ञस्तस्याद्वितीयस्य बभूवाभरणद्वयम् ।
त्यागपूर्णं च कारुण्यं तारूण्यं सुकृतश्रियः ॥ क्३.११ ॥
पद्माकरस्य तस्याभूद्देवी कान्तिमती प्रिया ।
प्रभातश्रीरिव सदा निर्दोषाभ्युदयोत्सवा ॥ क्३.१२ ॥
नीतिः प्रभुगुणेवेन त्यागेन श्रीरिवोज्ज्वला ।
रराज राजचन्द्रेण सा शीलेनेव चारुता ॥ क्३.१३ ॥
सदानन्दनविख्यातयशःप्रसरया तया ।
मेरूस्त्रिदिवलक्ष्म्येव बभौ भूमिभृतां वरः ॥ क्३.१४ ॥
काले कल्याणनिलयं भर्तुः सा गर्भमादधे ।
भूत्यै भुवनपद्मस्य दिवाकरमिवादितिः ॥ क्३.१५ ॥
अरणिः पावकेनेव वेलेवाब्धेः सुधांशुना ।
ब्रह्माब्जेनेव गोविन्दनाभिर्गर्भेण सा बभौ ॥ क्३.१६ ॥
तस्या गर्भानुभावेन दोहदाभिमतं नृपः ।
ददौ सर्वार्थिसार्थेभ्यो वाञ्छिताभ्यधिकं वसु ॥ क्३.१७ ॥
पुनर्भूमिभुजा पृष्टा दोहदं शुभगर्भिणी ।
सरस्वतीव सा चक्रे स्वयं सद्धर्मदेशनाम् ॥ क्३.१८ ॥
पूर्णपुण्यमणिर्धर्मनिधिर्विधिसमुद्धृतः ।
वुपद्विपुलदुःखेभ्यः सदा रक्षति रक्षितः ॥ क्३.१९ ॥
कान्तारदुर्गेषु परिच्युतानां तापातुराणां परलोकमार्गे ।
स्निग्धः प्रवृद्धः फलपूरिताशः छायातरुर्धर्मसमोऽस्ति नान्यः ॥ क्३.२० ॥
आलोकस्तिमिरे विपद्विषमणिः पाते करालम्बनं
याच्ञाकल्पतरुर्जगज्जयरथः पाथेयमन्थे पथि ।
दुःखव्याधिमहौषधं भवभयोद्भान्ताशयाश्वासनं
तापे चन्दनकाननं स्थिरसुहृद्धर्मः सतां बान्धवः ॥ क्३.२१ ॥
इत्यादि धर्मधवलं श्रुत्वा नृपवधूवचः ।
धर्मैकशरणः श्रीमान् बभूव भुवने जनः ॥ क्३.२२ ॥
ततः कालेन संपूर्णं द्यौरिवामृतदीधितिम् ।
असूत दारकं देवी जगत्तिमिरदारकम् ॥ क्३.२३ ॥
अजायतास्य सहजश्चूडालंकरणं मणिः ।
प्राग्जन्मान्तरसंसक्तो विवेक इव निर्मलः ॥ क्३.२४ ॥
स बभौ सुभगस्तस्य मूर्ध्नि पुण्यमयो मणिः ।
यस्य प्रभाप्रभावेण यामिन्यो दिनतां ययुः ॥ क्३.२५ ॥
सोष्णीषस्य मणेस्तस्य पीयूषस्यन्दिबिन्दिवः ।
नयन्ति हेमतां लोहं दुरितं शमयन्ति च ॥ क्३.२६ ॥
शिशोर्जातिस्मरस्याथ वचसा तस्य भूपतिः ।
ददौ हेम सदार्थिभ्यः सर्वं मणिरसोद्भवम् ॥ क्३.२७ ॥
पुष्परत्नध्वजच्छत्रपताकाव्यजनांशुकैः ।
अपूरयन् पुरं व्योन्मस्तस्य जन्मनि देवताः ॥ क्३.२८ ॥
सुप्रकाशोदिताशेषविद्याविद्योतितात्मनः ।
मणिचूड इति ख्यातं नाम तस्याकरोन्नृपः ॥ क्३.२९ ॥
स चकाराशयं हर्षपीयूषोच्छलितं पितुः ।
अभिजातः सुतो जातः पारिजात इवोदधेः ॥ क्३.३० ॥
पौलोमीव जयन्तेण जननी पूज्यजन्मना ।
बभौ तेन कुमारेण कुमारेणेव पार्वती ॥ क्३.३१ ॥
ततः कालेन सुकृतसोपानैः पृथिवीपतौ ।
दिव्यधामसमारूढे मणिचूडोऽभवन्नृपः ॥ क्३.३२ ॥
अर्थिचिन्तामणेस्तस्य दानेन परिपूरिते ।
लोके पुण्यसुखालोके नार्तोऽभून्न च याचकः ॥ क्३.३३ ॥
तस्य भद्रगिरिर्नाम बभूवं गजपुंगवः ।
प्रभोरिवानुकारेण दानार्द्रकरपुष्करः ॥ क्३.३४ ॥
तं कदाचिन्महास्थानस्थितं भुवननायकम् ।
भवभूतिः समभ्यायाद्भृगुवंशभवो मुनिः ॥ क्३.३५ ॥
दिव्यकान्यां समादाय लावण्यललिताननाम् ।
मूर्तामिव प्रभालक्ष्मीमक्षीणस्य क्षपापतेः ॥ क्३.३६ ॥
कुचयोरविवेकेन रागेण चरणाब्जयोः ।
नेत्रयोश्चापलेनेव सा जगत्यतिलज्जिता ॥ क्३.३७ ॥
तपःश्रियेव सहितं तं कन्यानुगतं मुनिम् ।
अओऊजयत्प्रजानाथः कृतासनपरिग्रहम् ॥ क्३.३८ ॥
कन्यापि नृपमालोक्य धीरं गम्भीरसुन्दरम् ।
परपीडासु कारुण्यान्न्यस्तचापमिव स्मरम् ॥ क्३.३९ ॥
चूडारत्नस्य कीरणैर्दुरितक्षयकारिभिः ।
लिखन्तं कुङ्कुमेनेव दिक्षु रक्षाक्षरावलिम् ॥ क्३.४० ॥
विक्षेपक्षिप्तमरुता चामरेण विराजितम् ।
सोच्छासेनेव सत्त्वेन जगत्संतारणं विना ॥ क्३.४१ ॥
रत्नोदारेण हारेण हृदयग्रहकारिणा ।
पातालविपदां शान्त्यै शैषेणेव निषेवितम् ॥ क्३.४२ ॥
वहन्तं महता दोष्णा क्षमां चित्तेन च क्षमाम् ।
प्रययौ साभिलाषस्य विस्मयस्य विधेयताम् ॥ क्३.४३ ॥
गृहीत्वा मुनिरुत्सङ्गे कुरङ्गतरलेक्षणाम् ।
जीवनीं तामनङ्गस्य जगाद्जगतीपतिम् ॥ क्३.४४ ॥
उदितेन जगन्नेत्रशतपत्रविकाशिना ।
भवता भाति लोकोऽयं देवेन च विवस्वता ॥ क्३.४५ ॥
अहो नु तव नास्त्येव विभूतिसुलभोद्भवः ।
साधोरिव गुणद्वेषः संमोहोपचितो मदः ॥ क्३.४६ ॥
लोकनाथस्य ते लोककारुण्यपूर्णचेतसः ।
राजन्मैत्रीजुषा कीर्तिः स्थिरा पारमिता परम् ॥ क्३.४७ ॥
अखेदसरलो दाता निर्व्याजसुकृतो भवान् ।
अत एव विशेषेण माननीयो मनीषिणाम् ॥ क्३.४८ ॥
पद्मोदरसमुद्भूता कन्या कमललोचना ।
होमावशेषपयसा वर्धितेयं मयाश्रमे ॥ क्३.४९ ॥
गृह्यतामग्रमहिषी पत्नीत्वे भवता नृप ।
विष्णोः श्रीरिव योग्येयं तवैव पुरुषोत्तम ॥ क्३.५० ॥
यज्ञपुण्यफलं पूर्णं कालेन मम दास्यसि ।
इत्युक्त्वा विधिना राज्ञे कन्यां दत्वा ययौ मुनिः ॥ क्३.५१ ॥
प्रियां पद्मावतीं राजा रतिं प्राप्येव मन्मथः ।
अरंस्त रुचिरोद्याने सुकृते पुण्यवानिव ॥ क्३.५२ ॥
ततः कालेन सा पुत्रं वंशवल्लिव मौक्तिकम् ।
असूत पद्मचूडाख्यं गुणानां दर्पणं पितुः ॥ क्३.५३ ॥
शक्रादिभिर्लोकपालैरनुल्लङ्घ्यमहोदयः ।
संस्तूयमानचरितः स्वयं कमलजन्मना ॥ क्३.५४ ॥
यशःसौरभसंभारसंपूरितदिगन्तरः ।
सर्वार्थिसार्थकल्याणकलनाकल्पपादपः ॥ क्३.५५ ॥
स्मृत्वा मुनेर्वचः काले कर्तुं विपुलदक्षिणाम् ।
अहिंसावसुसंपूर्णामाजहार महीपतिः ॥ क्३.५६ ॥
तस्मिन् यज्ञे समाजग्मुः सर्वकामैरनर्गले ।
मुनयो भार्गवमुखा नृपा दुष्प्रसहादयः ॥ क्३.५७ ॥
वर्तमाने मखे तस्मिन्निःसंख्यवसुवर्षिणि ।
रक्षोरूपः समुत्तस्थौ वह्निमध्यात्सुरेश्वरः ॥ क्३.५८ ॥
उपसृत्य स भूपालं कृशो विकृतविग्रहः ।
क्षुप्तिपासार्दितोऽस्मीति ययाचे पानभोजनम् ॥ क्३.५९ ॥
शासनादथ भूभर्तुस्तस्मै विविधभोजनम् ।
उपनिन्युः परिचिताः पानं च परिचारकाः ॥ क्३.६० ॥
ततः किंचिद्विहस्यैव क्षितिपं प्राह राक्षसः ।
नेदमस्मत्प्रियं राजन् वयं हि पिशिताशनाः ॥ क्३.६१ ॥
सद्योहतस्य मांसेन रुधिरेण च भूयसा ।
तृप्तिरुत्पद्यतेऽस्माकं दीयतां यदभीप्सितम् ॥ क्३.६२ ॥
सर्वकामप्रदोऽसीति त्वमहं समुपागतः ।
ददामीति प्रतिश्रुत्य न निषेधस्तवोचितः ॥ क्३.६३ ॥
इति रक्षवचः श्रुत्वा करुणकुलितो नृपः ।
अहिंसानियमेनाभूदर्थिवैमुख्यदुःखितः ॥ क्३.६४ ॥
सोऽचिन्तयत्तदा दैवाज्जातोऽयं धर्मसंशयः ।
न सहे दुःसहां हिंसां नं नैष्फल्यमर्थिनः ॥ क्३.६५ ॥
न च मांसं शरीरेभ्यो लभ्यते वैशसं विना ।
नाहं पिपीलकस्यापि कायक्लेशलवं सहे ॥ क्३.६६ ॥
दत्वाहं सर्वभूतेभ्यः पुण्यामभयदक्षिणम् ।
कथमस्मै प्रयच्छामि मांसं प्राणिवधोद्भवम् ॥ क्३.६७ ॥
इति संचित्य नॄपतिस्तमूचे करुणाकुलः ।
स्वशरीरसमुत्कृत्तमसृङ्भांसं ददामि ते ॥ क्३.६८ ॥
इत्युक्ते भूमिपतिना बभूवाकुलितं जगत् ।
न च देहव्ययोत्साहं सचिवास्तसय सेहिरे ॥ क्३.६९ ॥
प्रणयाद्वार्यमाणोऽपि भूपालैर्मुनिभिस्तथा ।
ददौ स्वदेहमुत्कृत्य तस्मै मांसमसृग्वसाम् ॥ क्३.७० ॥
आकण्ठं पीतरक्तेन राक्षसेन क्षितिप्रभोः ।
भक्ष्यमाणेषु मांसेषु क्ष्ःणं ख्षितिरकम्पतः ॥ क्३.७१ ॥
ततः पद्मावती देवी पतिं दृष्ट्वा तथागतम् ।
विलपन्ती निपतिता मोहमूर्च्छाकुलाभवत् ॥ क्३.७२ ॥
मनुजेन्द्रस्य देवेन्द्रस्तद्दृष्ट्वा सत्त्वमूर्जितम् ।
रक्षोरूपं परित्यज्य तमुवाच कृताञ्जलिः ॥ क्३.७३ ॥
अहो नु कर्मणा राजन् दुष्करेण तवामुना ।
रोमाञ्चकञ्चुकाकीर्णः कायः कस्य न जायते ॥ क्३.७४ ॥
अहो पुण्यमसामान्यमहो सत्त्वमनुत्तरम् ।
अहो धरियममर्यादं राजान् विरजसस्तव ॥ क्३.७५ ॥
दुःखिताः परदुःखेषु निर्लोभा दुर्लभेषु च ।
विपक्षेषु क्षमावन्तः सन्तः सुकृतसेतवः ॥ क्३.७६ ॥
समुन्मिषति कोऽप्येष सत्त्वोत्साहो महात्मनाम् ।
त्रैलोक्यं करुणार्द्राणां येन यात्यनुकम्प्यताम् ॥ क्३.७७ ॥
उक्त्वेति दिव्यौषधिभिस्तं कृत्वा स्वस्थविग्रहम् ।
प्रसाद्य लज्जावनतः शक्रः स्वनिलयं ययौ ॥ क्३.७८ ॥
ततः समाप्ते विधिवद्यज्ञे राज्ञां महीपतिः ।
चक्रे मुनिवराणां च पूजां त्रिदशपूजितः ॥ क्३.७९ ॥
स रत्नवर्षैर्यज्ञान्ते कन्याग्रामपुरप्रदः ।
सहितं त्रिदशार्हेण हरिणा हेममालिना ॥ क्३.८० ॥
ददरु राजगजं ब्रह्मरथाख्याय पुरोधसे ।
योजनानां शतं तूर्णमेकेनाह्ना प्रयाति यः ॥ क्३.८१ ॥
तस्मै समर्पितं दृष्ट्वा राज्ञा ब्न्हद्रगिरिं गजम् ।
अभूद्दुष्प्रसहो राजा तत्स्पृहाकृष्टमानसः ॥ क्३.८२ ॥
प्रयातेष्वथ भूपेषु विस्मितेषु मखश्रिया ।
समर्पिते यज्ञफले भार्गवाय महीभुजा ॥ क्३.८३ ॥
तमुवाच समभ्येत्य स्वस्तिवादपुरःसरम् ।
मरीचिशिष्यो वाहीकः प्राप्तपूजासनो मुनोः ॥ क्३.८४ ॥
राजन्नध्ययनस्यान्ते गुरुर्मे गुरुदक्षिणाम् ।
ईहते परिचर्यार्थी सामान्यजनदुर्लभाम् ॥ क्३.८५ ॥
एकस्त्वमेव विधिना निर्मितो दुर्लभप्रदः ।
बहवो जातु जायन्ते न लोके कल्पपादपाः ॥ क्३.८६ ॥
देवी पद्मावती पुत्रसहिता गुरवे मम ।
तपःकृशाय वृद्धाय दीयतां परिचारिका ॥ क्३.८७ ॥
इत्युक्ते मुनिना राजा दयिताविप्रयोगजाम् ।
रुजं संस्तभ्य मनस तमूचे धैर्यभूधरः ॥ क्३.८८ ॥
प्रयच्छामि मुने तुभ्यमीप्सीतां गुरुदक्षिणाम् ।
सहितां युवजारेन जीविताभ्यधिकां प्रियाम् ॥ क्३.८९ ॥
इत्युक्त्वा ससुतां तस्मै ददौ पद्मावतीं नृपः ।
स्वजीविते विनिस्नेहस्त्यागः सत्त्वमयात्मनाम् ॥ क्३.९० ॥
आदाय राजदयितां विरहक्लेशकातराम् ।
सपुत्रामाश्रमं गत्वा प्रददौ गुरवे मुनिः ॥ क्३.९१ ॥
अत्रान्तरे दुष्प्रसहः कुरुराजः क्षितीश्वरम् ।
दृप्तो ययाचे दूतेन भूत्यै भद्रगिरिं गजम् ॥ क्३.९२ ॥
पुरोहितार्पितं राजा न ददौ द्विरदं यदा ।
तदा विपुलसौन्येन स्वयं योद्धुं समाययौ ॥ क्३.९३ ॥
बलिना कुरुराजेन रुद्धेषु पुरवत्मसु ।
बभूव भूमिपालस्य सैन्यं रणरसोद्भटम् ॥ क्३.९४ ॥
स वीरकुञ्जरहरिः शक्तोऽप्यरिविदारणे ।
जनक्षयभयोद्विग्नः कारुण्यात्समचिन्तयत् ॥ क्३.९५ ॥
अहोऽनुकूलमित्रं मे राजा दुष्प्रसहः परम् ।
मातङ्गलोभमोहेन सहसा शत्रुतां गतः ॥ क्३.९६ ॥
स्नेहान्ताः सुजनैः स्नेहा निःस्नेहान्ताश्च मध्यमैः ।
दुर्जनैर्घोरवैरान्ता भवन्ति प्राणहारिणः ॥ क्३.९७ ॥
अहो बिभवलिभेन क्षणक्षयिणि जीविते ।
समुद्यमोऽयमस्माकं परप्राणनिपातने ॥ क्३.९८ ॥
हिंसयापप्रशान्तानां सक्तानां कलिकर्मसु ।
रणरक्ताभिषिक्तानां भक्तार्थोऽयं समुद्यमः ॥ क्३.९९ ॥
सेवाविक्रीतजीवानां चण्डपिण्डार्थिनामयम् ।
कलहो दुःसहः क्रुर्यपिशुनानां शुनामिव ॥ क्३.१०० ॥
अहो विभवलुब्धानां परसंतापशीतलाः ।
स्वसुखायैव धावन्ति नृशंसचरिता धियः ॥ क्३.१०१ ॥
ये युधि सिद्धिसंनद्धा रक्तान्तां भुञ्जते श्रियम् ।
कुतः क्रुरतरे तेषां हृदये करुणाकणः ॥ क्३.१०२ ॥
एष दुष्प्रहसो राजा लुब्धो विबह्वमोहितः ।
न वध्यः सापराधोऽपि कारुण्यायतनं मम ॥ क्३.१०३ ॥
इति चिन्तयतस्तस्य कारुण्यात काननैषिणः ।
प्रत्येकबुद्धाश्चत्वारः स्वयं व्योम्ना समाययुः ॥ क्३.१०४ ॥
प्रातपूजासनाः श्रुत्वा सर्वज्ञास्तत्समीहितम् ।
राज्ञः प्रशमशीलस्य प्रसन्नास्तत्त्वमूचिरे ॥ क्३.१०५ ॥
संमोहपटलान्धेषु संसारिषु दयालुता ।
शोभते तव भूपाल सत्त्वलोकविवेकिनः ॥ क्३.१०६ ॥
क्रियतामीप्सितं राजन् बोधौ बुद्धिर्निधीयताम् ।
संप्रति प्रतिरोधेऽस्मिन् वनमेव विगाह्यताम् ॥ क्३.१०७ ॥
स्वैरनिर्ज्नरज्नङ्कारकीर्णसंतोषशीकराः ।
विविक्तकाननोद्देशाः शमिनामेव वल्लभाः ॥ क्३.१०८ ॥
इत्युक्त्वानुग्रहधिया विधायास्य वियद्गतिम् ।
प्रभाप्रसाधितदिशस्ते तेन सहिता ययुः ॥ क्३.१०९ ॥
यातेषु स्वपदं तेषु हिमवत्तटकाननम् ।
संप्राप्य पृथिवीपालः प्रयतप्रशमोऽभवत् ॥ क्३.११० ॥
विवेकविमलास्तस्य धियः सत्त्ववतामिव ।
बभुः प्रियनिवुः पूर्णनिर्वाण्यो (?)वनभूमयः ॥ क्३.१११ ॥
भूधरान्तरिते तस्मिन् सहसा भूपभास्वति ।
शुशुचुर्मोहतिमिरप्राप्तशोकप्रजाः प्रजाः ॥ क्३.११२ ॥
ततस्तत्सचिवा जग्मुर्मरीचं मुनिमाश्रमे ।
शक्तं राज्यस्य रक्षायै राजपुत्रैं ययाचिरे ॥ क्३.११३ ॥
मुनिना निर्विकारेण दत्तमादाय मन्त्रिणः ।
राजसूनुं स्वनगरे चक्रुः सैन्यसमुद्यमम् ॥ क्३.११४ ॥
मुनिना निर्विकारेक दत्तमादाय मन्त्रिणः ।
सुभटाग्रेसरह्प्राप कुरुराजं रणाजिरे ॥ क्३.११५ ॥
स तेन हतविध्वस्तभग्नस्यन्द्नकुञ्जरह् ।
पलायनपरित्राणः प्रययौः हस्तिनापुरम् ॥ क्३.११६ ॥
बलिना राजपुत्रेण जिते दुष्प्रसहे युधि ।
मन्त्रिभिस्तद्भुजन्यस्ता भूमिः शेषधृतिं ययौ ॥ क्३.११७ ॥
राज्ञो दुष्प्रसहस्याथ कालेन कलुषात्मनह् ।
बभूवावृष्टिदुर्भिक्षमरकोपल्पवः पुरे ॥ क्३.११८ ॥
स विचिन्त्यानुतापार्तस्तीब्रां जनपदापदम् ।
न विवेद परित्राणं विफलस्वस्तिकक्रियः ॥ क्३.११९ ॥
पृष्ठा विपत्प्रतीकारं तेनामात्यास्तमूचिरे ।
दुःसहोऽयं महाराज प्रजानां व्यसनोद्भवः ॥ क्३.१२० ॥
मणिचूडस्य भूभर्तुर्यदि चूडामणिः प्रभो ।
लभ्यते स सुधास्यन्दी तेनेयं तीर्यते विपत् ॥ क्३.१२१ ॥
चारेभ्यः श्रुतमस्माभिः स राजा हिमवत्तटे ।
स्थितः संसारवैमुख्यविवेकविमलाशयः ॥ क्३.१२२ ॥
अर्थितः स ददात्येव विश्वचिन्तामणिर्मणिम् ।
पुत्रदारशरीरादि नादेयं तस्य किंचन ॥ क्३.१२३ ॥
इति मन्त्रिवचः श्रुत्वा तथेत्याधार्य चेतसि ।
स द्विजान्मणियाच्ञायौ विससर्ज तदन्तिकम् ॥ क्३.१२४ ॥
अस्मिन्नवसरे राजा मणिचूषश्चरन् वने ।
मरीचेराश्रमोपान्तमवाप विपुलं मुनेः ॥ क्३.१२५ ॥
देवी पद्मावती तत्र फलमूलधृतव्रता ।
व्रजन्ती विजने भीता विपुने मुनिशासनात् ॥ क्३.१२६ ॥
शबरैर्मृगयायातैर्दृष्ट्वा कष्टदशां श्रिता ।
जुघृक्षुभिः कम्पमानाचुक्रोश करुणस्वरम् ॥ क्३.१२७ ॥
आकर्ण्य करुणाक्रन्दे कुररूईकूजितोपमम् ।
हा राजन्मणिचूडेति त्रायस्वेति सुदुःसहम् ॥ क्३.१२८ ॥
सहसाभिद्रुतः कान्तां ददर्श नृपतिर्निजाम् ।
राहुसंत्रासितस्येन्दोर्द्युतिं निपतितामिव ॥ क्३.१२९ ॥
वीतरागाङ्गवसनां निरञ्जनपरिग्रहाम् ।
वदन्तीमिव संभोगसंयोगानामनित्यताम् ॥ क्३.१३० ॥
तां राजहंससुगतां विहारस्तनमण्डलाम् ।
अश्रुकाषायनयनां विलोक्य करुणावनीम् ॥ क्३.१३१ ॥
संसारचरिताश्चर्यविचारेष्वपि कर्कशम् ।
कृपाकृपाणीनिर्लूनमिवासीर्भूपतेर्मनः ॥ क्३.१३२ ॥
एकाकीनं वने देवी विगतच्छत्रचामरम् ।
दृष्ट्वा नाथमनाथैव लोकनाथं तथागतम् ॥ क्३.१३३ ॥
तद्वियोगविषाक्रान्ता तद्दर्शनरसाकुला ।
शोकहर्षसमाकीर्णा बभूव भृशविह्वला ॥ क्३.१३४ ॥
सा नीता शबरा राज्ञा शापभीताः प्रदुर्द्रुवुः ।
न नामाभ्युदये भानोर्दृष्टं सप्रतिभं तमह् ॥ क्३.१३५ ॥
अत्रान्तरे शमद्वेषी सर्वभूताशयाशयः ।
मारः पुरुषरूपेण समेत्य नॄपमब्रवीत् ॥ क्३.१३६ ॥
राजन् राजीवनयनां प्रियां प्रणयिणीमिमाम् ।
न त्यक्रुमर्हस्यजने वने वनजलोचन ॥ क्३.१३७ ॥
इयं हि ते मनोवृत्तिरिव निःसुखतां गता ।
वर्जिता राज्यभोगेन राजराज न राजते ॥ क्३.१३८ ॥
एतदार्कर्ण्य नृपतिस्तं विज्ञाय मनोभवम् ।
अन्तरायं विवेकस्य प्रत्यभाषत सस्मितः ॥ क्३.१३९ ॥
जानामि त्वामहं काममकामं शमसंयमे ।
संतोषवतां को नाम भवता न विमोहितः ॥ क्३.१४० ॥
इतिवादिनि भूपाले सहसान्तरिते स्मरे ।
बभूव विक्लवा देवी तप्ता विरहवह्निना ॥ क्३.१४१ ॥
दुःखितां तामार्तदुःखां पतिभोगवियोगिनीम् ।
उवाचाश्वासयन् राजा जायां जितमनोभवः ॥ क्३.१४२ ॥
देवि धर्मक्रियायुक्ता न शोकं कर्तुमर्हसि ।
दुःखावसानी विरसः सर्वोऽयं भोगचिभ्रमः ॥ क्३.१४३ ॥
देहिनां यदितासङ्गास्तरङ्गतरलायुषाम् ।
लोलपद्मपलाशाग्रस्खलज्जललवाकुलाः ॥ क्३.१४४ ॥
इमा मुहूर्तनर्तक्यः कालमेघतडिल्लताः ।
संसारसर्परसना विलासचपलाः श्रियाः ॥ क्३.१४५ ॥
भोगक्षणेनैव वियोगरोगो विभूतयः स्वप्नविवाहतुल्याः ।
वाताहता दीपशिखा सुखश्रीरुन्मत्तनॄत्यं भववृत्तमेतत् ॥ क्३.१४६ ॥
सर्वोपजीव्या करुणा न लक्ष्मीः धर्मः प्रकाशः सततं न दीपाः ।
यशांसि रम्याणि न यौवनानि स्थिराणि पुण्यानि न जीवितानि ॥ क्३.१४७ ॥
सत्यव्रतस्तामिति सान्त्वयित्वा विसृज्य जायां निलये महर्षेः ।
चचार संसारपराङ्भुखानां संतोषपुण्येषु तपोवनेषु ॥ क्३.१४८ ॥
तदागतास्ते त्वरया विसृष्टाः पञ्च द्विजा दुष्प्रसहेन राज्ञा ।
तमर्थिनामकमकालबन्धुं विशुद्धसत्त्वं ददृशुर्वनान्ते ॥ क्३.१४९ ॥
ते स्वस्तिवादं शनकौर्विधाय विशस्तधैर्या इव साध्वसेन ।
तमूचिरे सूचिततीव्रतपाः दीर्घोष्णनिश्वाससमीरणेन ॥ क्३.१५० ॥
राजन् पुरे दुष्प्रसहस्य राज्ञः क्रूरोपसर्गौर्हतशान्तवर्गः ।
जनः कृतः कृत्तसमस्तकामः प्रकाममार्तस्वनमात्रशेषः ॥ क्३.१५१ ॥
अशोषदोषप्रशमैकहेतुः त्रैलोक्यरक्षाप्रथितप्रभावः ।
चूडामणिर्देव भवद्वितीर्णः करोति तस्योपनिपातशान्तिम् ॥ क्३.१५२ ॥
दयायुषश्चन्दनपल्लवार्द्राः स्वच्छाशयाश्चन्द्रमणिप्रकाशाः ।
संतापकाले शरणं जनानां भवद्विधा एव भवे भवन्ति ॥ क्३.१५३ ॥
इत्यर्थितस्तैरविलुप्तसत्त्वः संपूर्यमाणः करुणारसेन ।
उवाच संचिन्त्य जनोपतातं संक्रान्तमन्तः श्रुतिवर्त्मनेव ॥ क्३.१५४ ॥
अहो स राजा सहते कथं नु देवोपघातेन निपीडितानाम् ।
विदारितान्तःकरणं प्रजानां वियोगःदुःखोद्भवमार्तनादम् ॥ क्३.१५५ ॥
अयं मणिर्मस्तकमूलजन्मा निष्कृत्त्य तूर्णं प्रतिगृहृतां मे ।
धन्योऽस्मि यद्यर्थिजनस्य दुःखक्षये क्षणं कारणतां व्रजामि ॥ क्३.१५६ ॥
इत्युक्तमात्रे वसुधाधिपेन धराधराम्भोधिमहीधरित्री ।
चिरं चकम्पे चकितेव तस्य शिरस्तटोत्पाटनतीव्रदुःखात् ॥ क्३.१५७ ॥
ततः कृपाकोमलचित्तवृत्तेः सुतीक्ष्णशस्त्रैर्वचसा नृपस्य ।
सुतीक्ष्णशस्त्रादपि तीक्ष्णचित्तः स्वयं शिरः पाटयितुं प्रवृत्तः ॥ क्३.१५८ ॥
तद्दुष्करं कर्म नरेश्वरस्य व्योम्नि विमानैर्नलिनासनाद्याः ।
सुराः सविद्याधरसिद्धसाख्याः समाययुद्रष्टुमलुप्तसत्त्वम् ॥ क्३.१५९ ॥
विपाट्यमाने शिरसि प्रसह्य रत्नप्रभाविभ्रममादधानैः ।
स रक्तपूरैरभिक्षिक्तकायः सेहे व्यथामर्थिसुखे प्रवृत्तः ॥ क्३.१६० ॥
विल्प्क्य तं सत्त्व निबद्धधैर्यं तीव्रव्यथावेगनिमीलिताक्षम् ।
ययुर्विरामं न नृशंसवृत्तेर्विप्राः क्षणं राक्षसतामवाप्ताः ॥ क्३.१६१ ॥
विचार्य राजा श्वशरीरदुःखं संसारिणां क्लेशमयं शरीरम् ।
एवंविधैर्दुःखसहस्रलक्षैराक्रान्तमित्यार्ततरो बभूव ॥ क्३.१६२ ॥
सोऽचिन्तयद्देहनिबद्धरत्नदानेन यत्पुण्य्फलं मयाप्तम् ।
तेनोग्रदुःखं कलयामि मा भूदपुण्यपाके नरके नराणम् ॥ क्३.१६३ ॥
समुद्धृते रक्रवसवसिक्ते तस्मिन्मणौ निश्चलतालुमूलात् ।
मूर्च्छाकुलोऽपि प्रययौ सहर्षं संपूरणेनार्थिमनोरथस्य ॥ क्३.१६४ ॥
स कम्पमानाङ्गुलिपल्लवेन दत्वा स्वहस्तेन मणिं द्विजेभ्यः ।
निमीलयन् सम्तमसेन लोकं पपात तिग्मांशुरिवातिरक्तः ॥ क्३.१६५ ॥
अलुप्तसत्त्वे पतिते पृथिव्यां तस्मिन् सुराणां सह पुष्पवर्षैः ।
मणिं समादाय ययुर्द्विजास्ते तूर्णं पुरं दुष्प्रसहस्य राज्ञः ॥ क्३.१६६ ॥
स तेनसद्यः शमितोपसर्गः स्वर्गोचितासादितभोगवर्गः ।
तद्बोधिसत्त्वस्य समस्तसत्त्वसंतारणार्हं प्रशशंस सत्त्वम् ॥ क्३.१६७ ॥
अत्रान्तरे किंचिदवाप्तसंज्ञं नरेश्वरं विश्रुतरत्नदानम् ।
समाययुर्भार्गवगौतमाद्या मरीचिमुख्या मुनयो वनेभ्यः ॥ क्३.१६८ ॥
मरीचिमेवानुगता च देवी पद्मावती वीक्ष्य परिक्षतं तम् ।
संमोहवेगाभिहता पपात क्षणं क्षितौ बाललतेव लूना ॥ क्३.१६९ ॥
दिगन्तसंचारिणी चारणानां नभश्चराणां नृपसाधुवादे ।
सराजपुत्राः सह मन्त्रिमुख्यैः प्रजाः प्रजानाथमथोपजग्मुः ॥ क्३.१७० ॥
वीक्ष्यः क्षितीशं क्षतजोक्षिताङ्गमक्षीणसत्त्वं पतितं पृथिव्याम् ।
पृथव्यथाक्लेशजुषं जनानामभूदभूतार्थविकल्पजल्पः ॥ क्३.१७१ ॥
कुठारिकैः कैश्चिदहो दयार्द्रः सर्वार्थिसेव्यः सरलः सुवृत्तः ।
दुरात्मभिः स्वार्थलवाभियुक्तैः छायातरुः कष्टमयः निकृत्तः ॥ क्३.१७२ ॥
अहो परार्थोज्झितजीवितोऽयं परां चमत्कारदशां प्रयातः ।
ससौरभच्छिन्नतनुर्गतात्मा भवत्युदारः सहकार एव ॥ क्३.१७३ ॥
लुब्धस्य न स्वः स्वजनोऽपि जन्तोः न कामकामस्य धनेऽनुरोधः ।
सर्वात्मना सत्त्वहितोद्यतस्य देहोऽपि न स्नेहपदं दयालोः ॥ क्३.१७४ ॥
येषां कृते दैन्यमयं प्रयाति सर्वात्मना चार्थिजनोऽर्थिभावम् ।
त एव दीनोद्धरणव्रतानां प्राणाः परित्राणपणे तृणानि ॥ क्३.१७५ ॥
इति प्रवादे विविधानुभावे विजृम्भमाणे मुनिमण्डलस्य ।
भूपालमभ्येत्य सबाष्पचक्षुर्मुनिर्मरीचिः प्रणयादुवाच ॥ क्३.१७६ ॥
अहो नु निष्कारणबन्धुभावमालम्ब्य राजन् दयया जनस्य ।
प्रजापरित्राणविधानभूमिस्तनुस्तवेयं तृणवद्वितीर्णा ॥ क्३.१७७ ॥
क्षयः प्रवृत्तो निरपेक्षवृत्तेस्तवार्थिबन्धोर्निजजीवितेऽपि ।
यदेष कामं कमलानिकायः कायस्त्वयापायपदे नियुक्तः ॥ क्३.१७८ ॥
अप्यस्ति राजन् सुकृतव्रतेऽस्मिन् फलस्पृहा प्राणपणेऽपि काचित् ।
अस्थार्थिहेतोस्तव पालुभेदखेदाद्विकारं भजते न चेतः ॥ क्३.१७९ ॥
इत्यद्भुताविष्कृतमानसेन मुनीन्द्रमध्ये मुनिना स पृष्टः ।
उवाच संस्तभ्य रुजं प्रयत्नाद्रक्ताभिषिक्तं वदनं प्रमृज्य ॥ क्३.१८० ॥
फलस्पृहा नास्ति मुने ममान्या किं त्वेक एव प्रचुरोऽभिलाषः ।
यद्धोरसंसारनिमग्नजन्तुसंतारणायैव भवे भवेयम् ॥ क्३.१८१ ॥
अर्थिप्रिये देहविदारणेऽस्मिन्नैवास्ति मे कोऽपि विकारलेशः ।
यद्येष सत्यः समयो मयोक्तस्तदस्तु मे स्वस्थमिदं शरीरम् ॥ क्३.१८२ ॥
इत्युक्तमात्रे सहजानुभावे सत्त्वोचिते स त्यधनेन राज्ञा ।
अभूद्वपुः सत्यबलेन तस्य रूढव्रणं तत्क्षणजातरत्नम् ॥ क्३.१८३ ॥
ततः सुरैः शक्रविरिञ्चिमुख्यैर्नातप्रहर्षैर्मुनिभिश्च सर्वैः ।
अभ्यर्थितोऽपि क्षितिपालनाय भोगाभिलाषी न बभूव भूपः ॥ क्३.१८४ ॥
अवाप्तसंज्ञा मुनिना प्रयुक्ता पद्मावती राजसुतेन सार्धम् ।
पतिं ययावे विरहोपशान्त्यै सिंहासनाक्रान्तिसुखं प्रजानाम् ॥ क्३.१८५ ॥
ततस्तमभ्येत्य कृपाकुलास्ते प्रत्येकबुद्धा जगतो हिताय ।
देहप्रभापूरितदिग्विभागा बभाषिरे हर्षमिवोद्गिरन्तः ॥ क्३.१८६ ॥
चिरादवाप्ते विरहावसाने पुनः परित्यागदशामसह्याम् ।
न राजपुत्रः सहते न देवी दुःखानुबन्धो ह्यसमृन्निपातः ॥ क्३.१८७ ॥
स्वमर्थिने यः रददाति देहमापन्नदुःखप्रशमैकहेतुः ।
कथं स कुर्यात्स्वजनेऽप्युपेक्षां धर्मोऽप्ययं यस्य परार्थ एव ॥ क्३.१८८ ॥
इत्युक्तमाकर्ण्य नरेश्वरस्तैस्तथेति निश्चित्य धिया कथंचित् ।
व्योम्ना विमानैः स्वपुरीमवाप्य भेजे निजं राज्यपदं सपुत्रः ॥ क्३.१८९ ॥
इति स विपुलसत्त्वः सत्यवान् बोधिसत्त्वः सुचिरविहितराज्यः सौगतं धाम भेजे ।
जिनपुरमणिचैत्यच्छत्ररत्नप्रदीपप्रकटितविविधश्रीर्लक्षणाभ्यस्तबोधिः ॥ क्३.१९० ॥
इत्याह भगवान् बुद्धः स्ववॄत्तान्तनिदर्शने ।
दानोपदेशे भिक्षूणां सम्यक्संबोधिसिद्धये ॥ क्३.१९१ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मणिचूडावदानं नाम तृतीयः पल्लवः ॥


४. मान्धात्रवदानम् ।

शोभन्ते भुवनेषु भव्यमनसां यन्नाककान्ताकर- प्रौढोदञ्चितचारुचामरसितच्छत्रस्मिताः संपदः ।
यच्चोत्सर्पति तर्पितश्रुति यशः कर्पूरपूरोज्ज्वलं
स्वल्पं दानकणस्य तत्फलमहो दानं निदानं श्रियः ॥ क्४.१ ॥
अभूदुपोषधो नाम भूभृध्यस्य विभावतः ।
विबुधाभिमता कीर्तिः सुधा दुग्धोदधेरिव ॥ क्४.२ ॥
वसुधामवतो यस्य वसुधामवतः पुरः ।
ननाम प्रणतौ कस्य न नाम नृपतेः शिरः ॥ क्४.३ ॥
शुद्धा धीरिव धर्मेण दानेनेव दयालुता ।
विभूतिर्विनयेनेव भूषिता येन भूरभूत् ॥ क्४.४ ॥
गुणिनः प्रांशुवंशस्य बभूवेन्दुद्युतेः स्थितिः ।
यस्य सर्वातपत्रस्य मूर्ध्नि सर्वमहीभृताम् ॥ क्४.५ ॥
यस्येश्वरशिरःस्थायि शुभं गङ्गाजलोज्ज्वलम् ।
भ्रमत्यदभ्रं लोकेषु भुवनाभरणं यशः ॥ क्४.६ ॥
कर्तु क्रतुसहस्राणां सहस्राक्षाधिकश्रियः ।
यस्य षष्टिसहस्राणि कलत्रं सुदृशामभूत् ॥ क्४.७ ॥
कदाचिन्मुनिरक्षायै रक्षःक्षयकृतक्षणः ।
विचचाराश्वमारुह्य स तपोननभूमिषु ॥ क्४.८ ॥
तत्र राजर्षिभिः कैश्चित्पुत्रेष्टिकलशं धृतम् ।
दूराध्वश्रमसंतप्तः स पयःपूर्णमापपौ ॥ क्४.९ ॥
विजनासादितं पीत्वा स मन्त्रकलशात्पयः ।
राजधानीं समासाद्य गर्भं लेभे विभुर्भुवः ॥ क्४.१० ॥
स्वप्नमायेन्द्रजालादि यस्याः कौतुकविप्रषुः ।
जयत्यद्भुतसंभारभूमिः सा भवितव्यता ॥ क्४.११ ॥
विधेर्विविधवैचित्र्यचित्रकर्मविधायिनः ।
आश्चर्यरेखाविन्यासं कः परिच्छेत्तुमीश्वरः ॥ क्४.१२ ॥
कालेन तस्य मूर्धानं भित्त्वा बालोंऽशुमानिव ।
रूढव्रणस्य सहसा दिव्यद्युतिरजायत ॥ क्४.१३ ॥
तं राजजाया जगृहुर्जगत्साम्राज्यलक्षणम् ।
वात्सल्यप्रस्रुतक्षीराः पुण्यंमूर्तिमिवाश्रितम् ॥ क्४.१४ ॥
मां धारयिष्यति शिशुः श्लाघ्योऽयं जननीपदे ।
इति तासां मिथो वाक्यैर्मान्धाताभून्नृपात्मजः ॥ क्४.१५ ॥
तस्य प्रवर्धमानस्य बालक्रीडाविलासिनः ।
षडिन्द्रः प्रययौ कालः पुण्यक्रीडक्षयायुषः ॥ क्४.१६ ॥
नवयौवनमारूढः सर्वविद्यासु पारगः ।
स याते पितरि स्वर्गं भेजे राज्यं क्रमागतम् ॥ क्४.१७ ॥
यक्षो दिवौकसो नाम सुकृतेर्दासतां गतः ।
अभिषेकोपकरणं दिव्यं तस्योपनीतवान् ॥ क्४.१८ ॥
स स्वर्णैर्बद्धमुकुटः कल्पितोष्णीषशेखरः ।
श्रदभ्रावतंसस्य मेरोः शोभामवाप्तवान् ॥ क्४.१९ ॥
सप्त रत्नानि तस्याथ प्रादुर्भूतानि तक्षणे ।
चक्राश्वमणिहस्तिश्रीगृहसेनाग्रगाण्यपि ॥ क्४.२० ॥
बभुव चास्य पुत्राणां तुल्यरूपबलौजसाम् ।
सहस्रं विजितारातेर्भुजानामिव भूभुजः ॥ क्४.२१ ॥
वसुंधरां समस्ताब्धुइवेलाकलितमेखलाम् ।
निखिलां विदधे दोष्णि शेषविश्रान्तिर्निर्वृताम् ॥ क्४.२२ ॥
भुवनत्राणसंसद्धह्प्रत्यग्रकमलाश्रयः ।
चक्रवर्ती स सुकृतेर्विष्णोः कर इवाबभौ ॥ क्४.२३ ॥
त्रिजगज्जाह्नवी कीर्तिः प्रभावाभरणाः श्रियः ।
सोऽयं सुकॄतवल्लीनां प्रथमं कुसुमोद्गमः ॥ क्४.२४ ॥
स कदाचिद्द्वनान्तेषु विकाशिकुसुमश्रियः ।
रुचिरं सचिवैः सार्धं विचचार विलोकयन् ॥ क्४.२५ ॥
ददर्श तत्र निष्पक्षान् विहगान् पादचारिणः ।
व्योममार्गगतिं स्मृत्वा प्रयातान् कृशतामिव ॥ क्४.२६ ॥
पक्षहीनानगतिकान् वृत्तिक्षीणान्निरम्बरान् ।
दरिद्रानिव तान् वीक्ष्य प्रोवाच कृपया नृपः ॥ क्४.२७ ॥
अहो वराकौर्विहगैः किमेतैः कुकृतं कृतम् ।
यदेते पक्षविकलाः कृच्छ्रचरणचारिणः ॥ क्४.२८ ॥
इत्युक्ते भूमिपतिना करुणाकुलितात्मना ।
पुरःस्थितो महामात्यः सत्यसेनस्तमब्रवीत् ॥ क्४.२९ ॥
श्रुतमेतन्मया देव कथ्यमानं वनेचरैः ।
कारणं पक्षपतने यदभूत्पक्षिणामिह ॥ क्४.३० ॥
सन्ति पञ्च शतान्यत्र पुण्यधाम्नि तपोवने ।
तपःस्वाध्यायसक्तानां मुनीनां दीप्ततेजसाम् ॥ क्४.३१ ॥
तेषामद्ययनध्यानजपविघ्नविधायिनः ।
एते लोकाहलं चक्रुः खगास्तरूवने सदा ॥ क्४.३२ ॥
तस्मै विहगसंघाय कर्णापायकृते परम् ।
अतिसंवर्धमानाय चुकोप मुनिमण्डलम् ॥ क्४.३३ ॥
तदुर्भूतमहाशापतापल्पोषेण सर्वतः ।
क्षणेन पक्षिणां पक्षा व्यशीर्यन्त कृतागसाम् ॥ क्४.३४ ॥
त एते विहगाः पक्षरहिताः कृच्छ्रवर्तिनः ।
त्वद्विपक्षा इव वने श्रान्ताश्रचरणचारिणः ॥ क्४.३५ ॥
महामात्येन कथितं निश्मैतन्महीपतिः ।
उवाच करुणाक्रान्तस्तप्तः शापेन पक्षिणाम् ॥ क्४.३६ ॥
अहो तेजः परिणतं शान्तानामपि कानने ।
अङ्गाराणां मुनीनां च दहत्येवानिवारितम् ॥ क्४.३७ ॥
मिथ्यातपस्विभिः किं तैः स्वसुखाय न यैः कृतः ।
मनसः कोपतप्तस्य परिषेकः क्षमाम्बुभिः ॥ क्४.३८ ॥
प्रसन्ना धीर्मणो मैत्रं दया दानं दमह्क्षमा ।
येषां तेषां तपः श्लाध्यं शेषाणां कायशोषणम् ॥ क्४.३९ ॥
किं तपोभिः सकोपानां विल्पुतानां वनेन किम् ।
विभवैः किं सलोभानां दुर्वृत्तानां श्रुतेन किम् ॥ क्४.४० ॥
एवं कलुषचित्तास्ते तीब्रमन्युपरायणाः ।
दुःसहा एव मुनयः प्रयान्तु विषयान्मम ॥ क्४.४१ ॥
इत्युक्त्वा प्राःिणोत्तेभ्यः संदेशं पुरुषैर्नृपः ।
यावती मद्वशा भूमिस्तावती त्यज्यतामिति ॥ क्४.४२ ॥
विहंगपक्षपातेन कुपितस्य महीपतेः ।
संदेशं मुनयः श्रुत्वा विलक्षाः समचिन्तयन् ॥ क्४.४३ ॥
चतुःसमुद्रपरिखामेखलायाः क्षितेः पतिः ।
नरेन्द्रोऽयं क्क्व गच्छामः को देशोऽस्य वशे न यः ॥ क्४.४४ ॥
इति संचिन्त्यं मुनयः पार्श्वं कनकभूभृतः ।
सुरसिद्धसमाकीर्णं जम्बूखण्डान्तिकं ययुः ॥ क्४.४५ ॥
अथ तस्य महीभर्तुः प्रब्ःावेण महीयसा ।
अभूददृष्टशस्या भूद्याश्च रत्नाम्बरप्रसूः ॥ क्४.४६ ॥
पाकशासनवैलक्ष्यकरणास्तस्य शासनात् ।
सप्ताहं हेम ववृषुर्मेघाः संग्ःातवर्षिणः ॥ क्४.४७ ॥
स प्रभावेण महता सह सैन्यैर्नभोगतिः ।
चक्रे पूर्वविदेहाख्यं द्वीपं दिव्यजनं वशे ॥ क्४.४८ ॥
बभूवुरग्रे सौन्यानि स्फीटशौर्यबलौजसाम् ।
भटानां व्योमगमने तस्याष्टादशकोटयः ॥ क्४.४९ ॥
गोदानीयं ततो द्वीपमथोत्तरकुरूनपि ।
पार्श्वानि स सुमेरोश्च शशासासतशासनः ॥ क्४.५० ॥
सुखं विहरतस्तस्य मेरोः कनकसानुषु ।
बहुशक्रो ययौ कालश्चतुर्द्वीपमहीपतेः ॥ क्४.५१ ॥
स कदाचित्सुरान् द्रष्टुं व्याम्ना गच्चन् सुरोपमः ।
चकार नीलजलदैर्व्याप्ता इव गजैर्दिशः ॥ क्४.५२ ॥
अथ तेषां निरस्तानां मेरुपार्श्वे तपस्यताम् ।
मुनीनामपतन्मूर्ध्नि तद्गजाश्वशकृद्दिवः ॥ क्४.५३ ॥
ततस्ते क्रोधसंतप्तदृशा व्योमावलोकिनः ।
चक्रुः पिङ्गपर्भावल्लिकलापकपिला दिशः ॥ क्४.५४ ॥
कोपात्किमेतदित्युक्त्वा शापाग्निविसिसृक्षता ।
अभ्येत्य देवदूतस्तान् प्रहर्षाकुलितोऽवदत् ॥ क्४.५५ ॥
एषा निःशेषभूपालमौलिविश्रान्तशासनः ।
पाकशासनतुल्यश्रीर्मान्धाता पृथिवीपतिः ॥ क्४.५६ ॥
नभसा नरदेविऽयं सह सैन्यैः प्रसर्पति ।
यस्य कीर्तनधन्येयं वाणी पुण्याभिमानिनी ॥ क्४.५७ ॥
न दृष्टो यस्य निर्दिष्टसर्वलोकसुखश्रियः ।
मोहः संबिन्मयस्येव विभवप्रभवो मदः ॥ क्४.५८ ॥
कौबेरं धनदव्यक्त्या कौमारं शक्तिमत्तया ।
ऐश्वरं वृषसंयोगाद्वैष्णवं श्रीसमागमात् ॥ क्४.५९ ॥
प्रतापप्रसरात्सौरमैन्दवं जननन्दनात् ।
ऐन्द्रं दृप्तबलच्छदाद्दिव्यं रूपं बिभर्त्ययम् ॥ क्४.६० ॥
बलिः प्रयातः पातालं दधीचोऽप्यस्थिशेषताम् ।
अस्य त्यागेन जलधिः क्षोभमद्यापि नोज्झति ॥ क्४.६१ ॥
श्रुत्वेति देवदूतस्य वचनं मुनिमध्यगः ।
ससर्ज दुर्मुखो नाम मुनिः शापजलं दिवि ॥ क्४.६२ ॥
प्रहसन्नथ तं प्राह सेनानां परिणायकः ।
महर्षे संहर रूषं मा कृथास्तपसः क्षयम् ॥ क्४.६३ ॥
वैफल्यलज्जां शापोऽथं यास्यत्यग्रे महीपतेः ।
नैते बत खगा येषां यूयं पक्षक्षयक्षमाः ॥ क्४.६४ ॥
इत्युक्ते सौन्त्यपतिना शापस्तब्धामनीकिनीम् ।
दृष्ट्वाग्रे विस्मयादूचे किमेतदिति भूपतिः ॥ क्४.६५ ॥
संरब्धोऽथ समभ्येत्य सेनापतिरुवाच तम् ।
तेषां देव महर्षीणां शापात्सैम्यं न सर्पति ॥ क्४.६६ ॥
इदं च चक्ररत्नं ते व्योम्नि शापविघूर्णितम् ।
धत्ते जलदसंरुद्धतिग्मदीधितितुल्यताम् ॥ क्४.६७ ॥
एतदाकर्ण्य नृपतिर्दृष्टा चाग्रे तथैव तत् ।
दृशैव दिवधे शापं विफलोच्चण्डविल्पवम् ॥ क्४.६८ ॥
देहक्षयं महर्षीणां परिरक्षन् कृपाकुलः ।
जटा न्यपातयद्भूमौ स लीलालसशासनः ॥ क्४.६९ ॥
अजितक्रोधमोहानां भारभूता वृथा वयम् ।
इतीव लज्जया तेषां लीनाः क्षितितले जटाह् ॥ क्४.७० ॥
अथ मेरुशिरः प्राप्य नृपः सुरनिकेतनम् ।
पुरं सुदर्शनं नाम दर्दर्श प्रियदर्शनम् ॥ क्४.७१ ॥
नागास्तत्र कृतारक्षाः प्रख्यातोदकनिःसृताः ।
करोटपाणयो यक्षाः सुरा मालाधराभिधाः ॥ क्४.७२ ॥
सदामत्तास्तथा देवाः क्रोधोत्तम्भितसैनिकाः ।
महाराजकायिकाख्यास्त्रिदशा बलवत्तराः ॥ क्४.७३ ॥
महाराजाश्च चत्वारः संनद्धकवचायुधाः ।
जित्वा राज्ञा प्रभावेण निजसेनाग्रगाह्कृताः ॥ क्४.७४ ॥
ततः कल्पद्रुमोदारकोचिदारमनोहरम् ।
ददर्श पारिजाताख्यं संश्रयं त्रिदिवौकसाम् ॥ क्४.७५ ॥
मेरोर्मूर्ध्नि ततः शुभ्रप्रभां मालामिवामलाम् ।
सुधर्माख्यां सभां प्राप स्वभासोद्भासिताम्बराम् ॥ क्४.७६ ॥
हेमविद्रमवैदूर्यस्तम्भसंब्ःारभास्वरः ।
प्रासादो वैजयान्ताख्यः प्रख्यातो यत्र राजते ॥ क्४.७७ ॥
यत्राब्जेर्वदनैर्भृङ्गैरलकैस्तुल्यतां गताः ।
पद्मिन्यः सुरनारीणां पद्मिनीनां सुराङ्गनाः ॥ क्४.७८ ॥
बिम्बतैस्त्रिदशैर्यत्र मणिभूस्तम्भभित्तिषु ।
सुरलोको बिभर्त्येकोऽप्यनेकसुरलोकताम् ॥ क्४.७९ ॥
रत्नतोरणहर्म्यांनिवहैर्यत्र चित्रिताः ।
व्याप्ता विभान्ति ककुभः शक्रायुधशतैरिव ॥ क्४.८० ॥
यत्र बालानिलालोलकल्पपादपपल्लवैः ।
नृत्यद्धस्ता इवाभान्ति नन्दिन्यो नन्दनश्रियः ॥ क्४.८१ ॥
यत्र चैत्ररथं नाम देवोद्यानं मनोरमम् ।
धत्ते नित्योत्सवं प्रेमिकामं कामवसन्तयोः ॥ क्४.८२ ॥
सर्वकामं सर्वसुखं सर्वर्तुकुसुमोज्ज्वलम् ।
सर्वातिशयितं दृष्ट्वा देवानां सदनं नृपः ॥ क्४.८३ ॥
मुहूर्तविसम्यास्पन्दसानन्दस्निग्धलोचनः ।
अच्नितयत्सुकृतिनामिमास्ताह्फलभूमयः ॥ क्४.८४ ॥
ऐरावणं सुरपतेर्लोलालिओवलयाकुलम् ।
ददर्श तत्र सामोदं साकारमिव नन्दनम् ॥ क्४.८५ ॥
पुरंदरस्ततो ज्ञात्वा प्राप्तं भूमिपुरंदरम् ।
प्रत्युद्ययौ प्रमुदितः सह सर्वैर्मरुद्गणैः ॥ क्४.८६ ॥
पूजितः सुरराजेन रत्नराजिविराजिताम् ।
राजराजह्सभाभूमिं भेजे विरजसां वरह् ॥ क्४.८७ ॥
त्रिदशेषूपविष्टेषु रत्नपर्यङ्कपङ्क्तिषु ।
उपाविशन्नृपः श्रीमानासनार्धे शतक्रतोः ॥ क्४.८८ ॥
एकासनजुषोस्तत्र सुरेन्द्रमनुजेन्द्रयोः ।
रूपं गुणगणोदारं निर्विशेषमदृश्यत ॥ क्४.८९ ॥
ततह्सर्वसुरोत्सृष्टस्पष्टलोचनषट्पदैः ।
पीयमानमुखाम्भोजं व्याजहार हरिर्नृपम् ॥ क्४.९० ॥
अहो उदयः श्लाध्यस्ते तेजसा तेजसां निधे ।
भवता भूषिता भूमिर्द्यौश्च देवेन भास्वता ॥ क्४.९१ ॥
अभ्युन्नतप्रभावोऽयं लसत्सितयशोंशुकः ।
भ्राजते ते त्रिभुवने साम्राज्यविजयध्वजः ॥ क्४.९२ ॥
त्वत्कथामृतपानस्य त्वद्दर्शनरसस्य च ।
प्रेर्यते श्रोत्रनेत्रेण सुखाख्याने सरस्वती ॥ क्४.९३ ॥
स्थिरीकृतस्त्वयैवायं सुकृताप्तविभूतिना ।
कर्मणां फलवादस्य निश्चरश्छिन्नसंशयः ॥ क्४.९४ ॥
अत एवेन्द्रियग्रामे चक्षुरेव स्पृहास्पदम् ।
पुण्यैः पुण्योचिताचारा दृश्यन्ते यद्भवद्विधाः ॥ क्४.९५ ॥
इत्युक्ते त्रिदशेन्द्रेण मान्धाता यशसां निधिः ।
त्वत्प्रसादप्रभावोऽयमित्युवाच नताननः ॥ क्४.९६ ॥
इत्येवं पूज्यमानस्य तस्य नित्यादरैः सुरैः ।
षडिन्द्रः प्रणयौ कालस्त्रिदिवे वसतः सतः ॥ क्४.९७ ॥
तत्पराक्रमविध्वस्तसमस्तासुरमण्डलः ।
बभूव सुरराजस्य निरपायोदयो जयः ॥ क्४.९८ ॥
दीप्तदानवसंग्रामे तस्य शौर्यमहातरोः ।
विश्रान्तिं भेजिरे देवा भुजच्छायोपजीविनः ॥ क्४.९९ ॥
तस्य पुण्यपणक्रीतं भिञ्जानस्याक्षयं सुखम् ।
कालप्रवाहे महति प्रययुः षट्पुरंदराः ॥ क्४.१०० ॥
सत्कर्मफलभोगस्य लाञ्छनं विमलं मनः ।
कालुष्याज्जायते तस्य प्रत्यासन्नः परिक्षयः ॥ क्४.१०१ ॥
अथ कालेन कालुष्यकलितस्य मनोरथः ।
अभूल्लोभाभिभूतस्य भूतपेरभिमानिनः ॥ क्४.१०२ ॥
त्रिदशानामियं लक्ष्मीर्मद्बाहुबलपालिता ।
तदिमां न सहे तावदर्धासनविडम्बनाम् ॥ क्४.१०३ ॥
अहमेकः सुरपतिः प्रभावान्न भवामि किम् ।
अयं मम भुजः सर्वजगद्भारभरक्षमः ॥ क्४.१०४ ॥
च्यावयित्वा सुराशीशं स्वर्गसाम्राज्यसंपदम् ।
एकातपत्रतिलकां स्वयंग्राहोचितां बह्जे ॥ क्४.१०५ ॥
इति चिन्तयतस्तस्य शक्रद्रोहाभिलाषिणः ।
शुभ्रप्रभा प्रभावश्रीर्मालेव म्लानतां ययौ ॥ क्४.१०६ ॥
घनोदयसमुत्सिक्ता सौजन्यतटपातिनी ।
लोलं कलुषयत्येव मानसं श्रीतरङ्गिणी ॥ क्४.१०७ ॥
प्रमादो विपदां दूतो दुःसहो महतामपि ।
कुशलोन्मूलनायैव किल्बिषाकुलिता मतिः ॥ क्४.१०८ ॥
पापसंकल्पमात्रेण क्षितौ क्षितिपतिः क्षणात् ।
पपात विस्रस्तफलश्छिन्नमूल इव द्रुमः ॥ क्४.१०९ ॥
हन्ति विद्यामनभ्यासः श्रियं हन्ति मदोदयः ।
विद्वेषः साधुतां हन्ति लोभः समुन्नतिम् ॥ क्४.११० ॥
अहो बत महोत्कर्षशृङ्गारोहो महोदयः ।
विभवोद्भवमत्तानां सहसैव पतत्यधः ॥ क्४.१११ ॥
तेन सर्वविभुर्नाम पूजितः पूर्वजन्मनि ।
तत्फलादाप्तवान् राज्यं स्पृहणीयं मरूत्पतेः ॥ क्४.११२ ॥
सुराधिपाधिकः कोऽपि प्रभावो विस्मयावहः ।
अनल्पपिण्डस्तस्याभुत्पात्रदानांशसंभवह् ॥ क्४.११३ ॥
द्बन्धुमत्यभिधानायां नगर्यामुषितः शुचिः ।
वणिगुत्करिको नाम सोऽभवत्पूर्वजन्मनि ॥ क्४.११४ ॥
विपश्यी नाम भिक्षायै सम्यक्संबुद्धां गतः ।
विवेश त द्गृहं सर्वसत्त्वसंतारणोद्यतः ॥ क्४.११५ ॥
पात्रे तस्य च चिक्षेप मुद्गमुष्टिं प्रसन्नधीः ।
फलानि तत्र चत्वारि पेतुः शेषाणी भूतले ॥ क्४.११६ ॥
तेन दानप्रभावेण मान्धाता पृथिवीपतिः ।
सर्वद्वीपपतिर्भूत्वा शक्रार्धासनमाप्तवान् ॥ क्४.११७ ॥
मुद्गशेषश्च्युतो यस्माद्भूतौ तस्यान्यचेतसः ।
तदसौ फलपर्यन्ते पतितस्त्रिदशालयात् ॥ क्४.११८ ॥
लुठति विकलकल्पा यत्र संकल्पमाला
स्फुरन्ति न च कदाचित्स्वप्नमायान्तरे या ।
भवति विभवभोगाभोगिनी भाग्यभाजा-
मतुलफलततिः सा दानकल्पद्रुमाणाम् ॥ क्४.११९ ॥
इत्याह भगवान् बुद्धः प्रीत्या दानफलश्रियम् ।
निजजन्मान्तराख्याने भिक्षूणामनुशासने ॥ क्४.१२० ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मान्धात्रवदानं नाम चतुर्थः पल्लवः ॥


५. चन्द्रप्रभावदानम् ।

दुग्धाब्धिर्विबुधार्थनातिविधुरः क्षुब्धश्चकम्पे चिरं
कम्पन्ते च निसर्गतः किल फलोत्सर्गेषु कल्पद्रुमाः ।
एकः कोऽपि स जायते तनुशतैरभ्यस्तदानस्थितिर्
निष्कम्पः पुललोत्करं वहति यः कायं प्रदानेष्वति ॥ क्५.१ ॥
अस्ति कौलासहासिन्यामुत्तरस्यामनुत्तरा ।
दिशि भद्रशिला नाम भुवनाभरणं पुरी ॥ क्५.२ ॥
यस्यां सितयशःपुष्पाः सफलाः सर्वसंपदः ।
दानोद्यानलताः प्रीत्यै बभूवुः पुरवासिनाम् ॥ क्५.३ ॥
यत्र त्रिपुरजिन्नेत्रशिखित्रस्तो मनोभवः ।
अबलाभिश्चलक्रीडभ्रूभङ्गैरेव रक्ष्यते ॥ क्५.४ ॥
मुक्ताजालोज्ज्वला यत्रभाति हेमगृहावली ।
मेरोः शिखरमालेव विस्फुतत्स्फीततारका ॥ क्५.५ ॥
तस्यां चन्द्रप्रभः श्रीमानभूद्भूमिभृतां वरः ।
कौलास इव यः कान्त्या चकार दिनचन्द्रिकाम् ॥ क्५.६ ॥
यस्य देहप्रभापूरैः पूर्णिन्दुद्युतिहारिभिः ।
निशासु दीपकाभासु नाभूतु स्नेहगुणक्षयः ॥ क्५.७ ॥
स्मरज्वरं भजन्तेऽस्य दर्शनेनैव तारकाः ।
इति च्छत्रछलादस्य छादितं खमिवेन्दुना ॥ क्५.८ ॥
प्रदिशत्येष सततं श्रियं सत्कोशसंश्रयाम् ।
इति तद्दर्शनेनैव संकोचं प्राप पद्मिनी ॥ क्५.९ ॥
सेनाहंकारमुत्सृज्य त्यागशुभ्रश्रिया श्रियः ।
निर्दिष्टाश्छत्रमुकुटप्रकटाः पुरव्षिनाम् ॥ क्५.१० ॥
शुशुभे विभवस्तस्य पुण्यालंकारणोन्नतेः ।
आरोहति परां कोटीं नम्रस्य धनुषो गुणः ॥ क्५.११ ॥
चत्वारिंशत्सहस्राणि वत्सराणां शताणि च ।
बभूव देहिनामायुस्तस्य काले कलिद्विषः ॥ क्५.१२ ॥
तस्य षष्टिसहस्राणि पुरीणां पूर्णसंपदाम् ।
बभूवुर्लोकपालस्य लोकपालाध्काश्रियः ॥ क्५.१३ ॥
यज्वानः कीर्तितिलकास्तस्य पुण्यविभूषणाः ।
यज्ञधूमलताभङ्गैर्बभुर्लोलालकाः श्रियः ॥ क्५.१४ ॥
तस्य संपत्कुमुदिनीविकासेन सदोदितः ।
अभून्मन्त्री महाचन्द्रश्चद्रलोक इवोज्ज्वलः ॥ क्५.१५ ॥
येन निश्चललक्ष्येण प्रभोः प्रज्ञापताकया ।
राज्याब्धिकर्णधारेण पारमुत्तरितं यशः ॥ क्५.१६ ॥
महीधराभिधश्चासौ बभूवामात्यकुञ्जरः ।
भूमिभारसहस्तस्य दिङ्गाग इव पञ्चमह् ॥ क्५.१७ ॥
मन्त्रणाभिन्नमन्त्रस्य यस्य नीतिबृहस्पतेः ।
त्याजिताः प्रतिसामन्ताः शौर्यं विषमिवाहयः ॥ क्५.१८ ॥
तेनामात्येन स नृपः स च राज्ञा विभूषितः ।
गुणः सत्पुरुषेणेव गुणेनेव च सज्जनः ॥ क्५.१९ ॥
कृतज्ञः सरलः स्वामी सद्भृत्यो भक्तिनिर्भरः ।
सुकृतप्रभवेणैव भाग्ययोगेन लभ्यते ॥ क्५.२० ॥
इयमेव चिरभ्रान्तिविश्रान्तिः सर्वसंपदाम् ।
यद्गुणज्ञतया वेत्ति स्वामिसत्पुरुषान्तरम् ॥ क्५.२१ ॥
तौ कदचिद्ददृशतुः स्वप्नमन्ये च मन्त्रिणह् ।
क्षयो यस्य फलं दानव्यसनेन महीपतेः ॥ क्५.२२ ॥
तौ दृष्ट्वा दुर्निमित्तानि प्रादुर्भूतानि शङ्कितौ ।
व्यग्रओ बभूवतुर्नित्यं शान्तिस्वस्तिककर्मसु ॥ क्५.२३ ॥
निमित्तदर्शनोद्विग्नास्तपिवनगता अपि ।
विश्वामित्रप्रभृतयः स्वामीत्यूचुर्महर्षयः ॥ क्५.२४ ॥
अत्राण्तरे ब्रह्मबन्धुः प्राग्जन्मब्रह्मराक्षसः ।
रौद्राक्षो नाम मात्सर्यक्रौर्यदौर्जन्यदुःसहः ॥ क्५.२५ ॥
श्रुत्वा दानोद्भवां कीर्तिं राज्ञः सर्वगुणोज्ज्वलाम् ।
निर्गुणः स गुणद्वेषि संतप्तः समचिन्तयत् ॥ क्५.२६ ॥
अहो बतास्य नृपतेर्गीयते गगने यशः ।
अनिशं सिद्धगन्धर्वगीर्वाणललनागणैः ॥ क्५.२७ ॥
सदा विशन्ति मे कर्णे तद्गुणस्तुतिसूचयः ।
किं करोमि प्रकृत्यैव सहे नान्यगुणोन्नतिम् ॥ क्५.२८ ॥
तद्गत्वा दानशीलस्य तस्य दानार्जितं यशः ।
करोम्येष शिरोयाच्ञाप्रतिषेधेन खण्डितम् ॥ क्५.२९ ॥
यशस्त्याज्यते दानोत्थं शिरश्चेन्न प्रदास्यति ।
अथ दास्यति विद्वेषप्रशान्तिर्मे भविष्यति ॥ क्५.३० ॥
इति संचिन्त्य सुचिरं स कौर्यकठिनः शठः ।
गन्धमादनपादाण्तवासी भद्रशिलां ययौ ॥ क्५.३१ ॥
इन्द्रजालप्रयोगज्ञः स कृत्वा प्रशमोचितम् ।
वेषं कलुषसंकल्पः पुरीं प्राप महीपतेः ॥ क्५.३२ ॥
अस्मिन् भववने नित्यं गुणदोषसमाकुले ।
कल्पवृक्षाः प्रजायन्ते जायन्ते च विषद्रुमाः ॥ क्५.३३ ॥
अशेषनाशपिशुनैर्घोरसंत्रासकारिभिः ।
दुर्निमित्तैरिव खलैः खेदः कस्य न दीयते ॥ क्५.३४ ॥
गुणिद्वेषः प्रकृत्यैव प्रकाशपरिपन्थिनः ।
दोषआश्रयस्य को भेदः खलस्य तिमिरस्य च ॥ क्५.३५ ॥
स्वच्छन्दघाती साधूनां विद्वेषविषदुःसहः ।
दीर्घपक्षः खलव्यालकरालः केन निर्मितः ॥ क्५.३६ ॥
तस्मिन् प्रविष्टे नगरं रूपिणी पुरदेवता ।
उवाचाभ्येत्य भूपालं संत्रासतरलेक्षणा ॥ क्५.३७ ॥
शिरोयाचक एष त्वां ब्रह्मबन्धुरुपागतः ।
वध्योऽसौ जीवितोच्छेदी जगतो जीवितस्य ते ॥ क्५.३८ ॥
निरुद्धो नगरद्वारि स मया मलिनाशयः ।
मम तद्दर्शनत्रस्तं धृतिं न लभते मनः ॥ क्५.३९ ॥
इति ब्रुवाणां भूपालः प्रोवाच पुरदेवताम् ।
अर्थिसंरोधसंजातलज्जया नमिताननः ॥ क्५.४० ॥
देवि याच्ञाभियातोऽसौ प्रविशत्वनिवारितः ।
दिर्घोच्छ्वासं सहे नाहमाशावैफल्यमर्थिनः ॥ क्५.४१ ॥
याच्ञा प्रणयिनामर्थे पुण्यप्राप्तस्तनुव्ययः ।
युगसंख्यामपि स्थित्वा विपद्यन्ते हि देहिनः ॥ क्५.४२ ॥
एतदेव सुजातानां पूज्यं जगति जीवितम् ।
यदेषामग्रतो याति नार्थी भग्नमनोरथह् ॥ क्५.४३ ॥
क्रियतामानुकूल्यं मे भवत्या कुशलोचितम् ।
आशाविघाते संतापस्तस्य तूर्णं निवारताम् ॥ क्५.४४ ॥
इति भूमिभृतः श्रुत्वा वचो निश्चलनिश्चयम् ।
जगामादर्शनं देवी चिन्तासंतापमानसा ॥ क्५.४५ ॥
अथाययौ स कुटिलः खलः क्रकचचेष्टितः ।
दारुणः सरलस्यैव च्छेदाय स्वयमुद्यतः ॥ क्५.४६ ॥
तस्मिन्नृपगृहं प्राप्ते विवृतद्वारमर्थिनाम् ।
भूर्भूपतिक्षयभयाच्चकम्पे सधराधरा ॥ क्५.४७ ॥
नरेन्द्रचन्द्रमासाद्य स राहुरिच दुर्मुखः ।
समभ्यधाद्विधाय प्रागशिवार्थामिवाशिषम् ॥ क्५.४८ ॥
स्वस्ति राजन् द्विजन्मा हि विजने सिद्धिसाधकः ।
प्रातस्त्वामीप्सितप्राप्त्यै सर्वार्थिसुरपादपम् ॥ क्५.४९ ॥
दृष्टिर्वृष्टिरिवामृतस्य महती सौजन्यमित्रं मनः
क्षान्तिः क्रोधरजःप्रमार्जनदी दुःखार्तमाता मतिः ।
लक्ष्मीर्दानजलाभिषेकविमला सत्योपयुज्क्तं वचः
नित्यं यस्य स एक एव हि भवान् जातो जगद्बान्धवः ॥ क्५.५० ॥
सिद्धये कथितं कैश्चिच्चक्रवर्तिशिरो मम ।
दीयतां त त्वदन्यो वा दातुं शक्नोति कः परह् ॥ क्५.५१ ॥
सन्ति स्पष्टार्थदाश्चिन्तामणिकल्पद्रुमादयः ।
दुर्लभार्थप्रदातारो विरलास्तु भवद्विधाः ॥ क्५.५२ ॥
इत्युक्ते तेन नृपतिर्निष्कम्पविपुलाशयः ।
अर्थिसंदर्शनानन्दनिर्भरस्तमभाषत ॥ क्५.५३ ॥
धन्योऽहं यस्य मे ब्रह्मन्नर्थिनामर्थसिद्धये ।
निर्विकल्पोपकरणं व्ययं याति सुजीवितम् ॥ क्५.५४ ॥
कदा प्राणाः परार्थे मे प्रयान्तीति मनोरथः ।
किमेतानि न पुण्यानि प्रार्थ्यन्ते ते यदि त्वया ॥ क्५.५५ ॥
आहोपकरणसिद्ध्यै श्लाघ्यं मे गृह्यतां शिरः ।
तत्तदेव स्थिरं लोके यद्यदर्थिसमर्पितम् ॥ क्५.५६ ॥
इत्युक्ते हर्षयुक्तेन भूभुजा सत्त्वशालिना ।
तमूचतुर्महामात्यौ महाचन्द्रमहीधरौ ॥ क्५.५७ ॥
निजजीवितरक्षैव धर्मस्ते प्रथमः प्रभो ।
त्वयि जीवति जीवन्ति सर्वे जगति जन्तवः ॥ क्५.५८ ॥
न दातुमर्हसि शिरः सर्वाधारं हि ते वपुः ।
दीयतां ब्राह्मणायास्मै हेमरत्नमयं शिरः ॥ क्५.५९ ॥
सर्वार्थैरर्थिसार्थानां पूर्यन्ते यैर्मनोरथाः ।
तेषां संरक्षणेनैव सर्वं भवति रक्षितम् ॥ क्५.६० ॥
संकल्पोऽयं द्विजस्यास्य क्रूरः कलुषचेतसः ।
मूलच्छेदोपजीव्यो हि न कल्पतरुरर्थिनाम् ॥ क्५.६१ ॥
हेमरत्नशिरः प्राप्य यात्वेष शिरसास्य किम् ।
चिन्तामणिर्विनिष्प्रेक्ष्यो भुज्यते न बुभुक्षितैः ॥ क्५.६२ ॥
इत्युक्ते मन्त्रिमुख्याभ्यां हेमरत्नमयं शिरः ।
सिद्धो नैवोपयोग्यं तन्ममेति ब्राह्मणोऽब्रवीत् ॥ क्५.६३ ॥
अथोन्मुमोच नृपतिर्मुकुटं मौक्तिकांषुभिः ।
श्रिरोविरहदुःखेन साश्रुधारमिवाभितः ॥ क्५.६४ ॥
मुकुटानि क्षणे तस्मिन्निपेतुः पुरवासिनाम् ।
दिग्दाहोन्मुखतुल्याभिरुल्काभिः सह भूतले ॥ क्५.६५ ॥
राज्ञा प्रदाने शिरसः सर्वथा परिकल्पिते ।
तौ चक्रतुस्तनुत्यागं मन्त्रिणौ द्रष्टुमक्षमौ ॥ क्५.६६ ॥
रत्नगर्भमथोद्यानं प्रविश्य पृथिवीपतिः ।
उत्फुल्लचम्पकस्याधः शिरश्छेत्तुं समुद्ययौ ॥ क्५.६७ ॥
उद्यानदेवता दृष्ट्वा तं शिरश्छेत्तुमुद्यतम् ।
मा कृथाः साहसं राजन्नित्युवाच शुचाकुला ॥ क्५.६८ ॥
कम्पमानाः प्रलापिन्यस्तं मत्तालुकुलस्वनैः ।
न्यवारयन्नवलता लोलपल्लवपाणिभिः ॥ क्५.६९ ॥
सोऽपि निश्चलसंकल्पः प्रसाद्योद्यानदेवताम् ।
विमलां बोधिमालम्ब्य बभूव प्रणिधानवान् ॥ क्५.७० ॥
अस्मिन् रत्नमयोद्याने पुण्यराशिसमुन्नतम् ।
स्तूपमस्तु प्रशास्तुस्तु सत्त्वसंतारणोचितम् ॥ क्५.७१ ॥
यत्किंचिदर्जितं पुण्यं संकल्पेन मयामुना ।
भवन्तु तेन संसारे निःसंसाराः शरीरिणः ॥ क्५.७२ ॥
ध्यात्वेति चम्पकतरोः शाखायां नृपतिः शिरः ।
बद्ध्वा कचकलापेन छित्त्वा प्रादाद्द्विजन्मने ॥ क्५.७३ ॥
अथ नरपते सत्त्वोत्साहस्फुटप्रणिधानतः
किमपि विमलैः पुण्यालोकैर्दिगन्तविसारिभिः ।
विगलितमहामोहौघान्तः श्रितः परिनिर्वृतिं
प्रविरतभवाभ्यासायासः क्षणादबह्वज्जनह् ॥ क्५.७४ ॥
इति प्राग्जन्मवृत्तान्तकथया भगवान् जिनः ।
भिक्षूणां विदधे शुद्धदानसद्धर्मदेशनाम् ॥ क्५.७५ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां चन्द्रप्रभावदानं नाम पञ्चमः पल्लवः ॥


६. बदरद्वीपयात्रावदानम् ।

दानोद्यतानां पृथुवीर्यभाजां शुद्धात्मनां सत्त्वमहोदधीनाम् ।
अहो महोत्साहवतां परार्थे भवन्त्यचिन्त्यानि समाहितानि ॥ क्६.१ ॥
हर्म्यारोहणहेलया यदचलाः स्वभ्रैः सहाभ्रंलिहा
यद्वा गोष्पदलीलया जलभरक्षोभोद्धताह्सिन्धवः ।
लङ्घ्यन्ते भवनस्थलीकलनया ये चाटवीनां तटास्
तद्वीर्यस्य महात्मनां विलसतः सत्त्वोर्जितं स्फूर्जितम् ॥ क्६.२ ॥
पुरा हि भगवान् बुद्धः श्रावस्त्यां पुरवासिनाम् ।
उपदेशप्रकाशेन जहाराज्ञानजं तमः ॥ क्६.३ ॥
भिक्षुसंघैः परिवॄतः स कदाचिद्वणिग्जनैः ।
कृतानुयात्रो मगधात्स्वयं चारिकया ययौ ॥ क्६.४ ॥
महार्थसार्थानुगतं व्रजन्तं वनवर्त्मना ।
तं दृष्ट्वा तस्करगणः सालाटव्यामचिन्तयत् ॥ क्६.५ ॥
एष प्रयातु बह्गवान् पुरः सत्त्वहिते रतः ।
पश्चात्सार्थं ग्रहीष्यामः पूर्णं द्रविणराशिभिः ॥ क्६.६ ॥
भगवानथ सर्वज्ञस्तेषां ज्ञात्वा समीहितम् ।
किमेतदिति तानूचे निर्विकारस्मिताननः ॥ क्६.७ ॥
ते तमूचुः परित्यज्य क्रौर्यं मधुरया गिरा ।
तत्प्रसादस्मितालोकैर्विनष्टतिमिरा इव ॥ क्६.८ ॥
भगवन् जीविकास्माकं निन्द्येयं कर्मनिर्मिता ।
न भृतिर्न कृषिर्नान्यरक्षणं न प्रतिग्रहह् ॥ क्६.९ ॥
सहजं क्रौर्यमस्माकं निसर्गकलुषात्मनाम् ।
क्रियते किं स्वभावस्य देव तीक्ष्णा हि कर्णिका ॥ क्६.१० ॥
तस्मान्न वृत्तिलोपो नः कर्तुमर्हसि गम्यताम् ।
याते तु त्वयि सार्थस्य वयं सर्वार्थहारिणह् ॥ क्६.११ ॥
इति तेषां वचः श्रुत्वा करुणापूर्णमानसः ।
दोलालोलायितमतिर्बभूव बह्गवान् क्षणम् ॥ क्६.१२ ॥
ततः सार्थधनं सर्वं परिसंख्याय तत्समम् ।
स ददौ चौरचक्राय तत्क्षणाप्तनिधानतः ॥ क्६.१३ ॥
तद्विधेन क्रमेणैव पुनः पथि गतागतैः ।
षट्कृत्वः प्रददौ तेभ्यः सोऽर्थं सार्थस्य मुक्तये ॥ क्६.१४ ॥
पुनश्चोपगते तस्मिन् वर्त्मना तेन सानुगे ।
बभूव बुद्धिश्चओराणां तद्भोजननिमन्त्रणे ॥ क्६.१५ ॥
दृशा दिशन्ति वैमल्यं शुभं संभाषणेन च ।
व्रजन्ति संगमाभ्यासैः सन्तः सन्मार्गसेतुताम् ॥ क्६.१६ ॥
तत्रातिर्यग्दृशा सर्वं सर्वाकुशलसंक्षयात् ।
तेषां समाहितं शुद्धं विदधे भगवान् जिनह् ॥ क्६.१७ ॥
येषां संग्रहवस्तूनि वत्वारि नियतात्मनाम् ।
अर्थचर्या समानार्थब्ःावस्त्यागः प्रियं वचः ॥ क्६.१८ ॥
येषां ब्रह्मविहाराश्च चत्वारः सत्त्वशालिनाम् ।
करुणा मुदितोपेक्षा मैत्री चेति परिग्रहः ॥ क्६.१९ ॥
येषां कुशलमूलानि सक्तानि त्रीणि चेतसि ।
अलोभश्चापरिद्वेषोऽप्यमोहश्च महात्मनाम् ॥ क्६.२० ॥
दानशीलक्षमावीर्यध्यानप्रज्ञाजुषां सदा ।
उपायप्रणिधिज्ञानबलैराश्रितचेतसाम् ॥ क्६.२१ ॥
परित्राणैकवीराणां सदैवाद्वयवादिनाम् ।
विद्यात्रयप्रदीप्तानां चतुर्वैमल्यशालिनाम् ॥ क्६.२२ ॥
पञ्चस्कन्धवुमिक्तानां षडयतनभेदिनाम् ।
सप्तबोध्यङ्गयुक्तानामर्याष्टाङ्गोपदेशिनाम् ॥ क्६.२३ ॥
नवसंयोगहीनानां तेषां दशबलात्मनाम् ।
किं वस्त्वविदितं लोके जिनानां जनचेष्टितम् ॥ क्६.२४ ॥
ततस्तेष्वतिकारुण्याच्चरणालीनमूर्धसु ।
तथेत्युवाच भगवांस्तद्भोज्योपनिमन्त्रणे ॥ क्६.२५ ॥
तैस्तत्संदर्शनक्षीणकिल्बिषैः सममर्पितम् ।
भिक्षुस्ंघैर्वृतो भोज्यं विधिवत्सर्वमाददे ॥ क्६.२६ ॥
ततस्तत्प्रणिधानेन ज्ञानालोकशलाकया ।
ते समुन्मीलितदृशः प्रकाशं ददृशुः पदम् ॥ क्६.२७ ॥
ते सद्यस्तीव्रवैराग्यपरिपक्काः प्रसादिनः ।
प्रव्रज्यायोगमासज्य जग्मुर्जगति पूज्यताम् ॥ क्६.२८ ॥
तत्तेषां कुशलं दृष्ट्वा सहसोपनतं पुरः ।
बभाषे भगवान् पृष्टः किमेतदिति भिक्षुभिः ॥ क्६.२९ ॥
एतैर्यमायं संबन्धः सार्थरक्षणनिष्क्रयैः ।
द्वीपयात्रागतस्यासीदन्यस्मिन्नपि जन्मनि ॥ क्६.३० ॥
अस्ति विस्तीर्णमार्गस्य स्वर्गवर्गावधिर्विधेः ।
पुरी वाराणसी नाम कौशलोत्कर्षहर्षभूः ॥ क्६.३१ ॥
यस्याममलकल्लोलवाहिनी सुरवाहिनी ।
सदा दयेव हृदयं प्रसादयति देहिनाम् ॥ क्६.३२ ॥
अहिंसेव सतां सेव्या विद्येव विदुषां मता ।
क्षमेव सर्वभूतानां या विश्रम्भसुखस्थितिः ॥ क्६.३३ ॥
ब्रह्मकल्पे नृपे तस्या विकसत्कमलाश्रये ।
ब्रह्मदत्ताभिधे लोकं त्रैलोक्यमिव रक्षति ॥ क्६.३४ ॥
प्रियसेनाभिधानोऽभूत्तत्र वैश्रवणोपमः ।
सार्थवाहोऽर्थसार्थानां स्थानमब्धिरिवाम्भसाम् ॥ क्६.३५ ॥
तस्यासीत्सुप्रियो नाम सौजन्यनिलयः सुतः ।
प्रययौ यं समाश्रित्य गुणसार्थः कृतार्थताम् ॥ क्६.३६ ॥
दानशीलक्षमावीर्यध्यानप्रज्ञासमन्वितह् ।
धात्रा विलोभवायैव यः कृतः सुकृतश्रियः ॥ क्६.३७ ॥
तं सर्वविद्याः विशदाः कलाश्च विपुलाशयम् ।
विविशुः सरसोदारा महोदधिमिवापगाः ॥ क्६.३८ ॥
गुणालंकृतचारित्रं लक्षणालंकृताकृतिम् ।
पुरुषोत्तमलुब्धेव यं श्लाघ्यं श्रीरशिश्रियत् ॥ क्६.३९ ॥
कालेन सुकृतक्रीतं पितरि त्रिदिवं गते ।
चक्रे स्कन्धतटे तस्य व्यवहारभरः स्थितिम् ॥ क्६.४० ॥
सोऽचिन्तयदियं लक्ष्मीर्विपुलात्मक्रमागता ।
तथापि मन्ये पर्याप्ता न सर्वार्थिमनोरथे ॥ क्६.४१ ॥
किं तया सुमहत्यापि श्रिया सत्पुरुषस्थया ।
पूर्वागतार्थिउभुक्तेव या शेषार्थिषु निष्फला ॥ क्६.४२ ॥
रत्नाकरस्य वैपुल्यं निष्फलं वेधसा कृतम् ।
अद्यापि पूरितो येन नैकोऽप्यर्थी स वाडवः ॥ क्६.४३ ॥
अथवा पृथुसंकल्पः केनार्थी परिपूर्यते ।
जगामाब्धिरगस्त्यस्य चुलुकाचमनीयताम् ॥ क्६.४४ ॥
किं करोम्यतितापोऽयं श्रीरेका बहविऽर्थिनः ।
न तदासाद्यते वित्तं यत्सर्वार्थिभरक्षमम् ॥ क्६.४५ ॥
पञ्च षट्पूरिता एवं नान्ये श्रीकौस्तुकादिभिः ।
इतिवाद्यापि तप्तोऽन्तर्ज्वलदौर्वानलोऽम्बुधिः ॥ क्६.४६ ॥
तस्मात्करोमि यत्नेन निंसंख्यद्रविणार्जनम् ।
न सहे दुःखनिःश्वासं विमुखस्य मुखेऽर्थिनः ॥ क्६.४७ ॥
इति संचिन्त्य स चिरं सार्थेन महता वृतः ।
रत्नद्वीपपुरं गत्वा विदधे रत्नसंग्रहम् ॥ क्६.४८ ॥
ततः प्रतीपमायान्तं कृतार्थं तं वनेचराः ।
सार्थार्थरणोन्मुक्ता ददृशुर्दस्यवः पथि ॥ क्६.४९ ॥
सार्थार्थहरणे दृष्ट्वा स तेषां साहसोद्यमम् ।
निजसरव्स्वदानेन संररक्षानुयानिम् ॥ क्६.५० ॥
पुनः क्रमेण तेनैव रत्नद्वीपगतागतिः ।
सार्थत्राणाय चौराणां षट्कृत्वः प्रददौ धनम् ॥ क्६.५१ ॥
तथैव त्वां पुण्यविपन्वानिसंप्राप्तस्तथैव तान् (?) ।
ददर्श चौरान् सार्थार्थहरणे अधिकादरान् ॥ क्६.५२ ॥
सोऽचिन्तयदहो वित्तैर्महद्भिः परिपूरिताः ।
मयैते न निवर्तन्ते परार्थहरणोद्यमात् ॥ क्६.५३ ॥
जगत्संपूरयाम्यर्थैरियुक्त्वापि मयासकृत् ।
अहो नु दस्यवो नैते वराकाः परिपूरिताः ॥ क्६.५४ ॥
अचितोत्साहहीनस्य व्याहतोत्तरवादिनः ।
विकत्थनप्रतिज्ञस्य धिङ्मे जन्म कुजन्मनः ॥ क्६.५५ ॥
इति चिन्तयतस्तस्य तप्तस्यानुशयाग्निना ।
विजने प्रययौ रात्रिः संवत्सरशतोपमा ॥ क्६.५६ ॥
तं शोकपङ्कसंमग्नं गजेन्द्रमिव निश्चलम् ।
दीर्घोच्छ्वासं महेशाख्या स्वप्ने प्रोवाच देवता ॥ क्६.५७ ॥
सुमते मा कृथाः शोकं शरीरोच्छोषणं वृथा ।
सत्संकल्पाभिरूढस्य भविष्यति तवेप्सितम् ॥ क्६.५८ ॥
न तदस्ति जगत्यस्मिन् स्वप्नसंकल्पदुर्लभम् ।
यन्न सिध्यति यत्नेन धीराणां व्यवसायिनाम् ॥ क्६.५९ ॥
सा काप्यनुपमा शक्तिरेकस्यापि द्विजन्मनः ।
यदाज्ञास्पन्दितेनैव विन्ध्यः क्ष्मासमतां ययौ ॥ क्६.६० ॥
विषमं समतां याति दूरमायाति चान्तिकम् ।
सलिलं स्थलतामेति कार्यकाले महात्मनाम् ॥ क्६.६१ ॥
परार्थोऽयं तवारम्भः फलत्येव न संशयम् ।
न भवन्ति विसंवादसंदिग्धाः सत्त्ववृत्तयः ॥ क्६.६२ ॥
रत्नानि बदरद्वीपे सन्ति त्रिदशसेविते ।
येषामेकप्रभावोऽपि त्रिजगत्पूरणक्षमः ॥ क्६.६३ ॥
मर्त्यभूमिमतिक्रम्य सा हि भूमिर्महीयसी ।
आसाद्यते पुण्यमयी नासत्त्वैर्नाकृतात्मभिः ॥ क्६.६४ ॥
विषादस्त्यज्यतां पुत्र स्थिरा बुद्धिर्विधीयताम् ।
बदरद्वीपयात्रायामुत्साहः परिगृह्यताम् ॥ क्६.६५ ॥
श्रूयतामेष तत्प्राप्त्यौ दिङ्भात्रानुक्रमक्रमः ।
स्फीतसत्त्वप्रभावस्त्वं संसारोत्तरणक्षमह् ॥ क्६.६६ ॥
अस्ति पश्चिमदिग्भागे समुल्लङ्घ्य महीयसाम् ।
शतानि सप्त द्वीपानां तथा सप्त महाचलान् ॥ क्६.६७ ॥
सप्तापताश्चानुलोमप्रतिलोमाभिधोऽम्बुधिः ।
अनुकूलानिलैर्यस्मिन् पारमाप्नोति पुण्यवान् ॥ क्६.६८ ॥
ततस्तत्तुल्यनामाद्रिर्वातैस्तिमिरमिहकृत् ।
यत्राक्ष्णोर्दिशति स्वास्थ्यममोघाख्या महौषधिः ॥ क्६.६९ ॥
अथावर्ताभिधोऽम्भोधिर्वैरम्भैर्यत्र वायुभिः ।
मज्जनोन्मज्जनैर्जन्तुः सप्तावर्तेषु तार्यते ॥ क्६.७० ॥
आवर्ताख्यस्ततः शैलः शङ्खनाभो निशाचरह् ।
घोरः प्राणहरो यत्र त्रिदशत्रासकृत्स्थितः ॥ क्६.७१ ॥
कृष्णसर्पावृता यत्र शन्खनाभिर्महौषधिः ।
त्रायते पुण्यसंपन्नं नेत्रे शिरसि चार्पिता ॥ क्६.७२ ॥
अथ नीलोदनामाब्धी रक्ताक्षो यत्र राक्षसः ।
मकर्याभिभूतां बुद्धविद्याविद्वान् वशे (?) ॥ क्६.७३ ॥
अथ नीलोदनामाद्रिर्नीलग्रीवः क्षपाचरः ।
प्रतीप्तनेत्रो यत्रास्ते रक्षसां पञ्चभिः शतैः ॥ क्६.७४ ॥
तत्रओषधिममोघाख्यां रक्षत्याशीविषः सदा ।
दृष्टिनिः श्वाससंस्पर्शदंष्ट्रोत्सृजद्विषानलः ॥ क्६.७५ ॥
उपोषधव्रतवता मैत्रेण करुणात्मना ।
लभ्यते सा समुत्सार्य कृष्णसर्पं महौषधिः ॥ क्६.७६ ॥
तं रक्षःशकटं शैलं निष्फलश्लक्ष्णकन्दरम् ।
तामज्जने शिखायां च कृत्वा तरति पुण्यवान् ॥ क्६.७७ ॥
अथ वैरम्भनामाद्रिः पारे यस्योत्तरा तटे ।
घोरा ताम्राटवी नाम महाशालवनान्तरा ॥ क्६.७८ ॥
महानजगरस्तत्र ताम्राक्षो नाम दुःसहः ।
आस्त यस्योग्रगन्धेन वायुनैव न जीव्यते ॥ क्६.७९ ॥
षण्मासान् स्वपतो यस्य लाला व्याप्नोति योजनम् ।
क्षुत्संतप्तस्य षण्मासानल्पीभवति जाग्रतः ॥ क्६.८० ॥
वेणुगुल्मशिलाबद्धां गुहामुत्पाट्य मेदिनीम् ।
प्रायौषधीं दिवारात्रं ज्वलन्तीमञ्जनोचिताम् ॥ क्६.८१ ॥
तस्मादजगराद्घोरादन्यतो वा महौजसः ।
अवैराख्यां बुद्धविद्यां जपतो न भवेद्भयम् ॥ क्६.८२ ॥
ततः सप्त महाशैला वेणुकण्टकसंकटाः ।
ताम्रपटाङ्कपादेन तीर्यन्ते वीर्यशालिना ॥ क्६.८३ ॥
ततश्च शाल्मलीवनं सप्त क्षारतरङ्गिणीः ।
उत्तीर्यासाद्यते प्राङ्गुस्त्रिशङ्कुर्नाम पर्वतः ॥ क्६.८४ ॥
तत्र त्रिशङ्कवो नाम कण्टका वज्रभेदिनः ।
पादयोर्न विशन्त्येव ताम्रपट्टावनद्धयोः ॥ क्६.८५ ॥
त्रिशन्कुर्नाम तटिनी तत्रायःशङ्कुपर्वतः ।
उपस्कीलनदी तत्र ततो द्विधा द्विधा सरित् ॥ क्६.८६ ॥
अथाष्टादशवक्राख्यः पर्वतो निरवग्रहः ।
तत्तुल्यसंज्ञाथ नदी श्लक्ष्णि नाम गिरिस्ततः ॥ क्६.८७ ॥
अथाद्रिधूमनेत्राख्यो धूमनिर्दिग्धदिक्तटः ।
दृष्टिस्पर्शविषैर्व्याप्तः क्रूराशीविषमण्डलैः ॥ क्६.८८ ॥
तन्मूर्ध्नि पल्वलस्यान्तः शिलाबद्धा महागुहा ।
ज्योतीरसो मणिर्यस्यां जीवनी च महौषधिः ॥ क्६.८९ ॥
भित्त्वा गुहां तदभ्यक्रशिरःपादकरोदरः ।
वज्र-मन्त्रबलोपेतः क्रूरसर्पैर्न बाध्यते ॥ क्६.९० ॥
अथोग्रसत्त्वसंकीर्णाः सप्ताशीविषपर्वताः ।
नद्यश्च तद्विधा यासामपारवारिसंपदः ॥ क्६.९१ ॥
एतदुत्तीर्य निखिलं पुण्यैः परहितोद्यतः ।
आरोहति सुधाशैलं शृङ्गैरालिङ्गिताम्बरम् ॥ क्६.९२ ॥
ततस्तस्यापरे पार्श्वे कल्पवृक्षोपशोभितम् ।
पुरं रोहितकं नाम दृश्यते स्वर्गसंनिभम् ॥ क्६.९३ ॥
अस्ति तत्र मघो नाम मघवानिव विश्रुतः ।
सार्थवाहो महासत्त्वः सर्वसत्त्वहिते रतः ॥ क्६.९४ ॥
बदरद्वीपयात्रायामुद्यतस्यानवद्यधीः ।
मार्गोपदेशं देशज्ञः स ते सर्वं करिष्यति ॥ क्६.९५ ॥
इत्युक्त्वोत्साह्य बहुशः शुभद्रैरिव सुप्रियम् ।
वचोभिरिचितैर्देवी सहसान्तरधीयत ॥ क्६.९६ ॥
प्रबुद्धः सुप्रियः सर्वं तत्तथेति विचिन्तयन् ।
प्रतस्थे सत्त्वमारुह्य निजोत्साहपुरःसरः ॥ क्६.९७ ॥
स व्रजन् विनितायासस्तेन निर्दिष्टवर्त्मना ।
पुण्यैर्द्वादशभिर्वर्षैः प्राप र्फितकं पुरम् ॥ क्६.९८ ॥
अत्रान्तरे कर्मयोगात्तत्र सार्थपतिर्मघः ।
व्याधिना दुश्चिकित्स्येन बभूवास्वस्थविग्रहः ॥ क्६.९९ ॥
अलब्धान्तःप्रवेशोऽथ गृहे राजगृहोपमे ।
तस्य व्यलम्बत द्वारं सुप्रियः कार्यसिद्धये ॥ क्६.१०० ॥
ततो वैद्यापदेशेन स प्रवेशमवाप्तवान् ।
उपयोगकथाप्रज्ञा न कस्यादरभूमयः ॥ क्६.१०१ ॥
आयुर्वेदविधानज्ञः स तस्यारिष्टलक्षणैः ।
षण्मासशेषमेवायुर्ज्ञात्वा चिन्तान्तरोऽभवत् ॥ क्६.१०२ ॥
तस्य प्रियहितप्रायो भैषज्यपरिचर्यया ।
अत्यल्पेनैव कालेन सुप्रियः प्रियतां ययौ ॥ क्६.१०३ ॥
भैषज्ययुक्तिस्तत्प्रीत्या तस्य वल्लभतां ययौ ।
प्रियोपनीतं यत्किं चित्तत्सर्वं मनसः प्रियम् ॥ क्६.१०४ ॥
प्रियोपचारैस्तस्याथ व्याधिराद्रावमाययौ ।
आधिः शाम्यति सत्सङ्गात्तओ व्याधिर्विशीर्यते ॥ क्६.१०५ ॥
ततः संजातविश्रम्भः सुप्रियः प्रणयान्मघम् ।
चक्रे विदितवृत्तान्तं पश्चान्निजकथाक्षणे ॥ क्६.१०६ ॥
बदरद्वीपयात्रायां तस्योत्साहं महात्मनह् ।
परार्थे निश्चलं ज्ञात्वा तमूचे विस्मयान्मघः ॥ क्६.१०७ ॥
अहो बतास्मिन् संसारे विःसारे साररूपिणः ।
जायन्ते मणयः केचित्परचिन्तापरायणाः ॥ क्६.१०८ ॥
नवं वयः प्रिया मूर्तिः परार्थप्रवणं मनः ।
पुण्योचितस्तथैवायं स्थाने गुणसमागमः ॥ क्६.१०९ ॥
इयतीं भूमिमुल्लङ्घ्य परार्थे त्वमुपागतः ।
करोमि तव साहाय्यं किं त्वहं भृशमातुरः ॥ क्६.११० ॥
निबद्धावधयः प्राणाः प्रयान्त्येव शरीरिणाम् ।
ते व्रजन्तु ममान्तेऽपि त्वत्समाहितहेतुताम् ॥ क्६.१११ ॥
एवमेव व्ययो यस्तु व्ययः स परिगण्यते ।
परार्थे जीवितस्यापि व्ययो लाभशतैः समः ॥ क्६.११२ ॥
न मया बदरद्वीपं दृष्टं किं तु श्रुतं मया ।
महाब्धौ दिस्कमुद्देशं तैस्तैर्जानामि लक्षणैः ॥ क्६.११३ ॥
इत्युक्त्वा भूपतिं सुहृद्बन्धुवाक्येऽप्यनादरः ।
स मङ्गलप्रवहणं सुप्रियेण सहादधे ॥ क्६.११४ ॥
ततः प्रवहणारूढौ तौ योजन्शतान्यपि ।
पवनस्यानुलोम्येन जग्मतुर्विपुलाशयौ ॥ क्६.११५ ॥
स्थाने स्थाने जलं दृष्ट्वा नानावर्णं महोदधेः ।
किमेतदिति प्रपच्छ सुप्रियः कौतुकान्मघम् ॥ क्६.११६ ॥
जले लोहाचलाः पञ्च सन्त्यस्य पयसां निधेः ।
ताम्ररूप्यमयाश्चान्ये हेमरत्नमयाः परे ॥ क्६.११७ ॥
तेषां छायाविशेषेण नानावर्णः पदे पदे ।
दृश्यतेऽब्धिरयं दीप्तः प्राप्तान्तरोद्गतौषधिः ॥ क्६.११८ ॥
इत्युक्त्वा व्याधिनाक्रान्तः प्राप्तकालावधिर्मघः ।
प्राणान्मुमोच सत्कीतिविन्यस्तस्थिरजीवितः ॥ क्६.११९ ॥
वज्रलेपादपि दृढं यथा सत्त्वं महात्मनाम् ।
तथा यदि भदेदायुः किमसाध्यं भवे बह्वेत् ॥ क्६.१२० ॥
कूलावाप्तप्रवहणह्सुप्रियस्तद्वियोगजम् ।
शुचं संस्तभ्य विदधे सुहॄदस्तनुसत्क्रियाम् ॥ क्६.१२१ ॥
एतदेवोन्नतं लक्ष्म सत्त्वोत्साहमहात्मनाम् ।
विच्छिन्नालम्बने काले यत्कर्तव्यदृढं मनः ॥ क्६.१२२ ॥
पुनः प्रवहणारूढः स समुत्तीर्य वारिधिम् ।
रत्नपर्वतपार्श्वेन विवेश विकटाटवीम् ॥ क्६.१२३ ॥
न वियोगैर्न चोद्वेगैर्नाभियोगैर्द्विषामपि ।
न रोगैः क्लेशभोगैर्वा हीयते महतां मतिः ॥ क्६.१२४ ॥
स तत्राक्रान्तगगनं निरुद्धाशेषदिक्तटम् ।
दुरारोहं ददर्शाग्रे मूर्तं विघ्नमिवाचलम् ॥ क्६.१२५ ॥
उपायहीनस्तं दृष्ट्वा गिरिं मूर्खमिवोद्धतम् ।
अधः पल्लवशय्यायां सुप्तः सोऽचिन्तयत्क्षस्णम् ॥ क्६.१२६ ॥
अहो बत कियान् कालः प्रयातः प्रस्थितस्य मे ।
बदरद्वीपनामापि न नाम श्रूयते क्कचित् ॥ क्६.१२७ ॥
व्यवसायसहायो मे योऽभूत्पुण्यपणैः परम् ।
भग्नप्लव इवाकाले सोऽपि कर्मोर्मिविप्लवैः ॥ क्६.१२८ ॥
नष्टोपायेऽप्युपायेऽस्मिन् व्यवसायान्महीयसः ।
न नाम विनिवर्तेऽहं सिद्धिर्निधनमस्तु वा ॥ क्६.१२९ ॥
तदेकं जन्मयात्रासु पूज्यं जन्म जगत्र्त्रये ।
यस्मिन् परोपक्राराय जायते जीवितव्ययः ॥ क्६.१३० ॥
इति चिन्ताकुलं तत्र तं ज्ञात्वा सत्यसागरम् ।
नीलो नाम समभ्येत्य यक्षः प्राहाचलाश्रयः ॥ क्६.१३१ ॥
पूर्वेण योजनं गत्वा त्रीणि शृङ्गाणि भूभृतः ।
वेत्रसोपाननिश्रेण्या समारुह्याथ गम्यताम् ॥ क्६.१३२ ॥
इति यक्षोपदेशेन स विलङ्घ्य महाचलम् ।
ददर्शाग्रे समुत्तुङ्गश्रृङ्गं स्फटीकभूधरम् ॥ क्६.१३३ ॥
तस्मिन्नेकशिलाश्लक्ष्णे दुर्गमे पक्षिणामपि ।
मुहूर्तमभवत्तस्य निर्व्यापारो मनोरथः ॥ क्६.१३४ ॥
अभ्युन्नतं निरालम्बं स्वसंकल्पमिवाचलम् ।
स तं विचार्य सुचिरं चित्रन्यस्त इवाभवत् ॥ क्६.१३५ ॥
अथ चन्द्रप्रभो नाम यक्षः शैलगुहाशयः ।
अभ्येत्यः सत्त्वसंपन्नं तमभाषट वुस्मितः ॥ क्६.१३६ ॥
क्रोशमात्रमितो गत्वा पूर्वेणापूर्वविभ्रमम् ।
दृश्यते चन्दनवनं बालानिलचलल्लतम् ॥ क्६.१३७ ॥
तत्रास्ते प्रसरा नाम गुहालीना महौषधिः ।
लभ्यते देहरक्षायै समुत्तोल्य महाशिलाम् ॥ क्६.१३८ ॥
तत्प्रभावकृतालोकं सोपानैः स्फटिकाचलम् ।
सहसैव समारुह्य गम्यतामीप्सिताप्तये ॥ क्६.१३९ ॥
तत्क्षणात्कृतकार्थेव सा प्रयाति महाउषधिः ।
न खेदस्तत्कृते कार्यस्तडिल्लोलाः प्रियाप्तयः ॥ क्६.१४० ॥
इति यक्षोपदिष्टेन विधानेन स भूधरम् ।
समुत्क्रम्य ददर्शाग्रे नगरं हेममन्दिरम् ॥ क्६.१४१ ॥
मेरूकूटैरिवाकीर्णं प्रकाशैरिव निर्मितम् ।
सवाश्चर्यैरिव कृतं तद्दृष्ट्वा विस्मितोऽभवत् ॥ क्६.१४२ ॥
महाहेमकपाटाभ्यां रुद्धद्धारं विलोक्य तत् ।
निर्जनं वारसंचारं वनान्ते निषसाद सः ॥ क्६.१४३ ॥
अत्रान्तरे दिनस्यान्ते व्योमानन्तपथाध्वगः ।
अवापास्ताचलोपान्तं परिश्रान्त इवांशुमान् ॥ क्६.१४४ ॥
अस्तं गते सहस्रांशौ रजनीरमणी शनैः ।
तारापतिमिवान्वेष्टुं प्रससाराभिसारिका ॥ क्६.१४५ ॥
अथ प्रकाशविबह्वैः सर्वाशापूरणोन्मुखः ।
बोधिसत्त्व इव स्वच्छः सुधादीधितिरुद्ययौ ॥ क्६.१४६ ॥
स्फीटा तमः समूहस्य निःशेषप्रशमोचिता ।
मानसोल्लासिनी ज्योत्स्ना सत्त्ववृत्तिरिवाबभौ ॥ क्६.१४७ ॥
तमोमोहं जहारेन्दुर्दिशां दिनवियोगजम् ।
परोपकारे हि परो दूरारोहो महात्मनाम् ॥ क्६.१४८ ॥
सुप्रियश्चन्द्रकिरणैः पूर्यमाणतनुः क्षणम् ।
निद्रां कार्यसमुद्रोर्मिक्षोभमुद्रामवाप्तवान् ॥ क्६.१४९ ॥
क्षपायां क्षीयमाणायां गुणदाक्षिण्यसादरा ।
जगाद देवता स्वप्ने महेशाख्या समेत्य तम् ॥ क्६.१५० ॥
अहो बत महासत्त्व सत्तत्त्वाभिनिवेशिना ।
परार्थे विपुलः क्लेशः कृतः सुकृतिना त्वया ॥ क्६.१५१ ॥
अल्पशेषे प्रयासेऽस्मिन्नोद्वेगं कर्तुमर्हसि ।
अपर्युषितसत्त्वानां स्वाधीनाः सर्वसिद्धयः ॥ क्६.१५२ ॥
हैमं यदेतन्नगरं त्रीणि चान्यान्यतः परम् ।
सन्ति रत्नपुराण्यत्र विचित्राण्युत्तरोत्तरम् ॥ क्६.१५३ ॥
तेभ्यो निर्यान्ति किन्नर्यश्चतश्रोऽष्टौ च षोडश ।
द्वात्रिंशच्च क्रमेणैव त्वया द्वारि विघट्टिते ॥ क्६.१५४ ॥
जितेन्द्रियस्य भवतस्तत्प्रमादमवेदिनः ।
किमन्यदचिरेणैव्वाञ्छिताप्तिर्भविष्यति ॥ क्६.१५५ ॥
इत्युक्तः सादरं देव्या प्रतिबुद्धोऽथ सुप्रियः ।
जघान नगरद्वारं त्रिः समभ्येत्य पाणिना ॥ क्६.१५६ ॥
ततश्चतस्रः किन्नर्यो निर्ययुस्तरलेक्षणाः ।
आश्चर्यतरुमञ्जर्य इव लीलानिलाकुलाः ॥ क्६.१५७ ॥
मानसिल्लासकारिण्यो नयनामृतवृष्टयः ।
वदनेन्दुसमुद्योतैर्दिवापि कृतचन्द्रिकाः ॥ क्६.१५८ ॥
ताः संपूज्य स्मरोदारं सुप्रियं प्रियदर्शनाः ।
तस्याभिलाषप्रणयैरातिथ्यमिव चक्रिरे ॥ क्६.१५९ ॥
चन्द्रकान्तसमासीनं कृतासनपरिग्रहाः ।
जीवनौषधयो जाताः स्मरस्येव सविग्रहाः ॥ क्६.१६० ॥
तास्तमूचुः समुन्मीलद्विलासहसितत्विषः ।
ददत्य इव कर्पूरं प्रेमोपायनतां पुरः ॥ क्६.१६१ ॥
अहो धन्या वयं यासां सद्गुणालकृताकृतिः ।
स्वयएम्वाभिगम्योऽपि भवानद्यागतो गृहम् ॥ क्६.१६२ ॥
विधेषः कस्य पीयूषे चन्दने कस्य वारुचिः ।
इन्दौ मन्दादरः को वा साधुः कस्य न संमतः ॥ क्६.१६३ ॥
स्त्रीणां यद्यपि सौभाग्यभङ्गाय प्रणयः स्वयम् ।
क्रमस्त्वद्दर्शनेनैव तथापि मुखरीकृताः ॥ क्६.१६४ ॥
इदं च किन्नरपुरं वयं च प्रणयार्पिताः ।
रत्नं च सौभाषणिकं साधो स्वाधीनमेव ते ॥ क्६.१६५ ॥
इति तासां वचः श्रुत्वा सुप्रियः प्रणयोचितम् ।
उवाच सत्त्वधवलां दिशन् दशनचन्द्रिकाम् ॥ क्६.१६६ ॥
बहुमानास्पदं कस्य नेदं संभाषणामृतम् ।
आत्मनोऽप्यादरस्थानं बह्वतीभिः कृतादरः ॥ क्६.१६७ ॥
श्लाघ्यं दर्शनमेवेदं तत्राप्ययमनुग्रहः ।
मुक्तालतास्तापहराः किं पुनश्चन्दनोक्षिताः ॥ क्६.१६८ ॥
एवं विधानां स्वच्छानामैन्दवीनामिव त्विषाम् ।
आकृतीनां समुचिता रुचिरा लोकवृत्तयः ॥ क्६.१६९ ॥
औचित्यचारुचरितं प्रसादविशदं मनह् ।
वात्सल्यपेशला वाणी न कस्यादरभूमयः ॥ क्६.१७० ॥
गृहीतोऽस्माभिराचारः पूजापरिकरोचितह् ।
आत्मार्पणं कुलान्तं वः परायत्ता हि योषितः ॥ क्६.१७१ ॥
कन्याभावादपक्रान्ता यूयं परपरिग्रहाः ।
विश्रम्भेण भगिण्यो मे जनन्यः स्नेहगौरवात् ॥ क्६.१७२ ॥
परवित्तं विषं येषां जनन्यश्चान्ययोषितः ।
परहिंसात्महिंसौव पक्षास्तेषां निरत्ययाः ॥ क्६.१७३ ॥
पौशुन्यासत्यपारुष्यभिन्नवादोज्झितं वचः ।
सदैव वदने येषां तेषां सर्वाशिषा दिशः ॥ क्६.१७४ ॥
अभिध्यारहितं चेतो व्यापारपरिवर्जितम् ।
मिथ्यादृष्टिविहीनं च येषां ते सत्पथं श्रिताः ॥ क्६.१७५ ॥
दशाकुशलमार्गेभ्यो निर्गतानां निसर्गतः ।
एते कुशलवर्गस्य मार्गाः स्वर्गे निरर्गलाः ॥ क्६.१७६ ॥
धीरेव धन्यं धनमुन्नतानां विद्यैव चक्षुर्विजितेन्द्रियाणाम् ।
दयैव पुण्यं पुरुषोत्तमानामात्मैव तीर्थं शुचिमानसानाम् ॥ क्६.१७७ ॥
एवंविधोऽयं गुणसंनिवेशः शीलेन वैमल्यमुपैति पुंसाम् ।
सद्रत्नमुक्तानिकरातिरितं शीलं सतामाभरणं वदन्ति ॥ क्६.१७८ ॥
इत्युक्तमाकर्ण्य गुणानुरूपं सत्त्वार्थिना तेन जितेन्द्रियेण ।
तुष्टास्तमूचुर्भुवि चन्द्रलोकं ताः कौतुकायैवमुखैः सृजन्त्यः ॥ क्६.१७९ ॥
मणेरिवानर्घगुणोज्ज्वलस्य दृष्टैव साधोरुचिता रुचिस्ते ।
ययैव मौलौ हृदये श्रुतौ च सद्भिः सदैवाभरणीकृतोऽसि ॥ क्६.१८० ॥
मणिर्महार्हः प्रथितप्रभावः प्रगृह्यतामात्मसमस्त्वयायम् ।
ध्वजार्पितो वर्षति योजनानां सहस्रमेवार्थिसमीहितं यः ॥ क्६.१८१ ॥
उक्त्वेति रत्नप्रवरं तरुण्यस्तस्मेइ ददुर्मूर्तमिव प्रसादम् ।
आदाय तं च प्रणयोपचारं सोऽपि द्वितीयं पुरमाप रौप्यम् ॥ क्६.१८२ ॥
तत्रादरात्तद्द्विगुणाभिरेव स पूजितह्किन्नरकामिनीभिः ।
क्रमेण तेनैव विशुद्धबुद्धिर्लेभे मणिं तद्द्विगुणप्रभावम् ॥ क्६.१८३ ॥

