सामग्री पर जाएँ

बोधिसत्त्वभूमिः

विकिस्रोतः तः
बोधिसत्त्वभूमिः
[[लेखकः :|]]

योगाचारभूमौ
बोधिसत्त्वभूमिः

==आधारयोगस्थानम् (१)==

गोत्र-पटलम् (अध्याय १.१)


ओं नमो बुद्धाय ॥ दशेमे धर्माः सफलस्य बोधिसत्त्वमार्गस्य महायानस्य संग्रहाय संवर्तन्ते । कतमे दश । आधारो लिङ्गं पक्षोऽध्याशयो विहार उपपत्तिः परिग्रहो भूमिश्चर्या प्रतिष्ठा च ।

उद्दानम् ।

आधारो लिङ्ग-पक्षाध्याशय-विहारा उपपत्तिः ।
परिग्रहो भूमिश्चर्या प्रतिष्ठा पश्चिमा भवेत् ॥

तत्राधारः कतमः । इह बोधिसत्त्वस्य स्वगोत्रं प्रथमश्चित्तोत्पादः सर्वे च बोधिपक्ष्या धर्मा आधार इत्युच्यते । तत्कस्य हेतोः । इह बोधिसत्त्वो गोत्रं निश्रित्य प्रतिष्ठापयितव्यो भवति । प्रतिबलोऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । तस्मात्सभागतया गोत्रमाधार इत्युच्यते । इह बोधिसत्त्वः प्रथमचित्तोत्पादं निश्रित्य प्रतिष्ठाय दानेऽपि प्रयुज्यते शीले क्षान्तौ वीर्यें ध्याने प्रज्ञायामपि प्रयुज्यते इति । यद्वा पारमितासु पुण्यसंभारे ज्ञानसंभारे सर्वेषु च बोधिपक्ष्येषु धर्मेषु प्रयुज्यते । तस्मात्प्रथमचित्तोत्पादस्य बोधिसत्त्वस्य चर्याप्रयोगस्याधार इत्युच्यते । इह बोधिसत्त्वस्तमेव बोधिसत्त्वचर्याप्रयोगं निश्रित्य प्रतिष्ठायानुत्तरां सम्यक्संबोधिं परिपूरयति । तस्मात्स बोधिसत्त्वचर्याप्रयोगस्तस्य महाबोधिपरिपूरेराधार इत्युच्यते । अगोत्रस्थ पुद्गलो गोत्रेऽसति चित्तोत्पादेऽपि यत्नसमाश्रये सत्यभव्यश्चानुत्तरायाः सम्यक्संबोधेः परिपूरये । तदनेन पर्यायेण वेदितव्यमनुत्पादितचित्तस्यापि बोधिसत्त्वस्य अकृतेऽपि बोधिसत्त्वचर्याप्रयोगे गोत्रमाधार इति । स चेत्पुनर्गोत्रस्थश्चित्तं नोत्पादयति बोधिचर्यासु न प्रयुज्यते न क्षिप्रं बोधिमारागयति तास्वपि (दुत्त्२) विपर्ययात्क्षिप्रमारागयतीति वेदितव्यम् । तत्पुनरेतद्गोत्रमाधार इत्युच्यते । उपस्तम्भो हेतुर्निश्रय उपनिषत्पूर्वङ्गमो निलय इत्यप्युच्यते । यथागोत्रमेवं प्रथमश्चित्तोत्पादः सर्वा च बोधिसत्त्वचर्या ।

तत्र गोत्रं कतमत् । समासतो गोत्रं द्विविधम् । प्रकृतिस्थं समुदानीतञ्च । तत्र प्रकृतिस्थं गोत्रं यद्बोधिसत्त्वानां षडायतनविशेषः । स तादृशः परंपरागतोऽनादिकालिको धर्मताप्रतिलब्धः । तत्र समुदानीतं गोत्रं यत्पूर्वकुशलमूलाभ्यासात्प्रतिलब्धम् । तदस्मिन्नर्थे द्विविधमप्यभिप्रेतम् । तत्पुनर्गोत्रं बीजमित्यप्युच्यते । धातुः प्रकृतिरित्यपि । तत्पुनरसमुदागतफलं सूक्ष्मं विना फलेन । समुदागतफलमौदारिकं सह फलेन ।

तेन खलु गोत्रेण समन्वागतानां बोधिसत्त्वानां सर्वश्रावकप्रत्येकबुद्धानतिक्रम्य प्रागेवान्यान् सत्त्वान्निरुत्तरो विशेषो वेदितव्यः । तत्कस्य हेतोः । द्वे इमे समासतो विशुद्धी । क्लेशावरणविशुद्धिर्ज्ञेयावरणविशुद्धिश्च । तत्र सर्वश्रावकप्रत्येकबुद्धानां तद्गोत्रं क्लेशावरणविशुद्ध्या विशुध्यति न तु ज्ञेयावरणविशुद्ध्या । बोधिसत्त्वगोत्रं पुनरपि क्लेशावरणविशुद्ध्या अपि ज्ञेयावरणविशुद्ध्या विशुध्यति । तस्मात्सर्वप्रतिविशिष्टं निरुत्तरमित्युच्यते ।

अपि च चतुर्भिराकारैर्बोधिसत्त्वस्य श्रावकप्रत्येकबुद्धेभ्यो विशेषो वेदितव्यः । कतमैश्चतुर्भिः । इन्द्रियकृतः प्रतिपत्तिकृतः कौशल्यकृतः फलकृतश्च । तत्रायमिन्द्रियकृतो विशेषः । प्रकृत्यैव बोधिसत्त्वस्तीक्ष्णेन्द्रियो भवति । प्रत्येकबुद्धो मध्येन्द्रियः श्रावको मृद्विन्द्रियः । तत्रायं प्रतिपत्तिकृतो विशेषः । श्रावकप्रत्येकबुद्धश्चात्महिताय प्रतिपन्नो भवति । बोधिसत्त्वः अप्यात्म हिताय अपि परहिताय बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणाम् । तत्रायं कौशल्यकृतो विशेषः । श्रावकः प्रत्येकबुद्धश्च स्कन्धधात्वायतनप्रतीत्यसमुत्पाद-स्थानास्थानसत्यकौशल्यं करोति बोधिसत्त्वस्तत्र चान्येषु च सर्वविद्यास्थानेषु । तत्रायं फलकृतो विशेषः । श्रावकः श्रावकबोधिफलमधिगच्छति । प्रत्येकबुद्धः प्रत्येकबोधिमधिगच्छति । बोधिसत्त्वोऽनुत्तरं सम्यक्संबोधिफलमधिगच्छति ।

(दुत्त्३)
षडिमानि बोधिसत्त्वस्य पारमितानां गोत्रलिङ्गानि संपद्यन्ते । यैरेवं परे संजानते बोधिसत्त्वोऽयमिति । दानपारमिताया गोत्रलिङ्गं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताया गोत्रलिङ्गम् । तत्रेदं बोधिसत्त्वस्य दानपारमिताया गोत्रलिङ्गम् । इह बोधिसत्त्वः प्रकृत्यैव दानरुचिर्भवति । सत्सु च संविद्यमानेषु देयधर्मेषु सततसमितं परेषां संविभागशीलो भवति प्रमुदितचित्तश्च ददाति न विमनस्कः । अल्पादपि च संविभागस्य कर्त्ता भवति । विशदञ्च दानमनुप्रयच्छति । न हीनम् । अदानेन च जिह्रेति । परेषाञ्च दानस्य वर्णं भाषते । दाने चैनानुपच्छन्दयति । दातारञ्च दृष्ट्वा आत्तमना भवति सुमनस्कः । गुरुभ्यो वृद्धतरकेभ्यो दक्षिणीयेभ्यः सत्कारार्हेभ्य उत्थायासनमनुप्रयच्छति । पृष्टोऽपृष्टो वा तेषु तेषु सत्त्वकृत्येष्वनपायमिहलोके परलोके न्यायोपदेशमनुप्रयच्छति । राजचौरामित्राण्युदकादिभयभीतानाञ्च सत्त्वानामभयमनुप्रयच्छति । यथाशक्त्या चैनान् परित्रायते तस्माद्विचित्रात्प्रततादुग्राद्भयात् । निक्षिप्तञ्चास्य हस्ते परधनं नाभिद्रुह्यति । ऋणं गृहीत्वा परेभ्यो न विसंवादयति नाभिद्रुह्यति । स्वदायादं न वञ्चयते न विप्रलम्भयति । मणिमुक्तावैदूर्यशंखशिलाप्रवालजातरूपरजताश्मगर्भमुसारगल्वलोहितिकादक्षिणावर्तप्रभृतिषूपकरणजातेषु मूढं विपर्यस्यचित्तं सम्यक्संबोधयति । यथास्यान्यतोऽपि न विप्रलम्भः स्यात् । कुतः पुनः स्वयमेनं विप्रलम्भयिष्यति । प्रकृत्या चोदारभोगाधिमुक्तो भवति । उदारेष्वस्य सर्वभोगपरिभोगेषु चित्तं क्रामति । उदारेषु च कर्मान्तेष्वधिमुक्तो भवति न परीत्तायद्वारेषु । सन्ति चेमानि लोके व्यसनानि । तद्यथा स्त्रीव्यसनम् । मद्यव्यसनम् । द्यूतव्यसनम् । नट-नर्तक-हासक-लासकादिसंदर्शनव्यसनमित्येवंरूपेभ्योव्यसनेभ्यो
लघु लध्वेव वैराग्यं प्रतिलभते । ह्रीव्यपत्राप्यं प्राविष्करोति विपुलेऽपि च भोगप्रतिलम्भे नाधिमात्रलोलुपो भवति प्रागेवाल्पे । इतिमान्येवं भागीयानि बोधिसत्त्वस्य दानपारमिताया गोत्रलिङ्गानि वेदितव्यानि ।

(दुत्त्४)
तत्रेमानि बोधिसत्त्वस्य शीलपारमिताया गोत्रलिङ्गानि । इह बोधिसत्त्वः प्रकृत्या मृदुना कायवाङ्मनस्कर्मणा समन्वागतो भवत्यकुशलेन नात्यर्थरौद्रेण नात्यर्थसत्त्वोपघातकेन । कृत्वापि च पापकं कर्म लघु लध्वेव विप्रतिसारं प्रतिलभते । तञ्च जेह्रीयमाणः समाचरति न नन्दीजातः । पाणिलोष्टदण्डशस्त्रादिभिश्च सत्त्वानामविहेठनजातीयो भवति । प्रकृतिवत्सलश्च भवति सत्त्वप्रियः । सत्कारार्हेषु च कालेन कालमभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्मणा प्रत्युपस्थितो भवति । दक्षिणश्च भवति । नागरिकः परचित्तानुवर्ती । स्मितपूर्वङ्गमश्च भवत्युत्तानमुखवर्णविगतभ्रूकुटिः पूर्वाभिभाषी । उपकारिषु च सत्त्वेषु कृतज्ञो भवति कृतवेदी । अर्थिकेषु च सत्त्वेषु ऋजुतां प्रतिपद्यते । न मायाशाठ्येनैतान् विलोभयति । धर्मेणासाहसेन च भोगान् समुदानयति नाधर्मेण । प्रकृत्यैव च पुण्यकामो भवति । परपुण्य क्रियास्वपि व्यापारं गच्छति प्रागेवात्मनः । परबाधया चात्त्यर्थ बाध्यते यदुत परेषां वधबन्धनच्छेदनताडनकुत्सनतर्जनादिकया दृष्ट्वा वा श्रुत्वा वा । धर्मसमादानगुरुकश्च भवति संपरायगुरुकः । अणुमात्रेऽप्यवद्ये भयदर्शी प्रागेव प्रभूते । परकृत्येषु च परकरणीयेषु सहायीभावं गच्छति यदुत कृषिवणिज्यागोरक्ष्यराजपौरुष्यलिपिगणनन्यसनसंख्यामुद्रायां भर्तृप्रसादने कुलप्रसादने राजकुलप्रसादने मित्रामित्रप्रसादने भोगानामर्जने रक्षणे सन्निधौ प्रयोगे विसर्गे आवाहविवाहाभक्षणसंभक्षणेष्वेवंभागीयेषु सत्त्वकृत्येषु सहायीभावं गच्छति । न कलहभण्डनविग्रहविवादेषु च परविहेठनकरणीयेषु ये आत्मनः परेषाञ्चानर्थायाहिताय दुःखाय संवर्तन्ते । अकृत्याच्चैतां निवारयति यदुत दशभ्यः पापकेभ्योऽकुशलेभ्यः । कर्मपथेभ्यः । परवश्यश्च
भवति परविधेयः । समानक्षान्तिशीलतया अपहाय स्वकार्यं परैरात्मकार्ये यथाकामं नियोज्यते । आर्द्रचित्तश्च भवति पेशलचित्तो न च चिरमाघातचित्ततां प्रतिघचित्ततामुद्वहति नान्यत्र तत्क्षण एवास्य तच्चित्तं भद्रतायां परिवर्तते । सत्यगुरुकश्च भवति नाभूतवचनेन परान् विसंवादयति । न च परेषां मित्रभेदं रोचयति न करोति । (दुत्त्५) न चासम्बद्धमपार्थ निरर्थ सहसा प्रलपति । प्रियंवदश्च भवत्यपरकटुकः अपि स्वकस्य दासादिपरिजनस्य प्रागेव परेषां गुणप्रियश्च भवति परेषां भूतस्य वर्णस्याहर्ता । इतीमान्येवंभागीयानि बोधिसत्त्वस्य शीलपारमिताया गोत्रलिङ्गानि वेदितव्यानि ।

तत्रेमानि बोधिसत्त्वस्य क्षान्तिपारमिताया गोत्रलिङ्गानि । इह बोधिसत्त्वः प्रकृत्या परेषामन्तिकादपकारं लब्ध्वा नाघातचित्ततां प्राविष्करोति नाप्यपकाराय प्रपद्यते । संज्ञप्यमानश्चाशु संज्ञप्तिं प्रतिगृह्णाति । न च खिलं धारयति न चिरकालिकं वैराशयं वहति । इतीमान्येवंभागीयानि बोधिसत्त्वस्य क्षान्तिपारमिताया गोत्रलिङ्गानि वेदितव्यानि ।

तत्रेमानि बोधिसत्त्वस्य वीर्यपारमिताया गोत्रलिङ्गानि । इह बोधिसत्त्वः प्रकृत्या उत्थानवान् भवति । काल्योत्थायी सायं निपाती न निद्रासुखं शयनसुखं पार्श्वसुखमत्यर्थं स्वीकरोति । प्रत्युपस्थिते च कृत्ये अभिभूयाकर्तुकामतामालस्यं प्रतिसंख्याय प्रयुज्यते तस्य कृत्यस्याभिनिष्पत्तये । सर्वकृत्यसमारम्भेषु च दृढनिश्चयो भवति नाकृत्वा नापरिप्राप्य सर्वेण सर्वं वीर्यस्रंसयति अन्तरा वा विषादमापद्यते । उदारेषु च परमेष्वर्थेषु न चेतसा संकोचमापद्यते । नाप्यात्मानं परिभवति । शक्तोऽहं प्रतिबलमेषामधिगमायेत्युत्साहजातः । वीरश्च भवति महासभाप्रवेशे वा परैः सहाभिप्रयोग प्रत्यभियोगे वा तदन्यत्र वा दुष्करकर्मणि महाव्यवसायेष्वपि चार्थोपसंहितेषु नात्यर्थं खेदमापद्यते प्रागेव परीत्तेषु । इतीमान्येवंभागीयानि बोधिसत्त्वस्य वीर्यपारमिताया गोत्रलिङ्गानि वेदितव्यानि ।

तत्रेमानि बोधिसत्त्वस्य ध्यानपारमिताया गोत्रलिङ्गानि । इह बोधिसत्त्वः प्रकृत्या धर्मार्थोपनिध्याने अविक्षेपबहुलो भवति । अरण्यवनप्रस्थानानि । च प्रान्तानि शयनासनानि मनुष्यरहःसेवितानि विगतपापकानि प्रतिसंलयनसारूप्यकाणि दृष्ट्वा श्रुत्वा सुखं तन्नैष्क्रम्यं प्राविवेक्यमिति (दुत्त्६) नैष्क्रम्यप्राविवेक्ये तीव्रमौत्सुक्यमुत्पादयति । प्रकृत्या च मन्दक्लेशो भवति मन्दनिवरणो मन्ददौष्ठुल्यः । प्रविवेकगतस्य चास्य स्वार्थं परितुलयतः पापकाः असद्वितर्का नात्यर्थं चित्तं क्षोभयन्ति न पर्यादाय तिष्ठन्ति । [सः] अमित्रपक्षेऽपि त्वरितं त्वरितं मैत्रचित्ततामुपस्थापयति प्रागेव मित्रोदासीनपक्षे । विचित्रैश्च दुःखैर्दुःखितानां सत्त्वानां दुःखं श्रुत्वा वा दृष्ट्वा वा महत्कारुण्यचित्तमुत्पादयति । दुःखापनयाय च तेषां सत्त्वानां यथाशक्त्या यथाबलं व्यापारं गच्छति । प्रकृत्या च सत्त्वेषु हितकामो भवति सुखकामः । धृतिमांश्च भवत्यापत्सु ज्ञातिव्यसने वा भोगव्यसने वा वधे वा बन्धने वा प्रवासे वा इत्येवंभागीयास्वापत्सु । मेधावी च धर्माणां ग्रहणधारणोहनसमर्थः स्मृतिबलेन च समन्वागतो भवति । स चिरकृतचिरभाषितमप्यनुस्मर्त्ता भवति परेषाञ्चानुस्मारयिता । इतीमान्येवंभागीयानि बोधिसत्त्वस्य ध्यानपारमिताया गोत्रलिङ्गानि वेदितव्यानि ।

तत्रेमानि बोधिसत्त्वस्य प्रज्ञापारमिताया गोत्रलिङ्गानि । इह बोधिसत्त्वः सर्वविद्यास्थानज्ञेयप्रवेशाय सहजया प्रज्ञया समन्वागतो भवति । अधन्धश्च भवत्यमन्दः अमोमुहजातीयः । तासु तासु च प्रमादस्थानविरतिषु प्रतिसंख्यानबलिको भवति । इतीमान्येवंभागीयानि बोधिसत्त्वस्य प्रज्ञापारमिताया गोत्रलिङ्गानि वेदितव्यानि ।

तानीमानि बोधिसत्त्वस्य औदारिकाण्यानुमानिकानि गोत्रलिङ्गानि वेदितव्यानि । भूतार्थनिश्चये तु बुद्धा एव भगवन्तः प्रत्यक्षदर्शिनः ।

यस्माच्च तद्गोत्रं बोधिसत्त्वानां प्रकृत्यैव गुणयुक्तं भद्रं कल्याणं शुक्लधर्मसमन्वागतं तस्मात्तावद्दुरभिसंभवस्य श्रेष्ठस्याचिन्त्यस्याचलस्यानुत्तरस्य तथागतस्य पदस्यावाप्तये हेतुभावेन युज्यतेऽन्यथा न युज्यते । तावच्च बोधिसत्त्व एभिः शुक्लधर्मैः प्रकृत्यैव युक्तो भवति यावन्न शुक्लधर्मवैरोधिकैश्चतुर्भिरुपक्लेशैः सकलविकलैरुपक्लिष्टो भवति । यदा चोपक्लिष्टो भवति स तदा एषु च शुक्लेषु धर्मेषु न संदृश्यते । अपायेषु चैकदा उपपद्यते । अपायोपपत्तावपि बोधिसत्त्वस्य तदन्येभ्यः अपायोपपन्नेभ्यः सत्त्वेभ्यो (दुत्त्७) गोत्रकृतो महान् विशेषो वेदितव्यः । इह बोधिसत्त्वो दीर्घेण कालेन कदाचित्कर्हिचिदपायेषूपपद्यते । उपपन्नश्चाशु परिमुच्यते अपायेभ्यः । न च तथा तीव्रामापायिकीं दुःखां वेदनां वेदयते तद्यथाऽन्येऽपायोपपन्नाः सत्त्वाः । तया च तन्व्या दुःखया वेदनया स्पृष्टोऽधिमात्रं संवेगमुत्पादयति । तेषु च सत्त्वेषु तत्रोपपन्नेषु दुःखितेषु कारुण्यचित्तं प्रतिलभते यदुत तेनैव गोत्रेण च सत्त्वेषु तत्रोपपन्नेषु दुःखितेषु कारूण्यचित्तं प्रतिलभते यदुत तेनैव गोत्रेण बुद्धमहाकरुणाहेतुना चोद्यमानः । इत्येवंभागीयः अपायोपपत्तौ बोधिसत्त्वस्य तदन्येभ्यः अपायोपपन्नेभ्यः सत्त्वेभ्यो विशेषो वेदितव्यः ।

तत्र कतमे ते बोधिसत्त्वस्य चत्वारः शुक्लधर्मवैरोधिका उपक्लेशाः । पूर्वं प्रमत्तस्य क्लेशाभ्यासात्तीव्रक्लेशता आयतक्लेशता चायं प्रथम उपक्लेशः । मूढस्याकुशलस्य पापमित्रसंश्रयोऽयं द्वितीय उपक्लेशः । गुरुभर्तृराजचौरप्रत्यर्थिकद्यभिभूतस्यास्वातन्त्र्यं चित्तविभ्रमश्चायं तृतीय उपक्लेशः । उपकरणविकलस्य जीविकापेक्षा अयं चतुर्थ उपक्लेशः ।

चतुर्भिः कारणैरेवं गोत्रसंपन्नोऽपि बोधिसत्त्वो न शक्नोत्यनुत्तर सम्यक्संबोधिमभिसंबोद्धुम् । कतमैश्चतुर्भिः । इह बोधिसत्त्वः आदित एव कल्याणमित्रं न लभते अविपरीतबोधिमार्गदैशिकं बुद्धं वा बोधिसत्त्वं वा । इदं प्रथमं कारणम् । पुनरपरं बोधिसत्त्वो लब्ध्वापि कल्याणमित्रं विपरीतग्राही विपरीतं शिक्षते बोधिसत्त्वशिक्षासु । इदं द्वितीयं कारणम् । पुनरपरं बोधिसत्त्वो लब्ध्वापि कल्याणमित्रमविपरीतं शिक्षमाणो बोधिसत्त्वशिक्षासु तस्मिन् प्रयोग शिथिलप्रयोगो भवति कुसीदो नोदग्रप्रततवीर्यसमन्वागतः । इदं तृतीयं कारणम् । पुनरपरं बोधिसत्त्वो लब्ध्वा कल्याणमित्रमविपरीतं शिक्षमाणो बोधिसत्त्वशिक्षासु तस्मिंश्च प्रयोगे आरब्धवीर्यः अपरिपक्वेन्द्रियो भवत्यपरिपूर्णबोधिसंभारः दीर्घकालापरिजयाद्वोधिपक्ष्य धर्माणाम् । इदञ्चतुर्थ कारणम् । गोत्रे सत्येतत्कारणवैकल्याद्वोधेरप्राप्तिः । सान्निध्यात्तु प्राप्तिर्भवति । असति तु गोत्रे सर्वेण सर्व सर्वथा बोधरप्राप्तिरेव वेदितव्या ।

बोधिसत्त्वभूमौ आधारे योगस्थाने प्रथमं गोत्रपटलं समाप्तम् ॥

(दुत्त्८)
चित्तोत्पादपटलम् (अध्याय १.२)

इह बोधिसत्त्वस्य प्रथमश्चित्तोत्पादः सर्वबोधिसत्त्वसम्यक्प्रणिधानानामाद्यं सम्यक्प्रणिधानं तदन्यसम्यक्प्रणिधानसंग्राहकम् । तस्मात्स आदितः सम्यक्प्रणिधानस्वभावः । स खलु बोधिसत्त्वो बोधाय चित्तं प्रणिदधदेवं चित्तमभिसंस्करोति वाचञ्च भाषते । अहो बताहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं सर्वसत्त्वानाञ्चार्थकरः स्यामत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापयेयं तथागतज्ञाने च । स एवमात्मनश्च बोधिं सत्त्वार्थञ्च प्रार्थयमानश्चित्तमुत्पादयति । तस्मात्स चित्तोत्पादः प्रार्थनाकारः । तां खलु बोधिं सत्त्वार्थञ्चालम्व्य स चित्तोत्पादः प्रार्थयते नानालम्ब्य । तस्मात्स चित्तोत्पादो बोध्यालम्बनः सत्त्वार्थालम्बनश्च । स च चित्तोत्पादः सर्वबोधिपक्ष्यकुशलमूलसंग्रहाय पूर्वङ्गमत्वात्कुशलः परमकौशल्यगुणयुक्तः भद्रः परमभद्रः कल्याणः परमकल्याणः सर्वसत्त्वाधिष्ठानकायवाङ्मनोदुश्चरितवैरोधिकः । यानि च कानिचित्तदन्यानि लौकिकलोकोत्तरेष्वर्थेषु कुशलानि सम्यक्प्रणिधानानि तेषां सर्वेषामग्र्य मेतत्सम्यक्प्रणिधानं निरुत्तरं यदुत बोधिसत्त्वस्य प्रथमश्चित्तोत्पादः । एवमयं प्रथमश्चित्तोत्पादः स्वभावतोऽपि वेदितव्यः । आकारतोऽप्यालम्बनतोऽपि गुणतोऽप्युत्कर्षतोऽति पञ्चलक्षणो वेदितव्यः ।

तस्य च बोधिचित्तस्य सहोत्पादादेवावतीर्णे भवति बोधिसत्त्वोऽनुत्तरे बोधिमहायाने । बोधिसत्त्वो बोधिसत्त्व इति च संख्यां गच्छति यदुत संकेतव्यवहारनयेन । तस्मात्स चित्तोत्पादः अवतारसंगृहीतः । उत्पाद्य च बोधिसत्त्वस्तच्चित्तं क्रमेणानुत्तरां सम्यक्संबोधिमधिगच्छति नानुत्पाद्य । तस्मादनुत्तरायाः सम्यक्संबोधेः स चित्तोत्पादो मूलम् । दुःखितेषु च सत्त्वेषु स कारुणिको बोधिसत्त्वः परित्राणाभिप्रायस्तच्चित्तमुत्पादयति । तस्मात्स चित्तोत्पादः करुणानिष्यन्दः । (दुत्त्९) तञ्च चित्तोत्पादं निश्रित्य प्रतिष्ठाय बोधिसत्त्वो बोधिपक्ष्येषु धर्मेषु सत्त्वार्थ क्रियायाञ्च बोधिसत्त्वशिक्षायां प्रयुज्यते । तस्मात्स चित्तोत्पादो बोधिसत्त्वशिक्षायाः सन्निश्रयः । एवमसौ प्रथमश्चित्तोत्पादः संग्रहतोऽपि मूलतोऽपि निष्यन्दतोऽपि सन्निश्रयतोऽपि वेदितव्यः ।

स च बोधिसत्त्वस्य प्रथमचित्तोत्पादः समासेन द्विविधः । नैर्याणिकश्चानैर्याणिकश्च । तत्र नैर्याणिको य उत्पन्नोऽत्यन्तमनुवर्तते न पुनर्व्यावर्तते । अनैर्याणिकः पुनर्य उत्पन्नो नात्यन्तमनुवर्तते पुनरेव व्यावर्तते । तस्य च चित्तोत्पादस्य व्यावृत्तिरपि द्विविधा । आत्यन्तिकी चानात्यन्तिकी च । तत्रात्यन्तिकी यत्सकृद्व्यावृत्तं चित्तं न पुनरुत्पद्यते बोधाय । अनात्यन्तिकी पुनः यद्व्यावृत्तं चित्तं पुनः पुनरुत्पद्यते बोधाय ।

तस्य खलु चित्तस्योत्पादः चतुर्भिः प्रत्ययैश्चतुर्भिर्हेतुभिश्चतुर्भिर्बलैर्वेदितव्यः । चत्वारः प्रत्ययाः कतमे । इह कुलपुत्रो वा कुलद्रुहिता वा तथागतस्य वा बोधिसत्त्वस्य वा अचिन्त्यमत्यद्भुतं प्रातिहार्यं प्रभावं पश्यति संप्रत्ययितस्य वाऽन्तिकाच्छृणोति । तस्य दृष्ट्वा वा श्रुत्वा वा एवं भवति । महानुभावा बतेयं बोधिर्यस्यां स्थितस्य वा प्रतिपन्नस्य वाऽयमेवरूपः प्रभा[वः] इदमेवंरूपं प्रातिहार्यं दृश्यते च श्रूयते च स तदेव प्रभावदर्शनं श्रवणं वाधिपतिं कृत्वा महाबोध्यधिमुक्तो महाबोधौ चित्तमुत्पादयति । अयं प्रथमः प्रत्ययश्चित्तस्योत्पत्तये । स न हैव प्रभावं पश्यति वा शृणोति वा अपरित्वनुत्तरां बोधिमारभ्य सद्धर्मं शृणोति बोधिसत्त्वपिटकं देश्यमानं श्रुत्वा च पुनरभिप्रसीदति । अभिप्रसन्नश्च सद्धर्मश्रवणमधिपतिं कृत्वा तथागतज्ञानाधिमुक्तः तथागतज्ञानप्रतिलम्भाय चित्तमुत्पादयति । अयं द्वितीयः प्रत्ययश्चित्तस्योत्पत्तये । स न हैव धर्म शृणोत्यपि तु बोधिसत्त्वः सद्धर्मान्तर्धानिमामुखामुपगतां पश्यति । दृष्ट्वा च पुनरस्यैवं भवति अप्रमेयाणां बत सत्त्वानां दुःखापगमाय बोधिसत्त्वसद्धर्मस्थितिः संवर्तते । यन्न्वहं बोधिसत्त्व-सद्धर्मचिरस्थितये चित्तमुत्पादयेयं यदुत एषामेव सत्त्वानां दुःखापकर्षणाय । [स] सद्धर्मधारणमेवाधिपतिं कृत्वा तथागतज्ञानाधिमुक्तस्तथागतज्ञानप्रतिलम्भाय चित्तमुत्पादयति । अयं (दुत्त्१०) तृतीयः प्रत्ययश्चित्तस्योत्पत्तये । स न हैव सद्धर्मान्तर्धानिं प्रत्युपस्थितां पश्यति अपित्वन्तयुगेऽन्तकाले प्रत्यवरान्तयुगिकान् सत्त्वाश्रयान् पश्यति यदुत दशभिरुपक्लेशैरुपक्लिष्टान् । तद्यथा मोहबहुलानाह्रीक्यानपत्राप्यबहुलानीर्ष्यामात्सर्यबहुलान् दुःखबहुलान्
दौष्ठुल्यबहुलान् क्लेशबहुलान् दुश्चरितबहुलान् प्रमादबहुलान् कौसीद्यबहुलानाश्रद्ध्यबहुलांश्च । दृष्ट्वा च पुनरस्यैवं भवति । महान् बतायं कषायकालः प्रत्युपस्थितः । अस्मिन्नेवमुपक्लिष्टे काले न सुलभो निहीनः श्रावकप्रत्येकबोधावपि तावच्चित्तोत्पादः प्रागेवानुत्तरायां सम्यक्संबोधौ । यन्न्वहमपि तावच्चित्तमुत्पादयेयमप्येव [नाम] ममानुशिक्षमाणा अन्येऽप्युत्पादयेयुरिति । सोऽन्तकाले चित्तोत्पाददुर्लभतामधिपतिं कृत्वा महाबोधावधिमुक्तो महाबोधौ चित्तमुत्पादयति । अयं चतुर्थः प्रत्ययश्चित्तस्योत्पत्तये ।

चत्वारो हेतवः कतमे । गोत्रसंपद्वोधिसत्त्वस्य प्रथमो हेतुश्चित्तस्योत्पत्तये । बुद्धबोधिसत्त्वकल्याणमित्रपरिग्रहो द्वितीयो हेतुश्चित्तस्योत्पत्तये । सत्त्वेषु कारुण्यं बोधिसत्त्वस्य तृतीयो हेतुश्चित्तस्योत्पत्तये । संसारदुःखाद्दुष्करचर्यादुःखादपि दीर्घकालिकाद्विचित्रात्तीव्रान्निरन्तरादभीरुता चतुर्थो हेतुश्चित्तस्योत्पत्तये ।

तत्र गोत्रसंपद्वोधिसत्त्वस्य धर्मताप्रतिलब्धैव वेदितव्या ।

चतुर्भिराकारैर्बोधिसत्त्वस्य मित्रसंपद्वेदितव्या । इह बोधिसत्त्वस्य मित्रमादित एवाजडं भवत्यधन्धजातीयं पण्डितं विलक्षणं न च कुदृष्टिपतितम् । इयं प्रथमा मित्रसंपत् । न चैनं प्रमादे विनियोजयति । न प्रमादस्थानमस्योपसंहरति । इयं द्वितीया मित्रसंपत् । न चैनं दुश्चिरिते विनियोजयति न दुश्चरितस्थानमस्योपसंहरति । इयं तृतीया मित्रसंपत् । न चैनमुत्कृष्टतरेभ्यः श्रद्धाच्छन्दसमादानवीर्योपायगुणेभ्यो विच्छन्दयित्वा निहीनतरेषु श्रद्धाच्छन्दसमादानवीर्योपायगुणेषु समादापयति । तद्यथा महायानाद्विच्छन्दयित्वा श्रावकयाने वा प्रत्येकबुद्धयाने वा भावनामयाद्विच्छन्दयित्वा चिन्तामये चिन्तामयाद्विच्छन्दयित्वा श्रुतमये श्रुतमयाद्विच्छन्दयित्वा वैयावृत्त्यकर्मणि शीलमयाद्विच्छन्दयित्वा दानमये इत्येवंभागीयेभ्य उत्कृष्टतरेभ्यो गुणेभ्यो न विच्छन्दयित्वा एवंभागीयेषु निहीनतरेषु गुणेषु समादापयति । इयं चतुर्थी मित्रसंपत् ।

(दुत्त्११)
चतुर्भिराकारै र्बोधिसत्त्वः करुणाबहुलो भवति सत्त्वेषु । सन्ति ते लोकधातवो येषु दुःखं नोपलभ्यते दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु । स च बोधिसत्त्वः सदुःखे लोक धातौ प्रत्याजातो भवति यत्र दुःखमुपलभ्यते नादुःखे । परञ्चान्यतमेन दुःखेन स्पृष्टमुपद्रुतमभिभूतं पश्यति । आत्मना चाऽन्यतमेन दुःखेन स्पृष्टो भवत्युपद्रुतोऽभिभूतः । पुनश्च परमात्मानं वा तदुभयं वा दीर्घकालिकेन विचित्रेण तीव्रेण निरन्तरेण दुःखेन स्पृष्टमुपद्रुतमभिभूतं पश्यति । इति तस्य बोधिसत्त्वस्य स्वगोत्रसन्निश्रयेण प्रकृतिभद्रतया एभिश्चतुर्भिरालम्बनैरधिष्ठानैः करुणामृदुमध्याधिमात्रा प्रवर्वते अन्यत्राभ्यासतः ॥

चतुर्भिः कारणैर्बोधिसत्त्वः सत्त्वेषु करुणां संपुरस्कृत्य संसारदुःखाद्दीर्घकालिकाद्विचित्रात्तीव्रान्निरन्तरादपि न बिभेति नोत्त्रस्यति प्रागेव निहीनात् । प्रकृत्या सात्त्विको भवति धृतिमान् बलवान् । इदं प्रथमं कारणम् । पण्डितो भवति सम्यगुपनिध्यानशीलः प्रतिसंख्यानबलिकः । इदं द्वितीयं कारणम् । अनुत्तरायां सम्यक्संबोधावधिमात्रयाऽधिमुक्त्या समन्वागतो भवति । इदं तृतीयं कारणम् । सत्त्वेषु चाधिमात्रया करुणया समन्वागतो भवति इदं चतुर्थ कारणम् ।

चत्वारि बलानि कतमानि । अध्यात्मबलं परबलं हेतुबलं प्रयोगबलञ्च । तत्र स्वशक्तिपतिता या रुचिरनुत्तरायां सम्यक्संबोधौ इदमुच्यते बोधिसत्त्वस्याध्यात्मबलं चित्तस्योत्पत्तये । परशक्तिसमुत्पादिता तु रुचिरनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वस्य परबलमित्युच्यते चित्तस्योत्पत्तये । पूर्वको बोधिसत्त्वस्य महायानप्रतिसंयुक्तकुशलधर्माभ्यास एतर्हि बुद्धबोधिसत्त्वसन्दर्शन मात्रकेण तद्वर्णश्रवणमात्रकेण वा आशु चित्तस्योत्त्पत्तये प्रागेव सद्धर्मश्रवणेन वा प्रभावदर्शनेन वा हेतुबलमित्युच्यते चित्तस्योत्त्पत्तये । दृष्टधार्मिको बोधिसत्त्वस्य सत्पुरुषसंसेवा-सद्धर्मश्रवणचिन्तादिको दिर्घकालिकः कुशलधर्माभ्यासः प्रयोगबलमित्युच्यते चित्तस्योत्पत्तये ।

तत्र बोधिसत्त्वस्य समस्तव्यस्तांश्चतुरः प्रत्ययांश्चतुरो हेतूनागम्य सचेदध्यात्मबलेन हेतुबलेन च समस्ताभ्यां द्वाभ्यां बलाभ्यां तच्चित्तमुत्पद्यते । (दुत्त्१२) एवन्तद्दृढंञ्च सारञ्च निश्चलं चोत्पद्यते । परबलप्रयोगबलाभ्यां तु तच्चित्तमदृढोदयं वेदितव्यम् ।

चत्वारि बोधिसत्त्वस्य चित्तव्यावृत्तिकारणानि । कतमानि चत्वारि । न गोत्रसंपन्नो भवति । पापमित्रपरिगृहीतो भवति । सत्त्वेषु मन्दकरुणो भवति । संसारदुःखाच्च दीर्घकालिकाद्विचित्रात्तीव्रान्निरन्तराद्भीरुर्भवति अत्यर्थ बिभेत्युत्तस्यति संत्रासमापद्यते । चतुर्णां चित्तोत्पत्तिहेतूनां विपर्ययेण चत्वार्येतानि चित्तव्यावृत्तिकारणानि विस्तरेण पूर्ववद्वेदितव्यानि ।

द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य लोकासाधारणावाश्चर्याद्भूतौ धर्मौ । कतमौ द्वौ । सर्वसत्त्वांश्च कडत्रभावेन परिगृह्णाति । न च पुनः कडत्रपरिग्रहदोषेण लिप्यते । तत्रायं कडत्रपरिग्रहदोषः । कडत्रस्यानुग्रहोपघाताभ्यां क्लिष्टानुरोधविरोधौ । तौ च बोधिसत्त्वस्य न विद्येते । द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य सत्त्वेषु कल्याणाध्याशयौ प्रवर्तेते । हिताध्याशयश्च सुखाध्याशयश्च । तत्र हिताध्याशयो या अकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनकामता सुखाध्याशयो या विघातिनामनाथानामप्रतिशरणानां सत्त्वानां क्लिष्टवर्जितानुग्राहकवस्तूषसंहरणकामता ।

द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य प्रयोगौ । अध्याशयप्रयोगः प्रतिपत्तिप्रयोगश्च । तत्राध्याशयप्रयोगो या तस्यैव हितसुखाध्याशयस्य प्रतिदिवसमनुबृंहणा । प्रतिपत्तिप्रयोगः प्रतिदिवसमात्मनश्च बुद्धधर्मपरिपाकप्रयोगः सत्त्वानाञ्च यथाशक्ति यथावलमध्याशयप्रयोगमेव निश्रित्य हितसुखोपसंहारप्रयोगः ।

द्वे इमे दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महती कुशलधर्मायद्वारे । स्वार्थप्रयोगश्चानुत्तरायाः सम्यक्संबोधेः समुदागमाय । परार्थप्रयोगश्च सर्वसत्त्वानां सर्वदुःखनिर्मोक्षाय । यथा द्वे आयद्वारे एवं द्वौ महान्तौ कुशलधर्मसन्निचयौ द्वावप्रमेयौ कुशलधर्मस्कन्धौ । पेयालम् ।

द्वे इमे प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य प्रथमं चित्तोत्पादमुपादाय (दुत्त्१३) बोधाय कुशलपरिग्रहवैशेष्ये तदन्यं कुशलपरिग्रहमुपनिधाय । हेतुवैशेष्यं फलवैशेष्यञ्च । स खलु बोधिसत्त्वस्य कुशलपरिग्रहोऽनुत्तनुरायाः सम्यक्संबोधेर्हेतुः सा च तस्य फलम् । न तदन्यः सर्वश्रावकप्रत्येकबुद्धकुशलपरिग्रहः प्रागेव तदन्येषां सत्त्वानाम् । तस्माद्वोधिसत्त्वानां कुशलपरिग्रहस्तदन्यस्मात्सर्वकुशलपरिग्रहाद्धेतुभावतः फलतश्च प्रतिविशिष्टः ।

द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य चित्तोत्पादानुशंसौ । सहचित्तोत्पादाच्च सर्वसत्त्वानां दक्षिणीयभूतो भवति गुरुभूतः पुण्यक्षेत्रं पितृकल्पः प्रजानामव्याबाध्यस्य च पुण्यस्य परिग्रहं करोति । तत्रेदमव्याबाध्यं पुण्यम् । येन समन्वागतो बोधिसत्त्वश्चक्रवर्ति-द्विगुणोनारक्षेणारक्षितो भवति । यस्मिन्नारक्षे सदा प्रत्युपस्थिते न शक्नुवन्ति सुप्तमत्तप्रमत्तस्यापि व्याडा वा यक्षा वा अमनुष्या वा नैवासिका वा विहेठां कर्तुम् । परिवृत्तजन्मा पुनरयं बोधिसत्त्वस्तेन पुण्यपरिग्रहेणाल्पाबाधो भवत्यरोगजातीयः । न च दीर्घेण खरेण वा आबाधेन स्पृश्यते । सत्त्वार्थेषु च सत्त्वकरणीयेष्वस्य व्यायच्छमानस्य कायेन वाचा धर्मञ्च देशयतः नात्यर्थं कायः क्राम्यति न स्मृतिः प्रमुष्यते न चित्तमुपहन्यते । प्रकृत्यैव तावद्गोत्रस्थो बोधिसत्त्वो मन्ददौष्ठुल्यो भवति । उत्पादित चित्तस्तु भूयस्या मात्रया मन्दतर दौष्ठुल्यो भवति यदुत कायदौष्ठुल्येन चित्तदौष्ठुल्येन च । असिद्धान्यपि च तदन्य हस्तगतानि सत्त्वानामीत्युपद्रवोपसर्गसंशमकानि मन्त्रपदानि विद्यापदानि तद्धस्तगतानि सिध्यन्ति । कः पुनर्वादः सिद्धानि । अधिकेन च क्षान्तिसौरत्येन समन्वागतो भवति । परतोपतापसहः अपरोपतापी च । परेणापि च परमुपताप्यमानमुपलभ्यात्यर्थ बाध्यते । क्रोधेर्ष्याशाठ्यम्रक्षादयश्चास्योपक्लेशाहतवेगा मन्दायमानाः कदाचित्समुदाचरन्त्याशु च विगच्छन्ति । यत्र च ग्रामक्षेत्रे प्रतिवसति तस्मिन् भयभैरवदुर्भिक्षदोषा अमनुष्यकृताश्चोपद्रवा अनुत्पन्नाश्च नोत्पद्यन्ते उत्पन्नाश्च व्युपशाम्यन्ति । स चेत्पुनः स प्रथमचित्तोत्पादिको बोधिसत्त्वः एकदा (दुत्त्१४) नरकेष्वपायभूमावुपपद्यते स भूयस्या मात्रया आशुतरं च मुच्यते नरकेभ्यः । तनुतराञ्च दुःखां वेदनां वेदयते भृशतरञ्च संवेगमुत्पादयति
तेषाञ्च सत्त्वानामन्तिके करुणाचित्ततामव्याबाध्य पुण्यपरिग्रहहेतोः । इत्येवंभागीयान् बहूननुशंसानव्याबाध्य पुण्यपरिग्रहात्प्रथमचित्तोत्पादिको बोधिसत्त्वः प्रत्यनुभवति । बोधिसत्त्वभूमावाधारे योगस्थाने द्वितीयं चित्तोत्पादपटलं [समाप्तम्*] ॥


(दुत्त्१५)
स्वपरार्थपटलम् (अध्याय १.३)

एवमुत्पादितचित्तानां बोधिसत्त्वानां बोधिसत्त्वचर्या कतमा । समासतो बोधिसत्त्वा यत्र शिक्षन्ते यथा च शिक्षन्ते यच्च शिक्षन्ते तत्सर्वमैकध्यमभिसंक्षिप्य बोधिसत्त्वचर्येत्युच्यते ।

कुत्र पुनर्बोधिसत्त्वाः शिक्षन्ते । सप्तसु स्थानेषु शिक्षन्ते । सप्त स्थानानि कतमानि । स्वार्थः परार्थः तत्त्वार्थः प्रभावः सत्त्वपरिपाकः आत्मनो बुद्धधर्मपरिपाकः अनुत्तरा च सम्यक्संबोधिः सप्तमं स्थानम् ।

उद्दानम् ।

स्व-परार्थश्च तत्त्वार्थः प्रभावः परिपाचने ।
सत्त्व स्वबुद्धधर्माणां परा बोधिश्च सप्तमी ॥


स्वपरार्थः कतमः समासतो दशविधः स्वपरार्थो वेदितव्यः । केवलं परसम्बद्धः हितान्वयः सुखान्वयः हेतुसंगृहीतः फलसंगृहीतः एहिकः आमुत्रिकः आत्यन्तिकः अनात्यन्तिकश्च ।

तत्र केवलः स्वार्थः परार्थश्च बोधिसत्त्वेन परिज्ञाय प्रहातव्यः बोधिसत्त्वविधेः समतिक्रान्तत्वादननुरूपत्वाच्च । परिशिष्टे च शिक्षितव्यः । तत्रायं केवलः स्वार्थो बोधिसत्त्वस्य योऽनेन परिज्ञाय प्रहातव्यो भवति । आत्मनः सुखकामस्य भोगानां पर्येषणा उपभोगश्च । धर्ममत्सरिणो वा पुनः सतो धर्माणां बुद्धबोधिसत्त्वभाषितानां पर्येंषणा धारणा च । स्वर्गकामस्य स्वर्गार्थ शीलं वीर्यारम्भं ध्यानं प्रज्ञां समादाय वर्तना । लोकामिषफलाभिलाषिणो वा पुनः लोकामिषनिमित्तं तथागतचैत्यपूजा । लाभकामस्य वा लाभनिमित्तं लाभनिर्वर्तकं ममार्थं परेषामुत्प्लावकं विचित्राभूतगुणाख्यानम् । आत्मनः परिचर्यास्वीकरणकामस्य परिचर्यास्वीकरणार्थमधर्मेण गणसंग्रहो न धर्मेण । परतो दासभूतान् सत्त्वान् दासभावाद्धि प्रमोक्षयति यावदेवात्मनो दासभावाय । (दुत्त्१६) बन्धनबद्धान् सत्त्वान् बन्धनाद्विमोक्ष्य स्वयमेव बध्नाति यावदेवात्मनः कृत्यनिष्पत्तये । दण्डादिभयभीतांश्च सत्त्वान् परतो दण्डादिभयाद्विप्रमोक्षयति यावदेव स्वयमेव भयग्रहणार्थम् । दृष्टधर्मसुखविहारश्च बोधिसत्त्वस्य सत्त्वार्थनिध्यानविरहितः केवलः स्वार्थो वेदितव्यः । इत्येवंभागीयो बोधिसत्त्वस्य केवलः स्वार्थो वेदिव्तयो यो बोधिसत्त्वेन परिज्ञाय प्रहातव्यः ।

दानं पुनः बोधिसत्त्वस्य क्षान्तिश्च कारुण्यपूर्वकं वा बोधिपरिणतं वा स्वर्गनिमित्तं वा नित्यकालं परसम्बद्ध एव स्वार्थो वेदितव्यः ।

इत्येतान् यथानिर्दिष्टानाकारान् स्थापयित्वा तदन्य एतद्विपर्ययात्स्वार्थो बोधिसत्त्वानां सर्व एव परार्थसम्बद्धो वेदितव्यः ।

तत्रायं बोधिसत्त्वस्य केवलः परार्थो बोधिसत्त्वेन परिज्ञाय प्रहातव्यः । विपन्न दृष्टेर्दानमनागमदृष्टेरफलदर्शिनः भ्रष्टशीलस्य प्रतिपत्तिविरहितस्य परेषां धर्मदेशना । अधोभूमिसमतिक्रान्तस्याधोभूमिकशुक्लधर्मोपसंहारो ध्यानव्यावर्तनकुशलस्य च बोधिसत्त्वस्य । तथाहि स ध्यानैर्विहृत्य ध्यानं व्यावर्त्त्य प्रणिधाय यत्र कामं तत्र कामधातावुपपद्यते । वशिताप्राप्तस्य च बोधिसत्त्वस्य दशसु निक्षु विचित्रैर्निर्माणैः विचित्राणां सत्त्वानामर्थक्रिया । च स्वकृतार्थस्य मुनेस्तथागतस्य बलवैशारद्यादिसर्वावेणिकबुद्धधर्मसंनिश्रयेणाप्रमाणेषु सत्त्वेष्वप्रमाणार्थक्रिया । सोऽपि परार्थः केवलो वेदितव्यः । तत्र पूर्वको द्विविधः परार्थः केवलो यथा निर्दिष्टो बोधिसत्त्वेन परिज्ञाय प्रहातव्यः । तदन्यत्र च केवले परार्थे भूयस्या मात्रया शिक्षितव्यम् । इत्येतानाकारान् स्थापयित्वा एतद्विपर्ययाच्च बोधिसत्त्वानां सर्वः परार्थः स्वार्थः सम्बद्धः । तत्रापि बोधिसत्त्वेन शिक्षितव्यम् ।

हितान्वयः स्वपरार्थो बोधिसत्त्वस्य कतमः । समासतः पञ्चाकारो वेदितव्यः । अनवद्यलक्षणः अनुग्राहकलक्षणः ऐहिकः आमुत्रिकः औपशमिकश्च । तत्र यत्किंचिद्बोधिसत्त्वः आत्मना वा परीत्तं प्रभूतं वा कुशलपरिग्रहं कुशलोपचयं करोति परं वा परीत्ते प्रभूते वा कुशलपरिग्रहे कुशलोपचये समादापयति विनयति (दुत्त्१७) निवेशयति प्रतिष्ठापयति । अयमनवद्यलक्षणो बोधिसत्त्वस्य हितान्वयः स्वपरार्थो वेदितव्यः । यत्किंचिद्वोधिसत्त्वः आत्मनो वा परस्य वा क्लिष्ट वर्जितं सुखमुपसंहरति उपकरणसुखं वा ध्यानसुखं वा अयं बोधिसत्त्वस्यानुग्राहकलक्षणो हितान्वयः स्वपरार्थो वेदितव्यः । अस्ति बोधिसत्त्वस्य स्वपरार्थ इह-हितो नामुत्र । अस्त्यमुत्र नेह । अस्त्यमुत्र चैह च । अस्ति नैवामुत्र नेह-हितः । स पुनरेष चतुर्विधः स्वपरार्थः चतुर्षु धर्मसमादनेष्वनुपूर्व यथायोगं दृष्टव्यः । चत्वारि धर्मसमादानानि कतमानि । अस्ति धर्मसमादानं प्रत्युत्पन्न-सुखामायत्यां दुःखविपाकम् । अस्ति प्रत्युत्पन्नदुःखमायत्यां सुखविपाकम् । अस्ति प्रत्युत्पन्नसुखमायत्यां सुखविपाकम् । अस्ति प्रत्युत्पन्नदुःखमायत्यां दुःखविपाकम् । विभङ्गा एषां यथासूत्रमेव वेदितव्याः । तत्र निर्वाणं निर्वाणंसंप्रापकश्च निर्वाणपक्ष्या लौकिकलोकोत्तरा धर्मा इत्येष समासतो बोधिसत्त्वस्य हितान्वय औपशमिकः स्वपरार्थः सर्वप्रतिविशिष्टो निरुत्तरो वेदितव्यः ।

सुखान्वयो बोधिसत्त्वस्य स्वपरार्थः कतमः । समासतः पञ्चविधेन सुखेन संगृहीतो वेदितव्यः । तत्रेदं पञ्चविधं सुखम् । हेतुसुखं वेदितसुखं दुःखप्रातिपक्षिकं सुखं वेदितोपच्छेदसुखमव्यबाध्यञ्च पञ्चं सुखम् । तत्र सुखपक्ष्यद्वय मिन्द्रियं विषयश्च । तद्धेतुकश्च यः स्पर्शः सुखवेदनीयः यच्च किञ्चिदिष्टफलं कर्म दृष्टे धर्मे अभिसंपराये वा तत्सर्वमैकध्यमभिसंक्षिप्य हेतुसुखमित्युच्यते । नास्त्यत उत्तरि नास्त्यतो भूयः । दुःखप्रशमनापेक्षः एभिरेव हेतुसुखसंगृहीतैस्त्रिभिः कारणैः संभूतः कायचित्तानुग्रहकरोऽनुभवो वेदितसुखमित्युच्यते । तत्पुनः समासतो द्विविधं सास्रवमनास्रवञ्च । तत्र यदनास्रवं तच्छैक्षमशैक्षञ्च । सास्रवं पुनः त्रैधातुकं कामरूपारूप्यप्रतिसंयुक्तम् । तत्पुनः सर्व त्रैधातुकं यथायोगं षड्विधमायतनभेदेन चक्षुःसंस्पर्शजं यावन्मनःसंस्पर्शजम् । तत्पुनः षड्विधं द्विविधम् । कायिकं चैतसिकञ्च । तत्र पञ्चविज्ञानकायसंप्रयुक्तं कायिकं मनोविज्ञानसंप्रयुक्तं चैतसिकम् । शीतोष्णक्षुत्पिपासादिकानामनेकविधानां दुःखानां बहुनानाप्रकाराणामुत्पन्नोत्पन्नानां (दुत्त्१८) शीतोष्णक्षुत्पिपासादिदुःखप्रतिकारेण प्रशमात्तस्मिन्नेव दुःखोपशममात्रके या सुखबुद्धिरुत्पद्यते इदमुच्यते दुःखप्रातिपक्षिकं सुखम् । संज्ञावेदितनिरोधसमापत्तिर्वेदितोपच्छेदसुखमित्युच्यते । अव्याबाध्यसुखं
पुनः समासतश्चतुराकारं वेदितव्यम् । नैष्क्रम्यसुखंप्रविवेकसुखमुपशमसुखं संबोधिसुखञ्च । सम्यगेव श्रद्धया अगारादनागारिकां प्रव्रजितस्य आगारिकविचित्रव्यासङ्गदुःखनिर्मोक्षान्नैष्क्रम्यसुखमित्युच्यते । कामपापकाकुशलधर्मप्रहाणविवेकात्प्रथमे ध्याने विवेकजं प्रीतिसुखं प्रविवेकसुखमित्युच्यते । द्वितीयादिषु ध्यानेषु वितर्कविचारोपशमादु पशमसुखमित्युच्यते । सर्वक्लेशात्यन्तविसंयोगाज्ज्ञेयवस्तुयथाभूताभिसंबोधाच्च यत्सुखमिदमुच्यते संबोधिसुखम् ।

तत्र हेतुसुखं सुखहेतुत्वात्सुखं न स्वभावतः । वेदितसुखं न हेतुभावादपि तु स्वभावत एव । दुःख-प्रातिपक्षिकं सुखं न च हेतुभावान्नापि स्वभावतः अपि तु दुःखोपशम-मात्रद्दुःखापकर्षणात्सुखम् । वेदितोपच्छेदसुखं न हेतुभावान्न स्वाभाव्यान्न दुःखापकर्षणादपि तु यत्किंचिद्वेदितम् । इदमत्र दुःखस्येति कृत्वा पारमार्थिकस्य दुःखस्य तावत्कालिक्वविहार-व्युपशमात्सुखम् । अव्याबाध्य-सुख-संगृहीतं पश्चिमं संबोधिसुखमायत्यां च तस्यैव पारमार्थिकस्य दुःखस्यात्यन्त-व्युपशमाद्दृष्टे च धर्मे सर्व-क्लेश-पक्ष्यस्य दौष्ठुल्यग्याश्रयगतस्यात्यन्तोपरमात्सुखम् । तदवशिष्टमव्याबाध्य-सुखं तस्यैव पश्चिमस्यानुकूलत्वात्तत्पक्ष्यत्वात्तदावाहकत्वातव्याबाध्यसुखं वेदितव्यम् ।

तत्र बोधिसत्त्वो यदेव हितपक्ष्यं सुखं तदेव सत्त्वानामुपसंहरेत्नतु अहितपक्ष्यम् । अहितपक्ष्यं पुनः सुखं यथाभूतं सम्यक्प्रज्ञया परिज्ञाय तस्मात्सत्त्वान् विच्छन्दयेच्छक्तितश्च तस्यापकर्षापहाराय व्यायच्छेत । दुःखानुगतमपि यद्धितं स्यात्तद्वोधिसत्त्वेन सहैव दुःखेन सहैव दौर्मनस्येनाकामकानां सत्त्वानामुपसंहर्तव्यमुपायकौशल्य-संनिश्रयेण । सुखानुगतञ्चापि यदहितं स्यात्तदपि सहैव सुखेन सह सौमनस्येन कामकानां सत्त्वानामपहर्तव्यमपकर्षितव्य मुपायकौशल्य-संनिश्रयेण । तत्कस्य हेतौः । सुखायैव स (दुत्त्१९) आयत्यां सत्त्वानां नियतो वेदितव्यः । योऽसौ दुःखेन सह हितोपसंहारः सुखेन च सहाहितापकर्षः । अतएव बोधिसत्त्वः सत्त्वेषु यो हितकामः अर्थतः सुखकामोऽपि स ज्ञेयः । यो हितप्रदः सुखप्रदोऽपि स ज्ञेयः । तथा हि हितं हेतुस्थानीयं सुखं फलस्थानीयम् । तस्मात्सुखानुगत एव स सत्त्वेषु वेदितव्यः । यः कश्चिद्धितानुगतः तत्र यच्चेष्टफलं कर्म दृष्टे धर्मे अभिसंपराये च हेतुसुखसंगृहीतं यच्च दुःखप्रातिपक्षिकं यच्च वेदितो पच्छेदसुखं यच्चाव्याबाध्यसुखमेतदेकान्तेन निर्विमर्षो बोधिसत्त्वः सत्त्वेषूपसंहरेत् । एतद्ध्यनुग्राहकं चानवद्यञ्च । वेदित सुखमिन्द्रियविषयस्पर्शसंगृहीतञ्च हेतुसुखं यत्संक्लेशाय वा क्लिष्टं वा सावद्यमहितमपथ्यं तन्नोपसंहरेत् । यत्पुनरसंक्लेशायासंक्लिष्टं वाऽनवद्यं हितं पथ्यं च तद्वोधिसत्त्वः
सत्त्वेषूपसंहरेद्यथाशक्ति यथाबलम् । अपि चात्मना तथैव समाचरेच्छिक्षेत प्रत्यनुभवेदित्ययं बोधिसत्त्वानां हितसुखान्वयः स्वपरार्थो वेदितव्यः । नात उत्तरि नातो भूयः ।

तत्र कतमो बोधिसत्त्वस्य हेतुफलसंगृहीतः स्वपरार्थः । समासतस्त्रिविधो हेतुस्त्रिविधमेव च फलं वेदितव्यम् । विपाकहेतुः विपाकफलं पुण्यहेतुः पुण्यफलं ज्ञानहेतुः ज्ञानफलम् ।

विपाकः कतमः । समासतोऽष्टविधो विपाकः । आयुःसंपत्वर्णसंपत्कुलसंपतैश्वर्यसंपतादेयवाक्यता महेशाख्यता मनुष्यत्वं बलमेव चाष्टमम् । दीर्घायुष्कं चिरस्थितिकता बोधिसत्त्वस्यायुःसंपत् । अभिरूपता दर्शनीयता प्रासादिकत्वं वर्णसंपत् । उच्चेषु कुलेषु प्रत्याजातिः कुलसंपत् । महाभोगता महापक्षता महापरिवारिता च ऐश्वर्यसंपत् । यत्पुनः श्रद्धेयो भवति प्रत्ययितः सत्त्वानामुत्पन्नोत्पन्नेष्वधिकरणेषु प्रामाणिकत्वेन रथेयः कांसकूटतूलाकूटादिभिनिर्मायाशाठ्येन । निक्षिप्यस्य च द्रविणस्यानभिद्रोहो भवत्यविसंवादकः । तन्निदानञ्च सत्त्वानां गृहीतवाक्यो भवति । इयमुच्यते आदेयवचनता । महद्यशः ख्यातिश्चास्य लोके प्रथिता भवति यदुत शौर्यं वा वीर्य वा धैर्यं वा वैचक्षण्यं वा नैपुण्यं वा सौशील्यं वा विचित्रशिल्पकर्मस्थानातिरेकतरतम-कौशल्यं वा आरभ्य । (दुत्त्२०) तन्निदानञ्च गुरुर्भवति महाजनकायस्य सत्करणीयो गुरुकरणीयो माननीयः पूजनीयः । इयमुच्यते महेशाख्यता । पुरुषभावः पुरुषेन्द्रियेण समन्वागतो मनुष्यत्वम् । अल्पाबाधता अरोगजातीयता महोत्साहता च प्रकृत्या बलसंपत् ।

विपाकहेतुः कतमः अहिंसा सत्त्वेष्वहिंसाशयश्चायुःसंपदो हेतुः । आलोकशुचिवस्त्रदानं वर्णसंपदो हेतुः । निहतमानता सत्त्वेषु कुशलसंपदो हेतुः । दानमर्थिषु चोपकरणविकलेषु चैश्वर्यसंपदो हेतुः । सत्यवचनोऽपिशुनाऽपरुषाऽसंभिन्नप्रलापाभ्यासः आदेयवचनताया हेतुः । आयत्यामात्मनि विचित्रगुणाधानप्रणिधानवतो रत्नत्रयपूजा गुरुपूजा महेशाख्यताया हेतुः । मनुष्यभावे चाभिरतिः स्त्रीभावे विद्वेषश्च । तत्रादीनवदर्शिनः । परेषाञ्च मनुष्यत्वोपसंहारौ द्वाभ्यां कारणाभ्याम् । विच्छन्दनतया च स्त्रीणां स्त्रीभावाभिरतानां [च] स्त्रीभावात् । विनिर्मोक्षणतया च धर्मेण पुरुषेन्द्रियविप्रलोपायोपात्तानामुपनीतानां मनुष्याणां मनुष्यत्वस्य हेतुः । कायेन सत्त्वानां वैयावृत्य क्रिया सहायक्रिया उत्पन्नोत्पन्नेषु कृत्येषु यथाशक्ति यथाबलं धर्मेणासाहसेन भक्त-तर्पण-यवागुपानानां च वृष्याणामुत्साहकराणामन्नपानानां सत्त्वेषूपसंहारो बलसम्पदो हेतुः । इत्यष्टविधस्य विपाकस्यायमष्टविधो हेतुर्वेदितव्यः ।

स पुनरयं हेतुः समासतस्त्रिभिः कारणैः पुष्टो भवति परिपूर्णस्य पुष्टस्योदारस्य विपाकस्याभिनिर्वृत्तये । त्रीणि कारणानि कतमानि । चित्तशुद्धिः प्रयोग शुद्धिः क्षेत्रशुद्धिश्च । तत्र या च शुद्धाशयता अनुत्तरायां सम्यक्संबोधौ तेषां कुशलमूलानां परिणमनाद्या च तीव्राशयता घनरसेनोदारेण प्रसादेनाध्याचरणाद्या च सहधार्मिकस्य दर्शनेनाभिप्रमोदना या च प्रतिदिवसं प्रतिक्षणं तदनुधर्ममेव बहुलमनुवितर्कणानुविचारणा । इयमुच्यते चित्तशुद्धिः । तत्र यो दीर्घकालाभ्यासो निरन्तरकारिता [च] निपुणकारिता च परेषाञ्चासमात्ते तस्मिन् कुशले समादापनाय वर्णवादिता समात्ते वा पुनः संहर्षणाय वर्णवादिता तेषामेव च तस्मिन् कुशलमूले सन्निवेशना प्रतिष्ठापना । (दुत्त्२१) इयमुच्यते प्रयोगशुद्धिः । तत्र समासतः प्रयोगस्य सम्यक्सम्पादनात्तस्यैव च सम्यक्प्रयोगस्य फलेऽवस्थापना त्क्षेत्रशुद्धिर्वेदितव्या ।

तत्र विपाकफलं कतमत् । आयुःसंपन्नो बोधिसत्त्वो दीर्घकालं कुशलपक्षे प्रयुज्यते प्रभूतञ्च कुशलमूलोपचयं करोति स्वार्थ परार्थञ्चारभ्य । इदमायुःसंपदः फलम् । वर्णसंपन्नो बोधिसत्त्वः प्रियो भवति महाजनकायस्य । प्रियत्वाच्चाभिगमनीयो भवति । तया च मनोज्ञरूपतया सम्मुखीभावोपगमनाच्चास्य महाजनकायो वचनं श्रोतव्यं कर्तव्यं मन्यते । इदं वर्णसंपदः फलं बोधिसत्त्वस्य वेदितव्यम् । कुलसंपन्नो बोधिसत्त्वः सम्मतो भवति महाजनकायस्य पूज्यश्च प्रशस्यश्च । सम्मतत्वाच्च पूज्यत्वात्प्रशस्यत्वाद्यत्र यत्र वस्तुनि सत्त्वान् समादापयति ते तेजोग्रस्तास्तत्र तत्राशु प्रतिपद्यन्ते न विवदन्ते न विचेष्टन्तेऽक्रियायै । इदं कुलसंपदः फलं बोधिसत्त्वस्य वेदितव्यम् । ऐश्वर्यसंपन्नो बोधिसत्त्वो दानेन सत्त्वान् संगृह्णाति परिपाचयति । इदमैश्वर्यसंपदो बोधिसत्त्वस्य फलं वेदितव्यम् । आदेयवचनो बोधिसत्त्वः प्रियवादितया अर्थचर्यया समानार्थतया च सत्त्वान् गृह्णाति परिपाचयति । इदमादेयवचनताया बोधिसत्त्वस्य फलं वेदितव्यम् । महेशाख्यो बोधिसत्त्वः सत्त्वानां विचित्रैः कृत्यकरणीयैः सहायीभावं गच्छन्नुपकारी भवति । येनोपकारे णावबद्धचित्ताः सत्त्वा अस्य गौरवात्कृतज्ञतया च लघुलध्वेवाज्ञामनुवर्तन्ते सत्कृत्यादरेण । इदं महेशाख्यताया बोधिसत्त्वस्य फलं वेदितव्यम् । मनुष्यभूतो बोधिसत्त्वः पुरूषेन्द्रियेण समन्वागतो भाजनभूतो भवति सर्वगुणानां सर्वव्यवसायानां सर्वज्ञेयप्रविचयानाम् । विशारदश्च भवत्यनावृतगतिः सर्वसत्त्वसर्वकालोपसंक्रमणसंभाषणसंवाससंभोगरहो विहाराणमिदं पुरुषत्व फलं बोधिसत्त्वस्य वेदितव्यम् । बलसंपन्नो बोधिसत्त्वः अखिन्नो भवति कुशलधर्मार्जनप्रयोगेण सत्त्वानुग्रहप्रयोगेण
च । आरब्धवीर्यश्च भवति दृढवीर्यः क्षिप्राभिज्ञश्च भवति । इदं बलसंपदो बोधिसत्त्वस्य फलं वेदितव्यम् । इतीदं बोधिसत्त्वानामष्टविधस्य विपाकस्याष्टविधं फलं यद्भवति सत्त्वानां (दुत्त्२२) चोपकाराय बुद्धधर्माणाश्चोदयायानुकूलमनुगुणम् । अस्मिन् खलु बोधिसत्त्वो विपाकफले व्यवस्थितः स्वयञ्च शक्तो भवति प्रतिबलः सत्त्वानां विचित्रप्रभूतार्थकरणे । तेऽपि चास्य विनेया नियोज्या भवन्ति यथाकामकरणीयाय यदुत स्वार्थक्रियामारभ्य । स्वयञ्चेदयं बोधिसत्त्वः प्रतिबलः स्याद्विनेयाश्चास्य न नियोज्या भवेयुः । एवमस्य न प्रचुरा स्यान्न प्रदक्षिणा परार्थक्रिया येनायं न शक्नुयात्परार्थं कर्तुम् । स्वयञ्चेदयं बोधिसत्त्वः अशक्तः स्यादप्रतिबलो विनेयाश्चास्य नियोज्याः स्युः स्वार्थक्रियामारभ्यैवमपि बोधिसत्त्वस्य परार्थक्रिया न प्रचुरा न प्रदक्षिणा स्याद्येनायं न शक्नुयात्परार्थ कर्तुम् । तस्मादुभयसान्निध्ये उभयसंपदिं सत्यां बोधिसत्त्वस्य सत्त्वार्थक्रिया प्रचुरा भवति प्रदक्षिणा येन शक्नोति परार्थं कर्तुम् । तथाभूतश्चासौ बोधिसत्त्वः आत्मनश्च बुद्धधर्मान् सत्त्वांश्च त्रिषु यानेषु क्षिप्रमेव परिपाचयति । आत्मना चानुत्तरां सम्यक्संबोधिमधिसंबुध्यते । परिपक्वांश्च सत्त्वान् विमोचयति । तदनेन पर्यायेण बोधिसत्त्वानां यस्मादष्टविधं विपाकफलं हितसुखाय सत्त्वानां संवर्तते । तस्माद्यः सर्वसत्त्वानां बन्ध्यो निरर्थः संसारः स तेषामवन्ध्यश्च महार्थश्च भवति ।

तत्र कतमत्पुण्यम् । कतमज्ज्ञानम् । पुण्यमुच्यते समासतस्तिस्रः पारमिताः । दानपारमिता शीलपारमिता क्षान्तिपारमिता च । ज्ञानं पुनरेका पारमिता यदुत प्रज्ञापारमिता । वीर्यपारमिता ध्यानपारमिता च पुण्यपक्ष्या ज्ञानपक्ष्या च वेदितव्या । यद्वीर्य निश्रित्य दानं ददाति शीलं वा समादत्ते रक्षति मैत्र्यादीनि चाप्रमाणानि भावयति । इदमेवंभागीयं पुण्यपक्ष्यं वीर्यम् । यत्पुनर्वीर्यं निश्रित्य श्रुतचिन्ताभावनामय्यां प्रज्ञायां योगं करोति स्कन्धकौशल्यं वा करोति धातुकौशल्यमायतनकौशल्यं प्रतीत्यसमुत्पादकुशल्यं स्थानास्थानकौशल्यं दुःखं वा दुःखतः समुदयं वा समुदयतो निरोधं वा निरोधतो मार्गं वा मार्गतः प्रत्यवेक्षते । कुशलाकुशलान्धर्मान् सावद्याननवद्यान् हीनप्रणीतान् कृष्णशुक्लसप्रविभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं प्रविचिनोति प्रत्यवेक्षते । इदमुच्यते ज्ञानपक्ष्यं वीर्यम् । यद्ध्यानं निश्रित्यं दानं वा ददाति शीलं वा समादत्ते रक्षति मैत्र्यादीनि चाप्रमाणानि भावयति । इदमेवंभागीयं पुण्यपक्ष्यं ध्यानम् । (दुत्त्२३) यत्पुनर्ध्यानं निश्रित्य श्रुतचिन्ताभावनाय्यां प्रज्ञायां योगं करोति स्कन्धकौशल्यं वा पूर्ववत्सर्वं वक्तव्यं तद्यथा वीर्ये । इदमुच्यते ज्ञानपक्ष्यं ध्यानम् । तच्चैतत्पुण्यज्ञानं समासतः षड्विधं भवति । अप्रमाणं त्वेतदेकैकप्रभेदतो वेदितव्यम् ।

पुण्यज्ञानहेतुः कतमः । समासतस्त्रयः पुण्यज्ञानहेतवो वेदितव्याः । पुण्यज्ञानप्रतिलम्भस्थानोपचयाय यच्छन्दः अनुकूलोऽविधुरः प्रत्ययः पूर्वकश्च पुण्यज्ञानाभ्यासः । तत्रायमविधुरः प्रत्ययः या विपरीतस्य च प्रत्ययस्याप्रत्युपस्थानमसन्निहितता । अविपरीतस्य च प्रत्ययस्य प्रत्युपस्थानं सन्निहितता । तत्र या पापमित्रमागम्य विपरीता पुण्यज्ञानदेशना विपरीतेन वा मनस्कारेण विपरीतग्राहिता । इदमुच्यते विपरीतप्रत्यसान्निध्यम् । एतद्विपर्ययेण शुक्लपक्षेण अविपरीतप्रत्ययसान्निध्यं वेदितव्यम् । ये च पुण्यज्ञानप्रतिलम्भस्थित्युपचयाय प्रयुक्तस्यान्तरायाः । तेषाञ्च विवर्जनमनुत्पादः प्रत्ययोऽविधुर इत्युच्यते बोधिसत्त्वस्य पुण्यज्ञानयोः । एषां त्रयाणां हेतूनामन्यतमवैकल्यान्नापि पुण्यस्य नापि ज्ञानस्य प्रसूतिर्वेदितव्या ।

पुण्यज्ञानफलं कतमत् । पुण्यमाश्रित्य बोधिसत्त्वोऽक्षतः संसारे संसरति नात्यर्थं दुःखैर्बाध्यमानः । यथेप्सितञ्च सत्त्वार्थं सत्त्वानुग्रहं शक्नोति कर्तुम् । ज्ञानमाश्रित्य बोधिसत्त्वः सम्यक्पुण्यपरिग्रहं करोति न मिथ्या विचित्राप्रमेयकौशल्यक्रियया च यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । इतीदं समासेन पुण्यज्ञानफलं यथायोगं चतुर्विधं वेदितव्यम् । अप्रमाणन्त्वे तत्प्रकारप्रभेदतः ।

तत्र यश्च विपाको यश्च विपाकहेतुर्यच्च विपाकफलं सर्वमेतत्पुण्याश्रितं पुण्यप्रभवम् । पुण्यं पुनर्ज्ञानाश्रितं ज्ञानप्रभवं तस्मादुभयमेतत्प्रधानमनुत्तरायै सम्यक्संबोधये । पुण्यं प्रधानं ज्ञानं पुनर्निरूत्तरं पुण्यज्ञानं तदन्यतरवैकल्यादयं बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिं नाधिगच्छेत् । इत्ययं बोधिसत्त्वस्य हेतुफलसंगृहीतः स्वपरार्थो वेदितव्यः ।

तत्र कतमो बोधिसत्त्वस्य दृष्टधार्मिकः स्वपरार्थः । कतमः सांपरायिकः । युक्तेन शिल्पस्थानकर्मस्थानेन पुरुषकारेण या भोगानामर्जना । तेषामेव चोपार्जितानां भोगानां मात्रयोपभोगः । पूर्वकस्य चेष्टफलस्य कर्मणो विपक्वविपाकस्य (दुत्त्२४) यो दृष्टे धर्मे फलोपभोगः । ध्यानव्यावर्तनकुशलस्य च बोधिसत्त्वस्य दृष्टधर्मसुखविहारार्थं दृष्ट एव च धर्मे तत्सन्निश्रयो न परार्थप्रसाधनार्थं ध्यानसन्निश्रयः । यच्च दृष्टधर्मनिर्वाणं तथागतभूतस्य ये च लौकिकलोकोत्तरा दृष्टधर्मनिर्वाणसंप्रापकाः संस्कृता धर्माः । अयमुच्यते बोधिसत्त्वस्य दृष्टधार्मिका एव स्वार्थः । यथा बोधिसत्त्वस्यैवं परेषामपि परार्थो वेदितव्यः । ये सत्त्वा बोधिसत्त्वविनीताः । तत्र या च कामधातौ भोगसंपत्परत्र या चात्मभावसंपत्परत्र । या च परत्र ध्यानारूप्योपपत्तिः तस्याश्च परत्र भोगात्मभावसंपदो ध्यानारूप्योपपत्तेश्च या दृष्टे धर्मे सहैव दुःखेन सहैव दौर्मनस्येन प्रतिसंख्याय प्रतिसंख्याय हेत्वासेवना । अयं सांपरायिक एव बोधिसत्त्वस्य स्वपरार्थो वेदितव्यः । या पुनर्दृष्टे धर्मे सहैव सुखेन सहैव सौमनस्येन भोगात्मभावसंपदो हेत्वासेवना । या चेहाहानभागीया ध्यानारूप्यसमापत्तिः । दृष्टधर्मसांपरायिकः स्वपरार्थो वेदितव्यः ।

आत्यन्तिकः स्वपरार्थः कतमः । कतमश्चानात्यन्तिकः । कामधातौ भोगात्मभावसंपत्तिः सहेतुफला लौकिकी च पृथग्जनानां शुद्धिः सहेतुफला अनात्यन्तिकः स्वपरार्थः । सर्वात्यन्तक्लेशप्रहाणमार्याष्टाङ्गश्च मार्गः तदाश्रयेण च ये लौकिकाः कुशला धर्माः प्रतिलब्धाः । अयमुच्यते आत्यन्तिकः स्वपरार्थः ।

तत्र त्रिभिः कारणैरात्यन्तिकता अनात्यन्तिकता च वेदितव्या । स्वभावतः परिहाणितः फलोपभोग परिक्षयतश्च । तत्र स्वभावतो निर्वाणमात्यन्तिकम् । संस्कृतं सर्वमेवानात्यन्तिकम् । आर्याष्टाङ्गो मार्गः अपरिहाणीयत्वादफलोप भोगापरिक्षयादात्यन्तिकः । तदन्ये कुशलसास्त्रवा धर्माः परिहाणितः फलोपभोगपरिक्षयतश्चानात्यन्तिकाः ।

इत्ययं बोधिसत्त्वानां दशविधः स्वपरार्थः समासविस्तरतः यत्र बोधिसत्त्वैर्यथाशक्ति यथाबलं शिक्षितव्यं नात ऊत्तरि नातो भूयः । अतीतेऽप्यध्वन्यनागतेऽपि ये स्वपरार्थे शिक्षितवन्तः शिक्षिष्यन्ते सर्वे तेऽस्मिन्नेव दशविधे स्वपरार्थे । नात उत्तरि नातो भूयः ।

बोधिसत्त्वभूमावाधारे योगस्थाने स्वपरार्थपटलं तृतीयं समाप्तम् ।


(दुत्त्२५)
तत्त्वार्थ-पटलम् (अध्याय १.४)

तत्त्वार्थः कतमः । समासतो द्विविधः । यथावद्भाविकताञ्च धर्माणामारभ्य या धर्माणां भूतता यावद्भाविकताञ्चारभ्य या धर्माणां सर्वता । इति भूतता सर्वता च धर्माणां समस्तस्तत्त्वार्थो वेदितव्यः । स पुनरेव तत्त्वार्थः प्रकारभेदतश्चतुर्विधः । लोकप्रसिद्धो युक्तिप्रसिद्धः क्लेशावरणविशुद्धिज्ञानगोचरो ज्ञेयावरणविशुद्धिज्ञानगोचरश्च ।

तत्र लौकिकानां सर्वेषां यस्मिन् वस्तुनि संकेतसंवृतिसंस्तवनागमप्रविष्टया बुद्ध्या दर्शनतुल्यता भवति तद्यथा पृथिव्यां पृथिव्यैवेयं नाग्निरिति । यथा पृथिव्यामेवमग्नावप्सु वायौ रूपेषु शब्देषु गन्धेषु रसेषु स्प्रष्टव्येषु भोजने पाने याने वस्त्रे अलङ्कारोपविचारे भाण्डोपस्करे गन्धमाल्यविलेपने नृत्यगीतवादित्रे आलोके स्त्रीपुरुषपरिचर्यायां क्षेत्रापणगृहवस्तुनि सुखदुःखे दुःखमिदं न सुखं सुखमिदं न दुःखमिति । समासत इदमिदं नेदम् । एवमिदं नान्यथेति निश्चिताधिमुक्तिगोचरो यद्वस्तु सर्वेषामेव लौकिकानां परंपरागतया संज्ञया स्वविकल्प-प्रसिद्वं न चिन्तयित्वा तुलयित्वोपपरीक्ष्योद्गृहीतम् । इदमुच्यते लोकप्रसिद्धतत्त्वम् ।

युक्तिप्रसिद्धतत्त्वं कतमत् । सतां युक्तार्थपण्डितानां विचक्षणानां तार्किकाणां मीमांसकानां तर्कपर्यापन्नायां भूमौ स्थितानां स्वयं प्रातिभानिक्यां पार्थग्जनिक्यां मीमांसानुचरितायां प्रत्यक्षमनुमानमाप्तागमं प्रमाणं निश्रित्य सुविदित-सुविनिश्चितज्ञानगोचर-ज्ञेयं वस्तूपपत्तिसाधनयुक्त्या प्रसाधितं व्यवस्थापितम् । इदमुच्यते युक्तिप्रसिद्धं तत्त्वम् ।

क्लेशावरणविशुद्धिज्ञानगोचरस्तत्त्वं कतमत् । सर्वश्रावकप्रत्येकबुद्धानामनास्रवेणानास्रवावाहकेन चानास्रवपृष्टलब्धेन च लौकिकेन ज्ञानेन यो गोचरविषयः । इदमुच्यते क्लेशावरणविशुद्विज्ञानगोचरस्तत्त्वम् । तेनालम्बनेन क्लेशावरणाज्(दुत्त्२६) ज्ञानं विशुध्यति । अनावरणत्वे चायत्यां सन्तिष्ठते । तस्मात्क्लेशावरणविशुद्धिज्ञानगोचरस्तत्त्वमित्युच्यते ।

तत्पुनस्तत्वं कतमत् । चत्वार्यार्यैसत्यानि दुःखं समुदयो निरोधो मार्गश्च । इत्येतानि चत्वार्यार्यसत्यानि प्रविचिन्वतोऽभिसमागच्छतोऽभिसमागतेषु च तज्ज्ञानमुत्पद्यते । स पुनः सत्याभिसमयः श्रावकप्रत्येकबुद्धानां स्कन्धमात्रमुपलभमानानां स्कन्धेभ्यश्चान्यमर्थान्तरमात्मानमनुपलभमानानां प्रतीत्यसमुत्पन्नसंस्कारोदयव्ययप्रतिसंयुक्तया प्रज्ञया स्कन्धविनिर्मुक्तपुद्गलाभावदर्शनाभ्यासादुत्पद्यते ।

ज्ञेयावरणविशुद्धिज्ञानगोचरस्तत्त्वं कतमत् । ज्ञेये ज्ञानस्य प्रतिघात आवरणमित्युच्यते । तेन ज्ञेयावरणेन विमुक्तस्य ज्ञानस्य यो गोचरविषयस्तज्ज्ञेयावरणविशुद्धिज्ञानगोचरस्तत्त्वं वेदितव्यम् ।

तत्पुनः कतमत् । बोधिसत्त्वानां बुद्धानाञ्च भगवतां धर्मनैरात्म्यप्रवेशाय प्रविष्टेन सुविशुद्धेन च सर्वधर्माणां निरभिलाप्यस्वभावतामारभ्य प्रज्ञप्तिवाद स्वभावनिर्विकल्पज्ञेयसमेन ज्ञानेन यो गोचरविषयः सासौ परमा तथता निरुत्तरा ज्ञेयपर्यन्तगता यस्याः सर्व सम्यग्धर्मप्रविचया निवर्तन्ते नाभिवर्तन्ते ।

तत्पुनस्तत्त्वलक्षणं व्यवस्थानतः अद्वयप्रभावितं वेदितव्यम् । द्वयमुच्यते भावश्चाभावश्च ।

तत्र भावो यः प्रज्ञप्तिवादस्वभावो व्यवस्थापितः । तथैव च दीर्घकालमभिनिविष्टो लोकेन । सर्वविकल्पप्रपञ्चमूलं लोकस्य । तद्यथा रूपमिति वा वेदना संज्ञा संस्कारा विज्ञानमिति वा । चक्षुरिति वा स्रोत्रं घ्राणं जिह्वा कायो मन इति वा । पृथिवीति वा आपस्तेजो वायुरिति वा । रूपमिति वा शब्दो गन्धो रसः स्प्रष्टव्यमिति वा । कुशलमिति वा अकुशलमिति वा अव्याकृतमिति वा । उत्पाद इति वा व्यय इति वा प्रतीत्यसमुत्पन्न इति वा । अतीतमिति वा अनातगमिति वा प्रत्युत्पन्नमिति वा । संस्कृतमिति वा [असंस्कृतमिति वा ।] अयं लोकः परो लोकः । उभौ सूर्याचन्द्रमसौ । यदपि दृष्टश्रुतमतविज्ञातं प्राप्तं पर्येषितं मनसाऽनुवितर्कितमनुविचारितमिति वा । अन्ततो यावन्निर्वाणमिति वा । इत्येवंभागीयः प्रज्ञप्तिवादनिरूढः स्वभावो धर्माणां लोकस्य भाव इत्युच्यते ।

(दुत्त्२७)
तत्राभावो या अस्यैव रूपमिति प्रज्ञप्तिवादस्य यावदन्ततो निर्वाणमिति प्रज्ञप्तिवादस्य निर्वस्तुकता निर्निमित्तता प्रज्ञप्तिवादाश्रयस्य सर्वेण सर्वं नास्तिकता असंविद्यमानता यामाश्रित्य प्रज्ञप्तिवादः प्रवर्तते । अयमुच्यतेऽभावः ।

यत्पुनः पूर्वकेण च भावेनानेन चाभावेन उभाभ्यां भावाभावाभ्यां विनिर्मुक्तं धर्मलक्षणसंगृहीतं वस्तु । तदद्वयंं यदद्वयं तन्मध्यमा-प्रतिपदन्तद्वयवर्जितम् । निरुत्तरेत्युच्यते । तस्मिंश्च तत्त्वे बुद्धानां भगवतां सुविशुद्धं ज्ञानं वेदितव्यम् । बोधिसत्त्वानां पुनः शिक्षामार्गप्रभावितं तत्र ज्ञानं वेदितव्यम् ।

सा च प्रज्ञा महानुपायो बोधिसत्त्वस्यानुत्तरायाः सम्यक्संबोधेः प्राप्तये । तक्तस्य हेतो । तथा हि बोधिसत्त्वस्तेन शून्यताधिमोक्षेण तासु तासु जातिषु प्रयुज्यमानः सत्त्वेषु बुद्धधर्मपरिपाकाय संसारे संसरन् तञ्च संसारं यथाभूतं परिजानाति । न च पुनस्तस्मात्संसारादनित्यादिभिराकारैर्मानसमुद्वेजयति । स

चेत्संसारं यथाभूतं न परिजानीयान्नशक्नुयाद्रागद्वेषमोहादिकात्सर्वसंक्लेशाच्चित्तमध्युपेक्षितुम् । अनध्युपेक्षमाणश्चसंक्लिष्टचित्तः संसारे संसरेत्संक्लिष्टचित्तः संसरन्नैव बुद्धधर्मान् परिपाचयेन्नापि सत्त्वान् । स चेत्पुनरनित्यादिभिराकारैः संसारान्मानसमुद्वेजयेदेवं सति बोधिसत्त्वो लघु लध्वेव परिनिर्वायात् । लघु लध्वेव च परिनिर्वायन् बोधिसत्त्व एवमपि नैव बुद्धधर्मान्नैव सत्त्वान् परिपाचयेत् । कुतः पुनरनुत्तरां सम्यक्सम्बोधिमभिसंभोत्स्यते । तेनैव च शून्यताधिमोक्षेण बोधिसत्त्वः प्रयुज्यमानः न निर्वाणादुत्त्रस्यति नापि निर्वाणं प्रार्थयते । स चेद्वोधिसत्त्वो निर्वाणादुत्त्रस्येत्परत्र निर्वाणसंभारोऽस्य न परिपूर्येत यथापि च तदुत्त्रस्तमानसत्वान्निर्वाणेऽननुशंसदर्शिनस्तद्गतगुणदर्शनप्रसादाधिमुक्तिविवर्जितस्य बोधिसत्त्वस्य । स चेत्पुनर्बोधिसत्त्वो निर्वाणो प्रार्थनाबहुलविहारी भवेदाश्वेव परिनिर्वायात् । आशु परिनिर्वायं नैव बुद्धधर्मान्न सत्त्वान् परिपाचयेत् । तत्र या च संसारं यथाभूतमपरिजानतः संक्लिष्टचित्तस्य संसारसंसृतिः । या च संसारादुद्विग्नमानसस्याशुनिर्वृतिः । या च निर्वाणादुत्त्रस्तमानसस्य तत्संभारापरिपूरिः । या च निर्वाणप्रार्थनाबहुलविहारिण (दुत्त्२८) आशु परिनिर्वृतिः अयमनुपायो बोधिसत्त्वस्य वेदितव्योऽनुत्तरायाः सम्यक्संबोधेः । या पुनः संसारं यथाभूतं परिजानतोऽसंक्लिष्टचित्तस्य संसारसंसृतिः । या च संसारादनित्यादिभिराकारैरनुद्विग्नमानसस्यानाशुनिर्वृतिः । या च निर्वाणादनुत्त्रस्तमानसस्य तत्संभारपरिपूरिर्या च निर्वाणे गुणानुशंसदर्शिनो न चात्यर्थमुत्कण्ठाप्राप्तस्याशु निर्वृतिः । अयं बोधिसत्त्वस्य महानुपायोऽनुत्तरायाः
सम्यक्सम्बोधेरनु प्राप्तये । स चायमुपायस्तस्मिन् परमशून्यताधिमोक्षे सन्निश्रितः ।

तस्मात्सा परमन्शूयताधिमोक्षभावना बोधिसत्त्वस्य शिक्षामार्गसंगृहीतो महानुपाय इत्युच्यते यदुत तथागतज्ञानाधिगमाय । स खलु बोधिसत्त्वस्तेन दूरानुप्रविष्टे न धर्मनैरात्म्यज्ञानेन निरभिलाप्यस्वभावतां सर्वधर्माणां यथाभूतं विदित्वा न किञ्चिद्विकल्पयति नान्यत्र वस्तुमात्रं गृह्णाति तथतामात्रम् । न चास्यैवं भवति वस्तुमात्रं वा एतत्तथतामात्रं चैति । अर्थे तु स बोधिसत्त्वश्चरति । अर्थे परमे चरन् सर्वधर्मांस्तया तथतया समसमान् यथाभूतं प्रज्ञया पश्यति । सर्वत्र च समदर्शी समचित्तः सन् परमामुपेक्षां प्रतिलभते । यामाश्रित्य सर्वविद्यास्थानकौशलेषु प्रयुज्यमानो बोधिसत्त्वः सर्वपरिश्रमैः सर्वदुःखोपनिपातैः न निवर्तते । क्षिप्रञ्चाक्लान्तकायः अक्लान्तचित्तः तत्कौशलं समुदायनयति । महास्मृतिबलाधानप्राप्तश्च भवति । न च तेन कौशलेनोन्नतिं गच्छति । न च परेषामाचार्यमुष्टिं करोति । सर्वकौशलेषु चासंलीनचित्तो भवति । उत्साहवानव्याहतगतिश्च भवति । दृढसन्नाहप्रयोगः यथा यथा संसारे संसरन् दुःखविशेषं लभते तथा तथोत्साहं बर्धयत्यनुत्तरायां सम्यक्संबोधौ । यथा यथा समुच्छ्रयविशेषमधिगच्छति तथा तथानिर्मानतरो भवति सत्त्वानामन्तिके । यथा यथा ज्ञानविशेषमधिगच्छति तथा तथा भूयस्या मात्रया परोपारम्भविवादप्रकीर्णलपिताक्लेशोपक्लेशेभ्यश्च वृत्तस्ख लितसमुदाचारेभ्यः परिज्ञाय परिज्ञाय चित्तमध्युपेक्षते । यथा यथा गुणैर्वि[व]र्धते तथा तथा प्रतिच्छन्नकल्याणो भवति । न परतो ज्ञातुं समन्वेषते न लाभ सत्कारम् । इमा (दुत्त्२९) एवंभागीया बहवोऽनुशंसा भवन्ति बोधिसत्त्वस्य बोधिपक्ष्या बोध्यनुकूलास्तज्ज्ञानसन्निश्रितस्य । तस्माद्ये केचिद्बोधिमनुप्राप्तवन्तो ये च केचित्प्राप्स्यन्ति ये च प्राप्नुवन्ति सर्वे त एतदेव ज्ञानं निश्रित्य
नान्यन्न्यूनं प्रतिविशिष्टं वा । एवं निष्प्रपञ्चनयारूढो बोधिसत्त्व एवं चं बह्वनुशंस आत्मनश्च बुद्धधर्मपरिपाकाय परेषाञ्च यानत्रयधर्मपरिपाकाय सम्यक्प्रतिपन्नो भवति । एवञ्च पुनः सम्यक्प्रतिपन्नो भवति । भोगेष्वात्मभावे च निस्तृष्णो भवति । निस्तृष्णतायाञ्च शिक्षते सत्त्वेषु भोगात्मभावपरित्यागाय सत्त्वानामेवार्थाय । संवृतश्च भवति सुसंवृतः । कायेन वाचा सम्बरेण च शिक्षते प्रकृत्या पापारुचितायै प्रकृतिभद्रकल्याणतायै च । क्षमो भवति परतः सर्वोपतापकिप्रतिपत्तीनाम् । क्षमित्वं च शिक्षते मन्दक्रोधतायै च अ-परोपतापनतायै च । सर्वविद्यास्थानेषु चाभियुक्तो भवति कुशलश्च सत्त्वानां विचिकित्साप्रहाणायानुग्रहोपसंहाराय च आत्मनश्च सर्वज्ञत्वहेतुपरिग्रहाय । अध्यात्मस्थितचित्तश्च भवति सुसमाहितचित्तः । चित्तस्थितये च शिक्षते चतुर्ब्राह्मविहारपरिशोधनतायै पञ्चाभिज्ञाविक्रीडनतायै च सत्त्वकृत्यानुष्ठानतायै सर्वकौशल्याभियोगजक्लेश-विनोदनतायै च । विचक्षणश्च भवति परमतत्त्वज्ञः । परमतत्त्वज्ञतायै च शिक्षते महायाने चायत्यामात्मनः परिनिर्वाणाय । स खलु बोधिसत्त्व एवं सम्यक्प्रयुक्तो गुणवत्सु सत्त्वेषु पूजालाभसत्कारेण प्रत्युपस्थितो भवति । दोषवत्सु सत्त्वेषु परमेण कारुण्यचित्तेनानुकम्पाचित्तेन प्रत्युपस्थितो भवति । यथाशक्त्या च यथाबलं दोषप्रहाणायैषां प्रयुज्यते । अपकारिषु सत्त्वेषु मैत्रचित्ततया प्रत्युपस्थितो भवति । यथाशक्त्या च यथाबलमशठो भूत्वा अमायावी तेषां हितसुखमुपसंहरति । तेषामपकारिणां स्वेनाशयप्रयोगदोषेण वैरचित्ततायाः प्रहाणार्थमुपकारिषु सत्त्वेषु कृतज्ञतया तुल्याधिकेन प्रत्युपकारेण प्रत्युपस्थितो भवति । आशाञ्च धार्मिकी परिपूरयत्यस्य यथाशक्त्या यथाबलम् । अप्रतिबलोऽपि च याचितः
सन् तेषु तेषु कृत्यकरणीयेष्वादरं व्यायाममुपदर्शयति न सकृदेव निराकरोति । कथमयं संज्ञाप्येताऽशक्तोऽहं नाकर्त्तुकाम इति । इत्ययमेवंभागीयो बोधिसत्त्वस्य निष्प्रपञ्चनयारूढस्य परमतत्त्वज्ञान-सन्निश्रितस्य सम्यक्प्रयोगो वेदितव्यः ।