  • * * * * * * * * * * * * * * * ।
  • * * * * * * * * * * * * * * * ॥ क्६.१८४ ॥

प्राप्तश्च तं रत्नमयं चतुर्थं पुरं ततः सर्वपुराधिकश्चि ।
सोऽभ्यर्थितस्तद्द्विगुणाभिरग्रे गुणाधिकः किन्नरसुन्दरीभिः ॥ क्६.१८५ ॥
तथैव सद्धर्मकथाप्रसङ्गैस्तातोषितास्तेन सुसंयतेन ।
उत्फुल्लनीत्पलदामदीर्घकटाक्षविक्षिप्तकरास्तमूचुः ॥ क्६.१८६ ॥
भ्रातास्ति नः किन्नरराजवंशरत्नाकरेन्दुर्बदराभिधानः ।
तस्यास्पदं द्वीपमिदं महार्हं स्वनामचिह्नं प्रथितं समृद्ध्या ॥ क्६.१८७ ॥
रत्नं चेदं नियमविधिना पोषधाख्यव्रतेन न्यस्तं भास्वत्किरणनिकरं पुण्यभाजां प्रयत्नात्वर्षत्येव स्थिरपरहितव्याप्तये गृह्यतां तत् ॥ क्६.१८८ ॥
इत्युत्पाट्यामरतरुफलं सादरं सुन्दरीभिः
प्रेमोद्दामप्रणयसुभगं दत्तमासाद्य रत्नम् ।
बालाहाख्यं विजितपवनं तं प्रकृष्टं तुरङ्गं
सोऽप्यारुह्य स्वनगरमगाल्लब्धमार्गोपदेशः ॥ क्६.१८९ ॥
तस्मिन् काले विपुलकुशलैः स्वर्गमार्गं प्रयाते
वाराणस्यां विशदयशसि क्ष्मापतौ ब्रह्मदत्ते ।
श्रीमान् सर्वप्रणयिफलदः सुप्रियः पौरमुख्यैर्
लोकत्राणे विनिहितमतिर्धर्मराज्येऽभिषिक्तः ॥ क्६.१९० ॥
ततः शिरःस्नानविधिक्रमेण तत्पञ्चदश्यां ध्वजमूर्ध्नि रत्नम् ।
स पोषधोपोषित एव धृत्वा चकार विश्वं परिपूर्णकामम् ॥ क्६.१९१ ॥
कृत्वा यात्रां परहितफलां वत्सराणां शतेन
स्थित्वा राज्ये महति निखिलं पूरयित्वा च लोकम् ।
पुत्रं धृत्वा नरपतिपदे प्राप्य सर्वोपशान्तिं
तत्त्वज्ञोऽसौ किमपि परमं ब्रह्मभावं जगाम ॥ क्६.१९२ ॥
स्युरेते दस्यवः सर्वे पूर्वं ये पूरिता मया ।
रत्नद्रीपाभिगमने तस्मिन् सुप्रियजन्मनि ॥ क्६.१९३ ॥
इति शास्ता स्ववृत्तान्तकथया विदधे विभुः ।
दानवीर्योपदेशेन भिक्षूणामनुशासनम् ॥ क्६.१९४ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां बदरद्वीपयात्रावदानं नाम षष्ठः पल्लवः ॥


७. मुक्तालतावदानम् ।

कुश्लप्रणिधानशुद्धधान्मां विमलालोकविवेकबोधकानाम् ।
परिकीर्तनमात्रमेव येषां भवमोहापहतेस्त एव धन्याः ॥ क्७.१ ॥
पुरा पर्षत्सहस्राणां न्यग्रोधोपवनस्थितिः ।
कपिलाख्ये पुरे चक्रे भगवान् धर्मदेशनाम् ॥ क्७.२ ॥
अमन्दानन्दसंदोहस्यन्दि चन्दनशीतलम् ।
तस्य वागमृतं धन्याः कृताङ्जलिपुटाः पपुः ॥ क्७.३ ॥
राजा शुद्धोदनस्तत्र धर्मश्रवणसंगमे ।
पुण्योपदेशसलिलैर्लेभे वैमल्यनिर्वृतिम् ॥ क्७.४ ॥
अथ तत्र महानामा शाक्यराजकुलोद्भवः ।
धर्मोपदेशमाकर्ण्य प्रातः स्वगृहमब्रवीत् ॥ क्७.५ ॥
अहो नु भगवान् बुद्धो धर्मः संघश्च सिद्धये ।
बुद्धोत्पादोऽयमस्माकं निर्वाणाय महाफलः ॥ क्७.६ ॥
उपदेशविशेषाप्तानिर्वृतेस्तस्य तद्वचः ।
श्रुत्वा शशिप्रभा पत्नी प्रणयात्तमभाषतः ॥ क्७.७ ॥
अनुग्राह्या भगवतः पुरुषाः पुण्यभागिनह् ।
निन्द्यास्तदुपदेशानामनर्हा योषितो वयम् ॥ क्७.८ ॥
इति जायावचः श्रुत्वा स जगाद जगद्गुरोः ।
भद्रे भगवतो नास्ति भेदः कारुण्यदर्शने ॥ क्७.९ ॥
समा सर्वत्र भा भानोः समा वृष्टिः पयोमुचः ।
समा भगवतो दृष्टिः सर्वसत्त्वानुकम्पिनः ॥ क्७.१० ॥
महाप्रजापतेर्वाक्यादपराह्णक्षणं तपः ।
शुद्धोदनः करोत्येव राजा बह्गवतोऽन्तिके ॥ क्७.११ ॥
इति पत्युः प्रियगिरा वृता शाक्याङ्गनागणैः ।
याचने तद्भगवतह्सा पुण्योपवनं ययौ ॥ क्७.१२ ॥
सा सत्वकुसुमं तत्र तं ददर्श महाफलम् ।
प्रशमामृतसंसिक्तं करुणाकल्पपादपम् ॥ क्७.१३ ॥
लतेव पवनानम्रा तं दूरात्प्रणनाम सा ।
लोभेनेव परित्यक्रा च्युतकर्णोत्पलच्छलात् ॥ क्७.१४ ॥
विलोक्य काञ्चनरुचिं रत्नभूषणभूषिताम् ।
आनन्दनामा भिक्षुस्तामुवाच प्रहितोद्यतः ॥ क्७.१५ ॥
वेषः प्रशमशून्योऽयं मातर्मुनितपोवने ।
दर्पोत्सिक्तो न युक्तस्ते विरक्तानामिदं पदम् ॥ क्७.१६ ॥
गुणसंयमसिक्तानि मुखराभ्रणान्यहो ।
नेहास्तद्ग्रहणं युक्तमितीवोपदिशन्ति ते ॥ क्७.१७ ॥
इत्युक्ता तेन सा तन्वी वैलज्यविनतानना ।
उन्मुच्याभरणं सर्वं प्राःिणोन्निजमद्निरम् ॥ क्७.१८ ॥
उपविष्टेषु सर्वेषु निर्दिष्टकुशलस्ततः ।
अनित्यतैवं भगवानुपदेशं प्रवक्रमे ॥ क्७.१९ ॥
महामोहप्रभावोऽयं येन नित्यमनित्यताम् ।
नित्यतामिव मन्यन्ते मूढा जगति जन्तवः ॥ क्७.२० ॥
असत्ये रमते लोकः सत्यप्रत्ययमोहितः ।
न वेत्ति सर्वभावानामभावानुभवां स्थितिम् ॥ क्७.२१ ॥
केचिद्व्याकरणैः परे श्रुतिपथैस्तर्कप्रवादैः परे केचित्तन्त्रपरिग्रहैर्बहुविधैरन्यैः कलाकौशलैः ।
संसक्ताः पुनरुक्तजन्मशरणौ याता सहैव क्षयं
तत्राप्यक्ष्ययलीलया क्षणपदं मुग्धौर्निबद्धा धृतिः ॥ क्७.२२ ॥
विषयविषमापायः कायः प्रपञ्च(म)याशया
खरतरमरुस्फाराकारो मोहभावो भवः ।
हितभूमि (?) तथाकार्यं कार्यं विवेकिनां तथा
निरवधिरयं दृष्ट्वा व्याधिर्यथा (हि) निवर्तते ॥ क्७.२३ ॥
इत्याद्यनित्यसंस्कारसंयुक्तं युक्तमुद्यते ।
धर्मोपदेशकुशलं वक्तुं भगवति स्वयम् ॥ क्७.२४ ॥
एका शाक्यवधूस्तत्र रूपसौभाग्यगर्विता ।
स्थिता शौशवतारुण्यसंघौ वयसि दुःसहे ॥ क्७.२५ ॥
मुक्ताहारं स्तनतटे लोलापाङ्गैर्मुहुर्मुहुः ।
आलिलोके यशःस्फारसारं रतिपतेरिव ॥ क्७.२६ ॥
हारावलोकिनीं दृष्ट्वा तामनेकाग्रहादसौ ।
अचिन्तयाद्विरक्तेन मगत्पत्नी शशिप्रभा ॥ क्७.२७ ॥
इयं धर्मोपदेशेऽपि चपला हारमीक्षते ।
भावानां न शृणोत्येव मूढा क्षणिकतामिमाम् ॥ क्७.२८ ॥
स्वं हारं दर्शयित्वास्या हारोत्साहं हराम्यहम् ।
अधिकालोकनेनैव दर्पः शाम्यति देहिनाम् ॥ क्७.२९ ॥
इति संचिन्त्य सा दासीं रोहिकाख्यामभाषत ।
रोहिके गच्छ मे हारं गृहात्सत्वरमाहर ॥ क्७.३० ॥
इत्युक्ता सा तया तत्र प्रवृत्ते धर्मसंश्रवे ।
अकालगमनोद्विग्ना निःश्वस्याचिन्तयत्क्षणम् ॥ क्७.३१ ॥
अहो बतान्तरायोऽयं संजातः कुशले मम ।
नास्मिन् श्रोतुं लभे धर्मं यत्परायत्तजीविता ॥ क्७.३२ ॥
पुण्यसौरभसंभारात्कीर्णकारुण्यकेसरात् ।
मुखपद्माद्भगवतो धन्यः प्राप्नोति वाङ्भधुः ॥ क्७.३३ ॥
अहो स्वाच्छन्द्यविच्छेदस्तनुभङ्गः सुखक्षयः ।
सेवा जगति जन्तूनां दुःखे दुःखपरंपरा ॥ क्७.३४ ॥
सेवाप्रयाससंप्राप्तं धनमानकणोदयम् ।
तत्पमत्युष्णनिःश्वासैरहो कृच्छ्रेण पीयते ॥ क्७.३५ ॥
मानग्लानिर्गुणग्लानिरोजःपुनशमः श्रमह् ।
प्रथमं सेवकस्यैतत्फलमीश्वरदर्शने ॥ क्७.३६ ॥
लौही बन्धनशृङ्खला चरणयोर्हेलावमानावनी
स्वव्यापारनिषेधनित्यनियती निद्रासुखद्रोहिणी ।
आशास्यस्य विशालजालसरणिः सत्सङ्गभोगाशनिः
मुग्धानां मृगतृष्टिकामरुमही सेवा शरीरक्षयः ॥ क्७.३७ ॥
इति संचिन्त्य सुचिरं सा जगाम तदाज्ञया ।
सेवाविक्रीतकायानां स्वेच्छाविहरणं कुतः ॥ क्७.३८ ॥
व्रजन्तीं तां परप्रेष्यां कृपणां करुणाकुलः ।
निरीक्ष्य बह्गवान् दिव्यचक्षुषाचिन्तयत्क्षस्णम् ॥ क्७.३९ ॥
अस्मिन् जन्मनि शेषोऽस्या संपूर्णो जीवितावधिः ।
इयं वराकी संसारादुद्धर्तव्या स्वयं मया ॥ क्७.४० ॥
अथ तां कर्मयोगेन व्रहन्तीं सहसा पथि ॥
वत्सवात्सल्यविवशा शृङ्गाभ्यामाजघान गौः ॥ क्७.४१ ॥
सा प्रदघ्यौ भगवतः प्रसादात्तन्मयस्मृतिः ।
जन्मान्तराधिवासेन बुद्धालम्बनमानसा ॥ क्७.४२ ॥
अहो कर्मोर्मिभिः शीर्णे संसारमकराकरे ।
जन्मावर्तेषु जन्तूनां मज्जनोन्मज्जनक्रमः ॥ क्७.४३ ॥
पुंसो ललाटविपुलोपलपट्टिकासु निःशर्मकर्मघटितप्रकटाङ्कटङ्कैः ।
नयस्तानि जन्ममरणप्रसराक्षराणि नैतानि पाणिपरिमार्जनया चलन्ति ॥ क्७.४४ ॥
इयं कर्मायत्ता प्रचुरचित्रवैचित्ररचना
नराणां मायूरच्छदपटलतुल्या परिणतिः ।
यया गर्भारम्भे क्रमनिपतने वृद्धिसमये
क्षये वा नान्यत्प्राभजत तनुलेखाच्छविरति ॥ क्७.४५ ॥
संचिन्त्याथ पुरः प्रवृत्तसुदशासन्नावसन्नस्थितिं प्राप्तेवासमदासभावकलनावैलक्ष्यनिः स्पन्दताम् ।
आधाय प्रणिधानधाम्नि धवले सद्धर्मशुद्धां धियं
संसारे विचिकित्स्य एव मलिनं तत्याज सा जीवितम् ॥ क्७.४६ ॥
ततः सा सिंहलद्वीपे समीपे स्वर्गसंपदाम् ।
चन्द्रलेखेव दुग्धाब्धौ दिव्यद्युतिरजायत ॥ क्७.४७ ॥
आधानजन्मनस्तस्य मुक्तावर्षें दिवश्च्युते ।
साभून्मुक्तालता नाम सिंहलाधिपतेः सुता ॥ क्७.४८ ॥
सा पुण्यमिव लावण्यं वहन्ती वृद्धिमागता ।
लेभे विवेकेनाङ्गानां संतोषमिव यओवनम् ॥ क्७.४९ ॥
ततः कदाचिद्वणिजः श्रावस्तीपुरवासिनः ।
मकराकरमुत्तीर्य सिंहलद्वीपमाययुः ॥ क्७.५० ॥
ते तत्र रात्रिपर्यन्ते विश्रान्तिसुखमाजगुः ।
धर्मार्थगाथासंनद्धप्रबुद्धबुद्धभाषितम् ॥ क्७.५१ ॥
त्दन्तःपुरहर्म्यस्था श्रुत्वैव श्रवणामृतम् ।
किमेतदिति पप्रच्छ तानानाय्य नृपात्मजा ॥ क्७.५२ ॥
ते तामूचुः प्रमुदितामिदं बुद्धस्य ब्ःाषितम् ।
स्वभावार्हं भगवतः सर्वसत्त्वानुकम्पिनह् ॥ क्७.५३ ॥
बुद्धामिधानं श्रुत्विव पुलकालंकृताकृतिः ।
सा बभूव समुद्भूतसंविद्भव्यानुभावभूः ॥ क्७.५४ ॥
उन्मुभी सामयूरिव शब्दैरेव पयोमुचः ।
क एष भगवान् बुद्ध इति पपर्च्छः तान् पुनः ॥ क्७.५५ ॥
ततस्ते निखिलं तस्यै श्रद्धासंवर्धितादराः ।
न्यवेदयन् पुण्यमयीं भगवच्चरितस्थितिम् ॥ क्७.५६ ॥
अथ सा तत्कथावाप्तप्राग्जन्मकुशलोदया ।
विज्ञप्तिलेखं प्रददौ तेषां भगवतः कृते ॥ क्७.५७ ॥
कालेन सिन्धुमुत्तीर्य संर्पाप्तास्ते निजां पिरीम् ।
प्रणम्यावेद्य तद्वृत्तं ददुर्लेखं महात्मने ॥ क्७.५८ ॥
भगवानपि सर्वज्ञः पूर्वमेव विभाव्य तत् ।
मुक्तालतायाः कृपया स्वयं लेखमवाचयत् ॥ क्७.५९ ॥
अहो स्मरणमेव ते किमपि पुण्यपण्यं सतां
भवातिबह्वभैषजं व्यसनतापतृष्णापहत् ।
भवन्मयकथाक्रमोपनतसंविदास्वादभूः
स एष भगवन्महानमृतसंविभागो मम ॥ क्७.६० ॥
इति संक्षिप्तलेखार्थं विभाव्य भगवान् स्वयम् ।
ईषत्स्मित्विषा सत्त्वप्रकाशमदिशद्दिशाम् ॥ क्७.६१ ॥
ततश्चित्रकराशक्यां प्रभावैरनुपूरिताम् ।
भगवान् प्राहिणोत्तस्यै न्यस्तां स्वप्रतिमां पटे ॥ क्७.६२ ॥
पुनः प्रवहणारूढा वणिजस्ते तदाज्ञया ।
अवाप्य सिंहलद्वीपं तस्यै पटमदर्शयन् ॥ क्७.६३ ॥
हेमसिंहासनन्यस्ते पटे दृष्ट्वा तथागतम् ।
जनस्तन्मयताध्यानादेकीभावमिवाययौ ॥ क्७.६४ ॥
अधस्ताल्लिखितं तस्मिन् पुण्यप्राप्तमदृश्यत ।
तिस्रः शरण्या गतयः पञ्च शिक्षापदाणि च ॥ क्७.६५ ॥
सप्रतीत्यसमुत्पादः सानुलोमविपर्ययः ।
आर्याष्टाङ्गस्तथा मार्गः परमामृतनिर्भरः ॥ क्७.६६ ॥
स्वयं भगवता व्यस्तं तस्योपरि सुभाषितम् ।
शोभते भावनालीनं भ्राजिष्णु कनकाक्षरम् ॥ क्७.६७ ॥
विषमविषयालोलव्यालावलीवलयाकुलात्
तरुणतिमिरान्निष्क्रम्यास्मात्प्रमोहमयाद्गृहात् ।
जननमरणक्लेशावेशप्रवृत्तपृथिव्यथा
व्रजत शरणं बौद्धं धर्मं न चात्र भवाद्भयम् ॥ क्७.६८ ॥
जिनप्रतिकृतिं पुण्यां पश्यन्ती पार्थिवात्मजा ।
अनादिकालोपचितां मुमोचाज्ञानवासनाम् ॥ क्७.६९ ॥
प्रांशुं कवत(?) काञ्चनकान्तकायं सुस्कन्धमाजानुभुजाभिरामम् ।
ध्यानावधानार्थनिमीलिताक्षं लावण्यधारायिततुङ्गनासम् ॥ क्७.७० ॥
स्वभावभव्यं प्रविभासमानं प्रलम्बनिर्भूषणकर्णपाशम् ।
बालप्रवालारुणवल्कलाङ्कं संसक्तसंध्याभ्रमिवामराद्रिम् ॥ क्७.७१ ॥
त्विषा दिषां शीलमिवादिशन्तमानन्ददानोद्यतवक्त्रचन्द्रम् ।
क्षमागुणं क्षामिव शिक्षयन्तं पुण्योचिता सा सुभगं विलोक्य ॥ क्७.७२ ॥
प्रणामपर्यन्तकपोलचुम्बिकर्णोत्पलानां परिवर्तनेन ।
निरस्य निःसारशरीरतृप्तिं सत्यानुभावं परमं प्रपेदे ॥ क्७.७३ ॥
स्रोतःसमापत्तिफलप्रकाशं सासाद्य तत्र क्षणलब्धबोधिः ।
विचिन्तयन्ती सुगतप्रभावं समभ्यधाद्विस्मयहर्षभूमिः ॥ क्७.७४ ॥
अहो महामोहतमोहरेण दूरस्थितेनामि तथागतेन ।
प्रसह्य ब्ःास्वद्वपुषार्पितेयं विकासलक्ष्मीः कुशलाम्बुजस्य ॥ क्७.७५ ॥
तीर्णो बह्वः सत्प्रणिधानमाप्तं प्रसन्नमन्तःकरणं क्षणेन ।
अहो नु तृष्णापरितापशान्त्यै समुच्छलन्तीव समामृतौघाः ॥ क्७.७६ ॥
इत्युक्त्वा सा बह्गवते मुक्तारत्नान्युपायनम् ।
वितीर्य संघपूजायां विससर्ज वणिग्जनम् ॥ क्७.७७ ॥
ते महोदधिमुत्तीर्य प्राप्ता बह्गवतोऽन्तिकम् ।
तन्मुक्तारत्ननिकरं प्रणम्यास्मै न्यवेदयन् ॥ क्७.७८ ॥
वणिग्भिः कथितां श्रुत्वा तत्कथां तत्र भिक्षुणा ।
आनन्दनाम्ना पृष्ठोऽथ बभाषे भगवान् जिनः ॥ क्७.७९ ॥
यासौ पुरा रोहिताख्या दासी शाक्यगृहेऽबह्वत् ।
सैव मुक्तालता जाता सत्कर्मप्रणिधानतः ॥ क्७.८० ॥
अभून्महाधनो नाम वाराणस्यां वणिक्पुरा ।
तस्य रत्नवती नाम पत्नी पुण्योचिताभवत् ॥ क्७.८१ ॥
सा पत्यौ पञ्चतां याते निःपुत्रा स्तूपशेखरे ।
पूजां कृत्वा महाहारां भक्तियुक्ता न्यवेदयत् ॥ क्७.८२ ॥
तेन पुण्यविपाकेन सिंहलाधिपतेः सुता ।
जाता मुक्तालता सैव प्राता च परिनिर्वृतिम् ॥ क्७.८३ ॥
सैव जन्मनि चान्यस्मिन्नैर्वर्यमदमोहिता ।
पूजाधिक्षेपदक्षाभूद्धासी तेनातिवत्सरम् ॥ क्७.८४ ॥
जन्मभूमौ जनेनात्पं यद्यत्कर्म शुभाशुभम् ।
तस्य तस्य स तद्रूपं भुङ्क्ते परिणतं फलम् ॥ क्७.८५ ॥
निखिलकुशलमूला कीर्तिपुष्पोज्ज्वलश्रीः
शुभफलभरसूरिर्धर्मवल्ली नराणाम् ।
भवति च विषवल्ली किल्बिषक्लेशमूल-
भ्रमनिपतनमोहानन्तसंतापहेतुः ॥ क्७.८६ ॥
संतप्तेऽस्मिन् खरतरमरुष्फारसंसारमार्गे
पापं पुन्यं त्यजत जनताः सक्ततीव्रानुतापम् ।
पुण्यं पुण्यं कुरुत सततं पुण्यपीयूषसिक्ताः
पुण्यच्छायातरुतलभुवः शीतलाः पुण्यभाजाम् ॥ क्७.८७ ॥
इति सत्प्रणिधानस्य फलं कथयता स्वयम् ।
भिक्षूणामुपदेशोऽयं भक्त्यै भगवता कृतः ॥ क्७.८८ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पतायां मुक्तालतावदानं नाम सप्तमः पल्लवः ॥


८. श्रीगुप्तावदानम् ।

कृतापकारेऽपि कृपाकुलानि क्रूरेऽप्यलं पल्लवकोमलानि ।
द्वेषोष्मतप्तेऽप्यतिशीतलानि भवन्ति चित्तानि सदाशयानाम् ॥ क्८.१ ॥
पुरा सुरपुरोदारे पुरे राजगृहाभिधे ।
श्रीगुप्ताख्यो गॄहपतिर्बभूव धन्दोपमः ॥ क्८.२ ॥
दृप्तः सुजनविद्वेषी गुणेषु विरतादरः ।
सदा धनमदाध्मातः सा जहास मतिं सताम् ॥ क्८.३ ॥
कठिनेऽष्वतिवक्रेषु शून्येषु मुखरेषु च ।
शन्खेष्विव खलेष्वेव लक्ष्मीर्दाक्षिण्यमाश्रिता ॥ क्८.४ ॥
तं कदाचित्गुरुर्ज्ञातिपुत्रः क्षपणकः खलह् ।
मिथः स्वैरकथासक्तः पुण्यद्वेषादभाषत ॥ क्८.५ ॥
य एष गृध्रकूटाख्ये गिरौ भिक्षुशतैर्वृतः ।
सर्वज्ञकीर्तिः सुगतास्त्रिजगत्पूज्यतां गतः ॥ क्८.६ ॥
नैवास्य प्रतिभां कांचिद्भव्यामुपलब्ःामहे ।
नीतः किं तून्नतिं मूर्खैर्बह्गवान् भगवानिति ॥ क्८.७ ॥
अविचायव सततं परोक्तमनुभाषते ।
गतानुगतिकः प्रायः प्रसिद्धसरणौ जनः ॥ क्८.८ ॥
व्रतादिनियमस्तस्य दम्भ एव विभाव्यते ।
अश्नाति मौनकृत्मत्स्यानेकपादव्रतो बकः ॥ क्८.९ ॥
तस्मआत्तस्योपहासाय क्रियतां कापि वज्ण्चना ।
मायामोहितो धूर्तानां परोऽपि परितुष्यति ॥ क्८.१० ॥
इति तेनोक्तमाकर्ण्य श्रीगुप्तः कर्क्ममोहितः ।
पतितुं पापश्वभ्रेषु युक्त्या तदुपदिष्टया ॥ क्८.११ ॥
प्रदीप्तखदिराङ्गारपूर्णां गूढां खदां गृहे ।
कृत्वा सविषमन्नं च ययौ भगवतोऽन्तिकम् ॥ क्८.१२ ॥
तेन मिथ्याविहितया भक्त्या भोक्तुं निमन्त्रितः ।
विज्ञाय सर्वं सर्वज्ञस्तथेति प्राह सस्मितः ॥ क्८.१३ ॥
विषग्नियोगकुपितां पत्नीं सद्धर्मवादिनीम् ।
गृहे बबन्ध श्रीगुप्तः शङ्कितो मन्त्रविश्रवात् ॥ क्८.१४ ॥
अथ विज्ञातवृत्तोऽपि भगवान् स्वयमाययौ ।
वन्द्यमानो जगद्वन्द्यैश्चतुर्मुखमुखैः सुरैः ॥ क्८.१५ ॥
श्रीगुप्तस्य तमारम्भं विवेदं नगरे जनः ।
दिक्षु धावति पापानां सुगुप्तमपि पातमक् ॥ क्८.१६ ॥
ततः कश्चित्समभ्येत्य भगवन्तमुपासकः ।
उवाच चरणालीनाश्चिन्तयन् दहनं विषम् ॥ क्८.१७ ॥
मिथ्यानम्रह्प्रियालापी गुढवह्निविषान्नदः ।
परिहार्यः प्रयत्नेन भगवन्नेष दुर्जनह् ॥ क्८.१८ ॥
कुर्यादनार्ये नाश्वासि कार्यं माधुर्यमाश्रिये ।
अन्त्रच्छेदी विगीर्णो हि मधुदिग्धमुखः क्षुरः ॥ क्८.१९ ॥
नान्यस्तुतिं गुणद्वेषी सहते गुणिनां खलः ।
सन्तस्तुष्यन्ति येनैव तेनकुप्यन्ति दुर्जनाः ॥ क्८.२० ॥
त्वयि लोकत्रये नेत्रशतपत्रविकाशिनि ।
अस्य राहोः पदं प्राप्ते नान्धीभवति किं जगत् ॥ क्८.२१ ॥
तच्छ्रुत्वा भगवानूचे किंचित्स्मितसितांशुभिः ।
तन्निकारोग्रतिमिरं दूरात्परिहरन्निव ॥ क्८.२२ ॥
न ममाङ्गं स्पृशत्यग्निः प्रबह्वत्यपि वा विषम् ।
परद्वेषदरिद्राणां दोषोऽपि निरुपद्रवः ॥ क्८.२३ ॥
अरोषशीतलं चेतः सिक्तं यस्य शमामृतैः ।
किं करोत्यनलस्तस्य विषं वा विषयद्विषः ॥ क्८.२४ ॥
विषायते तु पीयूषं कुसुमं कुलिशायते ।
द्वेषदोषोत्तरस्यैव चन्दनं दहनायते ॥ क्८.२५ ॥
तिर्यग्योनिगतस्यापि बोधिसत्त्वपदास्थितेः ।
कारुण्यमैत्रीयुक्तस्य नाग्निर्दहति विग्रहम् ॥ क्८.२६ ॥
पुरा कलिङ्गनृपतिः खण्डद्वीपाभिधावनीम् ।
ददाह मृगसंघानां संक्षेपे स समुद्यतः ॥ क्८.२७ ॥
कानने ज्वलिते तस्मिन्नेकस्तित्तिरिशावकः ।
मैत्र्या बोधिं समालम्ब्य दहनप्रशमं व्यघात् ॥ क्८.२८ ॥
तस्मादद्रोहमनसां न भयं विद्यते क्कचित् ।
श्रूयतां सत्त्वसंपत्तेरिदमन्यच्च कौतुकम् ॥ क्८.२९ ॥
अवृष्टिविषमे काले मुनेः कस्यचिदाश्रमे ।
मनुष्यसदृशालापः शशकः सुचिरं स्थितः ॥ क्८.३० ॥
क्षुत्क्षामं मुनिमालोक्य फलमूलपरिक्षयात् ।
उवाचाचलसंकल्पस्तद्व्यथाव्यथिताशयः ॥ क्८.३१ ॥
भगवन्मं मांसानां संप्रति प्राणवर्तनम् ।
क्रियतां रक्षणीयं तत्शरीरं धर्मसाधनम् ॥ क्८.३२ ॥
इत्युक्त्वा दावशेषाग्नौ विक्षेप शह्स्कस्तनुम् ।
वार्यमाणोऽपि यत्नेन प्रणयान्मुनिना मुह्युः ॥ क्८.३३ ॥
तस्य सत्त्वप्रभावेण ज्वलज्ज्वालाकुलोऽनलः ।
प्रययौ मज्ण्जुशिञ्जानभ्रमराम्भोजखण्डताम् ॥ क्८.३४ ॥
सोऽपि दिव्यवपुस्तत्र कमले महति स्थितः ।
प्रणम्यमानो मुनिर्भिर्विदधे धर्मदेशनाम् ॥ क्८.३५ ॥
इति बोधिप्रवृत्तानां न वह्नेर्न विषाद्भयम् ।
भगवान् कथयित्वेति श्रीगुप्तभवनं ययौ ॥ क्८.३६ ॥
तत्र तेन प्रविश्यैव निक्षिप्ते दक्षिणे पदे ।
बभूवाग्निखदा मञ्जुगुञ्जद्भृङ्गसरोजिनी ॥ क्८.३७ ॥
दृष्ट्वोपविष्टं श्रीगुप्तस्तं सरोरिहविस्तरे ।
तद्दृष्टिनष्टकालुष्यः प्रोवाचः चरणानतः ॥ क्८.३८ ॥
भगवन्मम पापस्य क्षन्तव्योऽयं व्यतिक्रमः ।
मोहान्धपतिते रुच्यं कारुण्यमधिकं सताम् ॥ क्८.३९ ॥
ममाकल्याणमित्रेण योऽयं पापपथे कृतः ।
उपदेशः प्रमोहेण तत्र त्राणं भवत्स्मृतिः ॥ क्८.४० ॥
विषदिग्धरसं सर्वं भोज्यं ते कल्पितं मया ।
अहो ममैव संक्रान्तं पश्चात्तपमयं विषम् ॥ क्८.४१ ॥
इति ब्रुवाणं श्रीगुप्तं साश्रुनेत्रं कृपानिधिः ।
दृष्ट्वा बभाषे भगवान् भिक्षुसंघस्य शृण्यवतः ॥ क्८.४२ ॥
विषादं मा कृथाः साधो न वयं विमुखास्त्वयि ।
घोरवैरविषत्यागान्नैवास्मास्तपते विषम् ॥ क्८.४३ ॥
वाराणस्यां पुरा श्रीमान् ब्रह्मदत्तोऽभवन्नृपः ।
अभूदनुपमा नामतस्य प्राणसमाश्रया ॥ क्८.४४ ॥
सुवर्णभाससंज्ञस्य तत्पुरान्तवनस्थितेः ।
रवं मयूरराजस्य सा कदाचिदथाशृणोत् ॥ क्८.४५ ॥
सा तस्य शदमाकर्ण्य वेणुवीणास्वनोपमम् ।
किमेतदिति पप्रच्छ नरनाथं सकौतुका ॥ क्८.४६ ॥
राजोवाच वनान्तेऽस्मिन्नस्ति रत्नच्छदः शिखी ।
मधुरंयोजनव्यापि यस्यैतत्कण्ठकूजितम् ॥ क्८.४७ ॥
इति ब्रुवाणो नृपतिस्तत्संदर्शनमर्थितः ।
प्रेमप्रयत्नैः प्रेयस्या प्रहसन् पुनरब्रवीत् ॥ क्८.४८ ॥
दर्शनं दुर्लभं मुग्धे तद्विधाद्भुतरूपिणः ।
तथापि यदि निर्बन्धः क्रियते तत्परिश्रमः ॥ क्८.४९ ॥
इत्युक्त्वा नृपतिस्तस्य ग्रहणे जालजीविनः ।
व्यसृजत्तस्य संर्पाप्त्यैः विधाय वधसंविदम् ॥ क्८.५० ॥
वशीकृतो न वेत्त्येव मोहादक्षिपरीक्षया ।
अनुरागाहतः स्त्रीभिरकर्माण्यपि कार्यते ॥ क्८.५१ ॥
प्राप्तानां प्रणयात्पत्न्याः प्रौढायाः पादपीठताम् ।
ईर्ष्ययैव विनश्यन्ति धीधृतिस्मृतिकीर्तयः ॥ क्८.५२ ॥
ततः शाकुनिकैर्न्यस्ताः पाशबन्धाः पदे पदे ।
प्रभावाद्बर्हिराजस्य्व्यशीर्यन्तैव संततम् ॥ क्८.५३ ॥
दुःखितान् यत्नवैफल्याद्भीतान्नृपतिशासनात् ।
मयूरराजस्तान् दृष्ट्वा करुणाकुलतां ययौ ॥ क्८.५४ ॥
सोऽचिन्तयदहो भीताः क्ष्मापतेः श्रूरशासनात् ।
मद्बन्धने विसंवादाद्वराका जालजीविनह् ॥ क्८.५५ ॥
संचिन्त्य कृपया स्पष्टग्भिर्विसृज्य तान् ।
नृपमानाय्य तद्वेश्म तेनैव सहितो ययौ ॥ क्८.५६ ॥
स तत्रान्तःपुरे नित्यं सभार्येण महीभुजा ।
पूज्यमानः परिचयादुवास विहितादरः ॥ क्८.५७ ॥
स्निग्धश्यामाम्बुदत्विषा सुनीलमणिवेश्मसु ।
चित्रपत्ररुचा चक्रे संसक्तेन्द्रायुधभमम् ॥ क्८.५८ ॥
अथ दिग्जययात्रायां कदाचिद्वसुधाधिपः ।
ययौ तदुपचाराय देवीमादिश्य सादरः ॥ क्८.५९ ॥
ततश्चानुपमा देवी पत्यौ याते प्रमादिनी ।
रूपयौवनदर्पान्धा नालुलोके कुलस्थितिम् ॥ क्८.६० ॥
तरुणं प्रेक्ष्य रागिण्यास्तस्याः कन्दर्पविप्लवे ।
भूयः प्रलम्भभीतेव लज्जा दूरतरं ययौ ॥ क्८.६१ ॥
मलिनः कुटिलस्तीक्ष्णः कर्णसंस्पर्शनोचितः ।
चपलश्चपलाक्षीणां सुदृशां सदृशः क्रमः ॥ क्८.६२ ॥
विविधोन्मादकारिण्यः संसारमकराकरे ।
चरन्ति प्राणहारिण्यः कालकूटच्छदाः स्त्रियः ॥ क्८.६३ ॥
कुसुमात्सुकुमारस्य क्रूरस्य क्रकचादपि ।
को जानाति परिच्छेदं स्त्रीणां चित्रस्य चेतसः ॥ क्८.६४ ॥
प्रचरन्तीं प्रियां कण्ठे कृत्वा ये यान्ति निर्वृतिम् ।
शीतलां विमलां स्निग्धां खङ्गधारां पिबन्ति ते ॥ क्८.६५ ॥
साचिन्तयत्स्थितः शल्यमयमन्तःपुरे मम ।
मयूरराजः शीलज्ञः पुरुषालापवेष्टितः ॥ क्८.६६ ॥
कथयिष्यत्यवश्यं मे वृत्तमेष महीपतेः ।
निन्द्यं कर्म कृतं तावदधुना किं करोम्यहम् ॥ क्८.६७ ॥
आस्तां परिज्ञाततत्त्वो मर्मज्ञोऽसौ विदग्धधीः ।
जाता मे कृतपापायाः शङ्का निश्चेतनेष्वपि ॥ क्८.६८ ॥
इति संचिन्त्य सा तस्य सविषं भोजनं ददौ ।
रागमत्ताः खलायत्ताः किं किं कुर्वन्ति न स्त्रियः ॥ क्८.६९ ॥
तयोपाचर्यमाणस्य सविषैः पानभोजनैः ।
विवृद्धा बर्हिराजस्य रुरुचे रुचिरा रुचिः ॥ क्८.७० ॥
स्वस्थमालोक्य तं देवी रहस्योद्भेदशङ्किता ।
शनैः शोकामयग्रस्या त्रस्या तत्याज जीवितम् ॥ क्८.७१ ॥
एवं तस्य विषेणापि नैव ग्लानिरजायत ।
महतां चित्तवैमल्यं निर्विषं कुरुते विषम् ॥ क्८.७२ ॥
रागो विषं विषं मोहो द्वेषश्च विषमं विषम् ।
बुद्धो धर्मस्तथा संघः सत्यं च परमामृतम् ॥ क्८.७३ ॥
घोरं विषं सृजति मोहमहाम्बुराशिः घोरं विषं सृजति रागमहोरगश्च ।
घोरं विषं सृजति वैरवनावनिश्च जन्मक्रमोऽस्ति विषमस्य विषस्य नान्यः ॥ क्८.७४ ॥
अधर्मकामः कृतवानेवमेवान्यजन्मनि ।
श्रीगुप्तोऽग्निखदां सापि तस्याभूत्सहधर्मिणी ॥ क्८.७५ ॥
इत्युक्त्वा भगवान् सम्यक्करुणालोकनाम्बुभिः ।
चकार वीतरजसं श्रीगुप्तं शासनोन्मुखम् ॥ क्८.७६ ॥
कलितकुशलः श्रीगुप्तोऽथ प्रकाशपदाप्तये
शरणगमनान्येव त्रीणि स्मरन् विमलस्मृतिः ।
जिनपरिचयात्पुण्यं लेभे सतां हि विलोकनं
भवति महते कल्याणाय प्रमोदसुखाय च ॥ क्८.७७ ॥
श्रीगुप्तस्य निकारकिल्बिषजुषोऽप्यज्ञानमोहापहः
कृत्वावश्यमनुग्रहेण भगवान् कारुण्यपुण्योद्यतः ।
भिक्षूणां भवसंक्षयाय विदधे निर्वैरताशासनं
येनैते न भवन्ति बन्धभवने भूयो भवग्रन्थये ॥ क्८.७८ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां श्रीगुप्तावदानं नाम अष्टमः पल्लवः ॥


९. ज्योतिष्कावदानम् ।

धन्यानामशिवं बिभर्ति शुभतां भव्यस्वभावोद्भवं
मूर्खाणां कुशलं प्रयात्यहिततामित्येष लक्ष्यः क्रमः ।
निशीथतिमिरान्ध्यमौषधिवनस्यात्यन्तकान्तिप्रदं
एतच्चौलुककूलदृष्टहतये सर्वत्र मैत्रं महः ॥ क्९.१ ॥
पुरा राजगृहाभिख्ये बिम्बिसारस्य भूपतेः ।
अभूत्पौरः सुभद्राख्यः परिपूर्णगृहस्थितेः ॥ क्९.२ ॥
मौर्ख्यान्मोहप्रपन्नस्य सर्वदर्शनविद्विषः ।
तस्य क्षपणकेष्वेव बभूवाभ्यधिकादरः ॥ क्९.३ ॥
तस्य सत्यवती नाम जायाभिजनशालिनी ।
गर्भमाधत्त पूर्णेन्दुबिम्बं पौरदरीव दिक् ॥ क्९.४ ॥
कलन्दकनिवासाख्यो वेणुकाननसंश्रयः ।
कदाचित्भगवात्बुद्धः प्राप्तः पिण्डाय तर्गृहम् ॥ क्९.५ ॥
पूजां सभार्यः कृत्वात्मै तं स पप्रच्छ सादरः ।
गर्भस्थितमपत्यं यत्किंरूपं तद्भविष्यति ॥ क्९.६ ॥
सोऽवदत्संपदं भुक्त्वा पुत्रस्ते दिव्यमानुषीम् ।
प्रव्रज्यया शासने मे संयुक्तो मुक्तिमेष्यति ॥ क्९.७ ॥
याते भगवति स्पष्टमित्यादिश्य निजाश्रयम् ।
अभ्याययौ गृहपतेर्भूरिकः क्षपणो गृहम् ॥ क्९.८ ॥
भगवद्भाषितं तत्तु सुभद्रेण निवेदितम् ।
श्रुत्वा क्षपणकह्क्षिप्रमभूद्देषविषाकुलः ॥ क्९.९ ॥
गणयित्वा स सुचिरं ग्रहज्ञानकृतश्रमः ।
यदेवोक्तं भगवता प्रश्नेऽपश्यत्तथाविधम् ॥ क्९.१० ॥
सोऽचिन्तयदयो सत्यमुक्तं तेन न संशयः ।
तत्प्रभावोपमादाय किं स्वसत्यं वदाम्यहम् ॥ क्९.११ ॥
तस्य सर्वज्ञतां वेत्ति सुभद्रो यदि मद्गिरा ।
तदेष क्षपणश्रद्धां त्यक्ष्यति श्रमणादरात् ॥ क्९.१२ ॥
इति संचिन्त्य सामर्षः स सुभद्रमभाषत ।
असत्येमेतत्कथितं तेन सर्वज्ञमानिना ॥ क्९.१३ ॥
मनुष्यः कथमाप्नोति देवार्हां दिव्यसंपदम् ।
प्रव्रज्या किं तु सत्येव कथं तेनास्य चिन्तिता ॥ क्९.१४ ॥
क्षीणः क्षुदुपसंतप्तो यस्य नास्त्यन्यतो गतिः ।
तस्य तस्य सुभिक्षार्हं शरणं श्रमणव्रतम् ॥ क्९.१५ ॥
पश्याम्यहं गृहपते प्रमाणं यदि मद्वचः ।
प्रत्युतायं शिशुर्जातः कुलं संतापयिष्यति ॥ क्९.१६ ॥
इत्युदीर्य क्षपणके याते गृहपतिश्चिरम् ।
विचार्य विदधे तां तां युक्तिं गर्भनिपातने ॥ क्९.१७ ॥
यदा द्रव्यप्रयोगेऽपि नैव गर्भह्परिच्युतः ।
तदास्य पत्नीमवधीदेकान्ते हठमर्दनैः ॥ क्९.१८ ॥
ततः शीतवनं तस्यां श्मशानं तेन पापिना ।
प्रापितायां क्षपणकास्तद्वार्तानन्दिता जगुः ॥ क्९.१९ ॥
अहो बताहो सर्वज्ञः शिशोः सत्यं तदुक्तवान् ।
सेयं सूनावजातेऽस्य जननी पञ्चतां गता ॥ क्९.२० ॥
इयं सा श्रीः शिशोर्दिव्या सोक्ता दिव्यमनुष्यता ।
इयं च सास्य प्रव्रज्या यत्कुक्षौ निधनं गतः ॥ क्९.२१ ॥
इति तेषां प्रवादेन सोपहासेन सर्वतः ।
श्मशानदर्शनायैव बभूव जनसंगमः ॥ क्९.२२ ॥
अत्रान्तरे दिव्यदृशा भगवान् भूतभावनः ।
सर्वं विज्ञाय तद्बुद्धः प्रदध्यौ सस्मितः क्षणम् ॥ क्९.२३ ॥
अहो मोहानुबन्धेन दूरस्थैरपि देहिनाम् ।
आलोकश्छाद्यते मूर्खैर्मेघैरिव विकारिभिः ॥ क्९.२४ ॥
शुभं क्षपयता तेन क्षपणेन स मुग्धधीः ।
अहो गृहपतिः पापादकार्यमपि कारितः ॥ क्९.२५ ॥
इति संचिन्त्य बह्गवान् स्वयं भिक्षुगणैर्वृतः ।
ययौ शीतवनं क्षिप्रं श्मशानं करुणाकुलः ॥ क्९.२६ ॥
श्मशानचारिकां ज्ञात्वा राजा भगवतः स्वयम् ।
बिम्बिसारः सहामात्यैस्तामेव भिवमाययौ ॥ क्९.२७ ॥
ततः सुभद्रजायायां प्रक्षिप्तायां चितानले ।
कुक्षिं भित्त्वाम्बुजासीनः शिशुः सूर्य इवोद्ययौ ॥ क्९.२८ ॥
ज्वालिताणलमध्यस्थं तं कश्चिन्नाग्रहीद्यदा ।
तदा जनसमूहस्य हाहाकारो महानभूत् ॥ क्९.२९ ॥
ततस्तं संभ्रमावृद्धगतिः सुगतशासनात् ।
कुमारभृत्यो जग्राह जीवकाख्यः कुमारकम् ॥ क्९.३० ॥
जिनावलोकनेनैव बालकग्रहणक्षणे ।
अभूच्चितानलस्तस्य हरिचन्दनशीतलः ॥ क्९.३१ ॥
जीवन्तं ज्वलनान्मुक्तं रुचिरं वीक्ष्य दारकम् ।
वैलक्ष्येण क्षपणकाः क्षणं तस्थुर्मृता इव ॥ क्९.३२ ॥
ततः सुभद्रं भगवान् सर्वभूतहिते रतः ।
बभाषे विस्मयोद्भान्तं पुत्रोऽयं गृह्यतामिति ॥ क्९.३३ ॥
स तु दोलाकुलमतिः किं करोमीति संशयात् ।
क्षपनानां मुखान्येव शिक्षायै क्षणमैक्षत ॥ क्९.३४ ॥
ते तमूचुर्न बालोऽयं ग्राह्यः श्माशानवह्निजः ।
यत्रायं तिष्ठति व्यक्तं न भवत्येव तद्गृहम् ॥ क्९.३५ ॥
इति तेषां गिरा मूर्खः स जग्राह न तं यदा ।
तदा क्षितिपतिर्बालमाददे जिनशासनात् ॥ क्९.३६ ॥
ज्योतिर्मध्यादवाप्तस्य ज्योतिष्कसदृशत्विषः ।
ज्योतिष्क इति नामास्य चकार भगवान् स्वयम् ॥ क्९.३७ ॥
तस्य प्रवर्धमानस्य भूपालबह्वने शिशोः ।
देशान्तरगतः काले मातुलः समुपाययौ ॥ क्९.३८ ॥
स विदित्वा स्वसुर्वृत्तं निधनं पुत्रजन्मनि ।
कोपात्सुभद्रमभ्येत्य कम्पमानः समभ्यघात् ॥ क्९.३९ ॥
मूर्ख क्षपणभक्तेन तद्गिरा हतयोषिता ।
त्वया त्यक्तस्वपुत्रेण किं नाम सुकृता कृतम् ॥ क्९.४० ॥
निश्चेतनाः स्वभावेन परमन्त्रसमुत्थिताः ।
सहन्तोऽपि विनिघ्नन्ति वेताला इव दुर्जनाः ॥ क्९.४१ ॥
अधुनैव न गृह्णासि यदि राजगॄहात्सुतम् ।
तत्ते स्त्रीवधमुद्धुष्य कारयाम्यर्थनिग्रहम् ॥ क्९.४२ ॥
इत्युक्तस्तेन तद्भीत्या स भूपतिगृहात्सुतम् ।
आनिनाय चिरान्मुक्तमकामेन महीभुजा ॥ क्९.४३ ॥
ततः सुभद्रे कालेन कालस्य वशमागते ।
अभून्निर्दिर्विभूतीनां ज्योतिष्कोऽर्क इव त्विषाम् ॥ क्९.४४ ॥
अर्थिकल्पद्रुमः प्राय संपदं दिव्यमानुषीम् ।
स बुद्धधर्मसंघेषु शरण्येष्वकरोन्मतिम् ॥ क्९.४५ ॥
तद्भक्त्युपनतं दिव्यरत्नसंचयमद्भुतम् ।
प्रददौ भिक्षुसंघेभ्यः पुण्यरत्नार्जनोद्यतः ॥ क्९.४६ ॥
तस्य देवनिकायेभ्यः साश्चर्या विविधर्द्धयः ।
स्वयमेवाययुर्वेश्म महोदधिमिवापगाः ॥ क्९.४७ ॥
तृणे रत्ने च समधीर्भवगानपि तद्गृहे ।
चक्रे तदनुरोधेन रत्नपात्रपरिग्रहम् ॥ क्९.४८ ॥
स दिव्यवस्त्रयुगलं यशसामुपमाक्षमम् ।
प्राप पुण्यपणक्रीतं निजं गृहमिवामलम् ॥ क्९.४९ ॥
कदाचिदथ तद्वस्त्रंस्नानार्द्रं न्यस्तमातपे ।
समीरणेनापहृतं न्यपतन्मूर्धि भूपतेः ॥ क्९.५० ॥
विलोक्यापूर्वरुचिरं ज्योतिष्कस्य तदंशुकम् ।
विद्यश्रीविस्मितो राजा तृणं मेने निजश्रियम् ॥ क्९.५१ ॥
भोक्तुं निमन्त्रितः प्राप्य तस्य रत्नमयं गृहम् ।
नृपतिः स्वर्गमज्ञासीत्ज्योतिष्कभवनस्थितः ॥ क्९.५२ ॥
अथ कालेन भूपालः पुत्रेणाजातशत्रुणा ।
छद्मना राज्यलुब्धेन धर्मशीलो निपातितः ॥ क्९.५३ ॥
अतीते सद्गुणे राज्ञि तस्मिन् कृतयुगोपमे ।
अधर्म इव स प्राप राज्यं राजवरात्मजः ॥ क्९.५४ ॥
स भूभृद्दुर्लभां दृष्ट्वा ज्योतिष्कस्य गृहे श्रियम् ।
तमुवाच समभ्येत्य मत्पित्रा त्वं विवर्धितः ॥ क्९.५५ ॥
भ्राता तवाहं धर्मेण विभवार्धं प्रयच्छ मे ।
न चेद्भागधन्द्रोहात्कलिरेव प्रजायते ॥ क्९.५६ ॥
इत्युक्तस्तेन कौटिल्यात्ज्योतिष्कः क्रूरकारिणा ।
रत्नपूर्णं गृहं तस्मै दत्वा प्रायात्परं गृहम् ॥ क्९.५७ ॥
सा दिव्यरत्नरुचिरस्फीता लोकोपकारिणी ।
ह्योतिष्कमेवानुययौ श्रीः प्रभेव दिवाकरम् ॥ क्९.५८ ॥
पुनस्त्यक्तापि सा संपत्सप्तकृत्वः प्रभावती ।
ज्योतिष्कमस्पृष्टनृपा साध्वी परिमिवाययौ ॥ क्९.५९ ॥
सर्वस्वाहरणोद्युक्तं दस्युचौरादियुक्तिभिः ।
ज्योतिष्कः कुपितं ज्ञात्वा निर्विण्णः समचिन्तयत् ॥ क्९.६० ॥
अपुण्यपरिपाकेण प्रजानां जनकोपमः ।
संयातः स्मृतिशेषत्वं राजा वात्सल्यपेशलः ॥ क्९.६१ ॥
कोऽन्यस्तत्सदृशो यस्मिन्निर्व्याजसरले प्रजाः ।
पितरीव कृताश्वासाः सुखं रात्रिषु शेरते ॥ क्९.६२ ॥
धनिनस्तृणवत्प्राप्याः प्राप्यन्ते रत्नवद्बुधाः ।
अमृतादपि दुष्प्राप्यः सौजन्यसरलो जनह् ॥ क्९.६३ ॥
निर्व्याजवैदग्ध्यजुषाममुग्धसरलात्मनाम् ।
अनुद्धतोन्नतानां च विरलं जन्म तादृशाम् ॥ क्९.६४ ॥
अधुना द्वेषदुर्वृत्तः प्रवृत्तनिकृतिर्नृपः ।
पापपाकेन लोकानामकाले कलिरागतः ॥ क्९.६५ ॥
मित्रे जगति यातेऽस्तं तस्मिन् भास्वति भूपतौ ।
दोषोदयः प्रवृद्धोऽयमन्धकाराय तत्सुतः ॥ क्९.६६ ॥
नूनं सतामतीतानां निष्कारणसुहृत्खलः ।
यद्वृत्तपरभागेण यशस्तेषां प्रकाशते ॥ क्९.६७ ॥
तस्मादियं परित्याज्या नृपत्यधिष्ठिता मही ।
काले कलौ क्षितीशे च जनानां जीवितं कुतः ॥ क्९.६८ ॥
वरपरिचयोदारा दाराह्सतां गुणिनां गुणाः
कुलमविकलं भव्या भूतिर्यशः शशिसंनिभम् ।
स्थितिसमुचितं वृत्तं वित्तमनिमित्तमनापदं
गुणवति नृपे सर्वं भवत्यपांशुलं प्रजाकुलम् ॥ क्९.६९ ॥
धर्मद्रुमस्य धनमूलसमुद्गतस्य निर्दोषकामकुसुमप्रवरोज्ज्वलस्य ।
लोकः सुखानि किल पुण्यफलानि भुङ्क्ते हतो न चेत्कुनृपतेर्विनिपातवातैः ॥ क्९.७० ॥
कलिः कालः पतिर्बालस्तत्प्रतापश्चितानलह् ।
अकालविप्लवोत्तालखलवेतालसंकुलः ॥ क्९.७१ ॥
प्रीतिर्विषण्णा खिन्ना धीः सुखश्रीर्गतयौवना ।
अधुना विभवाभोगे भोगयोगे न मे रुचिः ॥ क्९.७२ ॥
धनं भूमिर्गृहः दाराः सुता भृत्याः परिच्छदाः ।
अहो निरवधिः पुंसामाधिव्याधिपरिग्रहः ॥ क्९.७३ ॥
यथा यथा विवर्धन्ते ग्रीष्मोष्मविषमाः श्रियः ।
तथा तथा ज्वलत्येव तृष्णातापः शरीरिणाम् ॥ क्९.७४ ॥
प्रवृद्धैरपि वित्तौघे राजन्योपार्जितैर्नृणाम् ।
लवणाब्धेरिव जलैर्वितृष्णा नैव जायते ॥ क्९.७५ ॥
नास्ति नास्तीत्यसंतोषाद्य एव धनिनां जपः ।
पुबर्भवे भवेत्को वा स एव प्रशमो यदि ॥ क्९.७६ ॥
किं वित्तैर्दुर्निमित्तैः कलिकलहमोहलोभानुवृत्तैः किं भोगैर्विप्रयोगैर्व्यसनशतपतनाभ्याससंसक्तरोगैः ।
किं वा मिथ्याभिमानैर्नरपतिसदनप्रातसेवावमानैः
अस्मिन् वैराग्यमेव क्षयसमयभये भोग्यमारोग्ययोग्यम् ॥ क्९.७७ ॥
अतिक्रान्ते काले स्वजनसुहृदालोकविमले
समापन्ने मोहप्रबल (तर) कालुष्यमलिने ।
सुखाश्वासह्पुंसां प्रशमसलिलस्नातमनसां
परित्यक्तायासे विजनवनवासे परिवयः ॥ क्९.७८ ॥
इति संचिन्त्य स चिरं परं वैराग्यमाययौ ।
दुःखं मोहाय मूर्खाणां विवेकाय च धीमताम् ॥ क्९.७९ ॥
स दत्वा सर्वमर्थिभ्यः प्रययौः सुगताश्रमम् ।
श्रीशृङ्खलाकृष्टमतिर्न हि सत्यसुखोन्मुखः ॥ क्९.८० ॥
यदैव राझंसेन स्मर्यते शुचि मानसम् ।
तदैवास्मै वसुमती सरसीव न रोचते ॥ क्९.८१ ॥
याते दुःसहमोहधूममलिने भोगानुरागानले
संतोषामृतनिर्झरेण मनसि प्राते शनैः शीतताम् ।
नैताः पानमदोत्तरङ्गविचलद्वाराङ्गराङ्गनाभङ्गुर-
भ्रूभङ्गक्षणसंगमाः शमवतां कुर्वन्ति विघ्नं श्रियः ॥ क्९.८२ ॥
सर्वज्ञशासनविनष्टभवाध्वकष्टः प्रव्रज्यया विमलमेव पदं प्रविष्टः ।
संप्राप्य सर्वसमतामसमप्रकाशः निर्लक्ष्यमोक्षगमनाय मुनिर्बभूव ॥ क्९.८३ ॥
तां बोधिसिद्धिमालोक्य ज्योतिष्कस्य सविस्मयैः ।
भिक्षुभिर्भगवान् पृष्टः प्राग्वृत्तान्तमभाषतः ॥ क्९.८४ ॥
जन्मक्षेत्रशतोप्तानां बीजानामिव कर्मणाम् ।
भुज्यते फलसंपत्तिरविसंवादिनी जनैः ॥ क्९.८५ ॥
राज्ञो बन्धुमतः पुर्यां बन्धुमत्यां महायशाः ।
अभूदनङ्गनो नाम श्रीमान् गृहपतिः पुरा ॥ क्९.८६ ॥
शास्ताथ सम्यक्संब्य्द्धो विअश्वी नाम ता पुरीम् ।
जनचारिकया प्रातः कदाचित्सुकृतैः सताम् ॥ क्९.८७ ॥
द्वाषष्टिभिः स भिक्षूणां सहसैः परिवारितः ।
श्रद्धयानङ्गनेनैत्य प्रणम्योपनिमन्त्रितः ॥ क्९.८८ ॥
सर्वोपकरणैस्तेन त्रैमासं परिचारितः ।
यथा तथैव राज्ञापि प्रणिपत्य निमन्त्रितः ॥ क्९.८९ ॥
भोगैः स्पर्धानुबन्धेन स ताभ्यामधिवासितः ।
अनङ्गनेन पौरार्हैर्भूपालार्हैश्च भूभुजा ॥ क्९.९० ॥
गजध्वजमणिच्छत्रचामरोदारया श्रिया ।
तं दृष्ट्वा पूजितं राज्ञ चिन्तार्तोऽभूदनङ्गनः ॥ क्९.९१ ॥
तस्य सत्त्वावदातस्य पक्षपाती शतक्रतुः ।
चकार दिव्यया लक्ष्म्या साहाय्यां जिनपूजने ॥ क्९.९२ ॥
स तया दिव्यया भूत्या भगवन्तमपूजयत् ।
यदग्रे चक्रवर्तिध्रीर्लज्जाभाजनतां ययौ ॥ क्९.९३ ॥
रत्नैर्न्यक्षतचन्द्रसूर्यभानराकंकीरणैरावणभैर्(?)
अम्लानाम्बरगन्धमाल्यशबलैः कम्पद्रुमाणां फलैः ।
भक्तिप्रह्वश्चीविलासचनाहेलोच्छसच्चामरं
तेनाभ्यर्चितमाकलय्य सुगतं लज्जानतोऽभून्नृपः ॥ क्९.९४ ॥
इति बहुतरं भक्त्या शास्तुः फलं तदनङ्गनः
शुभपरिणतेः पुण्योदारः पुरा समवाप्तवान् ।
विमलमनसस्तस्यैवासौ क्षणप्रणिधानतः पर
इव रविज्योतिष्कोऽभूत्स एव पदाश्रितः ॥ क्९.९५ ॥
इत्याह विमलज्ञानप्रकाशितगत्र्त्रयः ।
प्रणीधानोपदेशाय भिक्षूणां भगवान् जिनः ॥ क्९.९६ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां ज्योतिष्कावदानं नाम नवमः पल्लवः ॥


१०. सुन्दरीनन्दावदानम् ।

ते केऽपि सत्त्वहितसंनिहितानुकम्पा भव्या बह्वन्ति भुवने बह्वभीतिभाजाम् ।
वात्सल्यपेशलधियः कुशलाय पुंसां कुर्वन्ति ये वरमनुग्रहमाग्रहेण ॥ क्१०.१ ॥
न्यग्रोधारामनिरतं द्रुष्टुं कपिलवस्तुनि ।
भगवन्तं ययौ नन्दः शाक्यराजसुतः पुरा ॥ क्१०.२ ॥
नैष्कम्यदेशनामन्त्रकथान्तेस पुरःस्थितम् ।
उवाच भगवान् प्रीत्या प्रव्रज्या गृह्यतामिति ॥ क्१०.३ ॥
प्रसाद्याभिनिवेद्यास्य तं नन्दः प्रत्यभाषतः ।
भगवन् पुण्यलाभापि प्रव्रज्याभिमता न मे ॥ क्१०.४ ॥
सर्वोपस्थायको भूत्वा भिक्षुसंघं यथेप्सितैः ।
सर्वोपकरणैस्तावत्भिक्ष्यं परिचराम्यहम् ॥ क्१०.५ ॥
इत्युक्त्वा रत्नमुकुटैः स्पृष्टतत्पादपङ्कजः ।
राजपुत्रः स्वभवनं ययौ जायासमुत्सुकः ॥ क्१०.६ ॥
स सुन्दरी समासाद्य दयितां रतिसुन्दरीम् ।
विजहार वरोद्यानं मुहूर्तविरहासहः ॥ क्१०.७ ॥
ततः कदाचिद्भगवान् प्रकृत्यैव गुणिप्रियः ।
स्वयं नन्दस्य भवनं भिक्षुसंघैः सहाययौ ॥ क्१०.८ ॥
सानन्दवदनः कृत्वा नन्दस्तत्पादवन्दनाम् ।
तं महाहर्सनासीनं पूजयित्वा व्यजिज्ञपत् ॥ क्१०.९ ॥
केषां पुण्यप्ररोहाणां परिपाकोऽयमीदृशः ।
कृतोऽयं यद्भगवता दर्शनानुग्रहः स्वयम् ॥ क्१०.१० ॥
स्मरणं श्रवणं वापि दर्शनं वा महात्मनाम् ।
सेयं कुशलवल्लीनां महती फलसंततिः ॥ क्१०.११ ॥
अस्य मैत्रस्य महतस्तदालोकस्य दर्शनात् ।
हृदयस्य विकासश्रीः कस्य नाम न जायते ॥ क्१०.१२ ॥
दानादपि प्रियतरं पुण्यादपि महाफलम् ।
सदाचारादपि श्र्लाघ्यं महतां किलं दर्शनम् ॥ क्१०.१३ ॥
इति तस्य ब्रुवाणस्य भक्तिप्रणयपेशलम् ।
अभिनन्द्य पुरः पूजां भगवान् गन्तुमुद्ययौ ॥ क्१०.१४ ॥
अनुवव्राज तं नन्दः स्वच्छे कनकभाजने ।
वरोपचारमादाय मधुरं स्वमिवाशयम् ॥ क्१०.१५ ॥
पह्चाद्व्रजन्तमालोक्य भक्त्या भगवतः पथि ।
निरैक्षत कटाक्षेण सुन्दरी विरहासहा ॥ क्१०.१६ ॥
गुरूणामग्रे सा सरलतरलां लोचनगतिं
विहायैव त्रासाञ्चितमुकुतिताक्षी प्रियतमा ।
निरीक्ष्यालक्ष्यं यत्क्षणमवनताभूत्तदधिकं
न गन्तव्यं नाथेत्यवददिवं मओनादवचनम् ॥ क्१०.१७ ॥
नन्दः प्रणयिणीं दृष्ट्वा सोच्छ्वासं चलिताननाम् ।
अयमागत एवाहमचिरादित्यभाषत ॥ क्१०.१८ ॥
ततः स्वमाश्रमं प्राप्तं भगवन्तं कृताञ्जलिः ।
व्रजामि स्वगृहं तावदित्याह विरहासहः ॥ क्१०.१९ ॥
ततस्तमासनासीनः प्रणतं भगवान् पुरः ।
उवाच सस्मितं केयं गमने संप्रति त्वरा ॥ क्१०.२० ॥
विषयास्वादसौहार्दसंमोहार्दितवेतसाम् ।
अहो गृहसुखेष्वेव निर्वेदविमुखा मतिः ॥ क्१०.२१ ॥
गुणाभरणमेवायुर्विवेकाभरणो गुणः ।
प्रशमाबह्रणश्चासौ वैराग्याभरणः शमः ॥ क्१०.२२ ॥
तज्जाड्यं तदसह्यशल्यशलकं न्यस्तं सुहृच्चेतसि
प्राज्ञिस्तद्गणितं विराचसमयैर्वैफल्यमेवायुषः ।
यद्वैराग्यविवेकशून्यमनसामेते पशूनां यथा
यान्त्यायान्ति च चक्रनेमिचलनैर्निर्लक्षणानां क्षणाः ॥ क्१०.२३ ॥
पुण्यं सत्त्ववतां श्रुतं मतिमतां शीलं च विद्यावताम्
सर्वं भाग्यवतां सुखं शमवतां नैव क्कचित्दुर्लभम् ।
दुष्प्रापस्तु समस्तवस्तुवसतेः स्वल्पांशकोऽप्यायुषः
तद्यस्य क्षयमेति निष्फलतया शोच्याय तस्मै नमः ॥ क्१०.२४ ॥
वामावर्ते विषयजलधौ पूर्णलावण्यसारे दर्पोत्सर्पद्विषममकराङ्कोद्भवक्षोभ्यमाणे ।
नित्यासन्नप्रबलविरजप्रज्ज्वलद्वाडवाग्नौ
पुंसां सेतुस्तरणशरणे तीव्रवैराग्यमेव ॥ क्१०.२५ ॥
तस्माद्गृहाण प्रव्रज्यां राजपुत्र जितेन्द्रियः ।
एताः स्त्रिय इव क्षिप्रं समगमसुखाः श्रियः ॥ क्१०.२६ ॥
क्रियतां कुशलायैव ब्रह्मचर्यपरिग्रहः ।
त्यज्यतामेष निःसारगृहसंसारदुर्ग्रहः ॥ क्१०.२७ ॥
इति श्रुत्वा भगवतः करुणाबह्रणं वचः ।
प्रत्यभाषत तं नन्दः पूर्वप्रणययन्त्रितः ॥ क्१०.२८ ॥
सदा भवदुपायैव प्रव्रज्या भगवन्मम ।
भिक्षुसंघोपकारार्थे गृह एवादरः परम् ॥ क्१०.२९ ॥
इत्युक्त्वा भगवद्वाक्यमतिक्रान्तुमनीश्वरः ।
कृष्यमाणः प्रियाप्रेम्णा सोऽभूद्दोलाकुलाशयः ॥ क्१०.३० ॥
पुनः पुनश्चकारास्य भगवान् व्रतदेशनाम् ।
उपकारोद्यताः सन्तश्चिन्तयन्ति न योग्यताम् ॥ क्१०.३१ ॥
यदा नेच्छति नन्दस्तां प्रव्रज्यामजितेन्द्रियः ।
तदास्य बह्गवद्वाक्यमपतद्वपुषि स्वयम् ॥ क्१०.३२ ॥
नन्दः काषायावरणः पात्रपाणिः स तत्क्षणम् ।
बभौ चाभीकररुचिर्महापुरुषलक्षणैः ॥ क्१०.३३ ॥
स शासनाज्जिनस्याभूदारण्यपिण्डपात्रिकह् ।
आकारादनगारतां प्रयातः पांशुकूलिकः ॥ क्१०.३४ ॥
प्रियामुवाह सततं श्यामां प्रव्रजितोऽपि सः ।
शशाङ्क इव संव्यक्तां हृदये लाञ्छनच्छविम् ॥ क्१०.३५ ॥
मनसः स्फटिकस्येव न विद्मः केन वर्त्मना ।
रागः कोऽपि विशत्यन्तर्नापैति क्षालितोऽपि यः ॥ क्१०.३६ ॥
विरहापाण्डुररुचिः संसक्तारुणचीवरः ।
स संध्याभ्रकलङ्कस्य जहार शशिनः श्रियम् ॥ क्१०.३७ ॥
विचरन् विरहाक्षमः स विस्मॄतधृतिर्वने ।
जन्मविद्यामनङ्गस्य न विसस्मार सुन्दरीम् ॥ क्१०.३८ ॥
संपूर्णचन्द्रवदनावदनध्याननिश्चलः ।
अचिन्त्यच्चिरं तत्तदुपविष्य शिलातले ॥ क्१०.३९ ॥
अहो भगवताप्येष कृतो यत्नादनुग्रहः ।
नायाति मम वैमल्यं रागाधिष्ठितचेतसः ॥ क्१०.४० ॥
श्रुतं संसारचरितं निःसङ्गव्रतमास्थितम् ।
तथापि मृगसावाक्षीं न विस्मरति मे मनः ॥ क्१०.४१ ॥
कान्ताकुङ्कुमलग्नरागसुभगे गात्रे कृतं चीवरं
तत्पीनस्तनमण्डलप्रणयिना पात्रं धृतं पाणिना ।
रागोऽयं मम वर्धतेऽस्य यदि वान्यस्येव वृद्धिः परं यद्बोधिव्यवधानभूतमनिशं ध्यानं तदालम्बनम् ॥ क्१०.४२ ॥
क्षणेन मां प्राप्तमवेहि मुग्धे तामेवमुक्त्वा गमने पुरस्तात् ।
अहो मया दर्शनविघ्नभूतं पश्चात्कृतघ्नव्रतमेतदात्तम् ॥ क्१०.४३ ॥
नो गन्तव्यमिति प्रकम्पतरला वाक्यं यदूचे न सा
संत्यज्य व्यजनं स्थिते गुरुजने जग्राह पाण्यञ्चलम् ।
यत्पादेन लिखन्त्यपि क्षितितलं मामौक्षतालक्षिता
तेनात्यन्तनिषेधमुग्धविधिना बद्धं तया मे मनः ॥ क्१०.४४ ॥
मद्वियुक्ता न सा नूनं शेते शोकप्रलापिनी ।
पुलिने चक्रवाकीव हर्म्ये हरिण्यलोचना ॥ क्१०.४५ ॥
हा प्रिये तक्तसक्तेन कितवेनेव केवलम् ।
श्रितं तच्चित्तचौरेण मिथ्याव्रतमिदं मया ॥ क्१०.४६ ॥
त्यक्त्वा व्रतमिदं तावद्गच्छामिदयितान्तिकम् ।
अनुरागाग्नितप्तानां तपस्तापो हि दुःसहः ॥ क्१०.४७ ॥
राजपुत्री चिरायातं नृशंसमवलोक्य माम् ।
मन्युना नवलग्नेन न जाने किं करिष्यति ॥ क्१०.४८ ॥
न सर्वत्र विकाराय निकारः प्रेमदुःसहः ।
दुर्निवारो भवत्येव स्नेहलीनो रजःकणः ॥ क्१०.४९ ॥
यस्मिन् क्षणे भगवता पश्यामि रहितं वनम् ।
मया तदैव गन्तव्यं गॄहमित्येष निश्चयः ॥ क्१०.५० ॥
अस्मिन्नेव शिलापट्टे रुचिरैर्गिरिधातुभिः ।
लिखामि तां शशिमुखीं संर्पाप्यालम्बनं धृतेः ॥ क्१०.५१ ॥
अथवा कथमालेख्यविषयं याति सा प्रिया ।
सौन्दर्यबिद्नको यस्याः सुधाकुवलयेन्दवः ॥ क्१०.५२ ॥
दृष्टिर्मुग्धकुरन्गसंचलदलिव्याप्तोत्पलोद्वातनी
लावण्योदधिकूलविद्रुमवनं बिम्बाधराग्रत्विषः ।
निर्दोषामृतरश्मिसार्थसरणिः सा कापि वक्त्रद्युतिः
सौन्दर्यं कथमेति चित्रपदवीश्चर्यसारं वपुः ॥ क्१०.५३ ॥
इति संचिन्त्य स शनैरालिलेख शिलातले ।
सुन्दरीं मुखमुक्ताश्रुस्नातकम्पाकुलाङ्गुलिः ॥ क्१०.५४ ॥
स संकल्पसमुद्गीर्णं प्रतिबिम्बमिवाश्रिताम् ।
कृत्वा पुरः प्रियतमामूचेऽदर्बाष्पगद्गदः ॥ क्१०.५५ ॥
प्रियामालिख्याहं निखिलसुखवृष्टिं नयनयोर्
न पश्याम्युद्बाष्पः क्षणमपि शरच्चन्द्रवदनाम् ।
अयं नूनं तन्वीविरहनिरपेक्षव्रतवतः
स्फुरत्तापः शापः किमपि मम पापादुपनतः ॥ क्१०.५६ ॥
फुल्लाम्भोजवनत्विषा स्पृहावशासक्ताश्रुतोयं वपुस्
तत्कालोपगतान्तरायजनितः कोपः समुत्सृज्यताम् ।
हंहो सुन्दरि देहि मे प्रतिवचः किं मौनमालम्बसे
सत्यं त्वन्मयरागवीचरमिदं चित्तव्रतं मे व्रतम् ॥ क्१०.५७ ॥
इति ब्रुवाणं तं दृष्ट्वा दूरादालिखितं च तत् ।
सासूया भिक्षवोऽभ्येत्य भगवन्तं बभाषिरे ॥ क्१०.५८ ॥
भगवन् दुर्विनीतस्य वात्सल्यादेव केवलम् ।
शुनः कुसुममालेव प्रव्रज्येयं त्वयार्पिता ॥ क्१०.५९ ॥
आखिल्य सुन्दरीमुखं नन्दः स्वैरं शिलातले ।
तत्प्रलापजपासक्तो ध्यानालम्बनतां गतः ॥ क्१०.६० ॥
एतदाकर्ण्य भगवान्नन्दमाह्वाय्य कननात् ।
किमेतदिति पप्रच्छ प्रियाविरहमोहितम् ॥ क्१०.६१ ॥
सोऽब्रवीद्भगवन् सत्यं कान्तासक्तस्य मे परम् ।
भिक्षूणां संमतेऽप्यस्मिन् वने न रमते मतिः ॥ क्१०.६२ ॥
इति दन्दवचः श्रुत्वा तमूचे भगवान् जिनह् ।
मीलयन्नेव वक्त्रेन्दुकान्त्या रागसरोरुहम् ॥ क्१०.६३ ॥
साधो तावन्न युक्ता ते संरागानुगता मतिः ।
विघ्नैर्नाकृष्यते चेतः कल्याणाभिनिवेशिनाम् ॥ क्१०.६४ ॥
क्वायं योगस्तनुतृणतुलात्यक्तभोगाभियोगः
क्कायं निन्द्यः क्षणसुखलवास्वादसंवाद एषः ।
जात्यैवायं हरति कुशलं दुस्तरो मारमार्गः
प्रेमान्धानां भवति सहसा दुःसहो योक्त्रजातः ॥ क्१०.६५ ॥
इत्यस्य भगवान् कृत्वा चिरं वैराग्यदेशनाम् ।
संस्थातव्यमिहेत्युक्त्वा स्वकृत्याय स्वयं ययौ ॥ क्१०.६६ ॥
तमेवावसरं नन्दः संचिन्त्य गमनोचितम् ।
प्रतस्थे स्वगृहं हृष्टः सुन्दरीदर्शनोत्सुकः ॥ क्१०.६७ ॥
व्रजन् द्वारि पिधानाप्तैर्विहारैर्बहुभिश्चिरात् ।
नगराभिमुखं मार्गं स कथंचिदवाप्तवान् ॥ क्१०.६८ ॥
अथ विज्ञाय सर्वज्ञस्तं रागाद्गन्तुमुद्यतम् ।
उवाचाभ्येत्य भगवान्नन्द तूर्णं क्क गम्यते ॥ क्१०.६९ ॥
स जगाद वने तावत्भगवन्नास्ति मे रतिः ।
न ह्यविश्रान्तचित्तानां क्रिया काचित्प्रसीदति ॥ क्१०.७० ॥
सा श्रीश्चामरहासिनी मणिमयी सा रम्यहर्म्यावली
सा बालानिललोलचारुलतिका कान्ता नवोद्यानभूः ।
सा तन्वी कुसुमेषुकार्मुकलता क्षामोदरी सुन्दरी
नो जन्मान्तरवासना इव मनः सक्तं विमुञ्चन्ति मे ॥ क्१०.७१ ॥
सरागेणैव मनसा ब्रहचर्यं चराम्यहम् ।
व्रतपञ्जरबन्धेन विहङ्ग इव यन्त्रितः ॥ क्१०.७२ ॥
त्यक्त्वा व्रजामि प्रव्रज्यामस्तु मे नरकोऽक्षयः ।
न वीतरागतामेति मञ्जिष्ठारक्तमंशुकम् ॥ क्१०.७३ ॥
इति ब्रुवाणमसकृत्स्वपदं गन्तुमुद्यतम् ।
निवार्यानुग्रहधिया तमूचे भगवान् जिनः ॥ क्१०.७४ ॥
मा कृथा विप्लवं नन्द निन्दितं हि श्रुताश्रुतम् ।
विद्वज्जनोपदिष्टेन यथा याति पृथग्जनः ॥ क्१०.७५ ॥
विवेकव्यस्तदोषाणां विदुषां शीलशालिनाम् ।
निःसारसुखलाभेन नाकार्ये धीः प्रवर्तते ॥ क्१०.७६ ॥
गाढरागगृहीतस्य जुगुप्सायतने परम् ।
जधन्यकर्मण्यासक्तिः किं लज्जाजनने न ते ॥ क्१०.७७ ॥
योनिजयोनिसंसक्ताः स्तनपस्तनमर्दिनः ।
अहो बत न लज्जन्ते जन्मन्येव लयं गताः ॥ क्१०.७६ ॥
सदासज्जनवर्जिता जननीजघनासक्तिः ।
संमोहाहतचित्तानां पशूनामेव दृश्यते ॥ क्१०.७९ ॥
रामारमणमानोऽयं विरम्य त्यज्यतां त्वया ।
भोगैः सह भुजङ्गानां दृष्टो भवबिले क्षयः ॥ क्१०.८० ॥
जघन्या जनयत्येव न कस्य विरतिं रतिः ।
यस्यां भवति पर्यन्तेष्वपि नैव पराङ्मुखः ॥ क्१०.८१ ॥
गृहजालविमुक्तस्त्वं किं तत्रैवाभिधावसि ।
न हि निर्गस्य सारङ्गः पुनर्विशति वागुराम् ॥ क्१०.८२ ॥
इति वाक्याद्भगवतः शासनेन नियन्त्रितः ।
चिन्तयन् सुन्दरीं नन्दः प्रविवेशाश्रमं पुनः ॥ क्१०.८३ ॥
ततः कदाचिदादिश्य नन्द माश्रममार्जने ।
आसनानुग्रहव्यग्रः प्रययौ भगवान् पुनह् ॥ क्१०.८४ ॥
तच्छासनात्प्रवृत्तस्य नन्दस्याश्रमशोधने ।
नो भूतलादपययौ रजो राग इवाशयत् ॥ क्१०.८५ ॥
तस्याहर्तुं गतस्याथ सलिलंपारभागिकम् ।
मुहुः पूर्णसमुत्क्षिप्तह्शून्य एवाभवद्धटः ॥ क्१०.८६ ॥
तेन विघ्नेन गमने सुतरां खिन्नमानसः ।
त्यक्त्वा तुप्रययौ नन्दः सुन्दरीदर्शनोत्सुकः ॥ क्१०.८७ ॥
अथ विज्ञाय सर्वज्ञस्तं यान्तं दिव्यचक्षुषा ।
बभाषे सहसाभ्येत्य स्तम्भमानमनोरथह् ॥ क्१०.८८ ॥
पात्रयोगेन तप्तस्य श्यामरक्तरुचेः परम् ।
अहो स्नेहकलङ्कस्ते दीपस्येव न शाम्यति ॥ क्१०.८९ ॥
अलं वामाभिलाषेण नीलीराग इवैष ते ।
संसक्तः कोऽपि हृदये यन्नाद्यापि विरज्यसे ॥ क्१०.९० ॥
अन्धीकरोति प्रारम्भे रतिस्तत्कालकातरम् ।
आलिङ्गति जुगुप्सेव वृत्ते मुख्याङ्गसंगमे ॥ क्१०.९१ ॥
विषयाख्वादसङ्गेन पापमित्रैरिवेन्द्रियैः ।
दुःसहव्यसनावर्ते पात्यते नरके नरह् ॥ क्१०.९२ ॥
अधिवासयति स्पर्शलेखेनापि कुसंगमः ।
प्रक्लिन्नमत्स्यकुणपात्पूतिगन्ध इवोद्गतः ॥ क्१०.९३ ॥
कल्याणमित्रसंपर्कः सर्वथा कुशलावहः ।
शुभामेद इव व्याप्तो यः करोति महार्हताम् ॥ क्१०.९४ ॥
इत्युक्ते तस्य भगवान् साक्षात्सदसतोः पथि ।
घ्राणस्पर्शेन संदर्श्य चक्रे तत्सङ्गदेशनाम् ॥ क्१०.९५ ॥
अथ नन्दं समादाय भगवान् गन्धमादने ।
ययौ विरिञ्चिरमरीबालव्यजनवीजितः ॥ क्१०.९६ ॥
तत्र दावानलप्लिष्टामनिष्टक्लिष्टविग्रहाम् ।
काणां कर्मटीकामस्मै दर्शयित्वावदज्जिनः ॥ क्१०.९७ ॥
इमां पश्यसि किं नन्द मान्द्यनिन्द्यतराकृतिम् ।
कस्मैचिदुचिता चेयं रोचते प्रियदर्शना ॥ क्१०.९८ ॥
सत्ता सदसतोर्नास्ति रागः पश्यति रम्यताम् ।
स तस्य ललितो लोके यो यस्य दयितो जनः ॥ क्१०.९९ ॥
पक्षपातं समृत्सृज्य सत्यं नन्द त्वयोच्यताम् ।
अस्यास्तस्याश्च सुन्दर्या लावण्यस्य किमन्तरम् ॥ क्१०.१०० ॥
अनर्थित्वाद्वयं नैव सौन्दर्यान्तरवेदिनः ।
अर्थिप्रियत्वमायाति प्रार्थितं तच्च चारुताम् ॥ क्१०.१०१ ॥
पश्याम्यहं विशेषं तु तस्या नास्याश्च कंचन ।
रम्यत्वं मांसवर्मास्थियन्त्रे समयमात्रकम् ॥ क्१०.१०२ ॥
इति पृष्टो बह्गवता नन्दस्तं प्रत्यभासत ।
अत्यन्तानुचितः प्रश्नः कोऽपि गौरवयन्त्रितः ॥ क्१०.१०३ ॥
किमेतद्भगवान् वक्ति केयं शोके बिडम्बना ।
क्कापि वा विश्वगुरवो विनेयाः प्रभविष्णवह् ॥ क्१०.१०४ ॥
रतिः साधिकसुन्दर्याः परभागेण रज्यते ।
यां दृष्ट्वा जगतां जेता न रतिं स्मरति स्मरः ॥ क्१०.१०५ ॥
ज्योत्स्नयेव न तत्कान्त्या नोदते कुमुदाकरः ।
गुणान्तरं न जानाति प्रसिद्धिशरणो जनः ॥ क्१०.१०६ ॥
बद्धं तया वदनसौरभसारहारमालोक्य पुष्यनिचयं पृथुकेशपाशे ।
मन्ये विलासगतिलोवनकान्तिचौरैः भीत्येव हंसहरिणैर्वनमिव यातम् ॥ क्१०.१०७ ॥
अनल्पैः संकल्पैर्बहुविधविकल्पैरनुपमा
न सा सारङ्गाक्षीलिखितुमपि शक्या परिचितैः ।
तुलारोहे य्स्या वदनपरभागे लघुतरः
स नूनं ताराणां गगनमधिरूढः परिवृढः ॥ क्१०.१०८ ॥
पुण्यप्रह्वं ललितललितभ्रूलतालास्यलीला
रम्यं तस्या यदि न वदनं नन्दनं लभ्यते तत् ।
प्रव्रज्येयं सुकृतमधिकं किंकरी किंकरी मे
कस्मादेतं व्रतपरिकरं भारभूतं वहामि ॥ क्१०.१०९ ॥
इति नन्दवचः श्रुत्वा भगवान् रागनिर्भरम् ।
उपक्षिप्य प्रभावेत त निनाय सुरालयम् ॥ क्१०.११० ॥
अदर्शयच्च तत्रास्य लीलोद्याने शतक्रतोः ।
सुधामन्थसमुद्भूताः कान्तास्त्रिदशयोषितः ॥ क्१०.१११ ॥
अरुणैः कान्तिसंतानैः पादपद्मवनोदितैः ।
अनुयाता इवाम्भोधिकूलविद्रुमकाननैः ॥ क्१०.११२ ॥
विशाललास्यसचिवैः पाणिभिर्विजिताम्बुजैः ।
संसक्तैः सहजस्येव पारिजातस्य पल्लवैः ॥ क्१०.११३ ॥
कान्तिमाधुर्यललितैर्मदनानन्दबाण्धवैः ।
हेलानिमीलिताम्भोजवदनैश्चन्द्रसुन्दरैः ॥ क्१०.११४ ॥
संमोहनैर्जीवनैश्च कृष्णसारैर्विलोकनैः ।
कालकूटच्छदस्पृष्टैरमृतोघैरिवावृताः ॥ क्१०.११५ ॥
पूर्णयौवनलावण्याः सहसैव विलोक्य ताः ।
नन्दः सानन्दवदनः स्वेदस्नात इवाभवत् ॥ क्१०.११६ ॥
पद्माननासु विपुलोत्पललोचनासु कुन्दस्तिमातु निबिडस्तबकस्तनीषु ।
नन्दस्य तासु हृदयं युगपन्निपत्य दोलाविलासतरलालितुमवाप ॥ क्१०.११७ ॥
ततः प्रोवाच बह्गवान्नन्दं तद्गतमानसम् ।
आसां संदर्शने नन्द प्रीत्या ते रमते मतिः ॥ क्१०.११८ ॥
आसां तस्याश्च सुन्दर्या लावण्ये कियदन्तरम् ।
उत्कर्षः परभागेण स्फुटमेवाभिभाव्यते ॥ क्१०.११९ ॥
निरस्तसुन्दरीरूपं रूपमप्सरसां यदि ।
तदेता एव कालेन करिष्यामि त्वदाश्रयाः ॥ क्१०.१२० ॥
आरोगेणैव मनसा ब्रह्मचर्यं प्रसन्नधीः ।
चर तावत्ततस्तेऽहं दास्याम्यप्सरसां गणम् ॥ क्१०.१२१ ॥
एवं भगवतो वाक्यान्नन्दः संजातनिश्चयः ।
तथेत्युक्त्वा व्रते चेतश्चक्रे स्वर्गाङ्गनाशया ॥ क्१०.१२२ ॥
मन्दादरः स्वदारेषु सोऽभूत्तत्संगमेच्छया ।
गुणप्ण्यतुलावृत्तेर्नास्ति स्नेहस्य सत्यता ॥ क्१०.१२३ ॥
अहो चिस्मृतसंवासप्रवासपरिशोषिता ।
पुंसामाभ्यासिकी प्रीतिः सहसान्यत्र धावति ॥ क्१०.१२४ ॥
क्षणयौवनरम्याणि प्रेमाणि प्रणयव्ययैः ।
न सत्यानि न नित्यानि न सुखानि शरीरिणाम् ॥ क्१०.१२५ ॥
ततो भगवता नन्दः क्षणानीतः स्वमाश्रमम् ।
तन्निश्चयाद्ब्रह्मचर्यं चचार नियतव्रतः ॥ क्१०.१२६ ॥
स चिसस्मार सुन्दर्याः कान्तिसंपदमन्यधीः ।
क्षणप्रमुषिता प्रीतिर्मलं याति गुणेष्वपि ॥ क्१०.१२७ ॥
ततः कदाचिद्विचरन्नन्दः क्कापि व्यलोकयत् ।
करालनरकासक्तां धीमान् कुम्भीभृतां भुवम् ॥ क्१०.१२८ ॥
तां विलोक्यैव साकम्पः किमेतदिति दुःखितः ।
स पप्रच्छ तदासक्तान् घोरनरककारणम् ॥ क्१०.१२९ ॥
ते तमूचुरियं भूमिस्तप्तकुम्भीशताचिता ।
कल्पिता राजपुत्रस्य नन्दस्यानन्दरागिणः ॥ क्१०.१३० ॥
मिथ्याव्रतः स नाद्यापि भजते वीतरागताम् ।
ब्रहम्चर्यं चरत्येव स्वर्गस्त्रूईसंगमाशया ॥ क्१०.१३१ ॥
मिथ्याव्रतानां लुब्धानां रागद्वेषकषायिणाम् ।
एतासु नित्यतप्तासु कुम्भीष्वेवाक्षयः क्षयः ॥ क्१०.१३२ ॥
इति नन्द समाकर्ण्य जातरोमाञ्चकञ्चुकह् ।
तत्र च्युतामिव तनूं पश्चात्तापादमन्यतः ॥ क्१०.१३३ ॥
समम्येत्य त्यक्तरागसंवासवासनह्स्वयम् ।
बभूवानुत्तरब्रह्मचर्यपर्याप्तांयमः ॥ क्१०.१३४ ॥
घनमोहक्षयात्तस्य विमुक्ते संशये ततः ।
महः प्रसादमापेदे शरदीवेदधेः पयः ॥ क्१०.१३५ ॥
निष्कामः प्रशमं प्राप्तः परां निष्ठामुपागतः ।
शुद्धधीः स समभ्येत्य भगवन्तमभाषत ॥ क्१०.१३६ ॥
नाप्सरोभिर्न सुन्दर्या भगवन् कृत्यमस्ति मे ।
एताः पर्यन्तविच्छायाः सपाता विषयश्रियः ॥ क्१०.१३७ ॥
यथा यथेयं भावानां भाव्यते निःस्वभावता ।
तथा तथा प्रॄसीदन्ति निरावरणवृत्तयः ॥ क्१०.१३८ ॥
इति दन्दस्य वदतः प्राप्तस्यार्तपदं शनैः ।
भगवान्निर्वाणशुद्धामस्य सिद्धिममन्यत ॥ क्१०.१३९ ॥
केषां कुशलमूलानां नन्देनासादितं फलम् ।
इति भिक्षुभिरभ्येत्य पृष्ठस्तानवदज्जिनः ॥ क्१०.१४० ॥
जन्मान्तरार्जितैः पुण्यैः सुकृताभ्यासकारिणा ।
प्राप्ताः कुशलमूलानां नन्देन फलसंपदः ॥ क्१०.१४१ ॥
विपुलविमल वंशे जन्म स्मरप्रतिमा तनुः
सुरजनसखी लक्षी वृत्तिः प्रियाः सततं सताम् ।
प्रशमसलिलस्नातं चेतः स्वभावगतिर्गतिः
कुशलकुसुमस्येयं पुंसां विशालफलोद्गतिः ॥ क्१०.१४२ ॥
स्तूपे विपश्यिनः सम्यक्संबुद्धस्यादरः पुरा ।
नगर्यामरुणावत्यामरुणेन महीभूहा ॥ क्१०.१४३ ॥
क्रियमाणो मणिमये मैत्रो नाम द्विजन्मजः ।
महतः पुण्यभोगस्य भागी कारकतां ययौ ॥ क्१०.१४४ ॥
तत्पुण्यप्रणिधानेन जातो गॄहपतेः कुले ।
स एव भिक्षुसंघस्य जन्तुकास्नानसत्रकृत् ॥ क्१०.१४५ ॥
स पुण्यशीलः प्रत्येकबुद्धोपस्थायकह्पुरा ।
स्तूपं चक्रे शोभमानं मालभिवरणोज्ज्वलम् ॥ क्१०.१४६ ॥
तत्पुण्यप्रणिधानेन कृकेः काशीपतेः सुतः ।
सोऽभ्वद्द्युतिमान्नाम दिव्यलक्षणलक्षितः ॥ क्१०.१४७ ॥
काश्यपस्यार्हतः सम्यक्संबुद्दस्यान्तनिर्वृतौ ।
सप्तरत्नमये स्तूपे कृते काशीमहीभुजा ॥ क्१०.१४८ ॥
तत्सूनुर्ध्युतिमान् हौमच्छत्रमारोप्य भास्वरम् ।
जातस्तत्प्रणिधानेन नन्दः शाक्यमुकेऽधुना ॥ क्१०.१४९ ॥
इति सुकृतसमुत्थैः पूर्वजन्वक्रमाप्तैः किमपि विपुलपुण्यैरेव नन्दः प्रपेदे ।
कुलममलमुदारं रूममग्र्यं च भोगं शमपरिचितमन्ते सत्पदं सौगतं च ॥ क्१०.१५० ॥
कथयोत्वेति भगवान्नन्दकल्याणकारणम् ।
चकार भिक्षुसंघस्य तां तां सुकृतदेशनाम् ॥ क्१०.१५१ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सुन्दरीनन्दावदानं नाम दशमः पल्लवः ॥


११. विरूढकावदानम् ।

आरोहति पदमुन्नतममलमतिर्विमलकुशलसोपानैः ।
नरककुहरेषु निपतति मलिनमतिर्घोरतिमिरेषु ॥ क्११.१ ॥
शाक्यानां नगरे पूर्वं स्फीते कपिलवास्तुनि ।
महतः शाक्यमुख्यस्य सुमुखी दासकन्याका ॥ क्११.२ ॥
शास्त्रे कृतश्रमा सर्वकलाकौशलशालिनी ।
मालिका नाम कामस्य मालिकेव गुणोचिता ॥ क्११.३ ॥
प्रभोर्गिरा वरोद्याने कुसुमावचयोद्यता ।
भ्रमन्तं तं समायान्तं ददर्श सुगतं पुरः ॥ क्११.४ ॥
तस्यान्तेऽस्यास्तमालोक्य प्रसन्नमभवन्मनः ।
शरत्काल इव स्वच्छः प्रसादयति मानसम् ॥ क्११.५ ॥
साचिन्तयत्तदा लोकप्रीत्या दृढीकृतास्पदा ।
सुकृतैः पिण्डपातं मे गृह्णीयाद्भगवानपि ॥ क्११.६ ॥
विज्ञाय तस्याह्सर्वज्ञः संकल्पं करुणाकुलः ।
प्रसार्य पात्रं भगवान् भद्रे देहीत्युवाच ताम् ॥ क्११.७ ॥
दत्वा प्रणम्य सा तस्मै परिपूर्णमनोरथा ।
प्रणिधानं प्रविदधे दास्यदुःखनिवृत्तये ॥ क्११.८ ॥
ततः कदाचिदायातः पितुअस्तस्याः सखा द्विजः ।
नौमित्तिकस्तं प्रदेशं दृष्ट्वा तां विस्मितोऽव दत् ॥ क्११.९ ॥
अहो गृहपतेस्तस्य पुत्री त्वं श्रीमतह्सुता ।
बन्धुहीना गता दास्यं धनभोगविवर्जिता ॥ क्११.१० ॥
अहो मोहघनारम्भक्षणोद्द्योतनविद्युतः ।
संसारसर्परसनाविलासचपलाः श्रियः ॥ क्११.११ ॥
गम्यानां मा कृथाश्चिन्तां जानेऽहं हस्तलक्षणैः ।
अचिरेणैव भूभर्तुर्वल्लभा त्वं भविष्यसि ॥ क्११.१२ ॥
इदं पश्यामि ते पाणौ लक्ष्मीकमलकोमले ।
मालाचक्राङ्कुशाकारमित्युक्त्वा प्रययौ द्विजः ॥ क्११.१३ ॥
अथ मन्मथसंभोगसुहृन्मधुपबान्धवः ।
लतालिङ्गनसौभाग्यभव्योऽदृश्यत माधवः ॥ क्११.१४ ॥
मधोः केसरिणस्तस्य कान्तामानद्विपद्विषः ।
विबभौ जिह्ममानस्य जिह्वेवाशोकमञ्जरी ॥ क्११.१५ ॥
बालाकपोललावण्यचौरश्चम्पकसंचयः ।
सुदृशां केशपाशेषु ययौ बन्धनयोग्यताम् ॥ क्११.१६ ॥
सहकारैर्विरहिणीनिधनं विदधे मधु ।
निरपेक्षापरवधे विधुराः प्रभविष्णवः ॥ क्११.१७ ॥
ययुर्मधुलिहां चूतलता निर्भरभोग्यताम् ।
सहसौव विद्गधानामिव मुग्धविभूतयः ॥ क्११.१८ ॥
रूतायुधश्चूतलताचापन्यस्तशिलीमुखः ।
जयतीति जगौ बन्दी कन्दर्पस्येव कोकिलः ॥ क्११.१९ ॥
अस्मिन्नवसरे श्रीमान् कोसलेन्द्रः प्रसेनजित् ।
मृगयानिर्गतोऽश्वेन हृतस्तं देशमाययौ ॥ क्११.२० ॥
धन्वीमनोभवाकारः सोऽवतीर्य तुरंगमात् ।
ददर्शानन्यलावण्यां कन्यां रतिमिवापराम् ॥ क्११.२१ ॥
तद्विलोकनविस्तीर्णं मनस्तस्य महात्मनः ।
विस्मयाद्दृष्टिमार्गेण प्रविवेश मनोभवः ॥ क्११.२२ ॥
तां लज्जावनतां दृष्ट्वा सहसोद्भूईतसाध्वसाम् ।
अचिन्तयन्नरपतिः कान्तिकल्लिलिनीहृतः ॥ क्११.२३ ॥
केयं नवा शशिमुखी श्यामा तरलतारका ।
यत्कान्तिरनिशं नेत्रशतपत्रविकाशिनी ॥ क्११.२४ ॥
बकुलामोदविभ्रान्तभ्रमरे पाटलाधरे ।
कान्तं वसन्तं पश्यामि मुखेऽस्याः कुमुदायुधम् ॥ क्११.२५ ॥
अहो लावण्यमम्लानं तारुण्याभरणं तनोः ।
धीरस्यापि धृतिर्येन शङ्खे संगलितेव मे ॥ क्११.२६ ॥
अहो नु मधुमञ्जर्याः प्रारम्भेऽप्यद्भुतो गुणः ।
येन गन्तुं न शक्नोति षट्पदोऽपि पदात्पदम् ॥ क्११.२७ ॥
इति संचिन्त्य भीपालस्तां मत्वा वनदेवताम् ।
पृष्ट्वा विवेद तद्वृत्तं क्रमेण कथितं तया ॥ क्११.२८ ॥
ततस्तत्र कृतातिथ्यस्तया पल्लववीजनैः ।
शुचिशीतैश्च सलिलैः प्राप्तवान्निर्वृतिं नृपः ॥ क्११.२९ ॥
श्रान्तः संवाहने तस्य तया चरणपद्मयोः ।
कृते कराप्तसंस्पर्शे स निद्रां सहसा ययौ ॥ क्११.३० ॥
क्षणेन प्रतिब्य्द्धोऽथ विश्रान्तमृगयाश्रमः ।
दिव्यस्पर्शेन तां मेने रतिं रूपान्तरागताम् ॥ क्११.३१ ॥
महानपि ततः शाक्यः संप्राप्तं कोसलेश्वरम् ।
श्रुत्वा तं देशमभ्येत्य पूजार्हं तमपूजयत् ॥ क्११.३२ ॥
सादरेणार्थितां तेन स्वसुतामिव मालिकाम् ।
रत्नार्हाय ददौ तस्मै स्मरमङ्गलमालिकाम् ॥ क्११.३३ ॥
तामादाय मनोजन्मवैजयन्तीं सितस्मिताम् ।
निजं जगाम नगरं गजमारुह्य भूपतिः ॥ क्११.३४ ॥
तस्मिन्नागनगोत्सङ्गे सा लोलालकषट्पदा ।
बभौ राजवसन्तेन संगता नवमालिका ॥ क्११.३५ ॥
राजधानीं समासाद्य सुन्दर्या सहितस्तया ।
रत्नहर्म्यकरोदारमन्दिरे विजहार सः ॥ क्११.३६ ॥
वर्षाकाराभिधा देवी राज्ञः प्रथमवल्लभा ।
अभिन्नवृत्तिं तां मेने राजलक्ष्मीमिव क्षितिः ॥ क्११.३७ ॥
दिव्यस्पर्शेन सा तस्याः सा चास्या रूपसंपदा ।
परस्परगुणोत्कर्षात्परं विस्मयमापतुः ॥ क्११.३८ ॥
दिव्यरूपवती ज्येष्ठा दिव्यस्पर्शवती परा ।
इति प्रवादः साश्चर्यस्तयुओर्लोकेषु पप्रथे ॥ क्११.३९ ॥
अत्रान्तरे तयोर्दिव्यरूपसंस्पर्शकारणम् ।
आश्रमे भिक्षुभिः पृष्टः प्रोवाच भगवान् जिनः ॥ क्११.४० ॥
पुरा श्रुतवराख्यस्य द्विजस्य गृहमेधिनः ।
कान्ता शिरीषिका चेति प्रिये भार्ये बभूवतुः ॥ क्११.४१ ॥
स कदाचिदथो कान्ताभ्राता प्रव्रज्यया शनैः ।
प्रत्येकबुद्धतां यातः स्वसुर्भवनमाययौ ॥ क्११.४२ ॥
त्रैमासिकोपचारेण स तया पत्युराज्ञया ।
भक्त्या निमन्त्रितस्तस्थौ तत्सप्त्न्यावपूजितः ॥ क्११.४३ ॥
ते चारुमृदुभिर्भोगैस्तमभ्यर्च्यान्यजन्मनि ।
जातेऽधुना चारुरूपदिव्यसंस्पर्शसंयुते ॥ क्११.४४ ॥
कृष्टेषु प्रथमं प्रयुक्तविनयामादाय गोसंपदं
सत्क्षेत्रेषु तपः प्रतत्प्तनुषु प्राप्तिष्वतिस्वादुताम् ।
यत्काले शुभबीजमुप्तमुचितं सत्कर्मशक्तेः परं
भुज्यन्ते फलसंपदः सुमतिभिस्तस्यैव पाकोज्ज्वलाः ॥ क्११.४५ ॥
इति सर्वज्ञवचनं तथ्यमाकर्ण्य भिक्षवः ।
तत्तथेति विनिश्चित्य बभूवुः शान्तिसंश्रयाः ॥ क्११.४६ ॥
अथ कालेन भूभर्तुर्मालिकायामभूत्सुतः ।
विरूढकेतिमुख्याख्यो विद्यासु च कृतश्रमह् ॥ क्११.४७ ॥
प्रियस्तुल्यवयास्तस्य पुरोहितसुतोऽभवत् ।
मातुर्दुःखेन जातत्वाद्विश्रुतो दुःखमातृकः ॥ क्११.४८ ॥
कदाचित्सहितस्तेन हयारूढो विरूढकह् ।
प्राप शाक्यवरोद्यानं मॄगयायां विनिर्गतः ॥ क्११.४९ ॥
न्यक्कारं चक्रिरे तत्र शाक्यास्तस्योद्यतायुधाः ।
अयं दासीसुतोऽस्माकमिति दर्पप्रवादिनह् ॥ क्११.५० ॥
गत्वासौ स्वपुरं तेषां वैरं दर्प्यमचिन्तयत् ।
कुलदर्पापवादो हि शल्यतोदः शरीरिणाम् ॥ क्११.५१ ॥
तस्य निर्दह्यमानस्य तत्प्रतीकारचिन्तया ।
राज्याय जाता जनके जीवत्यपि परा स्पृहा ॥ क्११.५२ ॥
स चारायणमुख्यानां मन्त्रिणां शतपञ्चकम् ।
स्ववशं पितुराकृष्य विदधे भेदयुक्तिभिः ॥ क्११.५३ ॥
ततः कदाचित्संजातविवेकः पृथिवीपतिः ।
धर्मोपदेशश्रवणे वर्धमानादरः परम् ॥ क्११.५४ ॥
चारात्यणगृहीताश्वं रथमारुह्य संयतः ।
द्रष्टुं जगाम सर्वज्ञं भगवन्तं प्रसेनजित् ॥ क्११.५५ ॥
प्रायाश्रमं भगवतः कृत्वा पादाभिवन्दनम् ।
धर्मान्वयं स शुश्राव तत्प्रसादप्रसन्नधीः ॥ क्११.५६ ॥
चारायणोऽप्याशु गत्वा रथेन नगरं जवात् ।
अकरोदन्तरे तस्मिन् राजपुत्राभिषेचनम् ॥ क्११.५७ ॥
भगवन्तमथामन्त्र्य नृपतिर्गन्तुमुद्यतः ।
ददर्श नानुगानग्रे न रथं न च मन्त्रिणम् ॥ क्११.५८ ॥
स पद्भ्यामेव शनकैः प्रस्थितां पृथिवीपतिः ।
दूरादपश्यदायान्तीं वर्षाकारां समालिकाम् ॥ क्११.५९ ॥
ते पृष्ट्वा तद्गिरा ज्ञात्वा सोऽभिषिक्तं विरूढकम् ।
विससर्ज सुतैश्वर्यपरिभोगाय मालोकाम् ॥ क्११.६० ॥
वर्षाकारां समादाय स मित्रस्य महीपतेः ।
अजातशत्रोर्नगरं प्रात राजगृहाभिधम् ॥ क्११.६१ ॥
स तत्प्तश्छत्रविरहात्क्षुप्तिपासाश्रमान्वितः ।
ययौ वमन्निव श्वासं दीर्घेश्वारममारुतैः ॥ क्११.६२ ॥
सुखमस्खलितं केन प्राप्तं कस्यायुरायतम् ।
न कस्यानुपदं दृष्टः क्षयः सपदि संपदः ॥ क्११.६३ ॥
स जीर्णमूलकं भुक्त्वा कर्ममूलमिवायतम् ।
क्षणं पीत्वा च पानीयं पपाताप्तविषूचिकः ॥ क्११.६४ ॥
अनित्यतामविज्ञाय मोहाय पतते जनह् ।
स चापायनिकायस्य कायस्योपायतृष्णया ॥ क्११.६५ ॥
अजातशत्रुः श्रुत्वैव कोसलेश्वरमागतम् ।
अभ्येत्य पांशुपूर्णास्यं विगतासुं ददर्श तम् ॥ क्११.६६ ॥
तस्य जायानुयातस्य स कृत्वा देहसत्क्रियाम् ।
भगवन्तं ययौ द्रुष्टुं सुगतं दुःखशान्तये ॥ क्११.६७ ॥
स तं प्रणम्य प्रोवाच भगवन् कोसलेश्वरः ।
पुरं मे सुहॄदः प्राय निर्धनो निधनं गतः ॥ क्११.६८ ॥
धिङ्भामसंपदं पापं मिहादयशसः पदम् ।
विभवो येन नैवायं मित्रोपकरणीकृतः ॥ क्११.६९ ॥
हृदये विनिवेश्याशां प्राप्तः सुहॄदमापदि ।
सुहृन्नैष्फल्यमायाति यस्य किं तेन जीवता ॥ क्११.७० ॥
मित्रोपकरणं लक्ष्मीर्दीनोपकरणं धनम् ।
भीतोपकरणं प्राणा येषां तेषां सुजीवितम् ॥ क्११.७१ ॥
कुकर्म किं कृतं तेन भगवनूर्वजन्मनि ।
यस्य पाकेन पर्यन्ते प्रपेदे सोऽतिदुर्दशाम् ॥ क्११.७२ ॥
इति पृष्टः क्षितीशेन भगवान् साश्रुचक्षुषा ।
तमूचे तापशमनीं दिशन् दशनचन्द्रिकाम् ॥ क्११.७३ ॥
मा शुचः पृथिवीपाल स्वभावोऽयं भवस्थितः ।
एवंविधैव भावानामसत्यानामनित्यता ॥ क्११.७४ ॥
विसारिसंसारवनान्तरेऽस्मिन्निसर्गलोलः किल कामभृङ्गः ।
स्वच्छन्दजातजनपुष्करजीवपुञ्जकिञ्जल्कपुञ्जमनिशं कवलीकरोति ॥ क्११.७५ ॥
तरङ्गन्तो भोगाश्चकितहरिणीलोचनचलाः क्षणेऽलक्ष्या लक्ष्मीर्जनजलदविद्योतनतडित् ।
शरीराब्जे बालातपचपलरागं नववयः क्षयं याति क्षिप्रं भवमरूतटे जीवितकणः ॥ क्११.७६ ॥
मनो मैत्रीपात्रं परहितरतिर्धर्मधनता
मदोद्भेदच्छेदक्षमशमविचारे परिचयः ।
अयं तत्वान्वेषो विषयसुखवैमुख्यसुखिनाम्
असारे संसारे परिहृतविकारः परिभवः ॥ क्११.७७ ॥
जनह्शोचति दुःखेषु क्षिप्रं हत इवाश्मना ।
न करोति पुनस्तीव्रतदापातप्रतिक्रियाम् ॥ क्११.७८ ॥
पश्यतोऽपिभवायासं निर्विवेकस्य सर्वथा ।
क्रियते किं जनस्यास्य मोहादकुशलस्पृशः ॥ क्११.७९ ॥
पुरा विप्रः सुशर्माख्यः कुतश्चित्प्राप्य मूलकम् ।
निधाय जननीहस्ते ययौ स्नातुं नदीतटम् ॥ क्११.८० ॥
सापि प्रत्येकबुद्धाय तां पाप्ताय तदन्तरे ।
प्रणता पात्रहस्ताय तदेवाभिमूखी ददौ ॥ क्११.८१ ॥
अथ स्नात्वा समायातस्तत्सुतस्त्वरितं क्षुधा ।
जननीं भोजनारम्भे ययाचे निजमूलकम् ॥ क्११.८२ ॥
पुण्यं पुत्रानुमोदस्व तन्मयातिथयेऽर्पितम् ।
इति मातुर्वचः श्रुत्वासोऽभूद्विद्ध इवेषुणा ॥ क्११.८३ ॥
सद्यो विषूचिकार्तस्य मन्मूलकमनल्पकम् ।
कुक्षिं भित्त्वा विनिर्यातु प्राणैः सह त वातिथेः ॥ क्११.८४ ॥
इति तस्याप्तपापस्य वाक्यारुष्येण भूयसा ।
विसूचिकैव पर्यन्ते बभूवपरजन्मनि ॥ क्११.८५ ॥
प्राक्पुण्यान्तरपाकेन स एवाद्य प्रसेनजित् ।
विपुलं राज्यमासाद्य तयैवान्ते क्षयं गतः ॥ क्११.८६ ॥
संसारपथपान्थानामेवं कर्म शुभाशुभम् ।
पाथेयमिव हस्तस्थं भोगायैवोपपद्यते ॥ क्११.८७ ॥
इति श्रुत्वा भगवतस्तथ्यं पथ्यं च तद्वचः ।
एवमेतदिति ध्यात्वा तं प्रणम्य ययौ नृपः ॥ क्११.८८ ॥
अत्रान्तरे प्राप्तराज्यः शाक्यवैरं विरूढकः ।
पुरोहितसुतेनैत्य स्मारितस्तत्क्षयोद्यतः ॥ क्११.८९ ॥
प्रययौ शाक्यनगरं गजाश्वरथरेणुना ।
मोहेनेव दिशां कुर्वन्निर्विवेकं धियामिव ॥ क्११.९० ॥
सर्वज्ञो भगवान् ज्ञात्वा तस्य तद्दुष्टचेष्टितम् ।
गत्वा शाक्यपुरोपान्ते तस्थौ शुष्कतरोरधह् ॥ क्११.९१ ॥
दूरात्तत्र स्थितं दृष्ट्वा तमागच्छन् विरूढकः ।
अवतीर्य रथादग्रमभ्येत्य प्रणतोऽवदत् ॥ क्११.९२ ॥
सत्सु स्निग्धपलाशेषु घनच्छायेषु शाखिषु ।
भगवन्नत्र विश्रान्तिः किमु शुष्कतरोरधः ॥ क्११.९३ ॥
इत्युक्तः क्षितिपालेन तं प्राह भगवान् जिनः ।
ज्ञातिच्छाया नरपतेः चन्दनादपि शीतला ॥ क्११.९४ ॥
नास्ति ज्ञातिसमं वित्तं नास्ति ज्ञातिसमा धृतिः ।
नास्ति ज्ञातिसमा छाया नास्ति ज्ञातिसमह्प्रियः ॥ क्११.९५ ॥
ममैते भूपते शाक्या ज्ञातयस्यत्पुरान्तिके ।
जातः प्रियोऽयं तत्प्रीत्या शुष्कशाखोऽपि पादपः ॥ क्११.९६ ॥
श्रुत्वैतद्विरतामर्षः शाक्यानां पक्षपातिनम् ।
भगवन्तं विदित्वैव न्यवर्ततः विरूढकः ॥ क्११.९७ ॥
भगवानपि शाक्यानां ज्ञात्वागामि भयं ततः ।
श्रेयसे शुद्धसत्त्वानां विदधे धर्मदेशनाम् ॥ क्११.९८ ॥
श्रोतापत्तिफलं कैश्चित्सकृदागामि चापरैः ।
अनागामिफलं चान्यैः संप्राप्तं तस्य शासनात् ॥ क्११.९९ ॥
शेषास्तु मूढमतयः शाक्याः प्रापुर्न तत्पदम् ।
सन्ति केऽपि खगा येषां वासरे तिमिरोऽद्भवः ॥ क्११.१०० ॥
निवृत्तस्याथ नृपतेः पुरोहितसुतस्ततः ।
वैरसर्पस्य सुप्तस्य विदधे प्रतिबोधनम् ॥ क्११.१०१ ॥
स तेन प्रेरितश्चक्रे मतिं शाक्यकुलक्षये ।
वैरानलं प्रचलनं करोति पिशुनानिलः ॥ क्११.१०२ ॥
घोरदुर्जनमन्त्रेण सहसोत्थापिताः खलाः ।
वेताला क्षितिपालाश्च न कस्य प्राणहारिणह् ॥ क्११.१०३ ॥
सैन्ये गजरथोदग्रे ततस्तस्मिन् प्रसर्पति ।
बभूव पुरसंक्षोभः शाक्यानां रूद्धवर्त्मनाम् ॥ क्११.१०४ ॥
तस्मिन् भगवान् रक्षार्थं शाक्यानां पक्षपातिनम् ।
समुद्यतं तत्र महामौद्गल्यायनमब्रवीत् ॥ क्११.१०५ ॥
शाक्यानां कर्मदोषोऽयं सर्वथा समुपस्थितः ।
तत्र रक्षविधानं ते गगने सेतुबन्धनम् ॥ क्११.१०६ ॥
पुंसमविन्त्यविभवानि शुभाशुभानि आयान्ति यान्ति च मुहुर्निरवग्रहाणि ।
कर्माक्षराणि निजजन्मपदस्वहस्तन्यस्तानि नाम न भवन्ति निरर्थकानि ॥ क्११.१०७ ॥
इति वाक्याद्भगवतस्तस्मिन् याते प्रणम्य तम् ।
चक्रिरे संविदं शाक्याह्प्रत्यासन्ने विरूढके ॥ क्११.१०८ ॥
हिंसास्माभिर्न कर्तव्या प्राणिमात्रस्य कस्यचित् ।
शराः शरीरमस्माकं विशन्त्वरिसमीरिताः ॥ क्११.१०९ ॥
इति संविदमाधाय ते वियष्टिकपाणयः ।
धीर्ः परोद्यमे तस्थुरवारयितकार्मुकाः ॥ क्११.११० ॥
अत्रान्तरे कर्मयोगान्निजदेशानवस्थितः ।
अज्ञात्वा संविदं शाक्यः शंपाकह्समुपाययौ ॥ क्११.१११ ॥
स दृष्ट्वा नगरे बद्धसंनाहं वसुधाधिपम् ।
कोपादेकश्चकारास्य रणे सुभटसंक्षयम् ॥ क्११.११२ ॥
युद्धे पुरुषसिंहेन हतास्ते वीरकुञ्जराः ।
प्रययुः स्पृहणीयत्वं यशोभिर्मक्तिकैरिव ॥ क्११.११३ ॥
स कोऽपि तस्य जज्वाल कोपितस्य परैरसिः ।
स ययौ यत्प्रतापेन विपुलां रिपुवाहिनीम् ॥ क्११.११४ ॥
प्रवेशं न ददुः शाक्याः शंपाकस्य द्विषां वधात् ।
स्वजनोऽपि परित्यक्तः स तैर्निस्त्रिंशकर्मणा ॥ क्११.११५ ॥
निजेऽपि विमुखाः क्रूरे साधवे दह्रम्बन्धवः ।
धानादपि वदान्यत्वं सुकृतं स्वजनादपि ॥ क्११.११६ ॥

  • * * * * * * * ।

शतमौचित्यनित्यानामायुषोऽपि यशः प्रियम् ॥ क्११.११७ ॥
निर्वासितः स तैः प्राप्तः शनैर्भगवतोऽन्तिकम् ।
ययाचेऽभ्युदयायाइव तं किंचिन्निजलाञ्छनम् ॥ क्११.११८ ॥
ऋद्धं भगवता दत्तं निजकेशनखांशकम् ।
स जगाम समादाय वाकुडं नाम मण्डलम् ॥ क्११.११९ ॥
तत्र प्रज्ञाप्रभावेण शौर्योत्साहगुणेन च ।
स प्राप राज्यं धीराणां सर्वत्र सुलभाः श्रियः ॥ क्११.१२० ॥
दक्षाणां लक्षणं लक्ष्मीः सहजं विदुषां यशः ।
व्यवसायसहायानां कलत्रं सर्वसिद्धयः ॥ क्११.१२१ ॥
तत्र स्थितो भगवतः सोऽथ केशनखांशके ।
स्तूपप्रतिष्ठामकरोद्वर्रत्नविराजिताम् ॥ क्११.१२२ ॥
विरूढकोऽपि शाक्यानां वैरपारतितीर्षया ।
पुनर्युक्त्या पुरद्व्हारभेदेन सहसाविशत् ॥ क्११.१२३ ॥
हत्वा तत्र सहस्राणि शाक्यानां सप्तसप्तति ।
बद्ध्वा कन्याकुमाराणां स सहस्रमथाहरत् ॥ क्११.१२४ ॥
शतानि पञ्च शाक्यानां गजैर्लोहैश्च मर्दनैः ।
संप्रमृज्य पुरीं चक्रे कृतान्तनगरीमिव ॥ क्११.१२५ ॥
भगवानपि शाक्यानां शत्रूणा भेदनं कृतम् ।
कर्मानुबद्धं विज्ञायं बभूव विमनाः क्षणम् ॥ क्११.१२६ ॥
पप्रच्छुस्तं समभ्येत्य भिक्षवः करुणाकुलाः ।
किं कर्म विहितं शाक्यैर्घोरं यस्येदृशं फलम् ॥ क्११.१२७ ॥
भगवाननिति तैः पृष्टः सर्वज्ञस्तानभाषत ।
निजकर्मविपाकेन शाक्यानामेष संक्षयः ॥ क्११.१२८ ॥
कृष्टौ पुरा महामत्स्यौ धीवरैः सरितोऽन्तरात् ।
तदा निकृत्तौ शल्येन भूयोऽप्यव्यथयन् धृतौ ॥ क्११.१२९ ॥
कालेन चारुतां यातैस्तैरेव परजन्मनि ।
हतौ गॄहपती दग्ध्वा तावेव धनहारिभिः ॥ क्११.१३० ॥
तौ मत्स्यौ तौ गृहस्थौ च विरूढकपुरोहितौ ।
दासानां तस्कराणां च शाक्यानां मृत्युतां गतौ ॥ क्११.१३१ ॥
इति श्रुत्वा भगवतः कर्मणां फलसंततिम् ।
अविसंवादिनीमेव मेनिरे सर्वभिक्षवः ॥ क्११.१३२ ॥
विरूढकोऽथ स्वपुरं प्राप्य विजयदुर्मदः ।
जेतानाम्ना सुतेनोक्तः प्रणयाद्बाललीलया ॥ क्११.१३३ ॥
देव किं निहताः शाक्यान्न तेऽस्माकं कृतागसः ।
इति ब्रुवाणमवधीन्निजसूनुं विरूढकः ॥ क्११.१३४ ॥
निपातमतिमृद्गति निहन्ति न करोति किम् ।
मदलब्धनधायासो मातंग इव दर्जनः ॥ क्११.१३५ ॥
स जगाद सभासीनः स्वभूजाववलोकयन् ।
अहो नु मम तापाग्नौ द्विसद्भिः शलभायितम् ॥ क्११.१३६ ॥
कृतान्ततोरणस्तम्भौ प्राज्यौ मम भुजाविमौ ।
निष्ःशेषवधदीक्षायां शाक्यानां गुरुतां गतौ ॥ क्११.१३७ ॥
तं तस्य विक्रमं श्लाघ्यं हृतास्ताः शाक्यकन्यकाः ।
श्रुत्वा बभाषिरे तीव्रमुद्वेगनमिताननाः ॥ क्११.१३८ ॥
कर्मपाशनिबद्धानां खगानामिव देहिनाम् ।
निधनोल्लङ्घने शक्तिर्नास्ति पक्षवतामपि ॥ क्११.१३९ ॥
येनाग्निः शममेति तत्किल जलं प्राप्नोत्यलं वाडवः
तिग्मांशुग्रहणं करोति समये हेलावलेह्यं तमह् ।
पर्यालोचनवर्त्मनामविषयं साश्चर्यचर्यास्पदं
सर्वं कार्मिकतन्त्रयन्तिमिदं कः कस्य कर्तुं क्षमः ॥ क्११.१४० ॥
एतदाकर्ण्य नृपतिः पदान्तर इवेरगः ।
करच्छेदं दिदेशासां घोरामर्षविषोत्कटः ॥ क्११.१४१ ॥
तीरे यस्याः कृतं तासां पाणिच्छेदनवैशसम् ।
साद्यापि हस्तगभति ख्याता पुष्करिणी भुवि ॥ क्११.१४२ ॥
लतास्वपि ह्कुकूलाग्निं क्रकचं नलीनीष्वपि ।
मालास्वपि शिलावर्षं पातयन्त्येव निर्घृणाः ॥ क्११.१४३ ॥
ताश्छिन्नपाणिकमलास्तत्र तीव्रव्यथातुराः ।
भगवन्तं धिया ध्यात्वा शरणं शरणं ययुः ॥ क्११.१४४ ॥
तासां विज्ञाय सर्वज्ञस्तीव्रां मर्माहतिव्यथाम् ।
शचीमचिन्तयद्देवीं तत्समाश्वासनोचिताम् ॥ क्११.१४५ ॥
तत्स्पर्शजातहस्ताब्जास्ता दिव्यवसनावृताः ।
ययुश्चित्तप्रसादेन ताह्स्वर्गं त्यक्तविग्रहा ॥ क्११.१४६ ॥
देवकल्पास्तमासाद्य दिव्यपद्मोत्पलाङ्किताः ।
धर्मदेशनया शास्तुस्ताह्प्रापुर्विपुलं पदम् ॥ क्११.१४७ ॥
भिक्षुभिर्भगवान् पृष्टस्तत्कर्मफलमभ्यधात् ।
पाणिचापल्यमेताभिः कृतं भिक्षुविडम्बने ॥ क्११.१४८ ॥
कर्मणस्तस्य पाकेन विशसे पतिताह्परम् ।
मयि चित्तप्रसादेन प्राप्ताश्चैताह्शुभां गतिम् ॥ क्११.१४९ ॥
इत्युक्त्वा भगवान् कर्मफलपाकविचित्रताम् ।
भुक्षीणां तत्प्रसङ्गेन विदधे धर्मदेशनाम् ॥ क्११.१५० ॥
अत्रान्तरे गूढचारी राज्ञा प्रणिहितश्चरः ।
भगवच्चरितं ज्ञात्वा विरूढकमुपाययौ ॥ क्११.१५१ ॥
सोऽवदद्देव भिक्षूणां तेनेदं कथितं पुरः ।
स्वकर्मफलमासन्नं तस्य पश्यामि भूपतेह् ॥ क्११.१५२ ॥
सप्ताहेनाग्निना दग्धः स पापात्मा पुरोहितः ।
अवीचिनाम्नि नरके दुःसहे निपतिष्यति ॥ क्११.१५३ ॥
इति तद्वचनं श्रुत्वा नृपतिः सपुरोहितः ।
यत्नादुवास सप्ताहं जलान्वितगृहान्तरे ॥ क्११.१५४ ॥
क्षणावशेषे सप्ताहे तस्मिन्नन्तःपुरं गते ।
सूर्यकान्तार्कसंतापयोगाज्जज्वाल पावकः ॥ क्११.१५५ ॥
उद्भूतेन प्रलयसवनावर्तिनेवाशु वेगान्
निर्दग्धोऽसौ धगिति शिखिना नारकं प्राप वह्निम् ।
अस्मिंल्लिके ज्वलनजटिलाः पापिनां प्रेत्य रागाः
सर्वत्रैव स्थिरसुखभुवः शीतलाः पुण्यभाजाम् ॥ क्११.१५६ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां विरूढकावदानं नाम एकादशः पल्लवः ॥


१२. हारीतिकादमनावदानम् ।

दुःखं नुदन्ति सुखसंपदमादिशन्ति संजीवयन्ति जनतां तिमिरं हरन्ति ।
सन्मानसस्य कलयन्ति विकासहासं सन्तः सुधार्द्रवदनाः शशिन कराश्च ॥ क्१२.१ ॥
बिम्बिसारः क्षितेः सारे पुरे राजगृहाभिधे ।
सारः समस्तभूपानामभूद्भूमिपुरंदरः ॥ क्१२.२ ॥
क्षमाधारे भुजे यस्य क्षमाधारे च चेतसि ।
बाह्यः समस्तचित्तानामशु न्यस्तकरो जनः ॥ क्१२.३ ॥
कुर्वतस्त्यागशौर्याभ्यामाशायाः परिपूरणम् ।
पाणौ विमुक्तरत्नौघे सुबद्धोऽभूदसिग्रहः ॥ क्१२.४ ॥
कदाचिदभवत्तस्य विप्लवो नगरे गुरुः ।
नवाभ्युदयसंजातदर्पकाल इवाकुलः ॥ क्१२.५ ॥
तमास्थानसमासीनं जनचिन्ताकृतक्षणम् ।
व्यजिज्ञिपत सौराजं प्रजानां जनकोपमम् ॥ क्१२.६ ॥
देव दिव्यप्रभावस्य नियतः शासनेन ते ।
जनह्सदा समुद्रोऽयं मर्यादां नातिवर्तते ॥ क्१२.७ ॥
येनास्य कृतवृत्तस्य सन्मार्गेण प्रसर्पतः ।
उपसर्गोद्गमः कस्मादकस्मादयमागतः ॥ क्१२.८ ॥
स्वधर्मसंवृत्तेन हि कर्मणा शर्मणा नृणाम् ।
सुनृपे न च गुह्यानामापतन्ति विपत्तयः ॥ क्१२.९ ॥
ह्रियन्ते नः प्रसूतीनां गृहिणीनांगृहे कया ।
अपत्यानि फलानीव सत्क्रियाणामसंयमात् ॥ क्१२.१० ॥
किंतु भूतान्न विद्मस्तान्मायां चापि महीपते ।
यत्प्रभावेण नीयन्ते कुलानि निरपत्यताम् ॥ क्१२.११ ॥
इति तेषां गिरा भूभृदभूत्संक्रान्ततद्व्यथः ।
परं दुःखं विशत्यन्तः सतां केदारवारिवत् ॥ क्१२.१२ ॥
सर्वाङ्गव्यापिना तेन जनदुःखेन भूयसा ।
विषेणेवावृतः सोऽभूदुद्भ्रान्तहृदयः क्षणम् ॥ क्१२.१३ ॥
सोऽब्रवीत्किं करोम्यत्राभुजाधीने विपौरूषे ।
कथं नाम प्रवर्तन्ते दुर्लक्ष्येषु प्रतिक्रियाः ॥ क्१२.१४ ॥
दिनमेकं व्रजन्त्वद्य भवन्तो निजमास्पदम् ।
सव्रतश्चिन्तयाम्येव रक्षां वः प्रस्वक्षये ॥ क्१२.१५ ॥
इति राजवचः श्रुत्वा हृष्टाः पौरमहत्तमाः ।
जगदुस्तं समावर्ज्य पूजाव्यञ्जनमज्ण्जलिम् ॥ क्१२.१६ ॥
देव त्वदवधानेन प्रणयाकर्णनेन च ।
त्वयि विन्यस्तचिन्तानां नास्माकमधुना श्रमः ॥ क्१२.१७ ॥
अनुद्धतमुदारं चत्वत्प्रसादावलोकनम् ।
इदमेव जनस्यास्य जीवितानीव वर्षति ॥ क्१२.१८ ॥
किं पुनः प्रियमेतत्ते पीयूषसदृशं वचः ।
तापापहं मृहु स्वादु किं किं न विदधाति नः ॥ क्१२.१९ ॥
कृती कृतज्ञः कारुण्यनिधिः सुलभदर्शनः ।
लभ्यते भाग्यभोग्येन सौजन्यसरलः प्रभु ॥ क्१२.२० ॥
पीयूषादतिपेशलः परिचयः श्राव्यं वचः पञ्चमम्
आचारः शरदिन्दुवृन्दमहसोऽस्यानन्दसंदोहदः ।
सच्चित्ते वसतां सतां किमपरं पुष्पान्मनह्कोमलं
सौजन्यं हरिचन्दनादपि परं संतापनिर्वापणम् ॥ क्१२.२१ ॥
इत्युक्त्वा प्रययुः पौरास्तं प्रणम्य प्रसादिनम् ।
किरन्तस्तद्गुणोदारामाशाकुसुममालिकाम् ॥ क्१२.२२ ॥
राजापि नगरे कृत्वा भूतपूजाविधिक्रमम् ।
शान्तिस्वस्तिकसंभारं चकार नियतव्रतः ॥ क्१२.२३ ॥
यक्षी हारीतिका नाम बालकान् पुरवासिनी ।
हरतीति स शुश्राव पुरदेवतयोदितम् ॥ क्१२.२४ ॥
ततः पौरजनैः सार्धं सामात्यः पृथीवीपतिः ।
कलन्दकनिवासाख्ये स्थितं वेणुवनाश्रमे ॥ क्१२.२५ ॥
भगवन्तं ययौ द्रष्टुं सुगतं दोषशान्तये ।
सर्वदुःखज्वरायासजुषामकटुकौषधम् ॥ क्१२.२६ ॥
तं दृष्ट्वा नृपतिर्दूरात्प्रणम्य प्रियदर्शनम् ।
उपविश्याग्रतस्तस्मै पौरदुःखं न्यवेदयत् ॥ क्१२.२७ ॥
भगवानपि विज्ञाय पौराणां संततिक्षयम् ।
चिन्तानिश्चञ्चलः क्षिप्रमुवाच करुणानिधिः ॥ क्१२.२८ ॥
स विसृज्य जगद्बन्धुः सनृपं पौरमण्डलम् ।
पात्रचीवरमादाय ययौ यक्षीनिकेतनम् ॥ क्१२.२९ ॥
तया विरहितं प्राप्य तद्गृहं भगवान् जिनः ।
प्रियंकराख्यं तत्पुत्रं निनायैकमदर्शनम् ॥ क्१२.३० ॥
याते भगवति क्षिप्रं यक्षी स्वगृहमागता ।
प्रभूतपुत्रा नापश्यत्प्रियं पुत्रं प्रियंकरम् ॥ क्१२.३१ ॥
तमीक्षमाणां विवशा हृतवत्सेव धेनुका ।
बभ्राम संभ्रमोद्भ्रान्ता सा जनेषु चा ॥ क्१२.३२ ॥
हा प्रियंकर हा पुत्र क्क नु पश्यामि ते मुखम् ।
इति प्रलापिनी तारं निःशेषाः सा ययौ दिशः ॥ क्१२.३३ ॥
सा विचित्याशु सर्वाशा निराशा पुत्रदर्शने ।
क्रोशन्ती पर्वतद्वीपं समुद्रवलयं ययौ ॥ क्१२.३४ ॥
मर्त्यभूमिमतिक्रम्य घोरेषु नगरेषु सा ।
स्वर्गोद्देशेष्व शेषेषु विमानोद्यानशालिषु ॥ क्१२.३५ ॥
श्रान्ता क्कचिन्न विश्रान्ता यक्षिणी प्रणिघातिनी ।
पुत्रमन्विष्य नापश्यल्लोकपालपुरेषु च ॥ क्१२.३६ ॥
कुबेरस्याथ वचसा गत्वा च सुगताश्रमम् ।
भगवन्तं वियोगार्ता शरण्यं शरणं ययौ ॥ क्१२.३७ ॥
तया तद्दुःखवृत्तान्तं सं निशम्य निवेदितम् ।
तामवोचत शोचन्तीं किंचित्स्मितसिताधरः ॥ क्१२.३८ ॥
हारीति तव पुत्राणां सन्ति पञ्चशतान्यहो ।
इति तेनोक्तमाकर्ण्य यक्षी दुःखक्षतावदत् ॥ क्१२.३९ ॥
पुत्रलक्षेऽपि भगवन् सह्या नैकसुतक्षतिः ।
पुत्रात्प्रियतरं नान्यत्किं दुःखं तत्क्षयात्परम् ॥ क्१२.४० ॥
पुत्रवानेव जानाति पुत्रस्नेहविषव्यथाम् ।
सहजैव सुतप्रीतिरकारणनिबन्धना ॥ क्१२.४१ ॥

  • * * * * * * * ।

मलिनो विकलः क्षीणः कस्य नेन्दुसमः सुतः ॥ क्१२.४२ ॥
इति यक्षवधूवाक्यं श्रुत्वा वात्सल्यविह्वलम् ।
भूतानुकम्पी भगवान् सस्मितस्तामभाषत ॥ क्१२.४३ ॥
शोकोऽयं बह्य्पुत्राया यद्येकविरहे तव ।
हृते त्वयैकवत्सानां पुत्रैके कीदृशी व्यथा ॥ क्१२.४४ ॥
त्वं प्रविश्य सदा गेहं स्त्रीणां पुत्रमलक्षिताम् ।
अश्नासि पुत्रमातापि व्याघ्रीव मृगशावकान् ॥ क्१२.४५ ॥
येन येन स्वदेहस्य दुःखं यात्युपभोगताम् ।
न तत्परस्य कुर्वीत समानोऽनुभवः शुचाम् ॥ क्१२.४६ ॥
त्वं बुद्धधर्मसंघानां त्रीणि शिक्षापदानि चेत् ।
गृह्णासि हिंसाविमुखी तत्प्राप्नोषि प्रियं सुतम् ॥ क्१२.४७ ॥
इत्युक्ता सा भगवता प्राप्तशिक्षापदा ततः ।
हिंसाविरामात्तं गत्वा पुत्रं प्राप प्रियंकरम् ॥ क्१२.४८ ॥
तस्याः प्राग्जन्मवृत्तान्तं तस्याः कर्मफलान्वयम् ।
भिक्षुभिर्भगवान् पृष्टस्तद्वृत्तान्तमभाषतः ॥ क्१२.४९ ॥
पुरास्मिन्नेव नगरे पौराह्केऽप्युपभोगिनः ।
पर्वतोद्यानमालायां विजह्रुर्नर्तनादिना ॥ क्१२.५० ॥
अथ तेन पथा कापि गोपकान्ता घनस्तनी ।
मथितं पण्यमादाय हरिणाक्षी समाययौ ॥ क्१२.५१ ॥
गर्भभारालसगतिः प्रत्युप्ता गजगामिनी ।
सा शनैरुपसर्पन्ती सस्पृहं तान् व्यलोकयत् ॥ क्१२.५२ ॥
तस्या वनमृगीमुग्धैरवदग्धा विलोकनैः ।
असंवृत्ता विलासार्द्रैस्तेऽपि सोत्कण्ठतां ययुः ॥ क्१२.५३ ॥
सा तैर्निमन्त्रिता तत्र मदनक्षीबतां गता ।
हारितं सहसा शीलं न विवेद प्रमादिनी ॥ क्१२.५४ ॥
ततस्तेषू प्रयातेषु तदा तस्या रतिश्रमात् ।
पपात सह धैर्येण गर्भऊ कोपादिवारुणः ॥ क्१२.५५ ॥
अत्रान्तरे समायातं तत्पुण्यैस्तेन वर्तमना ।
प्रत्येकबुद्धं साद्राक्षीत्कायचित्तप्रसादनम् ॥ क्१२.५६ ॥
सास्मै मथितमूल्याप्तमाम्राणां शतपञ्चकम् ।
दूरात्प्रणामविनता मनसैव न्यवेदत् ॥ क्१२.५७ ॥
ततः पुण्यर्द्धिमत्यस्मिन् जाता यक्षकुलेऽधुना ।
जातमाम्रार्पणेनास्याः पुत्राणां शतपञ्चकम् ॥ क्१२.५८ ॥
हिंसावती पापत्यागात्शीलविस्मरणात्परम् ।
प्रत्येकबुद्धप्रणतेः प्राप्तशिक्षापदाद्य सा ॥ क्१२.५९ ॥
इति विविधविपाकं कर्मतन्त्रं विचित्रं किमपिस कथयित्वा तत्र यक्षाङ्गनायाः ।
कलितकुशलसेतुः संभवाब्धौ जनानामकृत सुकृतचित्तं सर्वलोकस्य शास्ता ॥ क्१२.६० ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां हारीतिकादमनावदानं नाम द्वादशः पल्लवः ॥


१३. प्रतिहार्यावदानम् ॥

यः संकल्पपथा सदैव चरति प्रोज्जृम्भमाणाद्भुतं
स्वप्नैर्यस्य न संगतिः परिचयो यस्मिन्नपूर्वक्रमः ।
वाणी मौनवती च यत्र हि नृणां यः श्रोत्रनेत्रातिथिस्
तं निर्व्याजजनप्रभावविभवं मनौरमेयं नुमः ॥ क्१३.१ ॥
पुरे राजगृहाभिख्ये बिम्बिरासेण भूभुजा ।
पूज्यमानं जिन दृष्ट्वा स्थितं वेणुवनाश्रमे ॥ क्१३.२ ॥
मात्सर्यविषसंतप्ता मूर्खाः सर्व्ज्ञमानिनः ।
न सेहिरे तदुत्कर्षं प्रकाशमिव कौशिकाः ॥ क्१३.३ ॥
मलिनैः स्वविनाशाय परभागोदितैः सदा ।
क्रियते वासरस्पर्धा शार्वरैस्तिमिरोत्करैः ॥ क्१३.४ ॥
मस्करी संजयी वैरैरजितः ककुदस्तथा ।
पूरणज्ञातिपुत्राद्या मूर्खाः क्षपणकाः परे ॥ क्१३.५ ॥
ऊचुर्नृपतिमभ्येत्य मारमायाविमोहिताः ।
संघर्षद्वेषदोषेण धूमेनेवान्धकारिताः ॥ क्१३.६ ॥
एष सर्वज्ञतामानी वने यः श्रमणः स्थितः ।
ऋद्धिप्रभावो भवता तस्यास्माकं च दृश्यताम् ॥ क्१३.७ ॥
ऋद्धिप्रभावाद्यत्किंचित्जनव्यावर्जनोर्जितम् ।
द्र्श्यते महदाश्चर्यं प्रातिहार्यं तदुच्यते ॥ क्१३.८ ॥
शक्तिः संसदि यस्यास्ति प्रतिहार्यस्य दर्शने ।
अस्माकं तस्य वा राजन् पूजाः सन्तु जगत्र्त्रये ॥ क्१३.९ ॥
इति तेषां वचः श्रुत्वा तद्दर्पविमुखो नृपः ।
उवाच वाञ्छा केयं वः पङ्गूनां गिरिलङ्घने ॥ क्१३.१० ॥
असमञ्जसमेवैतत्का स्पर्धाग्नेः पतङ्गकैः ।
नैतद्वाच्यं पुनर्वादी मया निष्कास्यते पुरात् ॥ क्१३.११ ॥
इति राज्ञा गुणज्ञेन प्रत्याख्यातोद्यमाः खलाः ।
प्रययुस्ते निरालम्बे लम्बमाना इवाम्बरे ॥ क्१३.१२ ॥
बिम्बिसारो नरपतिर्मूर्खतापक्षपातवान् ।
अन्यं व्रजामो भूपालमिति ते समचिन्तयन् ॥ क्१३.१३ ॥
अत्राण्तरे भगवति श्रावस्तीमभितः पुरीम् ।
प्राप्ते तेजवनारामं दिगन्तानेव ते ययुः ॥ क्१३.१४ ॥
ते प्रसेनजितं तत्र प्राप्य कोसलभूपतिम् ।
प्रातिहार्यकृतस्पर्धां तामेवास्मै न्यवेदयन् ॥ क्१३.१५ ॥
गुणान्तरज्ञो नृपतिस्तेषां दर्पक्षयेच्छया ।
ऋद्धिसंदर्शनोत्साहाद्ययौ भगवतोऽन्तिकम् ॥ क्१३.१६ ॥
स समभ्येत्य विनयात्प्रणिपत्य तमब्रवीत् ।
भगवन् दर्पबलनं तीर्थ्यानां कर्तुमर्हसि ॥ क्१३.१७ ॥
ऋद्धिस्पर्धानुबन्धेन त्वत्प्रभावदिदृक्षया ।
स्वगुणश्लाघयास्माकं तैः कर्णौ बधिरीकृतौ ॥ क्१३.१८ ॥
प्रकाशय निजं तेजः सज्जनावर्जनं विभो ।
तीर्थ्याभिधानामखिलं प्रयातु प्रलयं तमः ॥ क्१३.१९ ॥
इति राजवचः श्रुत्वा निर्विकारो महाशयः ।
भगवान् विरतामर्षः सहर्षस्तमभाषतः ॥ क्१३.२० ॥
राजन्नान्योपमर्दाय विवादाय मदाय वा ।
विवेकाभरणार्होऽयं क्रियते गुणसंग्रहः ॥ क्१३.२१ ॥
मात्सर्यमलिनैः किं तैर्विचारविगुणैर्गुणैः ।
ये हरन्ति परोत्कर्षं स्पर्धाबन्धप्रसारिताः ॥ क्१३.२२ ॥
गुणाच्छादनमन्यस्य स्वगुणेन करोति यः ।
धर्मस्तेनाप्रशस्तेन स्वयमेव निघातितः ॥ क्१३.२३ ॥
सद्गुणानां परिक्षैव परवैलक्ष्यकारिणी ।
उचिता न हि शुद्धानां तुलारोहविडम्बना ॥ क्१३.२४ ॥
गुणवानपि नायाति यः परेषु प्रसन्नताम् ।
स दीपहस्तस्तत्पात्रच्छायया मलिनीकृतः ॥ क्१३.२५ ॥
लोक त एव सर्वज्ञा विद्मः किमधिकं वयम् ।
पराभिमानाभिभवप्रागल्भ्यं स्वपराभवः ॥ क्१३.२६ ॥
इति श्रुत्वा भगवतः प्रशमाभिमतं वचः ।
भृशमभ्यर्थनां राजा चकाराश्चर्यदर्शने ॥ क्१३.२७ ॥
ततः दृच्छ्राद्भगवता कृताभ्युपगमो नृपः ।
राजधानीं ययौ हृष्टः सप्ताहावधिसंविदा ॥ क्१३.२८ ॥
अस्मिन्नवसरे भ्राता भूमिभर्तुरसोदरः ।
चचारान्तःपुरोपान्ते प्रासादतलवर्त्मना ॥ क्१३.२९ ॥
सलीलं व्रजतस्तस्य कर्मवातैरिवेरिता ।
कुसुमस्रक्पपातांसे राजपत्नीकराच्च्युता ॥ क्१३.३० ॥
तस्य विज्ञातदोषस्य दोषं संभाव्य साक्षिभिः ।
पिशुनाः किंवदन्तीं तां चक्रिरे राजगामिनीम् ॥ क्१३.३१ ॥
छिद्रमल्पमपि प्राप्य क्षुद्राः सर्वापकारिणः ।
द्विजिह्वाः प्रविशन्त्याशु प्रभूनां शून्यमाशयम् ॥ क्१३.३२ ॥
पिशुनप्रेतिरो राजा भ्रातुरीर्ष्याविषोल्बणः ।
छेदमस्यादिदेशाशु पाणिपादस्य मूर्च्छितः ॥ क्१३.३३ ॥
निकृत्तपाणिचरणः कुमारः कर्मविप्लवात् ।
स वध्यवसुधाशायी विवेश विषमापदम् ॥ क्१३.३४ ॥
तीव्रव्यथापरिवृतं शोचद्भिर्मातृबन्धुभिः ।
ददृशुस्तं क्षपणकाः क्षणं नयनचालने ॥ क्१३.३५ ॥
तान् समभ्येत्य शोकार्तास्ते राजसुतबान्धवाः ।
जगदुस्तत्परित्राणसंलिप्ताः सर्वप्राणिनह् ॥ क्१३.३६ ॥
दोषं निगृहीतोऽयं कालनामा नृपात्मजम् ।
सर्वज्ञवादिनो यूयं प्रसादोऽस्य विधीयताम् ॥ क्१३.३७ ॥
इति तै प्रसरद्बाष्पैरर्थ्यमानाह्प्रलापिभिः ।
ते मौनिनो निष्प्रतिभा वैलक्ष्यादन्यतो ययुः ॥ क्१३.३८ ॥
अथ तेन यथायातो भिक्षुः सुगतशासनात् ।
आनन्दो विदधेऽङ्गानि तस्य सत्योपयाचनात् ॥ क्१३.३९ ॥
राजपुत्रस्तु संजातपाणिपादः प्रसन्नधीः ।
जिनं शरणमभ्येत्य तदुपस्थायकोऽभवत् ॥ क्१३.४० ॥
सप्तरत्रे व्यतीतेऽथ श्रान्तिहार्यं गृहं महत् ।
ऋद्धिं भगवतो द्रष्टुं महीपतिरकारयत् ॥ क्१३.४१ ॥
उपविष्टे नृपे तत्र सह क्षपणकादिभिः ।
कल्पवृक्षीकृता भूमिरभवत्सुगतेच्छया ॥ क्१३.४२ ॥
ततः प्राप्तेषु देवेषु द्रष्टुं भगवतः प्रभाम् ।
रत्नप्रदीपं भगवान् भेजे सिंहासनं महत् ॥ क्१३.४३ ॥
तेजोधातुं प्रपन्नस्य तस्य गण्डसमुद्गतैः ।
व्याप्तं पावकसंघातैरभूद्भुवनमण्डलम् ॥ क्१३.४४ ॥
शान्ते शनैः कमलकाननसंनिकाशे वह्नौ समस्तभुवनस्थितिभङ्गभीत्या ।
देहात्ततो भगवतः करुणाम्बुराशेः पूर्णामृतोर्मिविमला रुचयः प्रसस्रुः ॥ क्१३.४५ ॥
लावण्यसारमतिचन्द्रसहस्रकान्तिं तेजः प्रतानविफलीकृतसूर्यचक्रम् ।
तं नागनायकनिकायविलोचनानि प्रीत्या पपुः सुकृतलब्धमपूर्वहर्षम् ॥ क्१३.४६ ॥
वैदूर्यनालविपुलारुणरत्नपात्रकान्तोल्लसत्कनककेसरकर्णिकानि ।
अभ्युद्ययुः क्षितितलादथ तत्समीपे पद्मानि सौरभभराहृतषट्पदानि ॥ क्१३.४७ ॥
तेषूपविष्टमथ काञ्चनचारुकान्तिं स्निग्धेक्षस्णं सुगतचक्रमदृश्यतारात् ।
पीयूषपेशलशशिद्युतिशीतलेन यस्योदयेन सहसा सुखमाप लोकः ॥ क्१३.४८ ॥
तेषां प्रभावविभवं बह्गवान् बभार मध्येऽधिकं कनकशैल इवाचलानाम् ।
सुस्कन्धबन्धुरघनद्युतिसंनिवेशः प्रांशुः सुरक्षितिरुहामिव पारिजातः ॥ क्१३.४९ ॥
स्वर्गाङ्गनाकरकुशेशयकीर्यमाणैरम्लानमाल्यवलयैः कलितोत्तमाङ्गाः ।
तस्याननाम्बुजविलोकननिर्निमेषे मर्त्या अपि क्षणमवापुरमर्त्यभावम् ॥ क्१३.५० ॥
व्योमाङ्गणेषु सुरदुन्दुभिशङ्खतूर्यघोषावृतः कुसुमवर्षमहाट्टहासः ।
गन्धर्वकिन्नरमुनीश्वरचारणानां स्फीटश्चचार भगवत्स्तुतिवादनादः ॥ क्१३.५१ ॥
तत्रारुणाधरदलाद्दशनांशुशुभ्राद्व्याकीर्णकेशरकुलाद्दशनारविन्दात् ।
सत्सौरभं भगवतः स्वरसंनिवृत्तं धन्याः पपुर्मधुरवाङ्भधु पुण्यसूतम् ॥ क्१३.५२ ॥
पापं विमुञ्चत निषिञ्चत पुण्यबीजं वैरं परित्यजत साम्यसुखं भजध्वम् ।
ज्ञानामृतं पिबतं मृत्युविषापहारि नेयं तनुः कुशलकर्मसखी चिराय ॥ क्१३.५३ ॥
लक्ष्मीश्चला तरुणता च जरानुयाता कायोऽप्यपायनिचयस्य निवास एव ।
प्राणाः शरीरककुटिषु मुहूर्तपान्था नित्योदये कुरुत धर्ममये प्रयत्नम् ॥ क्१३.५४ ॥
इत्यादिभिर्भगवतः प्रविभक्तदीप्तज्ञानैर्विवेकविमलैः कुशलोपदेशैः ।
वज्रैरिवाशु दलनं प्रययौ जनानां सत्कायदृष्टिसमविंशतिशृङ्गशैलः ॥ क्१३.५५ ॥
ऋद्धिप्रभां भगवतः प्रविभाव्य तीर्थ्या मन्त्रहता विषधरा इव भग्नदर्पाः ।
दीपा इवार्ककिरणप्रतिभाभिभूताश्चित्रार्पिता इव ययुश्चिरनिश्चलत्वम् ॥ क्१३.५६ ॥
अत्रान्तरे भगवतः सततं विपक्षः सर्वात्मना क्षपणको नवधर्मयक्षः ।
क्षिप्तश्रवान् स वृतवर्षवरैश्चकार विद्रव्य रन्ध्रशरणान् भुवि वज्रपाणिः ॥ क्१३.५७ ॥
अद्दिश्य तानथ कृपार्द्रभयाशरण्यः सर्वोपदेशविषयान् भगवान् बभाषे ।
भूभृद्वनाबनिमणिर्विवरादि सर्वं तेने भयेषु शरणं किल कातराणाम् ॥ क्१३.५८ ॥
बुद्धिं प्रबोध मम धाम्बि निधाय बुद्धिं
धर्मं ससंघमपि ये शरणं प्रपन्नाः ।
तेषा जगत्क्षयभयेष्वपि निर्भयाणां
नैवान्यतः शरणदैन्यपरिग्रहोऽस्ति ॥ क्१३.५९ ॥
दुर्वारे परलोकतीव्रतिमिरे धर्मः प्रवृद्धोऽशुमान्
दानं दुःसहपापतापविपदामभ्युद्गमे वारिदः ।
प्रज्ञा मोहमहाप्रपातविषमश्वभ्रे करालम्बनं
दैन्याक्रान्तमहीनमेव शरणं सर्वत्र पुण्यं नृणाम् ॥ क्१३.६० ॥
इति तिमिरवृताक्ष्णां चक्षुरुन्मीलनार्हं दशनमणिमरीचिव्यज्यमानप्रकाशम् ।
सदसि सुगतचन्द्रः शुद्धधर्मोपदेशं स्थिरपदमिव कृत्वा काननं स्वं जगाम ॥ क्१३.६१ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां प्रातिहार्यावदानं नाम त्रयोदशः पल्लवः ॥


१४. देवावतारवदानम् ।

जयति महतां प्रभावः पश्चादग्रे च वर्तमानो यः ।
जनकुशलकर्मसरणिः प्रकाशरत्नदीपो वः ॥ क्१४.१ ॥
पुरा सुरपुरे पाण्डुकम्बलाख्ये शिलातले ।
समीपे पारिजातस्य कोविदारस्य सुप्रभे ॥ क्१४.२ ॥
कृत्वा त्रिदशसंघानां भगवान् धर्मदेशनाम् ।
अनुग्रहाय मर्त्यानां जम्बूद्वीपमवातरत् ॥ क्१४.३ ॥
अमरैरनुयातस्य तस्यावतरतो भुवम् ।
विमानकाननाकीर्णं बभूव भुवनाङ्गणम् ॥ क्१४.४ ॥
तस्य दन्तांशुसंतानैरुपदेशमिवाचितम् ।
जग्राह चन्द्ररुचिरं चामरं चतुराननः ॥ क्१४.५ ॥
छत्रं शतशलाकाङ्कमनङ्कं रङ्कुपाण्डुरम् ।
प्रसादमिव साकारमाददेऽस्य पुरंदरः ॥ क्१४.६ ॥
संकाश्यनगरोपान्ते काननोदुम्बरान्तिके ।
अवतीर्णं सुकृतिनः सानन्दास्तं ववन्दिरे ॥ क्१४.७ ॥
तस्मिन्नुत्पलवर्णाख्या भिक्षुकी जनसंगमे ।
अलब्धावसरा द्रष्टुं नृपरूपमुपाददे ॥ क्१४.८ ॥
प्रदीप्तरत्नमुकुटं गण्डताण्डविकुण्डलम् ।
दृष्ट्वैवास्य नवं रूपं जहासोष्णीषपल्लवः ॥ क्१४.९ ॥
सा चिन्तयन्ती को वायं जनैर्निर्विवरः पुरः ।
अन्तरं नृपरूपं मे दृष्ट्वा दास्यति सादरः ॥ क्१४.१० ॥
अत्प्ऽन्यथा तु भगवत्प्रणतिर्मम दुर्लभा ।
न गुणं गौरवस्थानमैश्वर्यप्रणयी जनः ॥ क्१४.११ ॥
अहो तृणतृलालोलैर्निःसारविरसैर्धनैः ।
ह्रियते वासनाभ्यासान्निर्विचारतया जनः ॥ क्१४.१२ ॥
दत्तान्तरा सा सहसा जनेन नृपगौरवात् ।
लोलहारं भगवतः प्रणाममकारोत्पुरः ॥ क्१४.१३ ॥
अस्मिन्नवसरे भिक्षुरुदयी नाम संसदि ।
तां विलोक्य तथारूपामवदत्सस्मिताननः ॥ क्१४.१४ ॥
इयमुत्पलवर्णाख्या भिक्षुकी नृपरूपिणी ।
ऋद्ध्या भगवतः पादौ वन्दते जनवन्दिता ॥ क्१४.१५ ॥
उत्पलामोदवर्णाभुआं विज्ञातेयं मया पुरा ।
इत्युक्त्वा विरते तस्मिन् भगवानप्यभाषत ॥ क्१४.१६ ॥
अयुक्तमेव भिक्षुक्या दर्पदृद्धिप्रकाशनम् ।
करोति प्रशमग्लानिमभिमानेन च ज्वरः ॥ क्१४.१७ ॥
इत्युक्त्वा भगवान् कृत्वा तां तां शुभ्रोपदेशनाम् ।
विसृज्य देवान् प्रययौ स्वपदं सह भिक्षुभिः ॥ क्१४.१८ ॥
तत्रोपविष्टः पृष्टस्तैः प्रणतैर्भिक्षुकीकथाम् ।
प्राग्जन्मकर्मसंबद्धां सर्वज्ञस्तानभाषत ॥ क्१४.१९ ॥
वाराणस्यामभूत्पूर्वंसार्थवाहो महाधनः ।
पत्नी धनवती नाम तस्य प्राणसमाभवत् ॥ क्१४.२० ॥
पाणिपल्लविनी तन्वीयओवनोद्यानमञ्जरी ।
फलपुष्पवती काले सा तस्माद्गर्भमादधे ॥ क्१४.२१ ॥
अत्रान्तरे जलनिधिद्वीपानुगमनोद्यतम् ।
प्रत्यासन्नवियोगार्ता सा वल्लभमभाषत ॥ क्१४.२२ ॥
कियती धनसंपत्तिर्वृद्धिमद्यापि नीयते ।
यत्कृते घ्प्रगम्भीरस्तीर्यते मकराकरः ॥ क्१४.२३ ॥
बह्वपायं धनादानं निरपाया गुणार्जनम् ।
स्वदेशात्परदेशं हि गच्छन्ति द्रविणार्थिनह् ॥ क्१४.२४ ॥
केचिद्दुःखान्निवर्तन्ते दूरं गत्वापि निष्फलाः ।
निश्चला धनिनश्चान्ये कर्मणामेष निश्चयः ॥ क्१४.२५ ॥
इति प्रियावचः श्रुत्वा सार्थवाहस्ततोऽभ्यधात् ।
मुग्धे संभावनापात्रो भवत्येवं धनोद्यतः ॥ क्१४.२६ ॥
धनार्जनविहीनानां पुङ्गुवन्मूलभक्षणात् ।
अद्य श्वो वा सुखस्थानां भोगैः सह परिक्षयः ॥ क्१४.२७ ॥
स्वगृहेऽपि दरिद्राणां जनह्क्रकचनिष्ठुरः ।
धनिनां परलोकोऽपि प्रेमस्निग्धजनं भुवः ॥ क्१४.२८ ॥
क्षीणमप्युद्यतं वृद्ध्यै न वेणुं बन्धते जनः ।
न तु स पूर्णतां याति प्रत्यासन्नपरिक्षयः ॥ क्१४.२९ ॥
मूर्खोऽपि विदुषां वन्द्यः स्त्रीणां वृद्धोऽपि वल्लभः ।
क्लिबोऽपि सेव्यः शूराणामासन्नाभ्युदयो जनः ॥ क्१४.३० ॥
केनान्यकरणं भुक्त्वा पीत्वा काव्यामृतानि वा ।
क्षणं विचक्षणेनापि क्षुप्तिपासे विवर्जिते ॥ क्१४.३१ ॥
यस्यार्थः स गुणोन्नतैः कृतनुतिः कं वा न धत्ते गुणं
दारिद्य्रोदयदोषदूषितरुचां निर्माल्यतुल्या गुणाः ।
वित्तेनैव गुणा गुणी न तु धनी धन्यो धनी नो गुणी कायाद्दुष्कृतसंनिपातशमनादायुर्गुणानां धनम् ॥ क्१४.३२ ॥
इति प्राणाधिकार्थस्य पत्युराकर्ण्य सा वचः ।
साञ्जनाश्रुकणोत्कीर्णा लतेवाभृतषट्पदा ॥ क्१४.३३ ॥
अथ प्रवहणं भेजे सार्थनाथस्तया सह ।
तीव्रतृष्णागृहीतानां हस्तपात्रं महोदधिः ॥ क्१४.३४ ॥
तस्य जायासखस्यासौ कर्मवातानुवर्तिनः ।
अभज्यत प्रवहणं समनोरथजीवितम् ॥ क्१४.३५ ॥
ततः फलकमासाद्य भागशेषाच्च कर्मणः ।
कशेरुद्वीपमासाद्य तत्पतिर्विपदं गतः ॥ क्१४.३६ ॥
अनाथां तत्र शोचन्तीं विहङ्गः पुरुषाकृतिः ।
तामाप पाददीर्णाशां सुवर्णकुलसंभवः ॥ क्१४.३७ ॥
स कान्तां सुमुखो नाम तामुवाच रुचाकृतः ।
समाश्वसिहि लोलाक्षि निर्भयोऽयं तवाश्रयः ॥ क्१४.३८ ॥
दिव्येयं सुभगा भूमिर्वयं त्वत्प्रणयैषणः ।
पुण्यायातासि कल्याणि घोरोऽयं मकराकरः ॥ क्१४.३९ ॥
इत्युक्त्वा तेन शनकैर्नीता रत्नालयं गृहम् ।
संपूर्णगर्भा तनयं चारुरूपमसूत सा ॥ क्१४.४० ॥
वर्धमाने शिशौ तस्मिन् सा शनैः प्रियवादिना ।
मुग्धा तेन विदग्धेन संभोगाभिमुखीकृता ॥ क्१४.४१ ॥
सरलत्वान्मृदुत्वाच्च समीपप्रणयी जनः ।
स्वयमालिङ्ग्यते स्त्रीभिर्लताभिरिव पादपः ॥ क्१४.४२ ॥
दिव्योद्यानेषु सा तेन रममाणां घनस्तनी ।
कुमारं रुचिराकारं सुषुवे सदृशं पितुः ॥ क्१४.४३ ॥
तस्मिन् पद्ममुखाभिख्ये यौवनालंकृताकृतौ ।
सुमुखः पक्षिणां राजा काले लोकान्तरं ययौ ॥ क्१४.४४ ॥
ततः पद्ममुखः श्रीमानाससाद पदं पितुः ।
गुणिनामविवादेन स्वाधीनाः कुलसंपदः ॥ क्१४.४५ ॥
प्राप्तैश्वर्यं तमवदद्विजने जननी सुतम् ।
तत्प्रभावस्य संभाव्य सर्वत्र प्रभविष्णुताम् ॥ क्१४.४६ ॥
पुत्र प्राप्ता त्वया लक्ष्मीरियं निजकुलोचिता ।
अयं तु सार्थवाहान्मे जातः पुत्रो निरंशकः ॥ क्१४.४७ ॥
वाराणस्यामयं राजा शशक्त्या क्रियतां त्वया ।
प्रीतीसंवादसास्वादः स्वदेशे सेव संपदः ॥ क्१४.४८ ॥
इति मातुर्गिरा पक्षी पक्षपातेन भूयसा ।
स्कन्धे भ्रातरमारोप्य व्योम्ना वाराणसीं ययौ ॥ क्१४.४९ ॥
तत्र सिंहासनासीनं ब्रह्मदत्तं महीपतिम् ।
संजघानैकदैनं स वज्रग्रनखरैः खरैः ॥ क्१४.५० ॥
अभिषिच्याग्रजं पूर्णं तस्मिन्नेव नृपासने ।
अमात्यान् सोऽवदद्भीतान् समग्रानग्रविक्रमः ॥ क्१४.५१ ॥
यस्य राज्ञोऽभिषिक्तस्य मया यः प्रचलीकरः (?) ।
सोऽप्यतीतः प्रभो भक्त्या तमेवानुगमिष्यति ॥ क्१४.५२ ॥
इत्युक्त्वा प्रवरामात्यान् स्वैरं विहगपुण्गवः ।
ययौ भ्रातरमामन्त्र्य पुनर्देशनसंविदा ॥ क्१४.५३ ॥
स एव ब्रह्मदत्तोऽयमिति मन्त्रित मन्त्रिणाम् (?) ।
स नृपः ख्यातिमायातः स्वजनेषु परेषु च ॥ क्१४.५४ ॥
अत्रान्तरे समानीता सगर्भा हस्तिनी वनात् ।
न मुमोचार्धनिर्यातगर्भं रुद्धमिवान्तरे ॥ क्१४.५५ ॥
साध्वीकराग्रसंस्पर्शादियं गर्भं विमुञ्चति ।
इति मौहूर्तिकादिष्टं राज्ञे मन्त्री न्यवेदयत् ॥ क्१४.५६ ॥
शासनादथ भूभर्तुः स्पृष्ट्वा हस्तेन हस्तिनीम् ।
अन्तः पुराङ्गनाश्चक्रुस्तत्र सत्योपयावनम् ॥ क्१४.५७ ॥
तासां सत्यगिरा गर्भं नात्यजत्करिणी यदा ।
तदा विलक्ष्यः सर्वोऽभूत्भूपस्यान्तःपुरे जनः ॥ क्१४.५८ ॥
अथ गोपाङ्गनाभ्येत्य शीलसत्योपयाचनम् ।
कृत्वा पस्पर्श करिणीं येनासौ गर्भमत्यजत् ॥ क्१४.५९ ॥
कृत्वा निजजायानां ज्ञात्वा शीलदरिद्रताम् ।
मेने गोपां मनःस्वेव तां जगत्र्त्रितये सतीम् ॥ क्१४.६० ॥
स सतीजातिलोभेन सोशुम्बां नाम तत्सुताम् ।
परिणीयानिनायाग्रे देवीशब्दस्य पात्रताम् ॥ क्१४.६१ ॥
तस्याः संचिन्त्य लावण्यं चपलत्वं च योषिताम् ।
स सर्वगामीनीं निद्रामपि तत्याज शङ्कितः ॥ क्१४.६२ ॥
अस्मिन्नवसरे द्रुष्टुं भ्रातरं विहगाधियः ।
ययौ पद्ममुखस्तत्र स्नेहादतिशयोत्सुखः ॥ क्१४.६३ ॥
भूपालोऽपि तमालिङ्ग्य प्रीत्या विहितसत्कृतिः ।
विजने स्वकथामस्मै निवेद्य पुनरब्रवीत् ॥ क्१४.६४ ॥
शीलसत्यतुलारोहात्दृष्टदोषेण योषिताम् ।
ममान्तःपुरवैमुख्यात्विवाहोऽभिनवः कृतः ॥ क्१४.६५ ॥
रूपयौवनगामिन्म्यां तस्यामपि न मे धृतिः ।
एकत्र दृष्टदोषाणां सर्वत्राशङ्कते मनः ॥ क्१४.६६ ॥
तस्मात्तव पुरे भ्रातर्विमानुष्ये निधीयताम् ।
शीलशन्कां परित्यज्य भवामि विगतज्वरः ॥ क्१४.६७ ॥
तस्मात्प्रतिनिशं पक्षी शासनात्तव मद्गृहम् ।
प्रापयिष्यति तां स्वैरमित्ययं मे मनोरथः ॥ क्१४.६८ ॥
इति भ्रातुर्वचः श्रुत्वा तमुवाच विहङ्गमः ।
ईर्ष्याशङ्काकलङ्केन राजन्मिथ्यैव मा कृथाः ॥ क्१४.६९ ॥
न नाम रमते रम्ये नास्वादं वेत्ति भोजने ।
न पश्यति न निद्राति नित्यमीर्ष्यावशातुरः ॥ क्१४.७० ॥
क्लीबः कामी सुखी विद्वान् धनी नम्रः प्रभुः क्षमी ।
अर्थी मान्यः खलः स्निग्धः स्त्री सतीति कथैव का ॥ क्१४.७१ ॥
सरलत्वेऽपि कुटिलाः स्थायिन्योऽप्यतिचञ्चलाः ।
कुलीना अपुइ पार्श्वस्थमालिङ्गन्त्यबला लताः ॥ क्१४.७२ ॥
दृष्टिर्लोलाधरो रागी भ्रूर्वाक्रा कठिनौ स्तनौ ।
दृश्यते नैव निर्दोषः स्त्रीणामवयवेष्वपि ॥ क्१४.७३ ॥
भुज्यन्ते कुशलैः श्यामा भ्रमद्भ्रमरविभ्रमैः ।
मूलान्वेषी सरोजिन्याः पङ्केनैवावलिप्यत ॥ क्१४.७४ ॥
नैकस्मिन् विस्मयभुवां सस्मितानां नियन्त्रिते ।
शुचिशीलविरामाणां रामाणां रमणे मतिः ॥ क्१४.७५ ॥
तथापि मत्पुरोद्याने निर्जने सा निधीयताम् ॥ क्१४.७६ ॥
इत्युक्तः पक्षिणा भ्राता नृपतिर्विससर्ज ताम् ।
कान्तां कशेरुकद्वीपे तं च सत्कृत्य सादरः ॥ क्१४.७७ ॥
सापि प्रतिनिशं व्योम्नः खगारूढा समाययौ ।
दिव्यगन्धमयीं मालामादाय द्वीपसंभवाम् ॥ क्१४.७८ ॥
पारिजातान्वयतरोस्तानि पुष्पाण्यवाप सा ।
ख्यातानि तिमिराणीव भ्रमद्भृङ्गान्धकारतः ॥ क्१४.७९ ॥
अथ वाराणसीवासी कदाचिन्मानवाभुधः ।
प्रययौ समिधाहारी द्विजन्मा काननं युवा ॥ क्१४.८० ॥
तत्र किन्नरकामिन्या स दृष्टः स्पष्टमन्मथः ।
यस्य संदर्शनेनैव साभवद्विस्मृतस्मृतिः ॥ क्१४.८१ ॥
असौ नवाभिलाषेण जनकेनेव सार्पिता ।
कान्ता कान्तिमयी नाम विजहार गुहागृहे ॥ क्१४.८२ ॥
तत्राभरणरत्नाशुः प्रतीततिमिरोत्करे ।
रममाणा चिरं तेन काले पुत्रमवाप सा ॥ क्१४.८३ ॥
बलवान्मरुदुद्भवः स बाल्येऽपि यदा शिशुः ।
तदा माता तस्य संज्ञां शीघ्रग इत्यसाधयत् ॥ क्१४.८४ ॥
सापि निवाघ्नसंभोगा सुखातृप्ता गुहान्तरे ।
प्रियं धॄत्वा सदा याति पिधाय शिलया गृहम् ॥ क्१४.८५ ॥
कदाचिदथ वृत्तान्तं निजपित्रा निवेदितम् ।
आकर्ण्य शीघ्रगश्चिन्ताविस्मयाकुलितोऽवदत् ॥ क्१४.८६ ॥
शिलानिबद्धद्वारेऽस्मिन्नन्धस्यैव गॄहान्तरे ।
अहो स्नेहोऽप्ययं तात तव बन्धनतां गतः ॥ क्१४.८७ ॥
एहि वाराणसीमेव गच्छावस्ते निजास्पदम् ।
विओउलामप्ययत्नेन शिलामुत्सारयाम्यहम् ॥ क्१४.८८ ॥
स्वदेशविरहक्लेशं द्य्ःशं सहसे कथम् ।
त्यक्तुं न शक्यते कौश्चिद्देशो देह इव स्वकः ॥ क्१४.८९ ॥
भारं द्रविणसंभारं वेत्ति ग्रन्थिगुणागुणः ।
भोगं निरुपभोगं च स्वदेशविरही जनः ॥ क्१४.९० ॥
इत्युक्त्वा स गुहागोहादुत्पाट्य विपुलां शिलाम् ।
कृताभ्युपगमेनाशु जनकेन ययौ सह ॥ क्१४.९१ ॥
प्रयातयोस्ततस्तूर्णं समभ्येत्याथ किन्नरी ।
शून्यं दृष्ट्वा गुहागेहं निर्वेदादित्यविन्तयत् ॥ क्१४.९२ ॥
अहो मे विस्मृतस्नेहः स गतः क्कापि दुर्जनः ।
द्विजिह्वानां भुजंगानां कौटिल्यं वा किमद्भुतम् ॥ क्१४.९३ ॥
न रमन्ते पलायन्ते पर्यन्ते सुखरागिणः ।
चिरस्था अपि निःस्नेहाः शुका इव द्विजातयः ॥ क्१४.९४ ॥
इति संचिन्त्य सा पत्युर्निकारात्प्रीतिमत्यजत् ।
पुष्पोपमानि प्रेमाणि न सहन्ते कदर्थनाम् ॥ क्१४.९५ ॥
विद्यागुणेन केनासौ पुत्रो मे भुवि जाईवति ।
इति ध्यात्वा सखीहस्ते तस्मै वीणां दिदेश सा ॥ क्१४.९६ ॥
संभोगसुखपण्यैव प्रीतिः पतिषु योषिताम् ।
अपर्युषितवात्सल्या पुत्रप्रीतिस्तु निश्चला ॥ क्१४.९७ ॥
जवेन व्रजतोस्तूर्णं तयोर्दौर्जन्यलज्जया ।
शीग्रगाय ददौ वीणां तत्सखी वेगगामिनी ॥ क्१४.९८ ॥
आद्या तन्त्रिरियं नास्याः स्प्रष्टव्या विघ्नकारिणी ।
इत्याभाष्य तया दत्तां वीणां प्राप्य जगाम सः ॥ क्१४.९९ ॥
ततः स्वदेशे जनकं स्वगृहे विनिवेश्य सः ।
वीणाप्रवीणः सर्वत्र लाभपूजामवाप्तवान् ॥ क्१४.१०० ॥
ततः कदाविद्वाणिजा अम्बुधिद्वीपगामिना ।
आरोपितः प्रवहणं दिव्यवीणानुरागिणा ॥ क्१४.१०१ ॥
वीणामूर्च्छनया तस्य श्रोत्रपीयूषधारया ।
क्षणे क्षणे समुद्रोऽपि निस्तरङ्ग इवाभवत् ॥ क्१४.१०२ ॥
अथाद्यतन्त्रिसंस्पर्शादुत्पन्नोपप्लवोप्लुते ।
भग्ने प्रवहणे सर्ववणिजामभवत्क्षयः ॥ क्१४.१०३ ॥
ततो बलाहकावाप्त्या पवनप्रेतितः क्षणात् ।
कशेरुद्वीपमासेदे कर्मशेषेण शीघ्रगः ॥ क्१४.१०४ ॥
तत्राब्धिकूलसंलीनं दिव्योद्यानं प्रविश्य सः ।
श्यामां ददर्श सोशुम्बां मूर्धन्यस्तबकस्तनाम् ॥ क्१४.१०५ ॥
ग्रन्धन्तीं तिमिराख्यानां पुष्पाणामुज्ज्वलस्रजम् ।
निबन्धनं तनुगुणैः कुर्वाणामप्यचेतसाम् ॥ क्१४.१०६ ॥
सापि तं रुचिराकारं दृष्ट्वा विस्मयमाययौ ।
धीरं शैशवतारुण्यसंधिमध्यस्थतां गतम् ॥ क्१४.१०७ ॥
मारमारुतसंचालसकम्पकरपल्लवा ।
सा शीर्णशीलकुसुमा लतेव प्रणनाम तम् ॥ क्१४.१०८ ॥
चिरारूढेव सहसा प्रीतिः प्रौढा तयोरभूत् ।
प्राग्जन्मस्नेहसंलीनं न मुञ्चति मनो मनः ॥ क्१४.१०९ ॥
रममाणां दिवा तेन निशायां च महीभुजा ।
मेने वामाचरिततां तां प्रियो गूढकामुकः ॥ क्१४.११० ॥
तेन वाराणसीं गन्तुं ज्ञात्वा वृत्तं समर्थिता ।
तन्निनाय खगारूढा तद्गिरा मीलितेक्षणम् ॥ क्१४.१११ ॥
वारितोऽपि तदा व्योम्नि नयनोन्मीलने तया ।
सोऽबह्वत्सहसैवान्धश्चापलाद्विवृतेक्षणः ॥ क्१४.११२ ॥
सा तमन्तःपुरोद्याने निधाय भयकातरा ।
विवेश शोकसंतप्ता शय्यावेश्म महीपतेः ॥ क्१४.११३ ॥
दूयमानेन मनसा रजनीमतिवाह्य ताम् ।
प्रातर्न गन्तुं न स्थातुं चिन्ताक्रान्ता शशाक सा ॥ क्१४.११४ ॥
अत्रान्तरे समुद्भूतश्च्युतसौरभनिर्भरः ।
मधुमासो विलासानां यौवनं पुष्पधन्वनः ॥ क्१४.११५ ॥
कोकिलालिकुलैः कालः कालः कालो वियोगिनाम् ।
शीर्णशोकनवाशोकदुःसहः प्रतिदृष्यते ॥ क्१४.११६ ॥
राजाप्यविरतौत्सुक्यादुद्यानं गन्तुमुद्यतः ।
दिनमेकं न तत्याज सोशुम्बां काममोहितः ॥ क्१४.११७ ॥
स तयासह रागस्य मदस्य मदनस्य च ।
संसारमिव विश्रान्तिपदपुष्पवनं ययौ ॥ क्१४.११८ ॥
तत्र बालानिलालोललतावैलक्ष्यकारिणीम् ।
पश्यन् प्रमोदमासेदे यदितामेव भूपतिः ॥ क्१४.११९ ॥
अन्यरागविषाक्रान्ता साप्यभून्मलिनस्मृतिः ।
सुखमप्यसुखं वेत्ति चिन्ताशल्याकुलं मनः ॥ क्१४.१२० ॥
अन्तर्गतभुजंगाभिः स्त्रीभिरत्यन्तरागिणः ।
कण्ठे कृताभिर्नृत्यन्ति मालाभिरिव मोहिताः ॥ क्१४.१२१ ॥
तत्रैकान्तलताकुञ्जनिकुञ्जनिहितस्थितिः ।
अन्धः सौरभमाघ्राय सोशुम्बातिमिरस्रजः ॥ क्१४.१२२ ॥
सहसैव विकारेण रागाद्विस्मृतसंवृतिः ।
अगायन्मदनक्षीबा गणयन्ति बह्यं कुतः ॥ क्१४.१२३ ॥
तनुपवनविलासैः कीर्यमाणः प्रियायाः
समदबदनपद्मामोदसंभारसारः ।
तिमिरकुसुमगन्धः सोऽयमायाति दूरात्
भ्रमरसरणिवीणाविभ्रमारावरम्यः ॥ क्१४.१२४ ॥
श्रुत्वा हृदयसंवादगीतं तत्तस्य भूपतिः ।
उद्यानविचयं कृत्वा तं ददर्श लतान्तरे ॥ क्१४.१२५ ॥
गाढरोचमदक्षीबं स तं पप्रच्छ शङ्कितः ।
अपि जानसि सोशुम्बां तस्य वा लक्षणं तनोः ॥ क्१४.१२६ ॥
सोऽब्रवीत्किं न जानामि सोशुम्बां बिम्बपाटलाम् ।
उपविष्टोऽधरे यस्या रागराज्ये मनोभवः ॥ क्१४.१२७ ॥
न्यस्तं स्मरेणेव तदूरूमूले लेखामयं स्वस्तिकमस्ति कान्तम् ।
आवर्तशोभा स्तनमण्डले वा लावण्यकल्लोलनिभास्ति तस्याः ॥ क्१४.१२८ ॥
एतदाकर्ण्य नृपतिः सद्यः संतापशोषितम् ।
मुमोच रागकुसुमं निर्माल्यमिन्व चेतसः ॥ क्१४.१२९ ॥
सोऽब्रवीन्नास्ति नारीणां शीलरक्षा शतैरति ।
खपुष्पमालेव सती सर्वथा नैव जायते ॥ क्१४.१३० ॥
इत्युक्त्वान्धेन तां राजा सह श्मशानकाननम् ।
गर्दभारोपितां तूर्णं तत्याज नगराद्बहिः ॥ क्१४.१३१ ॥
सा तेन सह निर्लज्जा व्रजन्ती दिनसंक्षये ।
अटव्यां चौरपतिना प्राप्तैव सह संपदा ॥ क्१४.१३२ ॥
जनैरभिद्रुते तस्मिन् सहसा चौरमण्डले ।
निरपराश एवान्धश्चौरभ्रान्त्या निपातितः ॥ क्१४.१३३ ॥
चौरोऽपि निशां भुक्त्वा सोशुम्बां क्षस्णसंगतः ।
गृहीत्वाभरणान्यस्या जगामोत्तीर्य निम्नगाम् ॥ क्१४.१३४ ॥
कारण्डवायाह्सरितस्तस्यास्तीरे निरम्बरा ।
शुशोव साञ्जनैरश्रुजालैः सा मलिनस्तनी ॥ क्१४.१३५ ॥
तस्मिन् क्षणे मुखासक्तं मांसमुत्सृज्य जम्बुके ।
याते जलोत्प्लुतं मत्स्यं तज्जहारं विहङ्गमः ॥ क्१४.१३६ ॥
मत्स्ये निमग्ने सहसा खगेन पिशिते हृते ।
स बभूवोभयभ्रंशाच्चिन्तानिश्चललोचनः ॥ क्१४.१३७ ॥
तस्यास्तं वीक्ष्यं दुःखेऽपि मुखे स्मितमदॄश्यत ।
हासः परस्य स्खलिते दुःस्थस्याप्युपजायते ॥ क्१४.१३८ ॥
स तां वैलक्ष्यकुपितः प्रोवाचानुचितस्मिताम् ।
अहो हससि मां लोके हास्यायतनतां गताम् ॥ क्१४.१३९ ॥
नृपं त्यक्त्वागता ह्यन्धम्त्यक्तवान्धं चौरमाश्रिता ।
तवाहमुभयभ्रष्टः त्रिभ्रष्टायाः स्मितास्पदम् ॥ क्१४.१४० ॥
आस्तां वः परिहासोऽयं तं युक्त्याहं करोमि ते ।
खलास्ते विषमस्थानां ये बिडम्बनपण्डिताः ॥ क्१४.१४१ ॥
इत्युक्त्वा नगरीं गत्वा स नृपाय न्यवेदयत् ।
सोशुम्बा ते नदीतीरे तपोयुक्तेति मन्मतिः ॥ क्१४.१४२ ॥
अथ निनाय तां राजा वितीर्याभरणाम्बरम् ।
दोषमाच्छादयत्येव रागद्वेषः शरीरिणाम् ॥ क्१४.१४३ ॥
सैवाद्योत्पलवर्णेयमुदायी शीघ्रगोऽप्यसौ ।
प्राग्जन्मान्तरपुण्येन भिक्ष्ःुव्रतमुपागतौ ॥ क्१४.१४४ ॥
अभवदतिरसार्द्रं मानास्ं रागयोगे
यदु मदनविधेयं रागयुक्तं यदस्याः ।
विरतशमविरारा तेन तस्मिन्मुहूत्रे
कृतनरपतिरूपानन्दिनं मां ववन्दे ॥ क्१४.१४५ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां देवावतारावदानं नाम चतुर्दशः पल्लवः ॥


१५. शिलानिक्षेपावदानम् ।

बलभतुलधैर्यवीर्यं साश्चर्यं भवति सप्रभावाणाम् ।
महदाश्रययोगाद्यस्मै सर्वं महिमत्वमायाति ॥ क्१५.१ ॥
पुरा कुशीपुरीं रम्यां मल्लानां बलशालिनाम् ।
स्वेच्छाविहारी भगावान् प्रतस्थे सुगतः स्वयम् ॥ क्१५.२ ॥
ते तदागमनं श्रुत्वा कल्याणं कुशलैषिणः ।
वर्त्मसंशोधनं चक्रुरुपचारपदोद्यताः ॥ क्१५.३ ॥
देशं भूषयतां तेषां संसिक्तं चन्दनोदकैः ।
तृणकण्टकपाषाणसर्करारेणुवर्जितम् ॥ क्१५.४ ॥
मध्ये समाययौ भूमिनिमग्ना महती शिला ।
अवसन्ना विसन्ना च वधूर्विन्ध्यगिरेरिव ॥ क्१५.५ ॥
तामुत्पाटयतां तेषां कुद्दालभुजरज्जुभिः ।
मासो जगाम न त्वस्याः सहस्रांशेऽप्यभूत क्षतिः ॥ क्१५.६ ॥
अथ सम्सारसंतापप्रशमामृतदीधितिः ।
आययौ भगवान् सर्वमानसोल्लासबान्धवः ॥ क्१५.७ ॥
घनान्धकारविरतिव्यक्तसत्फलदर्शनः ।
प्रसादसंविभक्ताशः प्रकाश इव शारदः ॥ क्१५.८ ॥
स तान् दृष्ट्वा परिश्रान्तान् विफलक्लेशपिडाईतान् ।
श्रुत्वा च तद्व्यवसितं तानूचे प्रणताननान् ॥ क्१५.९ ॥
अहो क्लेशफलारम्भः प्रयासव्यवसायिनाम् ।
संसारकर्मणीवास्मिन् व्यापारे वः समुद्यमः ॥ क्१५.१० ॥
प्रारम्भे विषमक्लेशं क्रियमाणं ससंशयम् ।
सिद्धमप्यनुपादेयं न प्राज्ञाः कर्म कुर्वते ॥ क्१५.११ ॥
इत्युक्त्वा चरणाङ्गुष्ठघट्टितां वामपाणिना ।
विन्यस्य दक्षिणे पाणौ भगवान् विपुलां शिलाम् ॥ क्१५.१२ ॥
विसृज्य ब्रहम्लोकान्तमपर्यन्तपराक्रमः ।
चचाराश्चर्यचर्यायां दूतमिव जगत्त्रये ॥ क्१५.१३ ॥
क्षिप्तायां सहसा तस्यां तेनात्यद्भुतकारिणा ।
उदभूद्गनोद्भूत इव व्याप्तजनः स्वनः ॥ क्१५.१४ ॥
अनित्यः सर्वसंस्कार इत्यभ्रान्तविधायिनः ।
सर्वधर्मा निरात्मानः शान्तनिर्वाणमेव तत् ॥ क्१५.१५ ॥
इति स्फुटोदिते शब्दे शिला भगवतः करे ।
गिरीन्द्रशीर्षकाकारा स्थिता पुनरदृश्यत ॥ क्१५.१६ ॥
क्षणेन सा भगवता क्षिप्ता वदनमारुतैः ।
कृता विसारिणी दिक्षु परमाणुपरंपरा ॥ क्१५.१७ ॥
पुनरेकीकृतामेव भगवान् परमाणुभिः ।
शिलामन्यत्र निदधे विस्मयं च जगत्त्रये ॥ क्१५.१८ ॥
आश्चर्यनिश्चलदृशस्ततो मल्ला बलिर्जितम् ।
वीर्यं भगवतो वीक्ष्य प्रणतास्तं बभाषिरे ॥ क्१५.१९ ॥
अहो महाप्रभावोऽयं बलवीर्योदयस्तव ।
निश्चयाधिगमे यस्य न प्रगल्भाः सुरा अपि ॥ क्१५.२० ॥
अनुग्रहप्रवृत्तेन बलेन गुरुणा तव ।
अधोगतिनिमग्नेयं जनतेव धृता शिला ॥ क्१५.२१ ॥
वीर्यप्रज्ञाबलादीनां प्रमाणावधिनिश्चयम् ।
अपि जानाति ते कश्चिदाश्चर्यतरकारिणः ॥ क्१५.२२ ॥
इति ब्रुवाणानाश्चर्यनिश्चलानवलोक्य तान् ।
तस्यां शिलायामासीनः प्रोवाच भगवान् जिनः ॥ क्१५.२३ ॥
एकीभूतबलं यद्धि भूतानां भुवनत्रये ।
सुगतस्य तदेकस्य लोके नैव समं बलम् ॥ क्१५.२४ ॥
अम्भांसि कुम्भैरम्भोधेर्जगन्ति परमाणुभिः ।
शक्यान्यलं लङ्घयितुं प्रभावो न तु सौगतः ॥ क्१५.२५ ॥
संख्यां सुमेरोर्यो वेत्ति तुलामानेन तत्त्वतः ।
सुगतानां न जानाति सोऽपि सुद्गुणगौरवम् ॥ क्१५.२६ ॥
कथयित्वेति भगवान् संप्राप्ते सुरमण्डले ।
सशक्रपद्मनिलये चक्रे कुशलदेशनम् ॥ क्१५.२७ ॥
मल्लास्तदुपदेशेन तत्तद्बोधिसमाश्रयात् ।
सश्रावकाख्यां प्रत्येकसम्यक्संबुद्धतां ययुः ॥ क्१५.२८ ॥
स्रोतःप्राप्तिफलं कौश्चित्सकृदागामि चापरैः ।
अनागामिफलं चाण्यैः प्राप्तमर्हत्पदं परैः ॥ क्१५.२९ ॥
इत्याश्ययानुशयधातुगतिं निरीक्ष्य ज्ञात्वा तथाप्रकृतिमप्रतिमोपदेशम् ।
तेषां चकार भगवांश्चतुरार्यसत्यसम्यक्प्रकाशविशदं कुशलोदयाय ॥ क्१५.३० ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां शिलानिक्षेपावदानंपञ्चदशः पल्लवः ॥