(दुत्त्३०)
तत्र कया युक्त्या निरभिलाप्यस्वभावता सर्वधर्माणां प्रत्यवगन्तव्या । येयं स्वलक्षणप्रज्ञप्तिर्धर्माणां यदुत रूपमिति वा वेदनेति वा पूर्ववदन्ततो यावन्निर्वाणमिति वा प्रज्ञप्तिमात्रमेव तद्वेदितव्यम् । न स्वभावो नापि च तद्विनिर्मुक्तस्तदन्यो वाग्गोचरो वागविषयः । एवं सति न स्वभावो धर्माणां तथा विद्यते यथाभिलप्यते । न च पुनः सर्वेंण सर्वं न विद्यते । स पुनरेवमविद्यमानो न च सर्वेण सर्वमविद्यमानः । कथं विद्यते । असद्भू तसमारोपासंग्राहविवर्जितश्च भूतापवादासंग्राहविवर्जितश्च विद्यते । स पुनः पारमार्थिकः स्वभावः सर्वधर्माणां निर्विकल्पस्यैव ज्ञानस्य गोचरो वेदितव्यः । स चेत्पुनर्यथैवाभिलापो येषु धर्मेषु यस्मिन्वस्तुनि प्रवर्तते तदात्मकास्ते धर्मा वा तद्वस्तु स्यात् । एवं सति बहुविधा बहवः स्वभावा एकस्य धर्मस्यैकस्य वस्तुनो भवेयुः । तत्कस्य हेतोः । तथा ह्येकस्मिन्धर्मे एकस्मिन्वस्तुनि बहुविधा बहवो बहुभिरभिलापैः प्रज्ञप्तय उपचाराः क्रियन्ते । न च बहुविधानाञ्च बहूनां प्रज्ञप्तिवादानां नियमः कश्चिदुपलभ्यते । यदन्यतमेन प्रज्ञप्तिवादेनैकेन तस्य धर्मस्य तस्य वस्तुनः तादात्म्यं तन्मयता तत्स्वभावता स्यान्नान्यैरवशिष्टैः प्रज्ञप्तिवादैः । तस्मात्सकलविकलैः सर्वप्रज्ञप्तिवादैः सर्वधर्माणां सर्ववस्तूनां नास्ति तादात्म्यं नास्ति तन्मयता नास्ति तत्स्वभावता । अपि च स चेद्रूपादयो धर्मा यथापूर्वनिर्दिष्टाः प्रज्ञप्तिवादस्वभावा भवेयुः । एवं सति पूर्व तावद्वस्तु पश्चात्तत्र छन्दतः प्रज्ञप्तिवादोपचारः । प्राक्प्रज्ञप्तिवादोपचारादकृते प्रज्ञप्तिवादोपचारे स धर्मस्तद्वस्तु निःस्वभाव एव स्यात् । सति निःस्वभावत्वे निर्वस्तुकः प्रज्ञप्तिवादो न युज्यते । प्रज्ञप्तिवादोपचारे चासति प्रज्ञप्तिवादस्वभावता धर्मस्य वस्तुनो न युज्येत । स चेत्पुनः पूर्वमेव
प्रज्ञप्तिवादोपचारादकृते प्रज्ञप्तिवादोपचारे स धर्मस्तद्वस्तु तदात्मकं स्यात् । एवं सति विना तेन रूपमिति प्रज्ञप्तिवादोपचारेण रूपसंज्ञके धर्मे रूपसंज्ञके वस्तुनि रूपबुद्धिः प्रवर्तेत । न च प्रवर्तते । तदनेन कारणोनानया युक्त्या निरभिलाप्यः स्वभावः सर्वधर्माणां प्रत्यवगन्तव्यः । यथारूपमेवं वेदनादयो यथानिर्दिष्टा धर्मा अन्ततो यावन्निर्वाणपर्यन्ता वेदितव्याः ।

द्वाविमावस्माद्धर्मविनयात्प्रनष्टौ वेदितव्यौ । यश्च रूपादीनां धर्माणां रूपादिकस्य वस्तुनः प्रज्ञप्तिवादस्वभावं स्वलक्षणमसद्भूतसमारोपतोऽभिनिविशते । यश्चापि प्रज्ञप्तिवादनिमित्ताधिष्ठानं प्रज्ञप्तिवादनिमित्तसन्निश्रयं (दुत्त्३१) निरभिलाप्यात्मकतया परमार्थसद्भूतं वस्त्वपदमानो नाशयति सर्वेण सर्वं नास्तीति । असद्भूतसमारोपे तावद्ये दोषास्ते पूर्वमेव निरूपिता उत्ताना विशदिताः प्रकाशिताः । यैर्दोषै रूपादिके वस्तुनयसद्भूतसमारोपात्प्रनष्टो भवत्यस्माद्धर्मविनयादिति वेदितव्यः । यथा पुना रूपादिकेषु धर्मेषुवस्तुमात्रमप्यपवदमानः सर्ववैनाशिकः प्रनष्टो भवत्यस्माद्धर्मविनयात्तथा वक्ष्यामि रूपादीनां धर्मानां वस्तुमात्रमपवदतो नैव तत्त्वं नापि प्रज्ञप्तिस्तदुभयमेतन्न युज्यते । तद्यथा सत्सु रूपादिषु स्कन्धेषु पुद्गलप्रज्ञप्तिर्युज्यते । नासत्सु । निर्वस्तुकापुद्गलप्रज्ञप्तिः । एवं सति रूपादीनां धर्माणां वस्तुमात्रे [स] रूपादिधर्मप्रज्ञप्तिवादोपचारो युज्यते । नासति । निर्वस्तुकः प्रज्ञप्तिवादोपचारः । तत्र प्रज्ञप्तेर्वस्तु नास्तीति निरधिष्ठाना प्रज्ञप्तिरपि नास्ति । अतो य एकत्या दुर्विज्ञेयान् सूत्रान्तान्महायानप्रतिसंयुक्तान् गम्भीरान् शून्यताप्रतिसंयुक्तानाभिप्रायिकार्थनिरूपितान् श्रुत्वा यथाभूतं भाषितस्यार्थमविज्ञायायोनिशो विकल्प्यायोगविहितेन तर्कमात्रकेणैवं दृष्टयो भवन्त्येवंवादिनः । प्रज्ञप्तिमात्रमेव सर्वमेतच्च तत्त्वम् । यश्चैवं पश्यति स सम्यक्पश्यतीति । तेषां प्रज्ञप्त्यधिष्ठानस्य वस्तुमात्रस्याभावात्सैव प्रज्ञप्तिः सर्वेण सर्वं न भवति । कुतः पुनः प्रज्ञप्तिमात्रं तत्त्वं भविष्यतीति । तदनेन पर्यायेण तैस्तत्त्वमपि प्रज्ञप्तिरपि तदुभयमप्यपवादितं भवति । प्रज्ञप्तितत्त्वापवादाच्च प्रधानो
नास्तिको वेदितव्यः । स एवं नाष्टिकः सन्नकथ्यो भवत्यसंवास्यो भवति विज्ञानां सब्रह्मचारिणाम् । स आत्मानमपि विपादयति । लोकोऽपि योऽस्य दृष्ट्यनुमत आपाद्यते । इदञ्च सन्धायोक्तं भगवता- वरमिहैकत्यस्य पुद्गलदृष्टिर्न त्वेवैकत्यस्य दुर्गृहीता शून्यतेति । तक्तस्य हेतोः । पुद्गलदृष्टिको जन्तुर्ज्ञेये केवलं मुह्येन्नतु सर्व ज्ञेयमपवदेत । न ततो निदानमपायेषूपपद्येत । नापि धर्मार्थिकं दुःखविमोक्षार्थिकञ्च परं विसंवादयेन्न विप्रलम्भयेत् । धर्मे (दुत्त्३२) सत्ये च प्रतिष्ठापयेत् । [न च शैथिलिको भवेच्छिक्षापदेषु । दुर्गृहीतया पुनः शून्यतया ज्ञेये वस्तुनि मुह्येत् । अप्यपवदेत्ज्ञेयं सर्वम् । तन्निदानं चापायेषूपपद्यते । धार्मिकं च दुःखविमोक्षार्थिकं परं विपादयेत् । शैथिलिकश्च स्याच्छिक्षापदेषु । एवंभूतं वस्तु अपवदमानः प्रणष्टो भवत्यस्माद्धर्मविनयात् ।

कथं पुनर्दुर्गृहीता भवति शून्यता । यः कश्चि] च्छ्रमणो वा ब्राह्मणो वा तच्च नेच्छति येन शून्यम् । तदपि नेच्छति यत्शून्यम् । इयमेवंरूपा दुर्गृहीता शून्यतेत्युच्यते । तक्तस्य हेतोः । येन हि शून्यं तदसद्भावात् । यच्च शून्यं तत्सद्भावाच्छून्यता युज्येत । सर्वाभावाच्च कुत्र किं केन शून्यं भविष्यति । न च तेन तस्यैव शून्यता युज्यते । तस्मादेवं दुर्गृहीता शून्यता भवति ।

कथञ्च पुनः सुगृहीता शून्यता भवति । यतश्च यद्यत्र न भवति तत्तेन शून्यमिति समनुपश्यति । यत्पुनरत्रावशिष्टं भवति तत्सदिहास्तीति यथाभूतं प्रजानाति । इयमुच्यते शून्यतावक्रान्तिर्यथाभूता अविपरीता । तद्यथा रूपादिसंज्ञके यथा निर्दिष्टे वस्तुनि रूपमित्येवमादिप्रज्ञप्तिवादात्मको धर्मो नास्ति । अतस्तद्रूपादिसंज्ञकं वस्तु तेन रूपमित्येवमादिप्रज्ञप्तिवादात्मना शून्यम् । किं पुनस्तत्र रूपादिसंज्ञके वस्तुनयवशिष्टम् । यदुत तदेव रूपमित्येवमादिप्रज्ञप्तिवादाश्रयः । तच्चोभयं यथाभूतं प्रजानाति यदुत वस्तमात्रञ्च विद्यमानं वस्तमात्रे च प्रज्ञप्तिमात्रं च चासद्भूतं समारोपयति । न भूतमपवदते नाधिकं करोति न न्यूनीकरोति नोत्क्षिपति न प्रतिक्षिपति । यथाभूतञ्च तथतां निरभिलाप्यस्वभावतां यथाभूतं प्रजानाति । इयमुच्यते सुगृहीता शून्यता सम्यक्प्रज्ञया सुप्रतिविद्धेति । इयं तावदुपपत्तिसाधनयुक्तिरानुलोमिकी यया निरभिलाप्यस्वभावता सर्वधर्माणां प्रत्यवगन्तव्या ।

आप्तागमतोऽपि निरभिलाप्यस्वभावाः सर्वधर्मा वेदितव्याः । यथोक्तं भगवता एवमेवार्थं गाथाभिगीतेन परिदीपयता भवसंक्रान्तिसूत्रे ।

(दुत्त्३३)
येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते ।
न स संविद्यते तत्र धर्माणां सा हि धर्मता ॥ इति ।

कथञ्च पुनरियं गाथा एतमेवार्थं परिदीपयति । रूपादिसंज्ञकस्य धर्मस्य यद्रूपमित्येवमादि नाम । येन रूपमित्येवमादिना नाम्ना ते रूपादिसंज्ञका धर्मा अभिलप्यन्तेऽनुव्यवह्रियन्ते रूपमिति वा वेदनेति वा विस्तरेण यावन्निर्वाणमिति वा । तत्र न च रूपादिसंज्ञका धर्माः स्वयं रूपाद्यात्मकाः । न च तेषु तदन्यो रूपाद्यात्मको धर्मो विद्यते । या पुनस्तेषां रूपादिसंज्ञकानां धर्माणां निरभिलाप्येनार्थेन विद्यमानता सैषा परमार्थतः स्वभावधर्मता वेदितव्या । उक्तञ्च भगवता अर्थवर्गीयेषु ।

याः काञ्चन संवृतयो हि लोके सर्वा हि ता मुनिर्नो उपैति ।
अनुपगो ह्यसौ केन उपाददीत दृष्टश्रुते कान्तिमसंप्रकुर्वन् ।

कथमियं गाथा एतमेवार्थं परिदीपयति । रूपादिसंज्ञके वस्तुनि या रूपमित्येवमाद्याः प्रज्ञप्तयः । ताः संवृतय इत्युच्यन्ते । ताभिः प्रज्ञप्तिभिस्तस्य वस्तुनस्तादात्म्यमित्येवं नोपैति ताः संवृतीः । तत्कस्य हेतोः । समारोपापवादिका दृष्टिरस्य नास्ति । अतोऽसौ तस्या विपर्यासप्रत्युपस्थानाया दृष्टेरभावादनुपग इत्युच्यते । स एवमनपगः सन् केनोपाददीत । तया दृष्ट्या विना तद्वस्तुसमारोपतो वापवादतो वा अनुपाददानः सम्यग्दर्शी भवति ज्ञेये तदस्य दृष्टम् । यस्तस्यैव ज्ञेयस्याभिलापानुश्रवस्तदस्य श्रुतम् । तस्मिन् दृष्टश्रुते तृष्णां नोत्पादयति न विवर्धयति । नान्यत्र तेनावलम्बनेन प्रजहात्युपेक्षकश्च विहरति । एवं कान्तिं करोति । पनश्चोक्तं भगवता संथकात्यायनमारभ्येह संथ भिक्षुर्न पृथिवीं निश्रित्य ध्यायति । नापः । न तेजः । न वायुम् । (दुत्त्३४) नाकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतनं नेमं लोकं न परं लोकं नोभौ सूर्याचन्द्रमसौ न दृष्टश्रुतमतविज्ञातं प्राप्तं पर्येषितं मनसानुवितर्कितमनुविचारितम् । तत्सर्वं न निश्रित्य ध्यायति । कथं ध्यायी । पृथिवीं न निश्रित्य ध्यायति विस्तरेण यावत्सर्वं न निश्रित्य ध्यायति । इह संथ भिक्षोर्या पृथिव्यां पृथिवीसंज्ञा सा विभूता भवति । अप्सु अप्संज्ञा विस्तरेण यावत्सर्वत्र या संज्ञा सा विभूता भवति । एवंध्यायी भिक्षुर्न पृथिवीं निश्रित्य ध्यायति विस्तरेण यावन्न सर्वं सर्वमिति निश्रित्य ध्यायति । एवं ध्यायिनं भिक्षुं सेन्द्रा देवाः सेशानाः सप्रजापतय आरान्नमष्यन्ति ।

नमस्ते पुरुषाजन्य नमस्ते पुरुषोत्तम ।
यस्य ते नाभिजानीमः किं त्वं निश्रित्य ध्यायसि ॥ इति ।

कथञ्च पुनरेतत्सूत्रपदमेतमेवार्थं परिदीपयति पृथिव्यादिसंज्ञके वस्तुनि या पृथिवीत्येवमादिका नामसंकेतप्रज्ञप्तिः सा पृथिव्यादिसंज्ञेत्युच्यते । सा पुनः संज्ञा पृथिव्यादिसंज्ञके वस्तुनि समारोपिका चापवादिका च । तन्मयस्वभाववस्तुग्राहिका समारोपिका । वस्तुमात्रपरमार्थनाशग्राहिका चापवादिका संज्ञेत्युच्यते । सा च संज्ञास्य विभूता भवति । विभव उच्यते प्रहाणं त्यागः । तस्मादागमतोऽपि तथागतात्परमाप्तागमाद्वेदितव्यं निरभिलाप्यस्वभावाः सर्वधर्मा इति । एवं निरभिलाप्यस्वभावेषु सर्वधर्मेषु कस्मादभिलापः प्रयुज्यते तथा हि विनाभिलापेन सा निरभिलाप्यधर्मता परेषां वक्त मपि न शक्यते श्रोतुमपि । वचने श्रवणे चासति सा निरभिलाप्यस्वभावता ज्ञातुमपि न शक्यते । तस्मादभिलापः प्रयुज्यते श्रवणज्ञानाय ।

तस्या एव तथताया एवमपरिज्ञातत्वाद्वालानां तन्निदानोऽष्टविधो विकल्पः प्रवर्तते त्रिवस्तुजनकः । सर्वसत्त्वभाजनलोकानां निर्वर्तकः । तद्यथा स्वभाव विकल्पो विशेषविकल्पः पिण्डग्राहविकल्पः अहमिति विकल्पः ममेति विकल्पः प्रियविकल्पः अप्रियविकल्पः तदुभयविपरीतश्च विकल्पः । स पुनरयमष्टविधो विकल्पः कतमेषां त्रयाणां वस्तूनां जनको भवति । यश्च (दुत्त्३५) स्वभावविकल्पो यश्च विशेषविकल्पो यश्च पिण्डग्राहविकल्प इतीमे त्रयो विकल्पा विकल्पप्रपञ्चाधिष्ठानं विकल्पप्रपञ्चालम्बनं वस्तु जनयन्ति रूपादिसंज्ञकम् । यद्वस्त्वधिष्ठाय स नामसंज्ञाभिलापपरिगृहीतो नामसंज्ञाभिलापपरिभावितो विकल्पः प्रपञ्चयन् तस्मिन्नेव वस्तुनि विचरत्यनेकविधो बहुनानाप्रकारः । तत्र यञ्चाहमिति विकल्पो यश्च ममेति विकल्पः इतीमौ द्वौ विकल्पौ सत्कायदृष्टिश्च तदन्यसर्वदृष्टि[-मूलं मान-]मूलमस्मिमानञ्च तदन्यसर्वमानमूलं जनयतः । तत्र प्रियविकल्पोऽप्रियविकल्पस्तदुभयविपरीतश्च विकल्पो यथायोगं रागद्वेषमोहान् जनयन्ति । एवमयमष्टविधो विकल्पः अस्य त्रिविधस्य वस्तुनः प्रादुर्भावाय संवर्तते यदुत विकल्पाधिष्ठानस्य प्रपञ्चवस्तुनः दृष्ट्यस्मिमानस्य रागद्वेषमोहानाञ्च । तत्र विकल्पप्रपञ्चवस्त्वाश्रया सत्कायदृष्टिरस्मिमानश्च । सत्कायदृष्ट्यस्मिमानाश्रिता रागद्वेषमोहाः । एभिश्च त्रिभिर्वस्तुभिः सर्वलोकानां प्रवृत्तिपक्षो निरवशेषः परिदीपितो भवति ।

तत्र स्वभावविकल्पः कतमः । रूपादिसंज्ञके वस्तुनि रूपमित्येवमादिर्यो विकल्पः । अयमुच्यते स्वभावविकल्पः ।

विशेषविकल्पः कतमः । तस्मिन्नेव रूपादिसंज्ञके वस्तुनि अयं रूपी अयमरूपी अयं सनिदर्शनोऽयमनिदर्शन एवं सप्रतिघोऽप्रतिघः । सास्रवोऽनास्रवः संस्कृतोऽसंस्कृतः कुशलोऽकुशलो व्याकृतोऽव्याकृतः अतीतोऽनागतः प्रत्युत्पन्न इत्येवंभागीयेनाप्रमाणेन प्रभेदनयेन या स्वभावविकल्पाधिष्ठाना तद्विशिष्टार्थविकल्पना । अयमुच्यते विशेषविकल्पः ।

पिण्डग्राहविकल्पः कतमः । यस्तस्मिन्नेव रूपादिसंज्ञके वस्तुनि आत्मसत्त्व जीवजन्तुसंज्ञासंकेतोपसंहितः पिण्डितेषु बहुषु धर्मेषु पिण्डग्राहहेतुकः प्रवर्तते गृहसेनावनादिषु भोजनपानयानवस्त्रादिषु च तत्संज्ञासंकेतोपसंहितः । अयमुच्यते पिण्डग्राहविकल्पः ।

अहमिति ममेति च विकल्पः कतमः । यद्वस्तु सास्रवं सोपादानीयं दीर्घकालमात्मतो वा आत्मीयतो वा संस्तुतमभिनिविष्टं परिचितं तस्मादसंग्राह-संस्तवात्स्वं दृष्टिस्थानीयं वस्तु प्रतीत्योत्पद्यते वितथो विअकल्पः । अयमुच्यते अहमिति ममेति च विकल्पः ।

(दुत्त्३६)
प्रियविकल्पः कतमः । यः शुभ-मनाप-वस्त्वालम्बनो विकल्पः ।

अप्रियविकल्पः कतमः । योऽशुभामनाप-वस्त्वालम्बनो विकल्पः ।

प्रियाप्रियोभयविपरीतो विकल्पः कतमः । यः शुभाशुभ-मनापामनापतदुभयविवर्जितवस्त्वालम्बनो विकल्पः । तच्चैतद्द्वयं भवति समासतः विकल्पश्च विकल्पाधिष्ठानं विकल्पालम्बनञ्च वस्तु । तच्चैतदुभयमनादिकालिकं चान्योन्यहेतुकञ्च वेदितव्यम् । पूर्वको विकल्पः प्रत्युत्पन्नस्य विकल्पालम्बनस्य वस्तुनः प्रादुर्भावाय प्रत्युत्पन्नं पुनर्विकल्पालम्बनं वस्तु प्रादुर्भूतं प्रत्युत्पन्नस्य तदालम्बनस्य [विकल्पस्य] प्रादुर्भावाय हेतुः । तत्रैतर्हि विकल्पस्यापरिज्ञानमायत्यां तदालम्बनस्य वस्तुनः प्रादुर्भावाय । तत्संभावाच्च पुनर्नियतं तदधिष्ठानस्यापि तदाश्रितस्य विकल्पस्य प्रादुर्भावो भवति ।

कथञ्च पुनरस्य विकल्पस्य परिज्ञानं भवति । चतसृभिः पर्येषणाभिः चतुर्विधेन च यथाभूतपरिज्ञानेन ।

चतस्रः पर्येषणाः कतमाः । नामपर्येषणा । वस्तुपर्येषणा । स्वभावप्रज्ञप्तिपर्येषणा च । विशेषप्रज्ञप्तिपर्येषणा च ।

तत्र नामपर्येषणा यद्वोधिसत्त्वो नाम्नि नाममात्रं पश्यति । एवं वस्तुनि वस्तुमात्रदर्शनं [वस्तु]पर्येषणा । स्वभावप्रज्ञप्तौ स्वभावप्रज्ञप्तिमात्रदर्शनं स्वभावप्रज्ञप्तिपर्येषणा । विशेषप्रज्ञप्तौ विशेषप्रज्ञप्तिमात्रदर्शनं विशेषप्रज्ञप्तिपर्येषणा । स नामवस्तुनो भिन्नञ्च लक्षणं पश्यत्यनुश्लिष्टञ्च । नामवस्त्वनुश्लेषसन्निश्रितां च स्वभावप्रज्ञप्ति विशेषप्रज्ञप्तिञ्च [प्रति]विध्यति ।

चत्वारि यथाभूतपरिज्ञानानि कतमानि । नामैषणागतं यथाभूतपरिज्ञानं वस्त्वेषणागतं स्वभावप्रज्ञप्त्येषणागतं विशेषप्रज्ञप्त्येषणागतञ्च यथाभूतपरिज्ञानम् ।

नामैषणागतं यथाभूतपरिज्ञानं कतमत् । स खलु बोधिसत्त्वो नाम्नि नाममात्रतां पर्येष्य तन्नामैवं यथाभूतं परिजानाति इतीदं नाम इत्यर्थं वस्तुनि व्यवस्थाप्यते यावदेव संज्ञार्थ दृष्ट्यर्थमुपचारार्थम् । यदि रूपादिसंज्ञके वस्तुनि रूपमिति नाम न व्यवस्थाप्येत न कञ्चित्तद्वस्तु रूपमित्मेवं संजानीयात् । (दुत्त्३७) असंजानन् समारोपतो नाभिनिवेशेत । अनभिनिवेशं नाभिलपेत् । इति यदेवं यथाभूतं प्रजानाति । इदमुच्यते नामैषणागतं यथाभूतपरिज्ञानम् ।

वस्त्वेषणागतं यथाभूतपरिज्ञानं कतमत् । यतश्च बोधिसत्त्वो [वस्तुनि] वस्तुमात्रतां पर्येष्य सर्वाभिलापविश्लिष्टं निरभिलाप्यं तद्रूपादिसंज्ञकं वस्तु पश्यति । इदं द्वितीयं यथाभूतपरिज्ञानं वस्त्वेषणागतम् ।

स्वभावप्रज्ञप्त्येषणागतं यथाभूतपरिज्ञानं कतमत्यतश्च बोधिसत्त्वः रूपादिसंज्ञके वस्तुनि स्वभावप्रज्ञप्तौ प्रज्ञप्तिमात्रतां पर्येष्य तथा स्वभावप्रज्ञप्त्या अतत्स्वभावस्य वस्तुनः तत्स्वभावाभासतां यथाभूतं प्रतिविध्यति प्रजानाति । तस्य निर्माणप्रतिबिम्बप्रतिश्रुत्का-प्रतिभासोदकचन्द्रस्वप्नमायोपमं तत्स्वभावं पश्यतः तदाभासमतन्मयमिद्ं तृतीयं यथाभूतं परिज्ञानं सुगम्भीरार्थगोचरम् ।

विशेषप्रज्ञप्त्येषणागतं यथाभूतपरिज्ञानं कतमत् । यतश्च बोधिसत्त्वो विशेषप्रज्ञप्तौ प्रज्ञप्तिमात्रतां पर्येष्य तस्मिन् रूपादिसंज्ञके वस्तुनि विशेषप्रज्ञप्तिमद्वयार्थेन पश्यति । न तद्वस्तु भावो नाभावः । अभिलाप्येनात्मनाऽपरिनिष्पन्नत्वान्न भावः । न पुनरभावो निरभिलाप्येनात्मना व्यवस्थितत्वात् । एवं न रूपी परमार्थसत्यतया । नारूपी संवृतिसत्येन तत्र रूपोपचारतया । यथा भावश्चाभावश्च रूपी चारूपी च । तथा सनिदर्शनानिदर्शनादयो विशेषप्रज्ञप्तिपर्यायाः सर्वेऽनेन नयेनैवं वेदितव्याः । इति यदेतां विशेषप्रज्ञप्तिमेवमद्वयार्थेन यथाभूतं प्रजानाति । इदमुच्यते विशेषप्रज्ञप्त्येषणागतं यथाभूतपरिज्ञानम् ।

तत्र योऽसावष्टविधो मिथ्याविकल्पो बालानां त्रिवस्तुजनको लोकनिर्वर्तकः सोऽस्य चतुर्विधस्य यथाभूतपरिज्ञानस्य वैकल्यादसमवधानात्प्रवर्तते । तस्माच्च पुनर्मिथ्याविकल्पात्संक्लेशः । संक्लेशात्संसारसंसृतिः संसारसंसृतेः संसारानुगतं जातिजराव्याधिमरणादिकं दुःखं प्रवर्तते । यदा च बोधिसत्त्वेन चतुर्विधं यथाभूतपरिज्ञानं निश्रित्य सोऽष्टविधो विकल्पः परिज्ञातो भवति दृष्टे धर्मे तस्य सम्यक्परिज्ञानादायत्यां तदधिष्ठानस्य तदालम्बनस्य प्रपञ्चपतितस्य (दुत्त्३८) वस्तुनः प्रादुर्भावो न भवति । तस्यानुदयादप्रादुर्भावात्तदालम्बनस्यापि विकल्पस्यायत्यां प्रादुर्भावो न भवति । एवं तस्य सवस्तुकस्य विकल्पस्य निरोधो यः स सर्वप्रपञ्चनिरोधो वेदितव्यः । एवञ्च प्रपञ्चनिरोधो बोधिसत्त्वस्य महायानपरिनिर्वाणमिति वेदितव्यम् । दृष्टे च धर्मे तस्य श्रेष्ठतत्त्वार्थ गोचरज्ञानस्य विशुद्धत्वात्सर्वत्र वशिताप्राप्ति लभते स बोधिसत्त्वः । यदुत निर्माणेऽपि विचित्रे नैर्माणिक्या ऋद्ध्या । परिणामे च विचित्रे पारिणामिक्या ऋद्ध्या । सर्वज्ञेयस्य च ज्ञाने यावदभिप्रेतं चावस्थाने । कामकारतश्च विनोपक्रमं च्युतौ ।

स एवं वशिताप्राप्तः सर्वसत्त्वश्रेष्ठो भवति निरुत्तरः । एवञ्च सर्वत्र वशिनस्तस्य बोधिसत्त्वस्य उत्तमाः पञ्चानुशंसा वेदितव्याः । परमां चित्तशान्तिमनुप्राप्तो भवति विहारप्रशान्ततया न क्लेशप्रशान्ततया । सर्वविद्यास्थानेषु चास्याव्याहतं परिशुद्धं पर्यवदातं ज्ञानदर्शनं प्रवर्तते । अखिन्नश्च भवति सत्त्वानामर्थे संसारसंसृत्या । तथागतानाञ्च सर्वसन्धायवचनान्यनुप्रविशति । न च महायानाधिमुक्तेः संहार्यो भवत्यपरप्रत्ययतया ।

अस्य खलु पञ्चविधस्यानुशंसस्य पञ्चविधमेव कर्म वेदितव्यम् । परमो दृष्टधर्मसुखविहारो बोधिसत्त्वस्य बोधाय प्रयोगनिर्यातस्य कायिकचैतसिकस्य व्यायामक्लमस्य नाशाय चित्तशान्तेरनुशंसस्यैतत्कर्म वेदितव्यम् । सर्वबुद्धधर्माणां परिपाको बोधिसत्त्वस्य सर्वविद्यास्थानेष्वव्याहतज्ञानताया अनुशंसस्यै तत्कर्म वेदितव्यम् । सत्त्वपरिपाको बोधिसत्त्वस्य संसाराखेदिताया अनुशंसस्यैतत्कर्म वेदितव्यम् । विनेयानामुत्पन्नोत्पन्नानां संशयानां प्रतिविनोदनं धर्मनेत्र्याश्च दीर्घकालं परिकर्षणं सन्धारणं सद्धर्मप्रतिरूपकाणां शासनान्तर्धायकानां परिज्ञानप्रकाशनापकर्षणतया सर्वसन्धायवचनप्रवेशानुशंसस्यैतत्कर्म वेदितव्यम् । सर्वपरप्रवादिनिग्रहो दृढवीर्यता च प्राणिधानाच्चाच्युतिः असंहार्यताऽपरप्रत्ययत्वानुशंसस्यैतत्कर्म वेदितव्यम् ।

एवं हि बोधिसत्त्वस्य यावत्किञ्चिद्बोधिसत्त्वकरणीयं तत्सर्वमेभिः पञ्चभिरनुशंसकर्मभिः परिगृहीतं भवति । तत्पुनः करणीयं कतमत् । असंक्लिष्टञ्च आत्मसुखं बुद्धधर्मपरिपाकः सत्त्वपरिपाकः सद्धर्मस्य धारणमचलप्रणिधानस्योत्तप्तवीर्यस्य परवादविनिग्रहश्च ।

(दुत्त्३९)
तत्र चतुर्णा तत्त्वार्थानां प्रथमौ द्वौ हीनौ । तृतीयो मध्यमः । चतुर्थ उत्तमो वेदितव्यः ।

बोधिसत्त्वभूमावाधारे योगस्थाने चतुर्थं तत्त्वार्थपटलम् ॥


(दुत्त्४०)
प्रभावपटलम् (अध्याय १.५)

तत्र प्रभावो बोधिसत्त्वानां कतमः । समासतः समाधिवशिताप्राप्तस्य समाधिवशितासन्निश्रयेणोच्छामात्रात्सर्वार्थसमृद्धिः कर्मण्यचित्तस्य सुपरिभावितचित्तस्यार्यः प्रभाव इत्युच्यते । धर्माणाञ्च या महाफलता महानुशंसता सा तेषां प्रभाव इत्युच्यते । पूर्वं महापुण्यसंभारोपचयाद्बुद्धानां बोधिसत्त्वानां च सहजा आश्चर्याद्भुतधर्मता । अयमपि तेषां सहजोऽपरः प्रभावो वेदितव्यः ।

स खल्वेष प्रकारभेदेन बुद्धबोधिसत्त्वानां पञ्चविधो भवति । अभिज्ञाप्रभावो धर्मप्रभावः सहजश्च प्रभावः साधारणश्च श्रावक प्रत्येकबुद्वैरसाधारणश्च तैः ।

तत्र षड्भिज्ञाः - ऋद्धिविषयो दिव्यं श्रोत्रंचेतसः पर्यायः पूर्वनिवासानुस्मृतिश्च्युत्युपपाददर्शनमास्रवक्षयज्ञानसाक्षात्क्रिया च अभिज्ञाप्रभाव इत्युच्यते । तत्र षट्पारमिताः-दानं शीलं क्षान्तिर्वीर्यं ध्यानं प्रज्ञा च धर्मा इत्युच्यन्ते । तेषां धर्माणां योऽनुभावः स धर्मप्रभाव इत्युच्यते ।

तत्र ऋद्धिः कतमा । समासतो द्विविधा । पारिणामिकी नैर्माणिकी च । सा पुनर्द्विधाप्यनेकविधा प्रकारभेदतः ।

तत्र पारिणामिक्या ऋद्धेः प्रकारप्रभेदः कतमः । तद्यथा कम्पनं ज्वलनं स्फरणं विदर्शनमन्यथीभावकरणं गमनागमनं संक्षेपः प्रथनं सर्वरूपकायप्रवेशनं सभागतोपसंक्रान्तिराविर्भावस्तिरोभावः वशित्वकरणं परर्द्धयभिभवनं प्रतिभानदानं (दुत्त्४१) स्मृतिदानं सुखदानं रश्मिप्रमोक्षश्च इत्येवंभागीया ऋद्धि पारिणामिकीत्युच्यते ।

तत्र कम्पनम् । इह तथागतः समाधिवशिताप्राप्तो वा कर्मण्यचित्तो वा बोधिसत्त्वो विहारमपि कम्पयति । गृहमपि ग्रामनगरक्षेत्रमपि नरकलोकमपि तिर्यग्लोकमपि प्रेतलोकमपि मनुष्यलोकमपि देवलोकमपि चातुर्द्वीपकमपि साहस्रिकमपि लोकधातुं द्विसाहस्रिकमपि त्रिसाहस्रमहासाहस्रमपि लोकधातुं त्रिसाहस्रशतमपि सहस्रमपि शतसहस्रमपि यावदप्रमेयानसंख्येयान् त्रिसाहस्रमहासाहस्रान् लोकधातून् कम्पयति ।

तत्र ज्वलनम् । ऊर्ध्व कायात्प्रज्वलति । अधःकायाच्छीतला वारिधाराः स्यन्दन्ते । अधःकायात्प्रज्वलति । उपरिमात्कायाच्छीतला वारिधाराः स्यन्दन्ते । तेजोधातुमपि समापद्यते । सर्वकायेन प्रज्वलति । सर्वकायेन प्रज्वलितस्य विविधा अर्चिषः कायान्निर्गच्छन्ति नीलपीतलोहितावदातमाञ्जिष्ठाः स्फटिकवर्णाः ।

तत्र स्फरणम् । यथापि तद्गृहमप्याभया स्फरति विहारमपि पूर्ववद्यावदप्रमेयानसंख्यां लोकधातूनाभया स्फरति पूर्ववत्तद्यथा कम्पने ।

तत्र विदर्शनम् । यथा सुखोपनिषण्णाद्यागतायाः श्रमणब्राह्मणश्रावकबोधिसत्त्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगायाः परिषदः तथागतो वा बोधिसत्त्वो वा अपायानपि विदर्शयत्यधः । देवमनुष्यानपि विदर्शयत्यूर्ध्वम् । तदन्यानि च बुद्धक्षेत्राणि विदर्शयति । तेषु च बुद्धबोधिसत्त्वान् यावद्गङ्गानदीबालुकासमान्यपि बुद्धक्षेत्राण्यतिक्रम्य येन नाम्ना संशब्दितं भवति बुद्धक्षेत्रं तत्र च बुद्धक्षेत्रे यन्नामको भवति तथागतः तच्च बुद्धक्षेत्रं दर्शयति तञ्च तथागतम् । तच्च नाम व्यपदिशति तस्य बुद्धक्षेत्रस्य तथागतस्य च । ततोऽप्यर्वाग्विदर्शंयति व्यपदिशति ततोऽपि परेण यत्कामं यावत्कामम् ।

(दुत्त्४२)
तत्रान्यथीभावकरणम् । स चेत्पृथिवीमपोऽधिमुच्यते तत्तथैव भवति नान्यथा । तेजो वायुमधिमुच्यते तदपि तथैव भवति नान्यथा । स चेदपः पृथिवीमधिमुच्यते । स चेत्तेजः पृथिवीमधिमुच्यते । अपो वायुमधिमुच्यते । स चेद्वायु पृथिवीमधिमुच्यते । अपस्तेजोऽधिमुच्यते । सर्वं तत्तथैव भवति नान्यथा । यथा महाभूतेष्वन्योन्यपरिणामे नान्यथीभावक्रिया एवं रूपगन्धरसस्प्रष्टव्येषु वेदितव्यम् । स चेत्तृणपर्णगोमयमृत्तिकादीनि द्रव्याणि भोजनपानयानवस्त्रालङ्कारभाण्डोपस्करगन्धमाल्यविलोपनमधिमुच्यते । पाषाणशर्करकपालादीनि च मणिमुक्तावैदूर्यशङ्खशिलाप्रवाडमधिमुच्यते । हिमवन्तं वा पर्वतराजमादिं कृत्वा सर्वपर्वतान् सुवर्णंमधिमुच्यते । तदपि सर्वं तथैव भवति नान्यथा । तथा सुवर्णानां सत्त्वानां दुर्वर्णतामधिमुच्यते । दुर्वर्णानां सुवर्णताम् । तदुभयविवर्जितानां सुवर्णतां वा दुर्वर्णतां वा तदुभयं वा । यथा सुवर्णदुर्वर्णतामेवं व्यङ्गाव्यङ्गतां कृश स्थूलतामित्येवमादि यत्किञ्चिदन्यथा सत्स्वलक्षणतः शक्यरूपञ्चा [न्यथा]ऽधिमुच्यते । तत्सर्वं तथा भवति यथाऽधिमुच्यते ।

तत्र गमनागमनम् । तिरः कुड्यं तिरः शैलं तिरः प्राकारमसज्यमानेन कायेन गच्छति विस्तरेण यावद्ब्रह्मलोकमुपसंक्रामति प्रत्यागच्छति च यावदकनिष्ठादूर्ध्वं तिर्यग्वा पुनर्यावदप्रमेयानसंख्येयांस्त्रिसाहस्रमहासाहस्रान् लोकधातून् गच्छति आगच्छति च कायेन वा औदारिकेण चातुर्महाभौतिकेन । दूरं चासन्नमधिमुच्य मनःसदृशेन वा जवेन गच्छति चागच्छति च ।

तत्र संक्षेपप्रथनम् । हिमवन्तमपि पर्वतराजं परमाणुमात्रमभिसंक्षिपति । परमाणुमपि हिम वन्तं पर्वतराजं प्रतानयति ।

(दुत्त्४३)
तत्र सर्वरूपकायप्रवेशनम् । महत्या विचित्रायाः परिषदः पुरस्तात्स ग्रामनिगमतृणवन[-भूमि-]पर्वतं रूपकायमात्मकाये प्रवेशयति । सा च सर्वा परिषत्तस्मिन्नेव काये प्रविष्टमात्मानं संजानीते ।

तत्र सभागतोपसंक्रान्तिः । क्षत्रियपरिषद मुपसंक्रामति । उपसंक्रान्तस्य यादृशी तेषां वर्णपुष्कलता भवति तादृशी तस्य । यादृश आरोहपरिणाहस्तादृशस्तस्य भवति । यादृशी स्वरगुप्तिस्तेषां तादृशी तस्य भवति । यञ्च तेऽर्थं मन्त्रयन्ते तमसावर्थं मन्त्रयते । यमपि तेऽर्थं न मन्त्रयन्ते तमपि सोऽर्थं न मन्त्रयते । उत्तरं चैतानानुधार्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वाऽन्तर्द्धीयते । अन्तर्हितञ्चैनं न प्रजानन्ति कोऽन्वेषोऽन्तर्हितो देवो वा मनुष्यो वेति । यथा क्षत्रियपरिषदमेवं ब्राह्मणगृहपतिश्रमणपरिषदं चातुर्महाराजकायिकान् देवान् त्रयस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो देवानेवं ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृस्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानसंज्ञिसत्त्वानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठान् ।

तत्राविर्भावतिरोभावः । महत्या परिषदः पुरस्ताच्छतकृत्वः सहस्रकृत्वः अतो वा परेणान्तर्धीयते । पुनश्च तथैवात्मभाव मुपदर्शयत्याविष्करोति ।

तत्र वशित्वकरणम् । यावान् कश्चित्सत्त्वधातुः तं सर्व गमनागमनस्थानाद्यासु क्रियासु संवर्तयति । स चेदस्यै वं भवति गच्छतु गच्छति । तिष्ठतु तिष्ठति । आगच्छत्वागच्छति । भाषतां भाषते ।

तत्र परर्द्ध्यभिभवः । तथागतस्तदन्येषां सर्वर्द्धिमतामृध्यभिसंस्कारमभिभूय यथाकामं सर्वं संपादयति । निष्ठागतो बोधिसत्त्व एकजातिप्रतिबद्धश्च चरमभविको वा तथागतं स्थापयित्वा तुल्यजातीयञ्च बोधिसत्त्वं तदन्येषां (दुत्त्४४) सर्वेषामृद्ध्यभिसंस्कारमभिभवति । तदन्ये बोधिसत्त्वा उत्कृष्टतरभूमिप्रविष्टांस्तुल्यजातीयांश्च बोधिसत्त्वान् स्थापयित्वा तदन्येषां सर्वर्द्धिमतामृद्ध्यभिसंस्कारमभिभवन्ति ।

तत्र प्रतिभानदानम् । प्रतिभा[न]दाने पर्यादत्ते प्रतिभानमुपसंहरति ।

तत्र स्मृतिदानम् । धर्मेषु स्मृतौ प्रमुषितायां स्मृतिमुपसंहरति ।

तत्र सुखदानम् । येऽस्य भाषमाणस्य धर्मं शृण्वन्ति तेषां तादृशं कायिकं चैतसिकमनुग्रहमुपसंहरति प्रतिप्रस्रब्धि सुखम् । येन ते विगतनिवरणा धर्मं श्रृण्वन्ति । तच्च तावत्कालिकयोगेन न त्वत्यन्तं धातुवैषमिकांश्चौपक्रमिकानमनुष्याभिसृष्टांश्चोपसर्गान् व्युपशमयति ।

तत्र रश्मिप्रमोक्षः बोधिसत्त्वो वा तथागतो वा ऋद्ध्यातद्रूपान् रश्मीन् कायत्प्रमुञ्चति य एकत्या दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु गत्वा नारकाणां सत्त्वानां नारकाणि दुःखानि प्रतिप्रस्रम्भयति । एकत्या देवलोकस्थानुदारान् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगान् स्वभवनस्थान् गत्वा इहागमनाय संचोदयति । तथा तदन्यलोकधातुस्थितान् बोधिसत्त्वानिहागमनाय संचोदयति दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु । समासतस्थागतः अप्रमेयैरसंख्येयैर्नानाप्रकारै रश्मिभिरप्रमाणानां सत्त्वानां विचित्रमप्रमेयमसंख्येयमर्थं करोति । ते पुनरेते सर्वे पारिणामिक्या ऋद्ध्याः प्रकारा एकैकशः प्रभिद्यमाना अप्रमेया असंख्येया वेदितव्याः । अन्यथा प्रकृत्या विद्यमानस्य वस्तुनस्तदन्यथाविकारापादनता परिणाम इत्युच्यते । तस्मादेषा पारिणामिकी ऋद्धिरित्युच्यते ।

तत्र नैर्माणिकी ऋद्धिः कतमा । समासतो निर्वस्तुकं निर्माणम् । निर्माणचित्तेन यथाकाममभिसंस्कृतं स्मृद्ध्यतीयं नैर्माणिकी ऋद्धिरित्युच्यते । सा चानेकविधा । कायनिर्माणं वाड्निर्माणं विषयनिर्माणञ्च । तत्पुनः कायनिर्माणमात्मनो वा सदृशं विसदृशं वा परस्य वा सदृशं विसदृशं वा निर्मिमीते । तत्पुनः कायनिर्माणमात्मनस्तु परेषाञ्च सदृशासदृशम् । इन्द्रियसभागमिन्द्रियाधिष्ठानं निर्मिमीते न त्विन्द्रियम् । विषयसदृशमपि निर्माणं (दुत्त्४५) निर्मिमीते । तद्यथा भोजनपानादि मणिमुक्तावैदूर्यादि च यत्किञ्चिद्रूपगन्धरसस्प्रष्टव्यसंगृहीतं बाह्यमुपकरणं तत्सदृशं तद्विनिर्मुक्तं सर्वं यथाकामं निर्मिमीते । तत्पुनरात्मसभागमनेकविधं बहु नानाप्रकारं देवनाग[यक्षा]सुरगरुडकिन्नरमहोरगवर्ण मनुष्यवर्ण तिर्यक्प्रेतनारकवर्णं श्रावकवर्णं प्रत्येकबुद्धवर्णं बोधिसत्त्ववर्णं तथागतवर्णम् । स यदि तादृश एव बोधिसत्त्वो भवति तादृशमेव निर्मिमीते । आत्मसभागमस्य तन्निर्माणं भवति । अन्यथा तु विसभागं भवति निर्माणमात्मनः । स चेत्परं देवभूतं तत्सादृश्येन निर्मिमीते परसदृशमस्य तन्निर्माणं भवति । सचेद्वैसादृश्येन निर्मिमीते परविसभागं भवति । यथा देवभूतमेवं यावत्तथागतभूतं वेदितव्यम् ।

तत्र प्रभूतकायनिर्माणं कतमत् । इह तथागतो वा बोधिसत्त्वो वा दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु सकृदप्रमेयासंख्येयानां सत्त्वानामर्थं करोति तैर्विचित्रवर्णनिर्मितैः । किञ्चिच्च निर्माणमधितिष्ठति यदुपरतेऽपि बोधिसत्त्वे तथागेते वाऽनुवर्तत एव । किञ्चिन्निर्माणं बुद्धबोधिसत्त्वानां केवलं सत्त्वानां विदर्शनाय मायोपमं भवति । किञ्चित्पुनर्भूतं भोजनपानयानवस्त्रादिमणिमुक्तावैदूर्यशंखशीलाप्रवाडादि च निर्मितं भवति । तथैव नान्यथा । येन वित्तोपकरणोनैव वित्तोपकरणकार्यं क्रियते । इदन्तावत्कायनिर्माणं विषयनिर्माणं च ।

वाङ्निर्माणं पुनरस्ति सुस्वरतायुक्तम् । अस्ति विशदस्वरान्वितं स्वसम्बद्धं परसम्बद्धमसम्बद्धं धर्मदेशनासंगृहीतं प्रमत्तसंचोदना-संगृहीतञ्च ।

तत्र सुस्वरता । बुद्धबोधिसत्त्वानां निर्मितो वाग्व्याहारो गम्भीरो भवति मेघरवः कलविङ्कमनोज्ञस्वरसदृशो हृदयंगमः ग्रेमणीयः । पौरी च सा वाङ्निर्मिता भवति वल्गुविस्पष्टा विज्ञेया श्रवणीया अप्रतिकूला अनिश्रिता अपर्यन्ता ।

तत्र विशदस्वरता । आकांक्षमाणः तथागतो वा बोधिसत्त्वो वा विचित्रां देवनागयक्षासुर गरुडकिन्नरमहोरगश्रावकबोधिसत्त्वपरिषदं (दुत्त्४६) सन्निषण्णां सन्निपतितां यावद्योजनशतपरिषन्मण्डलपर्यन्तां सर्वां स्वरेण सुपरिपूर्णेन विज्ञापयति येऽपि दूरे यऽप्यन्तिके निषण्णाः । आकांक्षमाणः साहस्रिकचूडिकलोकधातुन् स्वरेण विज्ञापयति । द्विसाहस्रं वा त्रिसाहस्रं वा यावद्दशसु दिक्ष्वप्रमेयासंख्येयान् लोकधातून् स्वरेण विज्ञापयति । तस्माच्च घोषादनेकप्रकारा सत्त्वानां धर्मदेशना निश्चरति । या सत्त्वानामर्थाय संवर्तते ।

तत्र स्वसम्बद्धं वाङ्निर्माणं यत्स्वयमेव निर्मितया वाचा धर्मं वा देशयति प्रमत्तं वा संचोदयति ।

परसंबद्धं पुनर्यत्परनिर्मितया वाचा धर्मं वा देशयति प्रमत्तं वा संचोदयति ।

तत्रासम्बद्धं वाङ्निर्माणं यदाकाशात्वाङ्निश्चरति निर्मिताद्वा न सत्त्वसन्तानात् ।

तत्र धर्मदेशनानिर्माणं यत्तत्र तत्र सम्मूढानां युक्तिसंदर्शनार्थम् ।

तत्र चोदनानिर्माणं यदसम्मूढानां प्रतिलब्धप्रसादानां प्रमत्तानां प्रमादे ह्रीसंजननाय अप्रमादे च समादापनाय ।

तदेतदनेकविधं निर्माणम् । समासतः कायनिर्माणं वाङ्निर्माणं विषय निर्माणञ्च वेदितव्यम् । इतीयं नैर्माणिकी ऋद्धिः । एषापि चैकैकप्रकारभेदेनाप्रमेया चासंख्येया च वेदितव्या ।

सा पुनरेषा द्विविधापि ऋद्धिर्बुद्धबोधिसत्त्वानां समासतो द्वे कार्ये निष्पादयति । आवर्जयित्वा वा ऋद्धिप्रातिहार्येण सत्त्वान् बुद्धशासनेऽवतारयति अनुग्रहं वा अनेकविधं बहु नानाप्रकारं दुःखितानां सत्त्वानामुपसंहरति ।

तत्र पूर्वेनिवासज्ञानं बुद्धबोधिसत्त्वानां कतमत् । इह तथागतो वा बोधिसत्त्वो वा आत्मनैवात्मनस्तावत्पूर्वनिवासं समनुस्मरति अमुका नाम ते सत्त्वा यत्राहमभूवमेवन्नामेति विस्तरेण यथासूत्रं सत्त्वकायदिकं सर्वमनुस्मरति । यथा चात्मनात्मनः समनुस्मरति तथा परेषामपि अनुस्मारयति । स्वयमेव च परेषामनुस्मरति । येऽपि ते सत्त्वकायाः पूर्वान्ते यन्निवासास्तानप्यात्मना (दुत्त्४७) स्मरति परेषां स्मारयति अमुका नाम ते सत्त्वा यत्राहमभूवमेवंनामेति विस्तरेण । तेषामपि सत्त्वानां तथैव सर्वं पूर्वेनिवासमनुस्मरति यथैवात्मनो दृष्टधर्मे । सूक्ष्ममपि समनुस्मरति यत्किञ्चिदल्पं वा प्रभूतं वा पूर्वचेष्टितं पूर्वमेव चेतयित्वा अप्रमुषितम् । निरन्तरमपि समनुस्मरति । क्षणं नैरन्तर्ययोगेनाविच्छिन्नं ययैवानुपूर्व्या कृतमितमप्यनुस्मरति । यस्य कल्पगणनायोगेन शक्या संख्यां कर्तुमप्रमेयासंख्येयमप्यनुस्मरति । यस्य कल्पगणनायोगेनाशक्या संख्यां कर्तुमव्याहतमस्य समासतः पूर्वेनिवासज्ञानं प्रवर्तते यत्रेष्टं यथेष्टं यावदिष्टम् । एवंरूपो बोधिसत्त्वस्य तथागतस्य च पूर्वेनिवाससंगृहीतः प्रभावः । स तेन पूर्वेनिवासानुस्मृतिज्ञानेन जातकान् पूर्वान् बोधिसत्त्वचर्यां सत्त्वानां बुद्धे भगवति प्रसादजननार्थं गौरवोत्पादनार्थं च विचित्राननेकप्रकारान् प्रकाशयति इतिवृत्तकांश्च पूर्वयोगप्रतिसंयुक्तान् सत्त्वानां कर्मफलविपाकमारभ्य । शाश्वतदृष्टिकानां च सत्त्वानां शाश्वतदृष्टिं नाशयति तद्यथा पूर्वान्तकल्पकानां शाश्वतवादिनामेकत्य-शाश्वतिकानां वा ।

दिव्यं श्रोत्रज्ञानं बुद्धबोधिसत्त्वानां कतमत् । इह तथागतो वा बोधिसत्त्वो वा दिव्येन श्रोत्रेण दिव्यान्मानुष्यकान् शब्दानार्यानप्यनार्यानपि घनानप्यणुकानपि व्यक्तानप्यव्क्तानपि निर्मितानप्यनिर्मितानपि दूरान्तिकस्थान् शृणोति ।

तत्र दिव्याः शब्दाः ऊर्ध्वं यावदकनिष्ठभवनोपपन्नानां सत्त्वानाम् । स चेत्परेणाभोगं न करोति अथ करोति ततोऽपि परेणान्येषूर्ध्वं लोकधातुषु शृणोति ।

तत्र मानुष्यकाः शब्दाः । तिर्यक्सर्वचातुर्द्वीपकोपपन्नानां सत्त्वानाम् ।

तत्रार्याः शब्दाः । ये बुद्धानां बुद्धश्रावकानां च बोधिसत्त्वानां प्रत्येकबुद्धानाञ्च । तेषां वाऽन्तिकाच्छ्रुत्वानुश्रावयतां तदन्येषां सत्त्वानाम् । तद्यथा संदर्शयतां समादापयतां वा समुत्तेजयतां संप्रहर्षयतां कुशलसमादानमारभ्याकुशलत्यागञ्च । (दुत्त्४८) तथाऽसंक्लिष्टचित्तानामुद्देशः स्वाध्यायो विनिश्चयः सम्यक्चोदना स्मारणाववादानुशासनी इति यद्वा पुनरन्यदपि किञ्चित्सुभाषितं सुलपितमर्थोपसंहितम् । अमी उच्यन्ते आर्याः शब्दाः ।

तत्रानार्याः शब्दाः । ये सत्त्वानां मृषावादपैशुन्यपारूष्यसंभिन्नप्रलापशब्दा अधो वाऽपायोपपन्नानामूर्ध्वं वा देवोपपन्नानां तिर्यग्वा मनुष्येषूपपन्नानाम् ।

तत्र धनाः शब्दाः । ये महासत्त्वसंघशब्दा वा विविधैर्वा कारणैः कार्यमाणानामार्त्तस्वरं कन्दमानानां विक्रोशतां वा मेघस्तनितशब्दा वा शंखभेरीपटहशब्दा वा ।

अणुकाः शब्दाः । अन्ततो यावत्कर्णजापशब्दाः ।

व्यक्ताः शब्दाः । येषामर्थो विज्ञायते ।

अव्यक्ताः शब्दाः । येषामर्थो न विज्ञायते । तद्यथा द्रामिडानांमन्त्राणां वायुवनस्पतिशुकसारिकाकोकिलजीवंजीवकादीनाम् ।

तत्र निर्मिताः शब्दाः । ये ऋद्धिमद्भिश्चेतोवशिप्राप्तैर्वा ऋद्ध्यभिसंस्कृताः ।

दूराः शब्दाः । यत्र ग्रामे क्षेत्रे विहारे वा तथागतो वा बोधिसत्त्वो वा विहरति तत्र ये शब्दा निश्चरन्ति तान् स्थापयित्वा तदन्यत्र यावदप्रमेयासंख्येयेषु लोकधातुषु ।

च्युत्युपपत्तिज्ञानं बुद्धबोधिसत्त्वानां कतमत् । इह तथागतो वा बोधिसत्त्वो वा दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्युतिकालेऽपि च्युतानपि सुवर्णदुर्वर्णान् हीनप्रणीतानपरान्ते च जातान् । वृद्धेश्चान्वयादिन्द्रियाणां परिपाकाद्विचित्रे कायचेष्टिते कुशलाकुशलाव्याकृतेषु प्रवर्तमानान् । तथावभासमपि पश्यति जानीते सूक्ष्ममपि पश्यति । यद्रूपं निर्मितं यच्च दिव्यमच्छं रूपमधो यावदवीचिमूर्ध्वं यावदकनिष्ठभवनम् । स चेदध ऊर्ध्वं वान्येषु लोकधातुषु रूपदर्शनमारभ्याभोगं करोति तिर्यग्यावदप्रमेयेष्वसंख्येयेषु लोकधातुषु सर्वं रूपगतं पश्यति । अन्ततस्तेषु तेषु बुद्धक्षेत्रेषु (दुत्त्४९) तांस्तांस्तथागतान् विचित्रेषु महत्सु पर्षन्मण्डलेषु निषण्णान् धर्म देशयतः पश्यति । तत्र दिव्येन चक्षुषा तथागतो वा बोधिसत्त्वो वा दशसु दिक्षु कायचेष्टितं शुभाशुभं दृष्ट्वा यथायोगं यथार्ह तेषु सत्त्वेषु प्रतिपद्यते । दिव्येन च श्रोत्रेण वाक्चेष्टितं शुभाशुभं श्रुत्वा तेषु सत्त्वेषु यथायोगं यथार्हं प्रतिपद्यते । एवं दिव्येन चक्षुषा दिव्येन श्रोत्रेण बोधिसत्त्वस्तथागतो वा समासेन कर्म करोति ।

तत्र चेतःपर्यायज्ञानं बुद्धबोधिसत्त्वानां कतमत् । इह बोधिसत्त्वो वा तथागतो वा परेषां दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु सत्त्वानां क्लेशपर्यवस्थितमपि चित्तं जानाति । विगतक्लेशपर्यवस्थानमपि क्लेशसानुबन्धं सानुशयमपि क्लेशनिरनुबन्धं निरनुशयमपि मिथ्याप्रणिहितमपि चित्तं जानाति । तद्यथा तीर्थिकचित्तं सामिषाभिप्रायस्य क्लिष्टमपि चित्तं सम्यक्प्रणिहितमपि चित्तं जानाति । एतद्विपर्ययेण हीनमपि चित्तं जानाति । तद्यथा कामधातूपपन्नानां सर्वसत्त्वानामन्ततो मृगपक्षिणामपि । मध्यमचित्तं जानाति तद्यथा सर्वेषां रूपधातूपपन्नानां सत्त्वानाम् । प्रणीतमपि चित्तं जानाति तद्यथा सर्वेषामारूप्योपपन्नां सत्त्वानाम् । सुखप्रसंयुक्तमपि दुःखप्रसंयुक्तमप्यदुःखासुखवेदनासंप्रयुक्तमपि चित्तं जानाति । एकेन परचित्तज्ञानेनैकस्य सत्त्वस्य यस्य यद्यथा यादृशं यावच्चितं प्रत्युपस्थितं भवति तत्सकृद्यथाभूतं प्रजानाति । एकेनैव परचित्तज्ञानेन प्रभूतानामपि सत्त्वानां येषां यद्यथा यादृशं यावच्चित्तं प्रत्युपस्थितं भवति तदपि सकृद्यथाभूतं प्रजानाति । सा पुनरियमभिज्ञा बुद्धस्य बोधिसत्त्वानामिन्द्रियपरापरज्ञानाय सत्त्वानां नानाधिमुक्तिज्ञानाय नानाधातुचरितज्ञानाय यथायोगञ्च प्रतिपत्सु चित्रासु निर्वाणपुरःसरीषु सम्यक्सन्नियोगाय । इदमस्याः कर्म वेदितव्यम् ।

तत्रास्रवक्षयज्ञानं बुद्धबोधिसत्त्वानां कतमत् । इह तथागतो वा बोधिसत्त्वो वा क्लेशानां क्षयप्राप्तिं यथाभूतं प्रजानाति । प्राप्तो मया परैर्वा आस्रवक्षयो न वेति । आस्रवक्षयप्राप्त्युपायमप्यात्मनः परेषाञ्च यथाभूतं प्रजानाति । (दुत्त्५०) यथा उपायमेवमनुपायमपि यथाभूतं प्रजानाति । आस्रवक्षयप्राप्तावभिमानं परेषां यथाभूतं प्रजानाति । निरभिमानमपि यथाभूतं प्रजानाति । बोधिसत्त्वः पुनः सर्वं चैतत्प्रजानात्यास्रवक्षयञ्च स्वयं न साक्षात्करोति । अतः सास्रवञ्च स्वयं न साक्षात्करोति । अतः सास्रवाञ्च वस्तु बोधिसत्त्वः सहस्रवैर्न विजहाति । तत्र च विचरति सास्रवे वस्तुनि । न च संक्लिश्यत इति सोऽस्य सर्वप्रभावाणां महत्तमः प्रभावो वेदितव्यः । तेन खल्वास्रवक्षयज्ञानेन बुद्धबोधिसत्त्वाः स्वयं न क्लिश्यन्ते । परेषाञ्च व्यपदिशन्त्य भिमानञ्च नाशयन्ति । इदमस्य कर्म वेदितव्यम् ।

तत्र धर्मप्रभावः कतमः । दानप्रभावः शीलक्षान्तिवीर्यध्यानप्रज्ञाप्रभावश्च । स पुनरेष दानादीनां धर्माणां प्रभावः समासतश्चतुर्भिराकारैर्वेदितव्यः । विपक्षप्रहाणतः संभारपरिपाकतः स्वपरानुग्रहतः आयत्यां फलदानतश्च ।

दानं ददद्बोधिसत्त्वो दानविपक्षं मात्सर्यं प्रजहाति । आत्मनो बोधिसंभारभूतञ्च भवति तदस्य दानम् । दानेन च संग्रहवस्तुना सत्त्वान् परिपाचयति । पूर्वं दानात्सुमना ददच्चित्तं प्रसादयति । दत्त्वा चाविप्रतिसारी । त्रिषु कालेषु प्रमुदितचित्ततया आत्मानमनुगृहणाति । परेषां च जिघत्सापिपासाशोतोष्णव्याधीच्छाविघातभयदुःखापनयनात्परमनुगृह्णाति । परत्र च यत्र यत्र प्रत्याजायते आढ्यो भवति महाभोगो महापक्षो महापरिवार इत्येष चतुराकारो दानस्य प्रभावो नात उत्तरि नातो भूयः ।

कायवाक्संवरशीलं समाददानो बोधिसत्त्वः शीलविपक्षं दौःशील्यं प्रजहाति । बोधेश्च संभारभूतं भवति तदस्य शीलसमादानम् । समानार्थतया च संग्रहवस्तुना सत्त्वान् परिपाचयति । दौःशील्यप्रत्ययं भयमवद्यं वैरं प्रजहदात्मानमनुगृहणाति सुखं स्वपन् सुखं प्रतिबुध्यमानः । तथा शीलवतोऽविप्रतिसारः प्रामोद्यं यावच्चित्तसमाधिः । इत्येवमात्मानमनुगृह्णाति । सर्वसत्त्वानाञ्च सर्वप्रकारैरविहेठनतया अभयमनुप्रयच्छति । एवं परमप्यनुगृह्णाति । (दुत्त्५१) तन्निदानञ्च कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते । इत्ययं चतुराकारः प्रभावः शीलस्य । नात उत्तरि नातो भूयः ।

क्षमो बोधिसत्त्वः क्षान्तिविपक्षमक्षान्ति प्रजहाति । बोधेश्च संभारभूता सास्य क्षान्ति र्भवति । समानार्थतयैव च सत्त्वान् परिपाचयति । आत्मानञ्च परञ्च महतो भयात्परित्रायमाणस्तया क्ष्यान्त्या आत्मानञ्च परंश्चानुगृह्णाति । ततो निदानञ्च बोधिसत्त्व आयत्यामवैरबहुलो भवत्यभेदबहुलश्चादुःखदौर्मनस्यबहुलः । दृष्टे च धर्मेऽविप्रतिसारी कालं करोति । कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते । इत्ययञ्चतुराकारः क्षान्तेः प्रभावो नात उत्तरि नातो भूयः ।

आरब्धवीर्यो बोधिसत्त्वो विहरन् वीर्यविपक्षं कौसीद्यं प्रजहाति । बोधेश्च संभारभूतं भवति सन्निश्रयश्च तद्वीर्यम् । समानार्थतयैव च सत्त्वान् परिपाचयति । आरब्धवीर्यश्च सुखं स्पर्शं विहरन्नव्यवकीर्णः पापकैरकुशलैर्धर्मः पूर्वेणापरं विशेषाधिगमं पश्यन् प्रीतिप्रामोद्येनात्मानमनुगृह्णाति । कुशलपक्षाभियुक्तश्च परं न कायेन वाचा वा विहेठयति । परेषां चारब्धवीर्यतायां छन्दं जनयति । एवं परमप्यनुगृह्णाति । हेतुबलिकश्च भवति आयत्यां पुरुषकाराभिरतश्च । इत्ययं चतुराकारो वीर्यप्रभावः । नात उत्तरि नातो भूयः ।

ध्यानं समापद्यमानो बोधिसत्त्वो ध्यानविपक्षं क्लेशं काम वितर्कप्रीतिसुखरूपसंज्ञादींश्चोपक्लेशान् प्रजहाति । बोधेश्च संभारभूतं सन्निश्रयभूतं भवति तदस्य ध्यानम् । समानार्थतयैव च सत्त्वान् परिपाचयति । दृष्टधर्मसुखविहारतयात्मानमनुगृह्णाति । शान्तप्रशान्तवीतरागचित्ततया सत्त्वेष्वव्याबाध्यो भवन्नविकोप्यः परमप्यनुगृह्णाति । ज्ञानविशुद्धिरभिज्ञानिर्हारविशुद्धिर्देवोपपत्तिश्चायत्यां ध्यानफलम् । इत्येष चतुराकारो ध्यानप्रभावो नात उत्तरि नातो भूयः ।

प्रज्ञावान् बोधिसत्त्वः प्रज्ञाविपक्षमविद्यां प्रजहाति । बोधेश्च संभारभूता भवत्यस्य सा प्रज्ञा । दानेनापि प्रियवादितयाप्यर्थचर्ययापि समानार्थतयापि (दुत्त्५२) च सत्त्वान् परिपाचयति । ज्ञेयवस्तु-यथार्थ-प्रत्यवगमोपसंहितेनोदारेण प्रीतिप्रामोद्येनात्मानमनुगृह्णाति । सर्वत्र न्यायोपदेशेन दृष्टे धर्मे संपराये च हितसुखाभ्यां सत्त्वानप्यनुगृह्णाति । सर्वकुशलमूलपरिग्रहञ्च तया सम्यक्करोति । आयत्याञ्च द्विविधमप्यावरणविसंयोगं साक्षात्करोति क्लेशावरणविसंयोगं ज्ञेयावरणविसंयोगञ्च । इत्ययं चतुराकारः प्रज्ञायाः प्रभावः । नात उत्तरि नातो भूयः । अयमुच्यते धर्मप्रभावः ।

सहजः प्रभावो बुद्धबोधिसत्त्वानां कतमः । प्रकृतिजातिस्मरता । सत्त्वानामर्थे अप्रतिसंख्याय दीर्घकालिकविचित्र-तीव्रनिरन्तरदुःखसहिष्णुता । सत्त्वानामेवार्थे सत्त्वार्थसंपादकेन दुःखेन मोदना । तुषितेषु चोपपन्नस्य यावदायुस्तुषितेष्ववस्थानम् । त्रिभिश्च स्थानैस्तुषितोपपन्नानां तदन्येषां देव पुत्राणामभिभवः दिव्येनायुषा दिव्येन वर्णेन दिव्येन यशसा । उपपद्यमानस्य च मातुः कुक्षावुदारेणावभासेन लोकधातुस्फरणं संप्रजानतश्च मातुः कुक्षिप्रवेशः स्थानं निर्गमो जन्म च । जातमात्रस्य च पृथिव्यां सप्तपदगमनमपरिगृहीतस्याकेनचित् । वाचश्च भाषणा जातस्य चोदारदेवनागयक्षासुरगरुडकिन्नरमहोरगैर्दिव्यैमाल्यैर्वाद्यैर्धूपैश्चेलविक्षेपैश्छत्रध्व-जपताकादिभिर्वरप्रवराभिः पूजाकर्म । निरुत्तरैश्च द्वात्रिंशता महापुरुषलक्षणैः सुलक्षितगात्रता । चरमे च भवे पश्चिमे जन्मनि सर्वप्रत्यर्थिकैर्मारानीकैरपि सर्वोपक्रमैश्चाबाध्यता । बोधिमण्डे च निषण्णस्य मैत्र्या सर्वमारबलपराजयः । सर्वपर्वसु चैकैकस्मिन्नारायण बलसन्निविष्टता । दह्रस्यैव कुमारकस्य स्वयमेव कौशलकृताविनः । सर्वलौकिकशिल्पस्थानानां त्वरितत्वरितमनुप्रवेशः । स्वयञ्चानाचार्य कमेकाकिन एव च त्रिसाहस्रमहासाहस्रे महाबोधेरभिसंबोधः । ब्रह्मणा च सहांपतिना स्वयमुपसंक्रम्य लोके सद्धर्मदेशनायै अध्येषणा । महामेघरवाप्रतिसंवेदना । अव्युत्थानतया च समापत्तेः शान्तता । बोधिसत्त्वे च मृगपक्षिणामप्यन्ततः क्षुद्रमृगाणामपि परमा विश्वास्यता । सर्वकालमुपसंक्रमणं तस्य चान्तिके यथाकामविहारिता । (दुत्त्५३) तिरश्चामन्तिकात्तथागतस्य पूजा तद्यथा मर्कटो मध्वनेडकं तथागतायानुप्रदत्तवान् । प्रतिगृहीते
च तस्मिन् भगवता स मर्कटो हृष्टमानसः प्रत्यवसृष्टः स नृत्यमानः । भगवन्तमेवोद्दिश्य तथागतः स्नास्यति तं स्नापयिष्यामीति मेघप्रतीक्षणा । वृक्षमूले च बोधिसत्त्वस्य तथागतस्य वा सन्तिष्ठतस्तस्य सर्ववृक्षाणां प्राचीननिम्नासु छायासु तस्य वृक्षस्य छायया कायाविजहनता । षड्भिर्वर्षैरभिसंबुद्धबोधेस्तथागतस्यावतारगवेषिणोऽपि मारस्यालब्धावतारता । सारूप्य सहगतायाश्च स्मृतेः सततसमितं प्रत्युपस्थानता । स्मृतस्य च प्रतिसंविदितानां वेदनानां संज्ञानां वितर्काणामुत्पादः स्थानं निरोधश्च ।

तथा दर्शनानुग्रहकरः सहजः प्रभावो बुद्धानामार्यचारविहारसंगृहीतश्च ।

तत्र दर्शनानुग्रहकरः । तद्यथा उन्मत्ताः क्षिप्तचित्ताः तथागतं दृष्ट्वा स्वचित्तं प्रतिलभन्ते । विलोमगर्भाः स्त्रियः अनुलोमगर्भा भवन्ति । अन्धाश्चक्षूंषि प्रतिलभन्ते बधिराः श्रोत्राणि । रक्तानां रागपर्यवस्थानां विगच्छति द्विष्टानां द्वेषपर्यवस्थानं मूढानां मोहपर्यवस्थानम् । इत्ययमेवंभागीयो दर्शनानुग्रहकरः सहजः प्रभावो वेदितव्यः ।

तत्रार्यचारविहारसंगृहीतः सहजः प्रभावः । तद्यथा दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति । स चास्य तृणपर्णसंस्तर एकपार्श्वाधिशयितो भवति । अविकोपितस्तथागतार्हत्सम्यक्संबुद्धः शयानः । न चास्य वायुः कायाच्चीवरमपकर्षति । सिंहगतिमपि गच्छति । ऋषभगतिमपि गच्छति । दक्षिणं पादं तत्प्रथमत उद्धरति । ततो वामेन पादेनानुगच्छति । गच्छतश्चास्य उच्चा भूमिप्रदेशा नीचा भवन्ति । नीचा श्चोच्चाः । समाः पाणितलजाताः । अपगतपाषाणशर्करकपालाः । विवेकनिम्नेन च चित्तेन ग्रामं प्रविशति । प्रविशतश्चास्य नीचानि द्वाराणि उच्चानि भवन्ति । आहारमाहरतो नैकौदनपुलाकमप्यतिभिन्नं प्रविशति । न चावशिष्टं भवति यावद्द्वितीयमालोपं (दुत्त्५४) प्रक्षिपति । इत्ययमेवंभागीय आर्यचारविहारसंगृहीतः प्रभावो वेदितव्यः । परिनिर्वाणसमये च महापृथिवीचाल उल्कापाता दिशो दाहा अन्तरिक्षे देवदुन्दुभीनामभिनदनम् । सोऽपि सहज एव तथागतानां प्रभावो नाभिज्ञासंस्कृतः । अयं बुद्धबोधिसत्त्वानां सहजः प्रभाव इत्युच्यते ।

तत्र कतमो बुद्धबोधिसत्त्वानां श्रावकप्रत्येकबुद्धैरसाधारणः प्रभावः । कतमश्च साधारणः । असाधारणता समासतस्त्रिभिराकारैर्वेदितव्या । सूक्ष्मतः प्रकारतो धातुतश्च । इह तथागतो बोधिसत्त्वो वाऽप्रमेयासंख्येयानां सत्त्वानामप्रमेयासंख्येन प्रभावोपायेन यथाऽर्थक्रिया भवति तद्यथाभूतं प्रजानाति । एवं सूक्ष्मतः । सर्वप्रकारेण चाभिज्ञाप्रभावेण धर्मप्रभावेण सहजेन प्रभावेण समन्वागतो भवति । एवं प्रकारतः । सर्वलोकधातवः सर्वसत्त्वधातवश्चास्य प्रभावविषयञ्च भवति । एवं धातुतः । श्रावकस्य तु सह सत्त्वधातुना द्विसाहस्रो लोकधातुरभिज्ञाविषयः । प्रत्येकबुद्धस्य सर्व एव त्रिसाहस्रोऽभिज्ञाविषयः । तत्कस्य हेतोः । तथा हि ते एकस्यैवात्मनो दमाय प्रतिपन्नाः । नो तु सर्वसत्त्वानाम् । तस्मात्तेषामेक एव धातुः परमप्रभावविषयो भवति । एतानाकारान् स्थापयित्वा बुद्धबोधिसत्त्वानां तदन्यः प्रभावः श्रावकप्रत्येकबुद्धैः साधारणो वेदितव्यः । तदेवं सति श्रावकप्रत्येकबुद्धा एव तावद्बुद्धबोधिसत्त्वैः सह न तुल्याभिज्ञा भवन्ति । कुतः पुनः सर्वे देवमनुष्यास्तीर्थ्याः पृथग्जनाश्च ।

यश्चापि प्रातिहार्यप्रभावो बुद्धबोधिसत्त्वानामृद्ध्यादेशनानुशास्ति-संगृहीतः सोऽप्यभिज्ञाप्रभाव एव यथायोगं प्रविष्टो वेदितव्यः ऋद्धिविषयचेतसः पर्यायास्रवक्षयज्ञानाभिज्ञाप्रभावेषु । बोधिसत्त्वभूमावाधारे योगस्थाने पञ्चमं प्रभावपटलम् ॥ ५ ॥


(दुत्त्५५)
परिपाकपटलम् (अध्याय १.६)

तत्र परिपाकः कतमः । परिपाकः समासतः षड्भिराकारैर्वेदितव्यः । स्वभावतोऽपि परिपाच्य पुद्गलतोऽपि परिपाकप्रकारभेदतोऽपि परिपाकोपायतोऽपि परिपाचकपुद्गलतोऽपि परिपक्वपुद्गल-लक्षणतोऽपि च ।

तत्रायं परिपाकस्वभावः । कुशलधर्मवीजे सति कुशलानां धर्माणामासेवनान्वयाद्या क्लेशज्ञेयावरणप्रहाणविशुद्ध्यनुकूला कायचित्तकर्मण्यता कल्यता सम्यक्प्रयोगनिष्ठा यत्र स्थिताः शास्तारं वा आगम्यानागम्य वा शास्तारं भव्यो भवति प्रतिबलोऽनन्तरं क्लेशावरणप्रहाणं वा साक्षात्कर्तुं ज्ञेयावरणप्रहाणं वा । तद्यथा व्रणो यदा परिपाटनाय निष्ठागतो भवत्यनन्तरं पाटनार्हः । सः परिपक्व इत्युच्यते । घटघटीशरावादि च मृन्मयं भाण्डं यदा परिभोगाय निष्ठागतं भवति अनन्तरं परिभोगार्ह तदा परिक्वमित्युच्यते । फलानि वा आम्रपनसादीनि यदा परिभोगाय निष्ठागतानि भवन्त्यनन्तरं परिभोगार्हाणि तदा परिपक्वानीत्युच्यन्ते । एवमेव कुशलानां धर्माणामासेवनान्वयादसौ सम्यक्प्रयोगनिष्ठा अनन्तरं विशुद्ध्ये संवर्तते । स परिपाकस्वभावः ।

तत्र परिपाच्याः पुद्गलाः समासतश्चत्वारः । श्रावकगोत्रः श्रावकयाने । प्रत्येकबुद्धगोत्रः प्रत्येकबुद्धयाने । बुद्धगोत्रो महायाने परिपाचयितव्यः । अगोत्रस्थोऽपि पुद्गलः सुगतिगमनाय परिपाचयितव्यो भवति । बोधिसत्त्वानां बुद्धानाञ्च भगवतामित्येते चत्वारः पुद्गलाः एषु चतुर्षु वस्तुषु परिपाचयितव्याः । एवं परिपाच्यपुद्गलतः परिपाको वेदितव्यः ।

तत्र परिपाकप्रभेदः कतमः । समासतः षड्विधः परिपाकः । इन्द्रियपरिपाकः कुशलमूलपरिपाकः ज्ञानपरिपाकश्च मृदुमध्याधिमात्रश्च परिपाकः ।

तत्रेन्द्रियपरिपाकः । या आर्युर्वर्णकुलैश्वर्यसम्पदादेयवचनता महेशाख्यतामनुष्यत्वं (दुत्त्५६) महोत्साहता यामाश्रयपरिपाकफलसंपदमागम्य भव्यो भवत्यातप्तानुप्रयोगायापरिखिन्नमानसश्च भवति सर्वविद्यास्थानसमुदागमाभियोगेषु ।

कुशलमूलपरिपाकः कतमः । या प्रकृत्या मन्दरजस्कतायामागम्य प्रकृत्यैवास्य पापकेष्वकुशलेषु धर्मेषु । चित्तं न क्रामति मन्दनिवरणश्च भवति मन्दवितर्क ऋजुप्रदक्षिणग्राही ।

ज्ञानपरिपाकः कतमः । स्मृतिमान् भवति मेघावी प्रतिबलश्च भवति सुभाषितदुर्भाषितानां धर्माणामर्थस्य आज्ञानायोद्ग्रहणाय धारणाय प्रतिवेधाय । सहजया प्रज्ञया समन्वागतो भवति यां प्रज्ञामागम्य भव्यो भवति प्रतिबलः सर्वतोऽत्यन्तं सर्वक्लेशाच्चित्तं विमोचयितुम् । तत्रेन्द्रियपरिपाकेन विपाकावरणाद्विमुक्तो भवति । कुशलमूलपरिपाकेन कर्मावरणाद्विमुक्तो भवति । ज्ञानपरिपाकेन क्लेशावणाद्विमुक्तो भवति ।

मृदुपरिपाकः कतमः । द्वाभ्यां कारणाभ्यां मृदुः परिपाको भवति । अदीर्घकालाभ्यासतश्चेन्द्रियकुशलमूलज्ञानपरिपाकहेतोः अपरिपुष्टनिहीनहेत्वभ्यासतश्च । मध्यः परिपाकोऽनयोरेव द्वयोः कारणयोरन्यतरवैकल्यादन्यतरसान्निध्याच्च वेदितव्यः । अधिमात्रः पुनः परिपाक उभयोरनयोः कारणयोरवैकल्याद्वेदितव्यः ।

तत्र परिपाकोपायः कतमः । स सप्तविंशतिविधो वेदितव्यः । धातुपुष्टया वर्तंमानप्रत्ययोपसंहारतः अवतारतो रतिग्रहणतः आदिप्रस्थानतः अनादिप्रस्थानतः शुद्धिदूरतः शुद्ध्यासन्नतः प्रयोगतः आशयतः आमिषोपसंहारतः धर्मोपसंहारतः ऋद्ध्यावर्जनतया धर्मदेशनया गुह्यधर्माख्यानतः विवृतधर्माख्यानतः मृदुप्रयोगतो मध्यप्रयोगतः अधिमात्रप्रयोगतः श्रवणतः चिन्तनतो भावनतः संग्रहणतो निग्रहणतः स्वयंकृततः पराध्येषणतः तदुभयतश्च ।

तत्र धातुपुष्टिः कतमा । या प्रकृत्या कुशलधर्मबीजसंपदं निश्रित्य पूर्वकुशलधर्माभ्यासादुत्तरोत्तराणां कुशलधर्मबीजानां परिपुष्टतरा परिपुष्टतमा उत्पत्तिः स्थितिः । इयमुच्यते धातुपुष्टिः ।

(दुत्त्५७)
तत्र वर्तमानप्रत्ययोपसंहारः कतमः । दृष्टे धर्मे अविपरीता धर्मदेशना । तत्र चाविपरीतग्राहिता । यथावद्धर्मानुधर्मप्रतिपत्तिश्च । तत्र धातुपुष्टेः पूर्वकेण हेतुना वर्तमानः परिपाको निवर्तते । वर्तमानप्रत्ययोपसंहारतो वर्तमान एवं हेतुर्वर्तमानः परिपाको वेदितव्यः ।

तत्रावतारः कतमः । श्रद्धाप्रतिलम्भमधिपतिं कृत्वा आगारिकस्य दुश्चरितविवेकशिक्षापदसमादानम् । अनागारिकां वा प्रव्रजतः कामविवेकशिक्षापदसमादानम् ।

रतिग्राहः कतमः । या सर्वदुःख-नैर्याणिकीञ्च प्रतिपदं कामसुखात्मक्लमथान्त-विवर्जिताञ्च सुखां प्रतिपदमागम्य स्वाख्याते धर्मविनये शासनाभिरतिः

तत्रादिप्रस्थानं कतमत् । य एव तत्प्रथमतः संवेजनीयेषु धर्मेषु संवेगमागम्य न्यायार्थप्रतिपादने चानुशंसां विदित्वाऽवतारः । इदमेवादिप्रस्थानमित्युच्यते ।

अनादिप्रस्थानं कतमत् । या अवतीर्णस्य पुद्गलस्य परिपाच्यमानतायां वर्तमानस्य बोधिसत्त्वेभ्यो बुद्धेभ्यश्चानध्युपेक्षामागम्य विवृतानाञ्च स्थानानां भूयो भूयः उत्तानक्रियामागम्य उत्तरोत्तरपरिपाकगमनता ।

तत्र विशुद्धिदूरता कतमा । यत्कौसीद्यं वा आगम्य प्रत्ययवैधुर्यं वा महता दीर्घेण कालेन प्रभूतैर्जन्मान्तरापरिवर्तैः कल्पपरिवर्तैर्वा भव्यो भवति विशुद्धये । एतद्विपर्ययेण विशुद्ध्यासन्नता वेदितव्या ।

तत्र प्रयोगः कतमः । या स्वार्थप्राप्तौ तीव्रच्छन्दतामागम्य विनिपातभयं वाऽमुत्र दृष्टे वा धर्मे परतोऽयशोभयमागम्य शिक्षापदेष्वनुपालना सातत्यकारिता सत्कृत्यकारिता च ।

तत्राशयः कतमः । धर्मेषु च या सम्यक्सन्तीरणा-क्षान्तिमागम्यास्माद्धर्मविनयादसंहार्यतायै परेषाञ्चाधिगमेऽभिसंप्रत्यय गुणसंभावनामागम्य या त्रिषु रत्नेषु स्वार्थप्राप्तौ चाविचला श्रद्धधानता ।

(दुत्त्५८)
आभिषोपसंहारः कतमः । यः सर्वेण च सर्वं भोजनपानादिविकलानां भोजनपानाद्युपसंहारः । अनुकूलपानभोजनादिविकालानाञ्चानुकूलपानभोजनाद्युपसंहारः ।

तत्र धर्मोपसंहारः कतमः । यदुद्देशतो वा धर्माणामनुप्रदानं सम्यगर्थविवरणतो वा ।

ऋद्ध्यावर्जनता कतमा । या ऋद्धिमत ऋद्धिप्रातिहार्यविदर्शना सत्त्वानुकम्पया सत्त्वानामाशयविशुद्धिं वाधिपतिं कृत्वा प्रयोगविशुद्धिं वा एते सत्त्वाः प्रातिहार्यं दृष्ट्वा श्रुत्वा वा आशयशुद्धिं वा शासने प्रतिलप्स्यन्ते प्रयोक्ष्यन्ते सम्यगिति । ते च तेन प्रातिहार्येणावर्जितमानसा आशयशुद्धिं वा प्रतिलभन्ते प्रयुज्यन्ते वा सम्यक् ।

तत्र देशना कतमा । स्वयं स्वार्थप्राप्तावशक्तस्य सद्धर्मदेशना सम्यक्प्रतिपत्तिसहायभूता । शक्तस्यापि च क्षिप्राभिज्ञतायै अनुकूला सद्धर्मदेशना ।

तत्र गुह्यधर्माख्यानं कतमत् । या बालप्रज्ञानां सत्त्वानामत्युदारगम्भीरार्थधर्मप्रतिच्छादनता उत्तानसुप्रवेशसुखोपायावतारधर्मदेशनता ।

विवृतधर्माख्यानं कतमत् । या पृथुप्रज्ञानां सत्त्वानां सुखप्रविष्टबुद्धशासनानयानामत्युदारगम्भीरस्थानविवरणता ।

तत्र मृदुः प्रयोगः कतमः । यः सातत्यप्रयोगविवर्जितः सत्कृत्यप्रयोगविवर्जितश्च ।

मध्यः प्रयोगः कतमः । यः सातत्यप्रयोगविवर्जितो वा सत्कृत्यप्रयोगविवर्जितो वा । इत्यनयोर्द्वयोः प्रयोगयोरन्यतरविवर्जितः ।

अधिमात्रः प्रयोगः कतमः । यस्तदुभयप्रयोगसंयुक्तः सातत्यप्रयोगसंयुक्तः सत्कृत्यप्रयोगसंयुक्तश्च ।

तत्र श्रुतं कतमत् । यो बौद्धप्रवचनाधिमुक्तस्य सूत्रादीनां धर्माणां श्रवणोद्ग्रहण-धारणस्वाध्यायाभियोगः ।

चिन्ता कतमा । प्रविवेके धर्मनिध्यानाभिरतस्य अर्थाभ्यूहनासंलक्षणानिश्चयः ।

(दुत्त्५९)
भावना कतमा । शमथप्रग्रहोपेक्षानिमित्तेषु सम्यगुपलक्षणापूर्विका शमथविपश्यनोपेक्षाऽभ्यासरतिः ।

संग्रहः कतमः । सम्यग्निरामिषचित्तस्य निश्रयदानमाचार्योपाध्यायन्यायेन । पृथग्विधा च परिचर्या तद्यथा ग्लानोपस्थानपरिचर्या धर्म्यचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिचर्या शोककौकृत्यप्रतिविनोदनपरिचर्या क्लेशप्रतिविनोदनपरिचर्या । इत्येवंभागीयाः पृथग्विधा परिचर्यां वेदितव्याः ।

निग्रहः कतमः । आत्मगतां संक्लेशारक्षां संविधाय स्खलितचोदना मृदौ व्यतिक्रमे । मध्ये व्यतिक्रमेऽवसादना । अधिमात्रे व्यतिक्रमे प्रवासना । तत्र या च चोदना या चावसादना सा तेषामेव हितसुखार्थं तदन्येषाञ्च । या पुनः प्रवासना पुनः प्रतिसंहरणाय सापि तेषां चान्येषां च हितसुखाय । या पुनरप्रतिसंहार्या प्रवासना सा परेषामेव हितसुखाय । तथाहि परेषां प्रवासनां व्यतिक्रमनिदानम् । परेषूपलभ्याव्यतिक्रमाय चेतयते ।

कथं स्वयं परिपाचयति । आनुलोमिकञ्च धर्मं देशयति अकुशलात्स्थानाद्युत्थाप्य कुशले स्थाने प्रतिष्ठापनाय । यथावादी च भवति तथाकारी । धर्मानुधर्मप्रतिपन्नस्तत्स्वभावानुवर्ती । येनैनं परे नैवमाह । त्वमेव तावत्स्वयं नाकुशलात्स्थानाद्युत्थितः कुशले च स्थाने प्रतिष्ठितः कस्मात्त्वं तत्र परं समादापयितव्यं चोदयितव्यं स्मारयितव्यं मन्यसे । त्वमेव तावत्परैश्चोदयितव्यः स्मारयितव्यः समादापयितव्यः ।

कथं परमध्येषते । यस्यान्तिके सत्त्वानामधिमात्रश्च प्रेमगौरवं निविष्टं भवति । यश्चोपायज्ञो भवति धर्मदेशनायां सुशिक्षितः । स्तमध्येषते व्यापारयति परिपाकाय ।

उभाभ्यामाभ्यां समस्ताभ्यां स्वपराध्येषणाकृतः परिपाको वेदितव्यः ।

इत्यनेन सप्तविंशतिविधेन परिपाकोपायेन सा षड्विधा परिपाकप्रभेद संपद्वेदितव्या । इन्द्रियपरिपाकस्य कुशलमूलपरिपाकस्य ज्ञानपरिपाकस्य मृदुमध्याधिमात्रस्य च परिपाकस्य ।

तत्र परिपाचकाः पुद्गलाः कतमे । समासतः षट्बोधिसत्त्वाः षटसु बोधिसत्त्वभूमिषु व्यवस्थिताः सत्त्वान् परिपाचयन्ति । अधिमुक्तिचर्याभूमिस्थितो (दुत्त्६०) बोधिसत्त्वोऽधिमुक्तिचारी । शुद्धाध्याशयभूमिस्थितो बोधिसत्त्वः शुद्धाध्याशयः । चर्याप्रतिपत्तिभूमिस्थितो बोधिसत्त्वश्चर्याप्रतिपन्नः । नियत भूमिस्थितो बोधिसत्त्वो नियत-पतितः । नियतचर्या-प्रतिपत्तिभूमिस्थितो बोधिसत्त्वो नियतचर्याप्रतिपन्नः । निष्ठागमनभूमिस्थितो बोधिसत्त्वो निष्ठागतः । तत्रागोत्रस्थानां पुद्गलानां सुगतिगमनाय परिपाकः पुनः पुनः प्रत्यावर्त्यो भवति पुनः पुनः करणीयः । गोत्रस्थानां पुनः परिपाको न प्रत्यावर्त्यो भवति न पुनः पुनः करणीयः ।

तत्र परिपक्वपुद्गललक्षणं कतमत् । श्रावकः पूर्वकुशलाभ्यासाद्यदामृदुपाकव्यवस्थितो भवति स मृदुच्छन्दो भवति मृदुप्रयोगश्चापायानपि गच्छति न च दृष्टे धर्मे श्रामण्यफलमधिगच्छति न च दृष्टे धर्मे परिनिर्वाति । यदा तु मध्यपाकव्यवस्थितो भवति स मध्यच्छन्दश्च भवति मध्यप्रयोगो न चापायान् गच्छति । दृष्टे च धर्मे श्रामण्यफलं प्राप्नोति । नो तु दृष्टे धर्मे परिनिर्वाति । अधिमात्रे परिपाके स्थितः अधिमात्रच्छन्दो भवति अधिमात्रप्रयोगश्च न चापायान् गच्छति । दृष्टे च धर्मे श्रामण्यफलं प्राप्नोति । दृष्ट एव च धर्मे परिनिर्वाति ।

प्रत्येकबुद्धस्तथैव वेदितव्यः यथा श्रावकः । तत्कस्य हेतोः । तुल्यजातीयोऽस्य मार्गः श्रावकैः । अयन्तु श्रावकेभ्यः प्रत्येकबुद्धस्य विशेषः । पश्चिमे भवे पश्चिमे आत्मभावप्रतिलम्भेऽनाचायकं पूर्वाभ्यासवशात्सप्तत्रिंशद्वोधिपक्ष्यान् धर्मान् भावयित्वा सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करोति । तस्मात्प्रत्येकबुद्ध इत्युच्यते ।