१६. मैत्रेयव्याकरणावदानम् ।

असंगमो नाम विशुद्धिधामो श्रेयांसि सूते कुशलाभिकामः ।
संसारवामः सुकृताभिरामो मनोमलैर्वैररजोविरामः ॥ क्१६.१ ॥
पुरा गङ्गां समुत्तीर्य नागानां फणसेतुना ।
भगवान् सुगतः पारंप्राप्य भिक्षूनभाषत ॥ क्१६.२ ॥
इह रत्नमयः पूर्वं यूपोऽभूदद्भुतद्युतिः ।
दर्शयांि तमत्रैव द्रष्टुं वः कौतुकं यदि ॥ क्१६.३ ॥
इत्युक्त्वा भगवान् भूमौ पाणिना दिव्यलक्ष्मणा ।
स्पृष्ट्वा नागगणोत्क्षिप्तं रत्नयूपदर्शयत् ॥ क्१६.४ ॥
तं दृष्ट्वा भिक्षवः सर्वे निर्निमेषेक्षणाश्चिरम् ।
बभूवुश्चित्रलिखितामिव निश्चलविग्रहाः ॥ क्१६.५ ॥
तत्कथामथ तैः पृष्टः प्रोवाच भगवान् पुनः ।
अतीतानागतज्ञानं दन्तालोकैः किरन्निवः ॥ क्१६.६ ॥
देवपुत्रः पुरा कश्चित्काले स्वर्गपरिच्युतः ।
महाप्रणादनामाभून्नृपतिः शक्रशासनात् ॥ क्१६.७ ॥
धर्मवृत्तानुसरणस्मरणाय महीतले ।
उचितं लक्षणं किंचित्स ययाचे शतक्रतुम् ॥ क्१६.८ ॥
ततः सुरपतेर्वाक्याद्विश्वकर्मा तदालये ।
भास्वरं विदधे रत्नयूपं पुण्यमिवोन्नतम् ॥ क्१६.९ ॥
ततस्तद्दर्शनासक्ते जने कौतुकनिश्चले ।
कृष्यादिकर्मण्युच्छिन्ने राज्ञः कोषक्षयोऽभवत् ॥ क्१६.१० ॥
ततस्तेन क्षितिभुजा क्षिप्तोऽयं जाह्नवीजले ।
तिष्ठत्यद्यापि पाताले रत्नैः सूर्यैरिवाचितः ॥ क्१६.११ ॥
भविष्यत्यस्य कालेन परिच्छिन्नः परिक्षयः ।
न तज्जगति नामास्ते परिणामे यदक्षयम् ॥ क्१६.१२ ॥
आगामिसमये पुंसां वर्षाशीतिसहस्रके ।
शङ्खशुभ्रयशाः शङ्खो नाम राजा भविष्यति ॥ क्१६.१३ ॥
पुण्यलब्धमिमं यूपं नृपः कल्पद्रुमोपमः ।
स पुरोहितपुत्राय मैत्रेयाय प्रदास्यति ॥ क्१६.१४ ॥
मैत्रेयोऽप्यन्मुमादाय कृत्वा सपदि खण्डशः ।
अर्थिचिन्तामणिर्लोकमदरिद्रं करिष्यति ॥ क्१६.१५ ॥
यूपं दत्वाथ मैत्रेयः सम्यक्संबुद्धतां गतः ।
अनुत्तरज्ञाननिधिर्भविष्यति सुरार्चितः ॥ क्१६.१६ ॥
शङ्को राजा सहस्राणामशीत्या परिवारितः ।
सान्तःपुरामात्यगणो राजापि प्रव्रजिष्यति ॥ क्१६.१७ ॥
प्राग्जन्मप्रणिधानेन शङ्खस्य कुशलोदयः ।
कृतस्यावश्यभोग्यत्वात्परिणामे फलिष्यति ॥ क्१६.१८ ॥
मध्यदेशे पुरा राजा वासवो वासवोपमः ।
धनसंमतनामा च नृपोऽभूदुत्तरापथे ॥ क्१६.१९ ॥
तयोर्विभवसंघर्षो भूतो वैराग्नितप्तयोः ।
अभूद्युद्धसमारम्भसंभाररभसं मनह् ॥ क्१६.२० ॥
नगरं च प्रविश्याथ समेत्य धनसंमतः ।
चक्रे गरजथानीकैर्गङ्गातीरं नीरन्तरम् ॥ क्१६.२१ ॥
तत्र रत्नशीखी नां सम्यक्संबुद्धतां गतः ।
दृष्टस्तेनार्च्यामानाङ्घ्रिर्ब्रह्मशक्रादिभिः सुरैः ॥ क्१६.२२ ॥
सोऽचिन्तयदहो राजा वासवः पृथिपुण्यवान् ।
विषयान्ते वसत्येषयो हि त्रिदशवन्दितः ॥ क्१६.२३ ॥
ततस्तस्यानुभावेन तत्र भूपालयोस्तयोः ।
ययौ वैररजः शान्त्या मिथ्यामोहपरिक्षयम् ॥ क्१६.२४ ॥
कॄतसंघिः परेणाथ वासवः पृथिवीपतिः ।
भगवन्तं समभ्येत्य सर्वभोगौरपूजयत् ॥ क्१६.२५ ॥
प्रणिधानं च विदधे पूजान्ते प्रणमामि तम् ।
अहं कुशलमूलेन स्यामेतेन महानिति ॥ क्१६.२६ ॥
अस्मिन्नवसरे घोरे शन्खशब्दे समुद्गते ।
प्रोवाच तं रत्नशिखी प्रणतं पुरतः स्थितम् ॥ क्१६.२७ ॥
शन्खो नाम महीपालश्चक्रवर्ती भविष्यसि ।
पर्यन्ते बोधियुक्तश्च कुशलं समावाप्स्यसि ॥ क्१६.२८ ॥
एवं सत्प्रणिधानतह्क्षितिपतिः पुण्योदयाद्वासवः
शङ्खो नाम नृप स रत्नशिखिनादिष्टः श्रियं प्राप्स्यति ।
मैत्रेयः प्रणयात्करिष्यति तथा बोधौ विशुद्धां धियं
कल्याणाभिनिवेशपुण्यतरणिराड्य हि सत्संगमः ॥ क्१६.२९ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मैत्रेयव्याकरणावदानं नाम षोडशः पल्लवः ॥


१७. आदर्शमुखावदानम् ।

चित्तप्रसादविमलप्रणयोज्ज्वलस्य स्वल्पस्य दानकुसुमस्य फलांशकेन ।
हेमाद्रिरोहणनगेन्द्रसुधाब्धिदानसंपत्फलं न हि तुलाकलनामुपैति ॥ क्१७.१ ॥
पुरा मनोज्ञे सर्वज्ञः श्रावस्त्यां जेतकानने ।
अनाथपिण्डदारामे विजहार महाशयः ॥ क्१७.२ ॥
आर्यो महाकाश्यपाख्यस्तच्छिष्यः करुणानिधिः ।
नगरोपवनस्यान्तं जनचारिकया ययौ ॥ क्१७.३ ॥
तत्र सुद्रुगतिर्योषिन्नगराश्रवलम्बिका ।
अपश्यत्कुष्ठरोगार्ता काश्यपं तं यदृच्छया ॥ क्१७.४ ॥
सा तं दृष्ट्वा प्रसादिन्या श्रद्धया समचिन्तयत् ।
पात्रेऽस्य पिण्डपातार्हा किं न जातास्मि पुण्यतः ॥ क्१७.५ ॥
विज्ञाय तस्या आश्चर्यश्रद्धायुक्तं मनोरथम् ।
प्रसार्य पात्रं जग्राह पिण्डं तं करुणाकुलः ॥ क्१७.६ ॥
तीव्रचित्तप्रसादेन भक्तसारसमरणे ।
कुष्ठिन्या निपपातास्याः पात्रे शीर्णकराङ्गुलिः ॥ क्१७.७ ॥
ततः सा पातकमिव त्यक्त्वानित्यकलेवरम् ।
देवानां तुषिताख्यानां निलये समजायत ॥ क्१७.८ ॥
शक्रस्तदद्भुतं ज्ञात्वा दानपुण्य्प्दितादरः ।
यत्नात्काश्यपसत्पात्रं सुधया समपूरयत् ॥ क्१७.९ ॥
सुधार्पणेऽप्यसौ भिक्षुर्निस्पृहस्तृणलीलया ।
प्रशमामृतसंपूर्णश्चक्रे पात्रमधोमुखम् ॥ क्१७.१० ॥
भजन्ते प्रणयप्रीतिं कृपणेषु कृपाकुलाः ।
सन्तः संपत्समाध्मातवदने मीलितादराः ॥ क्१७.११ ॥
श्रुत्वा तां तुषिते देवनिकाये निरतां नृपः ।
प्रसेनजित्भगवतश्चक्रे भोज्याधिवासनाम् ॥ क्१७.१२ ॥
राज्ञस्तस्य गृहे दृष्ट्वा लक्ष्मीमाश्चर्यकारिणः ।
आर्यानन्देन भगवान् पृष्टस्तत्पुण्यमभ्यधात् ॥ क्१७.१३ ॥
पुरा गृहपतेः सूनुर्दारिद्य्राद्दासतां गतः ।
क्षेत्रकर्माणि संसक्तः क्षुत्क्षामः क्लान्तिमाययौ ॥ क्१७.१४ ॥
स्वजनन्या समानीतां निःस्नेहलवणां चिरात् ।
कुल्माषपिण्डिमासाद्य भोक्तुं सादरमाययौ ॥ क्१७.१५ ॥
धौतहस्तः क्षणे तस्मिन् संप्राप्ताय यदृच्छया ।
ददौ प्रत्येकबुद्धाय तां प्रसन्नेन चेतसा ॥ क्१७.१६ ॥
जातः स एव कालेन भूपालोऽयं प्रसेनजित् ।
तस्य दानकणस्यैवं विभूतिः प्रथमं फलम् ॥ क्१७.१७ ॥
श्रुत्वेति भगवद्वाक्यं भिक्षूर्विस्मयमाययौ ।
राजापि विपुलां पूजां चक्रे भगवतः पुरः ॥ क्१७.१८ ॥
राजार्हैरखिलैर्भोगैः कृत्वा भक्तिनिवेदनम् ।
स कोटीस्तैलकुम्भानां दीपमालामकल्पयत् ॥ क्१७.१९ ॥
दीपमेकं ददौ तत्र स्वल्पकं दुर्गताङ्गना ।
स्नेहक्षयात्प्रयातेषु सर्वेषु न जगाम यः ॥ क्१७.२० ॥
विचिन्त्य प्रणिधानेन तया विमलचेतसा ।
भाविनीं शाक्यमुनितां सर्वज्ञोऽस्याह्समभ्यधात् ॥ क्१७.२१ ॥
रत्नदीपावलिं दत्वा राजा भगवतः पुरह् ।
उपविश्य प्रणम्याग्रे प्रणयात्तं वजिज्ञपत् ॥ क्१७.२२ ॥
भगवत्प्रणिधानेन तत्तत्पुण्यानुभावतः ।
न कस्यानुत्तरा सम्यक्संबोधिर्भवदर्पिता ॥ क्१७.२३ ॥
भवत्प्रसादप्रणयात्प्राप्तुमिच्छामि तामहम् ।
निर्विकल्पफलावाप्त्यै सेव्यन्ते कल्पपादपाः ॥ क्१७.२४ ॥
इति राजवचः श्रुत्वा भगवान् समभाषत ।
दुर्लभानुत्तरा सम्यक्संबोधिः पृथिवीपते ॥ क्१७.२५ ॥
सूक्ष्मा मृणालतन्तुभ्यो गिरिभ्योऽपि गरीयसी ।
समुद्रेभ्योऽपि गम्भीरा सा सुखेन न लभ्यते ॥ क्१७.२६ ॥
न दानैर्बहुभिर्लब्धं मयैवान्येषु जन्मसु ।
चित्तप्रसादविशदं ज्ञानं तत्कारणं जगुः ॥ क्१७.२७ ॥
चतुर्द्वीपाधिपत्येन मया मान्धातृजन्मनि ।
चिरं दानफलं भुक्तं बोधिर्नाधिगता तु सा ॥ क्१७.२८ ॥
दानेन चक्रवर्तीश्रीः सा सुदर्शनजन्मनि ।
भुक्ता मयामहीयसी बोधिर्नाधिगता तु सा ॥ क्१७.२९ ॥
पुरा दत्वा गजानष्टौ वेलामद्विजजन्मानि ।
मया प्राप्तं महत्पुण्यं बोधिर्नाधिगता तु सा ॥ क्१७.३० ॥
कुरूपः कुशलात्माहं राजपुत्रः पुराभवम् ।
यः पिशाचोऽयमित्युक्त्वा निजलत्न्या विवर्जितः ॥ क्१७.३१ ॥
श्रियै श्रीस्कन्धो भूत्यागे प्रीतिर्यस्य सदा स्थिता ।
स दुःखी रूपवैकल्यात्क्क वा सर्वगुणोदयः ॥ क्१७.३२ ॥
तं रूपविरहे देहत्यागारूढं शचीपतिः ।
दिव्यचूडामणिं दत्वा चक्रे पञ्चशरोपमम् ॥ क्१७.३३ ॥
षष्टिः पुरसहस्राणि तस्य यज्ञेषु यज्वनः ।
हेमयूपाभिरूपाणि प्रापुर्मेरुबलश्रियम् ॥ क्१७.३४ ॥
तस्मिन्मयातिदानाद्रिकृते कुशलजन्मनि ।
तानि पुण्यान्यवाप्तानि बोधिर्नाधिगता तु सा ॥ क्१७.३५ ॥
मया सत्यप्रभावेण त्रिशङ्कुनृपजन्मनि ।
कृता वृष्टिः सुदुर्भिक्षा बोधिर्नाधिगता तु सा ॥ क्१७.३६ ॥
मिथिलायां महादेवनृपजन्मनि यज्वना ।
मयाप्ता पुण्यसंपत्तिर्बोधिर्नाधिगता तु सा ॥ क्१७.३७ ॥
मिथिलायां पुरा पुण्यं निमिभूपालजन्मनि ।
प्राप्तं दानतपोयज्ञैर्बोधिर्नाधिगता तु सा ॥ क्१७.३८ ॥
पुरा नन्दस्य नृपतेश्चत्वारः पिशुनाः सुताः ।
बभूवुरादर्शमुखः पञ्चमश्च गुणाधिकः ॥ क्१७.३९ ॥
कालेनापन्नपर्यन्तः स भूपतिरचिन्तयत् ।
एते मदन्ते चत्वारो राज्यं नार्हन्ति कर्कशाः ॥ क्१७.४० ॥
पुत्रे ममादर्शमुखे राज्यश्री प्रतिबिम्बिता ।
सुवृत्ते लभते शोभां प्रज्ञावैमल्यशालिनि ॥ क्१७.४१ ॥
ध्यात्वेत्यमात्यान् सोऽवादीत्स भवद्भिर्नरेश्वरः ।
कृतोऽन्तःपुरवर्गेण योऽभ्युत्थानेन पूज्यते ॥ क्१७.४२ ॥
मौलिर्न कम्पते यस्य समेव मणिपादुकैः ।
द्वारद्रुमाद्रिवापीषु निधिषट्कं स पश्यति ॥ क्१७.४३ ॥
इत्युक्त्वा त्रिदिवं याते नृपतौ मन्त्रिणः क्रमात् ।
तदुक्त्रैर्लक्षणैश्चक्रुरादर्शमुखमीश्वरम् ॥ क्१७.४४ ॥
धर्मनिर्णयकार्येषु यं वादिप्रतिवादिनह् ।
विलोक्यैव स्वयं तस्थुर्न्यायैर्जयपराजये ॥ क्१७.४५ ॥
पुरा निरभिअस्ंघेन प्रातवैशसकिल्बिषम् ।
ब्राह्मणं दण्डिनं नाम दयालुः प्रययौ पुरः ॥ क्१७.४६ ॥
गुयुगार्थे गृहस्थेन मृतेन वडवाहतेः ।
कुठारपाततः पत्न्या तक्षवासी विवादितः ॥ क्१७.४७ ॥
शौण्डिकेनात्मजवधाद्दीक्षितं तुल्यनिग्रहम् ।
तद्विपक्षभयेनोक्त्वा तत्संत्यक्तं व्यमोक्षयत् ॥ क्१७.४८ ॥
अमानुषाणां सत्त्वानामध्याशयविशेषतः ।
चकार चित्तशोधनं तत्तत्संदेहनिर्णयम् ॥ क्१७.४९ ॥
अवृष्टिमृष्टे दुर्भिक्षे येन द्वादशवर्सके ।
विहितं सर्वसत्त्वानामशनप्राणवर्तनम् ॥ क्१७.५० ॥
इत्यमून्मम पुण्याप्तिरादर्शमुखज्न्मनि ।
न तु सा सम्यक्संबोधिर्विबोधिता महोदया ॥ क्१७.५१ ॥
बहुजन्मशताभ्यासप्रसासेन महीयसा ।
अद्य तु ज्ञानवैमल्यं मयाप्तं लुत्पसंवृति ॥ क्१७.५२ ॥
ज्ञानप्रज्ञाधिगम्या किमपि परतरानुत्तरा सत्यासंवित्
सम्यक्संबोधिरेषा न च खलु नृपते लभ्यते दानपुण्यैः ।
मोहश्यामाविरामे गतघनगगनव्यक्तवैमल्यभाजां
निर्व्याजानन्दभूमिर्भवति भवतमश्छेदिनी सा दिनश्रीः ॥ क्१७.५३ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामादर्शमुखावदानं नाम सप्तदशः पल्लवः ॥


१८. शारिपुत्रप्रव्रज्यावदानम् ।

नेदं बन्धुनों सुहृत्सोदरो वा नेदं माता न पिता वा करोति ।
यत्संसाराम्भोधेसेतुं विधत्ते ज्ञानाचार्यः कोऽपि कल्याणहेतुः ॥ क्१८.१ ॥
कलन्दकनिवासाख्ये रम्ये वेणुवनाश्रमे ।
भगवान् विहरन् बुद्धः पुरे राजगृहे पुरा ॥ क्१८.२ ॥
किलितं चोपयिष्यं च द्वौ परिव्राजकौ पुरा ।
प्रपन्नौ भिक्षुभावेन चकार शमसंवृतौ ॥ क्१८.३ ॥
ततश्च शारिपुत्रस्य भिक्षोः संदेशनां व्यघात् ।
यया साक्षात्कृतार्हत्त्वो सोऽभून्मोक्षगतिक्षमः ॥ क्१८.४ ॥
तस्य तदद्भुतं दृष्ट्वा धनार्हं सर्वभिक्षुभिः ।
पप्रच्छुः पूर्ववृत्तान्तं स च तेभ्यो व्यभाषत ॥ क्१८.५ ॥
ब्राह्मणस्याग्निमित्रस्य भार्या गुणवराभवत् ।
शूर्पिकेति कृतं पित्रा क्रीडानाम च बिभ्रती ॥ क्१८.६ ॥
भ्राता प्रथमशीलाख्यः तस्य शूर्पसमाभिधः ।
प्रत्येकबुद्धतां यातः कदाचिद्गृहमाययौ ॥ क्१८.७ ॥
स तया भर्तुरादेशाद्गृहीभक्त्याधिवासितः ।
प्रणतिप्रणयाचारैस्तोषितः परिचर्यया ॥ क्१८.८ ॥
कदाचिच्चीवरे तस्य कुर्वाणस्य विपात्रणम् (?) ।
सूचीकर्मवहाद्दृष्ट्वा प्रणिधानं समादधे ॥ क्१८.९ ॥
यथेयं कर्तरीं तीक्ष्णा यथा गम्भीरगामिणी ।
सूची तथापरा प्रज्ञा मम स्यादिति सादरा ॥ क्१८.१० ॥
प्रत्येकबुद्धविनयात्प्रणिधानेन तेन च ।
गतास्मिन् जन्मनि सैव सप्रज्ञशारिपुत्रताम् ॥ क्१८.११ ॥
स एष शारिपुत्रोऽद्य भिक्षुष्तीक्ष्णतराग्रधीः ।
कल्याणपात्रतां यातः कल्पवल्ली हि सन्मतेः ॥ क्१८.१२ ॥
वाक्यं भगवतः श्रुत्वा पप्रच्छुर्भिक्षवः पुनह् ।
कस्मान्नाट्यकुले जातः शारिपुत्रो नराधमे ॥ क्१८.१३ ॥
ततस्तान् भगवानूचे पूर्वस्मिन्नेष जन्मनि ।
अभून्महामतिर्नाम राजपुत्रः सतां मतः ॥ क्१८.१४ ॥
श्रीमतोऽपि मतिस्तस्य प्रव्रज्यायामजायत ।
परिपाकप्रसन्नानां कालुष्याय न संपदः ॥ क्१८.१५ ॥
प्रव्रज्या राजपुत्राणां यूनां नैव कुलोचिता ।
इत्युक्त्वा जनकः प्रीत्या तं यत्नेन न्यवारयत् ॥ क्१८.१६ ॥
कदाचित्कुञ्जरारूढः स व्रजन् जनवर्त्मनि ।
दृष्ट्वा दरिद्रं स्थविरं कारुण्यादिदमब्रवीत् ॥ क्१८.१७ ॥
अधन्या धनीनो लोके बन्धुबन्धनयन्त्रिताः ।
प्रव्रज्यां नाप्नुवन्त्येव त्वं तु केन निवारितः ॥ क्१८.१८ ॥
स न्यवेदयन्मे दरिद्रस्य न पात्रं न च चीवरम् ।
धनोपकरणान्येव शमोपकरणान्यपि ॥ क्१८.१९ ॥
राजसूनुरिति श्रुत्वा गत्वा मुनितपोवनम् ।
प्रव्रज्यां कारयित्वास्य प्रददौ पात्रचीवरम् ॥ क्१८.२० ॥
सोऽचिरेणैव कालेन यातः प्रत्येकबुद्धताम् ।
राजपुत्रं समभ्येत्य दिव्यामृद्धिमदर्शयत् ॥ क्१८.२१ ॥
तस्य प्रभावमालोक्य स प्रदध्यौ नृपात्मजः ।
अहो महोदयत्वान्मे प्रव्रज्या दुर्लभाभवत् ॥ क्१८.२२ ॥
दारिद्य्रादविवेकाच्च्नीचानामपि दुर्लभा ।
जायेयमधमे कुले तस्मदस्मि विवेकवान् ॥ क्१८.२३ ॥
स एव शारिपुत्रोऽयं ज्ञातस्तत्प्रणिधानतः ।
प्रव्रजितो भगवता काश्यपेनान्यजन्मनि ॥ क्१८.२४ ॥
तेनायं नियमप्रणयविनयी सम्यक्प्रसादोदयाद्
आदिष्टः कुशलाय सत्यनिधिना प्रज्ञावतामग्रणीः ।
काले शाक्यमुनेर्भविष्यति मतः शिष्यत्वयोगाद्वरं
मौद्गल्यायन एष चात्र कथितः संविन्मयानां वदः ॥ क्१८.२५ ॥
अन्यजन्मनि दरिद्रः कार्मिकः केनचिदपि दयया महर्षिणा ।
दत्तपात्रचीवरोऽभवद्दर्शितर्द्धिरासीदतुलप्रभाववान् ॥ क्१८.२६ ॥

इति क्षेमेन्द्रविरचितां बोधिसत्त्वावदानकल्पलतायां शारिपुत्रप्रजज्यावदानं नामाष्टादशः पल्लवः ॥


१९. श्रोणकोटिकर्णावदानम् ।

स कोऽपि पुण्यातिशयोदयस्य वरः प्रभावः परमाक्षयो यः ।
प्रत्यक्षलक्ष्यः शुभपक्षसाक्षी जन्मान्तरे लक्षणतामुपैति ॥ क्१९.१ ॥
रम्ये पुरा भगवति श्रावस्त्यां जेतकानने ।
अनाथपिण्डदारामे विहारिणि तथागते ॥ क्१९.२ ॥
बभूव वासवग्रामे बलसेनाभिधो गृही ।
पूरिताशः फलभरैश्छायातरुरिवार्थिनाम् ॥ क्१९.३ ॥
जायायां जयसेनायां काले कमललोचनः ।
अजायत सुतस्तस्य पुण्यैर्मीर्त इवोत्सवः ॥ क्१९.४ ॥
सजहा रत्नदीपार्चिरभूत्कर्णस्य कर्णिका ।
नाभून्मूल्यतुला यस्य हेमकोटिशतैरपि ॥ क्१९.५ ॥
श्रवणानक्षत्रजातोऽसौ रत्नकोट्यर्हकर्णिकाः ।
स श्रोणकोटिकर्णाख्यः कुमारोऽभूद्गुणोचितः ॥ क्१९.६ ॥
स निर्मलरुचिः कान्तः कलाभिं परिपूरितः ।
अमन्दानन्दनिष्यन्दी न कस्येन्दुरिवाभवत् ॥ क्१९.७ ॥
स युवा वार्यमाणोऽपि पित्रा धनदसंपदा ।
जननी साश्रुनयना परं पुरुषया गिरा ॥ क्१९.८ ॥
प्रियंवदोऽपि निर्भर्त्स्यो विषवर्षीव चन्द्रमाः ।
महासार्थेन रत्नार्थी दूरद्वीपान्तरं ययौ ॥ क्१९.९ ॥
मकराकरमुत्तीर्य व्रजतस्यस्य निर्जने ।
कर्मोर्मिविप्लवेनाभूत्स्वसार्थविरहः पथि ॥ क्१९.१० ॥
सार्थोऽपि तमनासाद्य विनिवृत्तं शुचा शनैः ।
स्वदेशमर्जितक्लेशः प्रविवेश विशृङ्खलाः ॥ क्१९.११ ॥
सोऽपि तप्तमरुश्रेणीलक्षणां दक्षिणां दिशम् ।
श्रान्तः प्रशान्तविश्रान्तिर्वापिगाहं व्यगाहत ॥ क्१९.१२ ॥
सोऽचिन्तयदहो वित्ते प्रतिनित्तार्जनोद्यमः ।
ममायमनयेनैव जातक्लेशः फलोदयः ॥ क्१९.१३ ॥
अहो धनार्जनावेशः संतोषविरहान्नृणाम् ।
सर्वापवादसंवादो निन्द्यानां विपदां पदम् ॥ क्१९.१४ ॥
हेमाचलेऽपि संप्राप्ते न पर्याप्तिर्हनार्जने ।
संसारे वासनाभ्यासद्वेषमोहः शरीरिणाम् ॥ क्१९.१५ ॥
पृथुप्रयासविरसा दीपिता श्रीरिवायता ।
तृष्णां तनोति नितरामियंमरुमहीतले ॥ क्१९.१६ ॥
अहो बत कुरङ्गाणां तृष्णान्धानां पदे पदे ।
ममापि जनयन्त्येव मोहं मरुमरीचिकाः ॥ क्१९.१७ ॥
इयं तृष्णा श्रमश्चायमिमा निरुदका भुवः ।
किं करोमि क्क गच्छामि पश्यामि ज्वलिता दिशः ॥ क्१९.१८ ॥
इति संचिन्त्य स शनैः प्रसर्पन् सलिलाशया ।
आयासमिव साकारं ददर्श पुरमायसम् ॥ क्१९.१९ ॥
घोरं द्वारि स्थितं तत्र संत्रासस्येव सोदरम् ।
ददर्श पुरुषं कालकरालं रक्तलोचनम् ॥ क्१९.२० ॥
स तेन पृष्टः पानीयं यदा नोवाच किंचन ।
तदा स्वयं प्रविष्टेन प्रेतलोको विलोकितह् ॥ क्१९.२१ ॥
दग्धकष्ठोपमान् धूलिमललिप्तान्निरम्बरान् ।
शुष्कास्थिन्सायुशेषाङ्गान् प्रेतान् दृष्ट्वा स विव्यथे ॥ क्१९.२२ ॥
तैर्याचितह्स पानीयं पानीयविरहार्दितः ।
परित्यज्य निजामार्तिमभूत्तद्दुःखदुःखितः ॥ क्१९.२३ ॥
तीव्रतृष्णातुरानूचे स तानार्तप्रलापिनह् ।
ममास्मिन्मरुकान्तारे निष्कृपस्य कुतः पयः ॥ क्१९.२४ ॥
कृच्छ्रेऽस्मिन् दुःसहे न्यस्ताः के यूयं केन कर्मणा ।
युष्मदप्रक्रियबन्धश्चातः कृच्छ्रश्चराम्यहम् ॥ क्१९.२५ ॥
निद्रा निःशल्यकल्पस्य सुखसिक्तेव तस्य या ।
नार्तान्नपश्यति दृष्ट्वा तेषां क्लेशक्षये क्षमा ॥ क्१९.२६ ॥
ते तमूचुर्विरुद्धेन कर्मणा मोहसंचयात् ।
अनिवर्त्य वयं मर्त्याः क्षिप्ता व्यसनसंकटे ॥ क्१९.२७ ॥
अधिक्षेपात्क्षेपक्षतिपतरधैर्यैर्मदभरादनार्यैर्मानव्यसनेर्ष्याभिरवार्यव्यतिकरैः ।
कृतास्माभिर्नित्यं सुहनहृदये निर्दयतया
वचोभिर्नाराचैर्विषपरिचितैः शल्यकलना ॥ क्१९.२८ ॥
दानं नदत्तं हृतमेव वित्तं हिंसानिमित्तीकृतमेव चित्तम् ।
अस्मार्भिरङ्गैर्विहिता विकाराः परस्य दारापहृतिप्रकाराः ॥ क्१९.२९ ॥
ते वयं कुहकासक्ता दक्षाः क्षुद्रेषु कर्मसु ।
प्रयाताः प्रेतनगरे घोरेऽस्मिन् क्लेशपात्रताम् ॥ क्१९.३० ॥
इति तेषां वचः श्रुत्वा सोऽन्यत्र च तथाविधान् ।
प्रेतान् दृष्ट्वानभिप्रेतान् करुणकुलितोऽभवत् ॥ क्१९.३१ ॥
निर्गम्य दुर्गमात्तस्मात्पुरात्पुण्यबलेन सः ।
विमलं शीतलच्छायमाससाद वनान्तरम् ॥ क्१९.३२ ॥
अथ दूरध्वसंतप्तः परिश्रान्तः शनैः शनैः ।
निपपाताचलादन्धस्तृष्टार्त इव भाष्करः ॥ क्१९.३३ ॥
दिने पुण्य इव क्षीणे निःशेषाशाप्रकाशके ।
संमोहमलिनं लोके तमः पापमिवोद्ययौ ॥ क्१९.३४ ॥
क्षीणभृङ्गविहङ्गानां नलिनीनां प्रसङ्गिनी ।
विकासास्ंपसा मुद्रा निद्रेव समजायत ॥ क्१९.३५ ॥
कारुण्यादिव शीतांशुर्ज्योत्स्नामृतशलाकया ।
स्फारतारं जगन्नित्रं चक्रे वितिमितं ततः ॥ क्१९.३६ ॥
क्षयोदयपरावृत्तिर्द्र्शितानेकविभ्रमः ।
संसारदिनयामिन्योर्जहासेव सुधाकरः ॥ क्१९.३७ ॥
नेत्रानन्दसुधावर्षे सुखस्पर्शे निशाकरे ।
दिग्वधूवदनादर्शे हर्षे मूर्त इवोतिते ॥ क्१९.३८ ॥
श्रोणकोटिर्ददर्शाग्रे विमानमाननद्युतिम् ।
कौतुकादन्यरूपेण स्वर्गाद्भुवमिवागतम् ॥ क्१९.३९ ॥
तस्मिन्नपश्यत्समदाश्चतस्रस्त्रिदशाङ्गनाः ।
दिशश्चन्द्रोदयानन्दविहारायेव संगताः ॥ क्१९.४० ॥
तासां मध्ये वराकारं रममाणं व्यलोकयत् ।
तरुणप्रेमसंभारमिव साकारतां गतः ॥ क्१९.४१ ॥
रत्नमण्डलेयूरकिरीटिकचिराम्शुभिः ।
आलिखन्तमिवाश्चर्यममर्यादं दिशां मुखे ॥ क्१९.४२ ॥
तस्य तामद्भुतां दृष्ट्वा संभोगसुखसंपदम् ।
मेने स सुकृताख्यस्य तरोः स्फीतां फलश्रियम् ॥ क्१९.४३ ॥
प्रीत्या तेन कृतातिथ्यः स्वादुपानाशनादिभिः ।
तां श्रोणकोटिकर्णोऽथ निनाय रजनीं सुखम् ॥ क्१९.४४ ॥
ताराकुसुमवातालिप्रभा प्राभातिकी ततः ।
अनित्यतेव शशिनश्चक्रे लक्ष्मीपरिक्षयम् ॥ क्१९.४५ ॥
क्षयं क्षपायां यातायां भानौ भुवनचक्षुषि ।
उदिते सर्वभूतानां सुखदुःखैकसाक्षिणि ॥ क्१९.४६ ॥
विमानं सुरनार्यश्च क्षस्णाददृश्यतांययुः ।
विनष्टवदनच्छायः पुरुषश्चापतत्क्षितौ ॥ क्१९.४७ ॥
ततस्तस्यापतत्पृष्ठे शुनां संघोऽतिभीषणः ।
त्रैलोक्यशापपापोत्थः क्लेशराशिरिवाखिलः ॥ क्१९.४८ ॥
स तैग्रीवामुखारब्धमांसग्रासाग्रकर्षणैः ।
आक्रन्दिरुधिरक्षीरैर्भक्ष्यमाणः क्षयं ययौ ॥ क्१९.४९ ॥
दिनान्ते पुनरायान्तं तद्विमानमपश्यत ।
चतस्रोऽप्सरासस्ताश्च पुरुषः स च कान्तिमान् ॥ क्१९.५० ॥
तं श्रोणकोटिकर्णोऽथ पप्रच्छात्यन्तविस्मितः ।
सखे किमेतदाश्चर्यं दृश्यते कथ्यतामिति ॥ क्१९.५१ ॥
स तेन पृष्टः प्रोवाच वयस्य श्रूयतामिदम् ।
त्वां श्रोणकोटिकर्णाख्यं जानामि सुकृतोचितम् ॥ क्१९.५२ ॥
अभवं वासवग्रामे दुष्कृती पशुपालकः ।
पशूनां मांसमुत्कृत्य विक्रीतं सतत मया ॥ क्१९.५३ ॥
पिण्डपाताय संप्राप्तो मामार्यः करुणानिधिः ।
कात्यायनाख्यः प्रोवाचः विरमास्मात्कुकर्मणः ॥ क्१९.५४ ॥
हिंसामयो ह्ययं क्लेशो दुःसहः साहसैषिणाम् ।
स्वशरीरे पतत्येव छिन्नमूल इव द्रुमः ॥ क्१९.५५ ॥
इत्यहं वार्यमाणोऽपि तेनानार्यः कृपात्मना ।
यदा न विरतः पापात्तदा स प्राह मां पुनः ॥ क्१९.५६ ॥
दिवा त्वं कुरुषे हिंसां सर्वथा यदि निर्दयः ।
रात्रौ शीलसमादानं गृहाण समयान्मम ॥ क्१९.५७ ॥
इत्युक्त्वा तेन यत्नेन सर्वसत्त्वहितैषिणा ।
दत्ता शीलसमादानमयी पुण्यमतिर्मम ॥ क्१९.५८ ॥
कालेन कालवशगः प्राप्तः सोऽहमिमां दशाम् ।
तप्ताङ्गारसुधावर्षैरिव कीर्णो दिवानिशम् ॥ क्१९.५९ ॥
रात्रौ शीलसमादानफलं हिंसाफलं दिने ।
चर्या मत्पुण्यपापाभ्यां पतितः सुखदुःखयोः ॥ क्१९.६० ॥
तस्य मे कुरु कारुण्यं सखे कलुसकारिणः ।
गत्वा स्वदेशंमत्पुत्रं ब्रूहि मद्वचसा रहः ॥ क्१९.६१ ॥
अस्ति मे गृहकोटान्ते निखातं हेमभाजनम् ।
तदुद्धृत्य परित्यक्तपापवृत्ति विधीयताम् ॥ क्१९.६२ ॥
आर्यकात्यायनो नित्यं पिण्डपातेन पूज्यताम् ।
इत्युक्तस्तेन विनयात्तथेत्युक्त्वा जगाम सः ॥ क्१९.६३ ॥
स ददर्श व्रजन् दिव्यविमानमपरं पुनः ।
रत्नपद्मलताकान्तं द्वितीयमिव नन्दनम् ॥ क्१९.६४ ॥
तस्मिन् साङ्गमिवानङ्गं संगतं दिव्ययोषिता ।
अपश्यद्वासरारम्भे पुरुषं रत्नभूषितम् ॥ क्१९.६५ ॥
तेन प्रीत्युपचारेण कृतातिथ्यस्तथैव सः ।
दिनं निनाय दीर्घं च क्लेशमध्ये सुधामयम् ॥ क्१९.६६ ॥
अथ व्योमविमानाग्रात्पतिते पद्मिनीपतौ ।
अपूर्यत जगद्घोरैर्दुःखैरिव तमोभरैः ॥ क्१९.६७ ॥
ततः क्षपापतिर्ज्योत्स्नां वमन्नेव क्षपाजडः ।
शनकैः पाण्डुरोगीव गौरद्युतिरदृश्यत ॥ क्१९.६८ ॥
सुकुमारे दिनालोके रात्रौ राक्षसयोषिता ।
भक्षितेऽलक्ष्यत शशी कपालबलसंनिभः ॥ क्१९.६९ ॥
व्याप्ते चन्द्रिकया लोके कालचन्द्रनचर्चया ।
विमानमगमत्क्कापिसा च स्वर्गमृगेक्षणा ॥ क्१९.७० ॥
विमानपतितः सोऽपि पुरुषः सर्वरूपया ।
शनैः सप्तभिरावर्तैः शतपद्या विवेष्टितः ॥ क्१९.७१ ॥
सा तस्य मूर्ध्नि विवरं कृत्वा मस्तिष्कशोणितम् ।
आस्वादयन्ती शनकैश्चकार शुषिरं शिरः ॥ क्१९.७२ ॥
अथारुणकरच्छन्ने सोच्छ्वासवदाने दिने ।
बीभत्सदर्शनक्लेशादिव मीलिततारके ॥ क्१९.७३ ॥
प्रादुरासन् पुनर्दिव्यविमानं सा च कामिनी ।
युवा स चाद्भुततनुर्दिव्याभरणभूषितः ॥ क्१९.७४ ॥
पृष्टोऽतिविस्मयात्तेन स्ववृत्तान्तं जगाद्सः ।
द्विजोऽहं वासवग्रामनिवासी मनसाभिधः ॥ क्१९.७५ ॥
तरुणी प्रातिवेश्यस्य पत्नी मलयमञ्जरी ।
अभून्मम भुजङ्गस्य स्वैरिणी वल्लभा भृशम् ॥ क्१९.७६ ॥
परदाररतेर्ग्रामे व्यग्रा मे क्षमते मतिः ।
मिनग्ना विषयग्रामे समग्रा मे क्षयं गता ॥ क्१९.७७ ॥
आर्यकात्यायनः पापं ज्ञात्वा मां चौर्यकामुकम् ।
दयाविधेयः कारुण्यात्प्रोवाच विजने शनैः ॥ क्१९.७८ ॥
पराङ्गनाङ्गसंसर्गप्रीत्या रूपरतेः क्षैबम् (?) ।
अनङ्गाग्नौ पतन्नाशं पतङ्गमिव मा गमः ॥ क्१९.७९ ॥
अहो आसक्तरक्तानां संपतनप्रमादिनाम् ।
कामिनां हिंसकानां च परदारादरः परम् ॥ क्१९.८० ॥
पृथु प्रवेपथु (?) स्वापश्रमविह्वलानां गृध्राङ्गनामुखनिखातनखक्षतानाम् ।
संमोहने परवधूविहितस्पृहाणां रोमाञ्चकारिणि परं नरके च कामः ॥ क्१९.८१ ॥
तस्मादस्मान्निवर्तस्व वत्स कुत्सितकर्मणः ।
जायते पातकं स्पर्शे शुनामेवाशुचौ रतिः ॥ क्१९.८२ ॥
इत्यहं कृपया तेन निषिद्धोऽप्यविशुद्धधीः ।
अनिरुद्धेन रागेण बद्धस्तामेव नात्यजम् ॥ क्१९.८३ ॥
विज्ञाय मामविरतं ततः कात्यायनो ददौ ।
मह्यं शीलसमादानं दिनचर्याहितोद्यतः ॥ क्१९.८४ ॥
दिनशीलसमादानात्परस्त्रीगमनान्निशि ।
इयं मे पुण्यपापोत्था सुखदुःखमयी स्थितीः ॥ क्१९.८५ ॥
गतेन वासवग्रामं वाच्यः पुत्रो मम त्वया ।
सुवर्णमग्निशालायामस्ति गूढं धृतं मया ॥ क्१९.८६ ॥
वृत्तिः कार्या तदुद्भृत्य पूज्यः कात्यायनश्च सः ।
प्रणयादिति तेनोक्तः श्रोणकोटिर्ययौ ततः ॥ क्१९.८७ ॥
सोऽपश्यद्दिव्यललनामग्रे मणिविमानगाम् ।
लक्ष्मीं लावण्यदुग्धाब्धेरनायासोद्गतामिव ॥ क्१९.८८ ॥
तस्य विमानपादेषि चतुर्षु स्नायुसंयुतम् ।
स ददर्शातिदुर्दशं बद्धं प्रेतचतुष्टयम् ॥ क्१९.८९ ॥
सापि तं प्रत्यभिज्ञाय संभाष्य स्निग्धया गिरा ।
सुरोचितं ददौ तस्मै रसवत्पानभोजनम् ॥ क्१९.९० ॥
भुञ्जानसंज्ञयां दूरात्प्रेतैर्दैन्येन याचितः ।
स ददौ कृपया तेभ्यः काकेभ्य इव पिण्डिकाः ॥ क्१९.९१ ॥
पिण्डो बुसत्वमेकस्य प्रयातोऽन्यस्य लोहताम् ।
स्वमांसत्वं तृतीयस्य चतुर्थस्य प्रपूयताम् ॥ क्१९.९२ ॥
विलोक्य तत्कृपाविष्टः स तेषां कष्टचेष्टया ।
पप्रच्छ तन्मुखच्छायां विच्छायीकृतपङ्कजाम् ॥ क्१९.९३ ॥
पृष्टा तदद्भुतं तेन उवाच सा मृगेक्षणा ।
न श्रोणकोटिर्णैषां दत्तं भवति तृप्तये ॥ क्१९.९४ ॥
ब्राह्मणस्यास्य भार्याहं पूर्वपादाबलम्बिनः ।
नन्दनाम्नः सुनन्दाख्या वासवग्रामवासिनः ॥ क्१९.९५ ॥
द्वितीयपादसंसक्तः पुत्रो मे निष्ठुराभिधः ।
पश्चात्पादावलम्बिन्यौ दासी चेयं स्नुषा च मे ॥ क्१९.९६ ॥
नक्षत्रयोगपूजायां पुरा सज्जीकृअते मया ।
भैक्ष्योपहारे मे गेहमार्यकात्यायनोऽविशत् ॥ क्१९.९७ ॥
मया चित्तप्रसादिन्या पिण्डपातेन सोऽर्चितः ।
कुर्वन्नेव ययौ कान्त्या वैमल्यानुग्रहं दिशाम् ॥ क्१९.९८ ॥
ततः स्नात्वा समायातस्तूर्णं पतिरयं मम ।
पत्पिण्डपातमाकर्ण्य प्रमिदाय मयोदितम् ॥ क्१९.९९ ॥
कोपादुवाच मां कस्माद्विशिखः श्रमणः शठः ।
अपूजितेषु पूज्येषु बुसार्हः पूजितस्त्वया ॥ क्१९.१०० ॥
इति मोहादनेनोक्ते पुत्रोऽप्येष जगाद्माम् ।
पाके पूर्वाशनायोग्यः स किं नाश्नात्ययोगुडान् ॥ क्१९.१०१ ॥
इयं स्नुषा मे सततं पूर्वभक्ष्यावभोगिना ।
मयोक्ते शपथं चक्रे स्वमांसादनवादिनी ॥ क्१९.१०२ ॥
इयं दासी च भैक्ष्याणा चैर्यात्तद्व्ययकारिणी ।
आक्षिप्ता चाकरोत्सत्यं पूयशोणितवादिनी ॥ क्१९.१०३ ॥
तत्र ते प्रेततां याताः स्ववाक्यसदृशाशनाः ।
अहं त्वार्यप्रसादेन दिव्यभोगोपभोगिनी ॥ क्१९.१०४ ॥
त्वया त्वार्यशमाप्तेन वक्तव्या दुहिता मम ।
सन्ति हेमनिधानानि गृहे चत्वारि ते पितुः ॥ क्१९.१०५ ॥
तान्युद्धृत्य यथायोगं भजस्वस्वजनिस्थितिम् ।
पूजनीयः पितुर्भ्राता नाम्ना कात्यायन सदा ॥ क्१९.१०६ ॥
स ः श्रोणकोटिकर्णस्त्वं गच्छ देशं त्यज श्रमम् ।
वर्षा द्वादश संपूर्णाः स्वगृहान्निर्गतस्य ते ॥ क्१९.१०७ ॥
इत्युक्त्वा तं समादिशय तस्य प्रेतचतुष्टयम् ।
सुप्तस्यैव मुहूर्तेन स्वदेशाप्तिमकारयत् ॥ क्१९.१०८ ॥
उत्थितः सोऽपि सहसा स्वदेशोद्यानकाननात् ।
वियोगशोकात्पितरौ शुश्रावान्ध्यमुपागतौ ॥ क्१९.१०९ ॥
भिक्षुद्विजातिथिगणे पूज्यमाने सुरालये ।
स्वकं पितृगृहं दृष्ट्वा परं विस्मयमाययौ ॥ क्१९.११० ॥
निश्चित्य सर्वं भावानां क्षणिकत्वादनित्यताम् ।
स्नेहरागं समुत्सृज्य तत्रस्थः समचिन्तयत् ॥ क्१९.१११ ॥
अहो संमोहनिद्रेयं निरन्ततो दिवानिशम् ।
स्वप्नमायाविलसितैः करोत्यद्भुतविभ्रमम् ॥ क्१९.११२ ॥
जन्मवर्त्मप्रदा माता पिता बीजवपत्खगः ।
पान्थपूजासनं कायः कोऽयं नियमसंगमः ॥ क्१९.११३ ॥
श्रियः संसाराभ्रभ्रमपरिचिताः काञ्चनरुचा
आशा दिग्(?) निर्बन्धास्तडित इव निर्लेपचपलाः ।
वपुः सर्वापायैः क्षयभयनिकायैः परिगतं
जरारोगोद्वेगैस्तदपि न विरागस्तनुभृताम् ॥ क्१९.११४ ॥
श्रिये स्वस्तिसमाप्तये स्वजनस्यायमञ्जलिः ।
दाक्षिण्यैः क्षमतं श्रीषु प्रव्रज्यैव प्रिया मम ॥ क्१९.११५ ॥
इति ध्यात्वा स पितरौ समाश्वास्याप्तलोचनौ ।
बुद्धौ धर्मपथे शुद्धे शमधाम्नि न्यवेशयत् ॥ क्१९.११६ ॥
सार्थभ्रष्टश्चिरायात्कृशोऽपि स्वजनस्य च ।
अलुप्तसत्त्वविभवान्नकृपास्पदतां ययौ ॥ क्१९.११७ ॥
अनुकम्पस्व यद्येतं संसारक्लेशविह्वलम् ।
सतः कस्यानुकम्प्यास्ते संपत्संपर्कनित्स्पृहाः ॥ क्१९.११८ ॥
पशुपालकविप्रस्त्रीसंदेशादि यथोदितम् ।
निगद्य तेभ्यः कनकप्राप्तिप्रत्ययलक्षणम् ॥ क्१९.११९ ॥
शान्तः कात्यायनं प्राप्य प्रव्रज्यां स समाददे ।
मुग्धानां यद्विषादाय तत्प्रसादाय धीमताम् ॥ क्१९.१२० ॥
स समासाद्य विशदं स्रितःप्राप्तिफलं ततः ।
सकृदागाम्यनागामिफलमर्हत्फलं तथा ॥ क्१९.१२१ ॥
त्रैधातुको वीतरागः समलोष्टाश्मकाञ्चनः ।
आकाशपाणितुल्योऽभूदसिचन्दनयोः समह् ॥ क्१९.१२२ ॥
श्रावस्त्यां वेणुगहने जिनं जेतवने स्थितम् ।
भगवन्तं ययौ द्रष्टुं सोऽथ कात्यायनाज्ञया ॥ क्१९.१२३ ॥
प्रणितातकृतातिथ्यः प्रीत्या भगवता स्वयम् ।
स श्रोणकोटीकर्णोऽथ बभाषे हर्षनिर्भरः ॥ क्१९.१२४ ॥
भगवान् धर्मकायेन दृष्टोऽयं श्रोत्रवर्त्मनि ।
अधुना रूपकायेन पुण्यैरालोकितो मया ॥ क्१९.१२५ ॥
अनल्पसुकृतप्राप्यमिदं तद्दर्शनामृतम् ।
पीत्वा न तृप्तिमायान्ति वञ्चिता एव ते परम् ॥ क्१९.१२६ ॥
अस्पृहस्यापि ते मूर्तिः कुरुते कस्य न स्पृहाम् ।
निर्लोपस्यापि ते दृष्टिरहो हर्षेण लिम्पति ॥ क्१९.१२७ ॥
त्वत्कथा त्वदनुध्यानं त्वत्प्राप्तिस्त्वन्निषेवणम् ।
एताः कुशलमूलानां स्फीताः फलसमृद्धयः ॥ क्१९.१२८ ॥
इति श्रुत्वा भगवता प्रसादेनाब्न्हिनन्दितः ।
तदादिष्टं शमारामं स विहारमवाप्तवान् ॥ क्१९.१२९ ॥
तस्यास्पदं समभ्येत्य प्रणयाद्भगवानपु ।
श्रुत्वास्य मधुरं धर्मं स्वाध्यायं प्रशशंस सः ॥ क्१९.१३० ॥
तां श्रोणिकोटिकर्णस्य दृष्ट्वा प्रशमसंपदम् ।
भिक्षुभिर्भगवान् पृष्टः पूर्ववृत्तमभाषत ॥ क्१९.१३१ ॥
वाराणस्यां पुरा सम्यक्संबुद्धे काश्यपाभिधे ।
निर्वाणधातौ निःशेषकार्यत्वात्परिनिर्वृते ॥ क्१९.१३२ ॥
कृकिनामनृपश्चैत्यं तस्य रत्नैरकारयत् ।
स्वयं तत्पुण्यसंभरं स्वर्गं वक्तुमिवोद्गतम् ॥ क्१९.१३३ ॥
शीर्णस्थापितसंस्कारे तस्मिन् संज्ञाधृतं धनम् ।
तत्पुत्रः प्राप्तराज्योऽथ न ददौ लोभमोहितः ॥ क्१९.१३४ ॥
अथोत्तरापथायातः सर्थवाहोऽर्थदाभिधः ।
प्रददौ पृथिवीमूल्यं तत्कृते कर्णभूषणम् ॥ क्१९.१३५ ॥
कालान्तरोपगतोऽपि दत्वा चान्यद्धनं महत् ।
प्रणिधानं स कृतवान् भूयासं पुण्यवानिति ॥ क्१९.१३६ ॥
स श्रोणकोटिकर्णोऽयं पुण्यैः प्रातपदं महत् ।
तद्विधेनैव संयातः कर्णभूषणलक्षणः ॥ क्१९.१३७ ॥
प्रस्थानसमये माता श्राविता परुषं वचः ।
यस्मादनेन तेनास्य बभूवास्य श्रमो महान् ॥ क्१९.१३८ ॥
मध्येषु महतः शुक्लगुणसत्कर्मवाससः ।
कृष्णकर्मलवांशोऽपि स्फुट एवावधार्यते ॥ क्१९.१३९ ॥
सुकृतसचिवः सत्त्वेत्साहः प्रवाससखी धृतिः
विषमतरणे वीर्यं सेतुर्विपद्यधिका कृपा ।
शमपरिचिता पर्यन्ते च प्रसादमयी मतिः
परिणतिरियं पुण्यप्राप्तेः स्फुरत्फलशालिनी ॥ क्१९.१४० ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां श्रोणकोटिकर्णावदानं नामोनविंशतितमः पल्लवः ॥


२०. आम्रपाल्यवदानम् ।

द्विजिह्वसङ्गे कथमस्ति वृत्तिरनेकमुख्ये कथमस्ति सौख्यम् ।
कर्मान्तबन्धेऽस्ति कथं स्वशक्तिः प्रज्ञाप्रकर्षे कथमस्त्यपायः ॥ क्२०.१ ॥
मिथिलायां विदेहेषु जलसत्त्वाभिधो नृपः ।
अभूद्भुजभुजङ्गस्य विश्रान्तपृथिवीभरः ॥ क्२०.२ ॥
खण्डो नाम महामात्यस्तस्याखण्डलसंपदः ।
बभूवाशेषषाङ्गुण्यपरिज्ञानबृहस्पतिः ॥ क्२०.३ ॥
नीतिज्ञगौरवात्तस्य नृपे व्यक्तं नलोकिनि ।
सदाभवन्मुखप्रेक्षी सर्वः कार्यवशाज्जनः ॥ क्२०.४ ॥
गतानुगतिकत्वेन प्रवाहप्रणयी भरः ।
वर्धते वार्यमाणस्य स्वजनस्य जलस्य च ॥ क्२०.५ ॥
सर्वं तन्मयमालोक्य जनं मात्सर्यमूर्च्छिताः ।
मन्त्रिणः संहतास्तस्य विनिपातमचिन्तयन् ॥ क्२०.६ ॥
ते प्रविश्याश्रमं राज्ञस्तां तस्य प्रबह्विष्णूताम् ।
मुहुः शङ्कास्पदं कृत्वा शशंसुर्भेदकोविदाः ॥ क्२०.७ ॥
तद्गिरा शङ्कितो राजा तस्य वैमुख्यमाययौ ।
अबलाबालभूपाला वर्णप्रत्ययाः परम् ॥ क्२०.८ ॥
अशङ्क्यादपि शङ्कन्ते शङ्कादोषेऽप्यशङ्किताः ।
अविशेषज्ञचपला भूपालाः काकशङ्किनः ॥ क्२०.९ ॥
प्रभोर्विरक्तिलिङ्गानि विलोक्यामात्यपुंगवः ।
स्वसुतौ गोपसिंहाख्यौ सशङ्कः स्वैरमब्रवीत् ॥ क्२०.१० ॥
धूर्तैर्मे वीतविश्वासः पिशुनैर्नृपतिः कृतः ।
प्रत्ययं नैति हृदये विदार्यापि प्रदर्शिते ॥ क्२०.११ ॥
विरक्तः स्थगितालापदर्शनश्रवणः प्रभुः ।
शेफ इव वृद्धस्य यातः शिथिलतां मम ॥ क्२०.१२ ॥
पिशुनोद्भूतभेदस्य प्रेम्णः संधिर्न विद्यते ।
न मणिः श्लिष्याति पुनः पाषाणशकलीकृतः ॥ क्२०.१३ ॥
द्विजिह्णकुटिलक्रान्तः प्रभुश्चन्दनपादपः ।
न यात्यर्थक्रियाकारी गुणवानपि सेव्यताम् ॥ क्२०.१४ ॥
कथं नृपनिधानार्थी कुशलं भजते नरः ।
घोरद्वेषविषाविष्टद्विजिह्वाघातविह्वलः ॥ क्२०.१५ ॥
तस्माद्व्रजामः संत्यज्य द्वेषदोषेण भूपतेः ।
शङ्काशल्यमये वृत्ते मेऽस्मिन् देशे स्थितेन किम् ॥ क्२०.१६ ॥
दक्षा रक्षाक्षमाः शूराः प्रभुतार्थाः सुसंहताः ।
सन्तः सन्ति विशालायां वासस्तत्र ममेप्सितः ॥ क्२०.१७ ॥
इति ब्रुवाणः पुत्राभ्यां तथेत्युक्तः स सानुगः ।
उद्यानगतिमानेन प्रययौ सपरिच्छदः ॥ क्२०.१८ ॥
प्रयाणं नृपतिर्ज्ञात्वा निवर्तनसमुद्यतः ।
यत्नेनापि न तं प्राप नोत्सृष्टं लभ्यते पुनः ॥ क्२०.१९ ॥
मूर्खाः सत्सु कृतावज्ञा विमुह्यन्ते क्षणेन तैः ।
याति तेषां तु सर्वत्र कोऽपि नार्थी कृतार्थताम् ॥ क्२०.२० ॥
धीमानमात्यः प्राप्तोऽथ कृष्टो वैशालिकैर्गुणैः ।
पूजितः प्रणयाचारैः संघमुख्ये पदे स्थितः ॥ क्२०.२१ ॥
तद्बुद्धिविभवाप्तश्रीः सोऽथ तत्प्रमुखो गणः ।
कदाचिदनयाल्लेखे न पराबह्वपात्रताम् ॥ क्२०.२२ ॥
अथ कालेन सिंहस्य मन्त्रिसूनोः कनीयसः ।
अजायत सुता कान्ता चैला नाम गुणोचिता ॥ क्२०.२३ ॥
द्वितीया चोपचैलाख्या सुता जातास्य सुन्दरी ।
नन्मन्येव तयोः प्राह निमित्तज्ञो विचक्षणः ॥ क्२०.२४ ॥
चैलायास्तनयो भावी पितृहन्ता महीपतिः ।
गुणवानुपचैलायाः पूर्णलक्षह्णवानिति ॥ क्२०.२५ ।
ज्येष्ठो मन्त्रिसुतः शौर्याद्गोपः प्रौढमदोद्धतः ।
उद्यानमर्दनक्षेपैर्गणानां द्वेष्यतां ययौ ॥ क्२०.२६ ॥
तत्पितुर्गौरवात्तस्मै सानुजाय विमन्यवः ।
विशालशालतामन्ते जीर्णोद्यानद्वयं ददुः ॥ क्२०.२७ ॥
सुगतप्रतिमां चक्रे तत्रैकः सुकृतोचिताम् ।
विहारं वैभवोदारं भुवनाभरणं परः ॥ क्२०.२८ ॥
अथ पित्रा बलोत्सिक्तः सुतः प्रत्यन्तमण्डले ।
गणकोपभयाद्गोपः कर्मान्तोपार्जने धृतः ॥ क्२०.२९ ॥
कालेन त्रिदिवं याते तस्मिन्मन्त्रिवरे गणैः ।
कनीयसस्तु साधुत्वात्सिंहस्तस्य पदे धृतः ॥ क्२०.३० ॥
गोपः पितुरसंप्राप्य पदं गणविमानितः ।
तद्देशवासविरसः परिहारमचिन्तयत् ॥ क्२०.३१ ॥
वास्तव्य कण्टकाकीर्णे व्याघ्राघ्राते वरं वने ।
अनेकस्वामिसंभिन्नजने न तु विशृङ्खले ॥ क्२०.३२ ॥
नानामतक्रियालापः कथमाराध्यते गणः ।
समीहितं यदेकस्य दतन्यस्मै न रोचते ॥ क्२०.३३ ॥
इत्मानी स संचिन्त्य गत्वा राजगृहं पुरम् ।
बिम्बिसारं नरपतिं गुणश्रियमशिश्रियत् ॥ क्२०.३४ ॥
स तेन मानितः प्रीत्या तस्य विश्रम्भभूरभूत् ।
चिररुच्येव तत्कालमाभाति गुणसंगतिः ॥ क्२०.३५ ॥
राज्ञोऽथ बिम्बिसारस्य वल्लभा पञ्चतां ययौ ।
तद्वियोगाग्निसंतप्तं तं विचिन्त्य स बुद्धिमान् ॥ क्२०.३६ ॥
उपचैलां सुतां भ्रातुस्तद्विवाहोचिता वधूम् ।
गूढचारी तदादेशात्वैशालकपुरीं यय ॥ क्२०.३७ ॥
कन्या गणोपभोग्यौव न कस्मैचित्प्रदीयते ।
इति वैशालिकैः पूर्वं स्वदेशे नियमः कृतः ॥ क्२०.३८ ॥
तत्पुरे द्वाररक्षायै यक्षस्थानावलम्बिनी ।
परप्रवेशे कुरुते शब्दं घण्टी पटीयसी ॥ क्२०.३९ ॥
स प्रविश्य ततो भ्रातुर्गूढमुद्यानचारिणीम् ।
उपचैलां समाहतुं गतश्चैलामवाप्तवान् ॥ क्२०.४० ॥
यातस्तं रथमारुह्य घण्टाशब्दादभिद्र्युतम् ।
स हत्वा वीरपुरुषानवाप नृपतेः पुरम् ॥ क्२०.४१ ॥
तमूचे देवकन्येयं प्राता विमनसात्मना ।
पितृहन्ता सुतो ह्यास्या निमित्तज्ञेन सूचितः ॥ क्२०.४२ ॥
तस्मादेषा नरपतेर्महिषी न तवोचिता ।
त्वयि जीवति जीवन्ति प्रजानां सर्वसंपदः ॥ क्२०.४३ ॥
इत्युक्तस्तेन तां दृष्ट्वा त्युक्तं नैव शशाक सः ।
निरुद्धः कर्मणा ह्येव तन्मुखालेख्यलेखया ॥ क्२०.४४ ॥
सोऽवदत्क्क कदा दृष्ट पुत्रेण निहतः पिता ।
स्वयं मयाभिषेक्तव्यः सुतो यद्य्भविष्यति ॥ क्२०.४५ ॥
इत्युक्त्वा नृपतिः कन्यां परिणीयाभवत्सुखी ।
कृतकर्मोर्मिनिर्माणे प्रभवन्ति न बुद्धयः ॥ क्२०.४६ ॥
भोगिनस्तस्य कालेन तस्यां सूनुरजायत ।
ज्योतिष्कचरिते यस्य वृत्तमुक्तं पितृद्रुहः ॥ क्२०.४७ ॥
तपोवनमृगाधानमृगयाव्यसने वने ।
एवंविधो ह्यभूत्तस्य मुनिशापः सुताकृतिः ॥ क्२०.४८ ॥
अत्रान्तरे महान्नाम वैशालिकगणाग्रणीः ।
कन्यामाम्रवनात्प्राप कदलीस्कन्धनिर्गताम् ॥ क्२०.४९ ॥
सा तस्य भवने कान्ता वर्धमाना शनैः शनैः ।
विदधे विपुलां प्रीतिं दानचिन्तामच्चेतसि ॥ क्२०.५० ॥
प्रणयादाम्रपालीति बन्धुभिः सा कृताभिधाः ।
सूनुहीनमिन त्यक्त्वा बाल्यं यौवनमाददे ॥ क्२०.५१ ॥
तद्विवाहोद्यतस्याथ न सेहे तत्पितुर्गणः ।
गणोपभोग्या कन्येति समयस्य व्यतिक्रमम् ॥ क्२०.५२ ॥
पितरं दुःखसंतप्तं समेत्याथ जगाद्सा ।
भवामि गणभोग्यैव किं त्वेष समयो यदि ॥ क्२०.५३ ॥
एकस्योपरि नान्यस्य प्रवेशः स्वपदे स्थितिः ।
पणः कार्षापणशतैः पञ्चभिः प्रत्यहं मम ॥ क्२०.५४ ॥
सप्ताहेनैव विचयः कर्यो वेश्मनि नान्यदा ।
इत्यस्मिन् समये व ध्यः सर्वश्चैव व्यतिक्रमी ॥ क्२०.५५ ॥
इति तत्समयं ज्ञात्वा तत्पितुर्वचसा गणः ।
अकारोद्बाढमित्युक्त्वा दृढनिश्चयमादरात् ॥ क्२०.५६ ॥
ततः सरत्नभवने वराभरणभूषिते ।
हेमहर्म्यसमारूढा दिदेश दिनचन्द्रिकाम् ॥ क्२०.५७ ॥
ततः पणीकृतः कामी यो यस्तां समुपाययौ ।
तस्य तस्याभवत्तस्याः प्रभावेणौजसः क्षयः ॥ क्२०.५८ ॥
द्रष्टुमेव न शेकुस्ते किं पुनः स्प्रष्टुमाकुलाः ।
भुजङ्गभोगसंरुद्धां तां चन्दनलतामिव ॥ क्२०.५९ ॥
ततः सा सुन्दरी भेजे यौवनस्यापि यौवनम् ।
गुरुणा स्तनभारेण मध्यभङ्गभयप्रदम् ॥ क्२०.६० ॥
स्मरसंभोगरहितं तत्तस्या रूपमद्भुतम् ।
श्वभ्रहेमलतापुष्पमिव निष्फलतां ययौ ॥ क्२०.६१ ॥
कौतुकाशाविनोदाय नानादेशान्तरागतैः ।
अकारि चित्रकारैर्भूपालप्रतिकृतिर्गृहे ॥ क्२०.६२ ॥
विधाय चित्रलिखितान् सा क्रमेण नरेश्वरान् ।
ददर्श बिम्बिरासय रूपं रतिपतेचिव ॥ क्२०.६३ ॥
तमालोक्यैव सहसा समुद्भूतमनोभवा ।
स येन लिखितस्तत्र तं पप्रच्छ कुतूहलात् ॥ क्२०.६४ ॥
कोऽयं सखे प्रीतिलतामाधवो वसुधापतिः ।
प्रीणाति लोचने यस्य सुधापरिचिता रुचिः ॥ क्२०.६५ ॥
धन्या का नाम भूभर्तुरस्य प्रणयभागिणी ।
लक्ष्यं सौभग्यजं गर्वमुर्वश्याः संहृतं यया ॥ क्२०.६६ ॥
इति पृष्टतया स्वैरं तामूचे चित्रकोविदः ।
भूपतिर्बिम्बसारोऽयं सारं सुकृतसंपदाम् ॥ क्२०.६७ ॥
शुअर्यरूपतुलारोहे देवाः के नाकनायकाः ।
शङ्के करोति नैवास्य मन्मथो वा मनोरथम् ॥ क्२०.६८ ॥
इत्युक्ते तेन सा तस्थौ भूपालन्यस्तलोचना ।
सहसैवाभिलाषेण नवीनाभिमुखीकृता ॥ क्२०.६९ ॥
अत्रान्तरे बिम्बिसारः स्वैरवेश्मनि निजने ।
कथान्ते गोपमवदत्किंचित्स्मितसिताधरः ॥ क्२०.७० ॥
श्रूयतां यन्मम सखे किंचिन्मनसि वर्तते ।
निर्यन्त्रमित्रस्वच्छन्दवादः कोऽपि सुधारसः ॥ क्२०.७१ ॥
वैशालिकौर्वरारोहा गणैः साधारणिकृता ।
रम्भोरूः श्रूयते कान्ता रम्भागर्भसमुद्भवा ॥ क्२०.७२ ॥ क्२०.तत्प्रभावविनष्टाशैस्तेजस्विप्रणयोचिता ।
सा तैर्न दूषिताद्यापि मातङ्गैरिव पद्मिनी ॥ क्२०.७३ ॥
श्रवणादेव सानन्दमपर्युषितकौतुकम् ।
न करोति मनः कस्य तत्स्त्रीरत्नमयोनिजम् ॥ क्२०.७४ ॥
अभिलाषि मनस्तस्यां श्रोताय जातंमे सह चक्षुषा ।
तद्गुणश्रुतिधन्याय श्रोत्राय स्पृहयाम्यहम् ॥ क्२०.७५ ॥
इत्युक्ते भूमिपतिना गोपस्तं प्रयभाषत ।
भुजङ्गगणसंरुद्धः स राजन्मान्मथो निधिः ॥ क्२०.७६ ॥
अत्यल्पस्खलितं प्राप्य दुःसहापातदुर्गमः ।
एष ते विषमः पन्था दर्शितो विषमेषुणा ॥ क्२०.७७ ॥
लभते सा न निर्गन्तुं न युक्तं गमनं च ते ।
किमस्मिन् विरतोपाये वदाम्युभयसंशये ॥ क्२०.७८ ॥
इत्युक्तस्तेन नृपतिर्नोत्कण्ठाग्राहमत्यजत् ।
विद्वांसोऽप्युचितां नीतिं न स्मरन्ति स्मरातुराः ॥ क्२०.७९ ॥
वैशालिकपुरीं यातो गोपेन सहितोऽथ सः ।
प्रविवेशान्यवेशेन मन्दिरं हरिणीदृशः ॥ क्२०.८० ॥
सा चित्रदर्शनेनैव दृष्ट्वा परिचितं दृशोः ।
नरनाथं सवैलक्ष्यलक्षणं क्षितिमैक्षत ॥ क्२०.८१ ॥
लज्जानिरुत्तरे तस्याः कम्पव्यतिकरे परम् ।
रणन्ती रसना चक्रे स्वागतं नृपतेरिवः ॥ क्२०.८२ ॥
विलोक्य धन्यतामानी तत्र चित्रे निजं वपुः ।
तां लावण्यनदीं राजा नयनाञ्जलिना पपौ ॥ क्२०.८३ ॥
लज्जावेशेन सुन्दर्यामाभिजात्येन भूपतौ ।
आबद्धमैनयोः क्षिप्रं गोपस्तां सस्मितोऽवदत् ॥ क्२०.८४ ॥
अयं ते चित्रलिखिताकारध्यानावधानतः ।
व्यक्तं भक्षिविशेषेन देवः प्रत्यक्षतां गतः ॥ क्२०.८५ ॥
त्वयायं लिखितश्चित्रे त्वमनेन तु चेतसि ।
न जाने युवयोः को नु प्रयातः प्रेमदूतताम् ॥ क्२०.८६ ॥
इत्यादिभिः कथाबन्धैः परीपूर्णप्रमोदयोः ।
यद्यदेव स्मरादिष्टं तत्तदास्वादतां गतम् ॥ क्२०.८७ ॥
घण्टारवाकुले लोके राजा प्रच्छन्नकामुकह् ।
सप्तरात्रमनालोक्ये तस्थौ तद्भवने रहः ॥ क्२०.८८ ॥
लतेव पुष्पिता काले तस्माद्गर्भमवाप्य सा ।
चक्रे विदितवृत्तान्तं तं लज्जावनता शनैः ॥ क्२०.८९ ॥
आसन्ने विश्मविचये दत्वास्मै नृपतिर्ययौ ।
भाविपुत्रपरिज्ञानप्रत्ययादङ्गुलीयकम् ॥ क्२०.९० ॥
याते भास्वद्वपिषु नृपतौ संमते लोचनानां सद्यः प्रोद्यद्विरहतिमिराक्रान्तिमीराक्रान्तिमीलन्मुखाब्जा ।
साभूत्सायंतनतनुतरापारवाताभिभूता
शोकोच्छ्वासव्यतिकरवती हासहीना निशेव ॥ क्२०.९१ ॥
कपोलं पाणिपद्मेन संकल्पेन महीपतिम् ।
नवं तानवमङ्गेन वहन्ती निमिमील सा ॥ क्२०.९२ ॥
ततः कालेन कल्याणी प्रतिबिम्बोपमं पितुः ।
अजीजनत्सा नतयं विनयं साधुधीरिव ॥ क्२०.९३ ॥
वर्धमाने शनैस्तस्मिन् काले बिम्ब इवैन्दवे ।
बिम्बिसारस्य पुत्रोऽयमिति लोकेषु पप्रथे ॥ क्२०.९४ ॥
अपवादपरैस्तैस्तैस्तं प्रत्यनुचित्तैर्यदा ।
बाधन्ते शिशवः क्रीडाप्रसङ्गेऽमर्षसंयताः ॥ क्२०.९५ ॥
ततः सा प्रेषयामास पुत्रं विद्यार्जनोचितम् ।
वणिक्सार्थेन महता साङ्गुलीयं पितुः पदम् ॥ क्२०.९६ ॥
बिम्बिसारोऽपि संप्राप्य सदृशाकारमात्मजम् ।
हर्षदृप्तः परिष्वज्य चक्रे तस्य परिग्रहम् ॥ क्२०.९७ ॥
वृत्ताण्ते विश्रुते तस्मिन्नाम्रपाल्याह्सकौतुकैः ।
भिक्षुभिर्भगवान् पृष्टस्तत्कथामवदज्जिनः ॥ क्२०.९८ ॥
पुरे राजगृहे राजवल्लभोद्यानकानने ।
बभूव मालती नाम पूर्वमुद्यानपालिका ॥ क्२०.९९ ॥
सा कदाचित्प्रसादार्द्रं पुरः प्राप्तं यदृच्छया ।
प्रत्येकबुद्धं राजषिं चूतपुण्पैपूजयत् ॥ क्२०.१०० ॥
अयोनिजा नृपस्याहं पत्नी स्यामिति तत्र सा ।
प्रणिधानं पुरश्चक्रे तस्य चित्तप्रसादिनी ॥ क्२०.१०१ ॥
पुण्यपुष्पफलभोगशालिनी सैव दिव्यतनुराम्रपालिका ।
इत्युदारचरिता निशम्य ते भिक्षवः सपदि विस्मयं ययुः ॥ क्२०.१०२ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामाम्रपाल्यवदानं नाम विंशतितमः पल्लवः ॥


२१. जेतवनप्रतिग्रहावदानम् ।

दृष्टं मुष्टिनिविष्टपारदकणाकारं नराणां धनं
धन्योऽसौ यशसा सहाक्षयपदं यद्यस्य विद्योतते ।
दीनानाथगणार्पणोपकरणीभूतप्रभूतश्रियः
पुण्यारामविहारचैत्यभगवद्बिम्बप्रतिष्ठादिभिः ॥ क्२१.१ ॥
श्रीमान् बभूव श्रावस्त्यां दत्तो नाम गृहाभिपः ।
सुतस्तस्य सुदत्तोऽभूदाकरः पुण्यसंपदाम् ॥ क्२१.२ ॥
स बाल्य एवालंकारं याचकेभ्यः सदा ददौ ।
प्राग्जन्मवासनाभ्यासः कस्य केन निर्वायते ॥ क्२१.३ ॥
नित्यमाभरणत्यागात्परं पित्रा निवारितः ।
नदीसमुद्धृतान्यस्मै सदैवान्यान्यदर्शयत् ॥ क्२१.४ ॥
निधिदर्शी स सर्वत्र पितरि त्रिदिवं गते ।
दीनानाथप्रदानेन बभूवानाथपिण्डदः ॥ क्२१.५ ॥
कृतदानह्स कालेन पुत्रवान् पुत्रव्त्सलः ।
अभूत्पुत्रविवाहार्थी कन्यान्वेषणयत्नवान् ॥ क्२१.६ ॥
कन्यकां याचितुं कांचित्पुरं राजगृहं ततः ।
मधुस्कन्धाभिधं दक्षं ब्राह्मणं विसर्सर्ज सः ॥ क्२१.७ ॥
आसाद्य मगधान् राजगृहं नगरमेत्य सः ।
महाधनं गॄहपतिं ययाचे कन्यकां द्विजः ॥ क्२१.८ ॥
अनाथपिण्डदो नाम श्रावस्त्यामस्ति विश्रुतः ।
तत्पुत्राय सुजाताय कन्यायां देहीत्युवाच सः ॥ क्२१.९ ॥
सोऽब्रवीदेश संबन्धः परमोऽस्मत्कुलोचितः ।
वंशेऽस्माकं तु कन्यानां शुक्लमादीयते महत् ॥ क्२१.१० ॥
शतं शतं रथाग्र्याणां गजाश्वाश्वतरस्य च ।
दाशीनिचयनिष्कानां दीयतां यदि शक्यते ॥ क्२१.११ ॥
इत्युक्ते तेन तं विप्रं सस्मितः प्रत्यभाषत ।
अनाथपिण्डदगृहे दास्ये शुल्कं तदल्पकम् ॥ क्२१.१२ ॥
ब्राह्मणेनाखिले तस्मिन् कन्याशुल्के प्रतिश्रुते ।
तमादराद्गृहपतिर्भोजनाय न्यमन्त्रयत् ॥ क्२१.१३ ॥
स भुक्त्वा विविधं तत्र भक्ष्यभोज्यमयन्त्रितः ।
रात्रौ विसूचिकाक्रान्तश्चुक्रोश विपुलव्यथः ॥ क्२१.१४ ॥
येऽन्नमश्नन्ति लौल्येन निशि निद्रासुखापहम् ।
जन्मकर्म कथं कुर्युः परलोकसुखाय ते ॥ क्२१.१५ ॥
तत्याजाशुचिभीत्या तं गृहात्परिजनो बहिः ।
आस्पदं नैरपेक्ष्यस्य जात्या दासजनः शठः ॥ क्२१.१६ ॥
शुभेन कर्मणा तस्य संप्राप्तस्तेन वर्त्मना ।
समौद्गल्यायनः शारिपुत्रः कारुण्यपेशलः ॥ क्२१.१७ ॥
तं वंशस्य दलाग्रेण निर्लिख्यापि तथा मृदा ।
प्रक्षाल्य धर्ममादिश्य तौ तस्य ययतुः शनैः ॥ क्२१.१८ ॥
सोऽपि चित्तं तयोरग्रे प्रसाद्य त्यक्तविग्रहः ।
चतुर्महाराजिकेषु देवेषु समाजायत ॥ क्२१.१९ ॥
तत्र विश्रवणादेशान्मर्त्यलोके निकेतने ।
स चक्रे शिबिरद्वारे पूजाधिष्ष्ठानसंनिधिम् ॥ क्२१.२० ॥
लेखविज्ञातसंबन्धविश्चयोऽथ यथोदितम् ।
अनाथपिण्डदः शुल्कमादाय स्वयमाययौ ॥ क्२१.२१ ॥
स संबन्धिगृहं प्राप्य ददर्शाश्चर्यकारिणीम् ।
शिखराकारराजार्हभक्ष्यसंभारसंपदम् ॥ क्२१.२२ ॥
स विस्मयाद्गृहपतिं पप्रच्छ स्वच्छमानसः ।
भूरिभक्ष्य्प्त्सवः कोऽयमपि राजा निमन्त्रितः ॥ क्२१.२३ ॥
स तं बभाषे भगवान् बुद्धः संघपरिग्रहः ।
मया निमन्त्रितः संघे सोऽयं मम महोत्सवः ॥ क्२१.२४ ॥
इति बुद्धाभिधानेन जातरोमाश्न्चकण्टकः ।
इन्दुस्यन्दिरिवाल्किन्नः सहसैव बभूव सः ॥ क्२१.२५ ॥
अविदितपरमार्थे कस्यचिन्नाममात्रे
स्फुरति सहजभावः कोऽपि जन्मानुबन्धः ।
अभिनवघननादे व्यक्तहर्षभिलाषः
स्पृशति ललितनृत्योद्वृत्तवृत्तिं मयूरः ॥ क्२१.२६ ॥
सोऽवदद्वदनाम्भोजसंजाताभिनवद्युतिः ।
क एष भगवान् बुद्धः कश्च संघोऽभिधीयते ॥ क्२१.२७ ॥
इति पृष्टो गृहपतिस्तेन प्रोवाच सस्मितः ।
अहो बत न जानीषे शास्तारं भुवनत्रये ॥ क्२१.२८ ॥
संसारपाशभीतानां शरण्यं शरणैषिणाम् ।
जिन यस्तं न जानाति स लोके वञ्चितः परम् ॥ क्२१.२९ ॥
किं तेन मोहलीनेन विफलीकृतजन्मना ।
अज्ञानतरणोपायं वयो येन व्ययीकृतम् ॥ क्२१.३० ॥
गोतमो भगवान् बुद्धः शाक्यराजकुलद्भिवः ।
संबुध्यानुत्तरं सम्यक्संबोधिमनगारिकः ॥ क्२१.३१ ॥
पश्चात्प्रव्रजितानां च तस्यैवानुग्रहात्परम् ।
भिक्षूणां गतरागाणां समूहः संघ उच्यते ॥ क्२१.३२ ॥
स एष बुद्धप्रमुखः संघः स्वकुशलैषिणाः ।
मया पुण्यपणं प्राप्यं प्रणयेन निमन्त्रितः ॥ क्२१.३३ ॥
इति तद्वचनं श्रुत्वा तत्स्मृत्वानाथपिण्डदः ।
बुद्धालम्बनभावेन निशि निद्रां समाययौ ॥ क्२१.३४ ॥
रजन्यां यामशेषायां समाकृष्ट इवेत्सुकः ।
प्रभातमिति स ज्ञात्वा पुरद्वारेण निर्ययौ ॥ क्२१.३५ ॥
शिबिकाद्वारमासाद्य संप्राप्त इव देवताम् ।
मधुस्कन्धेन निर्दिष्टं श्रेयःपन्थानमाप्तवान् ॥ क्२१.३६ ॥
भगवांस्तं ततः प्राप्य स तृष्णार्त इवामृतम् ।
बभूवानुपमास्वादं प्रमोदामोदनिर्वृतः ॥ क्२१.३७ ॥
तं दृष्ट्वा सादरं दूरात्छायातरुमिवाध्वगः ।
अवाप गतसंतापः श्रान्तिं विश्रान्तिशीतलाम् ॥ क्२१.३८ ॥
तस्य तद्दर्शनेव विमलाभिगतः मनः ।
शरत्समागमेनेव घनध्वान्तोज्झितं नभः ॥ क्२१.३९ ॥
स कोऽपि पुण्यशीलानामनुभावः प्रसादिनाम् ।
भवन्ति यत्प्रसादेन निर्विघ्नाश्चित्तवृत्तयः ॥ क्२१.४० ॥
सोऽचिन्तयदहो मोहविहीनस्य हि मे तथा ।
अनुच्छेदविकारोऽयं जातः प्रशमसंपदः ॥ क्२१.४१ ॥
वञ्चितोऽस्मि न यत्पूर्वं दृष्तोऽयं भगवान्मया ।
नाधन्यानामियं याति मूर्तिर्लोचनगोचरम् ॥ क्२१.४२ ॥
अमृतमधिरोदारा दृष्टिर्द्युतिः शशिपेशला तरुणकरुणायत्ता वृत्तिः प्रसादमयी मतिः ।
अयमतिशयं प्रत्यासन्नः करोति विरागतां विगतरजसां निःसंसारः प्रियोऽपि परिग्रहः ॥ क्२१.४३ ॥
इति चित्तप्रसादेन चिन्तयन्नुपसृत्य सः ।
विदधे तस्य सानन्दः पादपद्माभिवन्दनम् ॥ क्२१.४४ ॥
भगवानपि तत्प्राप्तिप्रसादानन्दलक्षणम् ।
उवाह वदनच्छायं पूर्णकारुण्यपूरितम् ॥ क्२१.४५ ॥
दृष्टिमाश्वासजननीं कामंकामपि तस्य सः ।
विससर्जोज्ज्वलां जन्मरजःशुद्ध्यै सुधानदीम् ॥ क्२१.४६ ॥
अथास्य भगवान् भ्रद्रां विदधे धर्मदेशनाम् ।
चतुर्णामार्यसत्यानां प्रतिभावविधायिनीम् ॥ क्२१.४७ ॥
स शासनाद्धि संव्यस्तसमस्तक्लेशसंततिः ।
निजं जन्म निवेद्यास्मै प्रणतस्तमभाषतः ॥ क्२१.४८ ॥
अतिक्रान्तोऽस्मि भगवन् भवन्तं शरणं गतः ।
विपन्नवासनाभ्यासः संसारे न रमे परम् ॥ क्२१.४९ ॥
करोत्यकुशलं दूरे शुभमाशु प्रयच्छति ।
सूचयत्युचिताचारं महतमवलोकनम् ॥ क्२१.५० ॥
सुखार्हं त्वद्विहाराय विहारं परमादरात् ।
रत्नसारपुरोदारं स्वपुरं कारयाम्यहम् ॥ क्२१.५१ ॥
करोतु तत्र भगवान् सततं स्थित्यनुग्रहम् ।
धनैरासेवितोऽस्माभिः सपर्यापरिचर्यया ॥ क्२१.५२ ॥
इत्यर्थनां तथेत्यस्य भगवान् प्रत्यपद्यत ।
प्रणयुप्रार्थनाभङ्गप्रगल्भा न हि साधवः ॥ क्२१.५३ ॥
भगवन्तमथामन्त्र्य श्रावस्तीं स पुरीं ययौ ।
तदादिष्टेन सहितः शारिपुत्रेण भिक्षुणा ॥ क्२१.५४ ॥
तत्र जेतकुमारेण हिरण्यार्घोण भूयसा ।
दत्तं काञ्चनमादाय विहारं तमसूत्रयत् ॥ क्२१.५५ ॥
भक्त्युत्साहादथारम्भकृतसाहाय्यकह्सुरैः ।
विहारं त्रिदिवाकारं चकारानाथपिण्डदः ॥ क्२१.५६ ॥
तत्र जेतकुमारोऽपि भक्त्या भगवतः परम् ।
यशःपुण्यप्रतिष्ठायै विदधे द्वारकोष्ठकम् ॥ क्२१.५७ ॥
अथतीर्थ्यास्तमालोक्य विहारारम्भमद्भुतम् ।
सापवादविवादेन चक्रुर्द्वेषाकुलाः कलिम् ॥ क्२१.५८ ॥
रक्ताक्षप्रमुखस्तेषां मात्सर्यात्क्षुद्रप्रण्डितः ।
सपक्ष इव कृष्णाहिश्चकितः पुरतः सदा ॥ क्२१.५९ ॥
रुद्धे विहारसंभारे तेन वादजयावधि ।
अनाथपिण्डदगिरा शारिपुत्रः समाययौ ॥ क्२१.६० ॥
रक्ताक्षोऽथ तमाहूय प्रभावोत्कर्षदर्शने ।
इन्द्रजालबलोत्फुल्लं सहकारमदर्शयत् ॥ क्२१.६१ ॥
शारिपुत्रप्रभावोत्थैर्विपुलैस्तन्मुखानिलैः ।
उन्मूलितः शकलतां तीर्थ्योत्साह इवाप सः ॥ क्२१.६२ ॥
रक्ताक्षविहितां फुल्लकमलां पद्मिनीं ततः ।
पङ्कशेषां द्विपश्चक्रे शारिपुत्रविनिर्मितः ॥ क्२१.६३ ॥
रत्काक्षवक्षोनिक्षिप्तः सप्तशीर्षमहोरगः ।
शारिपुत्रेण निक्षिप्तस्तार्क्ष्यपक्षाग्रमारुतैः ॥ क्२१.६४ ॥
तदाहूतोऽथ वेतालः शारिपुत्रेण कीलितः ।
प्रेरितो मन्त्रविर्त्येण रक्ताक्षं हन्तुमुद्ययौ ॥ क्२१.६५ ॥
वेतालाभिहतस्त्रासान्नश्यन्मानमदज्वरः ।
शरणं पादपतितः शारिपुत्रं जगाम सः ॥ क्२१.६६ ॥
रक्ताक्षस्तेन भङ्गेन शरण्यं शरणं गतः ।
प्रव्रज्यायां वीतरागः शुद्धां बोधिस्मवाप्तवान् ॥ क्२१.६७ ॥
तीर्थ्यास्त्वन्ये परिद्वेषक्रोधपारमितांशवः ।
तत्र कर्मकरव्याजात्तस्थुर्भिक्षवधोद्यताः ॥ क्२१.६८ ॥
तेऽथ धर्मद्रुहः काले शारिपुत्रेण लक्षिताः ।
तद्दृष्टिपातमात्रेण बभूवुर्मैत्रमानसाः ॥ क्२१.६९ ॥
आशयानुशयं धातुं प्रकृतिं च विचार्य सः ।
धर्मदेशनया तेषां दिदेशानुत्तरां दशाम् ॥ क्२१.७० ॥
अथ तस्य विहारस्य निर्विघ्नारम्भकर्मणि ।
अनाथपिण्डदं प्राह शारिपुत्रः स्मिताननः ॥ क्२१.७१ ॥
विहारसूत्रपातस्य तुल्य एव क्षणे महान् ।
हौमो विहारः संवृत्तस्तुषिते देवसद्मनि ॥ क्२१.७२ ॥
एतदाकर्ण्य संजातप्रसादद्विगुणान्तरः ।
हेमरत्नवरागारं विहारं समकारयत् ॥ क्२१.७३ ॥
विभवैरथ राजार्हैः पथि तेनोपकल्पितैः ।
विज्ञप्तिस्त्रिदिवैः सार्धमाययौ भगवान् जिनह् ॥ क्२१.७४ ॥
तदागमनहर्षेण प्रसन्ने भवनत्रये ।
अनाथपिण्डदस्तस्मै वारिधारामपातयत् ॥ क्२१.७५ ॥
तस्मिन् यदा न प्रदेशे वारिधारा पपात सा ।
तदा भगवतो वाक्यात्त्वरितं पतितान्यतः ॥ क्२१.७६ ॥
तं दृष्ट्वा कौतुकात्पृष्टो भिक्षुभिर्भगवान् पुनः ।
उवाच श्रूयतामेतद्वारिस्तम्भस्य कारणम् ॥ क्२१.७७ ॥
अनेन पूर्वबुद्धेभ्ये अस्मिन्नेवेदमास्पदम् ।
प्रतिपादितमित्येषा वारिधारान्यतश्च्युता ॥ क्२१.७८ ॥
अनेनैव पुरा सम्यक्संबुद्धाय विपश्यिने ।
अयमेव वरारामप्रदेशः प्रतिपादितः ॥ क्२१.७९ ॥
बुद्धाय शिखिने प्रादात्पुष्यजन्मन्ययं पुनः ।
ततो ददौ विश्वभुवे जिनाय रघिजन्मनि ॥ क्२१.८० ॥
भवदत्ताभिधो भूत्वा ककुच्छन्दाय दत्तवान् ।
ददौ बृहस्पतिर्भूट्वा कनकाख्याय तायिने ॥ क्२१.८१ ॥
काश्यपाय पुनश्चायं प्रादादाषाढजन्मनिः ।
अनेनैवाधुना मह्यं देशोऽयं प्रतिपादितः ॥ क्२१.८२ ॥
कालेन सुधनाख्योऽयं मैत्रेयाय प्रदास्यति ।
सत्त्ववान् क्षान्तिशीलत्वान्निधानान्येष पश्यति ॥ क्२१.८३ ॥
पुनश्चायं गॄहपतिर्भूत्वा हेमप्रदाभिधः ।
चक्रे प्रत्येकबुद्धस्य संस्कारं परिनिर्वृतौ ॥ क्२१.८४ ॥
रत्नकुम्भे तदस्थीनि धृत्वा तत्प्रणिधानतः ।
अधुना रत्नकोशार्हः संजातोऽयं सुवर्णभास्॥ क्२१.८५ ॥
श्रुत्वेति शास्तुर्वचनाभिधानं ते भिक्षवः सारमिवामृतस्य ।
कर्तुः प्रतिष्ठार्जितपूर्णपुण्यपुष्पाधिवासेन भृशं ननन्दुः ॥ क्२१.८६ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां जेतवनप्रतिग्रहावदानं नाम एकविंशं पल्लवः ॥