बोधिसत्त्वः पुनरधिमुक्तिचर्याभूमिस्थितो मुदुपरिपाको वेदितव्यः । अध्याशयशुद्धो चर्याप्रतिपत्तिभूमौ च मध्यपरिपाकः । नियातो निष्ठितश्चाधिमात्रपरिपाकः । तत्र मृदुपाकव्यवस्थितो बोधिसत्त्वो मृदुच्छन्दो भवति मृदुप्रयोगः अपायांश्च गच्छति । प्रथमकल्पासंख्येयपर्यन्ततश्च स वेदितव्यः । उत्तप्तैरचलैः सुविशुद्धैश्च बोधिपक्ष्यैः कुशलैधर्मैः सर्वैरेव विसंयुक्तो भवति । मध्यपाको बोधिसत्त्वो मध्यच्छन्दो भवति मध्यप्रयोगः । न चापायान् गच्छति द्वितीयकल्पासंख्येयपर्यन्ततश्च भवति । उत्तप्तैरचलैश्च बोधिपक्ष्यैः कुशलैर्धर्मैः (दुत्त्६१) संयुक्तो भवति । सुविशुद्धैर्विसंयुक्तः । अधिमात्रपाकस्थितो बोधिसत्त्वः अधिमात्रच्छन्दो भवत्यधिमात्रप्रयोगश्च । न चापायान् गच्छति । तृतीयकल्पासंख्येयपर्यन्ततश्च भवति । उत्तप्तैरचलैः सुविशुद्धैर्बोधिपक्ष्यैः कुशलैर्धर्मैः समन्वागतो भवति । तत्र प्रकृत्या घनत्वादुज्ज्वलत्वादधिमात्रमहाफलत्वान्महानुशंसत्वाच्चोत्तप्ता इत्युच्यन्ते । अप्रत्यावर्त्यत्वादपरिहाणीयत्वाद्विशेषगामित्वादचला इत्युच्यन्ते । बोधिसत्त्वभूमौ निरुत्तरत्वात्सुविशुद्धा इत्युच्यन्ते ।

तत्र यश्चामिषकृतः परिपाको यश्च ऋद्ध्यावर्जनजो यश्च गुह्यधर्माख्यानजो यश्च मृदुप्रायोगिको यश्च श्रुतमात्रकृतः परिपाक इत्येष पञ्चविधः परिपाकः दीर्घकालाभ्यासादप्येषां धर्माणां मृदुक एव भवति प्रागेवेत्तककालाभ्यासात् । तदन्यैस्तु सर्वैः परिपाकस्य कारणैः परिपाकस्य त्रिप्रकारनयो वेदितव्यः । मृदुकेनाभ्यासेन मृदुको मध्येन मध्यः अधिमात्रेणाधिमात्रः परिपाको वेदितव्यः । तस्य च मृदुमध्याधिमात्रस्य परिपाकस्यैकैकस्य त्रिप्रकारनयो वेदितव्यः । मृदुकस्य [मृदु-]मृदुको मृदुमध्यो मृद्वधिमात्रः । मध्यस्य च मध्यमृदुको मध्यमध्यो मध्याधिमात्रः । अधिमात्रस्याधिमात्रमृदुरधिमात्रमध्योऽधिमात्राधिमात्रः । इत्येवं भागीयोत्तरोत्तरप्रभेदनयेनाप्रमाणः परिपाकप्रभेदः सत्त्वानां बुद्धबोधिसत्त्वकृतो वेदितव्यः ।

तत्र बोधिसत्त्वः एभिः परिपाककारणैर्यथानिर्दिष्टैरात्मनश्च बुद्धधर्मपरिपाकायेन्द्रियपरिपाकं कुशलमूलपरिपाकं ज्ञानपरिपाकञ्च मृदुमध्याधिमात्रञ्च समुदानयति परसत्त्वानाञ्च परपुद्गलानां यानत्रयनिर्याणाय ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने षष्ठं परिपाकपटलम् ॥


(दुत्त्६२)
बोधिपटलम् (अध्याय १.७)

तत्र बोधिः कतमा । समासतो द्विविधञ्च प्रहाणं द्विविधञ्च ज्ञानं बोधिरित्युच्यते ।

तत्र द्विविधं प्रहाणं-क्लेशावरणप्रहाणं ज्ञेयावरणप्रहाणञ्च । द्विविधं पुनर्ज्ञानं यत्क्लेशावरणप्रहाणाच्च निर्मलं सर्वक्लेशनिरनुबन्धज्ञानम् । ज्ञेयावरणप्रहाणाच्च यत्सर्वस्मिन् ज्ञेयेऽप्रतिहतमनावरणं ज्ञानम् ।

अपरः पर्यायः । शुद्धज्ञानं सर्वज्ञानमसङ्गज्ञानञ्च । सर्वक्लेशवासनासमुद्धातश्चाक्लिष्टायाश्चाविद्यायाः निःशेषप्रहाणमनुत्तरा सम्यक्संबोधिरित्युच्यते । तत्र सवासनानां सर्वक्लेशानां सर्वतश्चात्यन्तञ्च प्रहाणाद्यद्ज्ञानं तच्छुद्धमित्युच्यते । सर्वधातुषु सर्ववस्तुषु सर्वप्रकारेषु सर्वकालेषु यद्ज्ञानमव्याहतं प्रवर्तते तत्सर्वज्ञानमित्युच्यते । तत्र द्वौ वा धातू । लोकधातुः सत्त्वधातुश्च । तत्र द्विविधं वस्तु । संस्कृतमसंस्कृतञ्च । तस्यैव च संकृतासंस्कृतस्य वस्तुनोऽप्रमाणः प्रकारभेदः स्वलक्षणोत्तरजातिप्रभेदेन सामान्यलक्षणप्रभेदेन हेतुफलप्रभेदेन धातुगतिकुशलाकुशलाव्याकृतादिप्रभेदेन । तत्र कालस्त्रिविधः । अतीतोऽनागतः प्रत्युत्पन्नश्च । इत्येतत्सर्वधातुकं सर्ववस्तुकं सर्वप्रकारं सर्वकालं ज्ञानं सर्वज्ञानमित्युच्यते । तत्रासङ्गज्ञानं यदाभोगमात्रादेव सर्वत्राधिष्ठितं त्वरितमसक्तं ज्ञानं प्रवर्तते । न पुनः पुनराभोगं कुर्वतो नान्यत्रैकाभोगप्रतिबद्धमेव तज्ज्ञानं भवति ।

अपरः पर्यायः । चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतं या च तथागतस्यारणा प्रणिधिज्ञानं प्रतिसंविदश्च । इयमनुत्तरा सम्यक्संबोधिरुच्यते ।

तत्रेदं चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतम् । द्वात्रिंशन्महापुरुषलक्षणान्यशीत्यनुव्यञ्जनानि चतस्रः सर्वाकाराः परिशुद्धयः दश बलानि चत्वारि वैशारद्यानि त्रींणि स्मृत्युपस्थानानि त्रीण्यरक्ष्याणि महाकरुणाऽसम्मोषधर्मता (दुत्त्६३) वासनासमुद्घातः सर्वाकारवरज्ञानञ्च । एषाञ्च बुद्धधर्माणां विभागः प्रतिष्ठापटले भविष्यति ।

तत्रेयं परमा बोधिः सप्तभिः परमताभिर्युक्ता येनेयं सर्वबोधीनां परमेत्युच्यते ।

सप्त परमताः कतमाः आश्रयपरमता प्रतिपत्तिपरमता सम्पत्तिपरमता ज्ञानपरमता प्रभावपरमता प्रहाणपरमता विहारपरमता च । यत्तथागतो द्वात्रिंशता महापुरुषलक्षणैः सुलक्षितगात्रः । इयमस्याश्रयपरमतेत्युच्यते । यत्तथागत आत्महिताय परहिताय बहुजनहिताय [बहुजनसुखाय] लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणां प्रतिपन्नः । इयमस्य प्रतिपत्तिपरमतेत्युच्यते । यत्तथागतो निरुत्तराभिरप्रतिसमाभिश्चतसृभिः संपत्तिभिः समन्वागतः शीलसंपत्त्या दृष्टिसंपत्त्या आचारसंपत्त्या आजीवसंपत्त्या [प्रतिपन्नः] । इअयमस्य सम्पत्तिपरमतेत्युच्यते । यत्तथागतो निरुत्तराभिरप्रतिसमाभिश्चतसृभिः प्रतिसंविद्भिः समन्वागतः धर्मप्रतिसंविदाऽर्थप्रतिसंविदा निरुक्तिप्रतिसंविदप्रतिभानप्रतिसंविदा च । इयमस्य ज्ञानपरमतेत्युच्यते । यत्तथागतो निरुत्तराभिरप्रतिसमाभिः षड्भिरभिज्ञाभिः समन्वागतः यथा पूर्वनिर्दिष्टाभिः । इयं तथागतस्य प्रभावपरमतेत्युच्यते । यत्तथागतः सवासनसर्वक्लेशप्रहाणेन निरुत्तरेणाप्रतिसमेन ज्ञेयावरण प्रहाणेन च समन्वागतः । इयमस्य प्रहाणपरमतेत्युच्यते । यत्तथागतस्त्रिभिर्निरुत्तरैरप्रतिसमैर्विहारैस्तब्दहुल विहारी आर्येण विहारेण दिव्येन ब्राह्मेण । इयमस्य विहारपरमतेत्युच्यते । तत्र शून्यतानिमित्ताप्रणिहितविहारा निरोधसमापत्तिविहारश्चार्यो विहार इत्युच्यते । चत्वारि ध्यानान्यारूप्यसमापत्तयश्च दिव्यो विहार इत्युच्यते । चत्वार्यप्रमाणानि ब्राह्मो विहार इत्युच्यते । तस्मात्पुनस्त्रिविधाद्विहाराश्चत्वारः परमविहारा यैस्तथागतास्तद्वहुलविहारिणो भवन्ति । आर्याद्विहाराच्छून्यता विहारो निरोधसमापत्तिविहारश्च । दिव्याद्विहारादानिंज्यचतुर्थध्यानविहारः । ब्राह्माद्विहारात्करुणाविहारो येन तथागतस्त्रिस्कृतो रात्रौ त्रिस्कृत्वो दिवसे षट्कृत्वो रात्रिंदिवेन बुद्धचक्षषा लोकं व्यवलोकयति को हीयते (दुत्त्६४) को वर्धते
कस्यानुत्पन्नानि कुशलमूलान्यवरोपयामि क्वं यावद्विस्तरेणाग्रफलेऽर्हत्त्वे प्रतिष्ठापयामीति ।

तत्राश्रयपरमतया तथागता महापुरुषा इत्युच्यन्ते । प्रतिपत्तिपरमतया महाकारुणिका इत्युच्यन्ते । संपत्तिपरमतया महाशीलमहाधर्माण इत्युच्यन्ते । ज्ञानपरमतया महाप्रज्ञा इत्युच्यन्ते । प्रभावपरमतया महाभिज्ञा इत्युच्यन्ते । प्रहाणपरमतया महाविमुक्तय इत्युच्यन्ते । विहारपरमतया महाविहारतद्बहुलविहारिण इत्युच्यन्ते ।

तेषाञ्च पुनस्तथागतानां दशभिराकारैर्गुणाभिधानञ्च भवति गुणानुस्मरणता च । कतमैर्दशभिः । इत्यपि स भगवांस्तथागतोऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवानिति । तत्रावितथवचनात्तथागतः । सर्वप्राप्तयार्थप्राप्तत्वातनुत्तरपुण्यक्षेत्रत्वात्पूजार्हत्वाच्चार्हन् । यथावत्परमार्थेन धर्मानुबोधात्सम्यक्संबुद्धः । तिसृभिर्विद्याभिर्यथासूत्रोक्तेन च चरणेन विपश्यनाशमथपक्षोभयसुसम्पन्नत्वाद्विद्याचरणसम्पन्नः । परमोत्कर्षगमनादपुनः प्रत्यागमनाच्च सुगतः । सत्त्वधातुलोकधात्वोः सर्वाकारेण क्लेशव्यवदानज्ञानाल्लोकवित् । परमचित्तदमोपायज्ञतया एकस्यैव लोके पुरुषभूतस्य च प्रादुर्भावातनुत्तरः पुरुषदम्यसारथिः । चक्षुर्भूतत्वाज्ज्ञानार्थधर्मतत्त्व भूतत्वाद्व्यक्तस्यार्थस्य निर्णेतृत्वात्सर्वार्थप्रतिसरणत्वादव्युत्पन्नस्यार्थस्य व्युत्पादकत्वा दुत्पन्नस्य संशयस्योच्छेदकत्वात्गम्भीराणां स्थानानां विवरणात्पर्यवदापकत्वात्तन्मूलत्वात्सर्वधर्माणां तन्नेतृकत्वात्तत्प्रतिसरणत्वात्सर्वदुःखस्य निःसरणं शास्ति व्यपदिशति सम्यग्देवमनुष्याणाम् । तस्माच्छास्ता देवमनुष्याणामित्युच्यते । अर्थोपसंहितस्य धर्मराशेरनर्थोपसंहितस्य धर्मराशेर्न्नैवार्थोपसंहितस्य नानार्थोपसंहितस्य धर्मराशेः सकलसर्वाकाराभिसंबोधाद्बुद्ध इत्युच्यते । सर्वमारबलमहासंग्रामावभङ्गाद्भगवान् ।

(दुत्त्६५)
तत्र प्रभूतैरपि कल्पैरेकस्यापि बुद्धस्य प्रादुर्भावो न भवति । एकस्मिन्नेव च कल्पे प्रभूतानां बुद्धानामुत्पादो भवति । तेषु तेषु च दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुष्वप्रमेयाणामेव बुद्धानामुत्पादो वेदितव्यः । तत्कस्य हेतोः । सन्ति दशसु दिक्ष्वप्रमेयासंख्येया बोधिसत्त्वा ये तुल्यकालकृतप्रणिधानास्तुल्यसंभारसमुदागताश्च । यस्मिन्नेव दिवसे पक्षे मासे संवत्सरे एकेन बोधिसत्त्वेन बोधौ चित्तं प्रणिहितं तस्मिन्नेव दिवसे पक्षे मासे संवत्सरे सर्वैः । यथा चैक उत्सहितो घटितो व्यायच्छितश्च तथा सर्वे । तथाहि दृश्यन्तेऽस्मिन्नेव लोकधातावनेकानि बोधिसत्त्वशतानि यानि तुल्यकालप्रणिधानानि तुल्यत्यागानि तुल्यक्षान्तिकानि तुल्यवीर्याणि तुल्यध्यानानि तुल्यप्रज्ञानानि । प्रागेव दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु । बुद्धक्षेत्राण्यपि त्रिसाहस्रमहासाहस्राण्यप्रमेयासंख्येयानि दशसु दिक्षु संविद्यन्ते । न च तुल्यसंभारसमुदागतयोर्द्वयोस्तावद्बोधिसत्त्वयोरेकस्मिन् लोकधातौ बुद्धक्षेत्रे युगपदुत्पत्त्यवकाशोऽस्ति प्रागेवाप्रमेयासंख्येयानाम् । न च पुनस्तुल्यसंभाराणां क्रमेणानुपरिपाटिकया उत्पादोयुज्यते । नापि सर्वेण सर्वमनुत्पाद एव युज्यते । तस्माद्दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु यथा परिशोधितेषु तथागतशून्येषु ते तुल्यसंभारा बोधिसत्त्वा अन्योन्येषु बुद्धक्षेत्रेषूत्पद्यन्त इति वेदितव्यम् । तदनेन पर्यायेण बहुषु लोकधातुषु बुद्धबाहुल्यमेव युज्यते । न चैकस्मिन् बुद्धक्षेत्रे द्वयोस्तथागतयोर्युगपदुत्पादो भवति । तत्कस्य हेतोः । दीर्घरात्रं खलु बोधिसत्त्वेनैवं प्रणिधानमनुबृंहितं भवति । यथाहमेकोऽपरिणायके लोके परिणायकः स्यां सत्त्वानां विनेता सर्वदुःखेभ्यो विमोचयिता परिनिर्वापयितेति । यस्यैवं
दीर्घरात्रं प्रणिधानमनुबृंहयतः सम्यक्प्रतिपत्तिपरिगृहीतमृध्यत्येव तत् । पुनश्च शक्त एकस्तथागतस्त्रिसाहस्रमहासाहस्रे एकस्मिन् बुद्धक्षेत्रे सर्वबुद्धकार्य कर्तुम् । अतो द्वितीयस्य तथागतस्य व्यर्थ एवोत्पादः स्यात् । भूयश्चैकस्य तथागतस्य लोके उत्पादात्सत्त्वानामेवार्थकरणप्रसिद्धिः प्रचुरतरा भवति प्रदक्षिणतरा । तत्कस्य हेतोः । तेषामेवं भवत्ययमेव कृत्स्ने जगत्येकस्तथागतो न द्वितीयः । अस्मिञ्जनपदचारिकां वा विप्रकान्ते परिनिर्वृते वा नास्ति स कश्चिद्द्वितीयः । (दुत्त्६६) यस्यास्माभिरन्तिके ब्रह्मचर्यं चरितव्यं स्यात्धर्मो वा श्रोतव्य इति विदित्वाऽतित्वरन्ते घनतरेण छन्दव्यायामेन ब्रह्मचर्यवासाय सद्धर्मश्रवणाय च । बुद्धबहुत्वंतु ते उपलभ्य नातित्वरेरन् । एवमेषामेकस्य बुद्धस्योत्पादात्स्वार्थे करणप्रसिद्धिः प्रचुरतरा च भवति प्रदक्षिणतरा च ।

तत्र सर्वबुद्धानां सर्वं समसमं भवति निर्विशिष्टं स्थापयित्वा चत्वारि स्थानान्यायुर्नाम कुलं कायञ्च । इत्येषाञ्चतुर्णां धर्माणां ह्रासवृद्ध्या विलक्षणता बुद्धानाम् । न त्वन्येन केनचित् । न च स्त्री अनुत्तरां सम्यक्संबोधिमसंबुध्यते । तत्कस्य हेतोः । तथा हि बोधिसत्त्वः प्रथमस्यैव कल्पासंख्येयस्यात्ययात् । स्त्रीभावं विजहाति । बोधिमण्डनिषदनमुपादाय न पुनर्जातु स्त्री भवति । प्रकृत्या च बहुक्लेशो दुष्प्रज्ञश्च भवति सर्वो मातृग्रामः । न च प्रकृत्या बहुक्लेशसन्तानेन दुष्प्रज्ञसन्तानेन च शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् ।

एवमियमनुत्तरा सम्यक्संबोधिः स्वभावतोऽपि यथानिर्दिष्टा यथाभूतं वेदितव्या । परमतोऽपि गुणनिर्देशानुस्मरणतोऽपि संभवतोऽपि विशेषतोऽपि यथानिर्दिष्टा यथाभूतं वेदितव्या । अपि त्वचिन्त्यैव सर्वतर्कमार्गसमतिक्रान्तत्वादप्रमेयासंख्येयगुणसमुदितत्वादनुत्तरैव च सम्यक्संबोधिः सर्वश्रावक-प्रत्येकबुद्धतथागतानाभि निर्वृत्तये भवति । तस्मादेषैव बोधिरग्र्या श्रेष्ठा वरा प्रणीतेति ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने सप्तमं बोधिपटलम् ।


(दुत्त्६७)
बलगोत्रपटलम् (अध्याय १.८)

निर्दिष्टं तावद्यत्र बोधिसत्त्वेन शिक्षितव्यम् । यथा पुनः शिक्षितव्यं तद्वक्ष्यामि ।

उद्दानम् ।

अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशना ।
प्रतिपत्तिस्तथा सम्यगववादानुशासनम् ।
उपायसहितं कायवाङ्मनःकर्म पश्चिमम् ।

इहादित एव बोधिसत्त्वेन बोधिसत्त्वशिक्षासु शिक्षितुकामेनाधिमुक्तिबहुलेन भवितव्यं धर्मेपर्येषकेण धर्मदेशकेन धर्मानुधर्मप्रतिपन्नेन सम्यगववादानुशासकेन सम्यगववादानुशासन्याञ्च स्थितेन उपायपरिगृहीतकायवाङ्मनःकर्मणा च भवितव्यम् ।

कथञ्च बोधिसत्त्वोऽधिमुक्तिबहुलो भवति । इह बोधिसत्त्वोऽष्टविधेऽधिमुक्त्यधिष्ठाने श्रद्धाप्रसादपूर्वंकेण निश्चयेन रुच्या समन्वागतो भवति । त्रिषु रत्नेषु बुद्धधर्मंसंघगुणेषु बुद्धबोधिसत्त्वप्रभावे च यथानिर्दिष्टे तत्त्वार्थे च यथानिर्दिष्टे हेतौ च फले च विचित्रे यथायोगपतिते अविपरीते प्राप्तव्ये चार्थे समर्थोऽहं प्राप्तुमिति । यथा प्राप्तव्ये अर्थे एवं प्राप्त्युपाये अस्त्ययं प्राप्त्युपायः प्राप्तव्यस्यार्थस्येति । तत्र प्राप्तव्योऽयथा बोधिरनुत्तरा । प्राप्त्युपायः पुनः सर्वे बोधिसत्त्वशिक्षामार्गाः । तथा सुभाषिते सुलपिते सुप्रव्याहृतेऽधिमुक्तिस्तद्यथा सूत्रं गेयं व्याकरणादिषु धर्मेषु ।

तत्रास्मिन्नष्टविधेऽधिमुक्त्याधिष्ठाने बोधिसत्त्वस्य द्वाभ्यां कारणाभ्यामधिमुक्तिबहुलता वेदितव्या । अधिमुक्त्यभ्यासबहुलीकारतश्च तीव्रक्षान्तिसन्निवेशतश्च ।

तत्र धर्मं बोधिसत्त्वः पर्येषमाणः किं पर्येषते । कथं पर्येषते । किमर्थं (दुत्त्६८) पर्येषते । समासतो बोधिसत्त्वो बोधिसत्त्वपिटकञ्च पर्येषते श्रावकपिटकञ्च । वाह्यकानि च शास्त्राणि लौकिकानि च शिल्पकर्मपस्थानानि पर्येषते ।

तत्र द्वादशाङ्गाद्वचोगताद्यद्वैपुल्यं तद्वोधिसत्त्वपिटकम् । अवशिष्टं श्रावकपिटकं वेदितव्यम् । बाह्यकानि पुनः शास्त्राणि समासतस्त्रीणि । हेतुशास्त्रं शब्दशास्त्रं चिकित्सक शास्त्रञ्च । तत्र लौकिकानि शिल्पकर्मस्थानान्यनेकविधानि बहुनानाप्रकाराणि । सुवर्णकारायस्कारमणिकारकर्मज्ञानप्रभृतीनि । तान्येतानि सर्वविद्यास्थानपरिगृहीतानि पञ्चविद्यास्थानानि भवन्ति । अध्यात्मविद्या हेतुविद्या शब्दविद्या व्याधिचिकित्साविद्या शिल्पकर्मस्थानविद्या च । इतीमानि पञ्च विद्यास्थानानि यानि बोधिसत्त्वः पर्येषते । एवमनेन सर्वविद्यास्थानानि पर्येषितानि भवन्ति ।

तत्र बुद्धवचनमध्यात्मशास्त्रमित्युच्यते । तत्पुनः कत्याकारं प्रवर्तते । एवं यावल्लौकिकानि शिल्पकर्मस्थानानि कत्याकाराणि प्रवर्तन्ते । बुद्धवचनं समासतो द्व्याकारं प्रवर्तते । सम्यघेतुफलपरिदीपनाकारं कृताविप्रहाणा कृतानभ्यागमपरिदीपनाकारञ्च । हेतुशास्त्रमपि द्व्याकारम् । परोपारंभकथानुशंसपरिदीपनाकारं परतश्चेतिवादविप्रमोक्षानुशंसपरिदीपनाकारञ्च । शब्दशास्त्रमपि द्व्या कारम् । धातुरूपसाधनव्यवस्थानपरिदीपनाकारं वाक्संस्कारानुशंसपरिदीपनाकारञ्च । चिकित्साशास्त्रञ्चतुराकारं प्रवर्तते । आवाधकोशलपरिदीपनाकरम् । आवाधसमुत्थानकौशलपरिदीपनाकारम् । उत्पन्नस्यावाधस्य प्रहाणकौशलपरिदीपनाकारम् । प्रहाणस्य चावाधस्यायत्यामनुत्पादकौशलपरिदीपनाकारम् । लौकिकानि शिल्पकर्मस्थानज्ञानानि
स्वकस्वकशिल्पकर्मस्थानानुष्ठानकार्यपरिनिष्पत्तिपरिदीपनाकाराणि ।

कथञ्च बुद्धवचनमविपरीतं हेतुफलं परिदीपयति । दशेमे हेतवः अविपरीतं हेतुव्यवस्थानं सर्वहेतुसंग्रहे वेदितव्याः संक्लेशाय वा व्यवदानाय वा लौकिनामपि च तेषां सस्यादीनामव्याकृतानां प्रवृत्तये । दश हेतवः (दुत्त्६९) कतमे । अनुव्यवहारहेतुः । अपेक्षाहेतुः । आक्षेपहेतुः । परिग्रहहेतुः । अभिनिर्वृत्तिहेतुः । आवाहकहेतुः प्रतिनियमहेतुः । सहकारिहेतुः विरोधहेतुः । अविरोधहेतुश्च ।

तत्र सर्वधर्माणां यन्नाम नामपूर्विका च संज्ञा संज्ञापूर्वकश्चाभिलापः । अयमुच्यते तेषां धर्माणामनुव्यवहारहेतुः । तत्र यदपेक्षं यद्धेतुकं यस्मिन् वस्तुन्यर्थित्वमुपादानञ्च भवत्ययमस्योच्यतेऽपेक्षाहेतुः । तद्यथा हस्तापेक्षं हस्तहेतुकमादानकर्म । पादापेक्षं पादहेतुकमभिक्रमप्रतिक्रमकर्म । पर्वापेक्षं पर्वहेतुकं समिञ्जितप्रसारितकर्म । जिघत्सापिपासापेक्षं जिघत्सापिपासाहेतुकं भोजनपानादानं पर्येषणता च । इत्येवंभागीयोऽप्रमाण-नयानुगतः अपेक्षाहेतुर्वेदितव्यः । तत्र बीजमावसानिकस्य स्वफलस्याक्षेपहेतुः । बीजनिर्मुक्तः तदन्यः प्रत्ययः परिग्रहहेतुः । तदेव बीजं स्वफलस्य निर्वृत्तिहेतुः । तत्पुनर्बीजनिर्वृत्तं फलमुत्तरस्य बीजाक्षिप्तस्य फलस्यावाहकहेतुः नानाविजातीय-विभिन्नकारणत्वं प्रतिनियमहेतुः । यश्चापेक्षाहेतुः यश्चाक्षेपहेतुः यश्च परिग्रहहेतुर्यश्च निर्वृत्तिहेतुर्यश्चावाहकहेतुर्यश्च प्रतिनियमहेतुरित्येतान् सर्वान् हेतूनेकध्यमभिसंक्षिप्य सहकारिहेतुरित्युच्यते । उत्पत्तावान्तरायिको हेतुविरोधहेतुः । अन्तरायवैकल्यमविरोधहेतुः ।

तत्र विरोधः समासतः षड्विधः । वाग्विरोधः । तद्यथा शास्राणि पूर्वापरविरुद्धानि भवन्ति तदेकत्यानां श्रमणब्राह्मणानां युक्तिविरोधः । साध्यस्य ज्ञेयस्यार्थस्य साधनायोपपत्तिसाधनयुक्तिरयुज्यमाना भवति । उत्पतिविरोधः । तद्यथा उत्पत्ति प्रत्ययवैकल्पादुत्पत्त्यान्तरायिकधर्मसान्निध्याच्चोपत्तिर्न भवति । सहवस्थान विरोधः । तद्यथा आलोकतमसो रागद्वेषयोः सुखदुःखयोः । विप्रत्यनीकविरोधः । तद्यथा अहिनकुलयोर्मार्जारमूषिकयोरन्योन्यप्रत्यर्थिकयोश्च प्रत्यमित्रयोः । विपक्षप्रातिपक्षिकश्च विरोधः । तद्यथाऽशुभभावना-कामरागयोः मैत्रीभावना-व्यापादयोः करुणाभावनाविहिंसयोः बोध्यङ्गार्याष्टाङ्गमार्गभावनायाः सर्वक्लेशानाञ्च त्रैधातुकावचराणामस्मिंस्त्वर्थे उत्पत्तिविरोध एवाभिप्रेतः ।

पुनः सर्वेषामेषां हेतूनां द्वाभ्यां हेतुभ्यां संग्रहः । जनकेन च हेतुना (दुत्त्७०) उपायहेतुना च । यदाक्षेपकं निर्वर्तकञ्च बीजं तज्जनको हेतुः । अवशिष्टा हेतव उपायहेतुर्वेदितव्यः ।

चत्वारः प्रत्ययाः हेतुप्रत्ययः समनन्तरप्रत्ययः आलम्बनप्रत्ययः अधिपतिप्रत्ययश्च । तत्र यो जनको हेतुः सः हेतुप्रत्ययः । यः पुनरुपायहेतुः सोऽधिपतिप्रत्ययो वेदितव्यः । समनन्तरप्रत्ययश्चालम्बनप्रत्ययश्च चित्तचैतसिकानामेव धर्माणाम् । तथा हि चित्तचैतसिका धर्माः प्रागुत्पन्नावकाशदानपरिगृहीता आलम्बनपरिगृहीताश्च प्रादुर्भवन्ति प्रवर्तन्ते च । तस्मात्समनन्तरप्रत्यय आलम्बनप्रत्ययश्च परिग्रहहेतुना संगृहीतौ वेदितव्यौ ।

तत्र कथमेभिर्दशभिर्हेतुभिः सर्वलौकिका भावाःप्रवर्तन्ते । कथञ्च संक्लेशो भवति । कथञ्च व्यवदानम् । यानीमानि विविधानि सस्यानि धान्यसंख्यातानि लोके यैरयं लोको जीविकां कल्पयति तेषां तावद्यदिदं नाम संज्ञा व्याग्व्याहारो विविधस्तद्यथा यवशालिगोधूमतिलमुद्गमाषकुलत्थादिकः । अयमेषामनुव्यवहारहेतुः यवा आनीयन्तां दीयन्तां पिष्यन्तां स्थाप्यन्तामित्येवमादिकस्य व्यवहारस्य यथा यवा एवमवशिष्ठेष्वपि वेदितव्यं जिघत्सापिपासादौर्बल्यं कायस्थित्यपेक्षं कवडीकाराहारास्वादापेक्षञ्च । तेष्वर्थित्वं पर्येषणा उपनादानमुपभोगश्च भवति । अयमेषामपेक्षाहेतुः । यतो यतः स्वबीजाद्यस्य [यस्य] सस्यस्य प्रादुर्भावो भवति तद्बीजं तस्याक्षेपहेतुः । पृथिवीवृष्ट्यादिकः प्रत्ययोऽड्कुरप्रादुर्भावाय परिग्रहहेतुः तद्बीजं तस्याङ्कुरस्याभिनिर्वृत्तिहेतुः । स खल्वङ्कुरकाण्ड पत्रपरंपरासन्तानस्तस्याः सस्यनिष्पत्तेः सस्यपरिपाकग्यावाहकहेतुः । यवबीजाच्च यवाङ्कुरस्य यवसस्यस्य च प्रादुर्भावो भवति नान्यस्य । एवं परिशिष्टेभ्यो वेदितव्यम् । अयमेषां प्रतिनियमहेतुः । सर्वे चैते अपेक्षाहेतुमुपादाय प्रतिनियमहेत्वन्ताहेत वः सस्यस्याभिनिष्पत्तये सहकारिहेतुः । न हि तद्धान्यमन्यतमहेतुवैकल्यान्निष्पद्यते । तस्मात्सर्वा सा सामग्री सहकारिहेतुरित्युच्यते । अशनि-सस्यरोगनिपातादयोऽन्तराया विरोधहेतुः । तद्वैकल्यं नानन्तरायः अविरोधहेतुः । एवमेते दश हेतवस्तदन्येष्वपि लौकिकेषु भावेषु यथायोगं वेदितव्याः । तद्यथा धान्यपरिग्रहे ।

(दुत्त्७१)
तत्र सर्वस्य प्रतीत्यसमुत्पादस्य यदिदं नामसंज्ञा-वाग्व्याहारः तद्यथा अविद्या संस्कारा विज्ञानं नामरूपंविस्तरेण यावज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः । इत्ययन्तावत्संक्लेशस्यानुव्यवहारहेतुः । अविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्ययं जरामरणमित्येवमादिकस्य अनुव्यवहारस्य विषयास्वादापेक्षा चैषु भवाङ्गेषु प्रवृतिः । अयमस्य संक्लेशस्यापेक्षाहेतुः । अविद्यादीनां धर्माणां दृष्टे धर्मे यानि बीजानि जातस्य भूतस्येह तान्यन्यजान्मिकस्य जातिजरामरणस्याक्षेपहेतुः । असत्पुरुषसंसेवाऽसद्धर्मश्रवणमयोनिशोमनस्कारः पूर्वाभ्यासावेधश्चाविद्यादीनामुत्पत्तये परिग्रहहेतुः । स्वकस्वकं बीजमविद्यादीनां निर्वृंत्तिहेतुः । ते पुनरविद्यादयो भवपर्यवसाना उत्तरोत्तरावाहनपारंपर्येण तस्यान्यजान्मिकस्य जातिजरामरणस्यावाहकहेतुः । अन्ये सह स्ववीर्यैरविद्यादयो भवपर्यवसाना नरकोपपत्तये संवर्तन्ते । अन्ये तिर्यक्प्रेतमनुष्यदेवोपपत्तये । इत्येयं संक्लेशस्य प्रतिनियमहेतुः । अपेक्षाहेतुमादिं कृत्वा सर्व एते हेतवः प्रतिनियमहेतुपर्यवसानाः सहकारिहेतुरित्युच्यते । तस्य पुनः संक्लेशस्य विरोधहेतुः गोत्रसंपद्बुद्धानामुत्पादः सद्धर्मस्य देशना सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशो मनस्कारो धर्मानुधर्मप्रतिपत्तिः सर्वे च बोधिपक्ष्या धर्माः । अविरोधहेतुरेषामेव यथोद्दिष्टानां धर्माणां वैकल्यं विरहितत्वम् । एवमेभिर्दशभिर्हेतुभिः सर्वः संक्लेशः सर्वसत्त्वानां वेदितव्यः । तत्र यः सर्वेषु व्यवदानपक्ष्येषु
धर्मेंषु निरोधे च निर्वाणे नामसंज्ञावाग्व्याहारः । अयं व्यवदानस्यानुव्यवहारहेतुः । इतीमानि स्मृत्युपस्थानानि सम्यक्प्रहाणानि यावदार्याष्टाङ्गो मार्गंः । अविद्यानिरोधाच्च संस्कारनिरोधो विस्तरेण यावज्जातिनिरोधाज्जरामरणनिरोध इत्यस्यैवंभागीयस्यानुव्यवहारस्य । तत्र या संस्कारादीनवापेक्षा व्यवदानपर्येषणा व्यवदानपरिग्रहो व्यवदानपरिनिष्पत्तिः अयमस्यापेक्षाहेतुः । या गोत्रस्थस्य पुद्गलस्य गोत्रसंपत्सोपधिशेष [निरूपधिशेष] निर्वाणाधिगमाय पूर्वङ्गमाय । [अयं] व्यवदानस्याक्षेपहेतुः । सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनस्कारः पूर्वकृतश्चेन्द्रियपरिपाकः परिग्रहहेतुः । तानि गोत्रसंगृहीतान्यनास्रवबोधिपक्ष्यधर्मबीजानि तेषां बोधिपक्ष्याणां धर्माणामभिनिर्वृत्तिहेतुः ते पुनः स्वबीजान्निर्वृत्ता बोधिपक्ष्या धर्माः सोपधिशेष-निरुपधिशेषनिर्वाणधात्वोः क्रमेणावाहकहेतुः । (दुत्त्७२) तत्र यच्छ्रावकगोत्रं श्रावकयानेन परिनिर्वाणाय संवर्तते प्रत्येकबुद्धगोत्रं प्रत्येकबुद्धयानेन परिनिर्वाणाय संवर्तते महायानगोत्रं महायानेन परिनिर्वाणाय संवर्तते अयं व्यवदानस्य प्रतिनियमहेतुः । यश्चापेक्षाहेतुर्व्यवदानपक्ष्यो यश्च यावत्प्रतिनियमहेतुरयमस्य सहकारिहेतुरित्युच्यते । गोत्रासम्पन्नता बुद्धानामनुत्पादः अक्षणेपपत्तिरसत्पुरुषसंसेवाऽसद्धर्मश्रवणमयोनिशोमनस्कारो मिथ्याप्रतिपत्तिः विरोधहेतुः । अस्यैव विरोधहेतोर्यद्वैकल्यविरहितत्वमयमुच्यतेऽविरोधहेतुः । तत्र यः संक्लेशपक्ष्यो विरोधहेतुः स व्यवदानहेतुर्द्रष्टव्यः । यो
व्यवदानपक्ष्यो विरोधहेतुः स संक्लेशहेतुर्द्रष्टव्यः । एवमेभिर्दशभिर्हेतुभिः संक्लेशो दशभिरेव व्यवदानं भवत्यतीतेऽप्यध्वन्यभूदनागतेऽप्यध्वनि भविष्यति संक्लेशाय वा व्यवदानाय वा न एभ्य उत्तरि न एभ्यो भूयानन्यो हेतुर्विद्यते ।

तत्र फलं कतमत् । समासतः पञ्च फलानि । विपाकफलं निष्यन्दफलं विसंयोगफलं पुरुषकारफलमधिपतिफलञ्च ।

अकुशलानां धर्माणामपायेषु विपाको विपच्यते । कुशलसास्रवाणां सुगतौ । तद्विपाकफलम् । यत्पुनरकुशलाभ्यासादकुशलारामता संतिष्ठते अकुशलबहुलता कुशलाभ्यासात्कुशलारामता कुशलबहुलता पूर्वकर्मसादृश्येन वा पश्चात्फलानुवर्तनता तन्निष्यन्दफलम् । आर्याष्टाङ्गस्य मार्गस्य क्लेशनिरोधो विसंयोगफलम् । यः पुनलौकिकेन मार्गेण क्लेशनिरोधः स नात्यन्तमनुवर्तते पृथग्जनानाम् । तस्मात्तन्न विसंयोगफलम् । यत्पुनरेकत्यदृष्टे धर्मेऽन्यतमान्यतमेन शिल्पकर्मस्थानसन्निश्रितेन पुरुषकारेण यदि वा कृष्या यदि वा वणिज्यया यदि वा राजपौरुष्टेण लिपि-गणन-न्यसन-संख्या-मुद्रया सस्यादिकं लाभादिकञ्च फलमभिनिर्वर्तयति इदमुच्यते पुरुषकारफलम् । चक्षुविज्ञानञ्चुक्षुरिन्द्रियस्याधिपतिफलम् । एवं यावन्मनोविज्ञानं मनैन्द्रियस्य । तथा प्राणैरवियोगो जीवितेन्द्रियस्य । इति सर्वेषामिन्द्रियस्य । इति सर्वेषामिन्द्रियाणां द्वाविंशतीनां स्वेन स्वेनाधिपत्येन यत्फलं निर्वर्तते तदधिपतिफलं वेदितव्यम् । तच्चाधिपत्यं द्वाविंशतीनामिन्द्रियाणां वेदितव्यम् । तद्यथा वस्तु संग्रहण्याम् । (दुत्त्७३) एवं हि बोधिसत्त्वो बुद्धवचनं सम्यघेतुफलपरिदीपनाकारं विदित्वा स्थानास्थानज्ञानबलगोत्रमासेवनान्वयात्क्रमेण विशोधयति विवर्धयति च ।

न चाकृतमन्यकृतं वा कस्यचिद्विपच्यते । न च स्वयं कृतानां कर्मणां कल्पशतैरपि प्रणाशो भवति फलदानं प्रति । एवमकृतानभ्यागमकृताविप्रणाशं बुद्धवचनं परिदीपितं बोधिसत्त्वो यथाभूतं ज्ञात्वा कर्म-स्वकता-ज्ञानबलगोत्रं क्रमेण विशोधयति विवर्धयति च ।

तत्र कथं बोधिसत्त्वः श्रुतं पर्येषते । इह बोधिसत्त्वस्तीव्रं गौरवमुपस्थाप्य सुभाषिते सुलपिते धर्म पर्येषते । एवंरूपश्चास्य समासेन सुभाषितगौरवं प्रत्युपस्थितं भवति । यदसौ बोधिसत्त्व एकसुभाषितश्रवणहेतोरपि तप्तां ज्वलितामप्ययोमयीं भूमिं परेण प्रामोद्येनादरेण प्रविशेद्यद्यन्यथा सुभाषितश्रवणं न लभेत प्रागेव प्रभूतस्य सुभाषितस्यार्थे । यच्च बोधिसत्त्वस्य स्वे आत्मभावे समुच्छ्रये प्रेमगौरवं प्रागेवान्येषु सर्वकायपरिष्कारेषु भोजनपानादिषु । यच्च सुभाषितश्रवणे पूर्वकं प्रेमगौरवं पश्चिमं प्रेमगौरवमुपनिधाय शततमीमपि कलां नोपैति सहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपनिषदमपि नोपैति स तथा सुभाषिते गौरवजातः सुभाषितं शृण्वन्नखिन्नश्च भवत्त्यतृप्तश्च । श्राद्धश्च भवति प्रसादबहलश्चार्द्रसन्तान ऋजुकदृष्टिः । सगुण कामतया धर्मकामतया धर्मभाणकमुपसंक्रामति नोपारम्भाभिप्रायेण सगौरवतया न मानस्तम्भेन किंकुशलगवेषणतया न आत्मोद्भावनार्थमात्मानञ्च परांश्च कुशलमूले संनियोजयिष्यामीति न लाभसत्कारहेतोः ।

स एवमुपसंक्रमणसंपन्नः असंक्लिष्टश्च धर्म शृणोत्यविक्षिप्तश्च ।

कथमसंक्लिष्टः शृणोति । स्तम्भसंक्लेशविगतोऽवमन्यनासंक्लेशविगतः लय-संक्लेशविगतश्च ।

तत्र षड्भिराकारैः स्तम्भसंक्लेशविगतो भवति । चतुर्भिराकारैरवमन्यासंक्लेशविगतो भवति । एकेनाकारेण लयसंक्लेशविगतो भवति । कालेन शृणोति सत्कृत्य शुश्रूषमाणो नासूयन्ननुविधीयमानोऽनुपारम्भप्रेक्षी । एभिः षड्भिराकारैः स्तम्भसंक्लेशविगतः ।

(दुत्त्७४)
धर्मे गौरवमुपस्थाप्य धर्मभाणके पुद्गले गौरवमुपस्थाप्य धर्ममपरिभवन् धर्मभाणकं पुद्गलमपरिभवनेभिश्चतुर्भिराकारैरवमन्यनासंक्लेशविगतः शृणोति ।

आत्मानमपरिभवन् शृणोति । अनेनैकेनाकारेण लयसंक्लेशविगतः शृणोति । एवं हि बोधिसत्त्वः असंक्लिष्टो धर्म शृणोति ।

तत्र कथं बोधिसत्त्वः अविक्षिप्तो धर्मं शृणोति । पञ्चभिराकारैः । आज्ञाचित्त एकाग्रचित्तः अविहितश्रोत्रः समावर्जितमानसः सर्वचेतसा समन्वाहृत्य धर्मं शृणोति । एवं हि बोधिसत्त्वः श्रुतं पर्येषते ।

तत्र किमर्थं बोधिसत्त्वः श्रुतं पर्येषते । बुद्धवचनं तावद्बोधिसत्त्वः पर्येषते । सम्यग्धर्माप्रतिपत्ति संपादनार्थं परेषाञ्च विस्तरेणसंप्रकाशनार्थम् । हेतुविद्यां बोधिसत्त्वः पर्येषते तस्यैव शास्त्रस्य दुर्भाषितदुर्लपितताया यथाभूत परिज्ञानार्थं परवादनिग्रहार्थं चाप्रसन्नानामस्मिंच्छासने प्रसादाय प्रसन्नानाञ्च भूयोभावाय । शब्दविद्यां बोधिसत्त्वः पर्येषते । संस्कृतलपिताधिमुक्तानात्मनि संप्रत्ययोत्पादनार्थं सनिरुक्तपदव्यञ्जननिरूपणतया एकस्य चार्थस्य नानाप्रकारनिरुत्त्यनुव्यवहारानुप्रवेशार्थम् । चिकित्साशास्त्रं बोधिसत्त्वः पर्येषते सत्त्वानां नानाप्रकारव्याधिव्युपशमनार्थं महाजनकायस्यानुग्रहार्थम् । लौकिकानि शिल्पकर्मस्थानानि बोधिसत्त्वः पर्येषतेऽल्पकृच्छ्रेण भोगसंहरणार्थं सत्त्वानामर्थाय सत्त्वानाञ्च बहुमानोत्पादनार्थं शिल्पज्ञानसंविभागेन चानुग्रहसंग्रहार्थम् । सर्वाणि च एतानि पञ्चविद्यास्थानानि बोधिसत्त्वः पर्येषतेऽनुत्तरायाः सम्यक्संबोधेर्महाज्ञानसम्भारपरिपूणार्थम् । न हि सर्वत्रैवमशिक्षमाणः क्रमेण सर्वज्ञज्ञानमनावरणं प्रतिलभते । यत्तावद्वोधिसत्त्वः पर्येषते यथा च पर्येषते यदर्थञ्च पर्येषते तन्निर्दिष्टम् ।

तत्र किं बोधिसत्त्वः परेषां देशयति । कथञ्च देशयति । किमर्थञ्च देशयति । तत्र यदेव पर्येषते तदेव देशयति । यदर्थञ्च पर्येषते तदर्थमेव परेषां देशयति । द्वाभ्यां पुनराकाराभ्यां देशयति । अनुलोमां च कथां कथयति परिशुद्धां च । तत्र (दुत्त्७५) कथमनुलोमां कथां कथयति । अनुरूपेणेर्यापिथेन स्थिताय देशयति नाप्रतिरूपेण । न उच्चतरके आसने निषण्णायाग्लानाय नोद्गुन्ठिकाकृताय न पुरतो गच्छते विस्तरेण यथासूत्रं वेदितव्यम् । तत्कस्य हेतोः । धर्मगुरवो हि बुद्धबोधिसत्त्वाः । धर्मे हि तत्क्रियमाणे परेषामधिमात्रं धर्मगौरवमुत्पद्यते । श्रवणे चादरजाता भवन्ति नावज्ञाजाताः । सर्वेषां च देशयति । निरन्तरं सर्वं च देशयति । धर्ममात्सर्यमकुर्वन्नाचार्यमुष्टिं धर्मेषु करोति । यथाक्रमं पदव्यंजनमुद्दिशति । यथाक्रमोद्दिष्टं च पदव्यंजनं यथाक्रममेवार्थतो विभजति । अर्थोपसंहितं च धर्ममर्थं चोद्दिशति नानर्थोपसंहितम् । संदर्शयितव्यां संदर्शयति समादापयितव्यां समादापयति समुत्तेजयितव्यां समुत्तेजयति संप्रहर्षयितव्यां संप्रहर्षयति । प्रत्यक्षानुमानाप्तागमयुक्तां च कथां करोति नाप्रमाणयुक्ताम् । सुगतिगमनानुकूलामपि अव्याकुलामपि सुप्रवेशांन गहनां चतुरार्यसत्यप्रतिसंयुक्तामपि सर्वासाञ्च परिषदां या परिषद्या कथा यथार्हति तां तथास्यै कथं करोति । एभिस्तावत्पञ्चदशभिराकारैर्बोधिसत्त्वानां सत्त्वेष्वनुलोमा सर्वपरार्थेषु कथा वेदितव्या ।

पुनश्च बोधिसत्त्वः अपकारिषु [सत्त्वेषु] मैत्रचित्ततामुपस्थाप्य कथां करोति । दुश्चरितचारिषु सत्त्वेषु हितचित्ततामुपस्थाप्य कथां कथयति । सुखितदुःखितेषु सत्त्वेषु प्रमत्तेषु दीनेषु हितसुखानुकम्पाचित्ततामुपस्थाप्य कथां करोति । न चेर्ष्यापर्यवस्थानमधिपतिं कृत्वा आत्मानमुत्कर्षयति । न परान् पंसयति । निरामिषेण च चित्तेनाप्रतिकांक्षमाणो लाभसत्कारश्लोकं परेषां धर्मान् देशयति ।

एभिः पञ्चभिराकारैर्बोधिसत्त्वः परिशुद्धां कथां कथयति । त एते समासतो विंशतिराकारा भवन्ति । कालेन सत्कृत्यानुपूर्वमनुसन्ध्यनुसहितं हर्षयता रोच[यता] तोषयता उत्साहयता अनवसादयता युक्ता सहिताऽव्यवकीर्णानुधार्मिकी यथा परिषत्मैत्रचित्तेन हितचित्तेनानुकम्पाचित्तेनानिश्रितेन लाभसत्कारश्लोके आत्मानमनुत्कर्षयता परांश्चापंसयता । एवं बोधिसत्त्वः परेषां धर्मं देशयति ।

(दुत्त्७६)
[तत्र] कतमा बोधिसत्त्वस्य धर्मानुधर्मप्रतिपत्तिः । समासतः पञ्चविधा वेदितव्या । तेषामेव [यथा] पर्येषितानां यथोद्गृहीतानां धर्माणां कायेन वाचा मनसा चानुवर्तना सम्यक्चिन्तना भावना च ।

येषां धर्माणां भगवता कायेन वाचा मनसा क्रिया निषिद्धा येषाञ्चाभ्यनुज्ञाता कायेन वाचा मनसा क्रिया तस्य कायवाङ्मनस्कर्मणस्तथैव परिवर्जनं प्रतिनिषेवणा समुदानयता च । कायेन वाचा मनसा चानुवर्तना धर्मानुधर्मप्रतिपत्तिरित्युच्यते ।

तत्र सम्यक्चिन्तना बोधिसत्त्वस्य कतमा । इह बोधिसत्त्व एकाकी रहोगतो यथाश्रुतां धर्मांश्चिन्तयितुकामस्तुलयितुकाम उपपरीक्षितुकाम आदित एवाचिन्त्यानि स्थानानि विवर्जयित्वा धर्मांश्चिन्तयितुमारभते प्रततञ्च चिन्तयति । सातस्य सत्कृत्य प्रयोगेण न श्लथम् । किञ्चिच्च बोधिसत्त्वश्चिन्ताप्रयुक्तो युक्त्या विचारयत्यनुप्रविशति । किञ्चिदधिमुच्यत एव । अर्थप्रतिसरणश्च भवति चिन्तयन्न व्यञ्जनप्रतिसरणः । कालानदेशमहापदेशांश्च यथाभूतं प्रजानाति । आदिप्रवेशेन न चिन्तां प्रविशति । प्रविष्टश्च पुनः पुनर्मनसिकारतः सारतामुपनयति । अचिंन्त्यं वर्जयन् बोधिसत्त्वः सम्मोहं चिंत्ताविक्षेपं नाधिगच्छति । प्रततं सातत्य-सत्कृत्य-प्रयुक्तश्चिन्तयन्नविज्ञातपूर्वञ्चार्थ विजानाति लभते विज्ञातञ्च । प्रतिलब्धमर्थं न विनाशयति न संप्रमोषयति । युक्त्या पुनः किञ्चित्प्रवि[चिन्वन्] प्रविशयन् विचारयन्न परप्रत्ययो भवति । तेषु युक्तिपरीक्षितेषु धर्मेषु किञ्चित्पुनरधिमुच्यमानो येऽप्यस्य धर्मेषु गम्भीरेषु बुद्धिर्नावगाहते तथागतगोचरा एते धर्मा नास्मद्बुद्धिगोचरा इत्येवमप्रतिक्षिपंस्तान् धर्मानात्मानमक्षतञ्चानुपहतञ्च परिहरत्यनवद्यम् । अर्थं प्रतिसरन् बोधिसत्त्वो न व्यञ्जनं बुद्धानं भगवतां सर्वसन्ध्याय-वचनान्यनुप्रविशति । कालापदेशमहापदेशकुशलो बोधिसत्त्वः तत्त्वार्थान्न विचलयितुं न विकम्पयितुं केनचित्कथंचिच्छक्यते । आदितश्चिन्तामनुप्रविशन् बोधिसत्त्वः अप्रतिलब्धपूर्वां क्षान्तिं प्रतिलभते । तामेव पुनः प्रतिलब्धां (दुत्त्७७) क्षान्तिं सारतामुपनयन् बोधिसत्त्वः भावनाम नुप्रविशति । एभिरष्टाभिराकारैर्बोधिसत्त्वश्चिन्तासंगृहीतां धर्मानुधर्मप्रतिपत्ति प्रतिपन्नो भवति ।

भावना कतमा । समासतश्चतुर्विधा वेदितव्या । शमथो विपश्यना शमथविपश्यनाभ्यासः शमथविपश्यनाभिरतिश्च ।

तत्र शमथः कतमः । यथापि तद्वोधिसत्त्वः अष्टाकारायाश्विन्तायाः सुसमाप्तत्वान्निरभिलाप्ये वस्तुमात्रेऽर्थमात्रे आलम्बने चित्तमुपनिबध्य सर्वप्रपञ्चापगतेन सर्वचित्तपरिप्लवापगतेन संज्ञा-मनसिकारेण सर्वालम्बनान्यधिमुच्यमानः अध्यात्मसमाधिनिर्मित्तेषु चित्तं संस्थापयति अवस्थापयति विस्तरेण यावदेकोतीकरोति समाधत्ते । अयमुच्यते शमथः ।

विपश्यना कतमा तेनैव पुनः शमथपरिभावितेन मनस्कारेण यथा चिन्तितानां धर्माणां निमित्तमनसिक्रिया विचयः प्रविचयो धर्मप्रविचयः विस्तरेण यावत्पाण्डित्यं प्रज्ञाचारः । इयमुच्यते विपश्यना ।

शमथविपश्यनाभ्यासः कतमः । यः शमथविपश्यनायाञ्च सातत्यप्रयोगः सत्कृत्यप्रयोगश्च ।

शमथविपश्यनाभिरतिः कतमा । तेष्वेव शमथविपश्यना-निमित्तेषु यच्चित्तस्याचलनं स्वरसेनैवाभिसंस्कारवाहितास्थानं संग्रहोऽविसरणा । इयमुच्यते शमथविपश्यनाभिरतिः

तत्र बोधिसत्त्वो यथा यथा शमथविपश्यनाभ्यासं करोति तथा तथा शमथविपश्यनाभिरतिः संतिष्ठते । यथा यथा शमथविपश्यनाभिरतिः संतिष्ठते तथा तथा शमथो विपश्यना च परिशुध्यतः । यथा यथा शमथो विशुध्यति तथा तथा कायप्रस्रब्धिश्चित्तप्रस्रब्धिः पृथुवृद्धिवैपुल्यतां गच्छति । यथा यथा विपश्यना विशुध्यति तथा तथा ज्ञानदर्शनं पृथुवृद्धिवैपुल्यतां गच्छति । एतावच्च भावनायाः करणीयम् । यदुताश्रयगतञ्च दौष्ठुल्यमनपनेतव्यं सर्वत्र च ज्ञेये ज्ञानदर्शनं विशोधयितव्यं च । चैतत्सर्वं भावनाकर्मानया चतुराकारया भावनया बोधिसत्त्वस्य संपद्यते ।

(दुत्त्७८)
अववादः कतमः । समासतोऽष्टविधो वेदितव्यः । यथापि तद्वोधिसत्त्वः समाधिसन्निश्रयेण वा संवासान्वयाद्वा येषामववदितुकामो भवति यो वा पुनरन्यो बोधिसत्त्वोऽस्मै अववदति तथागतो वा स आदित एव चित्तं पर्येषते जानाति । चित्तं पर्येष्य इन्द्रिय पर्येषते जानाति । इन्द्रियं पर्येष्य आश्रयं पर्येषते जानाति । आशयं पर्येष्यानुशयं पर्येषते जानाति । अनुशयं पर्येष्य यथायोगं यथार्हमेव विचित्रेष्ववतारमुखेष्ववतारयति । यदि वाऽशुभया यदि वा मैत्र्या यदि वा इदंप्रत्ययता-प्रतीत्यसमुत्पादेन यदि वा धातुभेदेन यदि वा आनापानस्मृत्या यथायोगं यथार्हमवरतारमुखेष्ववतार्य शाश्वतान्तासद्ग्राह प्रतिपक्षेण मध्यमां प्रतिपदं देशयति । उच्छेदान्तासद्ग्राह प्रतिपक्षेण मध्यमां प्रतिपदं देशयति । अकृते च कृताभिमानं त्याजयति । अप्राप्ते अस्पर्शिते असाक्षात्कृते साक्षात्कृताभिमानं त्याजयति ।

सोऽयमष्टविधोऽववादः पुनः समासतस्त्रिभिः स्थानैः संगृहीतो वेदितव्यः । त्रीणि स्थानानि कतमानि । अस्थितस्य चित्तस्यादितोऽवस्थितये सम्यगालम्बनोपनिबन्धः । स्थितचित्तस्य च स्वार्थप्राप्तये सम्यगुपायमार्गदेशना । अनिष्ठितस्वकार्यस्य चान्तराधिष्ठानपरित्यागः । तत्र चित्तेन्द्रियाशयानुशयज्ञानेन यथायोगमवतारमुखावतारणतया च चित्तस्थितये सम्यगालम्बनोपनिबन्धो वेदितव्यः । तत्र शाश्वतोच्छेदान्तासद्ग्राहप्रतिपक्षेण मध्यमया प्रतिपदा स्थितचित्तस्य स्वार्थप्राप्तये सम्यगुपायमार्गदेशना वेदितव्या । तत्राकृते यावदसाक्षात्कृते साक्षात्कृताभिमानत्याजनतया अनिष्ठितस्वकार्यस्यान्तराधिष्ठानपरित्यागो वेदितव्यः । एवमेभिस्त्रिभिः स्थानैरष्टविधोऽववादः संगृहीतो वेदितव्यः ।

एव मेवाववादं परतो वा लभमानो बोधिसत्त्वः परेषां वानुप्रयच्छन्नष्टानां बलानां गोत्रं क्रमेण विशोधयति विवर्धयति ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलस्येन्द्रियपरापरज्ञानबलस्य नानाधिमुक्तिज्ञानबलस्य नानाधातुज्ञानबलस्य सर्वत्र गामिनी प्रतिपज्ज्ञानबलस्य पूर्वेनिवासानुस्मृतिज्ञानबलस्य च्युत्युपपत्तिज्ञानबलस्य च ।

(दुत्त्७९)
तत्रानुशासनं कतमत् । तत्पञ्चविधं वेदितव्यम् । सावद्यसमुदाचारप्रतिषेधः अनवद्यसमुदाचाराभ्यनुज्ञा प्रतिषिद्धाभ्यनुज्ञातेषु धर्मेषु स्खलितसमाचार-संचोदना पुनः पुनरनादरजातस्य स्खलतः अवसादनया स्मृतिकरणानुप्रदानमकलुषेणाविपरिणतेन स्निग्धेनाशयेन । सम्यक्प्रतिपन्नस्य च प्रतिषिद्धाभ्यनुज्ञातेषु धर्मेषु भूतगुणप्रियाख्यानतया संप्रहर्षणा । इतीदं समासतः पञ्चाकारं बोधिसत्त्वानामनुशासनं वेदितव्यम् । यदुत प्रतिषेधोऽभ्यनुज्ञा चोदनाऽवसादना संप्रहर्षणा च ।

तत्रोपायसंगृहीतं बोधिसत्त्वानां कायवाङ्मनस्कर्म कतमत् । समासतो बोधिसत्त्वानां चत्वारि संग्रहवस्तून्युपाय इत्युच्यन्ते । यथोक्तं भगवता चतुःसंग्रहवस्तुसंगृहीतेनोपायेन समन्वागतो बोधिसत्त्वो बोधिसत्त्व इत्युच्यत इति । केन पुनः कारणेन चत्वारि संग्रहवस्तून्युपाय इत्युच्यन्ते । समासतश्चतुर्विध उपायः सत्त्वानां विनयाय संग्रहाय । नास्त्यत ऊत्तरि नास्त्यतो भूयः । तद्यथाऽनुग्राहको ग्राहकः अवतारकोऽनुवर्तकश्च । तत्र दानं बोधिसत्त्वस्यानुग्राहकमुपायः । तथा हि विचित्रेणामिषदानेनानुगृह्यमाणाः सत्त्वाः श्रोतव्यं कर्तव्यं वचनं मन्यते । तदनन्तरं बोधिसत्त्वः प्रियवादितया तत्र तत्र सम्मूढानां तत्सम्मोहाशेषापनयाय युक्तिं ग्राहयति सन्दर्शयति । एवमस्य प्रियवादिता ग्राहक उपायो भवति । तथा च युक्त्या ग्राहितान् सन्दर्शितान्सत्त्वानकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने समादापयति विनयति निवेशयति प्रतिष्ठापयति । सास्यार्थचर्या भवत्यवतारक उपायः । एवञ्च बोधिसत्त्वः तान्सर्वानवतार्य तत्सभागवृत्तसमाचारेणानुवर्तते येनास्य न भवन्ति विनेया वक्तारः । त्वं तावदात्मना न श्रद्धासम्पन्नः शीलसम्पन्नस्त्यागसम्पन्नः प्रज्ञासम्पन्नः कस्माद्भवान् परानत्र समादापयति । तेन च चोदयति स्मारयतीति तस्मात्समानर्थता बोधिसत्त्वस्य चतुर्थोऽनुवर्तक उपायो वेदितव्यः ।

इत्येभिश्चतुर्भिरुपायर्यत्परिगृहीतं समस्तैर्व्यस्तैर्वा बोधिसत्त्वस्य कायकर्म वाक्कर्म मनस्कर्म । तदुपायपरिग्रहणामित्युच्यते सत्त्वानां सम्यक्संग्रहाय विनयाय परिपाचनाय ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने अष्टमं बलगोत्रपटलम् ।


(दुत्त्८०)
दानपटलम् (अध्याय १.९)

उद्दानम् ।

स्वभावश्चैव सर्वञ्च दुष्करं सर्वतोमुखम् ।
स्यात्सात्पौरुष्ययुक्तञ्च सर्वाकारं तथैव च ॥
विघातार्थिकयुक्तञ्च इहामुत्र सुखं तथा ।
विशुद्धञ्च नवाकारं दानमेतत्समासतः ॥

इह बोधिसत्त्वः क्रमेण षट्पारमितां परिपूर्यानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । दानपारमितां शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताञ्च ।

तत्र कतमा बोधिसत्त्वस्य दानपारमिता । नवाकारं दानं बोधिसत्त्वस्य दानपारमितेत्युच्यते । स्वभावदानं सर्वदानं दुष्करदानं सर्वतोमुखं दानं सत्पुरुषदानं सर्वाकारदानं विघातार्थिकदानमिहामुत्रसुखं दानं विशुद्धदानं च ।

कश्च दानस्य स्वभावः । या चेतना सर्वपरिष्कार-स्वदेहनिरपेक्षस्य बोधिसत्त्वस्य केवलाध्यात्मिकवस्तुपरित्यागाय कायवाक्कर्मानवद्यश्च सर्वदेयवस्तुपरित्यागः । संवरस्थायिनः आगमदृष्टेः फलदर्शिनो यो येनार्थी तस्य च तद्वस्तुप्रतिपादना बोधिसत्त्वस्य दानस्वभावो वेदितव्यः ।

तत्र सर्वदानं कतमत् । सर्वमुच्यते समासतो द्विविधं देयवस्तु । आध्यात्मिकं बाह्यञ्च । तत्र आ मज्ज्ञः स्वदेहपरित्यागो बोधिसत्त्वस्य केवलाध्यात्मिकवस्तुपरित्याग इत्युच्यते । यत्पुनर्बोधिसत्त्वो वान्ताशिनां सत्त्वानामर्थे भुक्त्वा भुक्त्वाऽन्नपानं वमति । तत्संसृष्टमाध्यात्मिकबाह्यवस्तुदानं बोधिसत्त्वस्येत्युच्यते । एतद्यथोक्तं स्थापयित्वा परिशिष्टदेयवस्तुपरित्यागो बाह्यदेयवस्तुपरित्यागः एवोच्यते । तत्र बोधिसत्त्वः परेषां देहार्थिनां समासतो द्वाभ्यामाकाराभ्यां स्वदेहमनुप्रयच्छति । यथाकामकरणीयं वा परवश्यं परविधेयमात्मानं परेषामनुप्रयच्छति । तद्यथापि नाम कश्चित्परेषां (दुत्त्८१) भक्ताच्छादनहेतोर्दासभावमुपगच्छेत् । एवमेव निरामिषचित्तो बोधिसत्त्वः परमबोधिकामः परहितसुखकामो दानपारमित्तां परिपूरयितुकामो यथाकरणीयं परेषां वश्यं परविधेयमात्मानं परेषामनुप्रयच्छति । करचरणनयनशिरोऽङ्गप्रत्यङ्गार्थिनां मांसरुधिरस्नाय्वर्थिनां यावन्मज्जायिनां यावन्मज्जानमनुप्रयच्छति । द्वाभ्यामेव कारणाभ्यां बोधिसत्त्वो बाह्यं वस्तु सत्त्वेभ्यः परित्यजति । यथासुखपरिभोगाय वा याचितकमनुप्रयच्छति । तद्वशित्वाय वा सर्वेण सर्व निर्मुक्तेन चित्तेनानुप्रयच्छति । न च पुनर्बोधिसत्त्वः सर्वमाध्यात्मिकबाह्यं वस्त्वविशेषेणैव सर्वथा च सत्त्वानां ददाति । किञ्च बोधिसत्त्वो द्विविधादस्मादाध्यात्मिकबाह्याद्वस्तुनः सत्त्वानां ददाति । कथं न ददाति । यदस्मादाध्यात्मिकबाह्याद्वस्तुनः सत्त्वानां दानं सुखायैव स्यान्न तु हिताय नैव वासुखाय नापि हिताय तद्बोधिसत्त्वः परेषां न ददाति । यत्पुनर्हिताय स्यान्नावश्यं सुखाया-सुखाय वा पुनर्हिताय च तद्वोधिसत्त्वः परेषां
दानं ददाति । इत्ययं तावद्दानस्य चादानस्य च समासनिर्देशः ।

अतः परं विस्तरविभागो वेदितव्यः । इह बोधिसत्त्वः परोत्पीडनाय [परवधाय] परवञ्चनाय चायोगविहितेन चोपनिमन्त्रितमात्मानं परवश्यं परविधेयं न ददाति । अप्येव नाम बोधिसत्त्वः शतकृत्वः सहस्रकृत्वः स्वजीवितपरित्यागमपि परेषामन्तिकादभ्युपगच्छेत् । नत्वेव राज्ञया पराराधनार्थं परोत्पीडनां परवधं परवञ्चनां वा कुर्यात् । यदि च बोधिसत्त्वः शुद्धाशयो भवति दानमारभ्य सोऽपि सत्त्वकार्ये प्रभूते करणीये प्रत्युपस्थिते स्वदेहाङ्गप्रत्यङ्गयाचनके च प्रत्युपस्थिते न स्वदेहाङ्गप्रत्यङ्गान्यनुप्रयच्छति । तत्कस्य हेतोः । न ह्यस्य बोधिसत्त्वस्य दानमारभ्य शुद्धाशयस्य पुनः केनचित्पर्यायेणेदं दातव्यमस्मै दातन्यमिति भवति चेतसः संकोचः । तस्मादसौ बोधिसत्त्वो यदाशयशुद्ध्यर्थं प्रत्युपस्थितं सत्त्वकार्यमध्युपेक्ष्य दद्यात्सोऽस्याशयः शुद्ध इति न (दुत्त्८२) प्रत्युपस्थितं सत्त्वकार्यमध्युपेक्ष्य ददाति । न च मारकायिकेषु देवेषु याचनकेषु विहेठाभिप्रायेषु प्रत्युपस्थितेषु स्वदेहमङ्गविभागशो ददाति । मा हैव तेषामधिमात्रा क्षतिश्चोपहतिश्च भविष्यतीति यथा मारकायिकेषु देवेषु । एव तदादिष्टेषु सत्त्वेषु वेदितव्यम् । नापि चोन्मत्तक्षिप्तचित्तेषु बोधिसत्त्वः स्वदेहमङ्गविभागशोऽनुप्रयच्छति । न हि ते स्वचित्तेऽवस्थिताः । नार्थिनो मृगयन्ते । नान्यत्र विप्रलापः । स तेषामस्वतन्त्रत्वाच्चेतसः तस्मान्न ददाति । एतानाकारान् स्थापयित्वा एतद्विपर्ययात्स्वदेहं तावद्बोधिसत्त्वः परविधेयतया वाऽङ्गप्रत्यङ्गविभागशो वार्थिभ्यः परित्यजति । एवन्तावद्बोधिसत्त्वस्याध्यात्मिकस्य वस्तुनो दानञ्चादानञ्च वेदितव्यम् ।

बाह्यात्पुनर्वस्तुनो बोधिसत्त्वो यानि विषाग्निशस्त्रमद्यानि सत्त्वानामुपघाताय तानि नानुप्रयच्छत्यर्थिभ्यः आत्मोपघाताय वा याचितान्यर्थिनां परोपघाताय [वा] । यानि पुनर्विषाग्निशस्रमद्यान्यनुग्रहाय सत्त्वानां तानि बोधिसत्त्वो ददात्यर्थिभ्य आत्मनो वाऽनुग्रहाय याचितान्यर्थिनां परानुग्रहाय वा । पुनर्न च बोधिसत्त्वः परकीयं द्रविणमविश्वास्यं परेभ्योऽनुप्रयच्छति । न च बोधिसत्त्वः साञ्चरित्रेण परदारमुपसंहृत्य परेषामनुप्रयच्छति । न च सप्राणकं पानभोजनमनुप्रयच्छति । यदपि [रति]क्रीडोपसंहितमनर्थोपसंहितं सत्त्वानां बोधिसत्त्वस्य देयं वस्तु तदपि बोधिसत्त्वोऽर्थिभ्यो न ददाति । तत्कस्य हेतोः । यद्यपि तद्वस्तु तेषां चित्तप्रसादमात्रकमुत्पादयेद्बोधिसत्त्वस्यान्तिके । अपितु विपुलतरमस्य तद्दानमनर्थं कुर्याद्यद्धेतोरसौ मदं प्रमादं दुश्चरितमध्यापद्यमानः कायस्य भेदादपायेषूपपद्यते । स चेत्पुनस्तद्रतिक्रीडादिकं व तु नापायगमनाय भवेन्नापि चाकुशलमूलोपचयाय कामं तद्बोधिसत्त्वस्तादृशं रतिक्रीडादिकं वस्त चित्तप्रसादहेतोरनुप्रच्छेदर्थिभ्यस्तेनापि वस्तुना संग्रहाय परिपाकाय । कीदृशं पुना रतिक्रीडावस्तु बोधिसत्त्वो न ददात्यर्थिभ्यः ।

किदृशं ददाति । तद्यथा मृगवधशिक्षां बोधिसत्त्वो न ददाति । क्षुद्रयज्ञेषु च महारम्भेषु येषु बहवः प्राणिनः संघातमापद्य जीविताद्व्यपरोप्यन्ते । तद्रूपान् यज्ञान्न स्वयं यजति न परैर्याजयति । नापि च देवकुलेषु पशुवधमनुप्रयच्छति । न च प्रभूतप्राण्याश्रितान् [देशान्] जलजैर्वा [स्थलजैर्वा] प्राणिभिरध्युषितांस्तेषां प्राणिनामुपरोधाय याचितोऽनुप्रयच्छति । (दुत्त्८३) न जालानि न यन्त्राणि न जालयन्त्रशिक्षां प्राणिनामुपरोधाय याचितोऽनुप्रयच्छति । नाप्याक्रोशाय वधाय बन्धाय दण्डनाय कारणाय शत्रूणां शत्रुमनुप्रयच्छति । समासतो बोधिसत्त्वो यत्किञ्चित्परसत्त्वोत्पीडया परसत्त्वबाधाय सत्त्वानां रतिक्रीडावस्तु तत्सर्वंबोधिसत्त्वो न ददात्यर्थिभ्यः । यानि पुनरिमानि विचित्राणि हस्त्यश्वरथयानवाहनानि वस्त्रालङ्काराणि प्रणीतानि च पानभोजनानि नृत्तगीतवादितशिक्षा नृत्तगीतवादितभाजनानि च गन्धमाल्यविलेपनं विचित्रश्च भाण्डोपस्कर उद्यानानि च गृहाणि स्त्रियश्च परिचर्यायै विविधेषु च शिल्पकर्मस्थानेषु शिक्षा इत्येवंरूपं रतिक्रीडावस्तु बोधिसत्त्वश्चित्तप्रसादहेतोरर्थिभ्योऽनुप्रयच्छति । न च बोधिसत्त्वः अमात्रयाऽपथ्यं वा ग्लानायार्थिनेऽपि पानभोजनमनुप्रयच्छति । न तृप्तेषु लोलुपजातीयेषु सत्त्वेषु प्रणीतं पानभोजनमनुप्रयच्छति । नापि च शोकार्तानां सत्त्वानामात्मोद्बन्धनाय वा ताड्नाय वा विषभक्षणाय वा प्रपातपतनाय वा कामकारं ददाति । न च बोधिसत्त्वो मातापितरं सर्वेण सर्वंमर्थिभ्योऽनुप्रयच्छति । तथाहि बोधिसत्त्वस्य मातापितरं परमगुरु-स्थानीयमापायकं पोषकं संवर्धकं तद्बोधिसत्त्वेन दीर्घरात्रं शिरसोद्वहता न खेदमापत्तव्यम् । तयोश्चाधमनबन्धक स्थापनविक्रये आत्मा वश्यो विधेयो दातव्यः । तत्कथं बोधिसत्त्वः परेभ्योऽनुप्रदातुमुत्सहेत
कुतः पुनः प्रदद्यात् । नापि बोधिसत्त्वो राजा मूर्धाभिषिक्तः प्रभुः स्वे पृथिवीमण्डले सत्त्वानां सपरिग्रहाणां परकीयं पुत्रदारं परेषामन्तिकादाच्छिद्य परेषामनुप्रयच्छति । नान्यत्र कृत्स्नं ग्रामं वा ग्रामप्रदेशं वा जनपदप्रदेशं वा भोगमनुप्रयच्छेत् । यथा ममाभूत्तथा ते भवत्विति । न च बोधिसत्त्वः स्वं पुत्रदारं दासीदासकर्मकरपौरुषेयपरिग्रहं सम्यगसंज्ञप्तमकामकं विमनस्कं परेषामर्थिनामनुप्रयच्छति । सम्यक्संज्ञप्तमपि च सुमनस्कं छन्दजातं नामित्रेषु न यक्षराक्षसेषु न रौद्रकर्मसु प्रतिपादयति । नापि च दासभावाय प्रतिपादयति पुत्रदारं सुकुमारं कुलपुत्रं जनम् । न च बोधिसत्त्वोऽधिमात्रपरपीडाप्रवृत्तेषु रौद्रकर्मसु याचनकेषु राज्यप्रदानं ददाति । राज्यादपि च तांस्तथाविधान् पुद्गलांश्च्यावयति स चेत्प्रतिबलो भवति च्यावयितुम् । न च बोधिसत्त्वो मातापित्रोरन्तिकाद्भोगानाच्छिद्य याचनकेभ्यः प्रयच्छति । यथा मातापित्रोरेवं पुत्रदारदासीदासकर्मकरपौरुषेयेभ्यः । नापि च (दुत्त्८४) मातापितरं बाधित्वा विस्तरेण यावत्कर्मकरपौरुषेयं बाधित्वा परेभ्यो याचनकेभ्यो देयवस्तु परित्यजति । धर्मण चासाहसेन बोधिसत्त्वो भोगान् संहृत्य दानं ददाति नाधर्मेण साहसेन । न परमुत्पीड्योपहत्य न च बुद्धानां भगवतां शासने बोधिसत्त्वो व्यवस्थितः शिक्षां व्यतिक्रम्य कथञ्चित्दानं ददाति । दानञ्च ददद्बोधिसत्त्वः सर्वसत्त्वेषु समचित्तो ददाति दक्षिणीयबुद्धिमुपस्थाप्य मित्रामित्रोदासीनेषु गुणवत्सु दोषसत्सु हीनेषु तुल्येषु विशिष्टेषु सुखितेषु दुःखितेषु
च । न च बोधिसत्त्वो यथोक्ताद्यथाप्रतिज्ञाताद्याचनकाय न्यूनं दान ददाति । नान्यत्र सम वा अधिकं वा । न च बोधिसत्त्वः प्रणीतं वस्तु प्रतिज्ञाय लूहं प्रत्यवरं ददाति । नान्यत्रलूहं प्रत्यवरं प्रतिज्ञाय प्रणीतं ददाति संविद्यमाने प्रणीते । न च बोधिसत्त्वो विमनस्को न क्रुद्धः क्षुभितमानसो दानं ददाति । नापि च दानं दत्त्वा निन्दयति पुनः पुनः परिकीर्तनतया एवं चैवञ्च त्वं मया दानेनानुगृहीतः सवर्धितोऽभ्युद्धृतो वेति । न च बोधिसत्त्वो निहीनपुरुषस्यापि दानं दददपविद्धमसत्कृत्यानुप्रयच्छति प्रागेव गुणवतः ।

न च बोधिसत्त्वो विविधविप्रतिपत्तिस्थितानामुद्धतानामसंवृतात्मनां

याचनकानामाक्रोशकानां रोषकाणां परिभाषकाणां विप्रतिपत्त्या खिन्नमानसो दानं ददाति । नान्यत्र तेषामेवान्तिके बोधिसत्त्वो भूयस्या मात्रया क्लेशावेशप्रकृतितामवगम्यानुकम्पाचित्तमुपस्थाप्य दानं ददाति । न चासद्दृष्ट्या परामृष्टं [दानं] ददाति । तद्यथा महारौद्रयज्ञेषु न हिंसादानेन धर्मं प्रत्येति । नापि कौतकमङ्गलप्रतिसंयुक्तं दानं ददाति । नापि सुविशुद्धेनापि सर्वाकारेण दानमात्रकेण लौकिकलोकोत्तरां वैराग्यविशुद्धिं प्रत्येति नान्यत्र । संभारमात्रकतया विशुद्धेर्दानं धारयति । न च फलदर्शी ददाति । सर्वञ्च दानमनुत्तरायां सम्यक्सम्बोधौ परिणामयति । सर्वप्रकारस्य दानस्य सर्वं प्रकारं यथाभूतं फलं विपाकेऽभिसंप्रत्ययजातो बोधिसत्त्वोऽपरप्रत्ययोऽनन्यनेयो दानं ददाति तद्यथाऽन्नदो बलवान् भवति । वस्त्रदो वर्णवान् यानदः सुखितः चक्षुष्मान् प्रदीपद इत्येवमादि विस्तरेण वेदितव्यम् । न च बोधिसत्त्वो दारिद्र्यभयभीतो दानं ददाति । नान्यत्र कारुण्याभिप्राय एव । न च बोधिसत्त्वो याचनकानामप्रतिरूपं दानं ददाति । तद्यथा यतीनामुच्छिष्टं वा पानभोजनमुच्चारप्रस्रावखेटशिंघाणकवान्तविरिक्तपूयरुधिंरसंसृष्टं (दुत्त्८५) वा अभिदूषितं वा । अनाख्यातमप्रतिसंवेदितमोदनकुल्माषमुत्सर्जनधर्मी । तथा

अपलाण्डुभक्षाणां पलाण्डुसंमिश्रं पलाण्डुसंसृष्टम् । एवममांसभक्षाणाम् । अमद्यपानां मद्यमिश्रं मद्यसंसृष्टं वा । तथाऽप्रतिरूपे कर्मणि विनियोज्य बोधिसत्त्वो न परेषां दानं ददाति । इत्येवंभागीयमप्रतिरूपं दानं न ददाति । न च पुनर्बोधिसत्त्वो याचनकं पुनः पुनर्याचनतया गतप्रत्यागतिकतया सेवावृत्तसंविधानेन परिक्लिश्य दानं ददाति । नान्यत्र याचितमात्र एव । न च बोधिसत्त्वः कीर्तिशब्दश्लोकमिश्रितं दानं ददाति । न [च] परतः प्रतिकारसन्निश्रितं न शक्रत्वमारत्वचक्रवर्तित्वैश्वर्यसन्निश्रितं [ददाति] । न च परेषां कुहनार्थं दानं ददाति । कच्चिन्मां परे राजानो वा राजमहामात्या वा नैगमजनपदा ब्राह्मणगृहपतयो धनिनः श्रेष्ठिनः सार्थवाहा दातारं दानपतिं विदित्वा सत्कुर्युर्गुरूकुर्युर्मानयेयुः पूजयेयुरिति । न च कार्पण्यदानं ददाति । अल्पादपि विशदं ददाति प्रागेव प्रभूतात् । न च परेषां विप्रलम्भाय दानं ददाति ।

अनेन दानेन विलोभ्य विश्रम्भयित्वा पश्चादेनं विप्रवादयिष्यामीति । न च विभेदाय परतः परेषां दानं ददाति । तद्यथा दानेन ग्रामं वा ग्रामप्रदेशं वा जनपदं वा जनपदप्रदेशं वा विभेद्य स्वामिनामन्तिकादाच्छेत्स्याम्याक्रमिष्यामीति । दक्षश्च बोधिसत्त्वो भवत्यनलसश्च उत्थानसम्पन्नः स्वयं च सन्नद्धः परिकरे पूर्वङ्गमो देयवस्तु परित्यागे स्वयञ्च ददाति परैश्च दापयति न स्वयं कौसीद्यं प्राविष्कृत्य परानाज्ञापयति दानाय । महान्तमपि गणसन्निपातमर्थिनां शीलवद्दुःशीलानां सन्निषण्णं संनिपतितं विदित्वा वृद्धान्तमुपादाय यावन्नवकान्तं तत्सर्वं देयवस्तु गतप्रत्यागतिकतया पुनः पुनरनुक्रमेण प्रतिपादयति न च बोधिसत्त्वः प्रभूतेषु विपुलेषु विस्तीर्णेषु भोगेषु संविद्यमानेषु मितं दानं ददाति । न च परविहेठनाय परेषां दानं ददाति । आक्रोशनाय वा रोषणताडनतर्जनकुत्सनकबन्धनच्छेदनरोधनप्रवासनाय वा दानं ददाति । पूर्वमेव च दानाद्बोधिसत्त्वः सुमना भवति ददच्चित्तं प्रसादयति । दत्त्वा चाविप्रतिसारी भवति । न च शाठ्याद्दानं ददाति मणिमुक्ताशङ्खशिलावैदूर्यप्रवाडादिप्रतिरूपकाणि तदाशावतां सत्त्वानाम् । न च बोधिसत्त्वेन किञ्चिदल्पं [वा प्रभूतं वा] देयवस्तु यन्न प्रागेव चेतसा सर्वसत्त्वानां (दुत्त्८६) निर्मुक्तं भवति । पश्चाद्याचकः स्वकमिव धनं याचितकानुप्रदत्तं बोधिसत्त्वाद्याचते । कालेन च बोधिसत्त्वो दानं ददाति नाकालेन । कल्पिकमात्मनः परस्य च नाकल्पिकम् । आचारेण नानाचारेण । अविक्षिप्तेन च चेतसा न विक्षिप्तेन । न च बोधिसत्त्वो याचनकमवहसति नावस्पण्डयति । म मङ्कुभावमस्योपसंहरति । न भृकुटीकृतो भवति । उत्तानमुखवर्णः
स्मितपूर्वंङ्गमः पूर्वाभिभाषी भवति । न च विलम्बितं त्वरितं त्वरितं दानं ददाति । अयाचितोऽपि बोधिसत्त्वः स्वयं प्रवारयित्वा परान् यो येनार्थी भवति तस्य तद्ददाति । स्वयं गृहीतं चैषामभ्यनुजानाति । न च बोधिसत्त्वो दौष्प्रज्ञदानं ददाति । ददत्प्राज्ञदानमेव ददाति ।

प्राज्ञदानं बोधिसत्त्वस्य कतमत् । इह बोधिसत्त्वः सत्सु संविद्यमानेषु देयधर्मेषु पूर्वमेव याचनकाभ्यागमनादेवं चित्तमभिसंस्करोति । स चेन्मे द्वौ याचनकावागच्छेतां सुखितश्चाकृपणोऽवराकः सनाथः सप्रतिसरणः दुःखितश्च कृपणो वराकः अनाथः अप्रतिसरणः । तेन मया सचेन्मे भोगानां द्वयोरपि सन्तर्पणायेच्छापरिपूरये तदा संभवोऽस्ति उभौ सन्तर्पयितव्यौ । द्वयोरपीच्छा परिपूरिः करणीया । स चेन्न तावद्भोगसंभवः स्यादहं द्वयोः सन्तर्पयेयं यदिच्छापरिपूरिञ्च कुर्यां सुखितमपहाय दुःखिताय दानं देयम् । अकृपणमवराकं सनाथं सप्रतिसरणमपहाय कृपणाय वराकाय अनाथायाप्रतिसरणाय दानं देयमिति । स एवं चित्तमभिसंस्कृत्य यथाभिसंस्कारमेव कर्मणा संपादयति । स चेत्पुनः सुखितस्य याचनकस्येच्छां न शक्नोति परिपूरयितुं स तमेव पूर्वकं स्वचित्ताभिसंस्कारकल्पमुपादाय तं याचकमेवं संज्ञप्य प्रेषयति । अस्य मया दुःखितस्य पूर्वनिसृष्टं पूर्वप्रतिज्ञातमेतद्देयवस्तु अतो मयाऽस्यैव प्रतिपादितम् । न च मे त्वय्यदातुकाममना अस्ति । अतो न भद्रमुखेनास्माकमन्तिके प्रणयविमुखता करणीयेति । पुनरपरं बोधिसत्त्वः सत्सु संविद्यमानेषु देयधर्मेषु यानि तानि मत्सरिकुलानि भवन्ति परममत्सरिकुलान्यागृहीतपरिष्काराणि कुटकुञ्चकानि येषु न जातु श्रमणब्राह्मणेषु देयधर्मे प्रजायते तानि बोधिसत्त्वः कुलान्युपसंक्रम्य प्रतिसंमोद्य प्रणयञ्च संविधायैवमाह । अङ्ग तावत्ते भवन्तः अकोशक्षयेण महता उपकारेण प्रत्यवस्थिता भवन्तु । मम गृहे विपुला भोगा विपुला देयधर्माः (दुत्त्८७) संविद्यन्ते । सोऽहं
दानपारमितापरिपूरये याचनकेनार्थी । स चेद्यूयं याचनकमारागयथ मा निराकृत्य विसर्जयिष्यथ मदीयं धनं देयधर्ममादाय तेभ्यो वा विसृजत यथासुखमेव । अथवा तं याचनकमस्माकमुपसंहरथ दीयमानञ्च मया दानमनुमोदथ । ते च तस्य प्रतिश्रुत्याकोशक्षयेण प्रियेणायं कुलपुत्रोऽस्माकमाराधितचित्तो भवतीति तथा कुर्वन्ति । एवं हि तेन बोधिसत्त्वेन येषामायत्यां मात्सर्यमलविनयाय बीजमवरोपितं भवति । क्रमेण च तेनाभ्यासेन तेन प्रज्ञापूर्वकेणोपायकौशल्येन स्वकमपि परीत्तं परेभ्यो धनमनुप्रयच्छन्ति । मृदुकमलोभं निश्रित्य मध्यं प्रतिलभन्ते । मध्यं निश्रित्याधिमात्रं प्रतिलभन्ते । पुनरपरं बोधिसत्त्वो येऽस्य भवन्त्याचार्योपाध्यायाः सार्धविहार्यन्तेवासिनः सब्रह्मचारिणश्च लोभप्रकृतयो लुब्धजातीया ये च न लुब्धजातीया अपि तु देयधर्मवैकल्यादिच्छाविघातवन्तस्तत्र बोधिसत्त्वो बुद्धावरोपितं वा धर्मा[वरोपितं वा] संघावरोपितं वा दानमयं पुण्यक्रियावस्तु कर्तुकामस्तेषामेवोत्सृजति । तान् देय धर्मांस्तैः कारयति न स्वयं करोति । एवं तेन बोधिसत्त्वेन स्वयञ्च बहुतरं पुण्यं प्रसूतं भवति । तदेकत्यानाञ्च सब्रह्मचारिणां क्लेशविनयः कृतो भवति । तदेकत्यानां धर्मेच्छापरिपूरिः कृता भवति । सत्त्वसंग्रहः सत्त्वपरिपाकश्च कृतो भवति । पुनरपरं बोधिसत्त्वः सत्सु संविद्यमानेषु देयधर्मेषु याचनकमाकूटननिमित्तमात्रकेणैव ज्ञात्वा यथाकामं देयधर्मैः प्रतिपादयति । योऽपि चैनमुपसंक्रान्तो भवति कूटवाणिज्यनैवं व्यंसयिष्यामीति । तस्यापि भावमाज्ञाय तद्दुश्चरितमन्येषामपि तावच्छादयति प्रागेव तस्यैव । इच्छाञ्चास्य परिपूरयति येनासावमङ्कुरुदग्रो विशारदः सौमनस्यजातो विप्रक्रामति । येनापि च बोधिसत्त्वः
कूट-कपटेन वञ्चितो भवति न चानेन सा वञ्चना पूर्वं प्रतिविद्धा भवति पश्चाच्च प्रतिविध्यति । प्रतिविध्य न च तेन वस्तुना पुनस्तं व्यंसकं पुद्गलञ्चोदयति स्मारयति । सर्वञ्च तच्छलकृत मदत्तादानमस्मै भावेनाभ्यनुमोदते । इत्येवंभागीयं तावद्बोधिसत्त्वस्य सत्सु संविद्यमानेषु प्राज्ञदानं वेदितव्यम् । पुनरपरं बोधिसत्त्वः असत्सु असंविद्यमानेषु देयधर्मेषु कृतावी बोधिसत्त्वस्तेषु तेषु शिल्पकर्मस्थानेषु स तद्रूपं शिल्पकर्मस्थानमामुखीकरोति । (दुत्त्८८) येनाल्पकृच्छ्रेण महान्तं धनस्कन्धमभिनिर्जित्याध्यावसति । परेषाञ्चित्रकथो मधुरकथः कल्याणप्रतिभानो बोधिसत्त्वास्तथा धर्मदेशनां प्रवर्तयति यथा दरिद्राणामपि सत्त्वानां दातुकामता सन्तिष्ठते प्रागेवाढ्यानाम् । मत्सरिणामपि प्रागेव त्यागशीलानाम् । यानि वा पुनस्तानि श्राद्धकुलानि येष्वहरहः प्रवृता एव देयधर्मा विस्तीर्णभोगतया तेषु कुलेषु आगतागतान् याचनकानुपसंहरति । स्वयमेव वा गत्वा दानेषु दीयमानेषु पुण्येषु क्रियमाणेषु दक्षोऽनलस उत्थानसम्पन्नश्चित्तमभिप्रसाद्य कायेन वाचा यथाशक्त्या यथाबलं व्यापारं गच्छति । सुप्रतिपादितञ्च तद्दानं याचनकेषु करोति । एवं हि तद्दानम् । यदुपस्थापक-वैगुण्याद्दुष्प्रतिपादितं स्यात्पक्षपतितं वा अनादरतो वा स्मृतिसंप्रमोषतो वा तन्न भवति । एवं हि बोधिसत्त्वः असत्स्वसंविद्यमानेषु भोगेषु प्राज्ञदानस्य दाता भवति यावदाशयशुद्धि नाधिगच्छति । शुद्धाशयस्तु बोधिसत्त्वो यथैवापासमतिक्रमं प्रतिलभते तथैवाक्षयभोगतां जन्मनि प्रतिलभते । पुनरपरं बोधिसत्त्वो न तीर्थिकाय रन्ध्रप्रेक्षिणे धर्मं मुखोद्देशतो वा पुस्तकगतं वा ददाति । नापि लोभप्रकृतये
पुस्तकं विक्रेतुकामाय सन्निधिं वा कर्तुकामाय । न तु तेन ज्ञानेनानर्थिने [ज्ञानेनार्थिने वा] । पुनः स चेत्कृतार्थः पुस्तकेन भवति स्वयं ददात्यस्मै यथासुखमेव । स चेदकृतार्थो भवति यस्यार्थे तेन तत्पुस्तकमन्वावर्तितम् । एवमसौ बोधिसत्त्वः आदर्शमन्यं दृष्ट्वा लेखयित्वा वान्यद्ददाति । स चेन्नैवादर्शं पश्यति नापि लेखयितुं शक्नोति तेनादित एवं स्वचित्तं प्रत्यवेक्षितव्यम् । मा हैव मे धर्ममात्सर्यमलपर्यवस्थितं चित्तम् । मा हैवाहमाशयत एव न दातुकामोऽभिलिखितं धर्मम् । स चेत्स एवं प्रत्यवेक्षमाणो जानीयादस्ति मे धर्ममात्सर्यमलसमुदाचारोऽपि तेन बोधिसत्त्वेनैवं चित्तमभिसंस्कृत्य दातव्यम् । एवं धर्मदानं स्यात् । यद्यहमनेन धर्मदानेन मूक एवं स्यां दृष्टे धर्मे तथापि मयाऽनधिवास्य क्लेशं दातव्यमेव स्याद्धर्मदानम् । प्रागेव ज्ञानसंभारविकलः । स चेत्पुनः प्रत्यवेक्षमाणो जानीयान्नास्ति मे [धर्म] मात्सर्यमलसमुदाचारोऽपि तेन बोधिसत्त्वेनैवं प्रतिसंशिक्षितव्यम् । अहम् [आत्मनः] क्लेशनिर्घातनार्थं वा एतद्धर्मदानं दद्यां ज्ञानसंभारपरिपूरणार्थं वा सत्त्व (दुत्त्८९) प्रियतायैव वा । सोऽहं क्लेशं तावन्न पश्यामि । ज्ञानसंभारमपि दृष्टधर्मसाम्परायिकं प्रभूततरमननुप्रदानात्पश्यामि । न पदानात् । साम्परायिकमेव प्रतनुकं धर्मलाभप्रचुरतायै । अननुप्रयच्छंश्चाहं सर्वसत्त्वानां हितसुखाय ज्ञानं समुदानय तस्य च सत्त्वस्य तदन्येषाञ्च सर्वसत्त्वानां प्रियकारी भवामि । अनुप्रच्छन्नस्यैवैकस्य सत्त्वस्य प्रियकारी इति विदित्वा यथाभूतं स चेद्बोधिसत्त्वो न ददात्यनवद्यो भवत्यविप्रतिसारी । असमतिक्रान्तश्च भवति बोधिसत्त्ववृत्तम् ।