२२. पितापुत्रसमादानम् ।

अहो महार्हं मणिवन्महत्त्वं भव्या भजन्ते गुणगौरवेण ।
विना गुणं यद्वपुषां गुरुत्वं स्थूलोपलानामिव निष्फलं तत् ॥ क्२२.१ ॥
श्रीमान् पुरा शाक्यपुरे नरेन्द्रः शुद्धोदनः शुद्धिसुधानिधानम् ।
वैराग्ययोगात्सुगतत्वमाप्तं स्मृत्वा सुतं सुत्सुकतामवापम् ॥ क्२२.२ ॥
सोऽचिन्तयत्पुण्यगुणाधिवासं सरस्वतीवाससरोरुहश्रि ।
मनः प्रसादस्य विलाससौधं द्रक्षामि सूनोर्वदनं कदाहम् ॥ क्२२.३ ॥
एहीति तद्दर्शनलालसेन ये ये मया जेतवनं विसृष्टाः ।
ते ते तदालोकननिर्निमेषं तत्रैव तिष्ठन्त्यमृतं पिबन्तः ॥ क्२२.४ ॥
संप्रेषितस्तस्य मया स नाययौ योऽप्यात्मतुल्यं प्रणयादुदायी ।
स लेखहस्तस्त्रिदिवाभिरामे तत्रैव लेखत्वमिराभियातः ॥ क्२२.५ ॥
संदेशवाक्यं प्रहितं मया यत्तद्विस्मृतं तस्य मुखेन नूनम् ।
सर्वो हि नाम स्वहिताभिलाषी धत्ते परार्थे किल शीतलत्वम् ॥ क्२२.६ ॥
विलोकनेनैत्य निषिञ्च तूर्णं पीयूषपूरेण ममाङ्गसङ्गम् ।
निःसङ्गतो विश्रमतां मुहूर्तं दयाविधेयः कुरु बन्धुकार्यम् ॥ क्२२.७ ॥
इत्येतदाकर्ण्य कथां स कुर्यात्क्षणं विलम्बं मम दर्शनेऽपि ।
तच्चेतसः पल्लवपेशलस्य न हि स्वभावः प्रणयावभङ्गः ॥ क्२२.८ ॥
मनोरथेनेति पुरः प्रयाते तद्दर्शनायेव धराधिनाथे ।
प्रव्रज्या व्यञ्जिततत्प्रसादः समाययौ हर्षरसादुदायी ॥ क्२२.९ ॥
दृष्ट्वा तमानन्दविपूर्णमानसं प्रव्रज्यया तत्सदृशानुभावम् ।
उत्कण्ठितः कुण्ठितधैर्यवृत्तिः संमोहमूर्च्छां नृपतिः प्रपेदे ॥ क्२२.१० ॥
स लब्धसंज्ञः शिशिरैः पयोभिः पप्रच्छ तं किं नु समेष्यतीति ।
सोऽप्यब्रवीद्देव दिनैर्भवन्तमसंभृतैः सादरमेष्यतीति ॥ क्२२.११ ॥
ततः प्रयातेषु दिनेषु केषु व्योम्ना शनैर्भिक्षुगणानुयातः ।
सहाययौ नाकसदां निकायैः सर्वार्थसिद्धैर्भगवान् कुमारः ॥ क्२२.१२ ॥
द्युसुन्दरीपाणिसरोजमुक्तमन्दारमालाकलितश्चकाशे ।
स्वर्गीयगङ्गास्फुटफेनकूटविलासहासाङ्ग इवामराद्रिः ॥ क्२२.१३ ॥
संघट्टभिन्नाभ्रसखैः स्खलिद्भिः सशब्दजाम्बूनदकिङ्किणीकैः ।
बभुर्विमानैः ककुभां मुखानि भक्त्येव शास्तुर्विहितस्तवानि ॥ क्२२.१४ ॥
निरन्तरैरन्तरिवार्कतारैः सुरैः सविद्याधरसिद्धसंघैः ।
पर्याप्तसंसक्तसितातपत्रैर्व्याप्तः समाप्तिं गगनं जगाम ॥ क्२२.१५ ॥
तं सर्वलोकोपकृतिप्रपन्नं सर्वाकृतिं सर्वमयावभासम् ।
समापतन्तं नभसोऽथ दिग्भ्यः क्षितेश्च सर्वे ददृशुः क्षणेन ॥ क्२२.१६ ॥
प्रहर्षराशिं जनलोचनानां पुण्यप्रमाणं सुकृतोत्सवानाम् ।
लोकस्तमालोकनिधिं विलोक्य समुल्ललन्नुच्छलिताद्भुतोर्मिः ॥ क्२२.१७ ॥
आश्चर्यभूतं रुचिरप्रभावमुदायिना सूचितमाकलय्य ।
जगद्गुरुं भूमिपतिः कुमारं कृताञ्जलिस्तं प्रणनाम दूरात् ॥ क्२२.१८ ॥
अथावतीर्यार्यजनानुयातः संपूज्यमानः प्रणयेन राज्ञा ।
स्फीटप्रभाभासितदिग्विभागां न्यग्रोधिनीं रत्नभुवं विवेश ॥ क्२२.१९ ॥
हेमासनं शासनसंनिविष्टलोकत्रयः संगतपादपीठम् ।
स तत्र रत्नाङ्कुरचित्रपत्रं भास्वद्वपुर्मेरुन् ॥ क्२२.२० ॥
तन्मानसेन्दोर्नयनामॄतौघं मनोरथप्रार्थनयोपयातम् ।
विलोकयन्निर्वृतिनिर्निमेषः क्षणं क्षितीशस्त्रिदशत्वमाप ॥ क्२२.२१ ॥
स तं जगादाश्रुनिरुद्धकण्ठः सोत्कर्षहर्षाकुलितं कुमारम् ।
हाराग्ररत्नप्रतिबिम्बसक्तं प्रवेशयन् प्रीतिरसादिवान्तः ॥ क्२२.२२ ॥
संतोषशीताचलवत्स्वभावात्सर्वे रमन्ते कुशलस्थलीषु ।
कृतस्त्वयास्माकमयं तु कस्मात्सत्सूपकारी विरहोपदेशः ॥ क्२२.२३ ॥
स्नेहात्प्रमोदाद्गुणगौरवाच्च धीर्धावतीयं त्वयि मे प्रसह्य ।
आलिङ्गनाय स्थिरसंगमाय पादप्रणामाय च तुल्यमेव ॥ क्२२.२४ ॥
यद्वस्तु किंचिद्गदितं मया तत्श्रोतव्यमेव प्रणयोपरोधात् ।
गुणोज्झितं वा विरसक्रमं वा न स्नेहमोहस्य भवत्यवाच्यम् ॥ क्२२.२५ ॥
प्रत्यर्णरत्नप्रतिबिम्बितार्कप्रौढप्रभाप्रावरणान्यमूनि ।
त्वं हेमहर्म्याणि विहाय कस्मात्विगाहसे शून्यवनान्तराणि ॥ क्२२.२६ ॥
कान्ताकरावर्जितहेमकुम्भसत्सौरभाम्भःप्रवराभिषिक्तः ।
एकः कथं स्नासि विकासिपांशुसंतप्ततोयासु मरुस्थलीषु ॥ क्२२.२७ ॥
गण्डस्थलात्कुण्डलरत्नकान्ति किं लम्बितं मण्डनमेव वेत्सि ।
कस्मादकस्मात्तव निःसुखस्य न चन्दनं नन्दनमिन्दुशुभ्रम् ॥ क्२२.२८ ॥
महाविताने शयने नृपार्हे शेषे न किं शेषविशेषशुभ्रे ।
लक्ष्मीनवालिङ्गनभोगयोग्या कथं तनुस्ते सहते कुशय्याम् ॥ क्२२.२९ ॥
कान्तास्मितोर्मिप्रतिमांशुकार्हं किं चीवरस्योचितमेतदङ्गम् ।
पाणौ च लीलाकमलास्पदेऽस्मिन् पात्रं कथं ते प्रियमद्य जातम् ॥ क्२२.३० ॥
अयं विहारस्तव कण्ठपीठः सोत्कण्ठकान्ताभुजबन्धनार्हः ।
संभोगलक्ष्मीक्षपितप्रमोदः करोत्यकस्मात्प्रणयावभङ्गम् ॥ क्२२.३१ ॥
रूपं विलक्षीकृतपुष्पचापं मत्तेभकुम्भोच्चकुचा विभूतिः ।
रतेर्विलास्प्पवनं वयश्च केनासमस्ते कलितो विरागः ॥ क्२२.३२ ॥
श्रत्वेति तं शीलनिधिर्बधाषे शशाङ्कलेखाललितस्मितेन ।
संक्रान्तनानानृपरत्नरागां कुर्वन्नलक्षामिव राजलक्ष्मीम् ॥ क्२२.३३ ॥
राजन् जरारोगहतेव न स्यात्तरङ्गलोला यदि जीववृत्तिः ।
तत्कस्य न स्यादनिशं प्रहर्षपीयूषवर्षी विषयाभिलाषः ॥ क्२२.३४ ॥
शमामृतास्वादनसुस्थिराणामपातनं शून्यवनान्तभूमेः ।
विभूतिलीलामदविह्वलानां हर्म्याणि पर्यन्तनिपातनानि ॥ क्२२.३५ ॥
सकुङ्कुमैः स्नान्तिः नृपाः पयोभिः सरागतां यैः सततं प्रयान्ति ।
संतोषशीलस्तु मनः प्रसादशुद्धाम्बुधौता विमलीभवन्ति ॥ क्२२.३६ ॥
श्रोत्रं श्रुतेनैवन कुण्डलेन दानेन पाणिर्न तु कङ्कणेन ।
विभाति कायः करुणाकुलानां परोपकारेण न चन्दनेन ॥ क्२२.३७ ॥
एतानि मोहाहतवल्लभानि संसक्तमुक्तांशुसितस्मितानि ।
सतां न भोग्यानि भवन्ति भूभृदुच्छिष्टशिष्टानि विभूषणानि ॥ क्२२.३८ ॥
रागातुराणां रितुपापितानां निद्रा धनध्यानवतां न नाम ।
शय्यासु सुस्पर्शवतीषु राज्ञा सर्वत्र शान्तः सुखमेव शेते ॥ क्२२.३९ ॥
निर्मोककान्तेन वराम्शुकेन भुजङ्गवृत्तिर्न तु चीवरेण ।
पात्रं पवित्राणि समाप्लितानि पीयूषमैत्राण्यशनानि सूते ॥ क्२२.४० ॥
छत्राणि वक्र्क्रं भृशमप्रकाशं मनिविलोलं व्यजनानिलौघाः ।
संसक्तजाङ्यं हृदयं नृपाणां कुर्वन्ति हारा हरिचन्दनार्द्राः ॥ क्२२.४१ ॥
वियोगरोगानुगता विभूतिः कान्ताह्क्षणान्ता विरसो विलासः ।
यस्मिन्नपायः सततानुशायी स कस्य भोगः सुभगोपयोगः ॥ क्२२.४२ ॥
जाड्यं सजृम्भं जनयत्यजस्रं तनोति तृष्णाभ्रममोहमूर्च्छाः
करोत्यसह्यं सरसत्वमेव भोगोपभोगः प्रसभप्रयोगः ॥ क्२२.४३ ॥
यदा सुखश्रीर्नवचन्द्रलेखा प्रभातपुष्पाण्यपि यैवनाणि ।
कर्मोर्मिमालाग्रहणं शरीतं तदा ममायं गमितोऽनुरागः ॥ क्२२.४४ ॥
सचामराह्सध्वजपुञ्जपट्टाः सवाजिवाला द्विपकर्णतालाः ।
स्वभावलोलाः किल राजलक्ष्म्यः सर्वे विलासाह्क्षणभङ्गसङ्गाः ॥ क्२२.४५ ॥
उक्त्वेति तत्तत्कुशलाय राज्ञश्चित्तप्रसादं परमं विधाय ।
स शान्तिकल्लोलसुधाप्रवाहं किरन् दृशा पार्षदमालुलोके ॥ क्२२.४६ ॥
मनीषिणां शाक्यकुलोद्गतानां सप्तायुतानि प्रतिपाद्य धर्मम् ।
चक्रे सहस्राणि च सप्त तत्र संप्राप्तपर्याप्तविशेषभाञ्जि ॥ क्२२.४७ ॥
शक्लोदनाद्यैः कुशलोपपन्नैः गणेऽथ तत्तुल्यसहस्रसंख्यैः ।
द्रोणोदनाद्यैरमृत्प्दनाद्यैश्चित्तप्रसादः सुमहानवाप्तः ॥ क्२२.४८ ॥
केचिद्ययुः श्रावकबोधियुक्तप्रत्येकबोधौ निरताश्च केचित् ।
सम्यक्तथानुत्तरबोधिसक्ताः परे बभूवुर्गगनप्रसन्नाः ॥ क्२२.४९ ॥
स्रोतः परिप्राप्तफलं ततोऽन्ये सकृत्तथागामिफलं तथान्ये ।
अन्येऽप्यनागांिफलं तदापुरर्हत्फलं क्लेशविमुक्तिमन्ये ॥ क्२२.५० ॥
एकस्तु तत्रार्जितपापशापस्तमःसमूहोपहितप्रमोहः ।
मायेयमित्याह हसन् जनानां सत्यस्थितिं संसदि देवदत्तः ॥ क्२२.५१ ॥
नृपं तु वात्सल्यनिलीनमेव पुत्रोदयात्प्रत्युपजातदर्पम् ।
मौद्गल्यभिक्षुर्जिनशासनेन महर्द्धिभिर्वीतमदं चकारम् ॥ क्२२.५२ ॥
दृष्ट्वापि राजा भगवत्प्रभावं नात्यद्भुतं पौरुषमेव मेने ।
अभ्यासलीनानि जनस्य नूनं सोत्कर्षकृत्यानि न विस्मयाय ॥ क्२२.५३ ॥
अथापरेद्युर्भगवान् सुरेन्द्रसंपादिते हेममहाविमाने ।
सुमेरुशीर्र्ष्णीव समानकान्तौ सिंहासने रत्नमये न्यषीदत् ॥ क्२२.५४ ॥
ब्रह्मेन्द्रमुख्येषु ततः सुरेषु तत्रोपविष्टेषु पृथुप्रभेषु ।
बभुस्तदुष्णीषशिखाविलासैश्चन्द्रांशुमालाजटीला इवाशाः ॥ क्२२.५५ ॥
अन्योन्यसंघट्टविलोलहारैर्धनावहारैस्त्रिदशैर्विशद्भिः ।
निरन्तरां तां भवमेत्य राजा द्वारेषु मार्गान्न चतुर्षु लेभे ॥ क्२२.५६ ॥
सभ्रूभ्रमैस्तत्र कुवेरमुख्यैर्निवार्यमाणाभिमतप्रवेशह् ।
विच्छायवक्रः स्खलिताभिधायी भूभृत्परं निष्प्रतिभो बभूव ॥ क्२२.५७ ॥
प्रवेशितस्तैर्जिनशासनेन कदाचिदासाद्य तदग्रभूमिम् ।
शुद्धोदनस्तप्रणिपत्य मूर्ध्ना चित्तप्रसादेन पुरोऽस्य तस्थौ ॥ क्२२.५८ ॥
शास्ता तु तस्मै चतुरार्यसत्यप्रबोधिकां धर्मकथां दिदेश ।
ज्ञानेन या विंशतिशृङ्गमस्य सत्कायदृग्भूधरमप्यब्ःाङ्क्षीत् ॥ क्२२.५९ ॥
ततः स गत्वा कृतकृत्यजन्मा शुक्लोदनं प्राप्त भजस्व राज्यम् ।
स्वस्याव्रतीत्तं भगवत्प्रदिष्टं तच्छासनं मोदयितुं न राज्यम् ॥ क्२२.६० ॥
द्रोणोदने राज्यपराङ्भुखेऽपि वैराग्ययोगादमृतोदने च ।
जग्राह शुद्धोदनसंप्रदिष्टां तां राजलक्ष्मीमथ भद्रकाख्यः ॥ क्२२.६१ ॥
राजार्हभोगैरथ पूजयित्वा जिनः जनेशः शुचिसंप्रणितैः ।
न्यग्रोधधाम प्रतिपाद्य चास्मै शुद्धोदनं शुद्धमनोरथोऽभूत् ॥ क्२२.६२ ॥
द्रोणोदनस्यापि सुतौ युवानौ राजाज्ञया प्रेरणया च मातुः ।
एकस्तु यः प्रव्रजितोऽनिरुद्धः परो महान्नाम गृही बभूव ॥ क्२२.६३ ॥
अथाभवच्चेतसि भद्रक्स्य राज्ञो विरक्तस्य वनाभिलाषः ।
विवेकभाजां प्रशमप्रवृत्तं नवापि लक्ष्मीर्न मनो रुणद्धि ॥ क्२२.६४ ॥
ततः समाहूय स देवदत्तं राज्याभिषेकप्रतिपन्नचित्तम् ।
उवाच मे प्रव्रजनस्य कालः समागतः किं भवताभिधेयम् ॥ क्२२.६५ ॥
तं प्रत्युवाचात्तविवेकदम्भः सुसंवृतं संसदि देवदत्तः ।
राजन्न राज्येऽस्ति ममाभिलाषः प्रव्रज्यया त्वत्सदृशो भवामि ॥ क्२२.६६ ॥
श्रुत्वेति राजा कुटिलस्य तस्य मिथ्याविनीतस्य कदर्थवाक्यम् ।
उदीरितं शाक्यगणस्तवायं संकल्पसाक्षीति हसन्नुवाच ॥ क्२२.६७ ॥
अथार्थतापोपहतः प्रदध्यौ भोगानुरागादिति देवदत्तः ।
मया किमेतदविपातमुक्तं भजेत वा प्रव्रजितोऽपि राज्यम् ॥ क्२२.६८ ॥
राज्यं समुत्सृज्य निजं व्रजन्तः शाक्यं कुमाराः सह भद्रकाद्याः ।
शुद्धोदनं निर्ययुरायवृत्तप्रीतिं पुरस्कृत्य रथैर्द्विपैश्च ॥ क्२२.६९ ॥
व्रजत्सु सर्वेष्वथ देवदत्तः किरीटसक्तं पृथिपद्मरागम् ।
जहार रक्ताक्तमिवामिषार्थी श्येनः प्रभापल्लविताम्बरार्कम् ॥ क्२२.७० ॥
नैमित्तिकैरुक्तमथास्य लक्ष्मदृष्ट्वा तदुग्रं नरकप्रयाणम् ।
चित्तं सदोषं किल दुर्निमित्तं निमित्तमन्यत्पुनरुक्तमेव ॥ क्२२.७१ ॥
कोकालिखण्डोत्कटमोरकाणां तिथ्यादिनाम्नां मददुर्मदानाम् ।
संसूचितान्यत्यधिकानि तत्र तथाविधानैर्बहुलक्षणानि ॥ क्२२.७२ ॥
भूपप्रमोदादथ भद्रकोऽपि तैर्देवदतप्रमुखैः सहैव ।
प्रव्रज्यया चीवरपात्रयोगात्चकार वैराग्यमयीमिव क्ष्माम् ॥ क्२२.७३ ॥
राज्ञस्तथा राजकुमारकाणामुत्सृष्टहाराङ्गदकुण्डलानाम् ।
सास्रो विरागादवतार्य तेषां केशानुपाली किल कल्पकोऽभूत् ॥ क्२२.७४ ॥
मूर्खः स नीचोऽपि जिनाज्ञयैव प्रव्रज्यया पूज्यतरो बभूव ।
चित्तप्रसादस्य परस्य मन्ये न कारणं पण्डितता नजातिः ॥ क्२२.७५ ॥
सामीचिकायामथ भद्रकोऽपि ज्ञात्वा नृपः पार्षदिकं तमेनम् ।
नीचस्य पादौ कथमस्य वन्दे महीपति सन्निति निश्चलोऽभूत् ॥ क्२२.७६ ॥
तमब्रवीदस्खलिताभिमानं विकल्पभिन्नं भगवान् विहस्य ।
प्रव्रज्यया मोहमहानुवन्धी संत्यज्यते जातिमयोऽभिमानः ॥ क्२२.७७ ॥
श्रुत्वेति राज्ञा सह राजपुत्रैः कृते प्रणामे पृथिवी चकम्पे ।
न देवदत्तः परुषाभिधायी पदौ ववन्दे भगवद्गिरास्य ॥ क्२२.७८ ॥
कम्पात्क्षितेर्विस्मितमानसेन पृष्टस्ततो भिक्षुगणेन शास्ता ।
उवच राजा किल कल्पस्य जन्मान्तरेऽप्यस्य कृतः प्रणामः ॥ क्२२.७९ ॥
पुरा युवा काशिपुरे विलोक्य भद्राभिधानां गणीकां दरिद्रः ।
सेवां व्यघात्सुन्दरकस्तदास्यै रागो हि सर्वव्य्सनोपदेष्टा ॥ क्२२.८० ॥
तया विसृष्टः कुसुमोच्चयाय पुनह्पुनर्भृङ्ग इवाधिकार्थी ।
तत्सङ्गमानङ्गमनोरथेन श्रान्तः स बभ्राम वनान्तरेषु ॥ क्२२.८१ ॥
अत्रान्तर श्रान्ततरः क्षितीशः प्राप्तो वनान्तं मॄगयारसेन ।
तं ब्रह्मदत्तः प्रसमीक्ष्य गीतं तस्याशृणोच्छन्नतनुर्लताभिः ॥ क्२२.८२ ॥
नवनवकुसुमाशया किमेवं मधुकरं तापहतोऽसि गच्छ तूर्णम् ।
विकसितकमलाननाब्जिनी सा भवति हि संकुचिता दिनावसाने ॥ क्२२.८३ ॥
तस्या हि गीतं नॄपतिर्निशम्य स्मितप्रभाघट्टितहारकान्तिः ।
उवाच तं तीव्रकरार्कतापः कोऽयं सखे गीतरसाभिओयोगह् ॥ क्२२.८४ ॥
सोऽप्यब्रवीद्भूमिपते न नाम तप्तो रविस्तप्ततरस्तु कामः ।
स्वकर्मदुःखानि विहन्ति लोके न ग्रीष्मदग्धानि मरुस्थलानि ॥ क्२२.८५ ॥
इत्यर्थवद्वाक्यगुणार्पणेन स भूपतेर्वल्लभतामवाप ।
संवादसंस्पर्शसुभाषितं हि केषां चसत्कारपदं न याति ॥ क्२२.८६ ॥
तेनाथ राजा विजने श्रमातुरः शीतोपचारैरपनीततापः ।
प्रीत्या तमादाय ततः सहैव स्वराजधानीमगमत्कृतज्ञह् ॥ क्२२.८७ ॥
तत्रास्य जीवप्रद इत्युदन्तसंतोष संपूरितचित्तवृत्तिः ।
राज्यार्धदानाभिमुखः स तस्थौ चित्तानुवृत्तस्य किमस्य देयम् ॥ क्२२.८८ ॥
राज्यार्धदानप्रसृतेऽथ तस्मिन्नाचिन्तयत्सुन्दरकः कृपायाम्
भद्रां विना राज्यसुखेन किं मे धन्यो हि तत्प्रीतिसुधाभिषिक्तः ॥ क्२२.८९ ॥
मह्मं न राज्याद्यपि रोचतेऽर्धमखण्डिताल्पापि हि शोभते श्रीः ।
एकार्थयोगे हि सदा विवादः द्वयोर्हि भोगैः कलिरेव मूर्तः ॥ क्२२.९० ॥
तस्मान्नृपं कुण्ठमहं निपात्य समस्तराज्येन भवामि पूर्णः ।
क्षणं विचिन्त्येत्यनुतापतप्तः तीव्रं मनः स्वस्य पुनः प्रदध्यौ ॥ क्२२.९१ ॥
किं चिन्तितं निन्द्यपरं मयैतत्कोऽयं प्रकारः खलु तीक्ष्णतायाः ।
कृतघ्नसंकल्पकलङ्कलेपादहो नु लज्जा निजचेतसोऽपि ॥ क्२२.९२ ॥
स्वस्त्यस्तु राज्याय नमः सुखेभ्यः संमोहमाता क्षमतां च लक्ष्मीः ।
येषामनास्वादितचिन्तितानामेवंविधा धीः प्रथमः स्वभावः ॥ क्२२.९३ ॥
भ्रमं विधत्ते विदधाति मूर्च्छां निपातयत्येव तमस्तनोति ।
आघ्रातमात्रैव करोति पुंसामहो विनाशं विषवल्लरी श्रीः ॥ क्२२.९४ ॥
चिरं विचिन्त्येति स जातचित्तः प्रत्येकबोधिर्विमलः प्रभाते ।
अभ्यर्थमानोऽपि नरेश्वरेण राज्यं नजग्राह निवृत्ततृष्णः ॥ क्२२.९५ ॥
प्रत्येकबुद्धत्वमवाप्तमेनं कालेन दृष्ट्वा नृपतिर्महर्द्धिः ।
तत्पादपद्मच्युतमौलिमाल्यश्चित्तप्रसादोचितमित्यवेचत् ॥ क्२२.९६ ॥
स कोऽपि सत्कर्मविपाकजन्मा वन्द्यो विवेकः प्रशमाभिषेकः ।
यस्य प्रभावाद्विरतस्पृहाणां त्याज्येव रत्नाकरमेखला भूः ॥ क्२२.९७ ॥
श्रुत्वेति राज्ञा कथितं तदर्थजातं तदभ्यर्थनया विधाय ।
तत्कल्पकः शान्तिपदं प्रपेदे सेवान्तरङ्गः किल गङ्गपालः ॥ क्२२.९८ ॥
प्राप्तं तमयुत्तमकर्मयोगात्प्रव्रज्यया सज्जनपूज्यभावम् ।
राजा ववन्दे प्रणतः पृथिव्याः कम्पस्तदाभूदपि षड्विकारः ॥ क्२२.९९ ॥
सोऽयं राजा विहितविनतिर्भद्रको ब्रह्मदत्तो
पश्योपाली स किल कुशली कल्पको गङ्गपालः ।
इत्याश्चर्यं भगवदुदितं भिक्षवस्ते निशम्य
स्वच्छं चित्तं सुकॄतशरणे मेनिरे हेतुमेव ॥ क्२२.१०० ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां पितापुत्रसमादानं नाम द्वाविंशतितमः पल्लवः ॥


२३. विश्वंतरावदानम् ।

चिन्तारन्तादध्करुचयः सर्वलोकेष्वनिन्द्या
वन्द्यास्तेऽन्यैः पुरुषमणयः केऽप्यपूर्वप्रभावाः ।
येषां नैव प्रियमपि परं पुत्रदारादि दत्वा
सत्त्वार्थानां भवति वदनम्लानता दैन्यदूती ॥ क्२३.१ ॥
भगवान् भिक्षुभिः पृष्टः पुरा शाक्यपुरे जिनः ।
जगाद पूर्ववृत्तान्तं देवदत्तकथान्तरे ॥ क्२३.२ ॥
पुरी बभूव विश्वाख्या विश्वासवसतिः श्रियः ।
विश्वोपकारसक्तस्यसुकॄतस्येव जन्मभूः ॥ क्२३.३ ॥
संजयाख्योऽभवत्तस्याममित्रतिमिरांशुमान् ।
नेत्रानन्दसुधासूतिर्विचित्रचरितो नृपः ॥ क्२३.४ ॥
तस्य विश्वंतरो नाम वदान्यस्तनयोऽभवत् ।
अपूर्वत्यागिना येन हृतं कल्पतयोर्यशः ॥ क्२३.५ ॥
ईर्ष्याविरहितास्तुल्यं विदग्धेन प्र्साधिताः ।
सत्येन भारती येन दानेन श्रीः श्रुतेन धीः ॥ क्२३.६ ॥
अद्यापि यस्य दिक्कान्ताकर्णाभरणतां गतम् ।
विभाति केतकीगर्भपलाशविशदं यशह् ॥ क्२३.७ ॥
स कदाचिद्ददौ दिव्यरत्नालकारमर्थिने ।
अथं विजयसाम्राज्यमनोरथहरं त्विषा ॥ क्२३.८ ॥
दत्ते रथवरे तस्मिन् विस्मयेनाखिलो जनः ।
बभूवाक्राण्तहृदयश्चिन्तया च नरेश्वरः ॥ क्२३.९ ॥
महामात्यानथाहूय हर्षहीनो महीपतिः ।
उवाचोपचितोद्वेगचिन्ताक्रान्तमनोरथह् ॥ क्२३.१० ॥
दत्तो रथः कुमारेण स जैत्रः शत्रुमर्दनः ।
यत्प्रभावार्जिता सेयं महारथवरूथिनी ॥ क्२३.११ ॥
लक्ष्मी सुखनिषण्णा मे याता निश्चलतां तया ।
रथे सौर्यपथे तस्मिन् जयकुश्न्जे च कुञ्जरे ॥ क्२३.१२ ॥
इति राजवचः श्रुत्वा तमभाषन्त मन्त्रिणः ।
राजन् दोषस्तवैवायं वात्सल्येन प्रमाद्यतः ॥ क्२३.१३ ॥
धर्मः कस्य न हर्षाय दानं कस्य न संमतम् ।
किं तु मूलहताद्वृक्षान्निवर्तन्ते पलार्थिनः ॥ क्२३.१४ ॥
विक्रीतः परदेशे च रथस्तेन द्विजन्मना ।
इत्युक्त्वा मन्त्रिणः सर्वे शल्यविद्धा इवाभवन् ॥ क्२३.१५ ॥
अथ कालेन संप्राप्ते वसन्ते मदनोत्सवे ।
विपाके सुकृतस्येव हृदयानन्ददायिनि ॥ क्२३.१६ ॥
स्वयंग्रहोपजीव्यस्य मधोर्मधुकरार्थिनः ।
लोकः पुष्पवनैर्यातो यशोभिरिव शुभ्रताम् ॥ क्२३.१७ ॥
अशोकं लोकसच्छायमुपकारोद्यतं द्रुमम् ।
मधु विधूतं संनद्धे कलिकालं कृतं जगत् ॥ क्२३.१८ ॥
राजपुत्रः समारुह्य कुञ्जरं राजवर्धनम् ।
ययौ फुल्लान् वने द्रुष्टुमर्थिकल्पतरुस्तरून् ॥ क्२३.१९ ॥
व्रजन्तं प्रति सामन्तप्रयुक्तातं द्विजाः पथिः ।
बभाषिरे समभ्येत्य स्वस्तिवादपुरःसराः ॥ क्२३.२० ॥
चिन्तामणिर्गीयसे त्वं श्लाघ्यो जगति जङ्गमः ।
यस्य संदर्शनेनार्थी गाढमालिङ्ग्यते श्रिया ॥ क्२३.२१ ॥
द्वावेव विश्रुतोत्कर्षविदेषौ भद्रजन्मनि ।
दानार्द्रहस्तस्त्वं लोके गजश्चायं स्थिरोन्नतिः ॥ क्२३.२२ ॥
अस्मभ्यं सुकृत्प्दार कुञ्जरोऽयं प्रदीयताम् ।
त्वदन्येन वदान्येन दातुमेष न शक्यते ॥ क्२३.२३ ॥
इत्यर्थितस्तैः सोत्साहः स तेभ्यस्तु ददौ द्विपम् ।
सजीवमिव साम्राज्यं सशङ्खध्वजचामरम् ॥ क्२३.२४ ॥
दत्वा बोधिप्रधानेन प्रणिधानेन शुद्धधीः ।
रथरत्नं द्विपेन्द्रं च सोऽभूदानन्दनिर्भरः ॥ क्२३.२५ ॥
श्रुत्वैव नृपतिर्दत्तं विश्रुतं जयकुश्न्जरम् ।
रक्षाप्रकाररहितां राजलक्ष्मीममन्यत ॥ क्२३.२६ ॥
स राज्यभ्रंशभीतेन कुपितेन महीभुजा ।
निष्कासितः कुमारोऽथ प्रतस्थे प्रणिपत्य तम् ॥ क्२३.२७ ॥
माद्रीदयितया सार्धं जालिनं नाम दारकम् ।
कृष्णाभिधां तथा कन्यामादाय स ययौ वनम् ॥ क्२३.२८ ॥
वनेऽपि शेष ं स ददौ वाहनादिकमर्थिने ।
समं हि महतां सत्त्वं संपत्सु च विपत्सु च ॥ क्२३.२९ ॥
माद्य्रां कदाचिद्यातायां पुष्पमूलफलाप्तये ।
ब्राह्मणःकश्चिदभ्येत्य राजपुत्रमभाषत ॥ क्२३.३० ॥
परिचारकाहीनाय चतुरौ बालकाविमौ ।
देहि मह्यं महासत्त्वं सर्वदो ह्यसि विश्रुतः ॥ क्२३.३१ ॥
श्रुत्वैतदविचार्यैव दारकौ दयितौ परम् ।
दत्वा स तस्मै सहसा सेहे तद्विरहव्यथाम् ॥ क्२३.३२ ॥
धनपुत्रकलत्रादि लोके कस्य नवल्लभम् ।
दानादन्यद्वदान्यानां न दयावताम् ॥ क्२३.३३ ॥
अथ माद्री समभ्येत्य बालकौ बालवत्सला ।
अपश्यन्ती पुरः पत्युः पतितापन्नमूर्च्छिता ॥ क्२३.३४ ॥
सा लब्धसंज्ञा दीप्तेन व्याप्ता शोककृशानुना ।
शिशुप्रदानवृत्तान्तं श्रुत्वैवाभूत्पलापिनी ॥ क्२३.३५ ॥
तस्याश्चेतसि दुःखाग्निरपत्यस्नेहदुःसहः ।
प्रियप्रेमानुसृत्यैव प्रययौ पुटपाकताम् ॥ क्२३.३६ ॥
अत्राण्तरे समभ्येत्य विप्ररूपः सुरेश्वरः ।
भृत्यार्थी दयितां पत्नीं राजपुत्रमयाचत ॥ क्२३.३७ ॥
याचितस्तेन सहसा शुचं जायावियोगजाम् ।
धिया संस्तभ्य सत्त्वाब्धिः स तस्मै विततार ताम् ॥ क्२३.३८ ॥
सद्यः प्रदानतरलां संत्रस्तां हरिणीमिव ।
सोऽवदद्दयितामन्तः कलयन् बोधिवासनाम् ॥ क्२३.३९ ॥
समाश्वासिहि कल्याणि न शोकं कर्तुकर्हसि ।
स्वप्नप्रणयकल्पोऽयमसत्यः प्रियसंगमः ॥ क्२३.४० ॥
शुश्रूषया द्विजस्यास्य धर्मे ते रमतां मतिः ।
विलोललोकयात्रायां धर्मः स्थिरसुहृत्सताम् ॥ क्२३.४१ ॥
दृष्ट्वा सर्वे स्वजनसुजना बान्धवाश्चानुभूताः
न्यस्ता कण्ठे क्षणपरिमलम्लायिनी मित्राला ।
दारे पुत्रे क्षपितमनिशं यौवनं जीवितं च
प्राप्तो नाप्तश्तिरपरिचयः कोऽपि धर्मादृतेऽन्यः ॥ क्२३.४२ ॥
इत्युक्त्वा वल्लभां लोभपरित्यागादुवाह सः ।
द्युतिं वदनपद्मेन धैर्यवृत्तिं च चेतसा ॥ क्२३.४३ ॥
वियोगशोकविकलां माद्रीं दृष्ट्वा कृपाकुलः ।
निजरूपं समाधाय शचीपतिरुवाचताम् ॥ क्२३.४४ ॥
विषादं मा कृथाह्पुत्रि देवोऽहं त्रिदशेश्वरः ।
अर्थिभ्यस्त्वा ददात्येष तस्मादसि मयर्थिता ॥ क्२३.४५ ॥
अधुना सैव पत्युस्त्वं न्यासीभूता मयार्पिता ।
तं ददात्येष नान्यस्मौ दीयते कथम् ॥ क्२३.४६ ॥
करिष्यामि तवावश्यं दारकाभ्यां समागमम् ।
इत्युदीर्य सहस्राक्षः सहसाण्तरधीयतः ॥ क्२३.४७ ॥
अथ तौ दारकौ विप्रः समादायार्थलिप्सया ।
विश्वामित्रपुरं गत्वा लोभाद्वोक्रेतुमुद्यतह् ॥ क्२३.४८ ॥
विश्यामित्रः परिज्ञाय राजपुत्रस्य दारकौ ।
जग्राह महतार्थेन बाष्पसंरुद्धलोचनः ॥ क्२३.४९ ॥
कालेन त्रिदिवं याते विश्वामित्रमहीपतौ ।
भेजे विश्वंतरो राज्यं पौरामात्यगणार्थितः ॥ क्२३.५० ॥
राज्ये विरक्तस्य तस्य दानव्यसनिनः परम् ।
सत्त्वेन वर्धमानर्द्धिर्न कश्चिद्याचकोऽभवत् ॥ क्२३.५१ ॥
तद्वित्तपूर्णविभवो ब्राह्मणः सोऽपि जम्बुकह् ।
कृतघ्नः स्वप्रभावान्मे संपदित्यभ्यधाज्जनम् ॥ क्२३.५२ ॥
विश्वंतरः स एवाहं देवदत्तः स च द्विजः ।
उक्त्वेति चक्रे भगवान् भिक्षूणां दानदेशनाम् ॥ क्२३.५३ ॥
आलम्बनं श्वभ्रशतावपाते घोरान्धकारे सुचिरप्रकाशः ।
आश्वासनं दुःसहदुःखकाले दानं नराणां परलोकबन्धुः ॥ क्२३.५४ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां विश्वंतरावदानं नामत्रयोविंशः पल्लवः ॥


२४. अभिनिष्क्रमणावदानम् ।

हसति सकललोलालोकसर्गाय भानुः परमममृतवृष्टयै पूर्णतामेति चन्द्रः ।
इयति जगति पूज्यं जन्म गृह्णाति कश्चित्विपुलकुशलसेतुः सत्त्वसंतारणाय ॥ क्२४.१ ॥
पुरा शुद्धोदनः श्रीमान् राजा शाक्यपुरेऽभवत् ।
यशःशशाङ्कजनकः सुधासिन्धुरिवापरः ॥ क्२४.२ ॥
खलासक्ता स्वभावेन लक्ष्मीर्गुणिगणार्पिता ।
आश्चर्यकारिणा येन कृता सत्पक्षपातिनी ॥ क्२४.३ ॥
अद्याप्यखिलदिक्तीर्यवनासक्तैर्विवेकिभिः ।
यशोभिः शुचिभिर्यस्य मुनिव्रतमिवोह्यते ॥ क्२४.४ ॥
स्यामहं शुद्धमातेति पुरा प्रणिधितः किल ।
विश्वकर्मसुतो मर्त्यमाजगामामलद्युतिः ॥ क्२४.५ ॥
कीर्तिः सत्पुरुषस्येव तस्याभूद्वल्लभा परम् ।
महामायाभिधा देवी चन्द्रस्येव कुमुद्वती ॥ क्२४.६ ॥
सापश्यद्दन्तिनं श्वेतं स्वप्ने कुक्षौ विहायसा ।
गतमारोहणं शैले प्रणतिं च महाजनात् ॥ क्२४.७ ॥
अत्रान्तरे बोधिसत्त्वस्तुषितात्त्रिदशालयात् ।
गर्भं तस्याः समापेदे स्वयं लोकानुकल्पया ॥ क्२४.८ ॥
वहन्ती बोधिसत्त्वं सा गर्भे भुवननन्दनम् ।
इन्दुं दुग्धाब्धिवेलेव बभूव पाण्डुरद्युतिः ॥ क्२४.९ ॥
इक्ष्वाकुराजवंश्येन तेन गर्भस्थितेन सा ।
भूर्निधानवतीवाभूद्भव्यलक्षणलक्षिता ॥ क्२४.१० ॥
बभूव दोहदस्तस्या दानपुण्यमयोदयः ।
अङ्कुरेऽप्यविसंवादि सहकारस्य सौरभम् ॥ क्२४.११ ॥
अत्घ कालेन संपूर्णं सा लुम्बिनीवने स्थिता ।
असूत तनयं देवी दिवाकरमिवादितिः ॥ क्२४.१२ ॥
मातुर्गर्भमलास्पृष्टं कुक्षिं भित्त्वा स निर्गतः ।
तां चक्रेऽथ स्वभावेन स्वस्थाङ्गी विगतव्यथाम् ॥ क्२४.१३ ॥
निर्गच्छन्नेव रुद्धोऽसौ बलजिज्ञासया क्षणम् ।
शक्रेण वज्रसाराङ्गस्तस्याशक्यत्वमाययौ ॥ क्२४.१४ ॥
जातमातः शुइशुर्गत्वा स्वयं सप्त पदानि सः ।
दिशो विलोकयन्नूचे सुव्यक्ताक्षरया गिरा ॥ क्२४.१५ ॥
इयं निर्वृतिः पूर्वा च गतिर्लोकेषु दक्षिणा ।
पश्चिमा जातिरप्येषा संसारादियमुत्तरा ॥ क्२४.१६ ॥
इति तस्य ब्रुवाणस्य पृथिवी समकम्पत ।
तमक्षयबलं धर्तुमशक्तेव जगद्गुरुम् ॥ क्२४.१७ ॥
छत्रं तस्य यशः शुभ्रं सत्त्वस्मेरं सचामरम् ।
व्योमाम्बुधाराधौतस्य जगृहुस्तस्य देवता ॥ क्२४.१८ ॥
अस्मिन्नवसरे पृष्टः स्वस्त्रीयेणासिताभिधः ।
नारदेन प्रभां दृष्ट्वा किष्किन्धाद्रिस्थितो मुनिः ॥ क्२४.१९ ॥
कस्मादर्कशतालोक इवालोकः प्रदृश्यते ।
तमोदरिद्रां येनेति गिरयः सगुहागृहाः ॥ क्२४.२० ॥
विस्मयादिति तेनोक्तः सोऽवदद्दिव्यलोचनः ।
जातः पुण्यप्रभासोऽयं बोधिसत्त्वस्य जन्मनि ॥ क्२४.२१ ॥
अचिरेणैव तं वत्स द्रक्षावः कुशलाप्तये ।
इत्युक्त्वा मुनिरानन्दाद्विश्रान्तिसुखितोऽभवत् ॥ क्२४.२२ ॥
पुत्रजन्मनि सर्वार्थसिद्धिं शुद्धोदनः परम् ।
दृष्ट्वा सर्वार्थसिद्धोऽयमिति नामास्य निर्ममे ॥ क्२४.२३ ॥
शाक्यवर्धननामाभूद्यक्षः शाक्यपुराश्रयः ।
यत्प्रणामेण शाक्यानां शिशवो निरुपद्रवाः ॥ क्२४.२४ ॥
तत्स्थित्या प्रेषितः पित्रा प्रणामाय सगुह्यकः ।
तं बोधिसत्त्वमालोक्य निपपातास्य पादयोः ॥ क्२४.२५ ॥
अथोत्सङ्गे समादाय हृष्टस्तं पृथिवीपतिः ।
लक्षणानि निमित्तज्ञैस्तस्य देहे व्यलोकयत् ॥ क्२४.२६ ॥
लक्षणज्ञास्ततः सर्वे नृपमूचुः सविस्मयाः ।
देव दिव्यकुमारोऽयं लक्षणैरुपलक्ष्यते ॥ क्२४.२७ ॥
जायते लक्षणैरेतैर्विश्वविश्रान्तशासनः ।
शक्राधिपश्चक्रवर्ती भगवान् स तथागतः ॥ क्२४.२८ ॥
दीर्घाङ्गुलिदलौ चक्रलाञ्छनौ सुप्रतिष्ठितौ ।
अरुणौ चरणावस्य कान्तौ कमलकोमलौ ॥ क्२४.२९ ॥
राजहंस इव प्रांशुः सजालाङ्गुलिपल्लवः ।
एष जानुयुगः श्रीमानाजानुभुजभूषितः ॥ क्२४.३० ॥
सकोशबस्तिगुह्यश्च न्यग्रोधपरिमण्डलः ।
दक्षिणावर्तरोमाङ्कः परिणाहसमोन्नतिः ॥ क्२४.३१ ॥
रजोमललवास्पृष्टस्तजाम्बूनदद्युतिः ।
हस्तपादांसकण्ठाग्रस्पष्टसप्तच्छदाकृतिः ॥ क्२४.३२ ॥
सिंहपूर्वार्धकायश्च बृहत्स्पष्टाङ्गविग्रहः ।
चत्वारिंशत्समाप्रोतशुक्लदन्तः सुनासिकः ॥ क्२४.३३ ॥
दीर्घप्रतनुजिह्वश्च मेघदुन्दुभिनिश्वनः ।
अभिनीलाक्षगोक्ष्मः सहजोष्णीषमस्तकः ॥ क्२४.३४ ॥
सितोर्णाङ्को भ्रुवोर्भागः स्वस्तिकोरःस्थलोज्ज्वलः ।
लेखाशृङ्गाब्जहस्तोऽयं छत्राकारशिराः शिशुः ॥ क्२४.३५ ॥
राजन्नयं ते तनयश्चक्रवर्ती भविष्यति ।
सम्यक्संबोधिसंबुद्धः सर्वज्ञो वा भविष्यति ॥ क्२४.३६ ॥
इत्युक्त्वा तेषु जातेषु लेभे हर्षं महीपतिः ।
सप्तभिदिवसैः शास्तुर्जननी त्रिदिवं ययौ ॥ क्२४.३७ ॥
तस्य जन्मनि शाक्यानां मुनीनामिव शान्तता ।
दृष्ट्वा यदा शाक्यमुनिर्नामाभूत्स तदा शिशुः ॥ क्२४.३८ ॥
देवानामपि देवोऽयमिति निश्चित्य तेजसा ।
देवातिदेव इत्यस्य नाम चक्रे महीपतिः ॥ क्२४.३९ ॥
नारदेनाथ सहितस्तत्त्वदर्शी तपोवनात् ।
तं समभ्याययौ द्रष्टुमादरादसितो मुनिः ॥ क्२४.४० ॥
स बोधिसत्त्वं बालार्कमिव कल्पप्रकाशनम् ।
दृष्ट्वा विकासिवक्र्क्रश्रीर्लेभे कमलतुल्यताम् ॥ क्२४.४१ ॥
सोऽब्रावीद्विहितातिथ्यं नृपतिं प्रणतं मुनिः ।
राजन् गुणगणेनेव स्पृहणीयोऽसि सूनुना ॥ क्२४.४२ ॥
एतानि लक्षणान्यस्य मोक्षलक्ष्मीसमागमम् ।
वदन्ति चक्रवर्तिश्रीःफलं नैषां विनश्वरम् ॥ क्२४.४३ ॥
अस्य बोधिप्रभावेण संबुद्धस्य्मुखाम्बुजम् ।
धन्य पद्माकरस्येव नेत्रपात्रं करिष्यति ॥ क्२४.४४ ॥
विबुधाः शुद्धसत्त्वस्य बोधिदुग्धमहोदधेः ।
धन्या वागमृतैरस्य भविष्यन्त्युपजीविनः ॥ क्२४.४५ ॥
पुण्यभाजि जगत्यस्मिन्नेक एवास्मि वञ्चितः ।
एतत्संदर्शनं यस्य पूर्णकालस्य दुर्लभम् ॥ क्२४.४६ ॥
इत्युक्त्वा नृपमामन्त्र्य गत्वा व्योम्ना तपोवनम् ।
सुप्रसन्नं मनः कृत्वा देहत्यागमचिन्तयत् ॥ क्२४.४७ ॥
स पर्यन्तोपदेशाय नारदेनाभिचोदितः ।
तमुवाचामृतं वत्सं कुमारः कथयिष्यति ॥ क्२४.४८ ॥
अधिगम्यामृतं तस्मान्नृपसूनोरनामयम् ।
तरिष्यसि भवाम्बोधिमित्युक्त्वा तनुमत्यजत् ॥ क्२४.४९ ॥
श्रीरसत्क्रियां तस्य कृत्वा सपदि नारदः ।
ययौ वाराणसीं सिद्ध्यै लेभे कात्यायनाभिधाम् ॥ क्२४.५० ॥
वर्धमानः कुमारोऽथ सर्वविद्यासु पारगः ।
लिपिप्रवीणोऽभिनवां लिपिं ब्राह्मीं विनिर्ममे ॥ क्२४.५१ ॥
नागायुतसमप्राणे तस्मिन् जगति विश्रुते ।
वैशालिकैः प्रियायास्मै प्रेषितो मत्तकुञ्जरः ॥ क्२४.५२ ॥
भविष्यति चक्रवर्तीत्यस्य प्रातमुपायनम् ।
देवदत्तः परिद्वेषात्तं जघान महागजम् ॥ क्२४.५३ ॥
च्युतं चकर्षं द्विदतं नन्दः सप्त पदानि तम् ।
कुमारस्तु तदुत्क्षिप्य प्राकाराद्बहिरक्षिपत् ॥ क्२४.५४ ॥
एकनारावनिर्भिन्नसप्ततालमहीतलः ।
छेद्यभेद्यास्त्रशस्त्रेषु स एवातिशयं ययौ ॥ क्२४.५५ ॥
तततुल्यगुणां पत्नीं राजसूनुर्यशोधराम् ।
अवाप विश्रुतां लोके शुद्धशील इवोन्नतिम् ॥ क्२४.५६ ॥
अत्रान्तरे महावातविच्युतः सप्तयोजनः ।
सरित्प्रवाहसंरोधं विदधे विपुलद्रुमः ॥ क्२४.५७ ॥
सां स्फारतरुसंरुद्धा रोहिका नाम निम्नगा ।
शीलभ्रष्टेव वनिता प्रययौ प्रतिलोमताम् ॥ क्२४.५८ ॥
राजपुत्रस्तमुत्क्षिप्य भङ्क्त्वा विक्षुप्य तं द्रुमम् ।
न्यवारयत्प्रजामत्स्यजलकल्लोलविप्लवम् ॥ क्२४.५९ ॥
ततः कदाचिदुद्याने हंसं निशितयन्त्रिणा ।
देवदत्तेन निहतं कुमारः समजीवयत् ॥ क्२४.६० ॥
संतापं तद्विवादेन देवदत्तोऽधिकं ययौ ।
न सहन्ते हि कुटिलास्तुल्यकुलगोणोन्नतिम् ॥ क्२४.६१ ॥
कदाचिद्गोपिका नाम कुमारं राजकन्यका ।
कन्दर्परूपमालोक्य किमप्यौत्सुक्यमाययौ ॥ क्२४.६२ ॥
शुद्धोदनः सुतस्थैतां ज्ञात्वा चित्तोचितां वधूम् ।
अपूरयद्विवाहेन मन्मथस्य मनोरथम् ॥ क्२४.६३ ॥
नैमित्तिकास्ततोऽभ्येत्य नृपमूचुः सुनिश्चयाः ।
पुत्रस्ते चक्रवर्ती वा मुनिर्वा सप्तमेऽहनि ॥ क्२४.६४ ॥
तच्छ्रुत्वा नृपतिः सूनोश्चक्राव्र्तिपदाप्तये ।
प्रव्रज्याचकितश्चिन्तां दिनसंख्यामयीं ययौ ॥ क्२४.६५ ॥
लोलां सर्वः स्र्हियं वेत्ति शान्तस्थिरसुखामपि ।
अत्थापि भोगरक्तानां संपत्स्वेवादरः परम् ॥ क्२४.६६ ॥
ततः कदाचिदुद्यानविहाराय नृपात्मजः ।
प्रययौ रथमारुह्य वल्गुतुङ्गतुरङ्गमम् ॥ क्२४.६७ ॥
स विवर्णं जराजीर्णं कीर्णशीर्णशिरोरुहम् ।
सुशुष्कपरुषाकारं ददर्श पुरुषं पथि ॥ क्२४.६८ ॥
स तं दृष्ट्वा निजं कायमालोक्याचिन्तयच्चिरम् ।
अहो पर्याप्तपाकोऽयं कायस्यास्य जुगुप्सितः ॥ क्२४.६९ ॥
वयः पर्याप्तमाप्तोऽपि पर्याप्तं नाश्रयत्ययम् ।
अतीव पलितव्याजाज्जरा वृद्धं हसत्यसौ ॥ क्२४.७० ॥
शरीरे संततस्नायुपाशप्रोतास्थिपञ्जरे ।
वृद्धः पुष्णाति मन्येऽहमहो मोहविहङ्गमम् ॥ क्२४.७१ ॥
सारथे किं करोत्येष किं न याति तपोवनम् ।
अस्ंकोचमेति वृद्धस्य देहेन सह सा मतिः ॥ क्२४.७२ ॥
वृद्धोऽवलम्बते यष्टिं न तु धर्ममयीं धियम् ।
जराकुटिलकायस्य स्वभावो निर्विवेकता ॥ क्२४.७३ ॥
जुगुप्सां जनयत्येष वृद्धः प्रस्खलिताक्षरैः ।
वचोभिश्च्युतदन्ताभैर्गलल्लालालवाकुलैः ॥ क्२४.७४ ॥
नष्टा दृष्टिः कृशः कायः शक्तिर्लुप्ता हता श्रुतिः ।
तथापि मोहाद्दृष्टैव वृद्धस्य तरुणीप्रिया ॥ क्२४.७५ ॥
धत्ते धवलतां वृद्धः किमेतामतिगर्हिताम् ।
लोला परं विरक्तापि यद्यस्यातिप्रिया तनुः ॥ क्२४.७६ ॥
इति चिन्तयतस्तस्य निर्वेदः समजायत ।
मन्यमानस्य सापायं कायं निचयमापदाम् ॥ क्२४.७७ ॥
पुनश्च समयेऽन्यस्मिन्नपश्यद्व्याधितं नरम् ।
विपक्ककूणपप्रायं सपूयमिव पाण्डरम् ॥ क्२४.७८ ॥
स प्रदध्यौ तमालोक्य समुद्दिश्य निजां तनुम् ।
अहो नु सहजैवास्मिन् काये रोगगणोद्गतिः ॥ क्२४.७९ ॥
इदमेव महच्चित्रमियं मांसमयी तनुः ।
न याति क्लेदवैक्लव्यं क्षणं पर्युषीतेऽपि यत् ॥ क्२४.८० ॥
इति ध्यात्वा स सोद्वेगः शरीरविचिकित्सया ।
बभूव राज्यसंभोप्गरागे विगतितादरः ॥ क्२४.८१ ॥
अथान्यस्मिन् क्षणे माल्यवस्त्राच्छादितविग्रहम् ।
ददर्श देहसत्कारव्यग्रबन्धुजनं शवम् ॥ क्२४.८२ ॥
तं दृष्ट्वा सहसोद्वेगदयादुःखघृणाकुलः ।
चिरं निःसारसंसारपरिहारमचिन्तयत् ॥ क्२४.८३ ॥
एष प्रेतवनं याति संसक्तां हृदये वहन् ॥ क्२४.८४ ॥
अहो नु विषयाभ्यासविलासाध्यवसायिनाम् ।
नृणामन्त्यक्षणे कष्टा काष्ठपाषाणतुल्यता ॥ क्२४.८५ ॥
उद्वेगवारिभवसागरबुद्बुदेऽस्मिन् कालानिलाकुलितकर्मलताग्रपुष्पे ।
मायावधूनयनविभ्रमसंविभागे पुंसां क एष वपुषि स्थिरताभिमानः ॥ क्२४.८६ ॥
नोक्तं किंचित्परहितयुतं न श्रुतं धर्मयुक्तं
नैव घ्रातं कुशलकुसुमं सत्यरूपं न दृष्टम् ।
नैव स्पृष्टं शमपदमिति व्यक्तमासक्तचिन्ता-
विश्रान्तोऽयं वहति सहसा निश्चलत्वं गतायुः ॥ क्२४.८७ ॥
राजसूनुर्विचिन्त्येति शरीरं विपदाप्लुतम् ।
अशेषविषयासङ्गे परां नः स्नेहतां ययौ ॥ क्२४.८८ ॥
अथाग्रे निर्मितं देवैः स शुद्धावासकायिकैः ।
व्यलोकयत्प्रव्रजितं पात्रकाषायधारिणम् ॥ क्२४.८९ ॥
तं दृष्ट्वैव बभूवास्य प्रव्रज्याभिमुखी मतिः ।
ईप्सितालोकनप्रीत्या स्वभावो हि विभाव्यते ॥ क्२४.९० ॥
विराग्यकारणं तत्र नृपसूनोः पदे पदे ।
विलोक्य सारथिः सर्वं क्षितिपाय व्यनेदयत् ॥ क्२४.९१ ॥
कुमारोऽथ पितुर्वाक्यात्ग्रामालोकनकौतुकी ।
व्रजन् पथि निधानानि विवृतानि व्यलोकयत् ॥ क्२४.९२ ॥
तत्पूर्वपुरुषन्यस्तैः स्त्रीकरैरुत्थितान्यपि ।
यदा स नाग्रहीत्तानि तदा विविशुरम्बुधिम् ॥ क्२४.९३ ॥
ततः स कर्षकान् पांशुव्याप्तपाण्डुशिरोरुहान् ।
विदीर्णपाणिचरणान् क्षुत्पिपासाश्रमातुरान् ॥ क्२४.९४ ॥
हलकद्दालविषमोल्लेखपक्षव्रणादितान् ।
विलोक्य क्लेशविवशान् बभूव करुणाकुलः ॥ क्२४.९५ ॥
विधाय दयया तेषां द्रविणौरदरिद्रताम् ।
स वृषाणां वृषरतः क्लेशमुक्तिमकारयत् ॥ क्२४.९६ ॥
ततः प्रतिनिवृत्तोऽथ सानुजः पार्थिवात्मजः ।
मध्याह्नपृथुसंतापे तरलस्तरणित्विषः ॥ क्२४.९७ ॥
रथघोषोन्मुखशिखिश्यामीकृतदिगन्तरः ।
स्वेदवारिकणाकीर्णः प्रभास्निग्धवनस्थलीम् ॥ क्२४.९८ ॥
सोऽवरुह्य रथात्तत्र गण्डस्खलितकुण्डलह् ।
विश्राण्त्यै विश्रुतयशा जम्बुच्छायामशिश्रियत् ॥ क्२४.९९ ॥
स बभारोरसि व्यक्तां स्वेदाम्बुकणसंततिम् ।
वपुराश्लेषललितां हारस्येव कुटुम्बिनीम् ॥ क्२४.१०० ॥
छायासु परिवृत्तासु शनकैः सर्वशाखिनाम् ।
तस्य जम्बूतरुच्छाया न चचाल तनुस्तनोः ॥ क्२४.१०१ ॥
सा तस्य शीतलच्छाया तापक्लान्तिमवारयत् ।
संसारविरतस्येव तीव्रवैराग्यवासना ॥ क्२४.१०२ ॥
पुत्रदर्शनसोत्कण्ठस्तं देशमथ भूपतिः ।
आजगाम गजोत्सर्पत्रस्तभ्रमरचामरः ॥ क्२४.१०३ ॥
छायां स निश्चलां दृष्ट्वा कुमारस्य प्रभावतः ।
गौरवाद्भुतसंप्राप्तः प्रणतं प्रणनाम तम् ॥ क्२४.१०४ ॥
ततः स सहितः पित्रा नगरं गन्तुमुद्यतः ।
अपश्यत्पुरपर्यन्ते श्मशानं शवसंकुलम् ॥ क्२४.१०५ ॥
स दृष्ट्वा कुणपाकीर्णमशिवं शिवकाननम् ।
सोद्वेगं सारथिं प्राह स्थगितस्यन्दनः क्षणम् ॥ क्२४.१०६ ॥
सारथे पश्य जन्तूनां कायापायमतीं दशाम् ।
दृष्ट्वेदमपि रागार्द्रं मनो मोहप्रमादिनाम् ॥ क्२४.१०७ ॥
परस्त्रीदर्शनात्तृप्तं नेत्रमास्वाद्य सादरम् ।
अस्यासत्यवती जिह्वा पश्य काकेन कृस्यते ॥ क्२४.१०८ ॥
अस्याः स्तनमुखन्यस्तनखोल्लेखसुखस्थितिः ।
ख्ण्डयत्यधरं गॄध्रः कामीव मदनिर्भरह् ॥ क्२४.१०९ ॥
एते दृष्टनिषक्टवायसशकृन्निष्ठिविनः पादपा
मूर्च्छन्तीव विपाकपूयकुणपाघ्राणेन निष्कूणिताः ।
दृष्ट्वा गृध्रविदार्यमाणमसकृत्कीर्णार्द्रतन्त्र शवं
भूयो वातविलोलपल्लवकरैराच्छादयन्तीव च ॥ क्२४.११० ॥
क्षीबस्येवाचलस्य द्रुतहृतहृदया जम्बुकी कण्ठसक्ता
रक्ताभिव्यक्तकामा कमपि नखमुखोल्लेखमासुत्रयन्ती ।
आस्वाद्यास्वाद्य यूनः क्षणमधरदलं दत्तदन्तव्रणाङ्कं लग्नानङ्गक्रियायामियमतिरभसोत्कर्षमाविष्करोति ॥ क्२४.१११ ॥
इत्युक्त्वा जातविरतिर्भवबीभत्सकुत्सया ।
कलयन् क्लेशनिर्वाणं प्रविवेश पुरान्तरम् ॥ क्२४.११२ ॥
तत्र हर्म्यगतापश्यत्तं कन्याभिजनोज्ज्वला ।
मृगजा नाम मृगजानोदिनी मृगलोचना ॥ क्२४.११३ ॥
सरागतरला दृष्ट्ः श्रोत्रसंचारिणी परम् ।
अभूत्तद्दर्शने तस्याः सहसैव विरेकिणी ॥ क्२४.११४ ॥
सा तदालोकनेनैव बाला लज्जासहिष्णूना ।
स्मरेणेव समाकृष्टा सखीं प्राह पुरःस्थिताम् ॥ क्२४.११५ ॥
का धन्या ललना लोके स्पर्शेनास्य शशित्विषः ।
यस्या मदनसंतप्ता तनुर्निर्वाणमेष्यति ॥ क्२४.११६ ॥
निर्वाणशब्दं श्रुत्वैव राजपुत्रः समीहितम् ।
तां ददर्शोन्मुखः पद्मवनानीव दिशन् दृशा ॥ क्२४.११७ ॥
स तस्यास्तेन वचसा वपुषा व प्रसादितः ।
हारं सुवृत्तं चित्तं च विक्षेपास्यै गुणोज्ज्चलम् ॥ क्२४.११८ ॥
आलोकनानुकूल्येन भावं विज्ञाय भूपतिः ।
पुत्रस्यान्तःपुरपदे तामादाय न्यवेशयत् ॥ क्२४.११९ ॥
षण्णां काण्तासहस्राणां वृतमन्तःपुरं ततः ।
विवेश राजतनयः प्रियां शान्तिं विचिन्तयन् ॥ क्२४.१२० ॥
अत्राण्तरे नरपतिं प्राहुर्नैमित्तिकाः स्फुटम् ।
मुनिर्वा चक्रवर्ती वा प्रातस्ते बह्विता सुतः ॥ क्२४.१२१ ॥
ततः संचिन्त्य नृपतिः प्रव्रज्यां चकितः परम् ।
अकारयत्पुरद्वारगुप्तिं रुद्धगमागमाम् ॥ क्२४.१२२ ॥
द्रोणोदनमुखान् भ्रातॄन् द्वारेषु विनिवेश्य सः ।
नगरस्य स्वयं मख्ये तथा सामात्यसैनिकः ॥ क्२४.१२३ ॥
राजपुत्रादथ प्राप्तगर्भा देवी यशोधरा ।
वभाषे शारदीव द्यौः प्रत्यासन्नेन्दुपाण्डुरा ॥ क्२४.१२४ ॥
एकरात्रावशेषेऽथ नगरद्वाररक्षणे ।
शमप्रवृत्तार्कमभूत्प्रव्रज्याभिमुखं दिनम् ॥ क्२४.१२५ ॥
चिरं विचर्य संसारं शान्तिं याते दिवस्पतौ ।
काषायाम्बरमालम्ब्य ययौ संध्यावदृश्यताम् ॥ क्२४.१२६ ॥
अशेषाशातमोमोहविरामविमलां शनैः ।
इन्दुर्गामुदितश्चक्रे पूर्णालोकविलोकिनीम् ॥ क्२४.१२७ ॥
सरागतापे वभसश्चेतसीव गते रवौ ।
शुद्धेन्दुहृदयस्याभूत्प्रसादः कोऽप्यविप्लवः ॥ क्२४.१२८ ॥
अथास्मिन्नन्तरे कान्तासंततान्तःपुरोदरे ।
रत्नहर्म्यप्रविष्टेन्दुद्युतिसंदोहहासिनि ॥ क्२४.१२९ ॥
निःसारविरसं सर्वं राजसूनुर्विलोकयन् ।
जगाअ गगनस्वच्छस्वच्छन्दोच्छलितस्मृतिः ॥ क्२४.१३० ॥
गणोऽयं नारीणां मदनदहनोल्कापरिकरः
परित्याज्यस्तीव्रव्यसनशतसंतापसचिवः ।
इदानीं युक्ता मे तरुतललताशीतलरे
परित्यक्तागारप्रशमसुखसारे परिणतिः ॥ क्२४.१३१ ॥
एताश्चन्द्रद्युतिमदमया यामि नार्यो वनेऽस्मिन्
निद्रामुद्रानियमितदृशः संस्तरस्रस्तवत्राः ।
स्वप्नोत्पन्नानुचितवचनाः केशसंछादितांसाः
क्षिप्रं मन्दानिलविचलितान् लज्जयन्तीव दीपान् ॥ क्२४.१३२ ॥
सरलस्रस्तगात्राणां निर्लज्जानां विवाससाम् ।
सुप्तानां च मृतानां च भेदः को नाम देहिनाम् ॥ क्२४.१३३ ॥
इति तस्य ब्रुवाणस्य संजाते गमनोद्यमे ।
मिथः कथा समभवन्नगरद्वाररक्षिणाम् ॥ क्२४.१३४ ॥
भो भोः कः कोऽत्र जागर्ति जाग्रतो नास्ति विप्लवः ।
प्रभुचित्तग्रहव्यग्राः समग्रा एव जाग्रति ॥ क्२४.१३५ ॥
जागर्ति संसारगृहे मनीषी मोहाण्धकारे स्वपिति प्रमत्तः ।
ज्जीवितमेव लोके मृतस्य सुप्तस्य च को विशेषः ॥ क्२४.१३६ ॥
इति मर्ह्यस्थितः श्रुत्वा रात्रौ राजसुतः कथाः ।
प्रस्थितं सत्पथेनेव निजं मेने मनोरथम् ॥ क्२४.१३७ ॥
निवॄत्तेर्लक्षणं दृष्ट्वा स स्वप्नं क्षणनिद्रया ॥ क्२४.१३८ ॥
ततः प्रबुद्धा सहसा त्रस्ता देवी यशोधरा ।
तत्कालोपनतं स्वप्नं दयिताय न्यवेदयत् ॥ क्२४.१३९ ॥
पर्यङ्काभरणान्गानि स्वप्ने भग्नानि मे विभो ।
श्रीर्व्रजन्ती मया दृष्ट्वा चन्द्रार्कौ च तोरिहितौ ॥ क्२४.१४० ॥
इत्याकर्ण्य स तामूचे मुग्धे सत्यविवर्जितः ।
संसार एव स्वप्नोऽयं स्वप्ने स्वप्नोऽपि कीदृशः ॥ क्२४.१४१ ॥
स्वप्नेऽद्य नाभिसंजाता लता व्याप्ता विहारसा ।
मेरूपधानशिरसा पूर्वपश्चिमवारिधौ ॥ क्२४.१४२ ॥
भुजाभ्यां चरणाभ्यां च दक्षिणाब्धिर्मया धृतः ।
भद्रे स्वप्नः शुभोऽयं ते स्त्रीणां भर्तुशुभं शुभम् ॥ क्२४.१४३ ॥
इत्युक्ते बोधिसत्त्वेन नोचे किंचिद्यशोधरा ।
पुनश्च निद्राभिमुखी बभूव मीलितेक्षणा ॥ क्२४.१४४ ॥
शक्रब्रह्ममुखाः सर्वे समेत्याथ सुधाभुजः ।
चक्रिरे बोधिसत्त्वस्य सत्त्वोत्साहप्रपूरणम् ॥ क्२४.१४५ ॥
तैर्देवपुत्राश्चत्वारः समादिष्टा महाजवाः ।
सहाया गमने तस्य भूशैलाब्धिधृतिक्षमाः ॥ क्२४.१४६ ॥
शक्रादिष्टेन यक्षेण पाञ्चिकाख्येन निर्मितैः ।
सहर्म्यासक्तसोपानैरवतीर्य विनिर्ययौ ॥ क्२४.१४७ ॥
सुप्तं सारथिमादाय छन्दकाख्यं प्रबोध्य सः ।
उत्सादमिव जग्राह कण्ठकाख्यं तुरङ्गमम् ॥ क्२४.१४८ ॥
तं तीक्ष्णरुचिरं लक्ष्मीकटाक्षतरलं हरिम् ।
स चक्रे संयमालीनं मूर्धि संस्पृश्य पाणिना ॥ क्२४.१४९ ॥
शमोद्यमे सुमनसा सकोऽप्यन्तर्बहिः समह् ।
शिशवोऽपि विमुञ्चन्ति यत्प्रभावेण चापलम् ॥ क्२४.१५० ॥
बलजिज्ञासया न्यस्तं तेनाथ चरणं क्षितौ ।
न ते कम्पयितुं शेकुर्देवपुत्राः सविस्मयाः ॥ क्२४.१५१ ॥
छन्दकेन सहारुह्य निस्तरङ्गं तुरङ्गमम् ।
स जगाहे महद्व्योम विमलं स्वमिवाशयम् ॥ क्२४.१५२ ॥
प्रययौ तरलावर्तिनर्तितोष्णीषपल्लवः ।
संसर्पिपवनोल्लसैः शोकोच्छ्वास इव श्रियः ॥ क्२४.१५३ ॥
तस्याभरणरत्नांशुलेखाभिः शबलं नभः ।
जग्राह सूत्रपत्रालीविचित्रम्जिव चीवरम् ॥ क्२४.१५४ ॥
कीर्णाश्रुबिन्दुकलिता विलोलनयनोत्पलाः ।
व्रजन्तं ददृशुर्दृश्यास्तमन्तःपुरदेवताः ॥ क्२४.१५५ ॥
संसारमिव विस्तीर्णं पुरं सनृपबान्धवम् ।
दूरात्प्रदक्षिणीकृत्य क्षम्यतामित्यभाषत ॥ क्२४.१५६ ॥
क्षपायां क्षणशेषायां जने निद्राभिमुद्रिते ।
तं ददर्श महान्नाम प्रबुद्धो राजबान्धवः ॥ क्२४.१५७ ॥
दिवि दृष्ट्वा व्रजन्तं तं शशाङ्कशङ्कया हृतः ।
ऊचे चिरं विचार्योच्चैर्बाष्याश्न्चितविलोचनह् ॥ क्२४.१५८ ॥
चित्रमेतद्विरक्तव्तं बन्धुजीवोपमस्य ते ।
कुमार रुचिराकार न युक्तं युक्तकारणम् ॥ क्२४.१५९ ॥
वंशोत्कर्षविशेषार्थू निबद्धाशः पिता त्वयि ।
कस्मान्निराश क्रियते सर्वाशाभरण त्वया ॥ क्२४.१६० ॥
इति शाक्यस्य महतः श्रुत्वा वाक्यं नृपात्मजः ।
तमूचे बान्धवप्रीतिर्बन्धो वन्धनशृङ्खला ॥ क्२४.१६१ ॥
अयं कायः क्षयं याति मिथ्यागृहसुखप्रियः ।
विषयोग्रविष्र्तानाममृतायतनं वनम् ॥ क्२४.१६२ ॥
हस्ताकृष्टस्त्रिफणिफणभृन्मस्तकन्यस्तमृत्यु
कण्ठाबद्धित्कटविषलतापल्लवालोलमालः ।
दीप्ताङ्गारप्र्करगहनं गाहते दुर्गमार्गं
संसारेऽस्मिन् विषयनिचये सप्रमोदः प्रमादी ॥ क्२४.१६३ ॥
इत्युदीर्य व्रजन् व्योम्ना विलङ्घ्य नगरं क्षणात् ।
बहिर्भूतलमभ्येत्य स ययौ वाजिना जवात् ॥ क्२४.१६४ ॥
महता शाक्यमुख्येन बोधितस्याथ भूपतेः ।
अन्तःपुरे च कान्तानामुद्भूतः करुणः स्वरः ॥ क्२४.१६५ ॥
अथ ब्रह्मेन्द्रधनदप्रमुखस्त्रिदशैर्वृतः ।
राजसूनुर्वनं प्राप गत्वा द्वादशयोजनम् ॥ क्२४.१६६ ॥
अवरुह्याथ तुरगात्ग्विमुच्याभरणानि सः ।
उवाच सूचितानन्दश्छन्दकं वदनत्विषा ॥ क्२४.१६७ ॥
गृहीत्वाबह्रणानि त्वं हयं च व्रज मन्दिरम् ।
मेदानीमस्ति मे कृत्यमेतैर्मायानिबन्धनैः ॥ क्२४.१६८ ॥
वनेऽस्मिन्नहमेकाकी शमसंतोषबान्धवः ।
एकः संजायते जन्तुरेक एव विपद्यते ॥ क्२४.१६९ ॥
विषमविषययोगं भोगमुत्सृज्य रे कः सरसरति विशेषक्लेशशोषप्रवृत्तः ।
परिभवभुवनेऽस्मिन्नेष नः संनिवेशः शमितमदनकान्तिः शान्तिमेव श्रयामि ॥ क्२४.१७० ॥
इत्युक्त्वाभरणान्यस्य दीप्तान्यङ्के मुमोच सः ।
त्यक्तशोकान्वितानीव मुक्तापक्कणसंचये ॥ क्२४.१७१ ॥
चूडां निस्कृष्य खङ्गेन स चिक्षेप नभःस्थले ।
शक्रश्च तं समादाय निनाय दिवमादरात् ॥ क्२४.१७२ ॥
केशः क्लेश इवोत्कृत्तो यत्र तेन महात्मना ।
केशप्रतिग्रहं चैत्यं सद्भिस्तत्र निवेशितम् ॥ क्२४.१७३ ॥
छन्दकोऽप्यश्वमादायं प्रयातः सप्तभिर्दिनैः ।
शनैः प्राप पुरोपान्तं शोकार्तः समचिन्तयत् ॥ क्२४.१७४ ॥
शून्यं तुरगमादाय परित्यज्य नृपात्मजम् ।
द्रष्टुं शक्नोमि नृपतिं कथं पुत्रप्रलापिनम् ॥ क्२४.१७५ ॥
विचिन्त्येति हयं त्यक्त्वा स तत्रैव व्यलम्बत ।
शून्यासनः परं वाजी मूर्तः शोक इवाविशत् ॥ क्२४.१७६ ॥
तं दृष्ट्वान्तः पुरजनः सामात्यश्च महीपतिः ।
प्रतिप्रलापमुखराश्चक्रिरे निखिला दिशः ॥ क्२४.१७७ ॥
उद्भूतार्तस्वरैः कण्ठैः सोत्कण्ठैः स विषादवान् ।
सर्वैर्गृहीतकीर्णाश्रुर्वाजी जीवितमत्यजत् ॥ क्२४.१७८ ॥
स बोधिसत्त्वसंस्पर्शपुण्यप्राप्तिपवित्रितः ।
जग्राह ब्राह्मणकुले जन्म संसारमुक्तये ॥ क्२४.१७९ ॥
शक्रदत्तं कुमारस्तु यत्र काषायमग्रहीत् ।
काषायग्रहणं तत्र चैत्यं चक्रे महाजनः ॥ क्२४.१८० ॥
विभवमभववृत्त्यै जन्म जन्मप्रमुक्त्यै
विजनमपि जनानां मोहगर्तान्निवृत्त्यै ।
इति स कुशलकामः काममुत्सृज्य भेजे
गुणकृतजनरागः श्लाघ्यतां त्यक्तरागः ॥ क्२४.१८१ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामभिनिष्क्रमणावदानं चतुर्विशः पल्लवः ॥



२५. मारविद्रावणावदानम् ।

जयन्ति ते जन्मभयप्रमुक्ता भवप्रभावाभिभवाभियुक्ताः ।
यैः सुन्दरीलोचनचक्रवर्ती मारः कृतः शासनदेशवर्ती ॥ क्२५.१ ॥
ततस्तपोवने चास्मिन् बोधिसत्त्वे तपोजुषि ।
तदुपस्थापकाः पञ्च वाराणस्यां प्रवव्रजुः ॥ क्२५.२ ॥
स्पृहणीयो मुनीन्द्राणामथ शाक्यमुनिः शनैः ।
स्वयं सेनायनीग्रामं जनचारिकया ययौ ॥ क्२५.३ ॥
तत्र सेनाभिधानस्य कन्ये गृहपतेः सुते ।
नन्दा नन्दबलाख्या च चारुवृत्ते बभूवतुः ॥ क्२५.४ ॥
शुद्धोदनस्य भूभर्तुस्ते श्रुत्वा विश्रुतं सुतम् ।
चक्राते तद्विवाहार्थं व्रतं द्वादशवार्षिकम् ॥ क्२५.५ ॥
आमोदिनीनां हृदये सदा सूत्रवदास्थितः ।
मालानामिव बालानामभिलाषः स्वभावजः ॥ क्२५.६ ॥
धेनूनां पीतदुग्धानां दुग्धं ताभ्यां पुनः पुनः ।
गृहीट्वा स्फटिकस्थाल्या व्रतान्ते पायसं शुभम् ॥ क्२५.७ ॥
विधिवत्पायसे सिद्धे विप्ररूपः सुरेश्वरः ।
तं समभ्याययौ देशं देवश्च कमलासनः ॥ क्२५.८ ॥
हर्षादतिथिभागेऽथ कन्यकाभ्यां समुद्धृते ।
शक्रोऽवदत्सर्वगुणोदयायाग्रे प्रदीयताम् ॥ क्२५.९ ॥
मत्तोऽयमधिकस्तावद्ब्रह्मणः प्रथमोऽपि च ।
इत्युक्ते सुरराजेन प्रोवाच चतुराननः ॥ क्२५.१० ॥
मत्तोऽधिको देव आस्ते शुद्धावासनिकायिकः ।
इत्युक्ते ब्रह्मणा तेऽपि जगदुर्गगनस्थिताः ॥ क्२५.११ ॥
सर्वप्रतिविशिष्टोऽसौ बोधिसत्त्वस्तपःकृशः ।
नद्यां निराजनाख्यायां विगाह्य सलिले स्थितः ॥ क्२५.१२ ॥
एतदाकर्ण्य कन्याभ्यामाहूय मणिभाजने ।
अवतीर्यार्पितं भक्त्या तदस्मै मधुपायसम् ॥ क्२५.१३ ॥
बोधिसत्त्वस्तदादाय रत्नपात्रीं ददौ तयोः ।
दत्तेयं न पुनर्ग्राह्येत्युक्त्वा जगृहतुर्न ते ॥ क्२५.१४ ॥
सा तेन नद्यां निक्षिप्ता नागैर्नीता प्रभावती ।
विक्षोभ्याप्याहृता तेभ्यस्तार्क्ष्यरूपेण वज्रिणा ॥ क्२५.१५ ॥
प्रसादी बोधिसत्त्वोऽथ कन्यायुगलमभ्यधात् ।
दानस्य प्रणिधानेन भवत्योः किं समीहितम् ॥ क्२५.१६ ॥
ते तमूचतुरानन्दनिधिः शुद्धोदनात्मजः ।
सर्वार्थसिद्धोऽभिमतः कुमारः पतिरावयोः ॥ क्२५.१७ ॥
उद्यमं मारलीलायाः सरसं तद्वचस्तयोः ।
न लिलिम्प मनस्तस्य पाद्मं दलमिवोदके ॥ क्२५.१८ ॥
स जगाद कुमारोऽसौ न किं प्रव्रजितः श्रुतः ।
न तस्य लोलनयनाः प्रियाह्श्रिय इव स्त्रियः ॥ क्२५.१९ ॥
इत्यनीप्सितमाकर्ण्य दीर्घं निश्वस्य कन्यके ।
ऊचतुर्दानधर्मोऽयं सिद्धौ तस्यैव जायताम् ॥ क्२५.२० ॥
अदृष्टस्नेहसंश्लिष्टः प्रविष्टोऽन्तः पराङ्भुखः ।
न नाम सुचिराभ्यस्तः पक्षपातो निवर्तते ॥ क्२५.२१ ॥
इति तद्वचनं श्रुत्वा बोधिसत्त्वः प्रसन्नधीः ।
प्रयातस्ते समामन्त्र्य विश्रान्त्यै काननान्तरम् ॥ क्२५.२२ ॥
पायसामृतभागेन लब्धदिव्यबलोदयः ।
प्रच्छायतरुसुच्छायमारुरोह महीधरम् ॥ क्२५.२३ ॥
पर्यङ्कबन्धमाधाय तत्र तस्मिन् सुखं स्थिते ।
अहंकार इवात्युच्चशिराह्सोऽद्रिर्व्यगीर्यत ॥ क्२५.२४ ॥
विशीर्णभूधरे तस्मिन् स प्रदध्यौ विषण्णधीः ।
सपक्षालानि कर्माणि मया कानि कृतान्यहो ॥ क्२५.२५ ॥
इति चिन्ताशतोच्छ्वासं तमूचुर्व्योमदेवताः ।
न त्वया विहितं साधो कर्म किंचिदसांप्रतम् ॥ क्२५.२६ ॥
अच्छिन्नोत्तप्तकुशलं धर्तुं न क्षमते क्षितिः ।
स त्वमुत्तप्तकुशलः प्रोच्चशैलशताग्द्गुरुः ॥ क्२५.२७ ॥
निरञ्जनीं समुत्तीर्य सरितं व्रज निश्चलम् ।
सिद्धिदं बोधिसत्त्वानां देशं वज्राअस्नाभिधम् ॥ क्२५.२८ ॥
देवतादिष्टमार्गेण प्रस्थितस्यास्य भूतले ।
पादन्यासैरभूत्तस्य हेमपद्मपरंपरा ॥ क्२५.२९ ॥
पृथिवी व्रजतस्तस्य प्रोल्लसत्सलिलाकुला ।
रणन्ती कांस्यपात्रीव प्रोन्ननाम ननाम च ॥ क्२५.३० ॥
तानि तानि निमित्तानि प्रवृत्तानि ददर्श सः ।
येषामनुत्तरज्ञाननिधानसाधनं फलम् ॥ क्२५.३१ ॥
निरञ्जनाय भुवने नागोऽन्धः कालिकाभिधः ।
बुद्धोत्पादितदृरभूमेः शब्दमाकर्ण्य निर्ययौ ॥ क्२५.३२ ॥
सर्वलक्षणसंपन्नं दीप्तजाम्बूनदद्युतिम् ।
स बोधिसत्त्वमालोक्य प्रोवाच रचिताश्न्जलिः ॥ क्२५.३३ ॥
नलिननयन कान्तस्त्वं वने यौवनेऽस्मिन्
विहरसि विरहार्तिं संपदामर्पयित्वा ।
अशमशमविशेषोन्मेषसंतोषहेतुर्
भवसि भवसमुद्रे देहिनां सत्यसेतुः ॥ क्२५.३४ ॥
अथामुञ्चन्त्येते भयतरलतामत्र हरिणाः
यथा लीलाचक्रं विहरति समीपे खगगणः ।
ससत्त्वासत्त्वाना किमपि हृदयाश्वाससदनं
तथा मन्ये बौद्धं वपुरिदमनायाससुखदम् ॥ क्२५.३५ ॥
करिकलभकह्पद्मप्रीत्या करोति हरेः करं
सुखयति शिखी स्निग्धालापं कलापशिखानिलै ।
भवति हरिणी लोलापाङ्गा पुरः प्रणयोन्मुखी
प्रशमसमयस्येयं पुण्यप्रसादमयी स्थितिः ॥ क्२५.३६ ॥
अद्यैव बुद्धत्वमवाप्य शुद्धं त्वं बोधिमेष्यत्य(?)खिलां त्रिलोकीम् ।
सद्यःप्रसादप्रमदावदातां कुमुद्वती पूर्ण इवामृतांशुः ॥ क्२५.३७ ॥
अन्योन्यं दिननाथदीप्तमहसः सद्यस्तवालोकनाल्
लोकानां कनलप्रबोधकलया दिव्यप्रकाशस्पृशाम् ।
निर्याती हॄदयान्निबद्धमधुपश्रेणिव संबन्धन-
त्रस्तान्तर्न पुनः करिष्यति पदं मोहान्दकारावलिः ॥ क्२५.३८ ॥
इति ब्रुवाणां विनयान्नागराजः प्रसन्नधीः ।
बोधिसत्त्वं समाभास्य समुत्तीर्य नदीं ययौ ॥ क्२५.३९ ॥
वज्रासनपदं प्राप्य बोधिमूलमनाकुलम् ।
दक्षिणाग्रैः कुशैश्चक्रे शक्तदत्तैः स संस्तरम् ॥ क्२५.४० ॥
तत्रोपविश्य पर्यङ्कबद्धो निश्चलनिश्चयः ।
मन्थावसानविश्रान्तः स दुग्धाब्धिरिवाबभौ ॥ क्२५.४१ ॥
असाधारः क्षमाधारः स धीरसरलाकृतिः ।
रुरुचे काञ्चनरुचिः परो मेरुरिवाचलः ॥ क्२५.४२ ॥
असावक्षयपर्यन्तः पर्यङ्कोऽयं मम स्थिरः ।
बबन्धेति स संकल्पं कृत्वा प्रतिमुखीं स्मृतिम् ॥ क्२५.४३ ॥
अत्राण्तरे समभ्येत्य मारः संयममत्सरः ।
लेखहारस्तत्र तूर्णं बोधिसत्त्वमभाषतः ॥ क्२५.४४ ॥
अकामकामता केयं लोके बन्धनदा मता ।
अकालकलिकाकारा मतिस्ते कास्य कामना ॥ क्२५.४५ ॥
गृहीतं हतशङ्केन देवदत्तेन ते पुरम् ।
निरुद्धन्तःपुरश्रेणीर्बद्धः शुद्धोदनो नृपः ॥ क्२५.४६ ॥
इति श्रुत्वैव वचनं शोकामर्षविषोज्झितः ।
अशिक्षितविकारेण चेतसा स व्यचिन्तयत् ॥ क्२५.४७ ॥
अहो बतान्तरायं मे मारः कर्तुं समुद्यतः ।
नर्तयत्येष दुर्वृत्तः शिस्वण्डिक्रीडयाजगत् ॥ क्२५.४८ ॥
मार मार विरामस्ते दौर्जन्यस्य न जायते ।
एकेन हिंसायज्ञेन प्राप्तेयं कम्रता त्वया ॥ क्२५.४९ ॥
यज्ञदाणतपःश्लाघां नात्मनः कर्तुमुत्सहे ।
स्वगुणोदीरणम्लानं पुण्यपुष्पं हि शीर्यति ॥ क्२५.५० ॥
इति निर्भत्सितस्तेन चित्तस्तेनः शरीरिणाम् ।
सामर्षः प्रययौ मारः समारम्भाधतोद्यमः ॥ क्२५.५१ ॥
अथादृश्यन्त ललिता लालित्याञ्चितलोचनाः ।
भ्रमद्भृङ्गरङ्गिण्यः कान्ताश्चूतलता इव ॥ क्२५.५२ ॥
चारुतच्चरितातृप्तास्तिस्रस्ताः कामकन्यकाः ।
सरागं पादनलिनीन्यासैश्चक्रुस्तपोवनम् ॥ क्२५.५३ ॥
विलोचनेन हरिणी करिणी गतिविभ्रमैः ।
तत्र ताभिर्मुखाम्भोजैर्नलिनी मलिनीकृता ॥ क्२५.५४ ॥
यौवनाभरणैरङ्गौरनुरागाविलेपनैः ।
लावण्यवसनैस्तासां कामोऽभूदप्यचेतसाम् ॥ क्२५.५५ ॥
वज्रासनसमाधानध्याननिश्चललोचनम् ।
तं विलोक्याभवत्तासां विस्मयध्यानधारणा ॥ क्२५.५६ ॥
ता बोधिसत्त्वसंकल्पान्मदरागमयं वयः ।
परित्यज्यैव सहसा सलज्जा भेजिरे जराम् ॥ क्२५.५७ ॥
प्रतीपगमनात्तासामथ भग्नमनोरथः ।
मन्मथः प्रथितारम्भः सैन्यसंब्ःारमाददे ॥ क्२५.५८ ॥
सर्वप्रहरणैर्व्याप्तं नानाप्राणिमुखैर्भयैः ।
षट्त्रिंशत्कोटीविपुलं बलं तस्य समुद्ययौ ॥ क्२५.५९ ॥
स्वयमाकर्णनिष्कृष्टकोपक्रूरशरासनः ।
मारः स्फारविकारेण बोधिसत्त्वं समाद्रवत् ॥ क्२५.६० ॥
शस्त्रवृष्टिस्तदुत्सृष्टा सह पांशुविषाश्मभिः ।
प्रययौ बोधिसत्त्वस्य मन्दाराम्बुजतुल्यताम् ॥ क्२५.६१ ॥
पुनर्मारबलोत्सृष्टा शस्त्रवृष्टिर्घृतक्षमे ।
चक्रिरे देवतास्तस्य वज्रप्रतिसमाश्रयम् ॥ क्२५.६२ ॥
स्मरोऽपि नष्टसंकल्पः समाधेः श्रोत्रकण्टकम् ।
घण्टापटुरटत्पत्रं निर्ममे स्फटीकद्रुमम् ॥ क्२५.६३ ॥
तं तारमुखरं वृक्षं मारं च सबलायुधम् ।
चक्रवाटे समुत्क्षिप्य चिक्षिपुर्व्योमदेवताः ॥ क्२५.६४ ॥
भगवानथ संप्राप्तप्रसन्नज्ञाननिर्मलः ।
सर्ववित्सर्वगः सरव्जातिस्मृतिपरोऽभवत् ॥ क्२५.६५ ॥
स तत्रानुत्तरज्ञानसम्यक्संबोधिमापितः ।
ददर्श सर्वभुताणि गतिं कर्मोर्मिनिर्मिताम् ॥ क्२५.६६ ॥
अथ शाक्यपुरे मारः प्रवादमसृजद्दिवः ।
बोधिसत्त्वः प्रयातोऽस्तं तपःक्लेशवशादिति ॥ क्२५.६७ ॥
तत्र शुद्धोदनो राजा पुत्रस्नेहविषातुरः ।
निपपात तमाकर्ण्य वज्राहत इव क्षितौ ॥ क्२५.६८ ॥
अन्तःपुरे सहनृपे प्राणत्यागकृतक्षणे ।
सुवृत्तपक्षपातिन्यस्तमूचुर्व्योमदेवताः ॥ क्२५.६९ ॥
पुत्रस्तवामृतं पीत्वा सम्यक्संबुद्धतां गतः ।
तेनावलोकितस्यापि नास्ते भृत्युभयं कुतः ॥ क्२५.७० ॥
इति सान्तःपुरामात्यः श्रुत्वा नरपतिर्वचः ।
अभूत्प्रत्यागतप्राणः सुधासिक्त इव क्षणात् ॥ क्२५.७१ ॥
तस्मिन्महोत्सवानन्दे बोधिसत्त्ववधूः सुतम् ।
कान्तं यशोधआसूत राहुग्रस्ते निशाकरे ॥ क्२५.७२ ॥
राहुलाख्यः स बालोऽपि नृपतेर्जन्मशङ्किनः ।
जनन्या सशिलः शुद्ध्यै निक्षिप्तोऽम्भसि पुप्लुवे ॥ क्२५.७३ ॥
भगवानपि सप्ताहं स्थितो निश्चलविग्रहः ।
वज्रपर्यङ्कबन्धेन देवानां विस्मयं व्यधात् ॥ क्२५.७४ ॥
स ब्रह्मकायिकाख्याभ्यां देवताभ्यां विरोधितः ।
अवदत्परमानन्दसुधासंदोहसुन्दरः ॥ क्२५.७५ ॥
अहो तव मया ज्ञाता पूर्वमेषा सुखस्थितिः ।
यया सुरासुरैश्वर्यसुखं दुःखगणायते ॥ क्२५.७६ ॥
लावण्याम्भःप्लाविताङ्गास्तरुण्यः पीयूषार्द्रः स्वर्गसंभोगवर्गः ।
अस्याशेषत्यागहेलासुखस्य स्पर्धाबन्धे पांशुनिःसार एव ॥ क्२५.७७ ॥
संतप्तोऽहं विषयविषमक्लेशसंसारपान्थः
क्लान्तः शान्त्याश्रितिमुपगतश्चन्दनच्छाययेव ।
संजातेयं सकलकरणव्यापिनी निर्वृतिमे
विश्रान्तानां शमहिमवने किं सुखस्योपमानम् ॥ क्२५.७८ ॥
अस्मिन्नवसरे पुण्यपरिपाकेण तद्वनम् ।
वणिजौ पृथुसार्थेन प्राप्तौ त्रपुसभल्लिकौ ॥ क्२५.७९ ॥
देवताप्रेतितौ भक्त्या भगवन्तमुपेत्य तौ ।
प्रणतौ पिण्डपातोऽयं गृह्यतामित्यभाषताम् ॥ क्२५.८० ॥
दयाविधेयः सर्वज्ञस्तदाकर्ण्य व्यचिन्तयत् ।
पूर्वैः पात्रे गृहीतोऽयं न पाणी पात्रवर्जिते ॥ क्२५.८१ ॥
इति चिन्तयतस्तस्य महाराजाभिधाः सुराः ।
दत्वा स्फटिकपात्राणि चत्वारि त्रिदिवं ययुः ॥ क्२५.८२ ॥
कृत्वाथ भगवान् पात्रे पिण्डपातप्रतिग्रहम् ।
अनुग्रहं तयोश्चक्रे शरण्यत्रयशासनात् ॥ क्२५.८३ ॥
विततसुकृतसाक्षी पुण्यनिक्षेपदक्षः क्षयितविपदशेषः प्रार्थनाकल्पवृक्षः ।
भवति कुशलमूलैः कस्यचिद्भाग्यभाजः शुभपरिणतिदीक्षादक्षिणः साधुसङ्गः ॥ क्२५.८४ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मारचिद्रावणावदानं नाम पञ्चविंशः पल्लवः ॥



२६. शाक्योत्पत्तिः ।

वंशः स कोऽपि विपुलः कुशलानुबन्धी यश्चारुवृत्तमुचितं गुणसंग्रहस्य ।
रत्नं विशुद्धरुचिसूचितसत्प्रकाशं मुक्तामयं जगदलंकरणं प्रसूते ॥ क्२६.१ ॥
न्यग्रोधारामनिरतं पुरा कपुलवास्तुनि ।
शाक्याः स्ववंशं पप्रच्छुर्भगवन्तं तथागतम् ॥ क्२६.२ ॥
तैः पृष्टः स्वकुलोत्पत्तिं स मौद्गल्यायनं पुरः ।
वक्तुं न्ययुङ्क्त कृत्वास्य विमलज्ञानदर्शनम् ॥ क्२६.३ ॥
स विलोक्य यथातत्त्वमतीतं ज्ञानचक्षुषा ।
तानवोचत संस्मृत्य श्रूयतां शाक्यसंभवः ॥ क्२६.४ ॥
अशेषेऽस्मिन् जलमये जगत्येकार्णवे पुरा ।
स्थिते पवनसंस्पर्शात्पयः पय इवाभवत् ॥ क्२६.५ ॥
जले तस्मिन् घनतया याते कठिनतां शनैः ।
अभूद्वर्णरसस्पर्शशब्दगन्धमयी मही ॥ क्२६.६ ॥
तस्यामाभास्वरा देवाश्च्युताः कर्मपरिक्षयात् ।
तत्तुल्यवर्णसंभूताः सत्त्वाः सत्त्वबलाधिकाः ॥ क्२६.७ ॥
अङ्गुल्या रसमास्वाद्य तत्तृष्णातीव्रमोहिताः ।
आहारदोषात्संप्रापोउर्गुरुरूक्षविवर्णताम् ॥ क्२६.८ ॥
अन्नप्रसविनी तेषां क्रमेणाभूद्वसुंधरा ।
तमोभिश्च विलुप्तानां क्षेत्राग ॥ क्२६.९ ॥
ततस्तेषां क्षतत्राणात्क्षत्रियः क्षितिपालने ।
महासंमतनामाभूज्जनस्य महतो मतः ॥ क्२६.१० ॥
तस्यान्वये महत्यासीनृपः श्रीमानुपोषधः ।
अम्लानकीर्तिकुसुमः पारिजात इवोदधौ ॥ क्२६.११ ॥
चक्रवर्ती सुतस्तस्य मान्धाताभूदयोनिजः ।
जगत्येकातपत्रस्य यस्य वंशो महानभूत् ॥ क्२६.१२ ॥
वंशे सहस्रवंशस्य कृकिस्तस्याभवन्नृपः ।
चित्तप्रसादमकरोद्भगवान् यस्य काश्यपः ॥ क्२६.१३ ॥
इक्ष्वाकुरन्वये तस्य तस्य चाभूद्विरूढकः ।
प्रीत्या कनीयसः सूनोर्ज्येष्ठास्तेन विवासिताः ॥ क्२६.१४ ॥
एकीभूय ततः सर्वे स्वदेशविगतस्पृहाः ।
कुमाराः कपिलाख्यास्य महर्षेराश्रमं ययुः ॥ क्२६.१५ ॥
ध्यानकालाण्तरायाणां बाल्यादुच्चैः प्रलापिनाम् ।
सोऽन्यत्र निर्ममे तेषां पुरं कपुलवास्त्विति ॥ क्२६.१६ ॥
कालेन पुत्रवात्सल्यादनुतापेन भूपतिः ।
आनीयन्तां कुमारास्ते सचिवानित्यभाषत ॥ क्२६.१७ ॥
तमूर्चुर्मन्त्रिणः सर्वे राजन् प्राप्तपुरोत्तमाः ।
प्रत्यानेतुमशक्यास्ते जातापत्यपृथुश्रियः ॥ क्२६.१८ ॥
इति तेषां पितुस्तत्र शक्याशक्यविचिन्तने ।
बभूवुः शाक्यसंज्ञास्ते नॄपुरस्तेषु वंशकृत् ॥ क्२६.१९ ॥
तद्वंशेषु पञ्चपञ्चसहस्रेषु महीभुजाम् ।
अतीतेषु क्षितिपतिः श्रीमान् दशरथोऽबह्वत् ॥ क्२६.२० ॥
तस्यान्वये सिंहहनुर्बभूव पृथिवीपतिः ।
न रणे सिंहमिव यं सेहिरे राजकुञ्जराः ॥ क्२६.२१ ॥
ज्येष्ठः शुद्धोदनस्तस्य सुतः शुक्लोदनः परः ।
द्रोणोदनस्तदनुजः कनीयानमृतोदनः ॥ क्२६.२२ ॥
कन्याश्चतस्रः शुद्धाख्या शुक्ला द्रोणामृता तथा ।
शुद्धोदनस्य भगवान् सूनुर्नन्दस्तथापरः ॥ क्२६.२३ ॥
शुक्लोदनस्य तनयौ द्वौ तिष्याख्योऽथ भद्रिकः ।
द्रोणोदनस्य द्वौ पुत्रावनिरुद्धो महांस्तथा ॥ क्२६.२४ ॥
आनन्ददेवदत्ताख्यावमृतोदनसंबह्वौ ।
शुद्धासुतः सुप्रशुद्धः शुक्लासूनुश्व मालिकः ॥ क्२६.२५ ॥
द्रोणापुत्रश्च भद्राणिर्वैशाल्यख्योऽमृतासुतः ।
राहुलो भगवत्सूनुर्यस्मिन् वंशः प्रतिष्ठितः ॥ क्२६.२६ ॥
इत्युज्ज्वलज्ञानमयेन तेन वंशं यथावत्कथितं निशम्य ।
शाक्या बभूवर्भगवत्प्रभावैः
संभावितोत्कर्षविशेषशुद्धाः ॥ क्२६.२७ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां शाक्योत्पत्तीर्नाम षड्विंशः पल्लवः ॥


२७. श्रोणाकोटीविंशावदानम् ।
स कोऽपि सत्त्वस्य विवेकबन्धोः पुण्योपसन्नस्य महान् प्रभावः ।
नापैति यः कायशतेषु पुंसः कस्तूरिकामोद इवांशुकस्य ॥ क्२७.१ ॥
जिने सर्वजगज्जन्तुसंतापकरुणाह्रदे ।
पुरे राजगृहे वेणुवनान्तरविहारिणि ॥ क्२७.२ ॥
श्रीमानभूद्भूमिपतिश्चम्पायां पोतलाभिधः ।
जहार धनदर्पान्ध्यं धनेन धनदस्य यः ॥ क्२७.३ ॥
अजायत सुतस्तस्य मनोरथशतान्वितः ।
धनानामीप्सितावाप्त्य सुखसख्यो विभूतयः ॥ क्२७.४ ॥
श्रवणर्क्षेण जातस्य स सूनोस्तस्य जन्मनि ।
प्रीत्या ददौ दरिद्रस्य कोटीनां विंशतिं तदा ॥ क्२७.५ ॥
स श्रोणकोटिविंशाख्यः शिशुः ख्यातस्तदाभवत् ।
विभवः सुकृतेनैव येन वंशो विभूषितः ॥ क्२७.६ ॥
प्राप्तविद्यः स सर्वार्थैः सह वृद्धिमुपागतः ।
चकार सुखविश्रान्तिं व्यवहारधरः पितुः ॥ क्२७.७ ॥
स कदाचित्प्रभापुञ्जमिअव्सूर्यस्य मण्डलात् ।
अवतीर्णं पुरप्रातं मौद्गल्यायनमब्रवीत् ॥ क्२७.८ ॥
को भवानर्कसंकाशः प्रकाशितदिगन्तरः ।
त्रिदशेशः शशाङ्को वा देवो वा द्रविणेश्वरः ॥ क्२७.९ ॥
स तं बभाषे न सुरः शिष्यो भगवतस्त्वहम् ।
बुद्धस्य विबुधाधीशवन्द्यमानगुणश्रियः ॥ क्२७.१० ॥
स्वच्छं तस्य प्रयच्छन्तं पिण्डपातं महामुनेः ।
सत्त्वशुद्धोदयावाप्तं भोग्यं भगवतः प्रियम् ॥ क्२७.११ ॥
इति श्रोणस्य भगवन्नाम्ना श्रवणगामिना ।
रविभक्रस्य जात्यापि रोमाञ्चः समजायतः ॥ क्२७.१२ ॥
प्राग्जन्मवासनायुक्तः स्वभावो यस्य यः स्थितः ।
स तस्योदीरणेनापि स्फुट एव विभाव्यते ॥ क्२७.१३ ॥
स तस्मै विंशतिस्थालीभागं नाकजनोचितम् ।
प्रहिणोद्भक्तिसंसक्तश्रद्धायुक्तेन चेतसा ॥ क्२७.१४ ॥
ततस्तं प्रेषितं तेन भगवान् भक्तिसंसदा ।
अनुग्रहाग्रहव्यग्रः समग्रं स्वयमग्रहीत् ॥ क्२७.१५ ॥
अस्मिन्नवसरे भक्त्या स्थालीभागं नृपोचितम् ।
समादाय स्वयं राजा बिम्बिसारः समाययौ ॥ क्२७.१६ ॥
श्रोणप्रहीतभोगानामामोदं तत्र पार्थिवः ।
आघ्राय शक्रप्रहितं सर्वं दिव्यममन्यत ॥ क्२७.१७ ॥
पात्रशेषं भगवता दत्तमास्वाद्य भूपतिः ।
श्रोणेन प्रेषितं श्रुत्वा तदनु विस्मयं ययौ ॥ क्२७.१८ ॥
भगवन्तं प्रणम्याथ राजधानीं नरेश्वरः ।
प्रविश्याचिन्तयत्स्फीतां दिव्यां श्रोणस्य संपदम् ॥ क्२७.१९ ॥
गच्छामि तं स्वयं गत्वा द्रष्टव्योऽसौ अम्हायशाः ।
इति निश्चित्य सचिवैः स यात्रारम्भमादिशत् ॥ क्२७.२० ॥
पोतलः क्षितिपं ज्ञात्वा स्वयमागमनोद्यतम् ।
नीतिज्ञं पुत्रमेकाण्ते श्रोणकोटिमभाषत ॥ क्२७.२१ ॥
पुत्र त्वां द्रष्टुमायाति वर्णाश्रमगुरुर्नृपः ।
इत्येष भृशमुत्कर्षः सदोषः प्रतिभाति मे ॥ क्२७.२२ ॥
क्षितीशा लक्षतां यातंपक्षपातोद्यता इव ।
अविलम्बितमाघ्नन्ति शरा इव गुणच्युताः ॥ क्२७.२३ ॥
भृत्यानामपि विद्वेष्यो भवत्यतिशयोन्नतिः ।
अभिमानैकसाराणां किं पुनः पृथिवीभूजाम् ॥ क्२७.२४ ॥
रूपे वयसि सौभाग्ये प्रभावे विभवे श्रुते ।
स्वसुतस्यापि संघर्षान्नोत्कर्षं सहते जनः ॥ क्२७.२५ ॥
जने द्वेषमये पुत्र गुणमाच्छाद्य जीव्यते ।
आच्छादितगुणः पद्मः प्रियस्तीक्ष्णरुचेरपि ॥ क्२७.२६ ॥
उद्धतः कस्य न द्वेष्यः प्रणतः कस्य न प्रियः ।
द्रुमं पातयति स्तब्धं नम्त्रं रक्षति मारुतः ॥ क्२७.२७ ॥
स चाभिगम्यो भूपालस्त्वां यदि स्वयमेष्यति ।
तदेषं दर्पमोहस्ते श्रेयसे न बह्विष्यति ॥ क्२७.२८ ॥
तस्मादितः स्वयं गत्वा प्रणम्यं प्रणम प्रभुम् ।
नक्षत्रराशिसदृशं दत्वा हारमुपायनम् ॥ क्२७.२९ ॥
पितुः श्रुत्वेति वचनं श्रोणकोटिर्हहीपतिम् ।
प्रययौ नावमारुह्य द्रष्टुं रत्नविभूषितः ॥ क्२७.३० ॥
स राजधानीमासाद्य प्राप्य दृष्ट्वा च भूपतिम् ।
ददौ हारं पर्णम्यास्मै हर्षहासमिव श्रियः ॥ क्२७.३१ ॥
तं दृष्ट्वा स्वयमायातं नृपतिः स्निग्धया दृशा ।
हेमरोमाङ्कचरणं विस्मयादित्यभाषत ॥ क्२७.३२ ॥
अहो पुण्यमहेशाख्यः कोऽपि त्वं सत्त्वबाम्धवः ।
यस्य संदर्शनेनैव मनोवृत्तिः प्रसीदति ॥ क्२७.३३ ॥
गुणेभ्यः परमैश्वर्यमैश्वर्यात्सुखमुत्तमम् ।
सुखेभ्यः परमारोग्यमारोग्यात्साधुसंगमः ॥ क्२७.३४ ॥
अपि दृष्टस्त्वया साधो भगवान् वेणुकानने ।
तत्पादपद्मयुगलं द्रष्टुमर्हसि मे मतः ॥ क्२७.३५ ॥
इत्युक्ते क्षितिनाथेन सौजन्यात्पक्षपातिना ।
तं श्रोणकोटीविंशोऽपि प्रणयात्प्रत्यभाषत ॥ क्२७.३६ ॥
अस्मादतुल्यकल्याणात्प्रसादाद्देवदेव ते ।
अधुना योग्यतायाता भगवद्दर्शने मम ॥ क्२७.३७ ॥
इत्युक्ते तेन सहितः प्रतस्थौ स्थितिकोविदः ।
भक्त्या तथागतं द्रष्टुं पद्भ्यामेव महीपतिः ॥ क्२७.३८ ॥
अस्पृष्टपादस्य भुवा श्रुणस्याजन्मवासरात् ।
महार्हवस्त्रैः प्रस्थाने भृत्यैराच्छादिता मही ॥ क्२७.३९ ॥
भगवद्भक्तिविनयाद्गौरवाच्च स भूपतेः ।
वस्त्राण्यवारयद्भृत्यैरवाच्च इव क्षितौ ॥ क्२७.४० ॥
वारितेष्वथ वस्त्रेषु दिव्यवस्त्रैर्वृता मही ।
अप्रयत्नोपकरणाः संपदः पुण्यशालिनाम् ॥ क्२७.४१ ॥
निवार्य दिन्यवस्त्राणि भूमौ तेनार्पिते पदे ।
विचचालाचला पृथ्वी सशैलवनसागरा ॥ क्२७.४२ ॥
ततः स भूमिपतिना सह प्राप्य जिनाश्रमम् ।
भगवन्तं विलोक्यास्य विदधे पादवन्दनम् ॥ क्२७.४३ ॥
उपविष्टस्य तस्याग्रे हृष्टस्यालोकनामृतैः ।
चक्रे शमविवेकस्य भगवानभिषेचनम् ॥ क्२७.४४ ॥
आशयानुशयं धातुं प्रकृतिं च विचार्य सः ।
सत्यसंदर्शनायास्य विदशे धर्मदेशनाम् ॥ क्२७.४५ ॥
सत्कायदृष्टिशैलोऽस्य तया विंशतिशृङ्गवान् ।
ज्ञानवज्रेण निर्भिन्नः स्रोतःप्राप्तिपदस्पृशः ॥ क्२७.४६ ॥
प्रव्रज्यायां ततस्तस्य जातायां सहसा स्वयम् ।
भगवन्तं प्रणम्याथ विस्मितः प्रययौ नृपः ॥ क्२७.४७ ॥
तीव्रव्रतेऽपि श्रोणस्य कदाचित्समजायत ।
वासनाशेषसंस्काराद्बन्धभोगसुखस्मृतिः ॥ क्२७.४८ ॥
स तमाहूय भगवान् विलक्षं प्राह सस्मितः ।
कोऽयं परिवितर्कस्ते प्रतिसंलीनचेतसः ॥ क्२७.४९ ॥
विश्लिष्टात्यन्तकृष्टा वा तन्त्री बह्वति विस्वरा ।
समा माधुर्यमायाति तस्मात्साम्यं समाश्रयेत् ॥ क्२७.५० ॥
इत्यादेशाद्भगवतः सर्वसाम्यमुपागतः ।
स प्राप विमलज्ञानं पश्चात्तापविवर्जितः ॥ क्२७.५१ ॥
तस्य तामद्भुतां सिद्धिं विलोक्य पृथुविस्मयाः ।
पप्रच्छुर्भिक्षवः सर्वे भगवन्तंस चाभ्यधात् ॥ क्२७.५२ ॥
श्रोणस्य श्रूयतां श्रेयःकर्म जन्मान्तरार्हितम् ।
न ह्यपुण्यानुभावानां भवन्त्यद्भुतसंपदः ॥ क्२७.५३ ॥
विपश्वी भगवान् सम्यक्संबुद्धः सुगतः पुरा ।
पुरीं बन्धुमतीं नाम जनचारिकया ययौ ॥ क्२७.५४ ॥
तत्र भक्त्या सुकृतिभिर्भक्तायोपनिमन्त्रितः ।
वारेण प्रत्यहं गेहं ययौ तेषां सहानुगः ॥ क्२७.५५ ॥
ततो दरिद्रःसंप्राप्तवारो ब्राह्मणदारकः ।
इन्द्रसोमाभिधश्चक्रे यत्नात्यद्योग्यभोजनम् ॥ क्२७.५६ ॥
स प्रयत्नेन महता भोज्यं भक्तिपवित्रितम् ।
आछाद्य वस्त्रैर्वसुधां प्रह्वस्तस्मै न्यवेदयत् ॥ क्२७.५७ ॥
तद्भोगप्रणिधानेन जातः सोऽयं महाधनः ।
सौवर्णरोमचरणः श्रोणकोटी सुरोपमः ॥ क्२७.५८ ॥
न वस्त्ररहिता भूमिः स्पृष्टानेन कदाचन ।
कम्पस्तच्चरणस्पर्शादत एवाभवद्भुवः ॥ क्२७.५९ ॥
इति सुगतवचः सुधावदातं दशनमयूखमिवोन्मिषत्स्वभावम् ।
प्रणिहितहृदयः परं निपीय स्थिरकुशलाय बभूव भिक्षुसंघः ॥ क्२७.६० ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां श्रोणकोटीविंशावदानं सप्तविंशः पल्लवः ॥


२८. धनपालावदानम् ।

दौर्जन्यदुःसहविशालखलापकारैर्नैवाशये विकृतिरस्ति महाशयानाम् ।
व्यालोल्वणक्षितिभृदाकुलितोऽपि सिन्धुर्नैवोत्ससर्ज हृदयादमृतस्वभावम् ॥ क्२८.१ ॥
पुरे पुरा राजगृहे बह्गवान् वेणुकानने ।
कलन्दकनिवासाख्ये विजहार मनोहरे ॥ क्२८.२ ॥
तत्र वित्रासितानेकशत्रिनिस्त्रिंशबान्धवः ।
अजातशत्रुनामाभूद्बिम्बिसारसुतो नृपः ॥ क्२८.३ ॥
शाक्यवंश्यः सुहृत्तस्य देवदत्ताभिधोऽभवत् ।
क्षुद्रमन्त्रेण यस्यासीत्स वेताल इवोत्कटः ॥ क्२८.४ ॥
स कदाचित्सुखासीनं रहः प्राह महीपतिम् ।
न राजन् फलितोऽद्यापि ममापि त्वत्समाश्रयः ॥ क्२८.५ ॥
निथोपचाररहितः सुखनिर्यन्त्रतन्त्रयोः ।
मिथो मनोरथत्राणान्मित्रशब्दः प्रवर्तते ॥ क्२८.६ ॥
य एष शाक्यश्रमणः सुखे वेणुवने स्थितः ।
तं हत्वा प्राप्तुमिच्छामि तत्पदं देववन्दितम् ॥ क्२८.७ ॥
क्षीयते न यया शत्रुर्लभ्यते न यया यशः ।
वर्धते न यया मानः किं तया मित्रसंपदा ॥ क्२८.८ ॥
महाधनाभिधानेन तत्पौरेण निमन्त्रितः ।
स पुरं प्रातरागन्ता दाम्भिकः सह भिक्षुभिः ॥ क्२८.९ ॥
राजमार्गं प्रविशतः स तस्य व्यालकुञ्जरः ।
उत्सृज्यतामभिमुखः क्रोधान्धो धनपालकः ॥ क्२८.१० ॥
इत्युक्ते देवदत्तेन नृपतिर्मित्रवत्सलः ।
बुद्धप्रभावं संचिन्त्य नाह किंचिदवाङ्भुखः ॥ क्२८.११ ॥
देवदत्तोऽपि निर्गत्य राजसौहार्ददुर्मदः ।
प्राह हस्तिमहामात्रं हारं दत्वास्य तोषणम् ॥ क्२८.१२ ॥
श्रमणः प्रातरागन्ता पुरं भिक्षुशतैर्वृतः ।
प्रेरणीयस्त्वया तस्मै गज इत्याह भूपतिः ॥ क्२८.१३ ॥
देवदत्तवचः श्रुत्वा तथेत्युचे द्विपाधिपः ।
श्रेणी हि मेषमूर्खाणामेकयातानुपातिनी ॥ क्२८.१४ ॥
ज्ञात्वापि तमभिप्रायं सर्वज्ञः पापचेतसाम् ।
प्रातः समाययौ सार्धं भिक्षूणां पञ्चभि शतैः ॥ क्२८.१५ ॥
अथ हस्तिपकोत्सृष्टः कृष्टप्रासादपादपः ।
तमभ्यधावदाविद्धः क्रोधान्धः क्रूरकुञ्जरः ॥ क्२८.१६ ॥
अनायत्तः परिचयादङ्कुशस्य गुरोरपि ।
खलविद्धानिव द्वेषी मदेन मलिनीकृतः ॥ क्२८.१७ ॥
सेवव्यसनसक्तानामसकृत्कर्णचापलात् ।
प्राणापहारी भृङ्गाणां भृत्यानामिव दुष्पतिः ॥ क्२८.१८ ॥
मन्दरोपद्रवे तस्मिन् द्रुमद्रोहिण्यभिद्रुते ।
विद्रुते सहसा लोके हाहाकारो महानभूत् ॥ क्२८.१९ ॥
तस्याञ्चत्कर्णतालानिलतुलितसरत्सान्द्रसिन्दूरपूरैः
संपूर्णे राजमार्गे च्युतचकितवधूरक्तवस्त्रासमानैः ।
उद्दण्डोच्चण्डशुण्डभ्रमणरवलसत्साध्वसायासिताशा
व्यालोलालकाभभ्रमरमिलद्विभ्रमः संभ्रमोऽभूत् ॥ क्२८.२० ॥
पुरप्रमाथव्यथिते जने कोलाहलाकुले ।
आरुरोह महाहर्म्यं देवदत्तः प्रमत्तधीः ॥ क्२८.२१ ॥
भगवद्ग्रहणं द्रष्टुं सोऽभवद्भृशमुत्सुकः ।
उन्मूलनेन गुणिनां मातङ्गः परितुष्यति ॥ क्२८.२२ ॥
विद्रुतेषु गजत्रासात्तेषु सर्वेषु भिक्षुषु ।
आनन्द एक एवाभूद्भिक्षुर्भगवतोऽन्तिके ॥ क्२८.२३ ॥
तत्र पञ्चाननाह्पञ्च निर्ययुर्भगवत्करात् ।
करालकेसरसटास्तन्नखांशुचिता इव ॥ क्२८.२४ ॥
द्विपस्तद्गन्धमाग्राय पर्दापस्मारवारणम् ।
अभूत्स्रुतशकृन्मूत्रः सहसैव पराङ्मुखः ॥ क्२८.२५ ॥
जवेन विद्रुतस्तत्र दन्ती दर्पदरिद्रताम् ।
प्राप्तः प्रदीपदहनाः स ददर्श दिशो दश ॥ क्२८.२६ ॥
स विलोक्य जालवह्निज्वलज्ज्वालाकुलं जगत् ।
पादपद्मान्तिकं शास्तुः शीतलं समुपाययौ ॥ क्२८.२७ ॥
संकोचाभिरुचेः सचिन्तमनसः प्रध्वस्तवक्त्रद्युतेर्दैन्यापन्नविहीनदानमधुपप्रारब्धकोलाहलः ।
लोभान्धस्य महाव्ययोत्सव इव क्लेशोष्मनिश्वासिनस्तस्याभूत्परितापनिश्लथगतेर्भारायमाणः करः ॥ क्२८.२८ ॥
तं पादमूलमायान्तं भीतं कारुण्यसागरः ।
शास्ता करेण पस्पर्श चक्रस्वस्तिकलक्ष्मणा ॥ क्२८.२९ ॥
कुम्भविन्यस्तहस्तस्तं प्रोवाच भगवान् जिनः ।
पुत्र स्वकर्मणैनेमां प्राप्तोऽसि त्वमिमां दशाम् ॥ क्२८.३० ॥
विवेकालोकहलदः कायोऽयं मांसभूधरः ।
भारस्ते मोहसंभारः पापादुपनतः परः ॥ क्२८.३१ ॥
इत्युक्ते करुणर्द्रेण भितो भगवता गजः ।
स लब्धश्चासमालानलीनो निश्चलतां ययौ ॥ क्२८.३२ ॥
देवदत्तस्य संकल्पे कुञ्जरे च महोत्कटे ।
भग्ने निर्विघ्नहर्षोऽभूत्समुद्गताद्भुतो जनः ॥ क्२८.३३ ॥
ततः कृत्वा गृहपतेर्गृहे भोज्यप्रतिग्रहम् ।
भगवान् भिक्षुभिः सार्धं काननं गन्तुमुद्ययौ ॥ क्२८.३४ ॥
अभिसृत्य गजेन्द्रोऽपि जिनस्य चरणाब्जयोः ।
कृत्वा करेण संस्पर्शं वपुस्तत्याज कौञ्जरम् ॥ क्२८.३५ ॥
चातुर्महाराजिकेषु देवेषु विशदद्युतिः ।
उपपन्नः स सहसा सुगतं द्रष्टुमाययौ ॥ क्२८.३६ ॥
स्वमाश्रमपदं प्राप्तं भगवन्तमुपेत्य सः ।
प्रणनामार्कसंकाशं प्रदीप्तमणिकुण्डलः ॥ क्२८.३७ ॥
तस्य केयूरमुकुटप्रभापल्लवपूरिताः ।
शक्रचापैरिव व्याप्ता विरेजुर्घनराजयः ॥ क्२८.३८ ॥
विनयादुपविश्याग्रे स शास्तुः स्रस्तकल्मषः ।
तं दिव्यपुष्पैराकीर्य सत्त्व शुभ्रैरभाषतः ॥ क्२८.३९ ॥
भगवन् भवतः पादपद्मसंस्पर्शनेन मे ।
दुर्दशादुःखसंतापः शान्तः संतोषशालिनः ॥ क्२८.४० ॥
शमश्लाघ्या कापि व्यसनविषदोषोष्मशमनी
सुधावृष्टिर्दृष्टिर्बत भगवतः स्निग्धमधुरा ।
यया स्पृष्टस्पृष्टं खरतरविकारव्यतिकरं
विमुत्यान्तःशान्तिं श्रयति हतमोह पशुरपि ॥ क्२८.४१ ॥
इति तस्य ब्रुवाणस्य भगवान् भवशान्तये ।
सत्यदर्शनसंशुद्धां विदधे धर्मदेशनाम् ॥ क्२८.४२ ॥
मौलिमुक्तांशुशुभ्रेण शिरसा चरणद्वयम् ।
स शास्तुः प्रययौ नत्वा हसन्निव भवभ्रमम् ॥ क्२८.४३ ॥
गते तस्मिन्मुखशशिप्रकाशितनभस्तले ।
भगवान् भिक्षुभिः पृष्टस्तद्वृत्तान्तमभाषत ॥ क्२८.४४ ॥
पूर्वकल्पान्तरे शास्तुः काश्यपाख्यस्य शासने ।
अभूत्प्रव्रजितोऽप्येष शिक्षापदनिरादरः ॥ क्२८.४५ ॥
अनादरात्कुञ्जरताभोगः संघोपसेवनात् ।
सत्यदृष्टिबलेनान्ते संप्राप्तः शासनग्रहः ॥ क्२८.४६ ॥
प्राग्जन्मविहितं कर्म कस्यचिन्न निवर्तते ।
कर्मोपदिष्टसंबन्धभक्तिभोगैः सचेतसः ॥ क्२८.४७ ॥
तस्मिन् व्यतिकरे घोरे सर्वैस्त्यक्रोऽस्मि भिक्षिभिः ।
न त्वानन्देन तत्रापि श्रूयतां पूर्वसंगतिः ॥ क्२८.४८ ॥
शशाङ्कशीतसरसि भ्रातरौ रुचिरौ पुरा ।
पूर्णमुखः शुखश्चेति राजहंसौ बभूवतुः ॥ क्२८.४९ ॥
कदाचिद्ब्रह्मदत्तस्य वाराणस्यां महीपतेः ।
ब्रहममतीं पुष्करिणीं रम्यां पूर्णमुखो ययौ ॥ क्२८.५० ॥
स तस्यां लोलकमलकिञ्जल्कपरिपिञ्जरः ।
विजहार सरोजिन्यां हंसानां पञ्चभिः शतैः ॥ क्२८.५१ ॥
पूर्वपुण्यानुभावेन तं रूपातिशयोज्ज्वलम् ।
ददर्शं कार्याण्युत्सृज्य जनो निश्चललोचनह् ॥ क्२८.५२ ॥
तं श्रुत्वा भूपतिस्तत्र स्थितं तद्दर्शनोत्सुकः ।
कुशलान् ग्रहणे तस्य व्यसृजज्जालजीविनः ॥ क्२८.५३ ॥
तस्मिन् गृहीते नलीनीलीलास्मितसितत्विषि ।
शतानि पञ्च हंसानां त्यक्त्वा तं प्रययुर्जवात् ॥ क्२८.५४ ॥
एकस्तु तस्य सौजन्यादबद्धोऽपि सुबद्धवत् ।
तदर्थं व्यथितस्तस्थौ प्रेमपाशवशीकृतः ॥ क्२८.५५ ॥
ततस्तैः प्रापितं राजा राजहंसं विलोक्य तम् ।
स्नेहबद्धं द्वितीयं च विस्मितस्ताववलोकयत् ॥ क्२८.५६ ॥
हंसः पूर्णमुखः सोऽहमानन्दस्तस्य चानुगः ।
गतास्तदद्य च त्यक्त्वा मां गंसा एव भिक्षवः ॥ क्२८.५७ ॥
पूर्वस्मिन्नबह्वत्काले वाराणस्यां महीपतिः ।
तुत्तुर्नाम मनःपट्टे लिखितं यद्यशः परैः ॥ क्२८.५८ ॥
सहस्रयोधस्तस्याभूद्दाक्षिणात्यो निरत्ययः ।
करदण्डीति विख्यातः संग्रामाग्रेसरः प्रियः ॥ क्२८.५९ ॥
कदाचिद्घोरसमरे पञ्चामात्यशतानि तम् ।
नृपं त्यक्त्वा ययुर्भीत्या करदण्डी तु नात्यजत् ॥ क्२८.६० ॥
अहमेव स भूपालः सचिवास्ते च भिक्षवः ।
करदण्डी स एवायमानन्दो न जहाति माम् ॥ क्२८.६१ ॥
जन्मान्तरेऽपि सिंहोऽहं मासं कूपे निपातितः ।
उपेक्षितः क्षणाद्भृत्यैः शृगालैर्येऽद्य भिक्षवः ॥ क्२८.६२ ॥
एकेन च नखैः खातं दीर्घं कृत्वास्मि मोक्षितः ।
जम्बुकेन स एवायमानन्दोऽद्य ममानुगः ॥ क्२८.६३ ॥
कूटपाशनिबद्धस्य मृगयूथपतेः पुरा ।
लुब्धकागमने एव जग्मुस्तदनुगा मृगाः ॥ क्२८.६४ ॥
अनुरक्ता न तत्याज तं मृगी साश्रुलोचना ।
प्रीतिशृङ्खलया बद्धा याता निस्पन्दतामिव ॥ क्२८.६५ ॥
अथ लुब्धकमायान्तं दृष्ट्वा मृगवधोद्यतम् ।
सावदन्मम बाणेन प्रथमं हर जीवितम् ॥ क्२८.६६ ॥
इति स्पष्टगिरा तस्याः स्नेहेन च स विस्मितः ।
मुमोच लुब्धकः प्रीत्या हरिणं हरिणीसखम् ॥ क्२८.६७ ॥
मॄगयूथपतिः सोऽहमानन्दः सा कुरङ्गिका ।
इत्येष प्रीतिसंबन्धः प्राग्वृत्तमनुवर्तते ॥ क्२८.६८ ॥
श्रुत्वेति वाक्यं सुगतस्य सर्वे लज्जानिलीना इव भिक्षवस्ते ।
सानन्दमानन्दमुखारविन्दं प्रभाभिरामं ददृशुः स्पृहार्द्राः ॥ क्२८.६९ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां धनपालावदानमष्टविंशः पल्लवः ॥


२९. काशीसुन्दरावदानम् ।

जयति स सत्त्वविशेषः सत्त्ववतां सर्वसत्त्वसुखहेतुः ।
देहदलनेऽपि शमयति कोपाग्निं शान्तिमुच्चैर्यः ॥ क्२९.१ ॥
धर्मोपदेशे भगवान् कौण्डिन्यस्याग्रवर्तिनः ।
भिक्षोः कथाप्रसङ्गेन पृष्ट्प्भिक्षुभिरभ्यधात् ॥ क्२९.२ ॥
ब्रह्मदत्तस्य तनयो वाराणस्यां महीपतेः ।
काशिसुन्दरनामा व कालभूश्च बभुवतुः ॥ क्२९.३ ॥
यौवराज्यभरैकर्हः कुमारः काशिसुन्दरः ।
धर्माधर्ममयं राज्यं विचार्याचिन्तयच्चिरम् ॥ क्२९.४ ॥
क्षणक्षयिणि तारुण्ये जीविते वीचिचञ्चले ।
राज्ये स्वप्नविवाहेऽस्मिन्मोहमूले न मे मतिः ॥ क्२९.५ ॥
रागप्रलापबहुले मायाम्फमहे मुहुः ।
वेश्यारोदननिःसारे संसारे नास्ति सत्यता ॥ क्२९.६ ॥
प्रव्रज्यामनघस्तस्मादगारादनगारिकम् ।
निस्त्रिंशवृत्तिसंसक्ताभिरागः किं विभूतिभिः ॥ क्२९.७ ॥
राजसूनुर्विचिन्त्येति विवेकविमलाशयः ।
उवाचाभ्येत्य भूपालमरण्यगमनोत्सुकः ॥ क्२९.८ ॥
मम संभोगवर्गोऽयं राजन्नैवोपयुज्यते ।
यौवराज्याभिषेकार्हः समारम्भो निवार्यताम् ॥ क्२९.९ ॥
क्रोधाग्नितप्ताः सुतरामेतास्तात न मे मताः ।
बद्धबन्धभयायासजनन्यो राजसंपदः ॥ क्२९.१० ॥
व्याप्ताः क्रूरतराचारैर्ज्वलिताः पार्थिवश्रियः ।
कुर्वन्ति कस्य नोद्वेगं श्मशानाग्निशिखा इव ॥ क्२९.११ ॥
छत्रसंछादिता लोकाश्चामरानिललोलिताः ।
पतन्ति पातकश्वभ्रे मदक्षीबाः क्षितीश्वराः ॥ क्२९.१२ ॥
मृदुभोगांशुकाभ्याससुकुमारे महीभुजाम् ।
काये पतति पर्यन्ते क्लेशः कुलिशदारुणः ॥ क्२९.१३ ॥
चिन्तासंततसंतापतीव्रतृष्णाप्रलापिनाम् ।
राज्यज्वरजुषां नैषां मोहमूर्च्छा निवर्तते ॥ क्२९.१४ ॥
वक्राणां रत्नदीप्तानां द्विजिहानां पदे पदे ।
छिद्रसंदर्शिनां राज्ञां व्यापारः परमारणम् ॥ क्२९.१५ ॥
नृपवंशशतोच्छिष्टां मन्यते मामनन्यगाम् ।
इतीव श्रीः क्षीतीशानां हारचामरहासिनी ॥ क्२९.१६ ॥
व्यञ्जितव्यजनोच्छ्वसा लक्ष्मीर्मुक्ताश्रुसंततिः ।
राज्ञां मोहाभृतातीतभूपतिस्मरणादिव ॥ क्२९.१७ ॥
तस्माद्व्रजामि प्रव्रज्याविवर्जितजनस्थितिः ।
संतोषशीतलच्छायं संतापशमनं वनम् ॥ क्२९.१८ ॥
अविश्रान्तस्य संसारपथपान्थस्य दुर्वहः ।
कायोऽस्य यत्सदापायः किं पुनः पृथिवीभरः ॥ क्२९.१९ ॥
इति पुत्रवचः श्रुत्वा भूप्तिर्भृशमप्रियम् ।
प्रव्रज्याशब्दचकितः सोद्वेगस्तमभाषतः ॥ क्२९.२० ॥
अस्य वंशस्य महतः साम्राज्यस्य वृद्धये ।
आशानिबद्धवृद्धेन त्वयि पुत्र मया परम् ॥ क्२९.२१ ॥
वत्स संकल्पभन्गं मे न काले क्र्तुमर्हसि ।
इदं तव महच्छायं यौवनं न वनोचितम् ॥ क्२९.२२ ॥
समन्त्राभ्यासयुक्तानां शक्तानां साधुदर्शने ।
जितेन्द्रियाणां सरव्त्र नृपाणामवनं तपः ॥ क्२९.२३ ॥
स्वपदेऽपि सरोजस्य निःसङ्गसलिलस्थितिः ।
दृष्ट्वा वनेऽप्यशोकस्य ललनाचरणाहतिः ॥ क्२९.२४ ॥
स्वगेहसुलभैर्भोगैर्यावद्दृष्टिविसूचिका ।
तावदेते परित्युक्तं शक्यन्ते विषयाः क्षणम् ॥ क्२९.२५ ॥
सुखमन्तः परित्यज्य स्वजनं गृहनिर्गतः ।
अभ्यस्तभोगचिरहक्लेशं न सहते जनः ॥ क्२९.२६ ॥
श्रूयते स्मर्यते धर्मः क्रियते च सुखाद्गृहे ।
वने शुष्यन्ति शुष्काणां श्रवणास्मरणक्रियाः ॥ क्२९.२७ ॥
क्षरत्क्षतजपादस्य दर्भसंदर्भसूचिभिः ।
ततः किं दुःखमपरं परलोले भविष्यति ॥ क्२९.२८ ॥
भुञ्जानं जनमीक्षन्ते याताश्चर्मास्थिशेषताम् ।
परदतं सदाश्नन्ति प्रेता इव तपस्विनः ॥ क्२९.२९ ॥
वने निवसनं पुत्र पांशुप्रावरणं समम् ।
पालनं ब्रह्मचर्यस्य मकराकरशोषणम् ॥ क्२९.३० ॥
दावाग्निधूमविकटभ्रुकुटिमुखेषु गोनासवासघनघूकगुहागृहेषु ।
सिंहाहतद्विरदलोहितलोहितेषु त्यक्त्वा गृहं भवति कस्य धृतिर्वनेषु ॥ क्२९.३१ ॥
कामी संयममिच्छति स्मरति च श्यामारतेः संयमी
तृप्तस्तीव्रतरव्रतेषु रमते भक्ष्यं क्षुधा काङ्क्ष्ःति ।
एकाकी जनमीहते जनवनोद्वेगी वनं वाञ्छति
त्यक्त्वान्वेषणतत्पराः पुनरपि प्राप्यावमानं जनाः ॥ क्२९.३२ ॥
न मां पुत्र परित्यज्य गहनं गन्तुमर्हसि ।
भवन्तु तव शत्रूणां वनवासमनोरथाः ॥ क्२९.३३ ॥
व्यक्तमौक्तिकहासिन्यः करवाललता इव ।
त्यक्ता न पुनरायान्ति मानिन्यो नृपसंपदः ॥ क्२९.३४ ॥
इत्युक्रोऽप्यसकृत्पित्रा निश्चयान्न चचाल सः ।
वज्ररत्नशिखाकल्पः संकल्पो हि महात्मनाम् ॥ क्२९.३५ ॥
जननीभिरमात्यैश्च बन्धुपौरमहत्तमैः ।
स प्रार्थितोऽप्यभून्मौनी निराहारो दिनत्रयम् ॥ क्२९.३६ ॥
राजभोगी तपस्वी वा जीवत्वेष निजेच्छया ।
कामानुवर्ती लोलोऽयमित्यूचिः सचिवा नृपम् ॥ क्२९.३७ ॥
स कथंचिदनुज्ञातः साश्रुनेत्रेण भूभुजा ।
ययौ पौरजनाक्रन्दमौनी मुनितपोवनम् ॥ क्२९.३८ ॥
वैराग्यपरिपाकेण तत्र मैत्रीपवित्रिताम् ।
भेजे स सर्वसत्त्वेषु विवेकदयितां दयाम् ॥ क्२९.३९ ॥
बभूवुस्तत्प्रभावेण तत्र सर्ववनौकसाम् ।
जातिवैराजलत्यागशीतलाश्चित्तवृत्तयः ॥ क्२९.४० ॥
त्यक्ते प्राणवधे प्रसक्तहरिणीवृन्दैः पुलिन्दैः परं
सिंहैर्वारणदारणन्युपरमे सर्वाङ्गसङ्गीकृते ।
मायूरावरणैर्दरिद्रजघना मुक्ताकलापोज्झितास्
तत्रोच्छ्वासविरागशुष्यदधरा जाताः किराताङ्गनाः ॥ क्२९.४१ ॥
क्षमां त्यक्त्वाब्धिवसनां सरव्भूतक्षमाश्रितः ।
सोऽभवत्क्षान्तिवादीति विशुतः काशिसुन्दरः ॥ क्२९.४२ ॥
अत्रान्तरे महीहर्षे ब्रह्मदत्ते दिवं गते ।
उद्वेग इव भूतानां भूपालः कलिभूरभूत् ॥ क्२९.४३ ॥
अथदभ्रभ्रमद्भृङ्गभ्रूभङ्गमलिनाननः ।
मुनिसंयमविद्वेषी वसन्तः प्रत्यदृश्यत ॥ क्२९.४४ ॥
मदनोन्मादभुतस्य प्रोद्भूतस्य मृगीदृशाम् ।
मानविध्वंसदूतस्य चुतस्य रुरुचे रुचिः ॥ क्२९.४५ ॥
रक्ताशोकस्य पार्श्वस्थलतालिङ्गनशङ्कितः ।
ईर्ष्यालुरिव पुष्पाणि जहार मलयानिलः ॥ क्२९.४६ ॥
उद्यानयौवने तस्मिन् काले कोकिलसंकुले ।
सान्तःपुरो नृपः प्रायाद्वनालोकनकौतुकी ॥ क्२९.४७ ॥
नानावर्णपतत्पुष्पप्रकारप्रचितानि सः ।
पश्यन् वनानि रम्याणि शनैः प्राप तपोवनम् ॥ क्२९.४८ ॥
वनस्थलीषु कान्तासु तत्र कन्यासखश्चिरम् ।
विहृत्य रतिविश्रान्तः क्षस्णं निद्रामवाप्तवान् ॥ क्२९.४९ ॥
अपूर्वकुसुमस्मेराश्चिन्वानास्तत्र मञ्जरी ।
अन्तःपुराङ्गनाश्चेरुः संचारिण्यो लता इव ॥ क्२९.५० ॥
अत्रान्तरे क्षान्तिवादी विविक्तोद्देशनिर्वृतः ।
एकान्ते निश्चलस्तस्थौ शान्तिमन्तर्विचिन्तयन् ॥ क्२९.५१ ॥
अमन्दानन्दचिष्यन्दी वन्दनीयो मनीषिणाम् ।
कृशोऽप्यकृशसौन्दर्यः शशीव प्रथमोदितः ॥ क्२९.५२ ॥
परिणाममनोज्ञेन रेखासंस्थानशोभिना ।
पुराणचित्ररूपेण नैव शून्या तदाकृतिः ॥ क्२९.५३ ॥
तं दृष्ट्वा राजललनाश्चित्तदर्पणमार्जनम् ।
तत्रैव निश्चलास्तस्थुस्ताश्चित्रलिखिता इव ॥ क्२९.५४ ॥
प्रबुद्धोऽथ नृपः क्षिप्रं नापश्यद्दयिताः पुरः ।
ददर्श वनमन्विष्य परिवार्य स्थिता मुनिम् ॥ क्२९.५५ ॥
भुजङ्गस्ता विलोक्यैव श्वसन्नीर्ष्याविषाकुलः ।
विससर्ज वरोचूपहलाहलमिवोत्कटम् ॥ क्२९.५६ ॥
कस्त्वं मुनिव्यञ्जनया चित्रकृत्रिममात्रया ।
मुष्णासि मुग्धगृदया नूनं नारीप्रतारकः ॥ क्२९.५७ ॥
परस्त्रीहरणे ध्यान जपस्तद्विघ्नवारणे ।
धूर्तानां परमोपायः सरलाश्वासनं तपः ॥ क्२९.५८ ॥
मुखमाधुर्यधूर्तस्य वृत्तिर्वल्कलिनस्तव ।
अहो नु मोहजननी वने विषतरोरिव ॥ क्२९.५९ ॥
मुनिकल्पसमाकल्पश्चरितं पुनरीदृशम् ।
सिद्धिं संभावितां वापि वेत्ति कस्तत्त्वमान्तरम् ॥ क्२९.६० ॥
इत्युक्ते भूभुजा क्रोधादक्रोधमधुराशयः ।
निर्विकारेण मनसा क्षान्तिवादी जगाद्तम् ॥ क्२९.६१ ॥
क्षान्तिवादी मुनिरहं न मां शन्कितुमर्हसि ।
एतासु निर्विशेषो मे कान्तासु च तलासु च ॥ क्२९.६२ ॥
इति तेनोक्तमाकर्ण्य क्षान्तं पश्यामि तेऽधुना ।
इति ब्रुवाणश्चिच्छेद हस्तौ तस्यासिना नृपः ॥ क्२९.६३ ॥
विशसेऽपि क्षमाशीलं निविकारं विलोक्य तम् ।
चकर्त चरणौ तस्य प्रशमाय समत्सरः ॥ क्२९.६४ ॥
प्रदिशन्त्यशिवं मार्गे जिह्वया दूषयन्ति च ।
लुम्पन्त्यङ्गानि पर्यन्ते खलाः कौलेयका इव ॥ क्२९.६५ ॥
ताडनेऽपि क्षमासक्ताः स्कन्धच्छेदेऽपि मौनिनः ।
शीतलास्तीव्रतापेऽपि सरलाः सरला इव ॥ क्२९.६६ ॥
निकृत्तपाणिचरणः स संस्तभ्य पृथुव्यथाम् ।
रक्षन्मन्युमनःक्षोभं क्षमया समचिन्तयत् ॥ क्२९.६७ ॥
त्यक्तान्यकर्मणानेन च्छिन्नान्यङ्गाणि मे यथा ।
संसारविषमक्लेशच्छेदं कुर्यामहं तथा ॥ क्२९.६८ ॥
कोपमोहादवज्ञाय नृपतौ भ्रातरं मुनिम् ।
पुरीं प्रयाते रजसा शोकम्लानेव भूरभूत् ॥ क्२९.६९ ॥
ततस्तद्दुःखकुपिता राज्ञे तत्क्षान्तिदेवता ।
चक्रे नगर्यां दुर्भोक्षमरकावृष्टिविप्लवम् ॥ क्२९.७० ॥
नैमित्तिकेभ्यो विज्ञाय राजामुनिपराभवात् ।
देवताकोअपजं दोषं तं प्रसादयितुं ययौ ॥ क्२९.७१ ॥
निपत्य पादयोस्तस्य क्षमस्वेत्यभिधाय सः ।
पश्चात्तापविषादेन निश्चेतन इवाभवत् ॥ क्२९.७२ ॥
तमब्रवीत्क्षान्तिवादी राजन्मन्युर्न मेऽण्वपि ।
कर्मरेखापरिच्छेदादीदृशी भवितव्यता ॥ क्२९.७३ ॥
सर्वाणि न गणयति स्वच्छन्दा भवितव्यता ।
न धैर्यं न गुणं नार्थं न तपो नापि गौरवम् ॥ क्२९.७४ ॥
अन्त्रस्थितप्रसवबीजपरंपराणि भिन्नानि कालपरिपाकविचित्रितानि ।
जन्मस्थले विपुलमूलबलस्य जन्तुर्भुङ्क्ते फलानि निजकर्ममहीरुहस्य ॥ क्२९.७५ ॥
त्वयि तस्मान्न मे कश्चिद्विकारोऽस्ति महीपते ।
सत्येनानेनमे पश्य रुधिरं क्षीरतां गतम् ॥ क्२९.७६ ॥
अङ्गच्छेदेऽप्यकलुषि बभूव यदि मे मनः ।
सत्येनैतेन श्चिष्टानि तान्येवाङ्गानि सन्तु मे ॥ क्२९.७७ ॥
इति शुद्धधियस्तस्य तीब्रसयोपयाचनात् ।
श्लिष्टान्यङ्गानि तान्येव सहसा स्वास्थ्यमाययुः ॥ क्२९.७८ ॥
मुकुटस्पृष्टचरणस्तमुवाच नृपस्ततः ।
मुने महाप्रभावोऽसि तपसा तत्किमिच्छसि ॥ क्२९.७९ ॥
पुण्यहस्तावलम्बेन म्फान्धं करुणानिधे ।
पापावसाने पतितं मां त्वमुद्धर्तुमर्हसि ॥ क्२९.८० ॥
इत्यर्थितः क्षितीशेन प्रत्यभाषत तं मुनिः ।
संतारणाय मग्नानां बद्धानामपि मुक्तये ॥ क्२९.८१ ॥
आश्वाशनाय भीतानां निर्वाणाय विमुह्यताम् ॥ क्२९.८२ ॥
यदा तु सम्यक्संबोधिं तामवाप्नोष्यनुत्तराम् ।
मोहच्छेदं करिष्यामि तदा ज्ञानासिना तव ॥ क्२९.८३ ॥
प्रययौ मुनिरित्युक्त्वा तमामन्त्र्य स्वमाश्रमम् ।
तमेव मनसा ध्यायन् राजधानीं नृपोऽप्यगात् ॥ क्२९.८४ ॥
क्षान्तिवादी स एवाहं कौण्डिन्यः कालभूरयम् ।
आसाद्य सम्यक्संबोधिमृद्धृतोऽयं मयाधुना ॥ क्२९.८५ ॥
इति सुगतमुखारविन्दनिर्मितमधुरमधुप्रतिमं वचः प्रसन्नम् ।
भ्रमरभव इवोदितप्रमोदः किमपि बभूव निपीय भिक्षुसंघः ॥ क्२९.८६ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां काशीसुन्दरावदानं नाम ऊनत्रिंशः पल्लवः ॥


३०. सुवर्णपार्श्वावदानम् ।

श्लाष्यः कोऽपि स सत्त्वसारसरलः सौजन्यपुण्यस्थितिर्
निन्द्य कोऽपि स धर्ममार्गगमने विघ्नः कृतघ्नः परम् ।
चित्रं यच्चरितं विचार्य सुचिरं रोमाञ्चचर्चाचितस्
तुल्यं याति जनः सबाष्पनयनस्तद्वर्पने मूकताम् ॥ क्३०.१ ॥
देवदत्तप्रसङ्गेन भिक्षुभिर्भगवान् पुरा ।
पृष्टः कथामकथयत्पूर्ववृत्तान्तसंश्रयाम् ॥ क्३०.२ ॥
महेन्द्रसेननामाभूद्वाराणस्यां नरेश्वरः ।
ययुः क्षितीश्वराः सर्वे यस्य लक्ष्म्या विलक्षताम् ॥ क्३०.३ ॥
चन्द्रप्रभाभवत्तस्य दिव्यकीर्तिरिव प्रिया ।
यस्याः पत्युः प्रभावेण स्वप्नाः सत्यत्वमाययुः ॥ क्३०.४ ॥
बभूव समये तस्मिन्मृतयूथपतिर्वने ।
सुवर्णपार्श्व इत्याप्तनामा हेममयच्छविः ॥ क्३०.५ ॥
नीलरत्नोदरास्फरमुक्ताहारनिभप्रभा ।
अभूद्दृष्टिच्छटा यस्य भूषणं काननश्रियः ॥ क्३०.६ ॥
प्रवालवल्लिशृङ्गस्य चित्ररत्नचितत्वचः ।
तस्याश्चर्यसुधाम्भोधिलहरी रुरुचे रुचिः ॥ क्३०.७ ॥
बोधिसत्त्वावतारस्य तस्य कान्तमभूद्वपुः ।
पूर्वं सुकृतचित्रस्य लक्षणं हि सुरूपता ॥ क्३०.८ ॥
दीर्घदृष्टिर्बभूवास्य वयस्यो वृद्धवायसः ।
लब्धकान्वेषणत्रासे दिग्विलोकनतत्परः ॥ क्३०.९ ॥
तौ कथाभिर्मिथः प्रीत्या विविक्तेषु विजस्रतुः ।
प्राक्पुण्यैर्जायते वाणी तिरश्चामपि माणुषी ॥ क्३०.१० ॥
स कदाचिज्जलान्वेषी यथूनाथः सहानुगैः ।
तटिन्या वेणुमालिन्याः पुलिनं समुपाययौ ॥ क्३०.११ ॥
तस्य तारतरं श्रुत्वा दीर्घमाक्रन्दनिश्वनम् ।
हरिणा दुद्रुवुः सर्वे ग्रीवावलनविभ्रमैः ॥ क्३०.१२ ॥
सुवर्णपार्श्वस्तु तदा कृपापाशवशीकृतः ।
तत्रैव निश्चलस्तस्थौ मर्मविद्ध इवेषुणा ॥ क्३०.१३ ॥
तदुद्धरणसंनद्धं दीर्घदृष्टिं विलोक्य तम् ।
काकः प्रोवाच न सखे युक्तोऽतं ते समुद्यमः ॥ क्३०.१४ ॥
पुष्पोपमा विपत्काले कृतार्थाः कुलिशोपमाः ।
कृतमेते न मन्यन्ते स्वकायसुहृदः खलाः ॥ क्३०.१५ ॥
इत्यसौ वार्यमाणोऽपि काकेन करुणाकुलः ।
अवतीर्याशु सरितं सरलस्तमतारत(?) ॥ क्३०.१६ ॥
विमुच्य बन्धनान्यस्य स शृङ्गाभ्यामशङ्कितः ।
तं पादपतितं दीनमवदद्गन्तुमुद्यतम् ॥ क्३०.१७ ॥
न त्वया कथनीयोऽहमत्रस्थः कस्यचित्सखे ।
प्रार्थयन्ते सुवर्णं मां चर्मलुब्धा हि लुब्धकाः ॥ क्३०.१८ ॥
इत्युक्तस्तेन विनयात्तत्तथेत्यभिधाय सः ।
ययौ कुटिलकाख्यस्तं प्रणम्य प्रस्तुतस्तुतिः ॥ क्३०.१९ ॥
अत्रान्तरे नरपतेः पत्नी चन्द्रप्रभा निशि ।
स्वप्ने ददर्शासनस्थं मृगं सद्धर्मवादिनम् ॥ क्३०.२० ॥
सत्य्स्वप्नाथ सा देवी प्रबुद्धा नृपमब्रवीत् ।
सुवर्णहरिणः स्वप्ने देव दृष्टो मयाद्भुतः ॥ क्३०.२१ ॥
तमहं द्रष्टुमिच्छामि साक्षादुपगतं मृगम् ।
अङ्कादिव मृगाङ्कस्य निर्गतं राहुशङ्कया ॥ क्३०.२२ ॥
इत्युक्तः प्रणयात्प्रीतो देव्या च पृथिवीपतिः ।
मृगग्रहाय व्यसृजत्लुब्धकान् द्रविणप्रदः ॥ क्३०.२३ ॥
ततः प्रतिनिवृत्तास्ते वनमन्विष्य लुब्धकाः ।
निष्फलागमनक्रुद्धं सकम्पा जगदुर्नृपम् ॥ क्३०.२४ ॥
इयतीं जगती देव विचिता निचिताचलैः ।
भ्रान्ता वयमविश्रान्ता न लभ्यस्तद्विधो मृगः ॥ क्३०.२५ ॥
आश्चर्यरचनाकृष्टलोचनश्चारुलोचनः ।
स्वप्नसंपन्नरूपोऽसौ हिरण्यहरिणः कुतः ॥ क्३०.२६ ॥
मनो विनोदने तस्मिन् यदि देव प्रसीदति ।
कुर्वन्तु काञ्चनमृगं कुशलाः केऽपि शिल्पिनः ॥ क्३०.२७ ॥
इति श्रुत्वा स नृपतिर्ददद्बहुतरं धनम् ।
मृगान्वेषणसंकल्पे बभूवाभिनिवेशवान् ॥ क्३०.२८ ॥
ततः कुटिलकोऽभ्येत्य नृपं श्रुत्वा बहुप्रदम् ।
उवाच द्रविणादाने लुब्धकेभ्योऽपि लुब्धधीः ॥ क्३०.२९ ॥
प्रसादः क्रियतां देव मृगं संदर्शयाम्यमह् ।
दृष्टः कनकसाराङ्ग सारङ्गः समया वने ॥ क्३०.३० ॥
इत्याकर्ण्य क्षितिपतिः प्रहर्षित्फुल्ललोचनः ।
भद्र संदर्शय क्कासौ क्कासावित्यवदन्मुहुः ॥ क्३०.३१ ॥
तमेवाग्रेसरं कृत्वा मृगमार्गप्रदर्शकम् ।
ससैन्यः स ययौ स्वच्छच्छत्रचन्द्रोदयाचलः ॥ क्३०.३२ ॥
दीर्घदृष्टिर्ददर्शाथ काकस्तरुशिरःस्थितः ।
गजवाजिव्रजोदीर्णरेणुप्रवारणं वनम् ॥ क्३०.३३ ॥
सुवर्णपार्श्वमभ्येत्य जगाद मृययूथपम् ।
हितमुक्तं मया पूर्वं न श्रुतं न कृतं त्वया ॥ क्३०.३४ ॥
स एष पुरुषः प्राप्तः संनद्धैः सह धन्विभिः ।
मया निवारितेनापि संहारेण न तृप्यते ॥ क्३०.३५ ॥
अधुना क्क नु गन्तव्यं किं कर्तव्यं भयोद्भवे ।
हितं किमनुवर्तव्यं तुल्यं मर्तव्यमेव वा ॥ क्३०.३६ ॥
कृतघ्नः क्रूरचरितः क्षुद्रोऽयं संघपातकह् ।
त्वयैवात्मविनाशाय रक्षितो विषपादपः ॥ क्३०.३७ ॥
स्वशरीरप्रदस्यापि संहारेण न तृप्यते ।
ससत्त्वसागरग्रासी कृतघ्नो वाडवानलः ॥ क्३०.३८ ॥
उपकारः कृतघ्नेषु विश्वासः कुटुलात्मसु ।
उपदेशश्च मूर्खेषु कर्तुर्दोषाय केवलम् ॥ क्३०.३९ ॥
इति काकेन कथिते प्रत्यासन्ने च पार्थिवे ।
अचिन्तयत्प्राप्तकालं हितं यूथस्य यूथपह् ॥ क्३०.४० ॥
सुभटानामियं सेना विगाहेद्गहनं महत् ।
करोति मत्प्रसङ्गेन मुहूर्तेनैव निर्मृगम् ॥ क्३०.४१ ॥
तस्मात्सैन्यप्रधानस्य गच्छामि स्वयमन्तिकम् ।
एकस्यैव वधो मेऽस्तु सर्वे जीवन्त्वमी मृगाः ॥ क्३०.४२ ॥
इति निश्चित्य स ययौ समीपं भूपतेर्मृगः ।
परप्राणपरित्राणे तृणं प्राणां महात्मनाम् ॥ क्३०.४३ ॥
तमायान्तं द्रुतं दृष्ट्वा हृष्टः कुटुलकह्पुरः ।
सोऽयमित्याशु पाणिभ्यां राज्ञे दूरे व्यदर्शयत् ॥ क्३०.४४ ॥
तत्क्षणे द्रोणशापेन वज्रेणेव निपातिना ।
करु परिच्युतौ तस्य पापपादपपल्लवौ ॥ क्३०.४५ ॥
तद्वृत्तं विस्मितः श्रुत्वा मृगेण कथितं नृपः ।
अभूत्कृतघ्नचरिते धिक्कारमुखराननः ॥ क्३०.४६ ॥
ततः क्षितिपतिः प्रीत्या परया मृगम् ।
तं निनाय स्वनगरीं गौरवेण गरीयसा ॥ क्३०.४७ ॥
राजधानीमथासाद्य तस्मै रत्नासनं नृपः ।
दत्वा सान्तःपुरामात्यस्तस्याग्रे समुपाविशत् ॥ क्३०.४८ ॥
स बोधिसत्त्वो हरिणस्तस्यां पर्षदि दिव्यधीः ।
धर्मं दिदेश येनाभूज्जनः शिक्षापदान्वितः ॥ क्३०.४९ ॥
सुवर्णपार्श्वः सारङ्गः सोऽयमेवाभवं पुरा ।
योऽभवत्कुटिलः क्रूरो देवदत्तः स चाधुना ॥ क्३०.५० ॥
इति सुकृतचितं भगवता भवभीतिभिदा
कथितमुदारसत्त्वरुचिरस्य ततश्चरितम् ।
प्रशममयं निशम्य कुशलाय स भिक्षुगणः
किमपि बभूव पुण्यपरिपाकविवेकरुचिरः ॥ क्३०.५१ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सुवर्णपार्श्वावदानं त्रिंशः पल्लवः ॥


३१. कल्याणकार्यवदानम् ।

प्रत्यक्षलक्षणपरीक्षित एष लोके संलक्ष्यते सुजनदुर्जनयोर्विशेषः ।
अर्कः प्रकाशविशदं विदधाति विश्वमन्धीकरोति निखिलं जगदन्धकारः ॥ क्३१.१ ॥
सर्वज्ञः पूर्ववृत्तान्तमशेषमवलोकयन् ।
अस्मिन्नेव कथारम्भे भगवान् पुनरब्रवीत् ॥ क्३१.२ ॥
नृपः पातलिपुत्राख्ये पुरे भूमिपुरंदरः ।
अभूत्पुरंदरो नाम मन्दिरं पुण्यसंपदः ॥ क्३१.३ ॥
कल्याणकारी तस्याभूत्सूनुर्गुणगणोन्नतः ।
अकल्याणाभिधानश्चद्वितीयो निर्गुणः सुतः ॥ क्३१.४ ॥
कल्याणकारी सर्वार्थिकरुणाकल्पपादपः ।
छत्रावशेषामकरोद्दाणशीलः श्रियं पितुः ॥ क्३१.५ ॥
तस्मै मनोरमां नाम पुण्यसेनो महीपतिः ।
दूतं विसृज्य लेखेन स्वसुतां वचसा ददौ ॥ क्३१.६ ॥
प्रत्यासन्नविवाहोऽथ नृपं राजसुतोऽभ्यधात् ।
प्राप्तः परिणयस्तात संप्रत्येष न मे मतः ॥ क्३१.७ ॥
वात्सल्यपेशलतया मदात्ताः प्रकृतिश्रियः ।
मया दानव्यसनिना कोषस्ते शुषिरीकृतः ॥ क्३१.८ ॥
तस्मात्प्रवहणेनाहं समुत्तीर्य महोदधिम् ।
रत्नद्वीपं व्रहाम्येव दिव्यरत्नार्जनोद्यतः ॥ क्३१.९ ॥
दिव्यसंपदमासाद्य करिष्ये दारसंग्रहम् ।
कलत्रमकृतार्थस्य त्रासनं सुखसंपदाम् ॥ क्३१.१० ॥
इयुक्त्वा स पितुः प्राप्य शासनं चरणानतः ।
जगाहे जलधिं लोलकल्लोलालिङ्गिताम्बरम् ॥ क्३१.११ ॥
भ्राता तमनुवज्राज सौजन्यव्यञ्जनोऽनुजः ।
निर्गुणः सगुणद्वेषद्रोहमन्तर्विचिन्तयन् ॥ क्३१.१२ ॥
ज्येष्ठस्तमब्रवीद्वत्स समुद्रे कर्मविप्लवात् ।
अहं ग्राह्यस्त्वया स्कन्धे जाते प्रवहणक्षये ॥ क्३१.१३ ॥
इति भ्रात्रा कृताश्वासस्तथेत्यूवे स तं शठः ।
दोषोद्यतः प्रणयितां खलः समवलम्बते ॥ क्३१.१४ ॥
ततः प्रवाहणारूढः पवनैरनुकूलताम् ।
यातैः पुण्यैरिव प्राप्य रत्नद्वीपं नृपात्मजः ॥ क्३१.१५ ॥
दोव्यरत्नानि संप्राप्य प्रत्यावृत्ते ततः शनैः ।
राजपुत्रे प्रवहणं द्रागभञ्जत्प्रभञ्जनः ॥ क्३१.१६ ॥
भग्ने प्रवहणे तस्मिन् भ्रातरं पूर्वसंविदा ।
स जग्राह शठः कण्ठे तं भुजङ्ग इवानुजः ॥ क्३१.१७ ॥
कर्मवातेरितस्तूर्णं कूलं प्राप्य नृपात्मजः ।
अवाप सहसा निद्रामान्ध्यप्रथमदूतिकाम् ॥ क्३१.१८ ॥
तस्य सुप्तस्य रत्नानि दृष्ट्वा बद्धान्यथानुजः ।
प्रहर्तुं व्यसनच्छिद्रे क्रूरः समुपचक्रमे ॥ क्३१.१९ ॥
उत्पाट्य गाढबद्धस्य स तस्य नयनाम्बुजम् ।
तं तारकं भयाम्भोधौ चकार गततारकम् ॥ क्३१.२० ॥
आत्तरत्ने गते तस्मिन् वाजसूनुर्गतद्युतिः ।
मातङ्गोन्मूलिताम्भोज इवाभूत्कमलाकरः ॥ क्३१.२१ ॥
स बभूव निरालोकः शोकतीव्रतमोवृतः ।
कृष्णपक्षक्षपारम्भ इव सूर्येन्दुवर्जितः ॥ क्३१.२२ ॥
अत्रान्तरे समायातस्तं देशं गोकुशाधिपः ।
राजपुत्रं विलोक्यान्धमभूत्संक्रान्ततद्व्यथह् ॥ क्३१.२३ ॥
स तं नीत्वा स्वनिलयं परिचर्यापरः पार्ः ।
तस्यासीद्गुणसौजन्यस्नेहावेशवशीकृतः ॥ क्३१.२४ ॥
तत्र शोकसुजां शान्त्यै सदा चेतोविनोदिनीम् ।
वीणां स्वरप्रवीणोऽसौ पूर्वाभ्यस्तमवादयत् ॥ क्३१.२५ ॥
सत्संगमः पृथुविवेककथाभोयोगः
काव्यासवः प्रियसुहृत्प्रणयो विहारः ।
वीणास्वनह्कुसुमकान्तवनान्तवासः
शोकाग्नितप्तमनसाममृतावगाहः ॥ क्३१.२६ ॥
तस्य गोपपतेः पत्नी तीगवीणाविचक्षणा ।
पश्यन्ती राजतनयं प्रययौ साभिलाषताम् ॥ क्३१.२७ ॥
कृतोपदेशा सततं कुटिला वीणयेव सा ।
मूर्च्छन्ती नवरागेण सोत्कण्ठा समचिन्तयत् ॥ क्३१.२८ ॥
सुभगोऽयं ममातीव दृशि चित्ते च चर्तते ।
निवर्तते न मे तापः प्रेम्णि चेन्न प्रवर्तते ॥ क्३१.२९ ॥
धन्येयं नखसंपातैः क्कणन्ती रागिणीमुहुः ।
यातास्य वल्लकी पुण्यैरङ्कारोहणयोग्यताम् ॥ क्३१.३० ॥
इति संचिन्त्य सा स्वैरं तमुवाच सविभमम् ।
स्पृशन्ती तत्कराम्भोजं सकम्पकरपल्लवा ॥ क्३१.३१ ॥
ललनासुलभां लज्जां ममेदं त्वद्गतं मनः ।
अकृतज्ञ इव प्रीतिं न संस्मरति मानद ॥ क्३१.३२ ॥
न शीलं न कुलाचारं नाभिमानं न संशयम् ।
अपेक्षन्ते स्मरक्षिप्ता वैलक्ष्यरहिताः स्त्रियः ॥ क्३१.३३ ॥
प्रणयान्मम सङ्कल्पं सफलं कर्तुमर्हसि ।
भवन्ति मानिताः प्रीत्यै देवता इव योषितः ॥ क्३१.३४ ॥
इति तस्य वचः श्रुत्वा भिन्नस्वरविशृङ्खलम् ।
चपलां राजपुत्रस्तां त्रस्तान्तःकर्णोऽवदत् ॥ क्३१.३५ ॥
नेयं मातः समुचिता सतः शीलपरिच्युतिः ।
धिक्किल्बिषविषस्पृष्टः नष्टशीलस्य जीवितम् ॥ क्३१.३६ ॥
पराङ्गनापरिष्वङ्गमङ्गैरङ्गीकरोति यः ।
आलिङ्गति पतङ्गोऽयं नरकाग्निशिखां पुनह् ॥ क्३१.३७ ॥
परोपकारनिरताह्परदारनिरादराः ।
येऽप्यहिंसाव्यसनिनस्ते जीवन्ति मृताः परे ॥ क्३१.३८ ॥
इति तेनोक्तमाकर्ण्य साभूद्भग्नमनोरथा ।
निधनाभ्यधिकः प्रीतिप्रतिषेधो हि योषिताम् ॥ क्३१.३९ ॥
ततः स्वपतिमभ्येत्य भुजङ्गी भङ्गमागते ।
मनोरथे मन्युविषं वमन्तीव जगाद सा ॥ क्३१.४० ॥
परवत्सलता साधो दोषाय सरलस्य ते ।
को ह्यविज्ञातशीलानां स्वाधीनीकुरुते गृहम् ॥ क्३१.४१ ॥
परेषु भृशमाश्वासं स्पृशतस्ते न शोभनम् ।
गुप्तं चित्तं च वित्तं च जनो जानाति कस्य कः ॥ क्३१.४२ ॥
परदारसहस्राक्षस्त्वयान्धः स गृहे धृतः ।
दीनान्धजनवात्सल्यात्पश्य तस्योचितं फलम् ॥ क्३१.४३ ॥
अद्याहं तेन विजने संगमे भृशमर्थिता ।
यद्यस्य नयने स्यातां स्यात्कथं मे पलायनम् ॥ क्३१.४४ ॥
इत्युक्तः स तया कोपात्तप्तो गोपपतिर्भृशम् ।
द्वरे निष्कास्य तं चक्रे गेहं चित्तं च शीतलम् ॥ क्३१.४५ ॥
पिता त्यजति यत्पुत्रं सुहृन्मित्रं निहन्ति यत् ।
बन्धुच्छेदासिधाराणां तद्दाराणां विजृम्भितम् ॥ क्३१.४६ ॥
भ्रुवोर्दृशोर्यत्कौटिल्यं यत्तैक्ष्ण्यं यच्च चापलम् ।
कुचयोर्यच्च काठिन्यं तत्सर्वं हृदि योषिताम् ॥ क्३१.४७ ॥
कल्याणकारिसार्थेन पथः संतारितं शनैः ।
पितरि त्रिदिवं याते शुश्राव भ्रातरं नृपम् ॥ क्३१.४८ ॥
स पुरं पुण्यसेनस्य श्वशुरस्य महीपतेः ।
कालेन प्राप्प दूराध्वक्लेशप्रशमबान्धवम् ॥ क्३१.४९ ॥
अत्रान्तरे सुता तत्र महीभर्तुर्मनोरमा ।
वाचा दत्ता पुरा यस्मै तस्मिन्नब्धिच्युते श्रुते ॥ क्३१.५० ॥
आहूतेषु नरेन्द्रेषु निविष्टेषु यथाक्रमम् ।
आरुह्य रत्नशिबिकां स्वयंवरभुवं ययौ ॥ क्३१.५१ ॥
विलोकयन्ती भूपालान् सा शनैश्चललोचना ।
यदृच्छयागतं तत्र राजपुत्रं ददर्श तम् ॥ क्३१.५२ ॥
अन्धोऽपि तस्याः सहसास ययौ प्रियतां दृशोः ।
ग्रहमध्ये कुमुद्वत्या मेघान्धोऽपि प्रियः शशी ॥ क्३१.५३ ॥
नृपेषु प्रतियातेषु विलक्षेष्वफलागमात् ।
महीपतिसुतान्तस्तं वव्रे गुणविनिर्गतम् ॥ क्३१.५४ ॥
सापु हारं परिक्षिप्य कण्ठे तस्यायतेक्षणा ।
शनकौर्मधुरालापा त्वद्वशास्मीत्युवाच तम् ॥ क्३१.५५ ॥
स्त्रीवृत्तचकितः सोऽपि विजने तामभाषत ।
प्रज्ञादरिद्रया नेदं स्त्रिया युक्तं कृतं त्वया ॥ क्३१.५६ ॥
स्मरसौहार्दमित्रेषु पद्मनेत्रेषु राजसु ।
स्थितेषु वन्ध्यजन्मान्धः कस्मादस्मि वृतस्त्वया ॥ क्३१.५७ ॥
अन्यवक्र्क्रावलोकिन्यो जायाश्चक्षुष्मतामपि ।
वधूः किं पुनरन्धस्य दिनेऽप्यन्याभिसारिका ॥ क्३१.५८ ॥
ललनाभिर्न मे कृत्यं प्रत्ययस्तासु नास्ति मे ।
कुलकूलनिपातिन्यो निम्नगाः कुटिलाः स्तियः ॥ क्३१.५९ ॥
इत्युक्ता तेन परुषं लज्जालोला नृपात्मजा ।
तमूचे नाथ सर्वत्र न शङ्कां कर्तुमर्हसि ॥ क्३१.६० ॥
दृष्टदोषः क्कचिन्नार्यां यदि त्वमतिशङ्कितः ।
अदुष्टापि त्वया नाम तद्व्याप्ता क्रियते कथम् ॥ क्३१.६१ ॥
त्वय्येव यदि मे प्रीतिरनन्यशरणं मनः ।
तेन सत्येन ते नेत्रमेकं भवतु निर्मलम् ॥ क्३१.६२ ॥
इत्युक्तमात्रे सुदृशा दक्षिणं तस्य लेचनम् ।
सत्यानुभावेनाभूत्तत्प्रफुल्लकमलोपमम् ॥ क्३१.६३ ॥
राजपुत्रः प्रहृष्टोऽथ तां प्रसाद्य सिलोचनाम् ।
उवाच तन्मुखाम्भोजलावण्यगुणचिस्मित्ः ॥ क्३१.६४ ॥
कल्याणकारी सुभगः स एवाहं नृपात्मजः ।
यस्मौ पुरा त्वं गुरुणा वचसा प्रतिपादिता ॥ क्३१.६५ ॥
स एवाहं यदि परं निर्वैरः पाटने दृशः ।
तेन सत्येन नयनं स्वस्थं भवतु मेऽपरम् ॥ क्३१.६६ ॥
सत्योपयाचनेनेति सहसैवास्य लोचनम् ।
द्वितीयमपि वैमल्यमवाप सह चेतसा ॥ क्३१.६७ ॥
ततो विदितवृत्तेन पुण्यसेनेन भूभुजा ।
कृतसाहाय्यकः प्राप स्वराज्य स प्रियासखः ॥ क्३१.६८ ॥
कल्याण्कारी यः सोऽहं देवदत्तः स चानुजः ।
तेन पूर्वानुभावेन तद्विधोऽद्यापि वर्तते ॥ क्३१.६९ ॥
इत्युदारमुपकारनिर्मलं बोधिसत्त्वचरितं निशम्य ते ।
भिक्षवः खल्विचेष्टितं च तत्तुल्यमप्रतिमविस्मयं ययुः ॥ क्३१.७० ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कल्याणाकार्यवदानमेकत्रिंशः पल्लवः ॥


३२. विशाखावदानम् ।

वामाः सज्जनवामाः प्रायेण भवन्ति नीरोगिण्यः ।
तिमिरोन्मुखी सरागा क्षिपति रविं भूधरात्संध्या ॥ क्३२.१ ॥
देवदत्तस्य चरिते बहुजन्मान्तराश्रये ।
कथितेऽपि पुनः प्राह भगवान् ज्ञानसागरः ॥ क्३२.२ ॥
पुरा कलिङ्गविषये नृपतिः शत्रुभङ्गकृत् ।
श्रीमानभूदशोकाख्यः प्रख्यातासंख्यविक्रमः ॥ क्३२.३ ॥
तस्य शाखः प्रशाखश्च चत्वारः सदृशाः सुताः ।
अनुशाखो विशाखश्चेत्यभवन् भुवि विश्रुताः ॥ क्३२.४ ॥
तारुण्यमत्तास्ते पित्रा सपत्नीकाः प्रवासिताह् ।
सविकारनिकारेण पुत्रस्नेहोऽपि नश्यति ॥ क्३२.५ ॥
ते शनैः क्षीणपाथेया दुर्दशामिव दुःसहाम् ।
विकटामटवीं प्राप्यं क्षुत्क्षामाः समचिन्तयन् ॥ क्३२.६ ॥
एताः स्त्रियो विपत्काले गुल्फबन्धनशृङ्खलाः ।
कृच्छ्रलब्धे च भागिन्यः स्थिताः पर्णाशनेऽपि नः ॥ क्३२.७ ॥
इति चिन्तयतामासीत्तेषां स्त्रीबधनिश्चयह् ।
दुर्दशादग्धभाग्यानां घोरा संजायते मतिः ॥ क्३२.८ ॥
तेषां मध्याद्विशाखस्तु पापसंकल्पशङ्कितः ।
भार्यामादाय कृपया पलाय्य प्रययौ पृथक् ॥ क्३२.९ ॥
सा कलङ्कवती नाम भृशं वैक्लव्यमागता ।
दूराध्वधावनश्रान्ता मूर्च्छिता न्यपतद्भुवि ॥ क्३२.१० ॥
ततः सा करुणार्द्रेण भर्त्रा प्राणक्षयक्षणे ।
शरावेधसमुद्भूतं पायिता निजशोणितम् ॥ क्३२.११ ॥
तां रक्तपानसंप्राप्तजीवितां सत्त्वसागरः ।
स्वाङ्गं निष्कृत्य मांसेन प्राणवृत्तिमकारयत् ॥ क्३२.१२ ॥
निर्जलं घोरकान्तारं समुत्तीर्य क्रमेण तौ ।
प्रच्छायपादपश्यामं प्राप्तौ गिरिनदीतटम् ॥ क्३२.१३ ॥
विश्रान्तयोस्तयोस्तत्र कृत्तपादकरो नरः ।
तीव्राक्रन्दी नदीवेगेनोह्यमानः समाययौ ॥ क्३२.१४ ॥
दृष्ट्वैव करुणाश्लिष्टः कष्टां विपदमाश्रितः ।
विगाह्य सरितं दोर्भ्यां विशाखस्तमतारयत् ॥ क्३२.१५ ॥
ततः प्रत्यागतप्राणां तोयमूलफलादिभिः ।
स तं चक्रे दिनैरेव संरूढच्छेदनिर्व्यथम् ॥ क्३२.१६ ॥
स्वस्थोऽपि गतिवैकल्यान्नैव गन्तुं क्कचित्क्षमः ।
स तस्थौइ तत्र तत्पत्न्या काले कलितभोजनह् ॥ क्३२.१७ ॥
राजपुत्रस्तु जायायामभूद्विरलसंगमः ।
सिंहाल्परतयः शूराः प्रायेण विजिगीषवः ॥ क्३२.१८ ॥
दिव्यौषधिरसाहारपरिपूर्णतनुः शनैः ।
तत्पत्नी विकलायास्मौ चकार सुरतस्पृहाम् ॥ क्३२.१९ ॥
स्नेहेन नोपलिप्यन्ते न बध्यन्ते गुणेन च ।
गुरवे न च सज्जन्ति स्वेच्छस्पर्शसुखाः स्त्रियः ॥ क्३२.२० ॥
सा तेन निशि निःशब्दं रममाणा घनस्तनी ।
निःशङ्कसुरतातृप्ता पतिं विघ्नममन्यत ॥ क्३२.२१ ॥
सा पत्युः स्वैरिणी तेन विदधे वधसंविदम् ।
पापेषु शिक्षाकुशलाः कलुषाः किल योषितः ॥ क्३२.२२ ॥
सा शिरःशूलमतुलं वदन्ती स्वस्य छद्मना ।
चक्रे लिखितपापास्या ललाटे पट्टबन्धनम् ॥ क्३२.२३ ॥
तस्याः शिरोरुजां तीव्रां व्यतीतः पार्थिवात्मजः ।
कारुण्यात्तत्प्रतीकारे तां तां युक्तिमचिन्तयत् ॥ क्३२.२४ ॥
विषादचिन्तास्तिमितं श्वसन्तं सा जगाद्तम् ।
शीतार्तकूजद्भ्रमरा हिमम्लानेव पद्मिनी ॥ क्३२.२५ ॥
एवंविधं मे कन्यायाह्शिरःशूलं पुराभवत् ।
पाषाणभेदलेपेन भिषग्भिश्च निवारितम् ॥ क्३२.२६ ॥
पाषाणभेदव्याप्तोऽयं प्राग्भागोऽस्य्महीभृतः ।
राज्ज्वावतीर्य भवता गृह्यतां यदि शक्यते ॥ क्३२.२७ ॥
धारयिष्यामि पाणिभ्यामहमालम्बनं तव ।
इत्युक्तः प्रणयात्पत्नया तथेत्याह नृपात्मजः ॥ क्३२.२८ ॥
तत्पाणिधृतरज्ज्वाथ विहितालम्बनः शनैः ।
सोऽवतीर्णः शिलास्फालगर्जद्गिरिनदीतटम् ॥ क्३२.२९ ॥
भेषजादानसंसक्तः संत्यक्तालम्बनस्तया ।
स पपात महाश्वभ्रे स्त्रीचित्तचपलाम्भसि ॥ क्३२.३० ॥
शुभस्य कर्मणः शेषादभग्नतनुरेव सः ।
उह्यमानः प्रवाहेण धीरश्चितमचिन्तयत् ॥ क्३२.३१ ॥
नारीचित्ताभमावर्तं दर्शयन्त्या निजाशयम् ।
मम स्त्रीनियमे नूनमुपदेशः कृतोऽनया ॥ क्३२.३२ ॥
दुर्विज्ञेयाः प्रततमतिभिः स्वप्नसंकल्पकल्पा
रागद्वेषव्यसनविषमायासविन्याससक्ताः ।
कामात्कामी सकलजनतामोहने संप्रवृत्ताः
पातायैव क्षस्णपरिचितस्यापि मायाः स्त्रियश्च ॥ क्३२.३३ ॥
इति संचिन्तयन्नेव नदीवेगेन भूयसा ।
प्रापितः सुकृतेनेव स पुरीं पुष्करावतीम् ॥ क्३२.३४ ॥
तस्मिन्नवसरे तत्र निष्पुत्रे नृपतौ मृते ।
निमित्तज्ञैर्महामात्यैर्गृहीतः स सुलक्षणः ॥ क्३२.३५ ॥
अभिषिक्तः स तैस्तत्र विधिवन्मङ्गलोदकैः ।
अभूद्विवाहविद्वेषी दृष्टस्त्रीचरिताद्भुतः ॥ क्३२.३६ ॥
कलङ्कवत्यपि गिरौ बोधिसत्त्वविवर्जिते ।
मन्द्वीर्यौषधिः काले वृत्तिच्छेदाकुलाभवत् ॥ क्३२.३७ ॥
स्कन्धे भग्नाङ्गमारोप्य सा ग्रामपुरवर्त्मसु ।
जनं पतिव्रतास्मीति गिरा भिक्षामयाचत ॥ क्३२.३८ ॥
परिव्रतागौरवेण सर्वस्तस्यौ ददौ बहु ।
मिथ्याशीलप्रवादोऽपि सूते विपदि संपदम् ॥ क्३२.३९ ॥
अटन्ती सा शनैः प्राप्ता नगरीं पुष्करावतीम् ।
सतीति वन्दिता सर्वैर्वृपद्वारान्तिके ययौ ॥ क्३२.४० ॥
राजा स्त्रीवृत्तविद्वेषी वन्दते तु पतिव्रताम् ।
इति संचिन्त्य तद्भक्त्या नृपं प्राह पुहोहितः ॥ क्३२.४१ ॥
दूरेदेशान्तराद्देव प्राप्ता कापि पतिव्रता ।
ययेयं चरणन्यासैर्भूतधात्री पवित्रिता ॥ क्३२.४२ ॥
हे देव पश्य तां शाध्वीं स्कन्धारोपितभर्तृकाम् ।
पतिव्रताप्रणामेन पुंसामायुर्विवर्धते ॥ क्३२.४३ ॥
नृपः पुरोहितेनेति तत्संदर्शनमर्थितः ।
तमुवाच न जानीषे ब्राह्मणः सरले भवान् ॥ क्३२.४४ ॥
स्निग्धा स्त्रीति प्रवादोऽयं निर्व्याजेति मतिभ्रमः ।
सतीति व्योमपुष्पाप्तिः पापा स्त्रीति न संशयः ॥ क्३२.४५ ॥
निष्फलाश्चग्नुरोहिण्यः सरला जनसंगमे ।
नार्यो वेतसवल्लर्य इव निर्मूलबन्धनाः ॥ क्३२.४६ ॥
भेदद्रोहैकशीलाभ्यो दुःशीलाभ्यः स्वभावतः ।
नमः स्त्रीभ्यो नमः स्त्रीभ्यो नमः स्त्रीभ्यो नमो नमह् ॥ क्३२.४७ ॥
दृष्टस्त्रीवृत्तदोषाय तच्चिन्ताव्यथितान्मने ।
अप्येषा पृथिवी मह्यं रत्नपूर्णा न रोचते ॥ क्३२.४८ ॥
नगमृगवधूमुग्धास्तीक्ष्णाः परं परवञ्चने
तनुवितरणे सक्ताः पुंसां हरन्ति च जीवितम् ।
दधति च भयं पुष्पायाते पिबन्ति च पावकं
सरलकुटिला नैव ज्ञाता विचारशतैः स्त्रियः ॥ क्३२.४९ ॥
तथापि यदि निर्बन्धस्तव पश्यामि तां स्त्रियम् ।
इत्युक्त्वा हर्म्यमारुह्य तां ददर्श नरेश्वरः ॥ क्३२.५० ॥
तामेव स परिज्ञाय पापां कृत्ताङ्गसङ्गिनीम् ।
सचिवेभ्यः क्षितिपतिस्तद्वृत्तान्तं न्यवेदयत् ॥ क्३२.५१ ॥
नृपं सापि परिज्ञाय पापा क्षणमधोमुखी ।
निरस्ता प्रययौ तूर्णं पिहितश्रवणैर्जनैः ॥ क्३२.५२ ॥
विशाखनामा नरनाथसूनुः सोऽहं वधूः सास्य च देवदत्तः ।
श्रुत्वेतिवृत्तं कथितं जिनेन भिक्षुव्रजस्तच्चरितं निनिन्द ॥ क्३२.५३ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां विशाखावदानं द्वात्रिंशः पल्लवः ॥


३३. नन्दीपनन्दावदानम् ।

स कोऽपि पुण्यप्रशमानुभावः शुद्धात्मनामस्त्यमृतस्वभावः ।
यस्य प्रभावेण भवन्ति सद्यः क्रूरा अपि क्रोधविषप्रमुक्ताः ॥ क्३३.१ ॥
पुरा तथागते जेतवनारामविहारिणि ।
तदाज्ञया भिक्षुगणे गिरिकाननचारिणि ॥ क्३३.२ ॥
सुमेरुपरिषण्डायां स्थित्वा ध्यानपरायणाः ।
आययुर्भिक्षवः पाण्डुविच्छायवदनाः कृशाः ॥ क्३३.३ ॥
तेऽथ कृत्वा भगवतः पादपद्माभिवन्दनाम् ।
ऊचिरे भिक्षुभिः पृष्टा देहदौर्बल्यकारणम् ॥ क्३३.४ ॥
सुमेरुं त्रिगुणावृत्त्या वेष्टयित्वा व्यवस्थितौ ।
अदृष्टौ वैनतेयस्य नागौ नन्दोपनन्दकौ ॥ क्३३.५ ॥
तौ सदा त्रिविधोच्छ्वासं सृजतः कीर्णपावकम् ।
भवन्ति भस्म स्पर्शेन सहसैव शिला अपि ॥ क्३३.६ ॥
वयं तद्विषनिश्वासैर्निदग्धा ध्यानयोगिनः ।
विवर्णवदनच्छायाह्केवलं कृशतां गताः ॥ क्३३.७ ॥
इति तैः कथिते शास्ता भिक्षुसंघार्थितः पुरः ।
नागयोर्दमने योग्यं मौद्गल्यायनमादिशत् ॥ क्३३.८ ॥
स सुमेरुं समासाद्य शृङ्गैरालिङ्गिताम्बरम् ।
सुप्तौ ददर्श नागेन्द्रौ योगेनान्तर्हिताकृतिः ॥ क्३३.९ ॥
योध्यमानौ शनैस्तेन बुबुधाते यदा न तौ ।
तदा महानागवपुर्भूत्वा स समवेष्टयत् ॥ क्३३.१० ॥
प्रबुद्धौ पीडितौ तेन दृष्ट्वा तं भीषणाकृतिम् ।
विंद्रुतौ नररूपेण तस्थतुर्भयविह्वलौ ॥ क्३३.११ ॥
नागरूपं परित्यज्य कृत्वा रूपं स्वकं ततः ।
पलायमानावन्योन्यं तौ मौद्गल्यायनोऽवदत् ॥ क्३३.१२ ॥
नागौ क्क गम्यते तूर्ण भयं संत्यज्यतामिदम् ।
न स नागः स्थितस्तत्र येन विद्रावितौ युवाम् ॥ क्३३.१३ ॥
सर्वथा यदि नस्त्येअ तद्भयाद्यिवयोर्धृतिः ।
क्रियते किं शरण्यस्य न बुद्धस्याभिवन्दनम् ॥ क्३३.१४ ॥
इति तेनोक्तमाकर्ण्य विनयात्तौ तमूचतुः ।
प्रसादः क्रियतामार्य भगवद्दर्शनेन नौ ॥ क्३३.१५ ॥
इति ब्रवाणौ नागेन्द्रौ नीत्वा भगवतोऽन्तिकम् ।
स त द्वृत्तान्तमावेद्य प्रणम्य समुपाविशत् ॥ क्३३.१६ ॥
भगवानथ नागेन्द्रौ बभाषे शरणागतौ ।
प्रणामं चक्रतू रत्नप्रभाभूषीतभूतलौ ॥ क्३३.१७ ॥
शिक्षापदानि संप्राप्य सर्वभूताभयप्रदौ ।
शरणप्राप्तिसमयादधुना निर्भयौ युवाम् ॥ क्३३.१८ ॥
इत्यालोकनमात्रेण दोषद्वेषविवर्जितौ ।
कृतौ भगवता सम्यक्जग्मतुस्तं प्रणम्य तौ ॥ क्३३.१९ ॥
संदर्शनेनैव महाशयानां प्रभापदेशेन शरीरलग्नैः ।
सींस्रा अपि द्वेषविषोष्मतप्ताः शमामृतैः शीतलतां व्रजन्ति ॥ क्३३.२० ॥
तत्पूर्वजन्मवृत्ताण्तं भिक्षुभिर्भगवान् जिनः ।
प्रभावविस्मयात्पृष्टः सर्वदर्शी जगादा तान् ॥ क्३३.२१ ॥
कृकिर्नाम पुरा श्रीमान् वाराणस्यां नरेश्वरः ।
काश्यपाख्याद्भगवतः प्राप्तवान् धर्मशासनम् ॥ क्३३.२२ ॥
अमात्ययोः स विन्यस्य राज्यं नन्दोपनन्दयोः ।
बभूव बोधिसंसक्तः सत्यदर्शननिर्वृतः ॥ क्३३.२३ ॥
धर्मदह्र्ममयं राज्यं कृत्वा तौ तस्य मन्त्रिणौ ।
सर्वोपकरणैर्युक्तं विहारं काश्यपाय च ॥ क्३३.२४ ॥
कालेन जातौ नागेन्द्रावेतौ नन्दोपनन्दकौ ।
विहारार्पणपुण्येन पदं मेरुरभूत्तयोः ॥ क्३३.२५ ॥
इति जिननिगदितफणिवरचरितं परतनुपरिणतिपरिचितसुकृतम् ।
श्रुतवति शमनयमुनिपरिनिवहे विषधरनियमनगुणनुतिरुदभूत् ॥ क्३३.२६ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां नन्दोपनन्दावदानं त्रयस्त्रिंशः पल्लवः ॥


३४. गृहपतिसुदत्तावदानम् ।

दत्तः परहितभावनया यदु तनुधनकणशेषः ।
अपरिक्षयगुणकल्पनया भवति सुपुण्यविशेषः ॥ क्३४.१ ॥
अथ व्यतीते कस्मिंश्चित्काले भगवतोऽन्तिके ।
नन्दोपनन्दयोर्धर्मदेशनां श्रोतुमाययौ ॥ क्३४.२ ॥
राजा प्रसेनजिद्द्रष्टुं भगवन्तमुपागतः ।
ताभ्यामकृतसत्कारप्रणामः कोमपाययौ ॥ क्३४.३ ॥
स प्रणम्य जिनं गत्वा प्रदध्यौ निग्रहं तयोः ।
शस्त्रवृष्टिं संसृजन्तौ तौ च व्योम्ना समागतौ ॥ क्३४.४ ॥
सर्वज्ञप्रेषितस्तूरणं मौद्गल्यायन एत्य ताम् ।
शस्त्रवृष्टिं नरपतेश्चक्रे पद्मोत्पलावलिम् ॥ क्३४.५ ॥
पुनर्गत्वा भगवतः समीपं पृथिवीपतिः ।
संप्राप्तौ क्षमयामास तस्यादेशात्फणीश्वरौ ॥ क्३४.६ ॥
अथार्थितः पार्थिवेन भगवान् राजमन्दिरम् ।
भक्तिपूतं ययौ भोक्तुं भक्तं भिक्षुगणैः सह ॥ क्३४.७ ॥
भक्ष्येषु पच्यमानेषु रात्रौ तत्राग्निविल्पवः ।
जातो जिनप्रभावेण सहसा शान्तिमाययौ ॥ क्३४.८ ॥
भुक्त्वा गते भगवति क्षितिपः स्वपुरेऽभ्यधात् ।
ज्वलनज्वालनं रात्रौ वारयन् दण्डसंविदा ॥ क्३४.९ ॥
अत्राण्तरे गृहपतिः सुदत्तस्यात्मजि युवा ।
मिथ्यादोषदृद्धिबलो नाम राज्ञाभिघातितः ॥ क्३४.१० ॥
पूर्वं भगवतः शास्तुः शासनानुग्रहेण सः ।
लब्धज्ञानधृतिः पुत्रदुःखेऽप्यासीददुःखितः ॥ क्३४.११ ॥
अपुत्रः स्वधनं भूरि दीनेभ्यः प्रतिपाद्य सः ।
चकारातिरसादेकपणशेषं शनैः श्रियः ॥ क्३४.१२ ॥
पणलाभकृताशेषधर्मः स्वल्पप्रदोऽथ सः ।
अभूद्गृही सुदत्ताख्यो गृहं हि स्वप्लमुच्यते ॥ क्३४.१३ ॥
कदाचिद्दर्शनायातं भगवान् पुरतः स्थितम् ।
तं स्वल्पदाननाम्नैव लज्जितं दययावदत् ॥ क्३४.१४ ॥
अल्पदानं गृहपतेर्न लज्जां कर्तुमर्हसि ।
याति श्रद्धार्पितो दानकणः कनकशैलताम् ॥ क्३४.१५ ॥
पुरा बहुतरं दत्तं वेलमेन द्विजन्मना ।
श्रद्धाविरहसामान्यान्न तथा वृद्धिमाययौ ॥ क्३४.१६ ॥
यः सर्वं भोजयेद्भक्त्या जम्बुद्वीपगतं जनम् ।
यश्चैकं बोधिसंयुक्तं तस्य पुण्यं ततोऽधिकम् ॥ क्३४.१७ ॥
इति वाक्यं भगवतस्तथ्यं श्रुत्वाभिनन्द्य च ।
निजगेहं गृहपतिः प्रययौ प्रणिपत्य तम् ॥ क्३४.१८ ॥
दीपं दत्वा पठन् रात्रौ ततर्बुद्धानुशासनम् ।
दण्डाय राजपुरुषैः स नीतोऽग्निप्रवर्तनात् ॥ क्३४.१९ ॥
दण्डस्य संभवाद्बद्धं बन्धनागारवर्तिनम् ।
तं द्रष्टुमाययुर्देवा रात्रौ शक्रब्रह्मादयः ॥ क्३४.२० ॥
स तैर्धनं गॄहाणेति प्रार्थितो नाग्रहीद्यदा ।
तदा धर्मोपदेशोऽयं प्रवृत्तस्त्स्य मन्दिरे ॥ क्३४.२१ ॥
राजापि तत्प्रभावेण दृष्ट्वा प्रज्वालितं पुरम् ।
मुक्त्वा तं बन्धनागारान्न ददर्श जलं क्कचित् ॥ क्३४.२२ ॥
स गतः सुगतं द्रष्टुं कदाचित्तत्पुरः स्थितः ।
नृपं जिनप्रणामाय प्राप्तं पश्चाद्व्यलोकयत् ॥ क्३४.२३ ॥
अग्रे भगवतश्चक्रे प्रणयं न स भूपतेः ।
जगत्पूज्यस्य पुरतः पूजामर्हति नापरः ॥ क्३४.२४ ॥
जिनमामन्त्र्य नृपतिः प्रणतः स्वपुरं गतः ।
विवासनं गृहपतेरादिदेश निजात्पुरात् ॥ क्३४.२५ ॥
प्रसादिनी सुदत्तस्य देवता नृपतिं ततः ।
क्षुद्रजन्तुभिरुत्सृष्टैश्चक्रे दंशविषाकुलम् ॥ क्३४.२६ ॥
स त्रस्तस्तैर्नृपः प्राप्तः सामात्यान्तः पुरानुगः ।
गत्वा प्रसादयामास सुदत्तं जिनशासनात् ॥ क्३४.२७ ॥
इति स सततप्रत्यासत्त्या परामृतनिर्भरं
भगवदुदितं शान्तिं भेजे सुदत्तगृहाधिपः ।
स्वमिव लभते विघ्नयासप्रवासविवर्जितं
विमलमनसामन्तेवासी विवेकमहानिधिम् ॥ क्३४.२८ ॥

इति क्षेमेन्द्रविचरितायां बोधिसत्त्वावदानकल्पलतायां गृहपतिसुदत्तावदानं चतुर्स्त्रिशः पल्लवः ॥


३५. घोषीलावदानम् ।

फलं समानं लभते स दातुर्याति क्षणं दानसहायतां यः ।
परोपकारप्रणयोद्यतानां नापुण्यकर्मा सचिवत्वमेति ॥ क्३५.१ ॥
रम्ये पुरा भगवति श्रावस्त्यां जेतकानने ।
अनाथपिण्डदारामविहाराधिरते जिने ॥ क्३५.२ ॥
कौशाम्ब्यां वत्सनृपतिर्बभूवोदयनाभिधः ।
गायत्यद्याषि यत्कीर्तिर्विद्याधरवधूजनः ॥ क्३५.३ ॥
अभवद्विषये तस्य कर्मान्ताकरजीवनः ।
गृहस्थः सुधनो नाम धनाधानविचक्षणः ॥ क्३५.४ ॥
नृपः कदाचिंदास्थाने तं कार्यार्थिनमागतम् ।
वचसैव परिज्ञाय जगाद्विहितादरः ॥ क्३५.५ ॥
जानाम्यहं गृहपते हिरण्योपचितस्वरम् ।
विपुलः संचयज्ञस्य सुवर्णनिधिरस्ति ते ॥ क्३५.६ ॥
इत्युक्तः सस्मितं राज्ञा स तमूचे कृताञ्जलिः ।
सत्यमस्त्येव मे राजन् गृहे काञ्चनसंचयः ॥ क्३५.७ ॥
सद्वृत्तचिन्तानिरते देवे वात्सल्यपेशले ।
किं वा नास्ति जनास्यास्य पितरि त्वयि गोप्तरि ॥ क्३५.८ ॥
धनिनो यान्त्यधनतां निधनं यान्ति चाधनाः ।
व्याघ्रतां याति देद्भूभृदामिषाघ्राणनिर्घृणः ॥ क्३५.९ ॥
निःसङ्कैरर्ज्यते वित्तमर्जितं च विभज्यते ।
विभक्तं भुज्यते स्पष्टं जनैर्धर्मधने नृपे ॥ क्३५.१० ॥
उपपन्नं वचः श्रुत्वा धीमतस्तस्य भूपतिः ।
तमूचे दशनोद्योतैः प्रसादं दर्शयन्निव ॥ क्३५.११ ॥
मतिमान् कार्यसचिवस्त्वं मे भवितुमर्हसि ।
धीधूर्यैस्त्वद्विधैरेव धार्यते धरणीभरः ॥ क्३५.१२ ॥
इति राजवचः श्रुत्वा शुधनस्तमभाषत ।
नवयं राजसेवासु सभामण्डलपण्डिताः ॥ क्३५.१३ ॥
स्वाच्छन्द्योद्यानविच्छेदः सुनिद्रासुखविक्रयः ।
सेवा हि पुंसां संसारदुःखदैन्यभयंकरः ॥ क्३५.१४ ॥
ईश्वरैर्मस्तकन्यस्तचरणः कृतकृत्यताम् ।
पादपीठ इवायाति सेवकोऽहं स्थितः सदा ॥ क्३५.१५ ॥
सेवायासप्रयासेन प्राप्तानामपि संपदाम् ।
संभोगः पिशुनासङ्गी प्रभुभ्रूभन्गभङ्गुरः ॥ क्३५.१६ ॥
एताश्च नावतिष्ठन्ते प्रयत्नेन धृता अपि ।
दर्पोग्रदुर्ग्रहग्राहदुर्ग्रहा नृपसंपदः ॥ क्३५.१७ ॥
क्षणं नवनवाश्लिषविशेषप्रणयोद्यताः ।
अवाचवाररमणीरमणीया विभूतयः ॥ क्३५.१८ ॥
इत्युक्तप्रतिषेधोऽपि स राज्ञा सचिवः कृतः ।
अतिक्रामति को नाम प्रभविष्णोः समीहितम् ॥ क्३५.१९ ॥
प्राप्तप्रौढपदं राज्ञा नीतं सर्वाधिकारिताम् ।
विद्वेषदूषिताः सर्वे मन्त्रिणस्तं न सेहिरे ॥ क्३५.२० ॥
धर्मजिज्ञासया राज्ञा पिशुनप्रेरितेन सः ।
नैवाकरोदसत्कार्यं नियुक्तोऽपि पुन पुनः ॥ क्३५.२१ ॥
आघातं प्रेक्षितः सोऽथ मिथ्याकोपेन भूभुजा ।
तथाप्यधर्मसंयुक्तं न शासनमतन्यत ॥ क्३५.२२ ॥
एकजन्मसुखायैव बहुजन्मशतार्दितम् ।
न साधुनिन्दितं कर्म करोमीति जगाद सः ॥ क्३५.२३ ॥
भयधर्मोपधाशुद्धः प्रतिमुक्तः स भूभुजा ।
दानसत्रमविच्छिन्नमकरोदखिलार्थिनाम् ॥ क्३५.२४ ॥
सर्वत्र विश्रुते तस्य दानसत्रे यशस्विनह् ।
कल्पवृक्षादरः पुंसां परं प्रतनुतां ययौ ॥ क्३५.२५ ॥
अत्रान्तरे मुनिगणास्तीर्थार्था दक्षिणापथात् ।
आगता कृच्छ्रकान्तारमविशन्निर्जनं वनम् ॥ क्३५.२६ ॥
तत्र तृष्णातुराः सर्वे मूर्च्छिताः शयनाश्रिताः ।
अयाचन्त जलं मोहादुच्चैर्निश्चेतनानपि ॥ क्३५.२७ ॥
देवगन्धर्वनागेभ्यः कश्चिद्योऽत्र दयाम्बुधिः ।
स्थितः प्रयच्छतु जलं सोऽस्माकमिति तेऽब्रुवन् ॥ क्३५.२८ ॥
ततः स रत्नकेयूरक्कनत्कङ्कणसद्ध्वनिः ।
भुजस्थमेमभृङ्गारस्तरुमध्याद्विनिर्ययौ ॥ क्३५.२९ ॥
ते तस्मादमृतास्वादं पाणिपद्मावनामितात् ।
आकण्ठं सलिलं पीत्वा जहृषुर्लब्धजीविताः ॥ क्३५.३० ॥
प्रार्थितः पुनरभ्येत्य पप्रच्छुस्ते सविस्मयाः ।
अदृश्यवृक्षनिलयादुद्भूतं को भवानिति ॥ क्३५.३१ ॥
सोऽब्रवीद्विश्रुतयशाः श्रावस्त्यामाशयः श्रियः ।
अनाथपिण्डदो नाम सर्वदोऽस्ति गृहाधिपः ॥ क्३५.३२ ॥
सौचिकेन मया पूर्वं तद्गृहान्तिकवासिना ।
भुजमुद्यभ्य तद्वेश्म दर्शितं नित्यमर्थिनाम् ॥ क्३५.३३ ॥
तेन पुण्येन देवत्वं प्राप्तोऽत्र विहराम्यहम् ।
बाहुर्मं विभात्येष दक्षिणः सोऽर्थिदक्षिणः ॥ क्३५.३४ ॥
ते तमामन्त्र्य मुनयः पुनः संप्रस्थिता वने ।
क्षुधिताः स्निग्धसच्छायं ददृशुः पादपं परम् ॥ क्३५.३५ ॥
तमप्युच्चैरयाचन्त भोजनं तद्वदेव ते ।
उच्चचार च गम्भीरा वाणी विस्मयकारिणी ॥ क्३५.३६ ॥
अत्र पुष्करिणीतीरे द्रोण्यां दिव्यान्नभोजनम् ।
संपूर्णमस्ति तद्गत्वा भुज्यतां यदभीप्सितम् ॥ क्३५.३७ ॥
इति तेन समादिष्टं भुक्त्वा ते दिव्यभोजनम् ।
को भवनिति पप्रच्छुस्तं दिव्यतरुसंश्रयम् ॥ क्३५.३८ ॥
सोऽप्याचचक्षे श्रावस्त्यां गृहस्थोऽनाथपिण्डदः ।
अस्ति तस्याहमभवं ब्राह्मणः संघहोजने ॥ क्३५.३९ ॥
चतुरः परिचर्यायां दधिकुम्भप्रचारकः ।
तद्भोजनान्ते संप्राप्ते स्वल्पशेषान्नभोजनः ॥ क्३५.४० ॥
भिक्षुणां गौरवेच्चारं दृष्ट्वाहं राजभोजनम् ।
आत्मनश्चान्नमक्षारमभवं खिन्नमानसः ॥ क्३५.४१ ॥
अनाथपिण्डदगिरा भोजने गौरवाशया ।
ततो मयाष्टाङ्गयुक्तं गृहीतं पोषधं व्रतम् ॥ क्३५.४२ ॥
असमाप्तव्रतेनाथ भुक्तं लौल्यान्मया निशि ।
तेनाहमभवं लोके विज्ञातः खण्डपोषधः ॥ क्३५.४३ ॥
खण्डेनापि व्रतेनाहं देवपुत्रत्वमागतः ।
इति ते तद्वचः श्रुत्वा मुनयो विस्मिता ययुः ॥ क्३५.४४ ॥
अचिन्तयन् व्रजन्तस्ते तीव्रेण तपसा वयम् ।
सुचिरं केवलं क्लिष्टां नाद्यापि कुशलस्पृशः ॥ क्३५.४५ ॥
अधुना पोषधं प्राप्तुं व्रतमेव यतामहे ।
निरपायसुखोपाये स्वहिते कस्य नादरः ॥ क्३५.४६ ॥
इति संचिन्तयन्तस्ते कौशाम्बीमभितो गताः ।
सुधनस्य गृहं प्रापुर्विश्रुतं गृहमेधिनः ॥ क्३५.४७ ॥
तत्र तेन कृतातिथ्या निवेद्यास्मै तदद्भुतम् ।
अनाथपिण्डदं द्रष्टुं तेनैव सहिता ययुः ॥ क्३५.४८ ॥
श्रावस्त्यां ते समासाद्य पूजितास्तेन सादरम् ।
अस्मै न्यवेदयन् सर्वं यथादृष्टं यथाश्रुतम् ॥ क्३५.४९ ॥
स तान् व्रतार्थिन सर्वान् सुहृदं सुधनं च तम् ।
निनाय धर्मसचिवः प्रीतो भगवतोऽन्तिकम् ॥ क्३५.५० ॥
भगवानपि तद्वाक्याच्चक्रे तेषामनुग्रहम् ।
सत्यदर्शनसंबुद्धा येन ते सुगतिं ययुः ॥ क्३५.५१ ॥
तेषु यातेषु सुधनं पक्षपाताद्रया दृशा ।
विलोक्य भगवान् सम्यग्विदधे ज्ञानभाजनम् ॥ क्३५.५२ ॥
सत्यसंदर्शनावाप्तविशेषकुशलोदयः ।
गत्वा जिनाय कौशाम्ब्यां स विहारमकारयत् ॥ क्३५.५३ ॥
यस्माद्भगवतादिष्टस्तस्मिन् यातः सहायताम् ।
भिक्षुश्चुन्दाभिधस्तस्मात्सोऽभूच्चुन्दविहारभूः ॥ क्३५.५४ ॥
राधाभिधा तदा दासी विहारपरिचारिका ।
दयया भगवानस्याः शीर्णवस्त्रं समग्रहीत् ॥ क्३५.५५ ॥
अदासी स्यामिति श्रद्धाप्रणिधानार्पितस्तया ।
स चीवरो भगवतः प्रययावेकवर्णताम् ॥ क्३५.५६ ॥
सुधनस्योज्ज्वलं दृष्ट्वांपुण्यसंभारमद्भुतम् ।
भिक्षुभिर्भगवान् पृष्टस्तत्पूर्वोदयमभ्यधात् ॥ क्३५.५७ ॥
सुन्धानाख्यो गृहपतिर्वाराणस्यामभूत्पुरा ।
नोदारकुश्न्जरस्याभूद्यस्य दानपरिक्षयः ॥ क्३५.५८ ॥
अनावृष्टिहते काले तस्य द्वादशवार्षिके ।
अवारितमभूच्छत्रमविच्छिन्नान्नमर्थिनाम् ॥ क्३५.५९ ॥
तस्य पद्माकरो नाम कोषागारपतिर्गृहे ।
दानसाहाय्यकं चक्रे सहस्था हि समृद्धयः ॥ क्३५.६० ॥
प्रत्येकबुद्धसंघस्य भक्तकालनिवेदकह् ।
धर्मदूताभिधस्तस्य मन्त्री धीमानपस्थितः ॥ क्३५.६१ ॥
कर्मव्याक्षेपतस्तस्य जाते कालव्यतिक्रमे ।
कदाचित्कुकुरस्तेषां कालसंज्ञां व्यधात्पुरः ॥ क्३५.६२ ॥
सुन्धानोऽद्य स एवाहं कोष्ठिकोऽनाथपिण्डदः ।
संघस्य धर्मदूतो यः स एवोदयनो नृपः ॥ क्३५.६३ ॥
संज्ञानिदेशको यश्च कुकुरः सुधनोऽपि सः ।
राज्ञा घोषेण विज्ञातो घोषिलापरनामभृत् ॥ क्३५.६४ ॥
चरितमित्युचितं भवभेदिना भगवता कथितं किल भिक्षवः ।
सुकृतसौरभसारसुधारसं सुमनसा श्रवणाञ्जलिभिः पपुः ॥ क्३५.६५ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां घोषिलावदानं पञ्चत्रिंशः पल्लवः ॥