कथञ्च पुनर्न ददाति । न खलु पुनर्बोधिसत्त्वः उत्सहते याचनकं निष्ठुरया वाचा प्रतिक्षेप्तुम् । न ते दास्यामीत्यपि उपायकौशल्यनैनं संज्ञप्यानुप्रेषयति । तत्रेदमुपायकौशल्यम् । प्रागेव बोधिसत्त्वेन सर्वपरिष्काराः सर्वदेयधर्मा दशसु दिक्षु विशद्धेनाशयेन बुद्धबोधिसत्त्वानां विसृष्टा भवन्ति विकल्पितास्तद्यथापि नाम भिक्षुराचार्याय वा उपाध्यायाय वा चीवरं विकल्पयेत् । स एवं विकल्पहेतोः सर्वविचित्रोदारपरिष्कारदेयधर्मसन्निधिप्राप्तोऽप्यार्यवंशविहारी बोधिसत्त्व इत्युच्यते । अप्रमेयपुण्यप्रसोता च भवति । तञ्च पुण्यमस्य नित्यकालं तद्बहुलमनस्कारस्य सर्वकालानुगतमभिवर्धते । स तान् देयधर्मान् बुद्धबोधिसत्त्वनिक्षिप्तानिव धारयति । यदि याचनकं पश्यति युक्तरूपश्चास्मिन् यथेप्सितं देयधर्मप्रतिपादनं पश्यति । स नास्ति तत्किञ्चिद्बुद्धबोधिसत्त्वानां यत्सत्त्वेषु अपरित्यक्तमिति विदित्वा याचनकस्येच्छां परिपूरयति । नो चेद्युक्तरूपं समनुपश्यति स तमेव कल्पमुपादाय परकीयमेतद्भद्रमुख न चैतद्युष्माकमनुज्ञातं दातुमिति श्लक्ष्नेन वचसा संज्ञप्यैनं प्रेषयति । अन्यद्वा तद्द्विगुणं त्रिगुणं दानमानसत्कारं कृत्वानुप्रेषयति । येनासौ जानीते नायं बोधिसत्त्वो लोभात्मकतयाऽस्माकं न दातुकामः । अपि तु नूनमस्वतन्त्र एवं तस्मिन् पुस्तकधर्मदाने येन न ददातीति । इदमपि बोधिसत्त्वस्य धर्मदानमारभ्य प्राज्ञदानं वेदितव्यम् । पुनरपरं बोधिसत्त्वः सर्वदानानि धर्मामिषाभय[दाना]नि प्रर्यायतोऽपि लक्षणतोऽपि निर्वचनतोऽपि हेतुफलप्रभेदतोऽपि यथाभूतं प्रजानन्ननुप्रयच्छति । इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम् । पुनरपरं बोधिसत्त्वः अपकारिषु सत्त्वेषु मैत्र्याशयो दानं ददाति । दुःखितेषु
करुणाशयः । गुणवत्सु मुदिताशयः । (दुत्त्९०) उपकारिषु मित्रेषु सुहृत्सूपेक्षाशयः । इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम् ।

पुनरपरं बोधिसत्त्वो दानविबन्धनमपि दानविबन्धप्रतिपक्षमपि यथाभूतं प्रजानाति । तत्र चत्वारो दानविबन्धाः । पूर्वकोऽनभ्यासः । देयधर्मपरीत्ततावैकल्यम् । अग्रे मनोरमे च वस्तुनि गृद्धिः आयत्याञ्च भोगसम्पत्ति फलदर्शनाभिनन्दनता । यतश्च बोधिसत्त्वस्य देयधर्मेषु संविद्यमानेषु याचनके च सम्यगुपस्थिते दाने चित्तं न क्रामति । सोऽनभ्यासकृतो मेऽयं दोष इति लघु लध्वेव प्रज्ञया प्रतिसिध्यति । एवञ्च पुनः प्रतिविध्यति । नूनं मया पूर्वं दानं न दत्तं येन मे एतर्हि सम्यक्संविद्यमानेषु भोगेषु सम्यक्प्रत्युपस्थिते च याचनके दाने चित्तं न क्रामति । स चेदेतर्हिन प्रतिसंख्याय दास्यामि पुनरपि मे आयत्यां दानविद्वेषो भविष्यति । स एव प्रतिबिध्य दानप्रतिबन्धप्रतिपक्ष निशृत्य प्रतिसंख्याय ददाति । नाभ्यासकृतदोषानुसारी भवति न तद्वशगः । पुनरपरं बोधिसत्त्वस्य स चेद्यद्याचनके सम्यक्प्रत्युपस्थिते परीत्तभोगतया दाने चित्तं न क्रामति स त विघातकृत दानविप्रतिबन्धहेतुं लघु-लघ्वेव प्रज्ञया प्रतिविध्य तद्विघातकृतं दुःखमधिवासयन् प्रतिसंख्याय कारुण्याद्दानं ददाति । तस्यैवं भवति । पूर्वकर्मदोषेण वा परविनेयतया वा मया बहूनि प्रगाढानि क्षुत्पिपासादिकानि दुःखान्यनुभूतानि भवे विना परानुग्रहम् । यदि च मे मरणाय कालक्रियायै सवर्तेत एतद्दानकृत परानुग्रहहेतुक दृष्टे धर्मे दुःख तथापि मे दानमेव श्रेयो न तु याचनकनिराकरणम् । प्रागेव यः कश्चिद्येन केनचिच्छाकपत्रेण जीवति इत्येवं बोधिसत्त्वस्तद्विघातकृतं दुखमधिवास्य दान ददाति । पनरपर बोधिसत्त्वस्य सम्यग्याचके प्रत्युपस्थिते स चेदधिमात्रमनापत्वादग्र्यत्वाद्देयवस्तुनो दाने चित्त न क्रामति त बोधिसत्त्वो गर्धकृत्दोष लघु-लघ्वेव प्रतिज्ञया प्रतिविध्य दुःखे मे एष सुखसंज्ञाविपर्यासः
आयत्यां दुःखजनक इति विपर्यासपरिज्ञानात्तञ्च प्रहाय प्रति संख्याय तद्वस्तु ददाति । पुनरपरं बोधिसत्त्वस्य स चेद्दानं दत्त्वा दानफले (दुत्त्९१) महाभोगतायामनुशंसदर्शनमुत्पद्यते नानुत्तरायां सम्यक्संबोधौ तं बोधिसत्त्वो मिथ्याफलदृष्टिकृतं दोषं लघु-लघ्वेव प्रज्ञया प्रतिविध्य सर्वसंस्काराणामसारतां यथाभूतं प्रत्यवेक्षते । सर्वसंस्काराः क्षणभङ्गुराः फलोपभोगपरिक्षयभङ्गुरा विप्रयोगभङ्गुराश्च । स एवं प्रत्यवेक्षमाणः फलदर्शनं प्रहाय यत्किञ्चिद्दानं ददाति सर्वं तन्महाबोधि-परिणामितमेव ददाति ।

तदिदं बोधिसत्त्वस्य चतुर्विधस्य दानविबन्धस्य चतुर्विधं दानप्रतिवन्धप्रतिपक्षज्ञानं वेदितव्यम् । प्रतिवेधो दुःखादिवासना विपर्यासपरिज्ञानं संस्कारासारत्वदर्शनञ्च । तत्र त्रिविधेन बोधिसत्त्वः प्रतिपक्षज्ञानेन पूर्वकेण नियतं सम्यक्च दानं ददाति । एकेन पश्चिमेन प्रतिपक्षज्ञानेन सम्यक्पुण्यफलपरिग्रहं करोति । इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम् ।

पुनरपरं बोधिसत्त्वः अध्यात्म्यं रहोगतः शुद्धेनाशयेन घनरसेन प्रसादेन संकल्पैर्विचित्रानुदारानप्रमेयान् देयधर्मानधिमुच्य सत्त्वेषु दानाय प्रतिपादितायाभिलषति येन बोधिसत्त्वः अल्पकृच्छ्रेणाप्रमेयं पुण्यं प्रसूयते । इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम् । तदिदं बोधिसत्त्वस्य प्राज्ञस्य [महा]प्राज्ञदानम् । एवं समासतः संविद्यमानेष्वसंविमादेषु चामिषदानसंगृहीतेषु देयधर्मेषु तथा धर्मदानमुपादाय प्रतिसंविदमुपादायाध्याशयदानमुपादाय दानविप्रतिबन्धप्रतिपक्षज्ञानमुपादायाशयाधिमुक्तिदानञ्चोपादाय बोधिसत्त्वस्यैवावेणिकं वेदितव्यम् । एवं हि बोधिसत्त्वस्याध्यात्मिक-बाह्यसर्ववस्तुदानप्रभेदो विस्तरेण वेदितव्यः ।

अत ऊर्ध्वमस्मादेव सर्वदानप्रभेदात्तदन्यः सर्वो दुष्करादिदानप्रभेदो वेदितव्यः ।

तत्र कतमद्बोधिसत्त्वस्य दुष्करदानम् । यद्बोधिसत्त्वः परीत्तं देयवस्तु संविद्यमानमात्मानं बाधित्वा दुःखमधिवास्य परेषामनुप्रयच्छति । इदं बोधिसत्त्वस्य प्रथमं दुष्करदानम् । यद्बोधिसत्त्वः इष्टञ्च वस्तु प्रकृतिस्नेहाद्वा दीर्घकाल संस्तवाद्वाऽधिमात्रोपकाराद्वाऽग्र्यञ्च प्रवरं देयवस्तुगर्धं प्रतिविनोद्य परेभ्योऽनुप्रयच्छति । (दुत्त्९२) इदं बोधिसत्त्वस्य द्वितीयं दुष्करदानं यद्बोधिसत्त्वः कृच्छतार्जितान् देयधर्मान् परेभ्योऽनुप्रयच्छति । इदं तृतीयं बोधिसत्त्वस्य दुष्करदानम् ।

तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुखं दानम् । यद्बोधिसत्त्वः स्वकं वा परं वा समादाप्य देयवस्तु स्वभृत्येषु वा मातापितृपुत्रदारदासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहितेष्वनुप्रयच्छति । परेषु वाऽर्थिषु । एतत्सर्वतोमुखं दानमित्युच्यते ।

समासतो बोधिसत्त्वस्य चतुराकारं सत्पुरुषस्य सत्पुरुषदानम् ।

तव कतमद्बोधिसत्त्वस्य सत्पुरुषस्य सत्पुरुषदानम् । यद्बोधिसत्त्वः श्रद्धया दानं ददाति सत्कृत्य स्वहस्तेन कालेन पराननुपहत्य इदं बोधिसत्त्वस्य सत्पुरुषस्य सत्पुरुषदानमित्युच्यते ।

तत्र कतमद्बोधिसत्त्वस्य सर्वाकारं दानम् । अनिश्चितदानता । विशददानता । प्रमुदितदानता । अभीक्ष्णदानता । पात्रदानता । अपात्रदानता सर्वदानता । सर्वत्रदानता । सर्वकालदानता । अनवद्यदानता सर्ववस्तुदानता । देशवस्तुदानता । धनधान्यवस्तुदानता । इतीद त्रयोदशाकारं दानं बोधिसत्त्वस्य सर्वाकारमित्युच्यते ।

तत्र कतमद्बोधिसत्त्वस्य विघातार्थिक दानम् । इह बोधिसत्त्वो भोजनेन पानेन विघातिष्वर्थिकेषु भोजनपानं ददाति । यानार्थिकेषु यानं वस्त्रार्थिकेषु वस्त्रमलङ्कारार्थिकेषु अलंकारं विचित्रभाण्डोपस्कारार्थिकेषु विचित्रभाण्डोपस्कारं ददाति । गन्धमाल्यविलेपनार्थिकेषु गन्धमाल्यविलेपनम् । प्रतिश्रयार्थिकेषु प्रतिश्रयम् । आलोकविघातार्थिकेष्वालोकं ददाति । इदमष्टाकार बोधिसत्त्वस्य विघातार्थिकदानं वेदितव्यम् ।

तत्र कतमद्बोधिसत्त्वस्येहामुत्रसुखं दानम् । आमिषदानं धर्मदानमभयदानञ्च समासतः इहामुत्रसुखं बोधिसत्त्वानां दानं वेदितव्यम् । तत्पुनरामिषदानं प्रणीतं शुचिकल्पिकम् । विनीय मात्सर्यमलं सन्निधिमलञ्च ददाति । तत्र मात्सर्यमलविनयश्चित्ताग्रहपरित्यागात्सन्निधिमलविनयो भोगाग्रहपरित्यागाद्वेदितव्यः । अभयदानं सिंहव्याध्रग्राहराजचौरोदकादिभयपरित्राणतया वेदितव्यम् । धर्मदानमविपरीतधर्मदेशना न्यायोपदेशः शिक्षापदसमादापना (दुत्त्९३) च । तदेतत्सर्वमभिसमस्य नवाकारं बोधिसत्त्वस्य दानं सत्त्वानाभिहामुत्रसुखं भवति । तत्रामिषाभयदानं सप्रभेदभिहसुखं धर्मदानं पुनः सप्रभेदममुत्रसुखम् ।

तत्र कतमद्बोधिसत्त्वस्य विशुद्धं दानम् । तद्दशाकरं वेदितव्यम् । असक्तमपरामृष्टमसंभृतमनुन्नतमनिश्रितमलीनमदीनमविमुखं प्रतीकारानपेक्षं विपाकानपेक्षञ्च ।

तत्रासक्तं दानं कतमत् । इह बोधिसत्त्वो याचनके सम्यक्प्रत्युपस्थिते त्वरितमविलम्बितं ददाति । न याचनकस्य तथा लाभमारम्य त्वरा भवति यथा बोधिसत्त्वस्य दानमारभ्य ।

अपरामृष्टं दानं कतमत् । न हि बोधिसत्त्वो दृष्ट्या एवं दानं परामृशति । नास्ति वाऽस्य दानस्य फलम् । हिंसादानेन वा पुनर्धर्मो भवतीति । सुसम्पन्नेन वा पुनर्दानमात्रकेण लौकिकलोकोत्तरा विशुद्धिर्भवतीति ।

असंभृतं दानं कतमत् । न खलु बोधिसत्त्वः संभृत्य दीर्घकालिकं देयधर्मसन्निचर्य कृत्वा पश्चात्सकृद्दानं ददाति । तत्कस्य हेतोः । न हि बोधिसत्त्वः संविद्यमानेषु देयधर्मेषु सम्यक्प्रत्युपस्थितस्य याचनकस्य निराकरणमुत्सहते नापि प्रतिरूपं पश्यति येन तन्निराकरोति । कुतः पुनः सन्निचयं करिष्यति । न च संभृतदानेन बोधिसत्त्वः पुण्यस्यायद्वारमधिकं पश्यति । समं देयवस्तु तुल्येषु व्यस्तसमस्तेषु याचनकेषु क्रमेण वा सकृद्वा दीयमानं केन कारणेन पुण्यविशेषतां परिगृह्णीयादिति सम्पश्यन्नपि च बोधिसत्त्वः सावद्यमेव संभृतदानं पश्यति । निरवद्यं पश्यति यथोत्पन्नं भोगदानम् । तत्कस्य हेतोः । तथाहि संभृतदाताऽर्थितो याचनकैर्याचनकशतानि पूर्वं निराकृत्य तेषामाघातमक्षमप्रत्ययं जनयित्वा पश्चादनर्थितोऽपि तदेकत्यानां संभृतदानं ददाति । तस्माद्बोधिसत्त्वः सम्भृतदानं न ददाति ।

(दुत्त्९४)
अनुन्नतदानं कतमत् । याचनकाय नीचचित्तो बोधिसत्त्वो दानं ददाति । न च परस्पर्धया ददाति । न च दानं दत्त्वा तेन दानेन मन्यते अहमस्मि दाता दानपतिरन्ये च न तथेति ।

अनिश्चितदानं कतमत् । न हि बोधिसत्त्वः कीर्तिशब्दघोषश्लोकं निश्रित्य दानं ददाति । विकल्पाक्षरसंभूतां घोषमात्रप्रतिबद्धां वृषमत्रोपमां कीर्तिं मन्यमानः ।

अलीनं दानं कतमत् । इह बोधिसत्त्वः पूर्वमेव दानात्सुमना भवति । ददच्चित्तं प्रसादयति । दत्त्वा चाविप्रतिसारी भवति । विपुलानि च परमोदाराणि बोधिसत्त्वानां दानानि श्रुत्वा नात्मानं परिभवन् संकोचमापद्यते ।

अदीनं दानं कतमत् । विचिन्त्य विचिन्त्य बोधिसत्त्वो यत्नेन देयधर्मेभ्यो यान्यग्राणि प्रवराणि भोजनपानयानवस्त्रादीनि तान्यनुप्रयच्छति ।

अविमुखं दानं कतमत् । समचित्तो बोधिसत्त्वः अपक्षपतितो मित्रामित्रोदासीनेषु समकारुण्यो दानं ददाति ।

प्रतीकारानपेक्षं दानं कतमत् । कारुण्यचित्तोऽनुकम्पाचित्तो बोधिसत्त्वो दानं ददन्न परतः प्रत्युपकारं प्रत्याशंसते । सुखकामां तृष्णादाहेन दह्यमानामप्रतिबलां प्रकृतिदुःखितां जनतां संपश्यन् ।

विपाकानपेक्षं दानं कतमत् । न बोधिसत्त्वो दानं दत्त्वा दानस्यायत्यां भोगसम्पदं वा आत्मभावसम्पदं वा फलविपाकं प्रत्याशंसते । सर्वसंस्कारेषु फल्गुदर्शी परमबोधावनुशंसदर्शी ।

एभिर्दशभिराकारैर्बोधिसत्त्वानां विशुद्धं सुविशुद्धं दानं भवति ।

एवं हि बोधिसत्त्व एतन्नवाकारं दानं निश्रित्य दानपारमितां परिपूरयित्वाऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने नवमं दानपटलम् ।


(दुत्त्९५)
शीलपटलम् (अध्याय १.१०)

उद्दानम् ।

स्वभावश्चैव सर्वञ्च दुष्करं सर्वतोमुखम् ।
स्यात्[सात्]पौरुष्ययुक्तञ्च सर्वाकारं तथैव च ॥
विघातार्थिकयुक्तञ्च इहामुत्रसुखं तथा ।
विशुद्धञ्च नवाकारं शीलमेतत्समासतः ॥

तत्र शीलं बोधिसत्त्वानां कतमत् । तदपि नवविधं वेदितव्यम् । स्वभाव शीलं सर्वशीलं दुष्करशीलं सर्वतोमुखं शीलं सत्पुरुषशीलं सर्वाकारशीलं विघातार्थिकशीलमिहामुत्रसुखं शीलं विशुद्धशीलञ्च ।

तत्र स्वभावशीलं कतमत् । चतुर्भिर्गुणैर्युक्तं समासतो बोधिसत्त्वानां स्वभावशीलं वेदितव्यम् । कतमैश्चतुर्भिः । परतः सम्यक्समादानतः सुविशुद्धाशयतया व्यतिक्रान्तैः प्रत्यापत्त्याऽव्यतिक्रमाय चादरजातस्योपस्थितस्मृतितया । तत्र परतः शीलसमादानाद्बोधिसत्त्वस्य परमुपनिधाय शिक्षाव्यतिक्रमे व्यपत्राप्यमुत्पद्यते । सुविशुद्धाशयतया शीलेषु बोधिसत्त्वस्यात्मानमुपनिधाय शिक्षाव्यतिक्रमे हीरुत्पद्यते । शिक्षापदानां व्यतिक्रम-प्रत्यापत्त्या आदरजातस्य चादित एवाव्यतिक्रमाद्बोधिसत्त्वो द्वाभ्यामाकाराभ्यां निष्कौकृत्यो भवति । एवमयं बोधिसत्त्वः समादनमाशयविशुद्धिञ्च निश्रित्य ह्रीव्यपत्राप्यमुत्पादयति । ह्रीव्यपत्राप्यात्शीलं समात्तं रक्षति । रक्षमाणो निष्कौकृत्यो भवति । तत्र यच्च परतः समादानं यश्च विशुद्धोऽध्याशयः इतीमौ द्वौ धमौं या च व्यतिक्रमप्रत्यापत्तिर्यश्चादरः अव्यतिक्रमेऽनयोर्द्वयोर्धर्मयोरावाहकौ । तत्र यच्च परतः समादानं यश्च सुविशुद्धोऽध्याशयः यश्चाव्यतिक्रमायादरजात इत्येभिस्त्रिभिर्धर्मैरविपत्तिर्बोधिसत्त्वशीलस्य वेदितव्या । व्यतिक्रमप्रत्यापत्त्या पुनश्छिद्रितस्य प्रत्यानयनव्युत्थानं वेदितव्यम् । तत्पुनरेतच्चतुर्भिगुणैर्युक्तं स्वभावशीलं बोधिसत्त्वानां (दुत्त्९६) कल्याणं वेदितव्यमात्महिताय परहिताय बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै चार्थाय हिताय सुखाय देवमनुष्याणां समादानतोऽनुशिक्षणतश्च । अप्रमेयं वेदितव्यमप्रमेयबोधिसत्त्वशिक्षापरिगृहीततया । सत्त्वानुग्राहकं वेदितव्यं सर्वसत्त्वहितसुखप्रत्युपस्थानतया । महाफलानुशंसं वेदितव्यमनुत्तरसम्यक्संबोधिफलपरिग्रहानुप्रदानतया ।

तत्र कतमद्बोधिसत्त्वस्य सर्वशीलम् । समासतो बोधिसत्त्वस्य गृहिपक्षगतं प्रव्रजितपक्षगतञ्च शीलं सर्वशीलमित्युच्यते ।

तत्पुनर्गृहिपक्षाश्रितं प्रव्रजितपक्षाश्रितञ्च शीलं समासतस्त्रिविधम् । संवरशीलं कुशलधर्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलञ्च ।

तत्र संवरशीलं बोधिसत्त्वस्य कतमत् । यत्सप्तनैर्णायिकं प्रातिमोक्षसंवरसमादानं भिक्षुभिक्षुणी-शिक्षमाणा-श्रामणेर-श्रमणेर्य्युपासकोपासिकाशीलम् । तदेतद्गृहिप्रव्रजितपक्षे यथायोगं वेदितव्यम् ।

तत्र कुशलधर्मसंग्राहकं शीलं यत्किञ्चिद्बोधिसत्त्वः शीलसंवरसमादानादूर्ध्वं महाबोधाय कुशलमाचिनोति कायेन वाचा मनसा सर्वं तत्समासतः कुशलधर्मसंग्राहकं शीलमित्युच्यते । तत्पुनः कतमत् । इह बोधिसत्त्वः शीलं निश्रित्य शीलं प्रतिष्ठाय श्रुते योगं करोति चिन्तायां शमथविपश्यनाभावनायामेकारामतायाम् । तथा गुरूणामभिवादन-वन्दन प्रत्युत्थानाञ्जलिकर्मणः कालेन कालं कर्ता भवति । तथा कालेन कालं तेषामेव गुरूणां गौरवेणोपस्थानस्य कर्ता भवति । ग्लानानां सत्कृत्य कारुण्येन ग्लानोपस्थानस्य कर्ता भवति तथा सुभाषिते साधुकारस्य दाता भवति । गुणवतां पुद्गलानां भूतस्य वर्णस्याहर्ता भवति । तथा सर्वसत्त्वानां दशसु दिक्षु सर्वपुण्यस्याशयेन प्रसन्नचित्तमुत्पाद्य वाचं भाषामाणोऽनुमोदिता भवति । तथा सर्वं व्यतिक्रमं प्रतिसंख्याय परेषां क्षमिता भवति । तथा सर्वं कायेन वाचा मनसा कृतं कुशलमनुत्तरायां सम्यक्संबोधौ परिणामयिता भवति । कालेन च कालं विचित्राणां सम्यक्प्रणिधानानां त्रिरत्नपूजायाश्च सर्वाकाराया उदारायाः कर्ता (दुत्त्९७) भवति । अभियुक्तश्च भवत्यारब्धवीर्यः सततसमितं कुशलपक्षे । अप्रमादविहारी कायेन वाचा । शिक्षापदानां स्मृतिसंप्रजन्यचारिकया चारक्षकः । इन्द्रियैश्च गुप्तद्वारो भोजने मात्रज्ञः पूर्वरात्रापररात्रं जागरिकानुयुक्तः सत्पुरुषसेवी कल्याणमित्रसन्निश्रितः आत्मस्खलितानाञ्च परिज्ञाता भवति दोषदर्शी । परिज्ञाय च दोषं दृष्ट्वा प्रतिसंहर्ता भवति । स्खलितश्च बुद्धबोधिसत्त्वानां सहधार्मिकाणां चान्तिकेऽत्ययदेशको भवति । एवंभागीयानां
कुशलानां धर्माणामर्जनरक्षणविवर्धनाय यच्छीलं [तद्] बोधिसत्त्वस्य कुशलधर्मसंग्राहकं शीलमित्युच्यते ।

तत्र कतमद्बोधिसत्त्वस्य सत्त्वानुग्राहकं शीलम् । तत्समासत एकादशाकारं वेदितव्यम् । एकादशाकाराः कतमे । सत्त्वकृत्येष्वर्थोपसंहितेषु [विचित्रेषु] सहायीभावः । सत्त्वानामुत्पन्नोत्पन्नेषु व्याध्यादिदुःखेषु ग्लानोपस्थानादिकः सहायीभावः । तथा लौकिकलोकोत्तरेष्वर्थेषु धर्मदेशनापूर्वक उपायोपदेशपूर्वकश्च न्यायोपदेशः । उपकारिषु च सत्त्वेषु कृतज्ञतामनुरक्षतोऽनुरूप[प्रत्युपकार-]प्रत्युपस्थानम् । विविघेभ्यश्च सिंहव्याघ्रराजचौरोदकाग्न्यादिकेभ्यो विचित्रेभ्यो भयस्थानेभ्यः सत्त्वानामारक्षा । भोगज्ञातिव्यसनेषु शोकविनोदना । उपकरणविघातिषु सत्त्वेषु सर्वोपकरणोपसंहारः । न्यायपतितः सम्यङ्निश्रयदानतो धर्मेण गणपरिकर्षणा । आलपनसंलपनप्रतिसम्मोदनैः कालेनोपसंक्रमणतया परतो भोजनपानादि [प्रति]ग्रहतो लौकिकार्थानुव्यवहारतः आहूतस्यागमनगमनतः समासतः सर्वानर्थोपसंहितामनापसमुदाचारपरिवर्जनैश्चित्तानुवर्तनता । भूतैश्च गुणैः संप्रहर्षणता । रहः प्रकाशं वोद्भावनतामुपादाय । स्निग्धेन हिताध्याशयानुगतेनान्तर्गतमानसेन निग्रहक्रिया अवसादना वा दण्डकर्मानुप्रदानं व प्रवासना वा यावदेवाकुशलास्थानात्व्युत्थाप्य कुशले स्थाने सन्नियोजनार्थम् । ऋद्धिबलेन च नरकादिगतिप्रत्यक्षं सन्दर्शनतयाऽकुशलादुद्वेजना बुद्धशासनावताराय चावर्जना तोषणा विस्मापना ।

कथञ्च बोधिसत्त्वः संवरशीले स्थितः कुशलधर्मसंग्राहके शीले स्थितः सत्त्वार्थक्रियाशीले च स्थितः सुसंवृतशीली च भवति सुसंगृहीतकुशलशीली च (दुत्त्९८) सर्वाकारसत्त्वार्थक्रियाशीली च । इह बोधिसत्त्वः प्रातिमोक्षसंवरव्यवस्थितः स चेच्चक्रवर्तिराज्यमप्युत्सृज्य प्रव्रजितो भवति स तस्मिंश्चक्रवर्तिराज्ये एवं निरपेक्षो भवति तद्यथा तृणे वाऽमेध्ये वा । निहीनपुरुषस्य जीविकाभिप्रायस्य प्रव्रजितस्य प्रत्यवरान् कामानपहाय न तथा तेषु प्रत्यवरेषु कामेषु निरपेक्षता भवति यथा बोधिसत्त्वस्याशयविशुद्धतामुपादाय प्रव्रजितस्य सर्वमानुष्यककामप्रवरेषु चक्रवर्तिकामेषु । अनागतेष्वपि मारभवनपर्यापन्नेष्वपि कामेषु बोधिसत्त्वो नाभिनन्दी भवति नापि च तेषामर्थाय प्रणिधाय ब्रह्मचर्यं चरति महाविचित्रप्रतिभयगहनप्रवेशमिव तान् कामान् यथाभूतं संपश्यन् प्रागेव तदन्येषु दिव्येषु । वर्तमानेऽप्यध्वनि प्रव्रजितो बोधिसत्त्व उदारेभ्यः सत्त्वेभ्य उदारमपि लाभसत्कारं वान्ताशनमिव सम्यक्प्रज्ञया पश्यन्नास्वादयति प्रागेव प्रत्यवरेभ्यः [सत्त्वेभ्यः] प्रत्यवरम् । प्रविवेकाभिरतश्च भवति एकाकी संवमध्ये वा सर्वकालं चित्तव्यपकृष्टविहारी । स न शीलसंवरमात्रकेण तुष्ठो भवति । अपि तु शीलं निश्रित्य शीलं प्रतिष्ठाय ये तेऽप्रमेया बोधिसत्त्वसमाधयस्तेषामभिनिर्हाराय वशिताप्राप्तये व्यायच्छते । सः संसर्गतोऽप्यणुकामप्यसत्संकथा मसद्वाचं नाधिवासयति प्रविवेकगतश्चाणुकमप्यसद्वितर्कम् । प्रमुषितया च स्मृत्या तत्समुदाचारहेतोः कालेन कालं तीव्रं विप्रतिसारमादीनवदर्शनमुत्पादयति । यमाभीक्ष्णकं विप्रतिसारमादीनवदर्शनमागम्योत्पन्नमात्रायामसत्संकथायामसद्वितर्के च त्वरितत्वरितं
सा स्मृतिरुपतिष्ठते । अकरणचित्तञ्च प्रतिलभते । येन प्रतिसंहरति । प्रतिसंहरणाभ्यासतश्च क्रमेण तद्यथा पूर्वं तत्समुदाचार-रतिरभूत्तथा एतहर्यसमुदाचार-रतिः सन्तिष्ठते समुदाचारप्रातिकूल्यञ्च । सर्वबोधिसत्त्वशिक्षापदानि चास्य महाभूमिप्रविष्टानां बोधिसत्त्वानां श्रुत्वा उदाराण्यप्रमेयाण्यचिन्त्यानि दीर्घकालिकानि परमदुश्कराणि न भवति चेतस उत्तासो वा लयः संकोचो वा नान्यत्रास्यैवं भवति । तेऽपि मनुष्यभूताः क्रमेण शिक्षमाणाः बोधिसत्त्वशिक्षाष्वप्रमेयाचिन्त्यकायवाक्संवरसमन्वागताः संवृत्ताः । वयमपि मनुष्यभूताः क्रमेण च शिक्षमाणाः असंशयमनुप्राप्स्यामस्तां कायवाक्संवरसम्पत्तिमिति । आत्मदोषान्तरस्खलितगवेषी च बोधिसत्त्वो भवति शीलसंवरे व्यवस्थितो न परदोषान्तरस्खलितगवेषी । सर्वरौद्रदुःशीलानाञ्च (दुत्त्९९) सत्त्वानामन्तिके नाघातचित्तो भवति न प्रतिघचित्तः । धर्ममहाकरुणतामुपादायाधिमात्रमेव तेषामन्तिके बोधिसत्त्वानामनुकम्पाचित्तञ्च कर्तुकामताचित्तञ्च प्रत्युपस्थितं भवति । संवरशीलव्यस्थितश्च बोधिसत्त्वः पाणिलोष्टदण्डशस्त्रसंस्पर्शैरपि परेषामन्तिके चित्तमपि न प्रदूषयति । कुतः पुनः पापिकां वाचं निश्चारयिष्यति प्रतिहनिष्यति वा प्रागेव पुनः आक्रोशरोषणपरिभाषणैस्तनुकदुःखस्पर्शजैरपकारैः । संवरशीलव्यवस्थितश्च बोधिसत्त्वः पञ्चाङ्गपरिगृहीतेनाप्रमादेन समन्वागतो भवति पूर्वान्तसहगतेनापरान्तसहगतेन मध्यान्तसहगतेन पूर्वकालकरणीयेन सहानुचरेण च । बोधिसत्त्वशिक्षासु शिक्षमाणो बोधिसत्त्वः अतीतमध्वानमुपादाय यामापत्तिमापन्नः साऽनेन यथाधर्मं
प्रतिकृता भवति । अयमस्य पूर्वान्तसहगतोऽप्रमादः । अनागतेऽप्यध्वनि यामापत्तिमापत्स्यते तामपि यथाधर्मं प्रतिकरिष्यति । अयमस्यापरान्तसहगतोऽप्रमादः । प्रत्युत्पन्नेऽप्यध्वनि यामापत्तिमापद्यते तामपि यथाधर्मं प्रतिकरोति । अयमस्य मध्यान्तसहगतोऽप्रमादः । पूर्वमेव चापत्तेर्बोधिसत्त्वस्तीव्रमौत्सुक्यमापद्यते । कच्चिदहं तथा तथा चरेयं यथा यथा चरन् यथा यथा विहरनापत्तिं नापद्येयम् । अयं बोधिसत्त्वस्य पूर्वकालकरणीयोऽप्रमादः । स पूर्वकालकरणीयमेवाप्रमादं निश्रित्य तथा तथा चरति तथा तथा विहरति यथा यथास्य चरतो विहरतो वा आपत्तिर्नोत्तिष्ठते । अयमस्य सहानुचरोऽप्रमादः । संवरशील-व्यवस्थितो बोधिसत्त्वः प्रतिच्छन्नकल्याणो भवति विवृतपापः अल्पेच्छः सन्तुष्टः दुःखसहिष्णुरपरितसनजातीयः अनुद्धतश्च अचपलश्च प्रशान्तेर्यापथः कुहनादिसर्वमिथ्याजीवकरकधर्मविवर्जितः । एभिर्दशभिरङ्गैः समन्वागतो बोधिसत्त्वः संवरशीलव्यवस्थितः सुसंवृतशीली भवति । यदुतातीतेषु कामेषु निरपेक्षतया अनागतेष्वनभिनन्दनतया प्रत्युत्प-न्नेष्वनध्यवसानतया प्रविवेकवासाभिरत्या वाग्वितर्कपरिशोधनतया आत्मनोऽपरिभवनतया सौरत्येन क्षान्त्याऽप्रमादेन आचाराजीवविशुद्ध्या चेति ।

पुनर्बोधिसत्त्वः कुशल[धर्म]संग्राहकशीले व्यवस्थितः उत्त्पन्नां कायभोगापेक्षां स्वल्पामपि नाधिवासयति प्रागेव प्रभूताम् । सर्वदौःशील्यनिदानभूतांश्च (दुत्त्१००) क्लेशोपक्लेशान् क्रोधोपनाहादीनुत्पन्नान्नाधिवासयति । उत्पन्नां परेषामन्तिके आघातप्रतिघवैरचित्ततां नाधिवासयति । उत्पन्नमालस्यकौसीद्यं नाधिवासयति । उत्पन्नं समापत्यास्वादं समापत्तिक्लेशं नाधिवासयति । पञ्च च स्थानानि यथाभूतं प्रजानाति । कुशलफलानुशंसं यथाभूतं प्रजानाति । कुशलहेतुं कुशलहेतुफले विपर्यासमविपर्यासञ्च कुशलसंग्रहाय चान्तरायं यथाभूतं प्रजानाति । कुशलफले बोधिसत्त्वः अनुशंसदर्शी कुशलहेतुं पर्येषते । कुशलसंग्रहाय विपर्यासञ्चाविपर्यासञ्च यथाभूतं प्रजानन् बोधिसत्त्वः प्राप्य कुशलफलं नानित्ये नित्यदर्शी भवति । न दुःखे सुखदर्शी । नाशुचौ शचिदर्शी । नानात्मन्यात्मदर्शी । अन्तरायञ्च प्रजानन् कुशलसंग्रहाय परिवर्जयति । तस्यैभिर्दशभिराकारैः कुशलधर्मसंग्राहकशीलव्यवस्थितस्य क्षिप्रमेव कुशलसंग्रहो भवति सर्वाकार[संग्रह]श्च यदुत दानोपनिषदाशीलोपनिषदा क्षान्त्युपनिषदा वीर्योपनिषदा ध्यानोपनिषदा पञ्चाकारया च [प्र]ज्ञया ।

पुनर्बोधिसत्त्वः एकादशभिराकारैः सर्वाकारे सत्त्वार्थक्रियाशीले व्यवस्थितः । एकैकेन सर्वाकारेणाकारेण समन्वागतो भवति । इह बोधिसत्त्वः सत्त्वानां तेषु तेषु कृत्येषु सहायीभावं गच्छन् कृत्यचिन्तायां कृत्यसमर्थने सहायीभावं गच्छति अध्वगमनागमने सम्यक्कर्मान्तप्रयोगे भोगानामारक्षणे विभिन्नान्योऽन्यप्रतिसन्धाने उत्सवे पुण्यक्रियायाञ्च दुःखेषु वा । पुनर्बोधिसत्त्वः सहायीभावं गच्छन् व्याधितान् सत्त्वान् परिचरति । अन्धान् प्रणयति पन्थानं व्यपदिशति । बधिरान् हस्तसवाचिकयार्थं ग्राहयति संज्ञानिमित्तव्यपदेशेन । व्यङ्गान् शिरसा वा यानेन वा वहति । कामच्छन्दपर्यवस्थानदुःखितानां सत्त्वानां कामच्छन्दपर्यवस्थानदुःखं प्रतिविनोदयति । व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सापर्यवस्थानदुःखितानां सत्त्वानां यावद्विचिकित्सापर्यवस्थानदुःखं प्रतिविनोदयति । कामवितर्कपर्यवस्थानेन दुःखितानां सत्त्वानां कामवितर्कं प्रतिविनोदयति । यथाकामवितर्कमेवं व्यापादहिंसाज्ञातिजनपदापर वितर्कावमन्यनाप्रतिसंयुक्तः कुलोदय प्रतिसंयुक्तश्च वितर्को वेदितव्यः परिपरिभवपराजयदुःखेन दुःखितानां सत्त्वानां परपरिभवपराजयदुःखं (दुत्त्१०१) प्रतिविनोदयति । अध्वपरिश्रान्तानां स्थानासनदानेनाङ्गप्रपीडनेन श्रमक्लमदुःखं प्रतिविनोदयति । पुनर्बोधिसत्त्वः सत्त्वानां न्यायं व्यपदिशन् दुश्चरितचारिणां सत्त्वानां दुश्चरितप्रहाणाय धर्मं देशयति युक्तैः पदव्यञ्जनैः सहितैरानुलोमिकैरानुच्छविकैरौपयिकैः प्रतिरूपैः प्रदक्षिणैः निपकस्याङ्गसंभारैः । उपायकौशल्यं वा पुनर्व्यपदिशति यथा
दुश्चरितचारिणां सत्त्वानां दुश्चरितप्रहाणाय एवं मत्सारिणां [सत्त्वानां] मात्सर्यप्रहाणाय दृष्टे वा धर्मे सम्यगल्पकृच्छ्रेण भोगानामर्जनाय रक्षणाय च शासनेऽस्मिन् प्रतिहतानां श्रद्धाप्रतिलम्भाय दर्शनप्रतिलम्भाय । दर्शनविशुद्ध्याऽपायसमतिक्रमाय सर्वसंयोजनपर्यादानात्सर्वदुःखसमतिक्रमाय पुनर्बोधिसत्त्व उपकारिणां सत्त्वानां कृतज्ञतां प्राविष्कुर्वन् दृष्ट्वा सत्कृत्यालपति [संलपति] प्रतिसम्मोदयत्येहि स्वागतवादितया । आसनस्थानानुप्रदानेन च संप्रतीच्छति । तुल्याधिकेन चास्य प्रतिलाभसत्कारेण प्रत्युपस्थितो भवति न न्यूनेन । स कृत्येष्वस्यायाचितोऽपि सहायीभावं गच्छति प्रागेव याचितः । यथा कृत्येषु एवं दुःखेषु नयोपदेशे भयपरित्राणे व्यसनस्थशोकप्रतिविनोदने उपकरणोपसंहारे सन्निश्रयदाने चित्तानुवर्तने भूतैर्गुणैः संप्रहर्षणे स्निग्धेन चान्तर्भावेन विनिग्रहे ऋद्ध्या चोत्तासनावर्जनेनेति । पेयालम् । पुनर्बोधिसत्त्वो भीतानां सत्त्वानां भयेस्वारक्षकः । क्षुद्रमृगभयादपि सत्त्वान् रक्षति आवर्तग्राहभयादपि राजभयादपि चोरभयादपि प्रत्यर्थिकभयादपि स्वाम्यधिपतिभयादपि अनाजीविकभयादप्यश्लोकभयात्परिषच्छारद्यभयादपि अमनुष्यवेताडभयादपि । पुनर्बोधिसत्त्वो व्यसनस्थानां सत्त्वानां शोकप्रतिविनोदनं ज्ञातिव्यसनमारभ्य मातापितृमरणेऽपि शोकं [प्रति]विनोदयति । पुत्रदारमरणेऽपि दासीदासकर्मकरपौरुषेयमरणेऽपि मित्रामात्यज्ञातिसालोहितमरणेप्याचार्योपाध्यायगुरूस्थानीयमरणेऽपि शोकं प्रतिविनोदयति । भोग व्यसनं वा पुनरारभ्य स चेद्भोगा राज्ञा वा परेषामपहृता भवन्ति । तत्र शोकं प्रतिविनोदयति । चौरैर्वाऽपहृता भवन्ति । अग्निना वा दग्धा उदकेन वा अपहृताः कुनिहिता वा निधयः प्रनष्टा भवन्ति । कुप्रयुक्ता वा कर्मान्ताः प्रलुग्ना भवन्ति । अप्रियैर्वा दायादैरधिगता
भवन्ति । कुले वा कुलांगार (दुत्त्१०२) उत्पन्नो भवति । येन ते भोगा अनयेन व्यसनमापादिता भवन्ति । तन्निदानमपि शोकमुत्पन्नं मृदुमध्याधिमात्रं सत्त्वानां बोधिसत्त्वः सम्यक्प्रतिविनोदयति । पुनरुपकरणार्थिनामुपकरणोपसंहारं कुर्वन् बोधिसत्त्वो भोजनं भोजनार्थिभ्यो ददाति । पानं पानार्थिभ्यः । यानं यानार्थिभ्यः । वस्त्रं वस्त्रार्थिभ्यः । अलङ्कारमलङ्कारार्थिभ्यः । भाण्डोपस्करं भाण्डोपस्करार्थिभ्यः । गन्धमाल्यविलेपनं गन्धमाल्यविलेपनार्थिभ्यः । प्रतिश्रयं प्रतिश्रयार्थिभ्यः । आलोकमालोकार्थिभ्यो ददाति । पुनः परिग्रहशीलेन बोधिसत्त्वः सत्त्वानां गणपरिकर्षणयोगेन परिग्रहं कुर्वन् पूर्वन्तावत्निश्रयं ददाति निरामिषेण चित्तेनानुकम्पाचित्तेनानुकम्पाचित्तमेव [सं]पुरष्कृत्य । ततो धर्मेण चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारानेषामर्थे श्राद्धानां ब्राह्मणगृहपतीनामन्तिकात्पर्येषते । धार्मिकैश्च धर्मलब्धैः स्वैश्चीवरपिण्डपातशयानासनग्लान प्रत्ययभैषज्यपरिष्कारैः साधारणपरिभोगी च भवत्यप्रतिगुप्तभोजी । अष्टाकारञ्चानुलोमिकमववादं कालेन कालमनुप्रयच्छति । पञ्चाकारया चानुशासन्या सम्यक्समनुशास्ति । तद्यथोक्तेऽनुशासनी-बलगोत्रपटले तथेहापि वेदितव्या । पुनर्बोधिसत्त्वश्चित्तानुवर्तनशीलेन सत्त्वानां चित्तमनुवर्तमानः आदित एवं सत्त्वानां भावं च जानाति प्रकृतिञ्च । भावञ्च ज्ञात्वा प्रकृतिञ्च यथा यैः सत्त्वैः सार्धं संवस्तव्यं भवति तथा [तैः] संवसति । यथा येषु सत्त्वेषु प्रतिपत्तव्यं भवति तथा तेषु प्रतिपद्यते । यस्य च सत्त्वस्य बोधिसत्त्वश्चित्तमनुवर्तितुकामो भवति तस्य च चेत्पश्यत्येवंरूपेणास्य वस्तुसमुदाचारेण कायिकवाचिकेन
दुःखदौर्मस्यमुत्पत्स्येते । तच्चदुःखदौर्मनस्यमस्य नाकुशलात्स्थानाद्व्युत्थानाय कुशले च स्थाने प्रतिष्ठापनाय संवर्तिष्यते । प्रतिसंख्याय बोधिसत्त्वस्तं कायिकवाचिकं वस्तसमुदाचारं यत्नतः परिहरति न समुदाचरति । स चेत्पुनस्तद्दुःखदौर्मनस्यमस्याकुशलात्स्थानाद्व्युत्थाप्य (दुत्त्१०३) कुशले स्थाने प्रतिष्ठापनाय पश्यति नानुवर्तते । प्रतिसंख्याय बोधिसत्त्वः परचित्तं यदुत परानुकम्पामेवोपादाय येन च परेषां वस्तुसमुदाचारेण कायिकवाचिकेनान्येषामुत्पद्यते दुःखदौर्मनस्यं तच्च परेषां तदन्येषामकुशलात्स्थानाद्व्युत्थानाय कुशले स्थाने प्रतिष्ठा[प]नाय [न] संवर्तते प्रतिसंख्याय प्रतिसंहरति बोधिसत्त्वस्तत्कायवाक्[कर्म]समुदाचारं तदन्येषां चित्तानुरक्षया । स चेत्पुनः पश्यति परेषां तदन्येषां वा तदुभयोर्वा अकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनाय प्रतिसंख्याय समुदाचरति बोधिसत्त्वस्तं कायवाक्समुदाचारम् । नानुवर्तते तेषां सत्त्वानां चित्तमनुकम्पाचित्तमेवोपस्थाप्य । येन च बोधिसत्त्व आत्मनो वस्तुसमुदाचारेण कायिकवाचिकेन परेषां दुःखदौर्मनस्यमुत्पद्यमानं समनुपश्यति स च कायवाक्समुदाचारो न शिक्षापदपरिगृहीतो भवति न पुण्यज्ञानसम्भारानुगतः तच्च दुःखदौर्मनस्यं परेषां नाकुशलात्स्थानादिति पूर्ववद्वेदितव्यम् । प्रतिसंहरति बोधिसत्त्वस्तं कायवाक्समुदाचारं परचित्तानुरक्षया । [तद्] विपर्ययात्समुदाचारः पूर्ववद्वेदितव्यः । यथा दुःखदौर्मनस्यमेवं सुखसौमनस्यं यथायोगं विस्तरेण वेदितव्यम् । न च परचित्तानुवर्ती बोधिसत्त्वः परस्य क्रोधपर्यवस्थानेन
पर्यवस्थितस्य सम्मुखमविगते क्रोधपर्यवस्थाने वर्णमपि भाषते प्रागेवावर्णम् । नापि संज्ञाप्तिमनुप्रयच्छति । पुनः परचित्तानुवर्ती बोधिसत्त्वः परमनालपन्तमप्यालपति [प्रति]सम्मोदयति प्रागेवालपन्तं प्रतिसम्मोदयन्तम् । [न च] परचित्तानुवर्ती बोधिसत्त्वः परेषां क्षुभ्यति नान्यत्रावसादयितुकामः । तेषामेवानुकम्पया प्रशान्तैरिन्द्रियैरवसादयति । न च परिचित्तानुवर्ती बोधिसत्त्वः परमवहसति नावस्पण्डयति न मड्कुभावमस्योपसंहरति नाप्यस्पर्शविहाराय कौकृत्यमुपसंहरति । निगृहीतस्यापि पराजितस्य न निग्रहस्थानेन संचोदयति । नीचैः प्रपन्नस्य न चोच्छ्रितमात्मानं विख्यापयति । न च परचित्तानुवर्ती बोधिसत्त्वः परेषामसेवी भवति नाप्यतिसेवी नाप्यकालसेवी नापि तेषां पुरस्तात्प्रियविगर्हको भवति नाप्यप्रियप्रशंसकः । नाप्यसंस्तुतविश्वासी भवति । नाभीक्ष्णयाचकः । प्रतिग्रहेऽपि च मात्रां जानाति । प्रतिग्रहेण च भोजनपानादिकेनोपनिमन्त्रितो न निराकरोति । धार्मिको वा न्यायसंज्ञप्तिमनुप्रयच्छति । (दुत्त्१०४) पुनर्बोधिसत्त्वो भूतगुणसंहर्षणशीलेन सत्त्वान् संप्रहर्षयन् श्रद्धागुणसम्पन्नान् श्रद्धागुणसंकथया संप्रहर्षयति शीलगुणसम्पन्नान् शीलगुणसंकथया श्रुतगुणसंपन्नान् श्रुतगुणसङ्कथया त्यागगुणसम्पन्नांस्त्यागगुणसङ्कथया प्रज्ञागुणसम्पन्नान् प्रज्ञागुणसंकथया संप्रहर्षयति । पुनर्बोधिसत्त्वः निग्रहशीलेन सत्त्वान्निगृह्णन्मृद्वपराधं मृदुव्यतिक्रमं स्निग्धेनान्तर्भावेनाविपन्नेन मृद्व्याऽवसादनिकया अवसादयति । मध्यापराधं मध्यव्यतिक्रमं मध्यया [ऽवसादनिकया] अधिमात्रापराधमधिमात्रब्यतिक्रममधिमात्रयाऽवसादनिकयाऽवसादयति । यथा चावसादनिका तथा दण्डकर्म वेदितव्यम् । मृदुमध्यापराधं मृदुमध्यव्यतिक्रमं बोधिसत्त्वस्तावत्कालिकयोगेन पुनरादानाय
प्रवासयति तेषामेव चान्येषाञ्च समनुशासनार्थमनुकम्पाचित्ततया अधिमात्रापराधं [अधिमात्रव्यतिक्रमं] पुनरसंवासायासंभोगाय यावज्जीवेनाप्यपुनःप्रतिग्रहणाय प्रवासयति तेषामेव चानुकम्पया । मा ते बहुतरमस्मिन् शासनेऽपुण्यपरिग्रहं करिष्यन्तीति । परेषाञ्च हितकामतया समनुशासनार्थम् । पुनर्बोधिसत्त्वः ऋद्धिबलेन सत्त्वानुत्त्रासायितुकामः आवर्जयितुकामो वा दुश्चरितचारिणां सत्त्वानां दुश्चरितविपाकफलमपायान्नरकान्महानरकान् शीतलनरकान् प्रत्येकनरकानुपनीयोपनीय दर्शयति । पश्यन्तु भवन्तो दुश्चरितस्य [कृतोपचितस्य] मनुष्यभूतैरिदमीदृशं रौद्रं परमकटुकमनिष्टं फलविपाकं प्रत्यनुभूयमानमिति । ते च तं दृष्ट्वा उत्त्रस्यन्ति संवेगमापद्यन्ते दुश्चरितात्प्रतिविरमन्ति । तदेकत्यांश्च सत्त्वान् बोधिसत्त्वस्य महत्यां परिषदि सन्निसन्नस्य प्रश्नसंपादेनानादेयं वचनं कर्तुकामान् बोधिसत्त्वो वज्रपाणिं वाऽन्यतमं वा उदारवर्णमहाकायं [महाबलं] यक्षमभिनिर्मिमीय भीषयत्युत्त्रासयति । तन्निदानं संप्रत्ययजातस्य बहुमानजातस्य सम्यगेव प्रश्नप्रतिव्याकरणार्थम् । तस्य च महाजनकायस्य तेन प्रश्नव्याकरणेन विनयनार्थम् । विचित्रेण वा पुनः ऋद्व्यभिसंस्कारेण तद्यथा एको भूत्वा बहुधा भवन् बहुधा भूत्वा एको भवन् तिरः कुडयं तिरः शैलं तिरः प्राकारमसज्जमानेन कायेन गच्छन्विस्तरेण यावद्ब्रह्मलोकं कायेन वशे वर्तयन् यमकान्यपि प्रातिहार्याणि विदर्शयस्तेजोधातुमपि समापद्यमानः श्रावकासाधारणं वा पुनरृद्धिमुपदर्शयन्नावर्जयन् तोषयित्वा संप्रहर्ष्य अश्रद्धं (दुत्त्१०५) श्रद्धासंपदि निवेशयति । दुःशीलं शीलसंपदि अल्पश्रुतं श्रुतसंपदि
मत्सरिणं त्यागसंपदि दुष्प्रज्ञं प्रज्ञासंपदि निवेशयति । एवं हि बोधिसत्त्वः सर्वाकारेण सत्त्वार्थक्रियाशीलेन समन्वागतो भवति ।