३६. पूर्णावदानम् ।

विबुधसरसिः पद्मैः शोभिते पङ्कजिन्या शुचिपरिसरजातं स्पृश्यते न स्थलेऽब्जम् (?) ।
सहजपरिचितानां नित्यमन्तर्गतानां भवति सितगुणानां कारणं नैव जातिः ॥ क्३६.१ ॥
श्रावस्त्यां सर्वसत्त्वानां स्वस्तिध्यानपरायणे ।
जिनकल्पद्रुमे जेतवनारामस्थिते पुरा ॥ क्३६.२ ॥
शूर्पारकाख्ये नगरे रत्नसंचयसागरः ।
भवो नामाभवत्सार्थपरिर्मतिमतां वरः ॥ क्३६.३ ॥
भविलो भवभद्रश्च भवनन्दी च विश्रुताः ।
केतक्यां तस्य जायायां बभूवुस्तनयास्त्रयः ॥ क्३६.४ ॥
रोगयोगादुपगरः स कदाचिन्मुमूर्षुताम् ।
पारुष्याद्भृशमुद्विग्नैः पत्नीपुत्रैरुपेक्षितः ॥ क्३६.५ ॥
भक्त्या दासी तु तस्यैका परिचर्यापरा परम् ।
मल्लिकाख्याभवत्तस्याः सेवया स्वास्थ्यमाययौ ॥ क्३६.६ ॥
स्नेहोपकारप्रणतः कृतज्ञः स तयान्वितः ।
ऋतौ संगममभ्येत्य तस्याः पुत्रमजीजनत् ॥ क्३६.७ ॥
यदा तज्जन्मनि पितुः सर्वार्थाः पूर्णतां ययुः ।
स तदा पूर्णनामाभूद्बालः पूर्णेन्दुसुन्दरः ॥ क्३६.८ ॥
ज्येष्ठास्त्रयः कृतिद्वाहा ययुरब्धिं धनार्थिनः ।
पूर्णस्तु भाण्डशालायां पितुश्चक्रे धनार्जनम् ॥ क्३६.९ ॥
ततः प्रतिनिवृत्तास्ते प्राप्तार्थः सागरात्पुनः ।
गणनां हेमलक्षाणां कृत्वा स्वमुदिरे पुरम् ॥ क्३६.१० ॥
समुद्रगमने तेषां यावानासीद्धनागमः ।
पूर्णस्य स्वगृहे पण्यौर्बभूवाभ्यधिकस्ततः ॥ क्३६.११ ॥
तद्दृष्ट्वा जनकस्तेषां वृद्धः पर्यन्तवासरे ।
तमूचेहितमायत्यां तृष्णा नैकक्षयोदयः ॥ क्३६.१२ ॥
दृष्टं भवद्भिः सामुद्रलाभे कृतपरिश्रमैः ।
पूर्णेनोआर्जितं वित्तमक्लेशेन महीयसा ॥ क्३६.१३ ॥
शुभकर्मविपाकेन भवन्त्यर्था धनार्थिनाम् ।
हस्तात्पलायतेऽन्यस्य प्राप्नोति पतितं परः ॥ क्३६.१४ ॥
सन्मार्गस्यापरित्यागाद्युक्तायुक्तविवेचनात् ।
देशकालपरिज्ञानात्सतां सर्वत्र संपदः ॥ क्३६.१५ ॥
भवन्ति स्वगृहे शन्याः सुधियो धर्मभागिनः ।
गत्वा रत्नाकरं चान्ये लभन्ते प्राणसंशयम् ॥ क्३६.१६ ॥
यत्नेन बोद्धव्या सद्भिः धनस्योपनिष्त्परा ।
अद्रोहशुद्धबुद्धीनां स्वाधीनानां धनाच्छ्रियः ॥ क्३६.१७ ॥
रक्षणीयो भवद्भिश्च भेदः सततसंहतेः ।
भिन्नात्स्खलति कल्याणं कुलात्कुम्भादिवोदकम् ॥ क्३६.१८ ॥
अथाभिन्नेन्धनस्याग्नेर्नश्यन्ते सदृशास्त्विषः ।
तथा विपुलवंशस्य भिन्नज्ञातेर्विभूतयाः ॥ क्३६.१९ ॥
भ्रातॄणां संततो भेदः कथं नाम निवर्तते ।
अध्यापितानां पत्नीभिर्द्वेषविद्यां सदा निशि ॥ क्३६.२० ॥
उन्नतानां स्ववशानां द्वैधं तावन्न जायते ।
यावत्कुठारधारेव योषिद्विशति नान्तरम् ॥ क्३६.२१ ॥
भ्रातुरर्थानुवादेन गुरुं पारुष्यकुत्सया ।
मित्रमेकाभिलाषेण नयन्ति द्वैधतां स्त्रियः ॥ क्३६.२२ ॥
तद्वदन्ति हसन्त्योऽपि भ्रूविलासेन योषितः ।
यत्प्रयाति सुहृत्स्नेहमूलोन्मूलनहेतुताम् ॥ क्३६.२३ ॥
हितमुक्त्वेति पुत्राणां भूतयेऽभिमतं भवः ।
अनित्यतापरियुक्तः काले निधनमाययौ ॥ क्३६.२४ ॥
अविभक्ते धने शक्ता देशान्तरधनार्जने ।
ज्येष्ठा बभूवुः पूर्णस्तु गृहे वित्तमचिन्तयत् ॥ क्३६.२५ ॥
कालेन गृहमाप्तानां वस्त्राशनविवादिनाम् ।
स्त्रीमन्त्रदत्तकर्णानां भेदस्तेषामजायत ॥ क्३६.२६ ॥
वित्ते विभज्यमानेऽथतैर्विद्वेषवशीकृतेः ।
दासीसुतोऽयम्त्युक्त्वा नीतः पूर्णो निरंशताम् ॥ क्३६.२७ ॥
सोऽपि पूर्णशनः काले शीतसंकुचितं पथि ।
ददर्श ग्रीष्मताप्र्ऽपि विवशं दारुभारकम् ॥ क्३६.२८ ॥
आदाय दारुमूल्येन स तस्माद्दारुभारकम् ।
दिव्यचन्दनमद्राक्षीद्दहनस्यापि शीतदम् ॥ क्३६.२९ ॥
सुकृतेनैव महता तेन लब्धमहाधनः ।
स सेव्यः सार्थवाहानां पूज्योऽभूत्पृथिवीपतेः ॥ क्३६.३० ॥
रत्नाकरं स षट्कृत्वः प्रयातः सर्वदोऽर्थिनाम् ।
चकार सर्ववणीजां तरशुल्काद्यनुग्रहम् ॥ क्३६.३१ ॥
स्र्हावस्तीवासिभिः सार्थवणिग्भिः पुनरर्थितः ।
ययौ प्रवहणारूढः समुद्रद्वीपमाशु सः ॥ क्३६.३२ ॥
प्रत्यावृत्ते प्रवहणे सोऽथ शुश्राव गायताम् ।
वणिजां स्थाविराः शैलगाथाः सुगतसंश्रयाः ॥ क्३६.३३ ॥
कस्यैता इति ते तेन पृष्टाः सर्वे बभाषिरे ।
एता भगवता गीता गाथा बुद्धेन धीमता ॥ क्३६.३४ ॥
इति बुद्धाभिधामेव श्रुत्वा हर्षमवाप सः ।
पुंसां स्ववासनारूढं व्यक्तिमायात्युदीरितम् ॥ क्३६.३५ ॥
तैर्विस्तरेण कथितामाकर्ण्य भगवत्कथाम् ।
सोऽभवत्तद्गतमनास्तद्दर्शनसमुत्सुकः ॥ क्३६.३६ ॥
स शनैर्गृहमागत्य त्यक्त्वा सर्वपरिच्छदम् ।
अनाथपिण्डदं द्रष्टुं श्रावस्त्यां सुहृदं ययौ ॥ क्३६.३७ ॥
अभिलाषं निवेद्यास्मै प्रव्रज्यायां जितेन्द्रियः ।
जगाम सहितस्तेन भक्त्या भगवतोऽन्तिकम् ॥ क्३६.३८ ॥
दृष्ट्वैव तत्र सर्वज्ञं मोहध्वान्तदिवाकरम् ।
तत्पाददर्शनेनैव मेने स कृतकृत्यताम् ॥ क्३६.३९ ॥
विज्ञाय तस्य भगवान् संकल्पं तमभाषत ।
दशनज्योत्स्नया कुर्वन् विवेकविमला दिशः ॥ क्३६.४० ॥
एहि भिक्षि निराशङ्के निर्विपक्षे क्षयोज्झिते ।
आख्याते धर्मविनये ब्रह्मचर्यां चरेप्सितम् ॥ क्३६.४१ ॥
इति प्रसादशीलेन जिनेनोदीरिते पुरह् ।
प्रव्रज्या सहसैवास्य पपातालक्षिता तनौ ॥ क्३६.४२ ॥
ततः स शत्रौ मित्रे च प्रशमात्समतां श्रितः ।
शास्तुः शासनमादाय प्रणिपत्य जगाम तम् ॥ क्३६.४३ ॥
श्रोणापरान्तकं नाम देशं श्रूरजनाश्रयम् ।
स्वयं परीक्षितुं क्षान्तिं जनेन स समाययौ ॥ क्३६.४४ ॥
ततो दृष्ट्वा तमायान्तं मृगयायाममङ्गलम् ।
लुब्धकश्चापमाकृष्य हन्तुं क्रिधात्समाद्रवत् ॥ क्३६.४५ ॥
निर्विकारं निरुद्वेगं स तं विगतसाध्वसम् ।
प्रहरेति ब्रुवाणं च दृष्ट्वैव शममाप्तवान् ॥ क्३६.४६ ॥
शाम्यतस्तस्य सहसा प्रसादी लुब्धकस्य सः ।
धर्मं दिदेश येनासौ बोधिं प्राप सहानुगैः ॥ क्३६.४७ ॥
स तत्र सुगतार्हाणां सर्वोपस्करसंपदाम् ।
शतानि पश्न्च रम्याणां विहाराणामकारयत् ॥ क्३६.४८ ॥
पूर्णोऽपि ज्ञानसंपूर्णः प्राप्तिस्त्रिदशपूज्यताम् ।
वैराग्यलक्ष्म्या युक्तोऽभून्मुनीनां स्पृहणीयया ॥ क्३६.४९ ॥
अथ तस्याग्रजो भ्राता भविलः क्षीणवित्तताम् ।
कालेनोपगतः प्रायात्सम्दुरं द्रविणाशया ॥ क्३६.५० ॥
ततः प्रवहणारूढः सोऽनुकूलैः समीरणैः ।
गोशीर्षचन्दनवनं प्रापितः स्वल्पवासरैः ॥ क्३६.५१ ॥
कुठारिकशतैस्तस्मिन् पञ्चभिश्छेत्तुमुद्यते ।
तच्चन्दनवनं दिव्यं भुजङ्गगणासंकुलम् ॥ क्३६.५२ ॥
तत्स्वामी यक्षसेनानां महेश्वरमिति श्रुतः ।
कोपादुदसृजद्घोरं कालिकाख्यं महानिलम् ॥ क्३६.५३ ॥
मरुता महता तेन प्रापिताः प्राणसंशयम् ।
चक्रन्दुर्वणिजः सर्वे शर्वशक्रमुखान् सुरान् ॥ क्३६.५४ ॥
तानार्तरावमुखरान् भविलः सार्थनायकः ।
उवाच संचिन्त्य चिरं पश्चात्तापसमाकुलः ॥ क्३६.५५ ॥
पूर्णः कनीयान् भ्राता स हितैषी मां पुरावदत् ।
बहुक्लेशो ह्यल्पसुखः क्क गन्तव्यस्त्वयाम्बुधिः ॥ क्३६.५६ ॥
अकृत्वा धीमतस्तस्य वचनं सत्यदर्शिनः ।
च्युतोऽहं धनलोभेन घोरेऽस्मिन् व्यसनार्णवे ॥ क्३६.५७ ॥
श्रुत्वैतद्वणिजः सर्वे प्रभावं लोकविश्रुतम् ।
पूर्णस्य मनसा ध्यात्वा तमेव शरणं ययुः ॥ क्३६.५८ ॥
नमस्तुभ्यं जगत्क्लेशविषधोषापहारिणे ।
पूर्णयोदीर्णकरुणासुधासंपूर्णचेतसे ॥ क्३६.५९ ॥
इत्येकस्वररावेण तेषां संपूरितेऽम्बरे ।
क्षणेन गत्वा तद्वृत्तं पूर्णः प्राह स्वदेवताः ॥ क्३६.६० ॥
श्रोणापरान्तकगतः श्रुत्वा तेषां स विप्लवम् ।
व्योम्ना समाधिसंनद्धः प्राप प्रवहणं क्षणात् ॥ क्३६.६१ ॥
तस्मिन् पर्यङ्कबन्धनेन स्थितो मेरुरिवाचलह् ।
प्रलयोत्तालवेगस्य गतिं वाहोर्जहार सह् ॥ क्३६.६२ ॥
पूर्णेन पवनं रुद्धं ज्ञात्वा यक्षगणाग्रणीः ।
तं प्रसाद्य ययौ त्यक्त्वा तेभ्यश्चन्दनकाननम् ॥ क्३६.६३ ॥
पूर्णप्रसादादादाय भविलश्चन्दनद्रुमान् ।
हृष्टस्तेनैव सहितः शूर्पारं स्वपुरं ययौ ॥ क्३६.६४ ॥
पूर्णोऽथ्संमते भ्रातुस्तत्र गोशीर्षचन्दनैः ।
चक्रे चन्दनमालाख्यं प्रासादं सुगतोऽचितम् ॥ क्३६.६५ ॥
तत्र पूर्णेन भगवान् ध्यातस्तूर्णं विहाय्सा ।
समाययौ जेतवनादुल्लङ्घ्य शतयोजनीम् ॥ क्३६.६६ ॥
आगच्छतो भगवतः पुरःप्रसृतया जगत् ।
देहकान्त्या कपिशितं सर्वं हिममिवाभवत् ॥ क्३६.६७ ॥
पुरोपान्तनिवासिन्यस्तं विलोक्य गृहाङ्गनाः ।
तीव्रचित्तप्रसादेन प्रशमोन्मुखतां ययुः ॥ क्३६.६८ ॥
कुशलोपचितां तासां भगवान् सत्यदेशनाम् ।
चक्रे भवादृतां कान्तास्ताह्प्रापुः कुशलं ययुः ॥ क्३६.६९ ॥
ऋद्ध्या भगवतस्तत्र चैत्यं पौराङ्गनाभिधम् ।
ताभिर्विहितमद्यापि वन्दन्ते चैत्यवन्दकाः ॥ क्३६.७० ॥
मुनीनां भगवान् कृत्वा तथा वल्कलिनो मुनेः ।
प्रव्रज्यानुग्रहं शुद्धां विदधे धर्मदेशनाम् ॥ क्३६.७१ ॥
ततश्चन्दनमालाख्यं प्रासादं भगवान् जिनः ।
प्रविश्य स्फाटिकं चक्रे जनसंघभरक्षमम् ॥ क्३६.७२ ॥
अथ रत्नासनासीनः स तत्र करुणानिधिः ।
विदधे सर्वसत्त्वानां शान्त्यै निर्वाणदेशनाम् ॥ क्३६.७३ ॥
अत्रान्तरे सानुचरौ मुनीन्द्रौ कृष्णागौतमौ ।
अभ्येत्य धर्मश्रवणेशास्तुः शासनमापतुः ॥ क्३६.७४ ॥
तत्र कृत्वाथ भगवान् प्रासादस्य प्रतिग्रहम् ।
पुनर्जेतवनं गच्छन्नुद्ययौ सह भिक्षुभिः ॥ क्३६.७५ ॥
व्रहन्मारीचिलोकस्थां मौद्गल्यायनमातरम् ।
सग्दिरा चार्यसत्ये तां धर्ममार्गे न्यवेशयत् ॥ क्३६.७६ ॥
अथ जेतवनं प्राप्तं भगवन्तं सविस्मयाः ।
पूर्णस्य पुण्यं पप्रच्छुर्भिक्षवः सोऽप्यभाषत ॥ क्३६.७७ ॥
काश्यपस्य पुरा सम्यक्संबुद्धस्यान्यजन्मनि ।
विहाराधिकृतः पूर्णः संघोपस्थायकोऽभवत् ॥ क्३६.७८ ॥
स कदाचिदसंमृष्टां दृष्ट्वा वैहारिकीं भुवम् ।
प्राह प्रव्रजितं तीव्रं क्रोधादुपधिवारिकम् ॥ क्३६.७९ ॥
दृप्तस्योपधिवारोऽद्य विहारोऽस्मिन्नमार्जितः ।
कस्य दासीसुतस्येति ब्रुवाणस्तमभर्त्सयत् ॥ क्३६.८० ॥
तेन पारुष्यपापेन भुक्त्वा नरकदुर्गतिम् ।
दासीसुतोऽभवत्पूर्णः पञ्च जन्मशतानि सः ॥ क्३६.८१ ॥
संघोपासनमेवास्य पुण्यायाभून्महीयसा ।
अर्हत्त्वं येन निःशेषभवक्लेशोज्झितः श्रितः ॥ क्३६.८२ ॥
इति प्रभावं कथितं जिनेन पूर्णस्य पुण्योपचयप्रणितम् ।
श्रुत्वाद्भुतं संसदि भिक्षुसंघः पुण्यप्रसंशाभिरतो बभूव ॥ क्३६.८३ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां पूर्णावदानं षट्त्रिंशः पल्लवः ॥


३७. मूकपङ्ग्ववदानम् ।

आकिंचन्यसुखाय निःस्पृहतया वैराग्यलक्ष्मीजुषः
सर्वं यान्ति विहाय कायसचिवाः सन्तः प्रशान्त्यै वनम् ।
तत्रापि व्रतडम्बरे परिकरारम्भाय चेत्संचयस्
तत्कः कोशपरिच्छदोपकरणैर्गेहेऽपराधः कृतः ॥ क्३७.१ ॥
जिने जेतवनारामविहाराभिरते पुरा ।
शाक्यराजकुमाराणां प्रव्रज्यासंजुषां पुरः ॥ क्३७.२ ॥
चित्रचीवरसत्पात्रयोगपट्टादिसंचयम् ।
प्रभूततरमालोक्य भगवान् समचिन्तयत् ॥ क्३७.३ ॥
अहो बतैषां नाद्यापि बन्धहेतुर्निवर्तते ।
अभिमानमयः काये प्रियः परिकरग्रहः ॥ क्३७.४ ॥
काये कायपरिष्कारस्तस्योपकरणावली ।
तस्याः परिकरादानमहो नु बन्धशृन्खला ॥ क्३७.५ ॥
इति संचिन्त्य भगवान्नैकान्तविहितस्थितिः ।
कारुण्यादुपसन्नानां कुशलाय समुद्यतः ॥ क्३७.६ ॥
मासत्रयमुपस्थानं कर्तव्यं येन केनचित् ।
अदर्शनाय भिक्षूणामकरोदिति संविदम् ॥ क्३७.७ ॥
प्रवृत्ते नियमे तस्मिन् भिक्षुरारण्यकव्रतः ।
आययावुपसेनाख्यः कार्यार्थं तनुचीवरः ॥ क्३७.८ ॥
प्रवारितः स संप्राप्य धन्यः सुगतदर्शनम् ।
कृतकृत्यः क्षस्णं स्थित्वा प्रतस्थे प्रणिपत्य तम् ॥ क्३७.९ ॥
व्रजन्तमेत्य पप्रच्छुर्भिक्षवः परिवार्य तम् ।
तवार्य दर्शनमहो दत्तं भगवता कथम् ॥ क्३७.१० ॥
मासत्रयं दर्शनेऽस्य नियमः शासनेन यः ।
स कथं भवता भग्नः संघस्योन्मार्गगामिना ॥ क्३७.११ ॥
श्रुत्वा तद्वचनं तेषामुपसेनः स्मितोत्तरम् ।
तानुचे नमया कश्चित्कृतः समयविप्लवः ॥ क्३७.१२ ॥
अहमुक्तो भगवता दर्शनावसरे स्वयम् ।
आरण्यकस्य मे भिक्षोर्निषेधो नास्ति दर्शने ॥ क्३७.१३ ॥
परिच्छदोपकरणत्यागनिर्मुक्तबन्धनाः ।
अवार्यदर्शना वृक्षमूलिकाः पांशुकूलिकाः ॥ क्३७.१४ ॥
इदमद्य परं प्रातरिति ये संचये रताः ।
पात्रवीचरवर्गेषु तेषां नास्तीह दर्शनम् ॥ क्३७.१५ ॥
पाथोभिः प्रसरत्तुषारशिशिरैस्तृष्णातुरास्ते परं
ते नित्यं च निधानधाम्नि विवृतेऽप्यन्यादलं दुर्गताः ।
तेषां चन्दनपादपादुपनतः संतापकः पावको
यैरेष प्रशमव्रतोपकरणे बद्धोऽभिमानग्रहः ॥ क्३७.१६ ॥
इत्युक्तमुपसेनेन श्रुत्वा ते शाक्यभिक्षवः ।
वैलक्ष्यक्षयितोत्साहाः सहसैव व्यचिन्तयन् ॥ क्३७.१७ ॥
एतद्भगवतादिष्टमस्मानुद्धिश्य नापरान् ।
विचित्रचीवरचयप्रावारा वयमेव यत् ॥ क्३७.१८ ॥
विरतेच्छाः प्रियाह्शास्तुर्महेच्छा वयमप्रियाः ।
तस्मादिच्छां परित्यज्य भवामस्तस्य संमताः ॥ क्३७.१९ ॥
इति संचिन्त्य ते सर्वे चारुचीवरसंचयम् ।
प्रावृत्याभ्यधिकं त्यक्त्वा ययुर्भगवतोऽन्तिकम् ॥ क्३७.२० ॥
इच्छाविरामे भगवान् व्यधात्तेषामनुग्रहम् ।
ज्ञानवज्रेण सत्कायदृष्टिशैलं बिभेद यः ॥ क्३७.२१ ॥
शाक्यराजकुमाराणां श्रोतःप्राप्तिफलस्पृशाम् ।
भिक्षुभिः पूर्ववृत्तान्तं पृष्टः प्राह तथागतः ॥ क्३७.२२ ॥
वाराणस्यामभूत्पूर्वं ब्रह्मदत्तो महीपतिः ।
दानार्द्रहस्तो यद्बाहुः क्ष्मामधाद्दिग्द्विपोपमः ॥ क्३७.२३ ॥
तस्य ब्रह्मावती मुक्तालतेव गुणशालिनी ।
कीर्तिः सत्पुरुषस्येव विश्रुता वनिताभवत् ॥ क्३७.२४ ॥
प्रतिबिम्बोपमं पत्युः सा सुतं विमलाशया ।
जलक्रीडागता काले सुषुवे दिव्यलक्षणम् ॥ क्३७.२५ ॥
उदकाख्यः स बालोऽभूत्संजातः सलिलान्तरे ।
वर्धमानः पितुस्तुल्यं यौवराज्यानोरथैः ॥ क्३७.२६ ॥
शतानि पञ्चामात्यानां तस्य जन्मदिनं समम् ।
अवापुस्तुल्यरूपाणां पुत्राणां शतपञ्चकम् ॥ क्३७.२७ ॥
निजं जातिस्मरः स्मृत्वा प्राग्वृत्तं स शिशुः शनैः ।
अचिन्तयत्प्राप्तकालं हितं सुकृतमात्मनः ॥ क्३७.२८ ॥
षष्टिवर्षाणि कृत्वा तु यौवराज्यमहं पुरा ।
अभवं कृच्छ्रसंतप्तश्चिरं नरकसंकटे ॥ क्३७.२९ ॥
जन्मन्यस्मिन्नपि पुनर्यौवराज्यमुपस्थितम् ।
सर्वथा प्रार्थ्यमानोऽपि न करिष्यामि पातकम् ॥ क्३७.३० ॥
इति संचिन्त्य स चिरं राजभोगपराङ्मुखः ।
पितुरुद्वेगजननीमग्रहीत्पङ्गुमूकताम् ॥ क्३७.३१ ॥
सर्वलक्षणयुक्तोऽपि राजवृत्तेरभाजनम् ।
स मूकपङ्गुर्नामाभूद्बन्धूनां दुःखवर्धनः ॥ क्३७.३२ ॥
प्राप्तेषु मन्त्रिपुत्रेषु शस्त्रशास्त्रबलोदयम् ।
राजपुत्रः प्रवृद्धोऽपि नोदतिष्ठन्न चावदत् ॥ क्३७.३३ ॥
पृष्टस्ततः क्षितीशेन वैद्यास्तद्दोषभेषजम् ।
अवदन् वैकल्यं राजन् राजसूनोर्न दृश्यते ॥ क्३७.३४ ॥
अभ्यासाद्यदि जातोऽस्य दोषोऽपि सुखसेविनः ।
तदेष भयसंवेगादुत्तिष्ठति च वक्ति च ॥ क्३७.३५ ॥
इति वैद्यैरभिहितं तथेत्युक्त्वा क्षितीश्वरः ।
मिथ्यैव वध्यवसुधां भयाय व्यसृजत्सुतम् ॥ क्३७.३६ ॥
स भर्त्स्यमानह्पुरुषैस्तमुवाच रथस्थितम् ।
अपि कश्चिद्वसत्यस्यां वाराणस्यां न वा जनः ॥ क्३७.३७ ॥
इति तद्वचनं श्रुत्वा तैर्नीतः स नृपान्तिकम् ।
तत्र पित्रार्थ्यमानोऽपि मूक एवाभवत्पुनः ॥ क्३७.३८ ॥
पुनर्वध्यभुवं नीतः शवं दृष्ट्वा जगाद्सः ।
अस्त्येष जीवति शवः किं वा सर्वात्मना मृतः ॥ क्३७.३९ ॥
श्रुत्वैतत्तैः पितुः पार्श्वे न्यस्तो मौनं व्यधात्पुनः ।
पुनर्वधभयाच्चैव नीतः प्रोवाच तान् पथि ॥ क्३७.४० ॥
राशिर्य एष धान्यस्य स हि भुक्तोऽनुभुज्यते ।
इत्युक्तवाक्योऽपि पुनर्नोचे किंचित्पितु परः ॥ क्३७.४१ ॥
ततः ख्यातप्रतिक्षेपे तस्यादिष्टे महीभुजा ।
सोऽवदद्वरदानेन वच्मि प्रद्भ्यां व्रजामि च ॥ क्३७.४२ ॥
अथास्य राज्ञा हृष्टेन वरदाने प्रतिश्रुते ।
स पद्भ्यां स्वयमभ्येत्य स्पष्टं पितरमब्रवीत् ॥ क्३७.४३ ॥
नाहं पङ्गुर्न मूकोऽहं नैव चाहं जडाशयः ।
किंतु जन्मान्तरक्लेशं स्मृत्वा वैह्वल्यमाश्रितः ॥ क्३७.४४ ॥
यौवराज्यसुखं भुक्त्वा षष्टिवर्षाण्यहं पुरा ।
षष्टिवर्षसहस्राणि न्यवसं नरकोदरे ॥ क्३७.४५ ॥
राजभीत्या मया तस्मात्कृतेयं मूकपङ्गुता ।
प्रव्रज्यया ब्रह्मचर्यं चराम्येष वरो मम ॥ क्३७.४६ ॥
इति तेनोक्तमाकर्ण्य तमुवाच महीपतिः ।
अमूक इत्याप्तधृतिर्विरक्त इति दुःखितः ॥ क्३७.४७ ॥
धर्ममूलमिदं राज्यं पुत्र न त्यक्तुमर्हसि ।
यज्ञदानप्रजात्राणैः पुण्यपूर्णा नॄपश्रियः ॥ क्३७.४८ ॥
एकपुत्रस्त्वया पुत्र परित्यागरसादहम् ।
निद्रादरिद्रतां नीतः शोकशय्यासमाश्रयः ॥ क्३७.४९ ॥
संपूर्णचन्द्ररुचिरां व्यक्तमौक्तिकहासिनीम् ।
कथं संपदमुत्सृज्य प्रव्रज्याभिमता तव ॥ क्३७.५० ॥
कथं शय्याः परित्यज्य प्राज्यराज्यसुखोचिताः ।
वनान्तवासव्यसनी सेवसे पांशुलाः स्थलीः ॥ क्३७.५१ ॥
कान्तालीलामुकुरमणिमन्मन्दिरीं राजधानीम्
एतां त्यक्त्वाननु वनभुवः संपतद्व्याघ्रघोराः ।
सर्वप्रीत्यै जरदजगराश्वासविप्लुष्टपत्राः
क्लिष्टच्छायाह्प्रविरललतास्ताः कथं ते भवन्ति ॥ क्३७.५२ ॥
पितुः श्रुत्वेति वचनं राजपुत्रस्तमब्रवीत् ।
दन्तकान्ताधररुचिं वैराग्यं ग्राहयन्निव ॥ क्३७.५३ ॥
शीतला निर्मलजलाह्संतोषशशिशीतलाः ।
वने वैराग्यसुभगा भुवः कस्य न वल्लभाः ॥ क्३७.५४ ॥
परदारा इव क्षिप्रसुखावर्जितदुर्जनाः ।
नरकप्रत्ययायामे सापाया न प्रियाः प्रियाः ॥ क्३७.५५ ॥
ध्यानं मन्त्रः परिज्ञानमिन्द्रियाणां चनिर्जयः ।
राज्ञां हिंसाप्रयत्नेन योगोऽयं नरकप्रदः ॥ क्३७.५६ ॥
हसन्त्यः संसारं कुसुमकलिलाः काननभुवः
स्वभावेन प्रीतिं विदधति बुधानां शममयीम् ।
दृढं चिन्ताश्राण्ता व्यजनपवनोच्छ्वासबहुला
विभूतिर्भूपानां शिरःसक्तामनित्यताम् ॥ क्३७.५७ ॥
अनुजानीहि मां तात व्रजाम्येष तपोवनम् ।
जानीहि सर्वभावानां शिरःसक्तामनित्यताम् ॥ क्३७.५८ ॥
इति पुत्रवचः श्रुत्वा तत्तथेति विचिन्तयन् ।
उवाचोपचिताश्चर्यस्तं मनीषी महीपतिः ॥ क्३७.५९ ॥
विवेकविमलं पुत्र त्वमिच्छासि स चेद्वनम् ।
हित्वामे संशयं तावत्पश्चाद्युक्तिं करिष्यसि ॥ क्३७.६० ॥
व्रजता बध्यवशुधां तिर्यगुक्तं त्वया वचः ।
प्रचुरं तदभिप्रायं वक्तुमर्हसि तत्त्वतः ॥ क्३७.६१ ॥
इति क्षितिभुजा पृष्टः सोऽब्रवीत्तन्मयोदितम् ।
वसत्यत्र न कश्चित्त्वा मद्वधाद्यो निवर्तयेत् ॥ क्३७.६२ ॥
सुकृती जीवति शवः स पापस्तु मृतोऽमृतः ।
प्राक्पुण्यं भक्ष्यते मूलात्सधनैर्धान्यराशिवत् ॥ क्३७.६३ ॥
इत्याशयान्मया तात तदुक्तं वचनं प्रियम् ।

  • * * * * * * * ॥ क्३७.६४ ॥

इति श्रुत्वा क्षितिपतिस्तं परिष्वज्य सादरः ।
उचितं क्रियतां पुत्र कुशलायेत्यभाषतः ॥ क्३७.६५ ॥
ततः स पित्रानुज्ञातः साश्रुनेत्रेण काननम् ।
प्रययौ मन्त्रिपुत्राणां सहितः पञ्चभिः शतैः ॥ क्३७.६६ ॥
महर्षेरन्तिके तत्र प्रव्रज्यां प्राप्य सानुगह् ।
तेषां कालेन सोऽपश्यत्कुण्डवल्कलसंचयम् ॥ क्३७.६७ ॥
ततःस संचयद्वेषी तददर्शनसंविदा ।
एकाकी विजने तस्थौ कंचित्कालंमहामतिः ॥ क्३७.६८ ॥
दर्शनाभाषणे बद्धनियमोऽपि यदृच्छया ।
प्राप्तं स्वागतमित्युक्त्वा पप्रच्छ कुशलं मृगम् ॥ क्३७.६९ ॥
पुनश्च पूजितं दृष्ट्वा मुनिं तेन मृगव्रतम् ।
अमात्यतनयाः सर्वे विलक्षाः समचिन्तयन् ॥ क्३७.७० ॥
मृगो मृगव्रतश्चायं पूजितौ निष्परिग्रहौ ।
एतावनजिनौ दण्डसंब्ःाराडम्बरोज्झितौ ॥ क्३७.७१ ॥
एतदर्थमनेनास्मद्दर्शने नियमः कृतः ।
व्रतोपकरणव्यग्रान्नूनमस्यापि वारयेत् ॥ क्३७.७२ ॥
इति संचिन्त्य सर्वं ते व्रतोपचारसंचयम् ।
नद्यां प्रक्षिप्य वारायां ययुः शुद्धास्तदन्तिकम् ॥ क्३७.७३ ॥
त्यक्त्वा गृहभूवं तेषामाशयानुशयोचिताम् ।
स धातुं प्रकृतिं ज्ञात्वा विदधे धर्मदेशनाम् ॥ क्३७.७४ ॥
राजपुत्रः स एवाहं शाक्यास्ते मन्त्रिसूनवः ।
पुनस्त्यागोपदेशोऽयमद्याप्येषां मया कृतः ॥ क्३७.७५ ॥
इति शाक्यकुमारवृत्तमेतत्कथितं भिक्षुगणः स्वयं जिनेन ।
अवधार्य परामपूजयत्तां करुणामाश्रितवत्सलस्य तस्य ॥ क्३७.७६ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मूकपङ्ग्ववदानं नाम सप्तत्रिंशः पल्लवः ॥


३८. क्षान्यवदानम् ।

ते जयन्ति धृतिशीलिनः परं निर्विकाररुचिसूचिताद्भुताः ।
शेषवत्पृथुलभारनिर्व्यथाः ये वहन्ति सुकृतक्षमाः क्षमाम् ॥ क्३८.१ ॥
पुरा पुरा पुण्यविपर्ययेण रिपुः प्रजानां जनितप्रकम्पः ।
उदुन्बनामा निबिडोपतापैर्यक्ष क्षयायैव कृतक्षणोऽभूत् ॥ क्३८.२ ॥
अकालकालं तमनाथबन्धुर्लोकानुकम्पी भगवान् प्रसह्य ।
शिक्षोपदेशं शरणं प्रपन्नं शमाभिधायी विनये न्ययुङ्क्त ॥ क्३८.३ ॥
तस्मिन् प्रशान्ते भुवनोपतापे द्रष्टुं प्रहृष्टः सुगतं समेत्य ।
संचारिणं नाकपतिः प्रणम्य तत्कालजातस्मितमित्युवाच ॥ क्३८.४ ॥
कस्मादकस्मात्स्मितचन्द्रलेखा मुखाम्बुजे भाति तवाद्भुतेयम् ।
अकारणं सत्त्वसुधासमुद्रा न लोकसामान्यतयां हसन्ति ॥ क्३८.५ ॥
श्रुत्वेति वाक्यं त्रिदशेश्वरस्य तत्तं सर्वदर्शी भगवान् बभाषे ।
अस्मिन् प्रदेशे निजपूर्ववृत्तं स्मृत्वा स्म्तं जातमिदं ममेन्द्रम् ॥ क्३८.६ ॥
पुरा मुनिः क्षानिरतिर्वनेऽस्मिन्नुवास निर्वासितरोषदोषः ।
योऽभूद्भुवो रागरजःस्वभावे विद्वेषवानिन्दुरिवारविन्दे ॥ क्३८.७ ॥
अथोत्तराशाधिपतिर्वसन्ते वनान्तरालोकनकौतुकेन ।
सान्तःपुरः केलिसुखाय कामी तदाश्रमोपान्तमहीमवाप ॥ क्३८.८ ॥
रागी कलिर्नाम स भूमिपालः पादप्रहारैर्वदनासवैश्च ।
लेभे विलासेषु नितम्बिनीनामशोकशोभां बकुलश्रियं च ॥ क्३८.९ ॥
दिशस्तपोलोपपृथुप्रकोपभ्रूभङ्गवृन्दैरिव तापसानाम् ।
तत्र भ्रमद्भिर्भ्रमरैर्बभूवुः कामाग्निधूमैरिव सान्धकाराह् ॥ क्३८.१० ॥
लीलाविलोलाः पवनाकुलालीस्तनावनम्राः स्तबका लतानाम् ।
रक्ताधराः पाटलपल्लवानां प्रापुर्विलासं ललना लतानाम् ॥ क्३८.११ ॥
राजाङ्गनाः कौतुकविभ्रमेण वने चरन्त्यस्तमृषिं विलोक्य ।
अचञ्चलध्यानसमाधिसक्तं विमुक्तरागं परिवार्य तस्थुः ॥ क्३८.१२ ॥
तद्देशमभ्येत्य नरेश्वरोऽथ दृष्ट्वा वभूभिः परिवारितं तम् ।
ईर्ष्याप्रकोपानलदुर्निरीक्ष्यः चिच्छेद तस्याशु स पाणिपादम् ॥ क्३८.१३ ॥
छिन्नाङ्गवर्गोऽपि स निर्विकारश्चुकोप भूपाय न नाम धीरः ।
न्यवारयत्क्रूरतरं च तस्मै गन्धर्वयक्षोरगदेवसंघम् ॥ क्३८.१४ ॥
ततः प्रयाते नृपतौ पुरं स्वां समेत्य सर्वे मुनयो वनेभ्यः ।
तं तत्र कृतावयवं विलोक्य क्षान्ता अपि क्रोधधुता बभूवुः ॥ क्३८.१५ ॥
शापप्रदानाभिमुखान्निवार्य क्षन्तव्यमित्येव स तानुवाच ।
क्षामासमालिङ्गितमानसानां कोपक्रियाभिः क्रियते न सङ्गः ॥ क्३८.१६ ॥
विकारवेगोऽपि न पाणिपादच्छेदे ममाभूद्यदि वीतमन्योः ।
सत्येन तेनाक्षतदेह एव स्यामित्यवादीत्स पुनः प्रसादी ॥ क्३८.१७ ॥
ततः क्षणात्संगतपाणिपादं रूढव्रणं प्रेत्य सदोदयेन ।
अपूजयत्क्षान्तिगुणं स्तवेन तं देवता सत्त्वसितैश्च पुष्पैः ॥ क्३८.१८ ॥
राजापि तत्किल्बिषकालकूटविस्फोटसंघट्टविनष्टचेष्टः ।
पूरोत्कटावर्तविवर्तमानः संवर्तपाकं नरकं जगाम ॥ क्३८.१९ ॥
योऽभूत्पुरा क्षान्तिरतिर्महर्षिः सोऽहं कलिर्यश्च स देवदत्तः ।
अतीतवृत्तस्मरणेन शक्र नाकारणं जातमिदं स्मितं मे ॥ क्३८.२० ॥
इति भगवतः श्रुत्वा वाक्यं स विस्मयमानसः
प्रमदविकचव्यक्तोत्साहा वहन्नयनावलीः ।
तरणिकिरणस्पर्शेनेव स्फुटः कमलाकरस्
त्रिदशवसतिं प्रीतः प्रायात्पतिस्त्रिदिवैकसाम् ॥ क्३८.२१ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां क्षान्त्यवदानमष्टत्रिंशः पल्लवः ॥


३९. कपिलावदानम् ।

अत्यन्तमुन्नतिमतां महतां विनाशदोषस्य दुर्जनसमागम एव हेतुः ।
कूलद्रुमाः किल फलप्रसवैः सहैव सद्यः पतन्ति जलसंगतिभिन्नमूलाः ॥ क्३९.१ ॥
रुचिरागारशालिन्यां वैशाल्यां भगवान् पुरा ।
वल्गुमत्यास्तटे नद्या विचचार तथागतः ॥ क्३९.२ ॥
तस्याः कैवर्तसर्थेन गम्भीरेऽम्भसि दुस्तरे ।
कदाचिद्घोरमकरः क्षिप्त्वा जालं समुद्धृतः ॥ क्३९.३ ॥
अष्टादशशिराः सिःसद्विरप्रखराननः ।
नृणां सहस्रैराकृष्टः पर्वताकारविग्रहः ॥ क्३९.४ ॥
तं दृष्ट्वा तत्र वित्रस्ताह्स्रस्ताकर्षणरज्जवः ।
आश्चर्यनिश्चलदृशो न तस्थुर्न ययुः क्षणम् ॥ क्३९.५ ॥
गणनां गहनाश्चर्यविशेषशतशालिनाम् ।
संसारे कर्मवैचित्र्ये विकाराणां करोति कः ॥ क्३९.६ ॥
अत्रान्तरे तमुद्देशं भगवान् भूतभावनः ।
जिनह्समाययौ सर्वजनत्राणकृतक्षणह् ॥ क्३९.७ ॥
सवृद्धबालललनं जनं कौतुकसंगतम् ।
दृष्ट्वा तत्राकरोत्तीरे भगवानासनग्रहम् ॥ क्३९.८ ॥
भिक्षुसंघैः परिवृतं दृष्ट्वा तत्र तथागतम् ।
जनोऽभूदुन्मुखः सर्वः प्रत्यावृत्तः इवोदधिः ॥ क्३९.९ ॥
तं विलोक्यैव विनताः कैवर्ताः प्राणिबन्धनम् ।
विशालजालं सहसा संसारमिव तत्यजुः ॥ क्३९.१० ॥
मत्स्यकुम्भीनक्रादिसंसारं तद्गिराम्भसि ।
त्यक्त्वा ते विरताटोपा बभूवुः किल्बिषद्विषः ॥ क्३९.११ ॥
तैर्न्यस्तं भगवान् दृष्ट्वा महाकमरमग्रतः ।
तं जगाद सृजन् दन्तकान्त्यैव करुणानदीम् ॥ क्३९.१२ ॥
अपि त्वं कपिलः पुत्र किं नस्मरसि दुष्कृतम् ।
वचोदुश्चरितस्यायं परिपाकोऽनुभूयते ॥ क्३९.१३ ॥
साप्यकल्याणमित्रं ते जननी क्काद्य वर्तते ।
सर्वज्ञेनेत्यभिहितः स्मृत्वा जातिमुवाच सः ॥ क्३९.१४ ॥
विभो भवामि कपिलः स्मरामि निजदुष्कृतम् ।
वचोदुश्चरितस्यायं परिपाकोऽनुभूयते ॥ क्३९.१५ ॥
याता मे नरकं माता नरकादेशिनी पुरा ।
इत्युक्त्वा मकरस्तत्र रुरोद परुषस्वरम् ॥ क्३९.१६ ॥
तं शोकसागरे मग्नं बभाषे भगवान् पुनः ।
अकाले किं करोम्यद्य तिर्यग्योनिगतस्य ते ॥ क्३९.१७ ॥
अपुण्यप्रारम्भे रभसहसितोल्लासविहिते
प्रमत्तानां याते नरकपरिपाकप्रणयिताम् ।
अशान्तेः संतापं रुदितशरणानि प्रतिनिशं
भृशं क्लेशावेशैर्दिशति विषतुल्यैरनुशयः ॥ क्३९.१८ ॥
क्षणं दुःखक्षयायैव मयि चित्तं प्रसादय ।
प्रसन्नमानसः काले यास्यसि त्रिदशालयम् ॥ क्३९.१९ ॥
शृणु वत्स हितं चेदं विचार्य कुरु चेतसि ।
अनित्याः सर्वसंस्काराः शान्तिनिर्वाणमक्षयम् ॥ क्३९.२० ॥
इत्याज्ञयाः भगवतस्तस्मिन् याते प्रसन्नताम् ।
जनसंघः स सुचिरं बभूवाश्चर्यनिश्चलः ॥ क्३९.२१ ॥
आर्यानन्दः प्रणयिना जनेनाभ्यर्थितस्ततः ।
तत्पूर्ववृत्तं पप्रच्छ भगवन्तं कृताञ्जलिः ॥ क्३९.२२ ॥
स तेन पृष्टः प्रोवाच विमपज्ञानलोचनः ।
अस्याकुशलशीलस्य वृत्तान्तः श्रूयतामयम् ॥ क्३९.२३ ॥
भद्रकाख्ये पुरा कल्पे वर्षायुतयुगायुषि ।
जने बभूव भगवान् काश्यपाख्यस्तथागतः॥ क्३९.२४ ॥
कृकिर्नाम महीपालः कल्पशाल इवार्थिनाम् ।
अभवत्समये तस्मिन् वाराणस्यां बहुप्रदः ॥ क्३९.२५ ॥
कदाचिद्विबुधास्थाने सहस्राक्षमिवापरम् ।
आसीनं वादिसिंहाख्यस्तं विद्वानाययौ द्विजः ॥ क्३९.२६ ॥
अविलम्बितसंप्राप्तदर्शनासनसत्कृतिः ।
स दत्ताशीर्नरपतिं शिष्यश्रेणिवृतोऽभ्यधात् ॥ क्३९.२७ ॥
स्वस्ति स्वस्तिमते बुधाधिपसभासीनाय तुभ्यं विभो
लुब्धाः सच्चरितामृते तव परं संदर्शने रागिणः ।
सद्वेषाः परभूपनाम्नि मुखरास्ते सुद्गुणोदीरणे
कस्मात्सर्वगुणाश्रयेण भवता दुषैर्वयं योजिताः ॥ क्३९.२८ ॥
यद्याचका अपि निरन्तररत्नवर्षे नानार्थिसार्थपरिपूरकतां प्रयान्ति ।
सर्वं भवानुपमपुण्यनिधे वदान्य निर्दैन्यदानविभवस्य विजृम्भितं ते ॥ क्३९.२९ ॥
राजन् किंचित्परिचितगुणैः सेवया सद्गुरुभ्यः
प्राप्तोऽस्माभिर्विबुधविजयी कोऽपि विद्यांशलेशः ।
अस्यां विद्वत्कमलभरसौम्यप्रभायां सभायां
तस्योत्कर्षं कतिपयपदं प्रत्ययं दर्शयामः ॥ क्३९.३० ॥
निजगुणगणने धीर्लज्जते सज्जनानां मुखरयति तथापि प्रौढवादाभिलाषः ।
इयति जगति राजन् क्षिप्रमान्विष्यतां मे प्रतिवचनरुचिशेदस्ति कश्चिद्विपश्चित् ॥ क्३९.३१ ॥
संदर्भगर्भगम्भीरमिति तस्योत्कटं वचः ।
श्रुत्वा क्षितिपतिः क्षिप्रं विलक्षः समचिन्तयत् ॥ क्३९.३२ ॥
अप्राप्तप्रतिमल्लोऽयं यदि यायान्मदोद्धतः ।
तदेष ममदेशस्य यशःखण्डनदिण्डिमः ॥ क्३९.३३ ॥
गुणापमानकृद्यत्र मूर्खो भवति भूपतिः ।
न करोति जनस्तत्र विद्यार्जनपरिश्रमम् ॥ क्३९.३४ ॥
विवेकविमलालोके धर्मारामे महीपतौ ।
लोके विद्याः प्रवर्तन्ते सदाचारक्रिया इव ॥ क्३९.३५ ॥
तस्मादस्य प्रयत्नेन कर्तव्यो मदनिग्रह ।
विद्यादरिद्रता देशे दोष एव विशांपतेः ॥ क्३९.३६ ॥
इति संचिन्त्य नृपतिर्विप्रं कर्वटवासिनम् ।
आनिनाय महामत्यैरन्विषय विदुषां गुरुम् ॥ क्३९.३७ ॥
अभूभृत्सभामुपाध्याय प्रेत्य तं तर्ककर्कशम् ।
चकार वादिसिंहस्य दर्पकेसरकर्तनम् ॥ क्३९.३८ ॥
तस्य तेन जितस्याशु विजिताशेषवादिनः ।
मौनसूत्रं समापेदे लज्जितेव सरस्वती ॥ क्३९.३९ ॥
आरूढाः शुभ्रमहसं नक्षत्राणामिवोदयाः ।
उपर्युपरि दृश्यन्ते गुणोत्कर्षा मनीषिणाम् ॥ क्३९.४० ॥
वादिसिंहं विसृज्याथ दत्वा भूरि धनं नृपः ।
ददौ द्विजाय जयिने कर्वटं नगरोपमम् ॥ क्३९.४१ ॥
लब्धराजगजाश्वोऽथ चरुकेयूरकङ्कणः ।
उपाध्यायः स्वभवनं प्रविवेश सह श्रिया ॥ क्३९.४२ ॥
भुजैर्जिता भूमिभुजां वणिजां सागरार्जिताः ।
विद्यावतां विराजन्ते गुणोत्कर्षर्जिताः श्रियः ॥ क्३९.४३ ॥
कालेन श्रीमतस्तस्य पुत्रजन्मोत्सवोऽभवत् ।
सुखेऽपि सुखसंपत्तिर्लक्षणं पुण्यकर्मणाम् ॥ क्३९.४४ ॥
कपिलो नाम स शिशुस्तेजःपिङ्गशिरोरुहः ।
वर्धमानमतिर्विद्वान् पितुरभ्यधिकोऽभवत् ॥ क्३९.४५ ॥
कुले महति वैदुष्यं विभवोद्भवः ।
विभवे सत्सुतोत्कर्षः फलं सुकृतशाखिनः ॥ क्३९.४६ ॥
कदाचिद्व्याधिसंयोगात्प्रत्यासन्नतनुक्षयः ।
विजने पुत्रमाहूय सोऽवदत्पुत्रवत्सलः ॥ क्३९.४७ ॥
बाल्ये गुणार्जनं पुत्र परलोकसुखार्जनम् ॥ क्३९.४८ ॥
उत्तमर्ण इव प्राप्ते काले सुगणितावधौ ।
अधुना विवशः क्काहं क्क सा विद्या क्क तद्धनम् ॥ क्३९.४९ ॥
गुणपुष्पे सुखफले बद्धमूले धनैर्जने ।
वने वज्र इवाकालकालः पततिः दुःसहः ॥ क्३९.५० ॥
क्षपयति सकलाभिर्जन्म विद्याकलाभिः क्षणिकसुखनिमित्तं संनिधत्ते च वित्तम् ।
पशुशिशुषु मनुष्यः प्रीयते मोहशिष्यः तनुविरहमूर्हूर्ते सर्वमन्यत्स चान्यः ॥ क्३९.५१ ॥
इदं तु ते हितं वच्मि स्नेहमोहवशीकृतः ।
संसारसारशरणं वत्स वेत्सि बहुश्रुतः ॥ क्३९.५२ ॥
सन्तः प्रणम्याः परुषण्न वाच्यं कार्यः प्रयत्नेन परोपकारः ।
पापावपाते सततं हि पुंसामेतानि पुण्यान्यवलम्बनानि ॥ क्३९.५३ ॥
अलोभशोभाभरणा विभूतिरद्वेषसक्तिः स्वसुखेष्वमोहः ।
मूलत्रयेऽस्मिन् कुशलद्रुमस्य वसत्यशेषाखिलसत्फतश्रीः ॥ क्३९.५४ ॥
यावत्तपति तीक्ष्णांशुरस्मिन् भुवनमण्डले ।
तावत्त्वत्सदृशः पुत्र विद्वान् वादी न विद्यते ॥ क्३९.५५ ॥
भिक्षुभिस्तु न कर्तव्यस्त्वया वादः कदाचनह् ।
गम्भीरज्ञानदुर्बोधप्रबुद्धा बौद्धबुद्धयः ॥ क्३९.५६ ॥
पुरा भिक्षुर्मया पृष्टः पदस्यार्थं जहास माम् ।
प्रश्नं कर्तुं न जानीषे विद्वानिति जगाद च ॥ क्३९.५७ ॥
तस्माद्भिक्षुविवादस्ते परं पाण्डित्यपीडनम् ।
बलप्रभावकामो हि गिरिं मूर्ध्नां न ताडयेत् ॥ क्३९.५८ ॥
इत्युक्त्वा तनयं विप्रः परलोकभुवं ययौ ।
कायावसथपान्थानां देहिनां न चिरस्थितिः ॥ क्३९.५९ ॥
वाग्मी कालेन कपिलः खण्डिताखिलपण्डितः ।
नृपाद्बहुग्र्णं प्राप धनमानमहोदयम् ॥ क्३९.६० ॥
ततः कदाचिदेकान्ते कपिलं काचराभिधा ।
संप्राप्तं वादिसाम्राज्यं जगाद जननी शनैः ॥ क्३९.६१ ॥
वादिदर्पच्छिदा पुत्र दिग्द्वीपजयिना त्वया ।
दुर्जनाः श्रमणाः कस्माद्दर्पान्धाः परिवर्जिताः ॥ क्३९.६२ ॥
परोत्कर्षाधिरूढस्य प्रतिपक्षे क्षमारतेः ।
अक्षमोऽयमिति व्यक्तं क्षणेन क्षीयते यशः ॥ क्३९.६३ ॥
इति मातुर्वचः श्रुत्वा सोऽवदद्बिदुषो वचः ।
न वादः श्रमणैः कार्यः पित्राहमिति वारितः ॥ क्३९.६४ ॥
इयं दुर्जीविकास्माकं पत्रालम्बनवादिनाम् ।
क्रियते गुणमान्यानां मानम्लानिर्मुखे यया ॥ क्३९.६५ ॥
धिगेतच्चण्डपाण्डित्यं गुरुविद्वेषदुःसहम् ।
महतां सुखभङ्गाय सदा तस्मिन् समुद्यमः ॥ क्३९.६६ ॥
यस्यां न मया सा बुद्धिः सा श्रीर्लोभं निहन्ति या ।
दर्पो न यस्य विद्या सा शक्तिर्या च क्षमावती ॥ क्३९.६७ ॥
एवमेव न कर्तव्यः परैर्विद्वेषविग्रहः ।
किं मातर्जगतां पूज्यभिक्षुभिः ख्यातलक्ष्मभिः ॥ क्३९.६८ ॥
विजेतुं न च ते शक्याः प्रंानपरिनिष्ठिताः ।
प्रतिपक्षैरविक्षिप्तं येषां नैरात्म्यशासनम् ॥ क्३९.६९ ॥
इति पुत्रवचः श्रुत्वा कुपिता तमुवाच सा ।
अभूत्तव पिता नूनं पापश्रमणचेतकः ॥ क्३९.७० ॥
महति ब्राह्मणकुले जातः प्राज्ञो बहुश्रुतः ।
भिक्षपक्षे निपतितः कथं त्वमपि तादृशः ॥ क्३९.७१ ॥
पृथुप्रमाणखङ्गेन कुरु श्रमणनिग्रहम् ।
अविदार्याभ्रसंघातं तीर्क्ष्णांशुर्न विराजते ॥ क्३९.७२ ॥
इत्स प्रेरितो मातुर्गिरा तद्भक्तियन्त्रितः ।
भिक्षूणामाश्रमपदं शनैर्गन्तुं समुद्ययौ ॥ क्३९.७३ ॥
व्रजन् स संमुखायातं भिक्षुं जिज्ञासया पथि ।
ग्रन्थसारं प्रमाणं च पप्रच्छ समयोचितम् ॥ क्३९.७४ ॥
स तेन पृष्टः प्रोवाच गाढशब्दार्थनिर्णयम् ।
लक्षत्रयप्रमाणं न शस्त्रं तीर्थिकदुर्लभम् ॥ क्३९.७५ ॥
कुतः पारेऽतिवर्तन्ते क्क च वर्त्मातिवर्तते ।
सुखदुःखे च लोकस्य क्कचित्समभिबन्धतः ॥ क्३९.७६ ॥
इति गम्भीरशब्दार्थं शास्तुर्भगवतो वचः ।
अनुपासितसर्वज्ञैर्ज्ञायते न यथा तथा ॥ क्३९.७७ ॥
एतदाकर्ण्य कपिलः श्लोकगाम्भीर्यविस्मितः ।
ययौ भगवतः पुण्यं काश्यपस्य तपोवनम् ॥ क्३९.७८ ॥
तथा भिक्षुगणं दृष्ट्वा प्रसन्नहृदयाननः ।
अचिन्तयत्तदश्रद्धां विहाय गतमत्सरः ॥ क्३९.७९ ॥
एतेषां द्वेषकालुष्यात्क्रौर्यं कः कर्तुमर्हति ।
येषां संदर्शनेनैव वैमल्यं लभते मनः ॥ क्३९.८० ॥
इति संचिन्त्य स चिरं तद्विवादपराङ्मुखः ।
दूराध्वखिन्नः स्वगृहं गत्वा प्रोवाच मातरम् ॥ क्३९.८१ ॥
मिथ्यैवाहं त्वया मातः प्रेरितः कलिकर्मणि ।
अजयाः श्रमणा लोके गूढार्थग्रन्थवादिनः ॥ क्३९.८२ ॥
श्लोकमात्रं मया श्रुत्वा भिक्षोरेकस्य वर्त्मनि ।
अज्ञातार्थेन वैलक्ष्यात्सुचिरं वीक्षितां क्षितिः ॥ क्३९.८३ ॥
तद्ग्रन्थेष्वकॄताभ्यासस्तान् वक्तुं कह्प्रगल्भते ।
कथयन्ति स्वशस्त्रं ते न हि प्रव्रजितादृते ॥ क्३९.८४ ॥
इति तेनोदितं श्रुत्वा जननी तमभाषत ।
आयासिताहं भवता गर्भभारेण केवलम् ॥ क्३९.८५ ॥
संघर्षमर्षशून्येन दैन्यात्सर्वप्रणामिना ।
धर्षणानिर्विमर्षेण क्रियते पुरुषेण किम् ॥ क्३९.८६ ॥
लोके सकलरत्नानां तेजसैव महार्घता ।
को ह्यर्थः पुरुषप्राणैस्तेजोजीवनवर्जितैः ॥ क्३९.८७ ॥
मिथ्या तद्ग्रन्थलाब्ःाय प्रव्रज्या गृह्यते न किम् ।
मूर्ध्नि कृत्तेषु जायन्ते किं केशेषु कुशः पुनः ॥ क्३९.८८ ॥
इति मातुर्गिरा तस्य मनः कलुषतां ययौ ।
सहसा कालवातालीरजोरुद्धमिवाम्बरम् ॥ क्३९.८९ ॥
ततः स कूटप्रशमप्रणयी भिक्षुकाननम् ।
गत्वा गृहीत्वा प्रव्रज्यां शास्त्रं सौगतमाप्तवान् ॥ क्३९.९० ॥
कालेन धर्मकथकः स विद्वान् गुणगौरवात् ।
सिंहासनं समारुह्य विदधे धर्मदेशनाम् ॥ क्३९.९१ ॥
जनन्या प्रेरितस्तस्यां देशनायां क्रमेण सः ।
भिक्षुधर्मविरुद्धार्थमव्क्तुं समुपचक्रमे ॥ क्३९.९२ ॥
धर्मप्रहारव्यथितैर्भिक्षुभिः स पदे पदे ।
निवार्यमाणस्तानूचे कृत्वा विकृतमाननम् ॥ क्३९.९३ ॥
अज्ञात्वा दर्पमुखरैरयथा बहुवादिभिः ।
भवद्भिः स्थूलदन्तोष्ठैर्व्याख्या मम विसूदिता ॥ क्३९.९४ ॥
यूयं गर्दभमर्कटोष्ट्रवदना द्वीप्यास्यपश्वानना
मार्जारैणवराहकुक्कुरमुखा दुर्दर्शवक्र्क्रः परम् ।
सह्या मौनजुषोऽपि नैव विकटाटोपं रटन्तः किमु
भ्रूभङ्गैरिति भिक्षुसंघमसकृन्निर्भर्त्सयन् सोऽभ्यधात् ॥ क्३९.९५ ॥
तस्य वाक्यशरैस्तीक्ष्णैर्विकृत्ता इव भिक्षवः ।
अनुक्त्वैव प्रतिवचस्त्यक्त्वा तं ययुरन्यतः ॥ क्३९.९६ ॥
तेन वाक्पातकेनाथ पश्चात्तापमुपागतः ।
तत्याज जननीमेव प्रव्रज्यां न तु तां द्विजः ॥ क्३९.९७ ॥
श्रमणैर्मे हृतः पुत्र इति सा विप्रलापिनी ।
उन्मादिनी तनुं त्यक्त्वा प्रपेदे नरकस्थितिम् ॥ क्३९.९८ ॥
ततः कालेन कपिलः स्वयं कलितकिल्बिषः ।
देहान्ते वाक्यपारुष्यादिमां मकरतां गतः ॥ क्३९.९९ ॥
तान्येतानि मुखान्यस्य यान्यूचे भिक्षुभर्त्सने ।
फलं सदृशरूपं हि कर्मबीजात्प्रजायते ॥ क्३९.१०० ॥
इत्युक्त्वा तत्र भगवान् धर्ममादिश्य शाश्वतम् ।
जनस्यानुग्रहं चक्रे नानाबोधिविधायकम् ॥ क्३९.१०१ ॥
ततः प्रयाते स्वपदं जिने तन्मयमानसः ।
कमरः प्रोज्झिताहारस्त्यक्त्वा देहं दिवं ययौ ॥ क्३९.१०२ ॥
चातुर्महाराजिकेषु देवेषु विशदद्युतिः ।
श्रीमान् स जातः सुगते क्षणं चित्तप्रसादनात् ॥ क्३९.१०३ ॥
ततः पूर्णेन्दुवदनः स्रग्वी रुचिरकुण्डलह् ।
स साकार इवानन्दः सुगतं द्रष्टुमाययौ ॥ क्३९.१०४ ॥
प्रकीर्णदिव्यकुसुमः किरीटस्पृष्टभूतलः ।
प्रभापूरितदिक्चक्रस्तं भक्त्या प्रणनाम सः ॥ क्३९.१०५ ॥
चक्रे तस्योपविष्टस्य भगवान् धर्मदेशनाम् ।
यया स्रोतःफलं प्राप्य सत्यदर्शी जगाम सः ॥ क्३९.१०६ ॥
तृणमिव गुरुकायोऽप्युद्धृतः पापपङ्काद्
इति स जननिकायः सोऽपि दुःखाज्जिनेन ।
व्यसननिपतितानां लीलया पुण्यशीला
निखिलमतुलमूलं क्लेशमुन्मूलयन्ति ॥ क्३९.१०७ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कपिलवदानं नाम एकोनचत्वारिंशः पल्लवः ॥


४०. उद्रायणावदानम् ।

तुल्यमेव पुरुषेण भुज्यते कायभाजनगतं शुभाशुभम् ।
देहिनां विविधकर्मजं फलं न ह्यभुक्तमुपयाति संक्षयम् ॥ क्४०.१ ॥
भगवान् सुगतः पूर्वं पुरे राजगृहाभिधे ।
कलन्दकनिवासाख्ये विजहार वनान्तरे ॥ क्४०.२ ॥
बिम्बिसारः क्षितिपतिस्तत्राभूद्विश्रुतः श्रिया ।
आकरः सरव्रत्नानां रत्नाकरमिवापरः ॥ क्४०.३ ॥
बभूव समये तस्मिन् रौरुकाख्ये पुरे नृपः ।
श्रीमानुद्रायणो नाम यशश्चन्द्रमहोदधिः ॥ क्४०.४ ॥
तस्य चन्द्रप्रभा नाम पत्नी चन्द्राननाभवत् ।
शिखण्डी युवराजश्च सूनुर्विक्रमकर्कशः ॥ क्४०.५ ॥
हिरुको भिरुकश्चेति तस्यामात्यौ बभूवतुः ।
गणनीयौ न विनये ययुः शुक्रबृहस्पती ॥ क्४०.६ ॥
जाता भूमिभुजः प्रीतिर्लेखखत्विषस्तयोः ।
रवेर्दूरस्थितस्यापि कमलाकरयोरिव ॥ क्४०.७ ॥
अपूर्वरत्ननिचयप्रेषणैर्बहुशस्तयोः ।
परिपूर्णं परं प्राप सख्यं प्रेम विधानतः ॥ क्४०.८ ॥
दूरस्थापि परं प्रीतिः सतां कीर्तिरिवाक्षया ।
संसक्तापि खलप्रीतिस्तृणज्वालेव न स्थिरा ॥ क्४०.९ ॥
कदाचिद्दिव्यरत्नाङ्कं कवचं काञ्चनोज्ज्वलम् ।
प्राहिणोद्बिम्बिसाराय सारमुद्रायणो नृपः ॥ क्४०.१० ॥
विषह्सस्त्राग्निरक्षार्हं विचित्ररत्नकं च तत् ।
सुहृत्प्रेषितमादाय प्रोवाच सचिअवान्नृपः ॥ क्४०.११ ॥
इदं मे प्रहितं तेन सौजन्यमिव भूभुजा ।
सर्व रक्षाक्षमं वर्म गाढप्रेमनिवेदकम् ॥ क्४०.१२ ॥
न पश्याम्यस्य सदृशं प्रतिदेयं तथाधिकम् ।
अल्पप्रतिक्रिया शल्यमुपकारापकारयोः ॥ क्४०.१३ ॥
उचितं चिन्त्यतां किंचित्प्रेषणीयमतोऽधिकम् ।
सर्वैर्भद्भिरित्युक्त्वा नॄपश्चिन्ताकुलोऽभवत् ॥ क्४०.१४ ॥
अथ धीमान्महामात्यश्चिरं ध्यात्वा तमब्रवीत् ।
वर्षकाराभिधो विप्रः सर्वविद्यासु पारगः ॥ क्४०.१५ ॥
अतो बहुगुणं रागन्नेकमेवास्त्युपायनम् ।
तस्य संप्रेषने यत्नः क्रियतां यदि शक्यते ॥ क्४०.१६ ॥
य एष भगवान् बुद्धः स्थितस्त्वद्विषयान्तिके ।
देवानामादरस्थानं पटस्तत्प्रतिमान्वितः ॥ क्४०.१७ ॥
अशेषलोककल्याणकलिकाकल्पपादपः ।
चित्रे स्वप्नेऽथ संकल्पे पृथुपुण्यैः स दृश्यते ॥ क्४०.१८ ॥
इति मन्त्रिवचः श्रुत्वा तथेत्युक्त्वा महीपतिः ।
गत्वा भगवते नम्रस्तमेवार्थं न्यवेदयत् ॥ क्४०.१९ ॥
अनुज्ञातस्ततस्तेन नृपश्चित्रकरान् वरान् ।
आदिदेशाशु भगवत्प्रतिमोल्लेखकर्मणि ॥ क्४०.२० ॥
जिनस्यालोकयन्तस्ते मूर्ति रूपव्शीकृताः ।
ययुः प्रमाणग्रहणे प्रगल्भा अप्यशक्तताम् ॥ क्४०.२१ ॥
संक्रान्तां निमलपटे छायां भगवतस्ततः ।
सुवर्णभावनाभिख्यां ते शनैः समपूरयन् ॥ क्४०.२२ ॥
प्राःिणोदथ भूपालस्तं बुद्धप्रतिमापटम् ।
जगन्नयनपुण्यानां मूर्तानामिव संचयम् ॥ क्४०.२३ ॥
बिम्बिसारस्य हस्ताङ्कलेखामुद्रायणो नृपः ।
पटस्य पुरतः प्राप्तां हृष्टः स्वयमवाचयत् ॥ क्४०.२४ ॥
सुगतचरणपद्मन्यासपुण्योपकण्ठात्
त्रिदशपुरविशेषान्मागधोदाररदेशात् ।
कुशलकलितमूर्तिर्भूपतिर्बिम्बिसारः
क्षितितलतिलकं त्वां धर्मबन्धुर्ब्रवीति ॥ क्४०.२५ ॥
एतत्ते प्रहितं हितं भवमहामोहामये भेषजं
राजद्वेषविषापहं भगवतो बिम्बं शशाङ्कत्विषः ।
तृष्णापच्छमनं प्रसन्नमधुरं त्वन्नेत्रपात्रार्पितं
धन्यः पुण्यरसायनं पिब हठादाकण्ठमुत्कण्ठितः ॥ क्४०.२६ ॥
सन्मार्गे विनियोजनं स्गुणगणाधाने सदाध्यापनं
दुर्व्यापारनिवारणं थिरसुखप्राप्तौ परिप्रेरणम् ।
निर्व्याजोपकृतौ निरन्तरतया सर्वात्मना वर्तनं
कर्तव्यं किमतः परं प्रियहितं कल्याणमित्रैः सताम् ॥ क्४०.२७ ॥
इति लेखार्थमास्वाद्य सुहृत्प्रेमामृतोचितम् ।
राजा गजाधिरूढस्य पटस्य प्रययौ पुरः ॥ क्४०.२८ ॥
अभिनन्द्य तमानन्दात्सामात्यः सपुरोहितः ।
हेमसिंहासनोत्सङ्गे स प्रसार्य न्यवेशयत् ॥ क्४०.२९ ॥
लावण्यपुण्यनिलयं दृष्ट्वा तत्सौगतं वपुः ।
नमो नमह्प्रबुद्धायेत्यवदजगतीजनः ॥ क्४०.३० ॥
बुद्धाभिधानं श्रुत्वैव पुलकालंकृताकृतिः ।
पुष्पवर्षे सुरैर्मुक्ते विस्मितोऽभून्महीपति ॥ क्४०.३१ ॥
पुण्यं भगवतः श्रुत्वा स तत्र चरितामृतम् ।
पयोदानादसोत्कण्ठनीलकण्ठतुलां ययौ ॥ क्४०.३२ ॥
द्वादशाङ्गं पटस्याध सानुलोमविपर्ययम् ।
प्रतीत्यसमुत्पादं च दृष्ट्वा मोहं मुमोच सः ॥ क्४०.३३ ॥
स्रोतःप्राप्तिफलेनैवं दृष्टसत्योऽथ भूपतिः ।
दिदेश प्रतिसंदेशं सख्युर्भिक्षुर्विसर्जनैः ॥ क्४०.३४ ॥
बिम्बिसारस्ततस्तस्मै कृत्वा भगवतोऽर्थनाम् ।
कात्यायनं च व्यसृजत्शैलाख्यां चापि भिक्षुणीम् ॥ क्४०.३५ ॥
उद्रायणस्य नॄपतेरार्यः कात्यायनोऽथ सः ।
पूजाविधायिनस्तत्र विदधे धर्मदेशनाम् ॥ क्४०.३६ ॥
धर्मदेशनया तस्य संगतः सुमहान् जनः ।
स्रोतःसकृदनागामिफलार्हत्पदमाप्तवान् ॥ क्४०.३७ ॥
तस्मिन् गृहपती ख्यातौ तिष्यपुष्याभिधौ पुरे ।
शान्त्यै प्रव्रज्य तस्याग्रे परिनिर्वृतिमापतुः ॥ क्४०.३८ ॥
कालेन विहितै स्तूपौ देहान्ते ज्ञातिभिस्तयोः ।
तन्नामचिह्नावद्यापि वन्दन्ते चैत्यवन्दकाः ॥ क्४०.३९ ॥
देव्याश्चन्द्रप्रभायाश्च शओलाख्या सापि भिक्षुणी ।
क्रमेणान्तःपुरे चक्रे सततं धर्मदेशनाम् ॥ क्४०.४० ॥
कदाचिदथ भूपालह्क्रीडगारगतां प्रियाम् ।
तामज्ञासीन्निमित्तज्ञः सप्ताहावधिजीविताम् ॥ क्४०.४१ ।
ज्ञातसंसारचरितस्ततस्तां वशुधाधिपः ।
अनुजज्ञे शुभपदं प्रातुं प्रव्रज्यया पुरः ॥ क्४०.४२ ॥
स्वाख्याते धर्मविन्मये भिक्षुक्या नृपतेर्गिरा ।
देवी प्रव्रजिता देहं दिने तत्याज सप्तमे ॥ क्४०.४३ ॥
चातुर्महाराजिकेषु देवेषु सहसैव सा ।
प्रयाता देवकन्यात्वं जगाम जिनकाननम् ॥ क्४०.४४ ॥
तत्र पूर्णेन्दुवदना दिव्याभरणभूषिता ।
दृष्ट्वा शाक्यमुनिं हृष्टा सा पपातास्य पादयोः ॥ क्४०.४५ ॥
प्रकीर्णदिव्यपुष्पायास्तस्याश्चक्रे तथागतः ।
धर्मोपपादनं येन दृष्टसत्या जगाम सा ॥ क्४०.४६ ॥
सा गत्वा नगरं पत्युर्व्योम्ना मूर्तिरिवैन्दवी ।
विबोध्य निशि सुप्तस्य चक्रे बोधिप्रकाशनम् ॥ क्४०.४७ ॥
यातायां स्वपदं तस्यां प्रभाते वसुधाधिपः ।
प्रव्रज्याभिमुखः पुत्रमभिषिच्य शिखण्डिनम् ॥ क्४०.४८ ॥
प्रजात्राणाय निक्षिप्य तं महामात्ययोस्ततः ।
नृपतेर्बिम्बिसारस्य सुहृदः स ययौ पुरम् ॥ क्४०.४९ ॥
बिम्बिसारस्तमायातं विगतच्छत्रचामरम् ।
नृपोपचारैः प्रणतः प्रीतिपूतैरपूजयत् ॥ क्४०.५० ॥
विश्रान्तमासनासीनं स तमूचे सविस्मयः ।
हृष्ठः संदर्शनेनास्य श्रीवियोगेन दुःखितः ॥ क्४०.५१ ॥
राजन्ननन्तसामन्तमौलिविश्रान्तशासनः ।
पाकशासनतुल्यस्त्वं कथमेवमुपागतः ॥ क्४०.५२ ॥
अभिन्नवक्र्क्रप्रकृतेर्गुप्तमन्त्रस्य धीमतः ।
परेण राज्यहरणं वीर संभाव्यते न ते ॥ क्४०.५३ ॥
इति पृष्टः स सुहृदा सस्मितस्तमभाषत ।
राजन् वृद्धिविभूतिर्मे न प्रिया सर्वगामिनी ॥ क्४०.५४ ॥
विषयास्वादवैमुख्याद्वितृष्णेन मया स्वयम् ।
उत्सृष्टमिव संत्यक्तमैश्वर्यं भोगभाजनम् ॥ क्४०.५५ ॥
त्वया कल्याणमित्रेण सुगतप्रतिमापटः ।
योऽसौ हिताय प्रहितः सवैराग्यगुरुर्ममः ॥ क्४०.५६ ॥
अधुना त्वत्प्रसादेन गत्वा भगवतोऽन्तिके ।
इच्छाम्यवाप्तुं प्रव्रज्यामगारादनगारिकः ॥ क्४०.५७ ॥
इति सख्युर्वचः श्रुत्वा तत्तथेति विचिन्त्य च ।
सादरस्तद्विवेकेन बिम्बिसारस्तमब्रवीत् ॥ क्४०.५८ ॥
धन्यो बहुमतश्चासि सतां त्वं पृथिवीपते ।
कथं संसारविमुखी जाता ते मतिरीदृशी ॥ क्४०.५९ ॥
संतोषविभवो भोगसुभगः शोभसे परम् ।
लक्षणं शुद्धसत्त्वानां वैराज्याभरणं मनह् ॥ क्४०.६० ॥
किं साम्राज्यमहौजसा सरजसा दुःसाधनैः साधनैः
किं भोगैः क्षणभोजनैः कुलषदैः किं सत्त्वदुःखैः सुखैः ।
संसारोपरमाय चेतसि सतां जन्मान्तरोपार्जितं
वैराग्यं कुरुते पदं यदि महामोहप्ररोहापहम् ॥ क्४०.६१ ॥
येन प्राणमनःप्रिया वसुमती संत्यज्यते लीलया
त्रैलोक्याभिमतेऽपि यः स्मरसुखे वैमुख्यदीक्षागुरुः ।
संमोहव्य्सनातुरं जगदिदं येनानुकम्पास्पदं
पुण्यैः कोऽपि स जायते मतिमतां संसारवामः शमह् ॥ क्४०.६२ ॥
इत्युक्त्वा बिम्बिसारस्तं नीत्वा वेणुवनाश्रमम् ।
सप्रणामं भगवते तद्वृत्तान्तं न्यवेदयत् ॥ क्४०.६३ ॥
उद्रायणोऽपि सुगताकारं सुचिरचिन्तितम् ।
विलोक्य हर्षादात्मानं कृतकृत्यममन्यत ॥ क्४०.६४ ॥
पर्णामव्यग्रशिरसा संसारच्छेदिनि तनौ ।
पपात भगवद्दृष्टिस्तस्य प्रव्रज्यया सह ॥ क्४०.६५ ॥
भिक्षुभावमथासाद्य पात्रपाणिः स चीवरी ।
नगरे पिण्डपातार्थी चकार जनविस्मयम् ॥ क्४०.६६ ॥
प्रजाः शिखण्डी धर्मेण पालयित्वा प्रसन्नधीः ।
यातः कालेन कालुष्यमधर्माभिरतोऽबह्वत् ॥ क्४०.६७ ॥
कलुषं काञ्चनरुचिव्यक्तविद्युद्विलासिनी ।
न कस्य कुरुते लक्ष्मीर्मेघमालेव मानसम् ॥ क्४०.६८ ॥
अनायत्तं महामात्यौ हिरुको भिरुकश्च तम् ।
अधर्मकर्मनिरतं क्रुद्धौ तत्यजतुः प्रभुम् ॥ क्४०.६९ ॥
तत्पदे विहितौ राज्ञा सचिवौ दण्डमुग्दरौ ।
चित्तानुवृत्तिकुशलौ स्वैरं सक्तं तमूचतुः ॥ क्४०.७० ॥
प्रजारञ्जनसंसक्ता राजदौर्जन्यवादिनः ।
स्वयशःख्यापनायैव जायन्ते धूर्तमन्त्रिणः ॥ क्४०.७१ ॥
न धर्मं न सुखं नार्थं न कीर्ति न च जीवितम् ।
गणयन्ति प्रभोरर्थे ते भृत्या भव्यभक्तयः ॥ क्४०.७२ ॥
नाखण्डिता नाक्षयिता नातप्ता नाप्यपीडिताः ।
कुर्वन्त्यर्थक्रिया राज्ञस्तिलतुल्याः किल प्रजाः ॥ क्४०.७३ ॥
इति ब्रुवाणौ तौ राज्ञा नियुक्तौ राज्यचिन्तने ।
लोभात्प्रवृत्तौ दुर्नीतौ हन्तुं निःशरणाः प्रजाः ॥ क्४०.७४ ॥
निर्विचारे दुराचारे कुमतौ पृथिवीपतौ ।
लुप्तसत्ये महामात्ये प्रजानां जीवितं कुतः ॥ क्४०.७५ ॥
उद्रायणोऽथाचिरेण कदाचिद्वणिजंपथि ।
निजदेशागतं वार्तां पप्रच्छ नृपराष्ट्रयोः ॥ क्४०.७६ ॥
सोऽवदद्देव कुशली सुतस्तव महीपतिः ।
किं तु सन्मन्त्रिरहितः कुमन्त्रिवशमागतः ॥ क्४०.७७ ॥
तत्र प्रजानां विततोपतापः कोऽपि प्रवृत्तः प्रभुशासनेन ।
येनाद्य तत्कुत्सितदेशजन्म दिवानिशं शोचति पौरलोकः ॥ क्४०.७८ ॥
यत्र ध्वान्तं सृजति तरणिर्यत्र चन्द्रोऽग्निवर्षी
यत्रोदेति प्रकटममृतादुत्कटः कालकूटः ।
यत्र त्राता हरति नृपतिर्जीववृत्तिं प्रजानां
तत्राक्रन्दं प्रसॄतविपुलोपप्लवं कः शृणोति ॥ क्४०.७९ ॥
इत्यासक्तनृपायासखिन्नस्यार्तिमयं वचः ।
दुःसहं वणिजः श्रुत्वा स तमूचे कृपानिधिः ॥ क्४०.८० ॥
दद्गिरा त्वमितो गत्वा तूर्णमाश्वासय प्रजाः ।
स्थापयिष्याम्यहं धर्मे स्वयमेत्य शिखण्डिनम् ॥ क्४०.८१ ॥
इत्युक्तस्तेन सानन्दः स्वदेशं शनकैर्वणिक् ।
गत्वा प्रजानां विदधे स्वैरमाश्वासनं पुरः ॥ क्४०.८२ ॥
प्रवादे प्रसृते तस्मिन्नमात्यौ दण्डमुद्गरौ ।
अतीतभूपागमनत्रस्तौ भूपतिमूचतुः ॥ क्४०.८३ ॥
सर्वत्र श्रूयते देव प्रवादः साधुनिन्दितः ।
वृद्धः प्रव्रजितो राजा राज्यार्थी यत्नवानिति ॥ क्४०.८४ ॥
तीव्रव्रतपरिक्लिष्टः संभोगाभिमुखादरः ।
लज्जां प्रव्रज्यया सार्धं त्यक्त्वा स पुनरेष्यति ॥ क्४०.८५ ॥
राजन्नपक्कवैराग्यास्त्यजन्ति सहसैव यत् ।
तत्पूर्वाभ्यधिकं तेषां प्रयाति प्रियतां पुनः ॥ क्४०.८६ ॥
लोकस्थितिविरुद्धेषु विषयेषु विशेषतः ।
स्पृहा संजायते जन्तोरपथ्येष्विव रोगिणः ॥ क्४०.८७ ॥
सुखोत्सेकात्परित्यक्तं प्रहस्तमुपागतम् ।
प्रायः सर्वं भवत्येव जडस्याम्रमिव प्रियम् ॥ क्४०.८८ ॥
तस्माद्भवन्तमुत्सार्य प्रतापनिधिमासनात् ।
क्षीणः शशीव स्थविरः स राज्यं भोक्तुमिच्छति ॥ क्४०.८९ ॥
चीवरोद्विग्नगात्रस्य वरवस्त्राभिलाषिणः ।
जातास्य मुण्डिते मूर्ध्नि रत्नाङ्कमुकुटस्पृहा ॥ क्४०.९० ॥
रत्नहर्म्येषु नवतासंभोगविभवोद्भवम् ।
त्यक्त्वा विलासमायासं वनवासं सहेत कः ॥ क्४०.९१ ॥
मृदुशयनसुखार्हा ये कथं शेरते ते
हरिणखरखुरोद्यत्कत्कण्टकासु स्थलीषु ।
मधु विधुकरशीतं यैर्निपीतं कथं ते
वनजगजमदोष्णं तिक्तमम्भः पिबन्ति ॥ क्४०.९२ ॥
अधुनैव तवासन्नप्रवेशविषमस्थितेः ।
आद्यंमतं न्यायविदां राजपुत्र निपातनम् ॥ क्४०.९३ ॥
तस्मादनागतो राजा पूर्वं वध्यस्तव प्रभो ।
दीपं हन्ति पतङ्गो हि न दग्धश्चेत्समापतन् ॥ क्४०.९४ ॥
तयोरिति गिरा क्षिप्रमभूद्भूपतिराकूलः ।
खलमेघैः कलुषतां नीतं कस्य न मानसम् ॥ क्४०.९५ ॥
स तौ बभाषे साशङ्कः क्रकचक्रूरतां गतः ।
बाधः साधारणश्चायं युवयोर्मम चाग्रतः ॥ क्४०.९६ ॥
भवद्भ्यामेव विनयोपायविश्रान्तया धिया ।
विचार्य कार्यतात्पर्यं यद्युक्तं तद्विधीयताम् ॥ क्४०.९७ ॥
इति राज्ञा कृतोत्साहौ तौ विसृज्याशु घातकान् ।
उद्रायणस्याग्रपथं वधायैव बबन्धतुः ॥ क्४०.९८ ॥
सोऽपिप्रज्ञापरित्राणे नियोक्तुं पुत्रमुद्यतः ।
भगवन्तं समभ्येत्य व्रजामीति व्यजिज्ञपत् ॥ क्४०.९९ ॥
सर्वज्ञेनाभ्यनुज्ञातः स्वकृतं भुज्यतामिति ।
कर्मपाशसमाकृष्टः स ययौ रोरुकं पुरम् ॥ क्४०.१०० ॥
तस्माद्व्रजन्तं निर्व्याजमाचारमिव दुर्जनाः ।
दुष्टामात्यप्रयुक्तास्ते जग्नुर्वर्त्मनि घातकाः ॥ क्४०.१०१ ॥
तस्य चाईवरपात्रादीन् गृहीत्वा निहतस्य ते ।
व्यदेवयन् कृतं प्रीत्यौ राजाकार्यममात्ययोः ॥ क्४०.१०२ ॥
ततः पापप्रहृष्टाभ्यां नृपस्ताभ्यां प्रदर्शितम् ।
दृष्ट्वा मुमोह सहसा रक्ताक्तं चीवरं पितुः ॥ क्४०.१०३ ॥
स लब्धसंज्ञः शनकैः शुशोच न तथा गुरुम् ।
यथा पतितमात्मानं घोरे नरकगह्वरे ॥ क्४०.१०४ ॥
सोऽवदद्वत्स संप्राप्तं फलं खलजनान्मया ।
ऐश्वर्यमधुलुब्धेन पापपातमपश्यता ॥ क्४०.१०५ ॥
अहो बत निरालम्बे घोरे नरकसंकटे ।
उन्नतारोहिणां सद्यः पातकं खलसंगतम् ॥ क्४०.१०६ ॥
कृतमेतन्महत्पापं दुष्टामात्यधिया मया ।
पतितस्य ममेदानीं पावकोऽपि न पावकह् ॥ क्४०.१०७ ॥
तुल्यं पितुश्चार्हतस्य वधे का मम निष्कृतिः ।
पीतं यत्र मयैकस्मिन् पात्रे सदहनंविषम् ॥ क्४०.१०८ ॥
वृद्धे पितरि निःसङ्के शमं प्रव्रज्ययाश्रिते ।
स्वचित्त निशितं शस्त्रं लोभाद्व्यापारितं मया ॥ क्४०.१०९ ॥
यत्संचिन्तितमेव कम्पजनकं श्रोतुं नयत्शक्यते
दृष्टं यच्च करोति शोककलनां निश्चेतनानामपि ।
यत्र क्रैर्यमपि प्रयाति मृदुतां तीव्रानुतापाग्निना
तत्रापि प्रसरन्ति निर्घृणधियां निस्त्रिंशतीक्ष्णाः क्रियाः ॥ क्४०.११० ॥
इत्युक्त्वा दुःकह्संतप्तः प्रलापमुखराननः ।
न्यवारयत्तयोः कोपात्प्रवेशं दुष्टमन्त्रिणोः ॥ क्४०.१११ ॥
गुणान्तरं परिज्ञाय भिरुकं हिरुकं च सः ।
आनिनाय प्रसाद्याशु पुराणौ सचिवौ पितुः ॥ क्४०.११२ ॥
ततश्चिन्ताकृशे राज्ञि शोकात्पाण्डुरतां गते ।
स्वैरं तज्जननीमेत्य दुष्टामात्याववोचताम् ॥ क्४०.११३ ॥
देवि त्वतनयः श्रीमान् स्वभावसरलाशयः ।
राज्यरक्षां न जानाति स्वजनोच्छेदकर्कशाम् ॥ क्४०.११४ ॥
पिता प्रव्रजितोऽप्यस्य राज्यं हर्तुमुपागतः ।
आवाभ्यां प्रशमं नीतस्तत्र का नाम वाच्यता ॥ क्४०.११५ ॥
नीचतन्त्रोपपन्नश्चेत्क्रमोऽयमशुभक्रमः ।
राज्याभिलाषिणो भिक्षोस्तस्यापि स कथं क्रमः ॥ क्४०.११६ ॥
आवां पितृवधक्रिधाद्वारितौ भूभुजा पदात् ।
स्वयमद्यापि शोकेन किं मिथ्या परिशुष्यते ॥ क्४०.११७ ॥
सुकृतं कृतमावाभ्यां प्रभोर्दुःखकृशाङ्गता ।
भवन्ति सर्वभावेषु भृज्या एवापराधिनः ॥ क्४०.११८ ॥
गतं शोचति किं राजा यत्कृतं कृतमेव तत् ।
उपेक्ष्यते त्वया देवि कस्माच्चिन्ताकृशः सुतः ॥ क्४०.११९ ॥
ताभ्यामित्युदितं श्रुत्वा सा राजजननी शनैः ।
ऊचे तरलिका नाम तद्वाक्यविहितादरा ॥ क्४०.१२० ॥
आनन्तर्यमिदं कर्म द्वयोर्नरकपातकम् ।
युष्मन्मतादुपनतं राज्ञः पूर्वकृतेन वा ॥ क्४०.१२१ ॥
अहं तु वारयाम्यस्य शोकं पितृवधोद्भवम् ।
अर्हद्वधोद्भवं दुःखं भवद्भ्यामपि वार्यताम् ॥ क्४०.१२२ ॥
इति तौ स्वैरमादिश्य सा गत्वा पार्थिवान्तिकम् ।
तमुवाच शुचाक्रान्तं परिक्षीणमिवोडुपम् ॥ क्४०.१२३ ॥
धर्माधर्ममयं पुत्र राज्यं राज्ञां बहुच्छलम् ।
पापानां शङ्कया तस्मिन् किं शुचा परिशुष्यसि ॥ क्४०.१२४ ॥
पितुर्वधात्प्रतप्तोऽसि यदि नाम गुरुप्रियः ।
तत्रोच्यते समुत्सृज्य लज्जां त्वद्दुःखसंकटे ॥ क्४०.१२५ ॥
स्वैरं जातस्त्वमन्येन न स तद्धर्मतः पिता ।
स्वेच्छाहारसुखाः पुत्र स्त्रियो हि निरपत्र्पाः ॥ क्४०.१२६ ॥
इत्यप्रियमपि श्रुत्वा राजा तद्वचनं रहः ।
पितृवैशसपापोग्रदुःखसंतापमत्यजत् ॥ क्४०.१२७ ॥
प्रकुर्वन्त्यस्ताद्रेरुदयगिरिणा क्लेशकलनां
क्षणात्क्षोणीक्ष्माभृद्विघटनवोनोदं विदधति ।
सृजन्त्येता वह्निं सपदि सलिलात्तच्च दहनाद्
अशाध्यं नारीणां न हि भवति किंचित्र्त्रिभुवने ॥ क्४०.१२८ ॥
अथ सोऽर्हद्वधेनैव शल्यतुल्येन पीडितः ।
नृपः पप्रच्छ धर्मज्ञान्निष्कृतिं तस्य कर्मणः ॥ क्४०.१२९ ॥
ततस्तौ दुष्टसचिवौ तिष्यपुष्याख्यचैत्ययोः ।
मार्जारपोतौ धृत्वान्तःसक्तावामिषशिक्षया ॥ क्४०.१३० ॥
निषिद्धावपि धाष्टर्येन प्रविश्य नृपतेः सभाम् ।
तमूचतुस्तीव्रतापसंतापप्रशमार्थिनम् ॥ क्४०.१३१ ॥
देव मिथ्यैव भवता चित्तमायास्यते भृशम् ।
सर्वकल्याणा लोकेऽस्मिन्नार्हन्तः सन्ति ते मताः ॥ क्४०.१३२ ॥
यदि सत्यं भवेयुस्ते नभसो राजहंसवत् ।
ऋद्धिमन्तः कथं तेषामन्येन वधसंभवः ॥ क्४०.१३३ ॥
न सन्ति तस्मादर्हन्तः कुतस्तद्वधपातकम् ।
सीमाविवादः कस्तत्र्यत्र ग्रामो न विद्यते ॥ क्४०.१३४ ॥
तिष्यपुष्यौ गृहपती यावर्हत्पदमापतुः ।
मार्जारावन्तरे जातौ तावेवाद्यस्वचैत्ययोः ॥ क्४०.१३५ ॥
प्रकटौ तौ च दृश्येते प्रत्यक्षं कस्य संशयः ।
प्रत्ययो यदि नास्त्येव स्वयं किं न निरीक्ष्यते ॥ क्४०.१३६ ॥
इत्युक्त्वा भूपतेः कृत्वा खलौ दोलाकुलं मनः ।
जग्मतुः सहितौ तेन चैत्यसंदर्शनाय तौ ॥ क्४०.१३७ ॥
अपूर्वकौतुकावेशात्तत्र संघटिते जने ।
विलोकनोद्यते राज्ञो सामात्ये दुष्टमन्त्रिणौ ॥ क्४०.१३८ ॥
आमिषाभ्याससंबद्धतिष्यपुष्याभिधानयोः ।
धूर्तौ चक्रतुराह्वानं शनैर्बालबिडालयोः ॥ क्४०.१३९ ॥
तौ तिष्यपुष्यावर्हन्तौ मार्जारौ स्थो युवां यदि ।
प्रदक्षीणं वा क्रियतां तेन सत्येन चैत्ययोः ॥ क्४०.१४० ॥
मांसदानक्षणे ताभ्यामिति वाचमुदीरितौ ।
तूर्णं निर्गत्य मार्जारौ चक्रतुस्तौ प्रदक्षिणम् ॥ क्४०.१४१ ॥
तद्दृष्ट्वा सहसावाप्तप्रत्यये सानुगे नृपे ।
याते दुर्जनमायैव जगज्जयमहीं ययौ ॥ क्४०.१४२ ॥
मुष्टौ वायुं दृषदि कमलं चित्रमाकाशदेशे
जिह्वाग्रे च प्रचुररचनासृष्टिसंहारलीलाः ।
किं वा नान्यत्पशुशिशुधियां मोहनायेन्द्रजालं
मूर्तं धुर्ताः क्षणपरिचितप्रत्ययं दर्शयन्ति ॥ क्४०.१४३ ॥
निष्प्रत्ययपरो राजा ततः सौगतदर्शने ।
आर्यकात्यायनस्याग्रे श्रद्धापूजामवारयत् ॥ क्४०.१४४ ॥
राजधान्यां निषिद्धोऽथ बहिरेव ससानुगः ।
विनेयकृपया तत्र तस्थौ शैला च भिक्षुणी ॥ क्४०.१४५ ॥
ततः कदाचिदायान्तं दृष्ट्वा कात्यायनः पुरः ।
नृपतिं जनसंपातादवमानभयाद्ययौ ॥ क्४०.१४६ ॥
प्रेषितं पूर्वमन्त्रिभ्यां व्रजन्तमवलोक्य तम् ।
दुष्टामात्यौ नरपतिं दीर्घवैराववोचताम् ॥ क्४०.१४७ ॥
राजन्नमङ्गलनिधिर्मुण्डोऽयं विशिरः पथि ।
दृष्टोऽद्य भिक्षुरस्माभिर्न विद्मः किं भविष्यति ॥ क्४०.१४८ ॥
न पश्यामि मुखं राज्ञः पापस्येति भणत्यसौ ।
तथा हि क्षणमेकान्ते गत्वा दूरमितः स्थितः ॥ क्४०.१४९ ॥
श्रुत्वैतद्दुर्जनामर्षादुवाचानुचरान्नृपः ।
एष दूरस्थितः पांशुमुष्टिभिः पूर्यतामिति ॥ क्४०.१५० ॥
पूर्यमाणः स तैः पांशुमुष्टिभिर्दुष्टचेटकैः ।
दिव्यां कुटीं प्रवेशेन परिहाराय निर्ममे ॥ क्४०.१५१ ॥
अमर्षकोपिताः सर्पाः व्याघ्रा वा पीतलोहिताः ।
शान्तेरायान्ति मृदुतां नतु भूपतिचेटकाः ॥ क्४०.१५२ ॥
ततः प्रयाते नृपतौ पांशुराशिशतावृतम् ।
दुःखादूचतुरभ्येत्य हिरुको भिरुकश्च तम् ॥ क्४०.१५३ ॥
आर्य कृच्छ्रमवाप्तोऽसि राज्ञा क्रूरेण दुष्कृतैः ।
लोचनानि धिगस्माकं यैरिदं दृश्यते पुरेः ॥ क्४०.१५४ ॥
मोहान्धः पातकश्वभ्रे दुर्जनैः पातितो नृपः ।
कर्मणो वयमप्यस्य दर्शनात्पापभागिनः ॥ क्४०.१५५ ॥
भूरियं भूरिपापार्ता त्याज्या प्राज्यमतेस्तव ।
दुःसहः खलसंवासः त्यागः कस्य न संमतः ॥ क्४०.१५६ ॥
प्रयाति न शमः शमं क्षयमुपैति नैव क्षमा
भवन्ति न च बुद्धयः परुषरोषदोषस्पृशः ।
वसन्ति न विमानना मनसि शल्यतुल्याः सतां
न दुष्टजनवर्जनादपरमास्ति लोके सुखम् ॥ क्४०.१५७ ॥
ऐश्वर्यं गुणिनामधोनिपतनायासप्रयासप्रदं
गाम्भीर्यं तिमिराकारं प्रविशतां प्राणापहं प्राणिनाम् ।
नष्टा सापि निकृष्ट्दुष्ट्कुटिलव्यालैरुपादेयता
कूपस्येव खलस्य नास्ति तदहो दोषालियुक्तं यतः ॥ क्४०.१५८ ॥
तयोरिति वचः श्रुत्वा महाकात्यायनोऽवदत् ।
न निकारेऽपि मे कोपः कर्मणो गतिरीदृशी ॥ क्४०.१५९ ॥
एतावदेव मे दुःखं यन्मूढस्य महीपतेः ।
खलसंगमदोषेण भयं महदुपस्थितम् ॥ क्४०.१६० ॥
प्रथमे हि महावायुः पुरेअस्य निपतिष्यति ।
द्वितीये पुष्पवृष्टिश्च वस्त्रवृष्टिस्ततः परे ॥ क्४०.१६१ ॥
रूप्यवृष्टिश्चतुर्थे च हेमवृष्टिश्च पञ्चमे ।
रत्नवृष्टिस्ततः षष्ठे पांशुवृष्टिश्च सप्तमे ॥ क्४०.१६२ ॥
तया सबन्धुराष्ट्रोऽसय्न भविष्यति भूपतिः ।
तस्माद्भवद्भ्यां गन्तव्यं रत्नान्यादाय भूयसे ॥ क्४०.१६३ ॥
इति तद्वचनं श्रुत्वा विनिश्चित्य तथेति तौ ।
हिरुकः श्यामकं पुत्रं तस्योपस्थापकं व्यधात् ॥ क्४०.१६४ ॥
भिरुकश्च सुतां श्यामावतीमादाय पाणिना ।
अभ्येत्य भिक्षुकीं शैलां प्रणयादिदमब्रवीत् ॥ क्४०.१६५ ॥
आर्ये भवत्या मे कन्या घोषिलस्य गृहप्रभोः ।
गृहे समर्पणीयेयमासन्नप्रतिपन्नया ॥ क्४०.१६६ ॥
एवमुक्त्वार्पयित्वा तावमात्यौ जग्मतुर्गृहम् ।
शैलापि कन्यामादाय प्रययौ घोषिलालयम् ॥ क्४०.१६७ ॥
ततः क्रमेण तदभूद्यथोक्तं भिक्षुणा पुरे ।
ज्ञानदीपवती प्रज्ञा यथातत्त्वं हि पश्यति ॥ क्४०.१६८ ॥
षष्ठेऽह्नि रत्नवर्षेऽथ पतिते रत्नपूरिताम् ।
ययतुर्नावमादाय तावमात्यावलक्षितौ ॥ क्४०.१६९ ॥
तौ दक्षिणां दिशं गत्वा चक्रतुर्नगरद्वयम् ।
हिरुको हिरुकाख्यानं भिरुकाख्यं तथापरः ॥ क्४०.१७० ॥
परेऽह्नि पांशुवर्षेणमहता पतता नृपः ।
सबन्धुराष्ट्रः प्रलय्ं प्रययौ नरकातिथिः ॥ क्४०.१७१ ॥
सदण्डिमुद्गरे राज्ञि याते किल्बिषशेषताम् ।
तं मन्त्रिपुत्रमादाय व्योम्ना कात्यायनो ययौ ॥ क्४०.१७२ ॥
तमेवानुगता प्रीत्या नभसा पुरदेवता ।
तदाज्ञया खवचनीकर्वटे विदधे स्थितिम् ॥ क्४०.१७३ ॥
भिक्षुपुण्यानुभावेन भाग्यैर्मन्त्रिसुतस्य च ।
अधिष्ठानेन देव्याश्च श्रीमत्तदबह्वत्पुरम् ॥ क्४०.१७४ ॥
तत्राथ देवता चक्रे चैत्यं कात्यायनस्य सा ।
सुरवत्यां यदद्यापि वन्दन्ते चैत्यवन्दकाः ॥ क्४०.१७५ ॥
मन्त्रिसूनुमथादाय लग्नं चीवरकर्णिके ।
लम्बनं स ययौ व्योम्ना देशं कात्यायनः परम् ॥ क्४०.१७६ ॥
लम्बते लम्बते कोऽयमित्युक्ते विस्मयाज्जनैः ।
बभूवुस्ते जनास्तत्र लम्बका इति विश्रुताः ॥ क्४०.१७७ ॥
अत्रान्तरे दिवं याते तत्रापुत्रे महीपतौ ।
स कृतः श्यामको राजा लक्षणज्ञिस्तदाज्ञया ॥ क्४०.१७८ ॥
गत्वा भोक्कानकं नाम दिशा कात्यायनस्ततः ।
जनन्यास्तत्र संशुद्धां विदस्धे धर्मदेशनाम् ॥ क्४०.१७९ ॥
सा दृष्टसत्या पुत्रस्य यष्टीमादाय सादरम् ।
वन्द्यमाद्यपि महती यष्टिचैत्यमकारयत् ॥ क्४०.१८० ॥
श्रावस्तीमथ सोत्कण्ठः प्राप्य कात्यायनः शनैः ।
जिनं विलोक्य सानन्दश्चक्रे तत्पादवन्दनम् ॥ क्४०.१८१ ॥
उद्रायणसुतकथां तत्र तेन निवेदिताम् ।
आकर्ण्य भिक्षुभिः पृष्टः सर्वज्ञस्तानभाषत ॥ क्४०.१८२ ॥
लुब्धकह्कालपाशाख्यः कर्वटोपान्तकानने ।
सकूटां मृगबन्धाय निदधे वागुरां पुरः ॥ क्४०.१८३ ॥
यन्त्रं पाशावृतं दत्वा याते तस्मिन् यदृश्छया ।
प्रत्येकबुद्धस्तं देशं प्राप्य विश्रान्तिमाप्तवान् ॥ क्४०.१८४ ॥
तस्य पुण्यानुभावेन बन्धं न विविशुर्मृगाः ।
न हि शुद्धात्मनामग्रे प्राप्नोत्यकुशलं जनह् ॥ क्४०.१८५ ॥
लुब्धकोऽपि ततोऽभ्येत्य पाशानालोक्य निर्मृगान् ।
प्रत्येकबुद्धं क्रोधान्धो विषदिग्धेषुणावधीट् ॥ क्४०.१८६ ॥
तस्य सायकविद्धस्य ज्वलज्ज्वलनतेज्सः ।
प्रभावमद्भुतं दृष्ट्वा पादयोर्निपपात सः ॥ क्४०.१८७ ॥
अकार्यकरणोद्वेगसंतापादथ लुब्धकः ।
निनिन्द शोचन्नात्मानं संत्यज्य शरवागुराः ॥ क्४०.१८८ ॥
परिनिर्वाणमाप्तस्य तस्यास्थीनि निधाय सः ।
छत्रध्वजादिसंभारैः स्तूपं चक्रे सदार्चितम् ॥ क्४०.१८९ ॥
लुब्धकस्तेन पुण्येन बभूवोद्रायणो नृपः ।
वधात्प्रत्येकबुद्धस्य बहुशो वधमाप्तवान् ॥ क्४०.१९० ॥
नन्दनाम्नो गृहपतेर्मदलेखाभिधा सुता ।
बभूव धनधन्यादिस्फूतिः कर्वटवासिनः ॥ क्४०.१९१ ॥
सा कदाचिन्मदोत्सिक्ताः गृहमार्जनरेणुभिः ।
प्रत्येकबुद्धमायान्तं पथि मोहादवाकिरत् ॥ क्४०.१९२ ॥
तस्मिन्नेव दिने तस्याश्चिरचिन्ताभिरर्थितः ।
वरः स्तनभरार्ताया वरणार्थी समाययौ ॥ क्४०.१९३ ॥
मूध्नि प्रत्येकबुद्धस्य पांशुमुष्टिउनिपातनात् ।
प्रत्यासन्नविवाहाहमिति भ्रातरमाह सा ॥ क्४०.१९४ ॥
ततस्तस्याह्प्रवादेन चिक्षिपुर्वरणाप्तये ।
मूर्ध्नि प्रत्येकबुद्धस्य रजांसि प्रौढकन्यकाः ॥ क्४०.१९५ ॥
गुणाकारप्रवृत्तेन प्रययेन विमोहिताः ।
निर्विचार्य प्रवर्तन्ते विरुद्धेष्वपि वस्तुषु ॥ क्४०.१९६ ॥
प्रवृत्तपातकाचारे तस्मिन् बुद्धबुधाभिधौ ।
निवारणं गृहपती कर्मणस्तस्य चक्रतुः ॥ क्४०.१९७ ॥
सैव कन्या नरपतिः शिखण्डी पापभागभूत् ।
प्रवादकर्ता तद्भ्राता भिक्षुः कत्यायनोऽप्ययम् ॥ क्४०.१९८ ॥
जातौ गृहपती रूढदुष्टाचारनिवारणात् ।
पुरिपतापान्निर्मुक्तौ हिरुको भिरुकश्च तौ ॥ क्४०.१९९ ॥
इति भगवतः श्रुत्वा वाक्यं विचार्य च भिक्षवः
फलपरिणतिं ज्ञात्वा चित्रां शुभाशुभकर्मणाम् ।
खलजनवचस्तुल्यं शत्रुं विचारसमं गुरुं
सुकृतसदृशं बन्धुं लोके न किंचन मेनिरे ॥ क्४०.२०० ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामुद्रायणावदानं चत्वारिंशः पल्लवः ॥


४१. कपिलावदानम् ।

यद्भूपालविशालदानबिभवप्रोद्भूतपुण्याधिकं
दानस्यातिकृशस्य सत्फलभरमप्नोत्यलं दुर्गतः ।
शुद्धस्यैव विवृद्धधर्मधवलश्रद्धासमृध्यान्वितं
निःसंसारविजृम्भितं तदुचितं चित्तस्य वित्तस्य च ॥ क्४१.१ ॥
जिने जेतवनारामविहारिणि महाधनह् ।
धीराभिधानः श्रावस्त्यामभूद्गृहपतिः पुराः ॥ क्४१.२ ॥
तस्य पण्डितनामभूत्पुत्रः सुकृतपण्डितः ।
अखण्डितयशःपुण्यदानालंकारमण्डितः ॥ क्४१.३ ॥
स बाल एव भिक्षूणां राजार्हैर्वस्त्रभोजनैः ।
शारिपुत्रप्रधानानां चकारातिथिसत्क्रियाम् ॥ क्४१.४ ॥
ततः कदाचिदक्षीणादुर्भिक्षक्षयिते जने ।
याच्ययाचकतुल्यत्वे पिण्डिच्छेदोऽथिनामभूत् ॥ क्४१.५ ॥
भिक्षूणां संकटे तस्मिन् काले परमदारुणे ।
पण्डितः सुगताहूतः प्रतस्थे जेतकाननम् ॥ क्४१.६ ॥
तं व्रजन्तं तुरङ्गेण काञ्चनादामशोभिनम् ।
ऊचुर्विटाः समभ्येत्य गुणोत्साहासहिष्णवः ॥ क्४१.७ ॥
अर्थिसार्थार्थनाकल्पवृक्षस्त्वं दिक्षु विश्रुतः ।
शतानि पञ्च संप्राप्तास्त्वामुद्दिश्याशया वयम् ॥ क्४१.८ ॥
अलंकारांशुकयुगं प्रत्येकं नः समीहितम् ।
अधुनैवाविलम्बेन दीयतां यदि शक्यते ॥ क्४१.९ ॥
इत्युक्तस्तैः सदाचारः सोऽवतीर्य तुरङ्गमात् ।
साधु पूजां विधायैषां धीमान् क्षणमचिन्तयत् ॥ क्४१.१० ॥
भगवन्तमदृष्ट्वैव गच्छामि स्वगृहं यदि ।
आसन्नामृतपानस्य तं विघ्नं कथमुतशे ॥ क्४१.११ ॥
अदत्वा प्रियमर्थिभ्यो व्रजामि यदि निस्त्रपह् ।
कथं करोमि दानस्य तां स्वयं व्रतखण्डनाम् ॥ क्४१.१२ ॥
इति चिन्तयतस्तस्य भित्त्वा भूमिं समुद्गतः ।
नागराजः स्वयं शेषः प्रादादर्थिसमीहितम् ॥ क्४१.१३ ॥
दत्तानि नागराजेन वस्त्राण्याभरणानि च ।
स तेभ्यः प्रतिपाद्याशु ययौ निःशल्यतामिव ॥ क्४१.१४ ॥
तेऽपि दृष्ट्वा तदाश्चर्यं पुण्यां सुगतभावनाम् ।
सर्वार्थसंपत्सिद्धीनां जननीमेव मेनिरे ॥ क्४१.१५ ॥
जातचित्तप्रसादास्ते तेनैव सहितास्ततः ।
भगवन्तं ययुर्द्रष्टुं विनष्टद्वेषकल्मषाः ॥ क्४१.१६ ॥
भगवन्तमथालोक्य कुमारः प्रणताननः ।
तत्पादपद्मरजसा धन्यश्चक्रे ललाटिकाम् ॥ क्४१.१७ ॥
हारं पुनश्चरणयोः शास्तुः शशिकरोज्ज्वलम् ।
विन्यस्य प्रणतानग्रे स तानस्मै न्यवेदयत् ॥ क्४१.१८ ॥
धर्मदेशनया तेषां भगवान् ज्ञानवज्रभृत् ।
भित्त्वा सत्कायदृष्ट्यद्रिं स्रोतःप्राप्तिफलं व्यधात् ॥ क्४१.१९ ॥
दृष्टसत्येषु यातेषु ततस्तेषु प्रणम्य तम् ।
कुमारंपण्डितं प्रीत्या भगवान् स्वयमभ्यधात् ॥ क्४१.२० ॥
वत्स पुण्यैरवाप्तोऽसि पर्याप्तिं सुकृतश्रियाम् ।
दुर्भिक्षेस्वपि भिक्षूणां कुरु भोज्याधिवासनाम् ॥ क्४१.२१ ॥
परिग्रहो मे भिक्षूणां शतान्यर्हत्रयोदश ।
अन्ये चान्विष्य कृच्छ्रार्ताः संविभज्यास्त्वया पुरे ॥ क्४१.२२ ॥
इति श्रुत्वा भगवतः पण्डितः प्रमदाकुलः ।
भक्त्या संघस्य विदधे यावज्जीवं निमन्त्रणम् ॥ क्४१.२३ ॥
ततः स्वगृहमभ्येत्य राजार्हैभिक्षुसंमतैः ।
संबुद्धप्रमुखं संघं सदा भोज्यैरपूजयत् ॥ क्४१.२४ ॥
दरिद्रानदरिद्रांश्च याच्यानपि च याचकान् ।
अनुकम्प्यान् स विदधे दानेनान्यानुकम्पिनह् ॥ क्४१.२५ ॥
शेषान् कृपणसंघातान् सोऽन्विष्य करुणाम्बुधिः ।
रत्नराशिं ददौ तेभ्यो दौर्गत्यतिमिरापहम् ॥ क्४१.२६ ॥
स रत्ननिकरस्तेषां जगामाङ्गारराशिताम् ।
नृणां भाग्यानि रत्नानि मणयः प्रस्थजातयः ॥ क्४१.२७ ॥
ते तमूचुः समभ्येत्य स्वप्नदृष्टधना इव ।
रत्ननाम्ना त्वयास्माकं स दत्तोऽङ्गारसंचयः ॥ क्४१.२८ ॥
धनलाभेन महता सद्यः प्राप्तोन्नतिर्जनह् ।
तत्संक्षयात्क्षणेनैव परिभ्रष्टो न जीवति ॥ क्४१.२९ ॥
इति तेषां वचः श्रुत्वा पण्डितः करुणानिधिः ।
तानूचे पुण्यदीनानां रत्नान्यायान्त्यरत्नताम् ॥ क्४१.३० ॥
युष्माभिर्न कृतः पूर्वं मोहात्सुकृतसंचयः ।
तेनायं रत्नराशिर्वः प्रयातोऽङ्गारसारताम् ॥ क्४१.३१ ॥
रत्नानि यत्ननिहितान्यपि यान्ति दूरं पुण्यक्षयादुपनयन्ति च भाग्ययोगात् ।
वित्तार्जनं पतितशोकनिमित्तमेव वित्तं हि चित्तमुचितं सुकृतप्रवृत्तम् ॥ क्४१.३२ ॥
तस्माद्भवद्भिर्भोज्याय भिक्षुसंघोऽधिवास्यताम् ।
भोगसंभारसंपत्तिमहं संपादयामि वः ॥ क्४१.३३ ॥
इत्युक्तास्तेन तद्दत्तवित्तभोजनसंपदा ।
ते बुद्धप्रमुखं संघं दिनमेकमपूजयन् ॥ क्४१.३४ ॥
संघं यथावदभ्यर्च्य प्रणीधानमकारि तैः ।
माकदाचन दारिद्य्रं स्यादस्माकमिति क्षणम् ॥ क्४१.३५ ॥
ततस्ते पण्डितगिरा गत्वा ददॄशुरग्रतः ।
तमेवाङ्गारनिकरं प्रयातं रत्नराशिताम् ॥ क्४१.३६ ॥
भवने पण्डितस्याथ कुमारस्य प्रभवतः ।
विवृतानां निधानानां निर्विघ्नं शतमुद्ययौ ॥ क्४१.३७ ॥
स प्रसेनजिते राज्ञे धर्मज्ञः स्थितिरक्षणात् ।
ददौ निधानषड्भागं स चास्याङ्गारतामगात् ॥ क्४१.३८ ॥
कुमारस्यैव सुकृतैर्भोग्योऽयं निधिसंचयः ।
इत्यन्तरीक्षाद्वचनं ततः शुश्राव भूपतिः ॥ क्४१.३९ ॥
कुमारस्यैव वचसा तान्निधीन्निर्धितां पुनः ।
प्राप्तां विलोक्य साश्चर्यः प्रहिणोत्तद्गृहं नृपः ॥ क्४१.४० ॥
ततस्तदखिलं वित्तं वितीर्य विपुलाशयः ।
कुमारः संपदां चक्रे स्थितिं दुर्गतवेश्मसु ॥ क्४१.४१ ॥
अथ निःसारसंसारविचारविरतस्पृहः ।
अनित्यतां स संचिन्त्यः दीरः पितरब्रवीत् ॥ क्४१.४२ ॥
अनुजानीहि मां तावत्गन्तुं तात पतोवनम् ।
इमा जन्मशतोच्छिष्टाः क्लिष्टा मम विभूतयः ॥ क्४१.४३ ॥
त्रैलोक्यसंपत्संप्राप्तिर्यस्मिन् व्रजति भोग्यताम् ।
तदिदं सर्वभूतानामायुर्भाजनमल्पकम् ॥ क्४१.४४ ॥
शीते यस्य करोमि संततमृदुस्पर्शांशुकौर्गूहनं
संतापे रचयामि यस्य शिशिरश्रीखण्डचर्चार्चनम् ।
यस्यार्थे विषशस्त्रवह्निभुजगव्रातात्परं मे भयं
प्राप्तः सोऽप्यमपायतः परिहृतेऽप्यायाति कायः क्षयम् ॥ क्४१.४५ ॥
भोगाद्विरक्तः प्रव्रज्यामादाय दयितां वने ।
विहरामि हरन् चिन्तां चिन्तातप्तस्य चेतसः ॥ क्४१.४६ ॥
इत्युक्त्वा स परित्यज्य विषयस्नेहबन्धनम् ।
कृताभ्युओपगमः पित्रा शारिपुत्राशमं ययौ ॥ क्४१.४७ ॥
तत्र प्रव्रजितस्तेन पात्रपाणिः सचीवरः ।
तस्यैवानुचरो भूत्वा विचचार यतव्fअतः ॥ क्४१.४८ ॥
स दृष्ट्वा कर्षकैर्धारां क्षेत्रात्क्षेत्रप्रवर्तिताम् ।
निर्दिष्टेन पथा यान्तीं विस्मयादित्यचिन्तयत् ॥ क्४१.४९ ॥
अहो विहितमार्गेण गच्छतामप्यचेतसाम् ।
जलानां कर्मसंसिद्धर्दृश्यते नतु देहिनाम् ॥ क्४१.५० ॥
संचिन्त्येति व्रजन्नग्रे दृष्ट्वा यष्टीकृतं शरम् ।
प्रतप्तमिषुकारेण प्रदध्यौ धीमतां वरः ॥ क्४१.५१ ॥
तापात्प्रगुणतामेते यान्ति निश्चेतनाः शराः ।
न तु संसारसंतप्ता अपि वक्राः शरीरिणः ॥ क्४१.५२ ॥
इति ध्यायन् विलोक्याग्रे तक्ष्णा शकटचक्रताम् ।
नीतानि दृढरूपाणि पुनश्चिन्तां समाययौ ॥ क्४१.५३ ॥
अहो नु घटनायोगाद्यान्ति कर्मण्यतां क्षणात् ।
निश्चेतनानिदारूणि न चित्तानि शरीरिणाम् ॥ क्४१.५४ ॥
इत्चंचिन्त्य संयातः सुधर्मनियमादरः ।
वत्सलं पितरं पुत्र इवाचार्यमुवाच सः ॥ क्४१.५५ ॥
आर्य एव प्रयात्वद्य पिण्डपाताय मत्कृते ।
अहं तु भवतादिष्टं चिन्तयामि निजव्रतम् ॥ क्४१.५६ ॥
इत्युपाध्यायमभ्यर्थ्य भक्तकृत्याय पण्डितः ।
तस्मिन् याते तदादिष्टं विहारागारमाविशत् ॥ क्४१.५७ ॥
तत्र यष्टीकृततनुः कृत्वा प्रतिमुखीं स्मृतिम् ।
स प्रदध्यौ निजं धर्मं बद्धपर्यङ्कनिश्चलः ॥ क्४१.५८ ॥
तस्मिन् समाधिसंनद्धे वसुधा सधराधरा ।
विचचालाखिलाम्भोधिजललोलदुकूलिनी ॥ क्४१.५९ ॥
शक्रस्तं ध्याननिरतं ज्ञात्वा निर्विघ्नसिद्धये ।
दिदेश दिक्षु रक्षायै दिक्पालान् सेन्दुभास्करान् ॥ क्४१.६० ॥
भगवानथ सर्वज्ञस्तस्य सिद्धिमुपस्थिताम् ।
पाकात्कुशलमूलानां ज्ञात्वा क्षणमचिन्तयत् ॥ क्४१.६१ ॥
आसन्नार्हत्पदस्यास्य शारिपुत्रः समेत्य चेत् ।
द्वारमुद्धाटयेन्मध्ये विघ्न एष न संशयः ॥ क्४१.६२ ॥
तस्मादागच्छतस्तस्य गत्वा स्वयमहं पुरः ।
करोमि कालहाराय नानाप्रश्नाश्रयाः कथाः ॥ क्४१.६३ ॥
इति संचिन्त्य भगवान् स्वयं तद्दिशमागतः ।
भिक्षोरागच्छतस्यस्य व्ज्लम्बं कथयाकरोत् ॥ क्४१.६४ ॥
सुरप्रभावान्निःशब्दे नभोगतविहंगमे ।
लोके निर्वातदीपस्य तुल्यतां प्राप पण्डितः ॥ क्४१.६५ ॥
स्रोतः प्राप्तिफलादूर्ध्वं सकृदागाम्यवाप्य सः ।
अनागामिफलं प्राप्य ततोऽर्हत्फलमाप्तवान् ॥ क्४१.६६ ॥
ततः कथान्ते सुगते प्रयाते निजमाश्रमम् ।
शारिपुत्रः प्रविश्यर्कमिव शिष्यं व्यलोकयत् ॥ क्४१.६७ ॥
तं दृष्ट्वा सहसोत्तीर्णं विशीर्णभवबन्धनम् ।
सिद्धिं युगशतप्राप्यां तस्य तां प्रशशंस सः ॥ क्४१.६८ ॥
तां तस्यार्हत्पदप्राप्तिं श्रुत्वा जगति विश्रुताम् ।
भिक्षुभिर्भगवाण्पृष्टस्तत्कथामब्रवीज्जिनह् ॥ क्४१.६९ ॥
भगवान् काश्यपः पूर्वं वाराणस्यां तथागतः ।
सह भिक्षूसहस्राणां विंशत्या पुरवासिभिः ॥ क्४१.७० ॥
श्रद्धाप्रणीतैः शुचिभिः सर्वभोग्यैर्मनोनुगैः ।
उवास पूजितह्कंचित्कालं सत्त्वहितोद्यतः ॥ क्४१.७१ ॥
भिक्षुपूजापरे तत्र वर्तमाने गृहे गृहे ।
अचिन्त्ययद्विनिःश्वस्य दुर्गतो नाम दुर्गतः ॥ क्४१.७२ ॥
धिङ्मामतीव दारिद्य्रात्नीचं निष्कुशलक्रियम् ।
नैकोऽपि मन्दभाग्येन येन भिक्षुर्निमन्त्रितः ॥ क्४१.७३ ॥
त्याज्या जनस्य सकलव्यवहारबाह्याः वाक्यप्रमाणपदसंधिषु नैव योग्याः ।
नष्टक्रिया विगतकारकतर्कहीनाः शब्दा इवार्थरहिताः पुरुषा भवन्ति ॥ क्४१.७४ ॥
इति चिन्तानलाक्रान्तं निन्दितं धनहीनतः ।
तं समाहूय कोऽप्येत्य सुकृतप्रेरकोऽभ्यधात् ॥ क्४१.७५ ॥
क्षीणार्थेनापि भवता जन्मान्तरशुभाप्तये ।
यथाकथंचिदेकोऽपि भिक्षुः किं न निमन्त्रितः ॥ क्४१.७६ ॥
इत्युक्तस्तेन संसक्तशल्यः पुनरिवाहतः ।
भिओक्षुभोजनवैकल्यात्स भृधं व्यथितोऽभवत् ॥ क्४१.७७ ॥
कथंचित्क्ष्ःुत्परिक्षामः स गत्वा श्रेष्ठिमन्दिरम् ।
यत्नेन प्राप मूल्यांशं दारुपाटनकर्मणा ॥ क्४१.७८ ॥
कृत्वा तत्रैव तद्भार्या शुद्धतण्डुलखण्डनम् ।
तदंशभृतिमूल्याप्तं भक्त्या भर्त्रे न्यवेदयत् ॥ क्४१.७९ ॥
समुद्यतस्य तस्याथ भिक्षुभोजनसिद्धये ।
शुद्धये शुद्धसत्त्वस्य शक्रोऽभूदनुसाधकह् ॥ क्४१.८० ॥
दिव्यवर्णरसामोदे भोज्ये शक्रेण साधिते ।
प्रीत्या प्रच्छन्नरूपेण भिक्षुं लेखे न दुर्गतः ॥ क्४१.८१ ॥
विभूतिमोहितैर्गूढैः पूर्वं पुरनिवासिभिः ।
संघे निमन्त्रिते दुःखात्दुर्गतो मर्तुमुद्ययौ ॥ क्४१.८२ ॥
कृपया तस्य भगवान् स्वयमभ्येत्य काश्यपः ।
शुद्धिसिद्धिं परिज्ञाय चक्रे भोज्यप्रतिग्रहम् ॥ क्४१.८३ ॥
अहोऽहं भवतो भोज्यं प्रयच्छामीति भूभुजा ।
प्रयत्नात्प्रार्तितोऽप्यर्थं नैवामन्यत दुर्गतः ॥ क्४१.८४ ॥
गुणद्रविणसंपूर्णः स्यां दरिद्रप्रसादनः ।
भगवन्तमथाभ्यर्च्य प्रणीधानं चकार सः ॥ क्४१.८५ ॥
स्वाश्रमं काश्यपे याते सुरेन्द्रे च दिवं गते ।
दुर्गतस्य गृहं सर्वं दिव्यरत्नैपूरयत् ॥ क्४१.८६ ॥
विश्वकर्मा ततस्तस्य विदधे शक्रशासनात् ।
भवनं रुचिरोद्यानं रत्नस्तम्भविभूषितम् ॥ क्४१.८७ ॥
संप्राप्तविमलैश्वर्यः सहितं सर्वभिक्षुभिः ।
सप्ताहं विभवैर्भोगैः स काश्यपमपूजयत् ॥ क्४१.८८ ॥
क्षुत्क्षामाङ्गनमर्थिभिः परिहृतद्वारं रुदद्दारकं
गेहं निश्चलकज्जलान्यपि स्थलीकोणस्वनन्मक्षिकम् (?) ।
चुल्लीसुप्तबिडालबालमपरं यस्याभवद्रौरवं
श्रीस्तस्यैव नृपस्पृहास्पदतयाश्चर्यं न कस्य स्वयम् ॥ क्४१.८९ ॥
तेन दानप्रभावेण सुधाशुद्धेन दुर्गतः ।
जन्मान्तरे पण्डिततामवाप्यार्हत्त्वमागतः ॥ क्४१.९० ॥
इति पण्डितपूर्वजन्मवृत्तं कथितं सर्वविदा गुणादरेण ।
अवधार्य विशुद्धदानपुण्यं कुशलार्हं प्रशशंस भिक्षुसंघः ॥ क्४१.९१ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कपिलावदानं नामैकचत्वारिंशः पल्लवः ॥

४२. कनकवर्णावदानम् ।

सत्त्वेन सूर्यरुचयस्तमसि स्फुरन्ति धर्मेण रत्ननिचया नभसः तपन्ति ।
धैर्येण सर्वविपदः प्रशमं व्रजन्ति दानेन भोगसुभगाः ककुभो भवन्ति ॥ क्४२.१ ॥
भगवान् सुगतः पूर्वं श्रावस्त्यां जेतकानने ।
कुशलानां प्रपान्नानां विदधे धर्मदेशनाम् ॥ क्४२.२ ॥
पूर्वकल्पान्तरजने वत्सराष्टायुतायुषि ।
श्रीमान् कनकवर्णाख्यो बभूव पृथिवीपतिः ॥ क्४२.३ ॥
कनकाख्या पुरी तस्य शक्रस्येवामरावती ।
सर्वलोकेश्वरस्यापि वसतिर्वल्लभाभवत् ॥ क्४२.४ ॥
नायकार्हं यशःशुभ्रं चारुवृत्तगुणोचितम् ।
हॄदये यः प्रजाकार्यं मुक्ताहारमिवावहत् ॥ क्४२.५ ॥
प्रजाकर्मविपाकेन पुरे परमदारुणा ।
अवृष्टिरभवत्तत्र सर्वभूतभयप्रदा ॥ क्४२.६ ॥
सा धैर्यहारिणी सर्वलोकसंतापकारिणी ।
अवृष्टिः प्रययौ भूभृन्मानसायासहेतुताम् ॥ क्४२.७ ॥
कुण्ठसर्वप्रतीकारः स चिन्तास्तिमितं पुरः ।
उवाच सुचिरं ध्यात्वा प्रधानामात्यमण्डलम् ॥ क्४२.८ ॥
अवर्षोपनिपातोऽयं प्रजानां निष्प्रतिक्रियः ।
करोति मे यत्नकृतं निष्फलं परिपालनम् ॥ क्४२.९ ॥
निवृत्तवर्षाः ककुभो भवन्त्यभ्राश्च स्वच्छकाः ।
प्रवृत्तबाष्पवर्षाश्च प्रजाः पापेन भूभुजाम् ॥ क्४२.१० ॥
त्राणं महाभयाद्राजा प्रजानां न करोति यः ।
तस्य स्पष्टं नटस्येव किरीटमुकुटग्रहः ॥ क्४२.११ ॥
तदा कॄतयुगं लोके यदा राजा प्रजाहितः ॥ क्४२.१२ ॥
दुर्भिक्षक्षयिताः पृथुतरक्लेशावलीविह्वलाः ।
हाहाकारविशृङ्खलाः खलतरैरत्यर्दिता वल्लभैः
शोचन्त्यः प्रलयं प्रयान्तशरणाः पापैर्नृपाणां प्रजाः ॥ क्४२.१३ ॥
तस्मात्समस्तकोषेण रक्षणीया मया प्रजाः ।
राज्ञां प्रजापरित्राणपुण्यं रत्नमयो निधिः ॥ क्४२.१४ ॥
इत्युक्त्वा सर्वलोकस्य संचिन्त्य कोष्ठकोषयोः ।
स निनाय निजं सर्वं सदा भोग्योपभोग्यताम् ॥ क्४२.१५ ॥
ततः कालेन तस्योग्रदुर्भिक्षेणान्नसंचयः ।
ययौ महाव्ययादेकपुरुषाशनशेषताम् ॥ क्४२.१६ ॥
तस्मिन्नवसरे व्योम्ना समभ्येत्य रविप्रभः ।
प्रत्येकबुद्धस्तस्याथ विदधे भोजनार्थनाम् ॥ क्४२.१७ ॥
नियमे संशये तस्मिन्नात्मनः प्राणधारणे ।
निर्विकल्प्य स ततस्र्वं ददौ तस्मै प्रसन्नधीः ॥ क्४२.१८ ॥
स्वप्राणवृत्तिं तेनासौ कृत्वातिथ्यप्रसादिना ।
प्रययौ नबह्सा तस्य प्रसंशन् सत्त्वशीअल्ताम् ॥ क्४२.१९ ॥
अथोद्ययौ व्यओममहाद्विपस्य नीलालिमालेव सदम्बुलेखा ।
मेघावली पश्चिमदिक्प्रलम्बा कपोलकालागुरुमञ्जरीव ॥ क्४२.२० ॥
ततः समस्तं गगनान्तरालमुत्फुल्लनीलोत्पलकाननाभम् ।
आच्छाद्यमानं सरसैर्बभासे भृङ्गप्रवन्धौरिव मेघसंघैः ॥ क्४२.२१ ॥
ततः पपाताखिलभोज्यवृष्टिरिष्टा प्रजानां भुवि सप्त रात्रीः ।
धान्यादिवृष्टिस्तदनन्तरं च रत्नदिवृष्टिश्च ततः क्रमेण ॥ क्४२.२२ ॥
इति स कनकवर्णः क्ष्मापतिर्भूपतीनां मुकुटमणिरिवोच्चैर्भ्राजमानः प्रजानाम् ।
अकृत सुकृतसंपत्प्रीणितह्प्राणरक्षां प्रभवति हि परार्थे सज्जनानां प्रभावः ॥ क्४२.२३ ॥
भूपतिः कनकवर्ण एष यः सोऽहमेव वपुषात्मनाधुना ।
इत्युदीर्य भगवान् जिनः सतां धीमतां व्यधित धर्मदेशनाम् ॥ क्४२.२४ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कनकवर्णावदानं नाम द्विचत्वारिंशः पल्लवः ॥


४३. हिरण्यपाण्यवदानम् ।

सर्वोपकारप्रणयी प्रभावः सर्वोपजीव्या महती विभूतिः ।
पुण्याङ्कुरार्हस्य फलं विशालपलार्हमेतत्प्रथमं हि पुष्पम् ॥ क्४३.१ ॥
जिने जेतवनारामविहाराभिगते पुरा ।
श्रावस्त्यां देवसेनाख्यः श्रीमानासीद्गृहाधिपः ॥ क्४३.२ ॥
हिरण्ंयपाणिस्तस्याभूत्पुत्रः सत्पुत्रमानिनः ।
यस्य हेममयं जातं पाणिद्वितयमद्भुतम् ॥ क्४३.३ ॥
रूप्यलक्षद्वयं तस्य प्रातः प्रातः करद्वये ।
प्रादुरासीत्स तेनाभूदर्थिनां कल्पपादपः ॥ क्४३.४ ॥
तस्य व्यक्तविवेकेन परिपाकेन भूयसा ।
काले कुशलमूलानां जिने भक्तिरजायत ॥ क्४३.५ ॥
अथ जेतवन गत्वा बह्गवन्तं तथागतम् ।
स दृष्ट्वा विदधे तस्य सानन्दः पादवन्दनम् ॥ क्४३.६ ॥
भगवानपि संषारतापप्रशमचन्दिकाम् ।
सुधासखीं दिदेशास्मै दृशं कुशलवृतिकाम् ॥ क्४३.७ ॥
स शास्तुर्दर्शनेनैव संमोहतिमितोज्झित ।
बभासे सुर्यकिरणप्रबुद्धकमलोपमः ॥ क्४३.८ ॥
भगवान् विदधे तस्य ततः सद्धर्मदेशनाम् ।
यया धर्ममयं चक्षुरक्षुण्णालोकमुद्ययौ ॥ क्४३.९ ॥
प्राक्पुण्यपरिणामेन जातवैराग्यवासनः ।
प्रणम्य विमलप्रज्ञः स सर्वज्ञमभाषतः ॥ क्४३.१० ॥
शरण्य शरणाप्तस्य भगवन् भवहारिणी ।
अशेषक्लेशनाशाय प्रव्रज्या मे विधीयताम् ॥ क्४३.११ ॥
चपलं प्राणिनामायुष्ततोऽपि नवयौवनम् ।
विद्युद्विलासचपलास्ततोऽप्येता विभूतयः ॥ क्४३.१२ ॥
इति तस्य ब्रुवाणस्य सुगतानुग्रहोदिता ।
पपात वितरजसः प्रव्रज्या वपुषि स्वयम् ॥ क्४३.१३ ॥
रक्तचीवरसुव्यक्तां बिभ्राणः स विरक्तताम् ।
पात्रग्रहेण तत्याज पुनः संसारपात्रताम् ॥ क्४३.१४ ॥
तस्य तामद्भुतां सिद्धिं प्रत्यक्षं वीक्ष्यं भिक्षवः ।
तत्पूर्ववृत्तं पप्रच्छुर्भगवन्तं स चाब्रवीत् ॥ क्४३.१५ ॥
वाराणस्यां पुरा राजा कृकिर्नाम तथागते ।
काश्यपाख्ये भगवति प्रयाति परिनिर्वृतिम् ॥ क्४३.१६ ॥
शरीरमस्य सम्कृत्य स्तूपं रत्नमयं व्यधात् ।
स्वर्गावगाहनप्रौढं मूर्तं पुण्यमिवोन्नतम् ॥ क्४३.१७ ॥
तस्मिन्नारोप्यमाणायां यष्टयां पूजापरिग्रहे ।
कितवः कन्दलो नाम निदधे रूपकद्वयम् ॥ क्४३.१८ ॥
चित्तप्रसादशुद्धेन तेन पुण्येन भूयसा ।
हिरण्यपाणिः प्राप्तोऽद्य महतां स्पॄहणीयताम् ॥ क्४३.१९ ॥
भवति विभवस्त्यागोदारः समग्रगुणो भुवि
प्रसरतिः यशः शुक्लं लोके सुधांशुसहोदरम् ।
परिणतिपदे पुण्यं धत्ते यदल्पमनल्पतां
विमलमनसः श्रद्धाशुद्धं तदेव विजृम्भितम् ॥ क्४३.२० ॥
इति प्रभावं कथितं जिनेन पुण्यानुभावस्य हिरण्यपाणेः ।
श्रुत्वैव हर्षादरविस्मयानां स भिक्षुसंघः प्रणयी बभूव ॥ क्४३.२१ ॥

इति क्षेमन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां हिरण्यपाण्यवदानं त्रिचत्वारिंशः पल्लवः ॥


४४. अजातशत्रुपितृद्रोहावदानम् ।

दुर्जनदुःसहविषधरभीषणतरतिमिरपतितानाम् ।
आलम्बनजननं भवभयहरणं जिनस्मरणम् ॥ क्४४.१ ॥
पुरे राजगृहाभिख्ये भगवान् भूभृतः पुरा ।
कटके गृध्रकूटस्य विजहार तथागतः ॥ क्४४.२ ॥
तस्मिन्नवसरे राजा बिम्बिसारः सुतप्रियः ।
अजातशत्रुणा तत्र पुत्रेण क्रूरकारिणा ॥ क्४४.३ ॥
सुहृदः पावकस्येव देवदत्तस्य संमतम् ।
घोरान्धबन्धनागारं निःसंचारं प्रवेशितः ॥ क्४४.४ ॥
पत्न्या प्रवेशितं तस्य बन्धने गूढभोजनम् ।
ज्ञात्वा स तत्क्षयाकाङ्क्षी क्षुत्क्षामस्य न्यवारयत् ॥ क्४४.५ ॥
रूक्षः कृशोऽतिमलिनः सोऽभवत्पृथिवीपतिः ।
अकालकालमेघार्तः कृष्णपक्ष इवोडुपः ॥ क्४४.६ ॥
संकीर्णवाससंतापात्प्रायः पेशलचेतसाम् ।
करोत्यालिङ्गनं प्रौढा गाढप्रणयिनी विपत् ॥ क्४४.७ ॥
स समुद्धिश्य शोकार्तः सुगताध्युषितां दिशम् ।
कृताञ्जलिर्नतशिराः क्षामस्वरमभाषत ॥ क्४४.८ ॥
नामस्तुभ्यं भगवते महार्हाय महार्हते ।
दीनोद्धरणसंनद्धसम्यक्संबोधिबोधिचेतसे ॥ क्४४.९ ॥
नमस्ते घोरसंसारमकराकरसेतवे ।
जिनाय जनताजन्मक्लेशप्रशमहेतवे ॥ क्४४.१० ॥
नमो नित्यप्रबुद्धाय सर्वसत्त्वैकबन्धवे ।
विशुद्धधान्मे बुद्धाय करुणामृतसिन्धवे ॥ क्४४.११ ॥
इति भक्तिसुधां शिक्त्वा सुगतश्रवणोचिताम् ।
पुण्यपुष्पप्रसविनीं स चक्रे स्तुतिमञ्जरीम् ॥ क्४४.१२ ॥
सर्वज्ञस्तस्य विज्ञाय कायक्लेशशमयीं दशाम् ।
बन्धनागारविवरालोकैराप्यायनं व्यधात् ॥ क्४४.१३ ॥
अजातशत्रुस्तद्वृत्तं ज्ञात्वा शङ्काकुलः पितुः ।
न्यवारयद्बन्धगृहे सुसूक्ष्मविवराण्यपि ॥ क्४४.१४ ॥
ततस्तस्य तदादेशात्चक्रुर्बन्धनरक्षिणः ।
क्षुरेण गाढबद्धस्य पादयोस्तद्विकर्तनम् ॥ क्४४.१५ ॥
स तीव्रवैशसक्लेशव्यथितह्पार्थिवः परम् ।
नमो बुद्धाय बुद्धायेत्यार्तसंक्रन्दनं व्यधात् ॥ क्४४.१६ ॥
भगवानथ सर्वज्ञः पुरः प्रत्यक्षतां गतः ।
शक्रदत्तासनासीनः कारुण्यात्तमभाषतः ॥ क्४४.१७ ॥
राजन् किं क्रियते क्रूरकर्मणां गतिरीदृशी ।
शुभाशुभसमुद्भूतं न भुक्तं क्षियते फलम् ॥ क्४४.१८ ॥
रागद्वेषविषासक्ते नानाव्यसनदुःसहे ।
एवंविधैव निःसारे संसारे दुःखसारता ॥ क्४४.१९ ॥
संक्लेशकलिले काले विपत्संपद्विसंकटे ।
धैर्यमेव परित्राणं वैराग्यं च निराकुलम् ॥ क्४४.२० ॥
संसारघोरगहनान्तरवर्धमानैः दुःखानलव्यतिकरप्रसृतैरसिक्ताः ।
धूमोद्गमैरिव पुनः सुकृतोचितानां बाष्पाम्बुबिन्दुकलिला न दृशो भवन्ति ॥ क्४४.२१ ॥
भजस्व धैर्यं दुःखेऽस्मिन् भोगाशां त्यज भूपते ।
परिणामविरोधिन्यः सर्वाः संसारवृत्तयः ॥ क्४४.२२ ॥
अधुनैव तवासन्ना देहात्ते कुशलस्थितिः ।
इत्युक्त्वा तं समाश्वस्य भगवान् स्वपदं ययौ ॥ क्४४.२३ ॥
बिम्बिसारोऽपि देहान्ते तस्मिन्नेव क्षणे दिवि ।
अभूज्जिनर्षभो नाम श्रीमान् वैश्रवणात्मजः ॥ क्४४.२४ ॥
अजातशत्रुर्जनकं ज्ञात्वा विगतजीवितम् ।
शरीरमस्य सत्कृत्य निनिन्द निजदुष्कृतम् ॥ क्४४.२५ ॥
तस्यातितीव्रपापार्तं चित्तं दुर्वृत्तदूषितम् ।
पश्चात्तापाग्निपतनं प्रायश्चित्तमिवाकरोत् ॥ क्४४.२६ ॥
सोऽवदद्बत संमोहादैश्वर्यमदलुब्धधीः ।
दुर्वृत्तपातकश्वभ्रे पतितोऽहमधोमुखः ॥ क्४४.२७ ॥
श्रुतप्रज्ञादरिद्राणां निजनिद्रासुखापहा ।
चिन्ता दहति गात्राणि खलमन्त्रानुवर्तिनाम् ॥ क्४४.२८ ॥
पतितस्यावसन्नस्य पापपङ्के प्रमादिनह् ।
अनालम्बस्य संत्राणं जिनसंस्मरणं मम ॥ क्४४.२९ ॥
इति संचिन्त्य सुचिरं स गत्वा सुगतान्तिकम् ।
जुगुप्समानः कुकृतात्परं संकोचमाययौ ॥ क्४४.३० ॥
तत्रापवित्रमात्मानं मन्यमानः सपत्रपः ।
प्रणनाम जिनं दूरात्पापस्पर्शभयादिव ॥ क्४४.३१ ॥
साश्रुनेत्रः परित्राणं स सर्वज्ञं व्यजिज्ञपत् ।
सकम्पः कायसंसक्तं विधुन्वन्निव दुष्कृतम् ॥ क्४४.३२ ॥
भगवन् कृतपायोऽहमासन्ननरकानलः ।
उत्तप्तः करुणासिन्धुं त्वामेव शरणं गतः ॥ क्४४.३३ ॥
मामियं शोणपर्यन्ता दृष्टिस्ते पुष्करप्रभा ॥ क्४४.३४ ॥
खलमन्त्रप्रवृत्तेन दुर्वृत्तेन प्रमादिना ।
मया विभवलुब्धेन पापेन निहतः पिता ॥ क्४४.३५ ॥
इति प्रलापिनस्तस्य वचः श्रुत्वा तथागतः ।
ससर्ह तत्पापरजःशुद्ध्यै पुण्यसरस्वतीम् ॥ क्४४.३६ ॥
राजन्न चिन्तितः पापः खलेनेव स्वकर्मणा ।
प्रेरितस्त्वं पितृवधे पतितः पापसंकटे ॥ क्४४.३७ ॥
दुःखं तत्तेन भोक्तव्यं प्राप्तव्यं किल्बिषं त्वया ।
तव तस्य च भूपाल तुल्यैषा भवितव्यता ॥ क्४४.३८ ॥
निजकण्ठसमुत्कीर्णां ललाटपटवर्तिनी ।
शिलाशकललेखेव निश्चला नियतिर्नृणाम् ॥ क्४४.३९ ॥
कुर्वता कलुषं कर्म खलप्रेरणया त्वया ।
प्रत्यासन्नामृतश्रेयः स्वहस्तेन तिरस्कृतम् ॥ क्४४.४० ॥
अद्यापि यदि ते पापं हन्तुं प्राप्तुं च संपदम् ।
वाञ्छास्ति तत्कुरु मतिं पुण्ये पापशमात्मनि ॥ क्४४.४१ ॥
दीपवृत्त्या सुखं सूते जीवयत्युज्ज्वलं यशह् ।
अमृतस्य प्रकारोऽयं सुवृत्तः सत्समागमः ॥ क्४४.४२ ॥
पश्चात्तापाग्नुपातेन साधुना संगमेन च ।
संकीर्तनेन दानेन पापं नश्यति देहिनाम् ॥ क्४४.४३ ॥
पात्रं पवित्रयति नैव गुणान् क्षिणोति स्नेहं न संहरति नैव मलं प्रसूते ।
दोषावसानरुचिरश्चलतां न धत्ते सत्संगमः सुकृतसद्मनि कोऽपि दीपः ॥ क्४४.४४ ॥
गुणिगणविपद्दीक्षादक्षः क्षपाक्षणसंनिभः
सकलनयनव्यापाराणां जनेषु निरोधकः ।
असमविषमायासावासः प्रकाशपरिक्षयात्
सृजति हि महामोहाग्दाढं तमः खलसंगमः ॥ क्४४.४५ ॥
प्रत्येकबुद्धस्त्वं राजन् कालेन क्षीणकिल्बिषः ।
भविष्यसि विवेकेन कृतालेकः शनैः शनैः ॥ क्४४.४६ ॥
इति तस्य दयाश्वासं चकार बह्गवान् जिनह् ।
पतितेष्वधिकं सन्तः करुणास्निग्धलोचनाः ॥ क्४४.४७ ॥
ततः प्रणम्य सुगतं प्रयातः स्वपदं नृपः ।
महतः पापभारस्य विवेद लघुतामिव ॥ क्४४.४८ ॥
तस्मिन् प्रयाते सर्वज्ञः पृष्टस्तत्कर्म कौतुकात् ।
भिक्षुभिः क्षितिपालस्य पूर्ववृत्तमभाषत ॥ क्४४.४९ ॥
वाराणस्यां निरायासविलासव्यवसायिनः ।
चत्वारः श्रेष्ठितनया बभूवुः श्रीविशृङ्खलाः ॥ क्४४.५० ॥
ते कदाचित्सुखक्षीबा मिथः कलिकथास्थिताः ।
प्रत्येकबुद्धमायान्तं ददृशुर्यौवनोद्धताः ॥ क्४४.५१ ॥
तं दृष्ट्वा जातविद्वेषाः शमसंयमनिन्दकाः ।
ज्येष्ठः सुन्दरको नाम भ्रातॄन् प्रोवाच सस्मितः ॥ क्४४.५२ ॥
अयं चीवरपात्राङ्कः पानेन गतजीवितः ।
क्षिबो विधीयते भिक्षुरित्ययं मे मनोरथः ॥ क्४४.५३ ॥
इत्युक्ते चापलात्तेन द्वितीयः कुन्दराभिधः ।
उवाच भिक्षुं क्षिप्त्वेमं हन्तुमिच्छाम्यहं जले ॥ क्४४.५४ ॥
ततस्तृतीयोऽप्यवदत्पापः सुन्दरकाभिधः (?) ।
एष भिक्षुर्वरं तस्यां वीथ्यां निक्षिप्यते जवात् ॥ क्४४.५५ ॥
चतुर्थोऽप्यवदत्क्रूरमतिः कन्दरकाभिधः ।
भिक्षोः क्षुरेण क्रियते निश्चर्म चरणद्वयम् ॥ क्४४.५६ ॥
इति तेषां ब्रुवाणानां कलुषोऽभून्मनोरथः ।
येन जन्मान्तरे प्रापुस्ते स्वेच्छासदृशं फलम् ॥ क्४४.५७ ॥
धनं पश्यति लोभान्धः क्रिधान्धः शत्रुमेव च ।
कामान्धह्कामिनीमेव दर्पान्धस्तु न किंचन ॥ क्४४.५८ ॥
धनिद्भूतविकाराणां प्रयात्यनियतात्मनाम् ।
मदमन्दविचाराणामानन्दः क्लेशबन्धताम् ॥ क्४४.५९ ॥
क्रुध्यन्त्यकारणमकारणमुत्पतन्ति स्निह्यन्त्यकारणमकारणमामनन्ति ।
मोहाहताः खलु हिताहितनिर्विचाराः तृप्ताः परं नृपशवः समदा भवन्ति ॥ क्४४.६० ॥
ज्येष्ठः श्रेष्ठिसुतः पापात्स एवापरजन्मनि ।
शारिर्यानाभिधः शाक्यः पीत्वा मद्यं व्यपद्यत ॥ क्४४.६१ ॥
द्वितीयोऽपि महान्नाम शाक्यस्तोये क्षयं गतः ।
तृतीयश्च स्वपुत्रेण व्यस्तो राजा प्रसेनजित् ॥ क्४४.६२ ॥
बिम्बिसारश्चतुर्थोऽसौ धृतः पुत्रेण बन्धने ।
प्रयुक्तं धनवत्कर्म भुज्यते हि सवृद्धिकम् ॥ क्४४.६३ ॥
मोहाहतैरिह हि सद्भिरसद्भिरेषां निःशर्म कर्म सहसैव विडम्ब्यते यत् ।
बाष्पाम्बुपूर्णनयनैरनयोपनीतःमस्तोकशोकविवशैरनुभूयतेऽत्र ॥ क्४४.६४ ॥ क्४४.॥
सुगतकथितमेतत्पूर्वजन्मप्रवृत्तं विषविषमविपाकं बिम्बिसारस्य वृत्तम् ।
विबुधसदसि भिक्षुः स्पष्टमाकर्ण्य मेने व्यसनशतनिमित्तं दूषितं चित्तमेव ॥ क्४४.६५ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामजातशत्रुपितृद्रोदावदानं नाम चतुश्चत्वारिंशः पल्लवः ॥


४५. कृतज्ञावदानम् ।

अन्धीकृतोऽपि स्वदृशा तमसा खलेन लक्ष्मीविहारविरहे विनिपातितोऽपि ।
कष्टां दशामिव निशामतिवाह्य पद्मः स्वामेव संपदमुपैति पुनर्गुणाढ्यः ॥ क्४५.१ ॥
श्रावस्त्यां सुगते जेतवनोद्यानविहारिणि ।
देवदत्तः परिद्वेषव्याधिव्याप्तो व्यचिन्तयत् ॥ क्४५.२ ॥
तुल्यः समानो मे भ्राता मनुष्यः शाक्यवंशजः ।
प्राप्तः पुण्यप्रभावेण त्रिजगत्पूज्यतां जिनः ॥ क्४५.३ ॥
जीवितोद्वृत्तये तस्मात्तय्स्य यत्नं करोम्यहम् ।
न ह्यनस्तंगते भानौ परतेजः प्रकाशते ॥ क्४५.४ ॥
विज्ञानेनानुभावेन विद्यया तपसा श्रिया ।
परप्रकर्षं सहते न हि मानोन्नतं मनह् ॥ क्४५.५ ॥
विषं निजनखाग्रेषु धृत्वा तस्य प्रणामकृत् ।
संचारयामि वपुषि नेदिष्ठः पादपीडणैः ॥ क्४५.६ ॥
इति संचिन्त्य कलुषं विद्वेषविवशः खलह् ।
स तिष्यप्रमुखानेत्य बान्धवानिदमभ्यधात् ॥ क्४५.७ ॥
क्रूरः कृतापकारोऽहं सुगतस्याद्य पादयोः ।
सरलस्य प्रसादाय प्तामि गुरुपातकह् ॥ क्४५.८ ॥
इति ब्रुवाणस्तैः सर्वैः सुदत्तानुमतैः सह ।
जिनं जेतवनासीनं द्रष्टुं दुष्टमतिर्ययौ ॥ क्४५.९ ॥
भगवन्तं विलोक्याभूत्तत्र यावत्स सर्वशः ।
तावद्दग्धोऽहमित्युच्चैरुत्क्षिप्तचरणोऽवदत् ॥ क्४५.१० ॥
हुइंसासंकल्पपापेन व्रज्रेणेव समाहतः ।
सशरीरं क्षणे तस्मिन्नरकाग्नौ पपात सः ॥ क्४५.११ ॥
सर्वज्ञः सहसा दृष्ट्वा तं घोरनरके च्युतम् ।
उवाच श्रुततद्वृत्तविस्मितां भिक्षुसंसदम् ॥ क्४५.१२ ॥
एष किल्बिषदोषेण पतितः क्लेशसंकटे ।
तीव्रं हि तिमिर सूते सर्वथा मलिनं मनः ॥ क्४५.१३ ॥
नगर्यामतिघोषायां रतिसोमस्य भूपतेः ।
कृतज्ञश्चाकृतज्ञश्च पुरा पुत्रौ बभूवतुः ॥ क्४५.१४ ॥
कृतज्ञः कृपयार्थिभ्यः कल्पवृक्षः इवानिशम् ।
निजं विमुच्य प्रददौ रत्नाभरणसंचयम् ॥ क्४५.१५ ॥
अविभक्तं पितुर्द्रव्यं सर्वं साधारणं तयोः ।
वदन्नित्यकृतज्ञ्पोऽपि तेनदत्तः जहत्तत् ॥ क्४५.१६ ॥
ततः श्लाध्याय वचसा मतिघोषाभोधो नृपः ।
जनकल्यानिकां नाम कृतज्ञाय सुतां ददौ ॥ क्४५.१७ ॥
स्वयमेवार्जितं वित्तं दातुं जातमनोरथः ।
आरुरोहं प्रवहणं कृतज्ञोऽथ महोदधौ ॥ क्४५.१८ ॥
रत्नार्जनोद्यतं यान्तं तं द्वेषस्पर्धितादरः ।
तमेवानुययौ लोभादकृतज्ञोऽपि दुर्जनः ॥ क्४५.१९ ॥
संपूर्णं वणिजां सार्थैः ततः प्रवहणं शनैः ।
आनुकूल्येन मतुतामवाप द्वीपमीप्सितम् ॥ क्४५.२० ॥
तस्मिन् प्रतिनिवृत्तेऽथ स्वदेशं गन्तुमुद्यते ।
रत्नराशिभिरापूर्णसंक्लपे स्वदेशं गन्तुमुद्यते ॥ क्४५.२१ ॥
कृतज्ञः पृथिवीमूल्यं रत्नानां शतपःञ्चकम् ।
आदाय ग्रन्थिपट्टेन बबन्धांशुकपल्लवे ॥ क्४५.२२ ॥
रत्नभारपरिश्रान्तं ततः प्रवहणं महत् ।
अभज्यत महावातैरैश्वर्यमिव दुर्नयैः ॥ क्४५.२३ ॥
ततः फलकवाहस्तं कृतज्ञः प्राप्तजीवितः ।
अकृतज्ञं निमज्जन्तं पृष्ठेन समतारयत् ॥ क्४५.२४ ॥
तारितः कृपया भ्रात्रा स घोरमकराकरात् ।
अपश्यदञ्चले तस्य रुचिरं रत्नसंचयम् ॥ क्४५.२५ ॥
स तस्य रत्नलोभेन द्वेषेन च वशीकृतः ।
समुद्रतीरे श्रान्तस्य भ्रातुर्द्रोहमचिन्तयत् ॥ क्४५.२६ ॥
तस्य निद्रानिलीनस्य शस्त्रेणोत्पाट्य लोचनम् ।
गृहीत्वा रत्ननिचयं कृतघ्नः स ययौ जवात् ॥ क्४५.२७ ॥
क्रूरेणाङ्गीकृतस्तेन राहुणेव दिवाकर ।
लोकोपकारविहतो दुःखितः सोऽप्यचिन्तयत् ॥ क्४५.२८ ॥
अधुनार्थिप्रदानेऽर्थे व्यर्थीभूते मनोरथे ।
किं ममान्धस्य वन्ध्येन जीवितेन प्रयोजनम् ॥ क्४५.२९ ॥
अप्राप्तविषयाः प्राणा न प्रयान्ति यदि क्षयम् ।
तदसंगतयो योगाः क्लेशय्न्ति क्ष्यक्षमाः ॥ क्४५.३० ॥
क्षणे धने जने द्वेषमानवैकल्यविह्वले ।
पूज्ये पुंसां समेनैव शेषस्य च यशोव्ययः ॥ क्४५.३१ ॥
इति संचिन्त्य स शनैर्व्रजन्सार्थेन तारितः ।
अवाप नगरोपान्तं मतिघोषस्य भूपतेः ॥ क्४५.३२ ॥
गोपालभवने तत्र स कंचित्कालमास्थितः ।
उद्यानयात्रागतया राजपुत्र्या विलोकितह् ॥ क्४५.३३ ॥
तं दृष्ट्वान्धमपि व्यक्तराजलक्शणलक्षितम् ।
प्राग्जन्मप्रेमबन्धेन साभिलाषा बभूव सा ॥ क्४५.३४ ॥
ततः स्वयंवरविधिं सा कृत्वा शासनात्पितुः ।
राज्ञां मध्ये च मान्यानां वव्रे विगतलोचनम् ॥ क्४५.३५ ॥
भूमिपालान् परित्यज्य वृतोऽन्धः पापया त्वया ।
उक्त्वेति पित्रा कोपेन निरस्ता शुशुभे न सा ॥ क्४५.३६ ॥
उद्याने सा निधायान्धं यत्नेनाहृत्य भोजनम् ।
सदा तस्मै ददौ प्रेमप्रणयोपचितादरा ॥ क्४५.३७ ॥
कदाचित्तां चिरायातामाहारावसरे गते ।
उवाच राजतनयः परं म्लानाननः क्षुधा ॥ क्४५.३८ ॥
असमीक्षितकारिणा त्वया केवलचापलात् ।
वृतोऽहमन्धः संत्यज्य नृपान् विपुललोचनान् ॥ क्४५.३९ ॥
पश्चात्तापेन नूनं त्वं मयि पर्युषितादरा ।
अधुना ताण्डवं प्रेम्णह्प्रदर्शयितुमुद्यता ॥ क्४५.४० ॥
अन्धसंदर्शनोद्विग्ना सुरूपालोकनोन्मुखी ।
आहारकालेऽतिक्रान्ते चिरेणेह त्वमागता ॥ क्४५.४१ ॥
इत्युक्त्वा परुषं तेन कम्पमाना लतेव सा ।
उवाच गुञ्जन्मधुपश्रेणीमधुरवादिनी ॥ क्४५.४२ ॥
नाथ मिथ्यैव मे शन्कां न कोपात्कर्तुमर्हसि ।
वाग्बाणपातं सहते न चेतः प्रीतिपेशलम् ॥ क्४५.४३ ॥
त्वामेच देवतां जाने यद्यहं शुद्धमानसा ।
तेन सत्येन सालोकमेकं नयनमस्तु ते ॥ क्४५.४४ ॥
इत्युक्ते सत्त्वशालिन्या तया तस्याशु लोचनम् ।
उत्फुल्लकमलाकारमेकं विमलतां ययौ ॥ क्४५.४५ ॥
तस्याह्सत्यप्रभावेण संजातपृथुविस्मयह् ।
सत्यप्रत्ययसोत्साहं कृतज्ञस्तामभाषत ॥ क्४५.४६ ॥
भ्रात्रा तेनाकृतज्ञ्न पाटिते लोचनद्वये ।
तस्मिन् विकारो वैरं वा न निकारोऽप्यभून्मम ॥ क्४५.४७ ॥
स्वच्छं तेनास्तु सत्येन द्वितीयमपि लोचनम् ।
इत्युक्ते तक्षणेनास्य स्पष्टं चक्षुरलक्ष्यत ॥ क्४५.४८ ॥
अतः कथितवृत्तान्तं कृतज्ञमुचितं पतिम् ।
प्रहृष्टा जनकल्याणी गत्वा पित्रे न्यवेदयत् ॥ क्४५.४९ ॥
पूजितः श्वशुरेणाथ स रत्नगजवाजिभिः ।
श्रियेव कान्तया सार्धं जगाम नगरं पितुः ॥ क्४५.५० ॥
स तत्र पित्रा हृष्टेन चरणालीनशेखरः ।
जनानुरागसुभगे यैवराज्ये पदे धृतः ॥ क्४५.५१ ॥
अकृतज्ञोऽपि निर्लज्जस्तं प्रसादयितुं शठः ।
विचिन्त्य पादपतने तस्य द्रोहं समाययौ ॥ क्४५.५२ ॥
उन्मना हन्तुमायातः स तं कुटुलचेष्टितः ।
हाहा दग्धोऽस्मि दग्धोऽस्मीत्युक्त्वैव नरकेऽपतत् ॥ क्४५.५३ ॥
स एव देवदत्तोऽसौ कृतज्ञोऽप्यहमेव च ।
जन्मान्तरानुबन्धेन द्वेषोऽस्य न निवर्तते ॥ क्४५.५४ ॥
सर्वज्ञभाषितमिति प्रचुरोपकारं तद्देवदत्तचरितं परितापकारि ।
जन्मान्तरोपचितपातकसंनिबद्धं श्रुत्वा बभूव विमना इव भिक्षुसंघः ॥ क्४५.५५ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कृतज्ञावदानं पञ्चचत्वारिंशः पल्लवः ॥


४६. शालिस्तम्बावदानम् ।

दानैकतानमनसां पृथुसत्त्वभाजामुत्साहमानगुणभोगविभूटिपूतः ।
प्राकुण्यसंचयमयः कुशलभिधानः काले फलत्यविकलः किल कल्पवृक्षः ॥ क्४६.१ ॥
कोसलेन्द्रस्य भूभर्तुः श्रावस्त्यां भगवान् पुरा ।
विजहार व रोद्याने सह भिक्षगणैर्जिनः ॥ क्४६.२ ॥
आदिमध्याण्तकल्याणं बह्वाभिभवसाधकम् ।
संदिदेश स सद्धर्मं त्रैलोक्यकुशलोद्यतः ॥ क्४६.३ ॥
अत्राण्तरे नागराजपुत्राः सागरवासिनह् ।
चत्वारः सुगतोदीर्णं सद्धर्मं परमामृतम् ॥ क्४६.४ ॥
अभिरत्याख्यया स्वस्रा प्रेरिताः श्रोतुमागताः ।
ते बलातिबल-श्वास-महाश्वासाभिधाः समम् ॥ क्४६.५ ॥
क्रकुच्छन्दस्य सुधियः काले भगवतः पुर ।
कनकाख्यस्य च मुनेः काश्यपस्य च यत्नतः ॥ क्४६.६ ॥
आजग्मुः श्रीसुखासक्ताः श्रोतुमप्रार्थिता अपि ।
तत्पुण्यपरिणामेन प्राप्ताः शाक्यमुनेः पुरा ॥ क्४६.७ ॥
तेषु प्रणम्य शास्तारं चरणालीनमौलिषु ।
विधाय मानुषं रूपमुपविष्टेषु पर्षदि ॥ क्४६.८ ॥
सद्धर्ममाययौ श्रोतुं कोसलेन्द्रः प्रसेनजित् ।
लक्ष्मीमन्दस्मितच्छायं निवार्य च्छत्रचामरम् ॥ क्४६.९ ॥
शास्तुः पादप्रणामाय विशतस्तस्य संसदि ।
अवकाशं नताश्चक्रुः सर्वे नृपतिगौरवात् ॥ क्४६.१० ॥
तस्याभिनन्द्यमानस्य वर्षाश्रमगुरोर्नृभिः ।
नागराजसुताश्चक्रुर्नावकाशं न सत्कृतम् ॥ क्४६.११ ॥
तस्याभिनन्द्यमानस्य वर्णाश्रमगुरोर्नृभिः ।
नागराजसुताश्चक्रुर्नावकाशं न सत्कृतम् ॥ क्४६.१२ ॥
स संज्ञया समादिश्य निजं परिजनं पुरः ।
गमने निग्रहं तेषां निर्विकार इवाभवत् ॥ क्४६.१३ ॥
भगवानपि सर्वज्ञस्तस्य ज्ञात्वा च निश्चयम् ।
धर्मोपदेशपर्यन्ते प्रोवाच रचितस्मितः ॥ क्४६.१४ ॥
न विद्वेषरजःपूर्णमनोमलिनदर्पणे ।
भाति धर्मोपदेशस्य प्रतिबिम्बप्रतिग्रहः ॥ क्४६.१५ ॥
अविहितसमतानां कोपमोहाहतानां कृशमपि कुशलांशं नोपदेशः करोति ।
न हि वहुतरदोषे शुद्धिहीने शरीरे व्रजति हतमतीनां भेषजं भेषजत्वम ॥ क्४६.१६ ॥
इति युक्तं भगवता हितमुक्तं महीपतिः ।
श्रुत्वापि न च तत्याज नागेषु विमनस्कताम् ॥ क्४६.१७ ॥
भगवन्तं प्रणम्याथ प्रयाते स्वपदं नृपे ।
नागास्तत्सैनिकाबद्धमार्गे व्योमपथा ययुः ॥ क्४६.१८ ॥
ते विचिन्त्य स्वभवने क्ष्मासंक्षयकृतक्षणाः ।
घोरनिर्घातमेघौघग्रस्तलोकाः समाययुः ॥ क्४६.१९ ॥
तेषां व्यवसितं ज्ञात्वा सर्वज्ञः पक्षपातिनाम् ।
रक्ष्ःाक्षमं क्षितिपतेर्मौद्गल्यायनमादिशत् ॥ क्४६.२० ॥
अथ नागगणोत्सृष्टा वज्रवृष्टिर्महीपतौ ।
भूभर्तुस्तत्प्रभावेण प्रययौ पुष्पवृष्टिताम् ॥ क्४६.२१ ॥
शस्त्रास्त्रवृष्टिर्निबिडक्षिप्ता तैरथ दुःसहा ।
मौद्गल्यायनसंकल्पाद्ययौ राजार्हभोज्यताम् ॥ क्४६.२२ ॥
तत्प्रभावात्प्रयातेषु भोग्नोत्साहेषु भोगिषु ।
गत्वा ववन्दे सुगतं नृपतिर्वीतविप्लवः ॥ क्४६.२३ ॥
स मौद्गल्यायनस्यार्घ्यमुचितं भोगसंपदा ।
भक्तिसंस्कारसुभगं विदधे जिअन्शासनात् ॥ क्४६.२४ ॥
ततः स्वर्गोचितां भिक्षुर्विभूतिं वीक्ष्य भूपतेः ।
पप्रच्छ कौतुकवशात्सर्वज्ञं चरिताञ्जलिः ॥ क्४६.२५ ॥
भगवन् कस्य पुण्यस्य प्रभावेण प्रसेनजित् ।
सर्वैर्विराजितं भोगैः प्राज्यं राज्यमवाप्तवान् ॥ क्४६.२६ ॥
इक्षुस्तम्बवदेतस्य शालिस्तम्बश्च जायते ।
दिव्यपानान्नसंपत्तिः फलं तत्कस्य कर्मणः ॥ क्४६.२७ ॥
इति पृष्टः प्रणयिना भिक्षुणा भगवान् जिनः ।
उवाच श्रूयतां राज्ञः कारणं भोगसंपदाम् ॥ क्४६.२८ ॥
कोसलेऽस्मिन् जनपदे खण्डाख्यगुडकर्षकः ।
ददौ प्रत्येकबुद्धाय पूर्वमिक्षुरसौदनम् ॥ क्४६.२९ ॥
भुक्तेनेक्षुरसान्नेन तेन वातगदार्दितः ।
प्रत्येकबुद्धस्तत्पुण्यैः प्रसन्नः सुस्थतां ययौ ॥ क्४६.३० ॥
राजा प्रसेनजित्सोऽयं पुण्यवान् गुडकर्षकह् ।
तेन पुण्यप्रभावेण भोगभागी विराजते ॥ क्४६.३१ ॥
उपकारः कृतज्ञानां निकारः क्रूरचेतसाम् ।
सुकृतांशश्च शाधूनामप्लोऽप्यायात्यनल्पताम् ॥ क्४६.३२ ॥
सर्वज्ञेनेति कथिते पूर्वपुण्ये महीपतेः ।
बभूव सुकृतोत्कर्षे भिक्षुराश्चर्यनिश्चलह् ॥ क्४६.३३ ॥
अथ भक्त्या भगवतः कृत्वा राजाधिवासनाम् ।
उपनिन्ये स्वयं तां तां सुरार्हां भोगसंपदम् ॥ क्४६.३४ ॥
परोपचारै रुचिरैरर्चिते काञ्चनासने ।
सुखोपविष्टं प्रोवाच नरनाथस्तथागतम् ॥ क्४६.३५ ॥
भगवन्मे भवद्भक्तिविभक्तसुकृतश्रियः ।
चयह्कुशलमूलानामनिर्मुक्त्यै भविष्यति ॥ क्४६.३६ ॥
विनयात्पार्थिवेनेति पूर्णपुण्याभिमानिना ।
पृष्टः स्मितसितालोकं जगाद सुगतः सृजन् ॥ क्४६.३७ ॥
राजन् संसारमार्गोऽयमनादिनिधनोद्भवः ।
हेलालङ्घ्यः कथं पुंसामप्राप्य क्लेशसंक्षयम् ॥ क्४६.३८ ॥
चिरपरिचितैश्चक्रावर्तैरसक्तगतागतिः
प्रकृतिगहनः संसारोऽयं सुखेन न लङ्घ्यते ।
असति हि विना योगाभ्यासं क्षये किल कर्मणां
स्फुटफलततिर्धर्मोऽप्यस्मिन्निबन्धनतां गतः ॥ क्४६.३९ ॥
सर्वतो विनिवृत्तस्य दानाभ्यासेन भूयसा ।
ममापि धर्मसंसारो बभूव भूरिजन्मकृत् ॥ क्४६.४० ॥
धनिको नाम धनवान् वाराणस्यामभूत्पुरा ।
तापापहः फलस्फीटश्छायावृक्ष इवार्थिनाम् ॥ क्४६.४१ ॥
दुर्भिक्षक्षपिते लोके विषमक्लेशविह्वले ।
भोज्यं प्रत्येकबुद्धानां सोऽर्थितः पञ्चभिः शतैः ॥ क्४६.४२ ॥
स तेषां परभोगार्हं दुर्भिक्षावधि भोजनम् ।
अकल्पयदनल्पश्रीः कोष्ठागारी गतस्मयः ॥ क्४६.४३ ॥
शतपञ्चकसंघातैर्भोक्तुं तस्य गृहं ततः ।
क्रमात्प्रत्येकबुद्धानां सहस्रद्वयमाययौ ॥ क्४६.४४ ॥
तस्य तत्पुण्यवासेन जातो लब्धफलश्रिया ।
दुर्भिक्षदानजनितो रत्नकोशस्तदाक्षयः ॥ क्४६.४५ ॥
सुखं सनातनं पुण्यभोग्यत्वं प्रणिधानतः ।
शास्तुस्ततः परेणायं सम्यक्संबोधिमापितः ॥ क्४६.४६ ॥
पुण्येन पापेन च वेष्टितेयं संसारिणां कर्मफलप्रवृत्तिः ।
सितासिता बन्धनरज्जुरेषा तत्संक्षये मोक्षपथं वदन्ति ॥ क्४६.४७ ॥
इति क्षितीशः कथितं जिनेन मोहव्यपायेन निशम्य मोक्षम् ।
क्लेशक्षयार्हं शममेव मत्वा पुण्याभिमानं शिथिलीवकार ॥ क्४६.४८ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां शालिस्तम्बावदानं नाम षट्चत्वारिंशः पल्लवः ॥


४७. सर्वार्थसिद्धावदानम् ।

स्वार्थप्रवृत्तौ विगतस्पृहाणां परोपकारे सततोद्यतानाम् ।
क्लेशेष्वभीता व्यसनैरनीता विघ्नैरपीडाकरमेति सिद्धिः ॥ क्४७.१ ॥
श्रावस्त्यां भगवान् पूर्वं जिनो जेतवनस्थितः ।
धर्माख्यानप्रसङ्गेन भिक्षुसंघमभाषत ॥ क्४७.२ ॥
आसीदखिलभूपालमौलिलालितशासनह् ।
सिद्धार्थो नाम सुकृती सार्वभौमो महीपतिः ॥ क्४७.३ ॥
सागराख्यस्य नागस्य सूनुर्जलधिवासिनह् ।
सर्वार्थसिद्धः पुत्रत्वं प्रययौ तस्य भूपतेः ॥ क्४७.४ ॥
स भाद्रकल्पिको बोधिसत्त्वः सत्त्वोज्ज्वलप्रभः ।
जातमात्रः क्षितितलं चक्रे पूर्णं स्वऋद्धिभिः ॥ क्४७.५ ॥
तस्य प्रवर्धमानस्य धर्मस्येव समुद्ययौ ।
समस्तभुवनव्यापि विबुधाभ्यर्चितं यशः ॥ क्४७.६ ॥
स कदाचिद्वरोद्याने स्यन्दनेन युवा व्रजन् ।
ददर्श वृद्धपुरुषं देवतानिर्मितं पुरः ॥ क्४७.७ ॥
तं विलोक्य जराजीर्णं जातवैराग्यवासनह् ।
संसारमिव निःसारं स शरीवममन्यत ॥ क्४७.८ ॥
उद्यानयात्राविरतः शनैः प्रतिनिवृत्य सः ।
दारिद्य्रविद्रुतच्छायानद्राक्षीत्कृपणान् पथि ॥ क्४७.९ ॥
दृष्ट्वा तानसुखक्लेष्टान् करुणाकृष्टमानसः ।
अचिन्तयदहो दुःखं सहन्ते भुवि दुर्गताः ॥ क्४७.१० ॥
अदानप्रभवं दुःखं वदन्तीति विसंगताः ।
पृथिव्यां रत्नपूर्णायां परपिण्डोपजीविनः ॥ क्४७.११ ॥
इदमेवाविसंवादि चिह्नं कलुषकर्मणाम् ।
दीनां यदेते याचन्ते पुरुषं पुरुषाः परम् ॥ क्४७.१२ ॥
अहो दुष्कृतमेतेषामवधूताः पदे पदे ।
यदेते मार्गणोद्विग्ना भिक्षित्वापि बुभुक्षिताः ॥ क्४७.१३ ॥
इति संचिन्त्य सुचिरं विश्चक्लेशक्षयोद्यतः ।
यदरिद्रं जगत्कर्तुं रत्नार्थी जलधिं ययौ ॥ क्४७.१४ ॥
कथचिदिव संसक्तः स पित्रा दृढनिश्चयः ।
स्मारुह्य प्रवहणं रत्नद्वीपमवाप्तवान् ॥ क्४७.१५ ॥
तत्र प्रवहणारूढान् वणिजः सहयायिनः ।
सोऽब्रवीत्क्रियतां कामं युष्माभिर्मणिसंग्रहम् ॥ क्४७.१६ ॥
एतैः सामान्यरत्नैस्तु मम नास्ति प्रयोजनम् ।
कोशे महान्ति भास्वन्ति सन्ति रत्नोत्तमानि नः ॥ क्४७.१७ ॥
किं तु चिन्तामणिप्राप्त्यै विपुलोऽयं ममोद्यमः ।
तेन विद्रुतदारिद्य्रां कर्तुमिच्छामि मोदेनीम् ॥ क्४७.१८ ॥
श्रुतं मया नागराजः सागराख्यो महोदधौ ।
वसत्यस्ति गृहे तस्य चिन्तितार्थप्रदो मणिः ॥ क्४७.१९ ॥
विलङ्घ्य विषमं मार्गं तमादातुं व्रजाम्यहम् ।
नास्ति धैर्यसहायानां दुर्गमं व्यवसायिनाम् ॥ क्४७.२० ॥
न च मद्विरहे किंचिद्व्यसनं वो भविष्यति ।
सत्यमेव परार्थोऽयं यदि मे सुकृतोद्यमः ॥ क्४७.२१ ॥
इत्युक्त्वा तान् समामन्त्र्य प्रतस्थे स्थिरनिश्चयः ।
महतीं धृतिमालम्ब्य सत्त्ववान् पार्थिवात्मजः ॥ क्४७.२२ ॥
गुल्फमात्रेण सप्ताहं गत्वा गङ्गमवर्त्मना ।
जानुदघ्नेन सप्ताहं सप्ताहं पौरुषेण च ॥ क्४७.२३ ॥
चत्वारि सप्तरात्राणि ततः पुष्करिणीजलैः ।
गत्वा दृष्टिविषान् घोरान् ददर्श फणिनः पुरः ॥ क्४७.२४ ॥
मैत्रीयुक्तेन मनसा कृत्वा तानथ निर्विषान् ।
क्रूरकोपैर्वृतं यक्षैर्यक्षद्वीपमवाप सः ॥ क्४७.२५ ॥
तत्र मैत्रेण मनसा वीतक्रोधान् विधाय तान् ।
शुश्राव तैरभिहितं विपुलोत्साहविस्मितैः ॥ क्४७.२६ ॥
कुमार स्फीटसत्त्वेन तथा वीर्येणचामुना ।
नागराजस्य भवनं समाहितमवाप्य तम् ॥ क्४७.२७ ॥
कालेन सम्यक्संबुद्धः सर्वज्ञस्त्वं भविष्यसि ।
श्रावकाश्च भविष्यामो वयं त्वदनुयायिनः ॥ क्४७.२८ ॥
प्रसन्नैरिति तैरुक्तमभिनन्द्य नृपात्मजः ।
रक्षेवरावृतं प्राप राक्षसद्वीपमुत्कटम् ॥ क्४७.२९ ॥
तथैव विगतक्रूरविकारैस्तैः स पूजितः ।
भूजोत्क्षेपेण निक्षिप्तः क्षणान्नागेन्द्रसद्मानि ॥ क्४७.३० ॥
स तत्र दीप्तविभवे दिव्योत्साससुखोचितः ।
अशृणोद्दीर्घदुःखार्तिसूचकं रोदनध्वनिम् ॥ क्४७.३१ ॥
स तमाकर्ण्य सोद्वेगः प्रकृत्यैव दयार्द्रधीः ।
किमेतदिति पप्रच्छ दृष्ट्वाग्रे नागकन्यकाम् ॥ क्४७.३२ ॥
सा तं बभाषे संसक्तशोकोष्मपिशुनैर्मुहुः ।
म्लानयन्तीं स्वनिश्वासौर्बिम्बाधरदलत्विषम् ॥ क्४७.३३ ॥
गुणावान्नागराजस्य पुत्रः कमललोचनः ।
ज्योष्ठः सर्वार्थसिद्धाख्यः प्रियः पञ्चत्वमागतः ॥ क्४७.३४ ॥
ततः प्रतिगतानन्दे विनिवृत्तसुखोत्सवे ।
धनेन रोदनेनास्मिन्न भवेद्भवने स्थितिः ॥ क्४७.३५ ॥
इति तस्या वचः श्रुत्वा सोऽन्तः परिचितां वहन् ।
स्वदेशदर्शनप्राप्तो नागराजान्तिकं ययौ ॥ क्४७.३६ ॥
नागराजस्तमायान्तं परिज्ञाय प्रियासखः ।
एह्येहि पुत्रेति वदन् बभूवानन्दविह्वलः ॥ क्४७.३७ ॥
मर्त्यजन्मकथां तेन स्वं चागमनकारणम् ।
श्रुत्वा निवेदितं नागः परिष्वज्य जगाद तम् ॥ क्४७.३८ ॥
चिन्तामणिरयं पुत्र मम मौलिविभूषणम् ।
गृह्यतां तव संकल्पं न वन्ध्यं कर्तुमुत्सहे ॥ क्४७.३९ ॥
देयः कृतजगत्कृत्यो ममैवायं पुनस्त्वया ।
इत्युक्त्वास्मै ददौ दिव्यचूडं रत्न विमुच्य सः ॥ क्४७.४० ॥
हृष्टः प्रणम्य नागेन्द्रं ययौ प्रवहणान्तिकम् ॥ क्४७.४१ ॥
समुद्रदेवता तत्र तं दृष्ट्वा श्रुततत्कथा ।
उवाच कीदृशः साधो प्राप्तश्चिन्तामणीस्त्वया ॥ क्४७.४२ ॥

  • * * * । * * * * ॥ क्४७.४३ ॥
  • * * * । * * * * ॥ क्४७.४४ ॥

समुद्रे पतितं दृष्ट्वा रत्नं कृच्छ्रतरार्जितम् ।
स जगाद दृढोद्योगवैफल्योद्वेगनिश्चलः ॥ क्४७.४५ ॥
अहो गुणोचिताकारा प्रणयान्मृदुवादिनी ।
विद्वेषकलुषं कर्म कृत्वा त्वं न विलज्जसे ॥ क्४७.४६ ॥
परोत्कर्षेषु संघर्षशोकक्लेशमुपैति यः ।
शीतला अपि तस्यैता ज्वालावलयिता दिशः ॥ क्४७.४७ ॥
परित्साहः प्रियो यस्य तस्य सत्त्वमहोदधेः ।
कर्पूरधवलं धत्ते त्रिलोकीतिलकं यशः ॥ क्४७.४८ ॥
देवि प्रयच्छ मे रत्नमस्माद्विरम पातकात् ।
अपवादलतां कर्म न साधोरधिरोह्हति ॥ क्४७.४९ ॥
लोभात्प्रमादाद्द्वेषाद्वा रत्नं चेन्न प्रयच्छसि ।
शोषयाम्येष जलधिं तदिमं ते समाश्रयम् ॥ क्४७.५० ॥
इत्युक्त्वा प्यसकृत्तेन सा रत्ने न ददौ यदा ।
स तदा स्वप्रभावेण शोषायाब्धेः समुद्ययौ ॥ क्४७.५१ ॥
ध्यातमात्रं सहस्राक्षवचसा विश्वकर्मणा ।
निर्मितं सहसा तस्य पत्रमाविरभुत्करे ॥ क्४७.५२ ॥
स तेनागस्त्यचुलुकाकारेणाम्भः पयोनिधेः ।
अन्तरीक्षे समुत्क्षिप्य चिक्षेप क्षमणोद्यतः ॥ क्४७.५३ ॥
कृते भूभागशेषेऽब्धौ तेनात्यद्भुतकारिणा ।
सुरनिर्भर्त्सिता भीता देवतास्मै मणीं ददौ ॥ क्४७.५४ ॥
निर्व्याजं साहसं दीप्तिं रत्नानामिव तत्त्वतः ।
प्रभावं वेत्ति महतां मन्त्राणां तपसां च कः ॥ क्४७.५५ ॥
स्फारस्तावदपारवारिविरसव्यापारहेलाबलात्
कल्लोलावलियन्त्रिताम्बरतया रत्नाकरः श्रूयते ।
गम्भीरः पुनरप्रमेयमहिमा कोऽपि प्रभावः सतां
यस्मिन् विस्मयधाम्नि चिन्तनविधावन्ते प्लवन्ते धियः ॥ क्४७.५६ ॥
ततश्चिन्तामणिं बुद्ध्वा निजसार्थेन संगतः ।
राजसूनुः स्वनगरं प्राप पूर्णमनोरथः ॥ क्४७.५७ ॥
कृतकृत्यः प्रहृष्टेनः स पित्रा तत्र पूजितः ।
ध्वजाग्रे रत्नमाधाय जगाद जनसंसदि ॥ क्४७.५८ ॥
परार्थ एव यत्नोऽयं नात्मार्थो यदि मे क्कचित् ।
तेन सत्येन लोकोऽय सर्वं यात्वदरिद्रताम् ॥ क्४७.५९ ॥
इत्युक्ते सत्त्वनिधिना तेन दीनदयालुना ।
रत्नवृष्टिरपर्यन्ता निपपात महीतले ॥ क्४७.६० ॥
तेन रत्नसमूहेन दिक्षु सर्वासु भास्वता ।
ययौ जनस्य दारिद्य्रमयं निःशेषतां तमः ॥ क्४७.६१ ॥
आशापाशवतां बलाप्त्रविशतां बाह्याङ्गणं श्रीमतां
द्वाःस्थाघातवतां मुहुर्विचलतां द्वारोदरे सीदताम् ।
दीर्घैर्निःश्वसितैः शुचा निपतितां देहक्षयं काङ्क्षतां
दीनानां मणिराशिरश्मिशबलः श्रीसंगमः कोऽप्यभूत् ॥ क्४७.६२ ॥
तच्छासनादुरगनायकमेव याते चिन्तामणौ विगतदैन्यजने च लोके ।
सर्वत्र दानरसिकस्य जनस्य चेतः सर्वार्थिसार्थविरताकुलितं बभूव ॥ क्४७.६३ ॥
सर्वार्थसिद्धः क्षितिपालसूनुः योऽभूत्स एवाहमिहान्यदेहः ।
श्रुत्वेतिवृत्तं कथितं जिनेन ते भिक्षवस्तन्मयतामवापुः ॥ क्४७.६४ ॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सर्वार्थसिद्धावदानं सत्पचत्वारिंशः पल्लवः ॥


४८. हस्तकावदानम् ।

मत्तेभकुम्भोच्चकुचाभिरामाः कर्पूरहारांशुविलासहासाः ।
प्रीतिप्रदाः पुण्यवतां भवन्ति प्रौढा युवत्यश्च विभूतयश्च ॥ क्४८.१ ॥
तथागते भगवति श्रावस्त्यां वनचारिणि ।
अभवत्सुप्रबुद्धाख्यः श्रीमान् गृहपतिः पुरा ॥ क्४८.२ ॥
बभूव हस्तको नाम तस्यातिदयितः सुतः ।
पूर्वार्जितानां पुण्यानां साकार इव संचयः ॥ क्४८.३ ॥
तस्य जन्मदिने जातश्चामीकरमयो महान् ।
एकीभूत इवाश्चर्यव्रजः प्रवरकुञ्चरः ॥ क्४८.४ ॥
स गजेन्द्रः कुमारश्च तत्पितुश्च मनोरथः ।
लोककौतुककोशाश्च पूर्णतां त्युल्यमाययुः ॥ क्४८.५ ॥
स शशीव शिशुः काले कलानिलयतां गतः ।
रुरुचे रुचिमान् सर्वलोकलोचनबान्धवः ॥ क्४८.६ ॥
स शनैः पूरिताभोगभुजस्तम्भविभूषणम् ।
लेभे मनोभवारम्भभवनं नवयौवनम् ॥ क्४८.७ ॥
कदाचिदथ भूभर्तुः स प्रसेनजितः सुताम् ।
तनुचीवरचिह्नेन सहजेन विराजिताम् ॥ क्४८.८ ॥
कन्यां चीवरकन्याख्यां लावण्यललिताननाम् ।
उद्यानदर्शनायातां ददर्शायतलोचनाम् ॥ क्४८.९ ॥
अक्लिष्टरूपामालोक्य तामपर्युषितद्युतिम् ।
विस्मयस्मरयोस्तुल्यमाययौ सहसा वशम् ॥ क्४८.१० ॥
सोऽचिन्तयदहो कान्तमिदमत्यद्भुतं वपुः ।
यस्मिन् भाति मुखव्याजाददोषविशदः शशी ॥ क्४८.११ ॥
लावण्यमप्रतिममेव बिभति तन्वी बन्धूकबन्धुरधरो मधुरस्वभावः ।
द्रोहोद्यतः सरसविद्रुमपल्लवानां बिम्बप्रभाप्रसभभ्रमवन्ध्यकारः ॥ क्४८.१२ ॥
वक्र्क्रं न क्षमते मदं शशमृतः क्लेश्नाति कान्तिः सुधाम्
उत्फुल्लोत्पलकाननस्य कुरुते दृष्टिः प्रभाभ्र्त्सनम् ।
मन्ये मन्मथसंगमोचिततनोः साप्त्न्यभीतिप्रदा
लीलायास्याः सहसा विलासलहरीशोषं विधत्ते रतेः ॥ क्४८.१३ ॥
उद्वृत्ते कठिने परोधरयुगे नश्यद्विवेके चिरं
यस्या दोषमयेऽप्यहो गुणवता हारेण बद्धा स्थितिः ।
यच्चास्मिन्नवलम्बतेऽम्बुजधिया रोलम्बरेखा मुखे
लोलाक्ष्याः किमपि प्रशान्तनयने लीनं मुनीनां मनः ॥ क्४८.१४ ॥
इति चिन्तयतस्तस्य वपुः पुष्पशरोपमम् ।
विलोक्य भूपतिसुता बभूवाश्चर्यनिश्चला ॥ क्४८.१५ ॥
हृते लज्जांशुके तस्याः स्मरेण स्मितकारिणा ।
प्रत्यग्रपुलकाकीर्णं वपुः स्पष्टमदृश्यत ॥ क्४८.१६ ॥
रुद्धा नवाभिलाषेण वैलक्ष्येण निवर्तिता ।
मनस्तत्रैव निक्षिप्य सा शून्येव शनैर्ययौ ॥ क्४८.१७ ॥
राजधानीं समासाद्य लज्जाविस्मयमन्मथैः ।
मीलितेव निलीनेव प्रोषितेव बभूव सा ॥ क्४८.१८ ॥
कुमारोऽपि स्वभवने समुद्भूतमनोभाव्ः ।
तामेवेन्दुमुखीमग्रे संकल्पैरलिखन्मुहुः ॥ क्४८.१९ ॥
स तां मानससर्वस्वं स्मरविद्यामिव स्मरन् ।
प्रदध्यौ कुर्लभां मत्वा तनयां चक्रवर्तिनः ॥ क्४८.२० ॥
जन्मान्तरे तनुर्यस्य तपःपरिचिता चिरम् ।
धन्यः स तामवाप्नोति लतां सुकृतशाखिनः ॥ क्४८.२१ ॥
रम्यप्रदानपुण्येन तद्दर्शनमवाप्यते ।
न जाने तानि पुण्यानि येषां तत्संगमः फलम् ॥ क्४८.२२ ॥
तद्वक्र्क्रशीतकिरणस्मरणोत्सवेन
तस्याश्च दुर्लभतया विरहोष्मणा मे ।
नो वेद्मि किं धृतिरियं किमयं विमोहः
किं जीवितं किमसुभिः सहः विप्रयोगः ॥ क्४८.२३ ॥
तद्वक्र्क्रब्जजितः प्रसह्र भजते क्षैण्यं क्षपावल्लभः
तद्भूविभ्रमलज्जितं च विनतिं धते धनुर्मान्मथम् ।
तस्याह्पल्लवपेशलद्युतिमुषा शोषाधरेणार्दितं
नूनं प्राप्य पराजयं वनमहीं बिम्ब समालम्बते ॥ क्४८.२४ ॥
इति पूर्णेन्दुवदनावदनध्याननिश्चलह् ।
निशां निनाय संत्यक्तः सेर्ष्ययेव सनिद्रया ॥ क्४८.२५ ॥
कन्यादर्शनवृत्तान्तं ततस्तेन निवेदितम् ।
श्रुत्वा पितास्य संक्रन्तचिन्तापरिचितोऽभवत् ॥ क्४८.२६ ॥
स तमूचे वयं पुत्र राज्ञोऽस्य पुरवासिनह् ।
स कथं ते दुहितरं चक्रवर्ती प्रदास्यति ॥ क्४८.२७ ॥
अशक्यं नैव कुर्वन्ति समीहन्ते न दुर्लभम् ।
असंभाव्यं न भाषन्ते मानकामा मनीषिणः ॥ क्४८.२८ ॥
चूतचम्पकवल्लीषु स्वाधीनासु निरादरः ।
चिन्तयन् पारिजातस्य लतां शुष्यति षट्पदः ॥ क्४८.२९ ॥
तव तस्याश्च संबन्धः प्राज्गन्मविहितो यदि ।
तदवश्यं भवत्येव निष्प्रयत्नफलोदयह् ॥ क्४८.३० ॥
आशापाशैरनाकृष्टं विचारैरकदर्थितम् ।
प्रयत्नभारैरश्रान्तं विधत्ते भवितव्यता ॥ क्४८.३१ ॥
इत्याकर्ण्य पितुर्वाक्यं तत्तथेति विचिन्तयन् ।
न चेतः कन्यकानीतं समानेतुं शशाक सः ॥ क्४८.३२ ॥
स गत्वा दन्तयुगलं ययाचे हेमकुञ्चरम् ।
नवसंदर्शने राज्ञः प्रीतियोग्यमुपायनम् ॥ क्४८.३३ ॥
पुण्यबन्धेन करिणा दत्तं दन्तयुगं ततः ।
स हेममयमादाय द्रष्टुं भूमिपतिं ययौ ॥ क्४८.३४ ॥
स रत्नरुचिरं प्राप्य भवनं पृथिवीपतेः ।
प्रविश्यः प्रणतः प्रीत्यै हेमदन्तद्वयं ददौ ॥ क्४८.३५ ॥
भूभुजा विश्रुतगुणः प्रसादेनाभिनन्दितः ।
वरं गृहाणेत्युक्तश्च स न जग्राह किंचन ॥ क्४८.३६ ॥
तस्यादीनद्युतेश्चक्रे मानमभ्यधिकं नृपः ।
औचित्यचारुचरितः प्रियः कस्य न निःस्पृहः ॥ क्४८.३७ ॥
स सदा दर्शने राज्ञः काञ्चनाङ्गानि दन्तिनः ।
पुनर्जातनवाङ्गेन दत्ताणि प्रीयते ददौ ॥ क्४८.३८ ॥
तमुवाच महीपालः सेवाप्रणययन्त्रितः ।
दूतीं मनःप्रसादय वदनद्युतिमुद्वहन् ॥ क्४८.३९ ॥
प्रभूतहेमसंभारां गुर्वीं सोवामिमामहम् ।
न सहे प्रौरवार्गो हि भवणीयो महीभृताम् ॥ क्४८.४० ॥
संविभज्य जनानीतैः का प्रीतिर्मम काञ्चनैः ।
तवानर्घगुणा मूर्तिरियमेव मम प्रिया ॥ क्४८.४१ ॥
लोभः पुरुषरत्नेषु भूषणार्हेषु शोभते ।
राज्ञां कोशेषु सीदन्ति हेमरत्नाश्मसंचयाः ॥ क्४८.४२ ॥
समीहिततमं तुभ्यं किं प्रयच्छामि कथ्यताम् ।
निःशेषकोशदानेन न नामानुशयोऽस्तु मे ॥ क्४८.४३ ॥
राज्ञ्ं दृक्पातपात्रेण प्राप्यन्ते यदि न श्रियः ।
तदनर्थं गतार्थिन्या कोऽथः पार्थिवसेवया ॥ क्४८.४४ ॥
इत्युक्तः क्षितिपालेन कुमारः कलिताञ्जलिः ।
तमभाषत भूपाल दातुमर्हति कोऽपरः ॥ क्४८.४५ ॥
अनर्थितेन रत्नानि विबुधेभ्यः प्रयच्छता ।
तदुन्निद्रं समुद्रस्य मुद्रितं भवता यशः ॥ क्४८.४६ ॥
महतापि प्रयत्नेन पूर्यते न महाशयः ।
अल्पकानां तदैर्श्वर्यं दारिद्यं तन्महीयसाम् ॥ क्४८.४७ ॥
किं तु त्वद्भुजगुप्तानां धर्ममार्गेण जीवताम् ।
जनानां नास्ति दारिद्यं द्रविणं येन मृग्यते ॥ क्४८.४८ ॥
धनार्थिनो न तु वयं न च सेवाधिकारिणः ।
धनं धनं धनधियां मान एव मनस्विनाम् ॥ क्४८.४९ ॥
मीलद्गुणेन परमेश्वरसेवनेन नुर्मूलतां सुमनसां सहसा गतानाम् ।
दैन्यात्पुनः कृपणपण्यपथे च्युतानां न स्पर्शमात्रमपि साधुजनः करोति ॥ क्४८.५० ॥
अर्थित्वान्मरणं वरं तनुभृतां दैन्यावसन्नात्मनां
अर्थी सर्वजनावमानवसतिः सत्कारयोग्यः शवः ।
कुम्भस्तावदधह्प्रयाति गुणवान् कूपावतारे परं
यावन्मोहतमःप्रवेशविवशः प्राप्तोऽर्थिता लम्बते ॥ क्४८.५१ ॥
सामान्या धनसंपदः क्रयकृषिप्राप्या सदा धीमतां
संतोषो यदि नास्ति तत्किमपरा भूमिर्निधानावृता ।
सन्त्येवातिशयप्रसादनिरतास्ता हेमरत्नक्रियाः
कस्येष्टः प्रियसंगमाय वपुषां सेवामयो विक्रयः ॥ क्४८.५२ ॥
इत्यपारधियस्तस्य वचः श्रुत्वा महीपतिः ।
गॄह्यतामपरं किंचिदित्यभाषत सादरः ॥ क्४८.५३ ॥
औचित्यचतुरालापः कर्कशोऽपि नृपां प्रियः ।
कृपणश्चाटुकारोऽपि कर्णशूलाय केवलः ॥ क्४८.५४ ॥
और्दार्यपरितुष्टेन स राज्ञभ्यर्थितः परम् ।
तमूचे यदु तुष्टोऽसि सुता मह्यं प्रदीयताम् ॥ क्४८.५५ ॥
इत्युक्ते तेन नृपतिः संदेहान्दोलिताशयः ।
प्रातर्वक्ताहमित्युक्त्वा क्षणं क्ष्मातलमैक्षत ॥ क्४८.५६ ॥
स कुमारं विसृज्याथ प्रधानामात्यमब्रवीत् ।
प्रसादरभसेनैव कृतं वाक्चापलं मया ॥ क्४८.५७ ॥
चक्रवर्तिकुलोत्पन्ना कन्या पुण्यपणोचिता ।
कथं सामान्यपौराय गुणमात्रेण दीयते ॥ क्४८.५८ ॥
ददामीति प्रतिश्रुत्य पश्चादनुशयाकुलः ।
कथं सराधनो भूत्वा भविष्याम्यर्थिनिष्फलः ॥ क्४८.५९ ॥
कथं प्राप्तस्य तस्याहं प्रातर्द्रष्ट्मुखं पुरः ।
प्रियोऽप्यप्रियतां यातः स मे दुर्लभयेच्छया ॥ क्४८.६० ॥
नूनं गुणोपपन्नोऽपि प्रकृत्यैव शरीरिणाम् ।
वक्ति यावन्न देहीति तावद्गवति वल्लभह् ॥ क्४८.६१ ॥
इति भूमिपतेः श्रुत्वाः वचो दोलावलम्बिनः ।
तमुवाच महामात्यः संचिन्त्यावसरोचितम् ॥ क्४८.६२ ॥
अनालोचितपर्यन्ताः प्रत्यग्रसरसादराः ।
स्वभावरभसा एव भवन्ति प्रभुबुद्धयः ॥ क्४८.६३ ॥
अशक्यार्थनया तेन लुब्धेनेव गुणोदयः ।
राजसेवाप्रवृत्तेन हेमहस्ती विनाशितः ॥ क्४८.६४ ॥
वाच्योऽसौ भवता स्वैरं कन्यार्थी पुनरागतः ।
हेमहस्तिनमारुह्य प्राप्तः प्राप्स्यसि मे सुताम् ॥ क्४८.६५ ॥
तेनोत्कृत्तः स्वहस्तेन कुतस्तस्य स कुञ्जरः ।
न चासौ तद्विरहितः पुनरायाति लज्जया ॥ क्४८.६६ ॥
इत्यमात्यस्य वचसा नृपतिर्युक्तिमाश्रितः ।
प्राप्तं कुमारमन्येद्युस्तदेवाभिमुखोऽवदत् ॥ क्४८.६७ ॥
कुमारोऽपि गॄहं गत्वा विवाहोचितमङ्गलैः ।
हौमद्विरदमारुह्य स्वजनेन सजाययौ ॥ क्४८.६८ ॥
स्वर्णवारणसंरूढं तमायान्तं महीपतिः ।
विलोक्याश्चर्यविभवं मेने पुण्यवतां वरम् ॥ क्४८.६९ ॥
कौतुकादथ भूपालस्तं गजं हेमविग्रहम् ।
आरुरोह महोत्साहः सुमेरुमिव वज्रभृत् ॥ क्४८.७० ॥
आरूढे पृथिवीपाले न चचाल स कुञ्जरः ।
प्रसर्सर्प कुमारेण पुनश्चालंकृतासनः ॥ क्४८.७१ ॥
तं ज्ञात्वा नृपतिर्देवं तत्प्रभावेण विस्मितः ।
धन्योऽस्मीति वदन् कन्यां ददौ तस्मै स्मरश्रियम् ॥ क्४८.७२ ॥
अभ्यर्च्य कन्यारत्नेन नृपतिः पुरुषोत्तमम् ।
हर्षोत्सवसमुद्धूतः सुधासिन्धुरिवाबभौ ॥ क्४८.७३ ॥
ततः कुमारे दयितामादाय स्वगृहं गते ।
सफलोऽभूदनङ्गस्य कार्मुकाकर्षणश्रमः ॥ क्४८.७४ ॥
नवे वयसि भोगार्हे नवकान्तासमागमे ।
तस्याभूद्विभवोदारः सदा नवनवोत्सवः ॥ क्४८.७५ ॥
ततः कदाचिद्भूपालः कृतकृत्यः प्रसेनजित् ।
पुण्यप्रभावं जामातुः कलयन् समचिन्तयत् ॥ क्४८.७६ ॥
अहो दिव्यः प्रभावोऽसौ कुमारस्य प्रदृश्यते ।
न हि सामान्यपुण्यानां पाको भवति तद्विधः ॥ क्४८.७७ ॥
कुलं लक्ष्मीहर्म्यं हृतशशिमदा रूपलहरी
वयः संभोगार्हं गुणपरिचयो भूषणचयः ।
यशः पुण्योद्यानप्रसृतकुसुमोल्लासरुचिरं
न विद्मः कस्यायं कुशलपरिणामस्य विभवः ॥ क्४८.७८ ॥
इति संचिन्त्य सुचिरं स संजातकुतूहलः ।
सर्वज्ञदर्शनावद्धमारुरोह मनोरथम् ॥ क्४८.७९ ॥
स जातातरमाहूय सुतां च सचिवैः सह ।
भगवन्तं ययौ द्रष्टुं मनसा प्रथमं गतः ॥ क्४८.८० ॥
याते दृष्टिपथं जेतवने संत्यज्य वाहनम् ।
उपसृत्यः नृपः पद्भ्यां भगवन्तं व्यलोकयत् ॥ क्४८.८१ ॥
स तं प्रणम्य तत्पादपद्मभूतिशिखामणिः ।
सुतां जामातरं चास्मै नम्रो नाम्ना न्यवेदयत् ॥ क्४८.८२ ॥
उपविष्टेषु सर्वेषु प्रणामानतमौलिषु ।
पप्रच्छ राजा सर्वज्ञं भगवन्तं कृताञ्जलिः ॥ क्४८.८३ ॥
अयं गुणगओपेतः कुमारः श्रीमतां वरः ।
हैमेव दन्तिनायातो भगवन् केन कर्मणा ॥ क्४८.८४ ॥
इयं चीवरकन्या च मत्सुतास्य नवा वधूः ।
केन पुण्यप्रभावेण जीवितादधिवल्लभा ॥ क्४८.८५ ॥
इति पृष्टः क्षितीशेन सर्वविद्भगवान् जिनः ।
तमूचे भूपते पुंसां पुण्योद्भूता विभूतयः ॥ क्४८.८६ ॥
यदुदारो यदुचितो यद्भ्राजिंष्णु यदद्भुतम् ।
स्पृहणीयं च यल्लोके तत्तत्पुण्यसमुद्बह्वम् ॥ क्४८.८७ ॥
विपश्वी भगवान् पूर्वं सुगतः सह भिक्षुभिः ।
चचार लोककृपया राज्ञो बन्धुमतः पुरे ॥ क्४८.८८ ॥
तस्मिन्नवसरे तत्र कुमार्या सह दारकः ।
विक्रीडावर्त्मनि पुरः कृत्वा दारुमयं गजम् ॥ क्४८.८९ ॥
तौ विलोक्य समायान्तं ध्मातजम्बूनदद्युतिम् ।
फुल्लपद्मदलाकारकरुणास्निग्धलोचनम् ॥ क्४८.९० ॥
भगवन्तं समुद्भूततद्भक्तिसरसोन्मुखौ ।
क्रीडागजं निवेद्यास्मै प्रणतौ तस्थतुः पुरः ॥ क्४८.९१ ॥
भगवानपि सर्वज्ञस्तयोर्ज्ञात्वा मनोरथम् ।
दयया चरणस्पर्शं विदधे दारुदन्तिनः ॥ क्४८.९२ ॥
सम्यक्चित्तप्रसादेन दृष्टौ भगवताथ तौ ।
प्रणीधानं विवाहाय चक्रतुर्दारकौ मिथः ॥ क्४८.९३ ॥
कुलप्रभावविभवैर्भूयाज्जन्म ममोचितम् ।
वाहनं हेमदन्ती च कुमारस्येत्यभून्मतिः ॥ क्४८.९४ ॥
दृष्ट्वा भगवतः कन्या संसक्त्रे चारुचीवरे ।
जन्मचीवरयुक्तां स्यामहमेतचिन्तयत् ॥ क्४८.९५ ॥
स एष प्रणिधानेन जातस्तेनेह हस्तकः ।
इयं चीवरकन्या च तनुचीवरलक्षण ॥ क्४८.९६ ॥
इति क्ष्रुत्वा क्षितिपतिस्तद्वृत्तं सुगतोऽदितम् ।
मुकुटस्पृष्टतत्पादपद्मः स्वभवनं ययौ ॥ क्४८.९७ ॥
याते सविस्मयं राज्ञि कुमारः सह जायया ।
कथ्यमानं भगवता धर्मं शुश्राव शुद्धधीः ॥ क्४८.९८ ॥
ततस्तौ जातवैराग्यौ क्षीणसंसारवासनौ ।
प्रव्रज्यया जितक्लेशौ शुद्धां बोधिमवापतुः ॥ क्४८.९९ ॥
विततसुकृतपुण्याभ्यासयोगेन पुंसां भवति कुशलभाजां धर्मकामार्थसंपत् ।
अभिमतमथ भुक्त्वा तत्फलं सदारास्ते विघनगगनकान्तिं शान्तिमन्ते भजन्ते ॥ क्४८.१०० ॥

इति क्षेमन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां हस्तकावदानमष्टचत्वारिंशः पल्लवः ॥