त एते भवन्ति त्रयो बोधिसत्त्वस्य शीलस्कन्धाः अप्रमेयाः पुण्यस्कन्धाः । संवरशीलसंगृहीतः कुशल धर्मसंग्राहक[शील]संगृहीतः सत्त्वार्थक्रियाशीलसंग्रहीतश्च शीलस्कन्धः ।

तत्र बोधिसत्त्वेनास्मिन् त्रिविधेऽपि शीलस्कन्धे बोधिसत्त्वशिक्षायां शिक्षितुकामेन गृहिणा वा प्रव्रजितेन वाऽनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानेन सहधार्मिकस्य बोधिसत्त्वस्य कृतप्रणिधानस्य विज्ञस्य प्रतिबलस्य वाग्विज्ञप्त्यर्थग्रहणावबोधाय इत्येवंरूपस्य बोधिसत्त्वस्य पूर्वं पादयोर्निपत्याध्येषणां कृत्वा यथा तवाहं कुलपुत्रान्तिकाद्बोधिसत्त्वशीलसंवरसमादानमाकांक्षाम्यादातुं तदर्हस्यनुपरोधेन मुहूर्तमस्माकमनुकम्पया दातुं श्रोतुञ्च । इत्येवं सम्यगध्येष्यैकांसमुत्तरासङ्गं कृत्वा बुद्धानां भगवतामतीतानागतप्रत्युत्पन्नानां दशमु दिक्षु महाभूमिप्रविष्टानाञ्च महाज्ञानप्रभावप्राप्तानां बोधिसत्त्वानां सामीचीं कृत्वा गुणांश्च तेषांमामुखीकृत्य घनरसं प्रसादं चेतसः सञ्जनय्य परीत्तं वा यस्य [वा] याचति शक्तिर्हेतुबलञ्च । स विज्ञो बोधिसत्त्वो नीचैर्जानु-मण्डलनिपतितेन वा उत्कुटु[क]स्थितेन वा तथागतप्रतिमां पुरतः स्थापयित्वा संपूरस्कृत्यैवं स्याद्वचनीयः । अनुप्रयच्छ मे कुलपुत्रायुष्मन् भदन्तेति वा बोधिसत्त्वशीलसंवरसमादानम् । इत्युक्त्वा एकाग्रां स्मृतिमुपस्थाप्य चित्तप्रशादमेवानुपबृंहयता न चिरस्येदानीं मेऽक्षयस्याप्रमेयस्य निरुत्तरस्य महापुण्यनिधानस्य प्राप्तिर्भविष्यतीति एतमेवार्थमनुचिन्तयता तूष्णीं भवितव्यम् । तेन पुनर्विज्ञेन बोधिसत्त्वेन स तथा प्रतिपन्नो बोधिसत्त्वः अविक्षिप्तेन चेतसा स्थितेन वा निषण्णेन वा आसने इदं स्याद्वचनीयः । श्रुणु एवंनामन् कुलपुत्र धर्मभ्रातरिति वा बोधिसत्त्वोऽसि बोधौ च कृतप्रणिधानः । तेन ओमिति [प्रति]ज्ञातव्यम् । स पुनरुत्तरि इदं स्याद्वचनीयः । प्रतीच्छसि त्वमेवंनामन् (दुत्त्१०६) कुलपुत्र ममान्तिकात्सर्वाणि बोधिसत्त्वशिक्षापदानि
सर्वञ्च बोधिसत्त्वशीलं संवरशीलं कुशलधर्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलञ्च । यानि शिक्षापदानि यच्छीलमतीतानां सर्वबोधिसत्त्वानामभूत् । यानि शिक्षापदानि यच्छीलमनागतानां सर्वबोधिसत्त्वानां भविष्यति । यानि शिक्षापदानि यच्छीलमेतर्हि दशसु दिक्षु प्रत्युत्पन्नानां सर्वबोधिसत्त्वानां भवति । येषु शिक्षापदेषु यच्छीलेऽतीताः सर्वबोधिसत्त्वाः शिक्षितवन्तः । अनागताः सर्वबोधिसत्त्वाः शिक्षिष्यन्ते । प्रत्युत्पन्नाः सर्वबोधिसत्त्वाः शिक्षन्ते । तेन प्रतिगृह्णामीति प्रतिज्ञातव्यम् । एवं द्विरपि त्रिरपि तेन च विज्ञेन बोधिसत्त्वेन वक्तव्यम् । तेन च ममादायकेन बोधिसत्त्वेन यावत्त्रिरपि प्रतिज्ञातव्यं पृष्टेन । एवं हि तेन विज्ञेन बोधिसत्त्वेन तस्य प्रतिग्राहकस्य बोधिसत्त्वस्य यावत्त्रिरपि बोधिसत्त्वशीलसंवरसमादान दत्त्वा प्रतिज्ञाञ्च प्रतिगृह्याव्युत्थित एव तस्मिन् प्रतिग्राहके बोधिसत्त्वे तस्या एव तथागतप्रतिमायाः पुरतो दशसु दिक्षु सर्वबुद्धबोधिसत्त्वानां तिष्ठतां ध्रियतां यापयतां पादयोर्निपत्य सामीचीं कृत्वा एवमारोचयितव्यम् । प्रतिगृहीतमनेन एवनाम्ना बोधिसत्त्वेन मम एवंनाम्नो बोधिसत्त्वस्यान्तिकाद्यावत्त्रिरपि बोधिसत्त्वशीलसंवरसमादानम् । सोऽहमेवनामात्मानं साक्षिभूतमस्यैतन्नाम्नो बोधिसत्त्वस्य परमार्याणां विपरोक्षाणामपि सर्वत्र सर्वसत्त्वाविपरोक्षबुद्धीनां दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुष्वारोचयाम्यस्मिन् बोधिसत्त्वशीलसंवरसमादनम् । एव द्विरप्येवं त्रिरपि वक्तव्यम् । एवञ्च पुनः शीलसंवरसमादानकर्मपरिसमाप्त्यनन्तरं धर्मता खल्वेषा यद्वा दशसु दिक्ष्वनन्तापर्न्यतेषु लोकधातुषु तथागतानां महाभूमिप्रविष्टानाञ्च
बोधिसत्त्वानाञ्च तिष्ठतां ध्रियतां तद्रूपं निमित्तं प्रदुर्भावति । येन तेषामेवं भवति । बोधिसत्त्वेन बोधिसत्त्वशीलसंवरसमादानं समाप्तमिति । तेषाञ्चानन्तरं समन्वाहरस्तस्य बोधिसत्त्वस्यान्तिके भवति । समन्वाहरताञ्च ज्ञानदर्शनं प्रवर्तते । ते तेन ज्ञानदर्शनेन यथाभूतमेवं प्रतिसंवेदयन्ति । यथा एवंनान्मा बोधिसत्त्वेन अमुष्मिन् लोकधातावेवंनाम्नो बोधिसत्त्वस्यान्तिकात्सम्यग्बोधिसत्त्वशील संबरसमादानं गृहीतमिति । ते चास्य सर्वे पुत्रस्यैव भ्रातुरिवकल्याणैर्मनोभिः प्रत्यनुकम्पन्ते । एवं कल्याणमनःप्रत्यनुकम्पितस्य [तस्य] बोधिसत्त्वस्य (दुत्त्१०७) भूयस्या मात्रया वृद्धिः प्रतिकांक्षितव्या कुशलानां धर्माणां न हानिः । प्रतिगृहीतञ्च तच्छीलसंवरसमादानारोचनं तैर्वेदितव्यम् । परिसमाप्तौ च तस्मिन् बोधिसत्त्वशीलसंवरसमादानकर्मण्युभाभ्यां ताभ्यां बोधिसत्त्वाभ्यां दशसु दिक्षु तेषामनन्तापर्यन्तलोकधातुगतानां बुद्धबोधिसत्त्वानां सामीचीं कृत्वा पादयोर्निपत्योत्थातव्यम् । इदं तस्य बोधिसत्त्वस्य शीलसंवरसमादानं सर्वशील-संवरसमादानप्रतिविशिष्टं भवति निरुत्तरमप्रमेयपुण्यस्कन्धसमन्वागतं परमकल्याणचित्ताशयसमुत्थापितं सर्वसत्त्वेषु सर्वाकारदुश्चरितप्रतिपक्षभूतम् । यस्य शीलसंवरसमादानस्य सर्वप्रातिमोक्षसंवरसमादानानि शततमीमपि कलां नोपयन्ति सहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि नोपयन्ति यदुत पुण्यपरिग्रहमुपादाय । तेन पुनर्बोधिसत्त्वेनैवं बोधिसत्त्वशीलसंवरसमादानव्यवस्थितेन स्वयं चाभ्युह्याभ्युह्येदं बोधिसत्त्वस्य प्रतिरूपं कर्तुमिदमप्रतिरूपं
कर्तुमिति तथैव तत ऊर्ध्वं कर्मणा संपादयितव्यं शिक्षा करणीया । बोधिसत्त्वसूत्रपिटकाद्वा यत्नतः श्रुत्वाऽस्माबोधिसत्त्वसूत्रपिटकमातृकानिबन्धात्श्रुत्वा तथैव शिक्षा करणीया । न च पुनः सर्वेषां बोधिसत्त्वानामन्तिकाद्विज्ञानामप्येतच्छीलसंवरसमादानमादातव्यम् । बोधिसत्त्वेन नाश्राद्धस्यान्तिकात्प्रग्रहीतव्यम् । यस्तत्प्रथमत एतदेवंविधं शीलसंवरसमादानं नाधिमुच्येत नावतरेन्नावकल्पयेन्नलुब्धस्य न लोभाभिभूतस्य महेच्छस्यासन्तुष्टस्य न शीलविपन्नस्य शिक्षास्वनादरकारिणः शैथिलिकस्य न क्रोधनस्योपनाहिनः अक्षान्तिबहुलस्य परतो व्यतिक्रमासहिष्णोः नालसस्य कुसीदस्य यद्भूयसा रात्रिन्दिवं निद्रासुखं पार्श्वसुखं शयनसुखञ्च स्वीकुर्वतः सङ्गणिकया चातिनामयतः । न विक्षिप्तचित्तस्यान्ततो गोदोहनमात्रमपि कुशलचित्तैकाग्रताभावनाऽसमर्थस्य । न मन्दस्य न मोमुहजातीयस्यात्यर्थं संलीनचित्तस्य बोधिसत्त्वसूत्रपिटकं बोधिसत्त्वपिटकमातृकामपवदमानस्य । न च पुनरेतत्संवरसमादानविधानं बोधिसत्त्वेनोद्गृह्य पर्यवाप्यापि बोधिसत्त्वपिटक प्रतिहतानामश्राद्धानां सत्त्वानां सहसैवारोचयितव्य प्रवेदयितव्यम् । तत्कस्य हेतोः । तथाहि श्रुत्वाऽ[न]धिमुच्यमाना महताज्ञानावरणेनावृता (दुत्त्१०८) अपवदेरन् । यश्चैनमपवदते स यावदप्रमाणेन पुण्यस्कन्धेन समन्वागतः संवरस्थायी बोधिसत्त्वो भवति तावदप्रमाणेनैव सोऽपुण्यस्कन्धेनानुषक्तो भवति यावत्तां पापिकां वाचं पापिकां दृष्टिं पापकान् सकल्पान् सर्वेण सर्व नोत्सृजति ।

शीलसंवरसमादानञ्च कर्तुकामस्य बोधिसत्त्वस्य पुरतोऽस्यां बोधिसत्त्वसूत्रपिटकमातृकायां यानि बोधिसत्त्वस्य शिक्षापदान्यापत्तिस्थानानि चाख्यातानि तान्यनुश्रावयितव्यानि । च चेदाशयतो विचारयित्वा प्रज्ञया प्रतिसंख्यायोत्सहते । न परसमादापनिकया नापि परस्पर्धया [स]धीरो बोधिसत्त्वो वेदितव्यः । तेन च प्रतिगृहीतव्यं तस्य च दातव्यमेतेन विधिना एतच्छीलसंवरसमादानम् ।

एवञ्च शीलसंवरव्यवस्थितस्य बोधिसत्त्वस्य चत्वारः पाराजयिकस्थानीयधर्मा भवन्ति । कतमे चत्वारः । लाभसत्काराध्यवसितस्यात्मोत्कर्षणा परपंसना बोधिसत्त्वस्य पाराजायिकस्थानीयो धर्मः । सत्सु संविद्यमानेषु भोगेषु लोभप्रकृतित्वात्दुःखितेषु कृपणेष्वनाथेष्वप्रतिशरणेष्वसम्यगयाचकेषु प्रत्युपस्थितेषु नैर्वृण्यादामिषाविसर्गः धर्ममात्सर्याच्चार्थिनां सम्यक्प्रत्युपस्थितानां धर्माणामसंविभागक्रिया बोधिसत्त्वस्य पाराजयिकस्थानीयो धर्मः । यदपि बोधिसत्त्वस्तद्रूपं क्रोधपर्यवस्थानमनुवृंहयति येन ततो न वाक्पारुष्यनिश्चारणमात्रकेण निवर्तते । क्रोधाभिभूतः पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण सत्त्वांस्ताडयति विहिंसयति विहेठयति । क्रोधाशयमेव च तीव्रमन्तराकृत्वा परेषामन्तिकाद्व्यतिक्रमसज्ञप्ति न प्रतिगृहणाति न क्षमते नाशयं विमुञ्चति । अयमपि बोधिसत्त्वस्य पाराजयिकस्थानीयो धर्मः । बोधिसत्त्वपिटकापवादः सद्धर्मप्रतिरूपकाणाञ्च रोचना दीपना व्यवस्थापना । स्वयं वा सद्धर्मप्रतिरूपकाधिमुक्तस्य परेषां चाऽनुवृत्त्या बोधिसत्त्वस्य पाराजयिकस्थानीयो धर्मः । इतीमे चत्वारः पाराजयिकस्थानीया धर्माः । येषां बोधिसत्त्वोऽन्यतमान्यतमं धर्ममध्यापद्य प्रागेव सर्वानभव्यो भवति दृष्टे धर्मे विपुलस्य बोधिसत्त्वसंभारस्योपचयाय परिग्रहाय । अभव्यो भवति च दृष्टे (दुत्त्१०९) धर्मे आशयविशुद्धेः । [स] बोधिसत्त्वप्रतिरूपकश्च भवति । नो तु भूतो बोधिसत्त्वः ।

मृदुमध्यपर्यवस्थान[त]श्च बोधिसत्त्वः एभिश्चतुर्भिः पाराजयिकस्थानीयधर्मसमुदाचाराद्बोधिसत्त्वशीलसंवरसमादानं [न] विजहाति । अधिमात्रपर्यवस्थानतस्तु विजहाति । यतश्च बोधिसत्त्वः एषां चतुर्णां पाराजयिकस्थानीयानां धर्माणामभीक्ष्ण-समुदाचारात्परीत्तमपि ह्रीब्यपत्राप्यं नोत्पादयति । तेन च प्रीयते । तेन च रमते । तत्रैव गुणदर्शी भवति । इयमधिमात्रता पर्यवस्थानस्य वेदितव्या । न तु बोधिसत्त्वः सकृदेव पाराजयिकस्थानीयधर्मसमुदाचारात्बोधिसत्त्वशीलसंवरसमादानं विजहाति । तद्यथा पाराजयिर्कैधर्मैर्भिक्षुःप्रातिमोक्षसंवरम् । परित्यक्तसमादानोऽपि च बोधिसत्त्वो दृष्टे धर्मे भव्यः पुनरादानाय बोधिसत्त्वशीलसंवरसमादानस्य भवति नाभव्य एव तद्यथा पाराजयिकाध्यापन्नः प्रातिमोक्षसंवरस्थो भिक्षुः । समासतश्च द्वाभ्यामेव कारणाभ्यां बोधिसत्त्वशीलसंवरसमादानस्य त्यागो भवति । अनुत्तरायां सम्यक्संबोधौ प्रणिधानपरित्यागतश्च पाराजयिकस्थानीयधर्माधिमात्रपर्यवस्थानसमुचारतश्च । न च परिवृत्तजन्मापि बोधिसत्त्वः बोधिसत्त्वशीलसंवरसमादानं विजहाति । अध उर्ध्वं तिर्यक्सर्वत्रोपपद्यमानो येन बोधिसत्त्वेन प्रणिधानं न त्यक्तं भवति । नापि च पाराजयिकस्थानीयानां धर्माणामधिमात्रं पर्यवस्थानं समुदाचरितं भवति । मुषितस्मृतिस्तु परिवृत्तजन्मा बोधिसत्त्वः कल्याणमित्रसम्पर्कमागम्य स्मृत्युद्बोधनार्थं पुनः पुनरादानं करोति । न त्वभिनवसमादानम् ।

एवं बोधिसत्त्वशीलसंवरस्थितस्य बोधिसत्त्वस्यापत्तिरपि वेदितव्या । अनापत्तिरपि क्लिष्टाप्यक्लिष्टापि मृद्वी मध्याऽधिमात्रा अपि ।

एवं बोधिसत्त्वशीलसंवरस्थितो बोधिसत्त्वः प्रतिदिवसं तथागतस्य वा तथागतमुद्दिश्य चैत्ये धर्मस्य वा धर्ममुद्दिश्य पुस्तकगतेऽपि बोधिसत्त्वसूत्रपिटके (दुत्त्११०) [बोधिसत्त्वसूत्रपिटक]मातृकायां वा संघस्य वा योऽसौ दशसु दिक्षु महाभूमिप्रविष्टानां बोधिसत्त्वानां संघः किञ्चिदेवाल्पं वा प्रभूतं वा पूजाधिकारिकमकृत्वाऽन्तत एकप्रणाममपि कायेन अन्ततो गुणानारभ्य बुद्धधर्मसंघानामेकचतुष्पदाया अपि गाथायाः प्रव्याहारं वाचा अन्तत एकप्रसादमपि बुद्धधर्मसंघगुणानुस्मरणपूर्वकञ्चेतसा रात्रिंदिवमतिनामयति सापत्तिको भवति सातिसारः । स चेदगौरवादालस्यकौसीद्यादापद्यते क्लिष्टामापत्तिमापन्नो भवति । स चेत्स्मृतिसंप्रमोषादापद्यते अक्लिष्टामापत्तिमापन्नो भवति । अनापत्तिः क्षिप्तचेतसः । अनापत्तिः शुद्धाशयभूमिप्रविष्टस्य । तथाहि शुद्धाशयो बोधिसत्त्वः तद्यथा अवेत्यप्रसादलाभी भिक्षर्नित्यकालमेव धर्मतया शास्तारं परिचरति परमया च पूजया पूजयति धर्मसंघञ्च ।

बोधिसत्त्वो महेच्छतामसन्तुष्टिं लाभसत्कारगर्धमुत्पन्नमधिवासयति सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य वीर्यमारभत स्तत्प्रतिपक्षपरिग्रहेण तत्प्रतिबन्धावस्थितस्य प्रकृत्या तीव्रक्लेशतयाभिभूय पुनः पुनः समुदाचाराणात् ।

बोधिसत्त्वो वृद्धतरकं गुणवन्तं सत्कारार्हं सहधार्मिकं दृष्ट्वा मानाभिनिग्रहीतः आघातचित्तः प्रतिघचित्तो वा उत्थायासनं नानुप्रयच्छति । परैश्चालप्यमानः प्रतिसम्मोद्यमानः परिपृष्टश्च न युक्तरूपेण वाक्प्रत्युदाहारेण प्रत्युपतिष्ठते मानाभिनिगृहीत एव आघातचित्तः प्रतिघचित्तो वा सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । नो चेन्मानाभिनिगृहीतो नाघातचित्तः प्रतिघचित्तो वा अपि त्वालस्यकौसीद्यादव्याकृतचित्तो वा स्मृतिसंप्रमोषाद्[वा] सापत्तिक एव भवति सातिसारो नो तु क्लिष्टामापत्तिमापद्यते । अनापत्तिर्वाढग्लानः स्यात्क्षिप्तचित्तो वा । अनापत्तिः [सुप्तः] स्यादयञ्च प्रतिविबुद्धसंज्ञी उपश्लिष्येदालपेत्संलपेत्प्रतिसम्मोदयेत्परिपृच्छेत् । अनापत्तिः परेषां धर्मदेशनायां प्रयुक्तस्य सांकथ्यविनिश्चये वा । अनापत्तिस्तदन्येषां प्रतिसंमोदयतः । अनापत्तिः परेषां धर्मं देशयतामवहितश्रोत्रस्य शृण्वतः सांकथ्यंविनिश्चयं वा । अनापत्तिर्धर्मसंकथाविरसतां धार्मकथिकचित्तञ्चानुरक्षतः । (दुत्त्१११) अनापत्तिस्तेनोपायेन तेषां सत्त्वानां दमयतो विनयतः अकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थानेप्रतिष्ठापयतः । [अनापत्तिः] सांधिकक्रियाकारमनुरक्षतः अनापत्तिः परेषां प्रभूततराणां चित्तमनुरक्षतः ।

बोधिसत्त्वः परैरुपनिमन्त्र्यमाणो गृहे वा विहारान्तरे वा गृहान्तरे वा भोजनपानवस्त्रादिभिः परिष्कारैः मानाभिनिगृहीतः आघातचित्तः प्रतिघचित्तो वा न गच्छति । न निमन्त्रणां स्वीकरोति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यान्न गच्छति अक्लिष्टामापत्तिमापद्यते । अनापत्तिर्ग्लानः स्यादप्रतिबलः क्षिप्तचित्तो व । अनापत्तिर्विप्रकृष्टो देशः स्यात्मार्गश्च सप्रतिभयः । अनापत्तिस्तेनोपायेनास्य दमयितुकामः स्यात्विनेतुकामोऽकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुकामः । अनापत्तिरन्यस्य पूर्वतरं प्रतिज्ञानं भवेत् । अनापत्तिर्निरन्तरकुशलपक्ष-[प्रयुक्तस्य कुशलपक्ष-]च्छिद्रीकारानुरक्षार्थमगच्छतः अनापत्तिरपूर्वस्यार्थोपसंहितस्य धर्मार्थश्रवणस्य परिहाणिहेतोः । यथा धर्मार्थश्रवणस्य एवं सांकथ्यविनिश्चयस्यापि वेदितव्यम् । अनापत्तिर्विहेठनाभिप्रायेण निमन्त्रितः स्यात् । अनापत्तिः परेषां प्रभूततरकाणामाघतचित्तमनुरक्षतः । अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः ।

बोधिसत्त्वः परेषामन्तिकाजजातरूपजतमणिमुक्तावैदूर्यादिकानि च धनजातानि विचित्राणि प्रभूतानि प्रवराणि लभमानोऽनुदध्यमानः आघातचित्तः प्रतिघचित्तो न प्रतिगृह्णाति प्रतिक्षिपति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते सत्त्वोपेक्षया । आलस्यकौसीद्यान्न प्रतिगृह्णाति । सापत्तिको भवति सातिसारो नो तु क्लिष्टामापत्तिमापद्यते । अनापत्तिः क्षिप्तचित्तस्य । अनापत्तिस्तस्मिन् प्रतिग्रहे रतिं चेतसः पश्यतः । [अनापत्तिर्विप्रतिसारमस्य पश्चात्संभावयवः ।] अनापत्तिर्दानविभ्रमस्य संभावयतः । अनापत्तिर्विनिर्मुक्ताग्रहस्य दानपतेर्दारिद्रयं विघातं तन्निदानं संभावयतः । अनापत्तिः सांधिकं स्तौपिकं संभावयतः । अनापत्तिः पराहृतमनेन संभावयतः यतो निदानमस्योत्पद्येत वधो वा बन्धो वा दण्डो वा ज्या-निर्गर्हणा वा ।

(दुत्त्११२)
बोधिसत्त्वः परेषां धर्मार्थिनामाघातचित्तः प्रतिघचित्तः ईर्ष्याविप्रकृतो वा धर्मं नानुप्रयच्छति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यान्न ददाति सापत्तिको भवति सातिसारो न क्लिष्टामापत्तिमापद्यते । अनापत्तिस्तीर्थिकः स्यात्रन्ध्रप्रेक्षी । अनापत्तिर्बाढग्लानः स्यात्क्षिप्तचित्तो वा । अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः अकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुकामः । अनापत्तिर्धर्मे न प्रवृत्तः स्यात् । अनापत्तिर्यद्यगौरवोऽप्रतीशो दुरीर्यापथः प्रतिगृह्णीयात् । अनापत्तिर्मृद्विन्द्रियस्योदारया धर्मदेशनया धर्मपर्याप्त्या उत्त्रासं मिथ्यादर्शनं मिथ्याभिनिवेशं क्षतिञ्चोपहतिञ्च संभावयेत् । अनापत्तिस्तद्धस्तगतस्य परेभ्यः अभाजनभूतेभ्यो विसारं धर्मस्य संभावयेत् ।

बोधिसत्त्वो रौद्रेषु दुःशीलेषु च सत्त्वेष्वाघातचित्तः प्रतिघचित्तः उपेक्षते विचेष्टते वा रौद्रतां दुःशीलतामेव च प्रत्ययं कृत्वा । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यादुपेक्षते स्मृतिसंप्रमोषाच्च विचेष्टते । सापत्तिको भवति सातिसारो नो तु क्लिष्टामापत्तिमापद्यते । तत्कस्य हेतोः । न हि बोधिसत्त्वस्य शीलवतः शान्तेः कायवाङ्मनस्कर्मप्रचारे तथानुकम्पाचित्तञ्च कर्तुकामता च प्रत्युपस्थिता भवति यथा रौद्रेषु दुःशीलेषु सत्त्वेषु दुःखहेतौ वर्तमानेषु । अनापत्तिः क्षिप्तचित्तस्य । अनापत्तिस्तेनोपायेनास्य दमयितुकामः स्याद्विस्तरेण पूर्ववत् । अनापत्तिः परेषां प्रभूतानाञ्चित्तानुरक्षिणः । अनापत्तिः संघक्रियाकारानुरक्षिणः ।

बोधिसत्त्वो यद्भगवता प्रातिमोक्षे विनये प्रतिक्षेपण-सावद्यं व्यवस्थापितं परचित्तानुरक्षामुपादायाप्रसन्नानां सत्त्वानां प्रसादाय प्रसन्नानाञ्च भूयोभावाय । तत्र तुल्यां श्रावकैः शिक्षां करोति निर्निराकरणम् । तत्कस्य हेतोः । श्रावकास्तावदात्मार्थपरमाः । ते तावन्न परनिरनुरक्षा अप्रसन्नानां प्रसादाय प्रसन्नानाञ्च भूयोभावाय शिक्षासु शिक्षन्ते । प्रागेव बोधिसत्त्वाः परार्थपरमाः ।

(दुत्त्११३)
यत्पुनः प्रतिक्षेपणसावद्यमल्पार्थतामल्पकृत्यतामल्पोत्सुकविहारतामारभ्य श्रावकाणां भगवता व्यवस्थापितां तत्र बोधिसत्त्वो न तुल्यां शिक्षां श्रावकैः करोति । तत्कस्य हेतोः । शोभते श्रावकः स्वार्थपरमः परार्थनिरपेक्षः परार्थमारभ्याल्पार्थः अल्पकृत्यश्चाल्पोत्सुकविहारी च । न तु बोधिसत्त्वः परार्थपरमः शोभते परार्थमारभ्याल्पार्थोऽल्पकृत्यश्चाल्पोत्सुकविहारी च तथाहि बोधिसत्त्वेन परेषामर्थे चीवरशतानि सहस्त्राण्यज्ञातिकानां ब्राह्मणगृहपतीनामन्तिकात्पर्येषितव्यानि प्रवारितेन । तेषां च सत्त्वानां बलाबलं संलक्ष्य यावदर्थ प्रतिगृहीतव्यानि । यथा चीवरकाण्येवं पात्राणि । यथा पर्येषितव्यान्येवं स्वयं याचितेन सूत्रेणाज्ञातिभिस्तन्तुवायैर्वार्ययितव्यानि । परेषाञ्चार्थाय कौशेयसंस्तरणशतानि निषदनसंस्तरणशतान्यूपस्थापयितव्यानि । जातरूपरजतशतसहस्रकोढ्यग्राण्यपि स्वीकर्तव्यानि । एवमादिकेऽल्पार्थतामल्पकृत्यतामल्पोत्सुकविहारतामारभ्य श्रावकाणां प्रतिक्षेपणसावद्येन समानशिक्षो भवति । बोधिसत्त्वो बोधिसत्त्वशीलसंवरस्थः सत्त्वार्थमारभ्य आघातचित्तः प्रतिघचित्तः अल्पार्थो भवति अल्पकृत्यः अल्पोत्सुकविहारी । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यादल्पार्थो भवत्यल्पकृत्यः अल्पोत्सुकविहारी । सापत्तिको भवति सातिसारोऽक्लिष्टामापत्तिमापद्यते ।

अस्ति किञ्चित्प्रकृतिसावद्यमपि [यद्] बोधिसत्त्वस्तद्रूपेणोपायकौशल्येन समुदाचरति येनानापत्तिकश्च भवति बहु च पुण्यं प्रसूयते । यथापि तद्बोधिसत्त्वश्चौरं तस्करं प्रभूतानां प्राणिशतानां महात्मनां श्रावकप्रत्येकबुद्धबोधिसत्त्वानां वधायोद्यतमामिषकिञ्चित्कहेतोः प्रभूतानन्तर्यकर्मक्रियाप्रयुक्तं पश्यति । दृष्ट्वा च पुनरेवं चेतसा चित्तमभिसंस्करोति । यद्यप्यहमेनं प्राणिनं जीविताद्व्यपरोप्य नरकेषूपपद्येयं कामं भवतु मे नरकोपपत्तिः । एष च सत्त्व आनन्तर्यकर्म कृत्वा मा भून्नरकपरायण इति । एवमाशयो बोधिसत्त्वस्तं प्राणिनं कुशलचित्तोऽव्याकृतचित्तो वा विदित्वा ऋतीयमानः (दुत्त्११४) अनुकम्पाचित्तमेवायत्यामुपादाय जीविताद्व्यपरोपयति । अनापत्तिको भवति बहु च पुण्यं प्रसूयते ।

यथापि तद्बोधिसत्त्वो ये सत्त्वा राजानो वा भवन्ति राजमहामात्रा वा अधिमात्ररौद्राः सत्त्वेषु निर्दया एकान्तपरपीडाप्रवृत्ताः । तां सत्यां शक्तौ तस्माद्राज्यैश्वर्याधिपत्याच्च्यावयति यत्र स्थितास्ते तन्निदानं बह्वपुण्यं प्रसवन्ति अनुकम्पाचित्तो हितसुखाशयः ।

ये च परद्रव्यापहारिणश्चौरास्तस्कराः सांधिकं स्तौपिकञ्च प्रभूतं द्रव्यं हृत्वा स्वीकृत्योपभोक्तुकामास्तेषामन्तिकात्तद्द्रव्यं बोधिसत्त्व आच्छिनत्ति । मा हैव तेषां स द्रव्यपरिभोगो दीर्घरात्रमनर्थायाहिताय भविष्यति इति । एवमेव प्रत्ययं कृत्वा आच्छिद्य साधिकं संधे निर्यातयति स्तैपिकं स्तूपे । ये च वैयावृत्यकरा वा आरामिका वा सांधिकं स्तौपिकञ्च प्रभूतं द्रव्यं विप्रतिपादयन्त्यनयेन । स्वयं [च] पौद्गलिकं परिभुञ्जते । तान् बोधिसत्त्वः प्रतिसंख्याय मा हैव तत्कर्म । स च मिथ्यापरिभोगस्तेषां भविष्यति दीर्घरात्रमनर्तायाहितायैति । तस्मादाधिपत्याच्च्यावयति । तदनेन पर्यायेण बोधिसत्त्वः अदत्तमाददानोऽप्यनापत्तिको भवति । बहु च पुण्यं प्रसूयते ।

यथापि तद्गृही बोधिसत्त्वः अब्रह्मचर्येषणार्तं तत्प्रतिबद्धचित्तमपरपरिगृहीतं मातृग्रामं मैथुनेन धर्मेण निषेवते । मा हैवाघातचित्ततां प्रतिलभ्य बह्वपुण्यं प्रसोष्यति । यथेप्सितकुशलमूलसन्नियोगे च वश्या भविष्यत्यकुशल[मूल]परित्यागे चेत्यनुकम्पाचित्तमेवोपस्थाप्य अब्रह्मचर्यं मैथुनं [धर्मं] प्रतिषेवमानोऽप्यनापत्तिको भवति । बहु च पुण्यं प्रसूयते । प्रव्रजितस्य पुनर्बोधिसत्त्वस्य श्रावकशासनभेदमनुरक्षमाणस्य सर्वथा न कल्पतेऽब्रह्मचर्यनिषेवणम् ।

यथापि तद्बोधिसत्त्वो बहूनां सत्त्वानां जीवित-विप्रमोक्षार्थं बन्धनविप्रमोक्षार्थं हस्तपादनासाकर्णच्छेद-चक्षुर्विकलीभाव-परित्राणार्थं यां बोधिसत्त्व (दुत्त्११५) स्वजीवितहेतोरपि सम्प्रजानन्मृषावाचं न भाषेत । तां तेषां सत्त्वानामर्थाय प्रतिसंख्याय भाषते । इति समासतो येन येन बोधिसत्त्वः सत्त्वानामर्थमेव पश्यति । नानर्थं पश्यति । स्वयं च निरामिषचित्तो भवति । केवल-सत्त्वहितकामतानिदानं च विनिधाय संज्ञां सम्प्रजाननन्यथा-वाचं भाषते । भाषमाणः अनापत्तिको भवति । बहु च पुण्यं प्रसूयते ।

यथापि तद्बोधिसत्त्वो ये सत्त्वा अकल्याणमित्र परिगृहीता भवन्ति तेषां तेभ्यः अकल्याणमित्रेभ्यो यथाशक्ति यथाबलं ब्यग्रकरणीं वाचं भाषते । व्यग्रारामश्च भवति तेन प्रीयमाणः । अनुकम्पाचित्तमेवोपादाय मा भूदेषां सत्त्वानां पापमित्रसंसर्गो दीर्घरात्रमनर्थायाहितायेति । अनेन पर्यायेण मित्रभेदमपि कुर्वन् बोधिसत्त्वोऽनापत्तिको भवति । बहु च पुण्यं प्रसूयते ।

यथापि तद्बोधिसत्त्वः उत्पथचारिणोऽन्यायचारिणः सत्त्वान् परुषया वाचा तीक्ष्णयावसादयति यावदेव तेनोपायेनाकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनार्थम् । एवं पारूषिको बोधिसत्त्वोऽनापत्तिको भवति । बहु च पुण्यं प्रसूयते ।

यथापि तद्बोधिसत्त्वो नृत्तगीतवादिताधिमुक्तानां सत्त्वानां राजचौरान्नपान-वेश्या-वीथी-कथाद्यधिमुक्तानां च सत्त्वानां नृत्तगीतवादितेन विचित्राभिश्च सम्भिन्नप्रलाप-प्रतिसंयुक्ताभिः संकथाभिरनुकम्पाशयेन तोषयित्वावर्ज्य वश्यतां विधेयतां चोपनीयाकुशलात्स्थानाद्व्युत्थाप्य कृशले स्थाने प्रतिष्ठापयति । एवं सम्भिन्नप्रलापी अपि बोधिसत्त्वोऽनापत्तिको भवति । बहु च पुण्यं प्रसूयते ।

बोधिसत्त्वः उत्पन्नां कुहनां लपनां नैमित्तिकतां नैष्पेषिकतां लाभेन लाभं निश्चिकीर्षुतां मिथ्याजीवकरां धर्मानधिवासयति । न तै रितीयते । न विनोदयति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । अनापत्तिस्तत्प्रतिविनोदनाय च्छन्दजातस्य यत्नमारभमाणस्य क्लेशप्रचुरतया चित्तमभिभूय समुदाचरणात् ।

बोधिसत्त्वः औद्धत्याभिनिगृहीतेन चेतसाऽव्युपशान्तः अव्ययुपशमारामः उच्चैः संञ्चग्धति संक्रीडते संकिलिकिलायते औद्धत्यं द्रवं प्राविष्करोति (दुत्त्११६) परेषां हासयितुकामो रमयितुकामः । एवमेव च प्रत्ययं कृत्वा सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते स्मृतिसंप्रमोषादक्लिष्टामापत्तिमापद्यते । अनापत्तिस्तद्विनोदनाय च्छन्दजातस्य पूर्ववत् । अनापत्तिः परेषामुत्पन्नमाघातं तेनोपायेन प्रतिविनोदयितुकामः स्यात् । अनापत्तिः परेषामुत्पन्नं शोकमपहापयितुकामः स्यात् । अनापत्तिः परेषां तत्प्रकृतिकानांतदारामाणां संग्रहाय वा प्रणयानुसंरक्षणाय वा तदनुवर्तनार्थम् । अनापत्तिः परेषां बोधिसत्त्वे मन्युसम्भावनाजातानामाघातवैमुख्यसंभावनाजातानां सौमुख्यान्तर्भावशुद्ध्युपदर्शनार्थम् ।

[यः] पुनर्बोधिसत्त्व एवंदृष्टिः स्यादेवंवादी न बोधिसत्त्वेन निर्वाणारामेण विहर्तव्यम् । अपि तु निर्वाणविमुखेन विहर्तव्यम् । न च क्लेशोपक्लेशेभ्यो भेतव्यं न चैकान्तेन तेभ्यश्चित्तं विवेचयितव्यम् । तथा हि बोधिसत्त्वेन त्रीणि कल्पासंख्येयानि संसारे संसरता बोधिः समुदानेतव्येति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । तत्कस्य हेतोः । यथा खलु श्रावकेण निर्वाणाभिरतिरासेवितव्या क्लेशोपक्लेशेभ्यश्च चित्तमुद्वेजयितव्यं ततः शतसहस्रकोटिगुणेन बोधिसत्त्वेन निर्वाणाभिरतिरासेवितव्या क्लेशोपक्लेशेभ्यश्च चेतस उद्वेगो भावयितव्यः । तथा हि श्रावकोऽस्यात्मनोऽर्थाय प्रयुक्तो बोधिसत्त्वः सर्वसत्त्वानामर्थाय प्रयुक्तः । तेन तथा चित्तासंक्लेशाभ्यासः समुदानेतव्यो यथायमनर्हन्नपि तत्प्रतिविशिष्टेनासंक्लेशेन समन्वागतः सास्त्रवे वस्तुनि अनुविचरेत् ।

बोधिसत्त्वोऽनादेयवचनकरमपशब्दमात्मनः अयशोऽकीर्ति न रक्षति न परिहरति भूतवस्तुकाम् । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । अभूतवस्तुकां न परिहरति । सापत्तिको भवति सातिसारः अक्लिष्टामापत्तिमापद्यते । अनापत्तिस्तीर्थिकः परः स्यात् । इति यो वा पुनरन्योऽप्यभिनिविष्टः । अनापत्तिः प्रव्रज्या-भिक्षाचर्या-कुशलचर्या-निदानोऽपशब्दो निश्चरेत् । अनापत्तिः क्रोधाभिभूतो विपर्यस्तचित्तो निश्चारयेत् ।

बोधिसत्त्वो येन कटुकप्रयोगेण तीक्ष्णप्रयोगेण सत्त्वानामर्थं पश्यति तं प्रयोगं दौर्मनस्यारक्षया न समुदाचरति । सापत्तिको भवति [सातिसारः] (दुत्त्११७) अक्लिष्टामापत्तिमापद्यते । अनापत्तिर्यत्परीत्तमर्थं दृष्टधार्मिकं पश्येत्प्रभूतश्च तन्निदानं दौर्मनस्यम् ।

बोधिसत्त्वः परैराक्रुष्टः प्रत्याक्रोशति । रोषितः प्रतिरोषयति । ताडितः प्रतिताडयति । भण्डितः प्रतिभण्डयति । सापत्तिको भवति सातिसारं क्लिष्टामापत्तिभापद्यते ।

बोधिसत्त्वः परेषां व्यतिक्रमं कृत्वा व्यतिक्रमेण वा सम्भावितः आघातचित्तो मानाभिनिगृहीतः संज्ञप्तिमनुरूपां नानुप्रयच्छत्युपेक्षते । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यात्प्रमादाद्वा न संज्ञप्तिमनुप्रयच्छति । सापत्तिको भवति सातिसारः अक्लिष्टामापत्तिमापद्यते । अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः अकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुकामः । अनापत्तिस्तीर्थिकः स्यात् । अनापत्तिरकल्पिकेन सावद्यसमुदाचारेण संज्ञप्तिप्रतिग्रहणमाकांक्षेत् । अनापत्तिः स चेत्प्रकृत्या कलहकारकः स्यादाधिकरणिकः । संज्ञप्यमानश्व भूयस्या मात्रया कुप्येतध्यारोहेत् । अनापत्तिः परं क्षमणशीलमना-घातशीलं च संभावयेत्परतो व्यतिक्रममारभ्य संज्ञप्तिलाभेनात्यर्थं रितीयमानम् ।

बोधिसत्त्वः परेषां कस्मिंश्चिदधिकरणे निसृतानां धर्मेण समेन संज्ञप्तिमनुप्रयच्छतामाघातचित्तः परविहेठनाभिप्रायः संज्ञप्तिं न प्रतिगृह्णाति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । नो चेदाघातचितः अपि त्वक्षमणशीलतया न प्रतिगृह्णाति । क्लिष्टामापत्ति मापद्यते । अनापत्तिस्तेनोपायेन परं दमयितुकामः स्यात्पूर्ववत्सर्वं वेदितव्यम् । अनापत्तिरधर्मेणासमेन संज्ञप्तिमनुप्रयच्छेत् ।

बोधिसत्त्वः परेषां क्रोधाशयं वहति धारयत्युत्पन्नमधिवासयति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य पूर्ववत् ।

(दुत्त्११८)
बोधिसत्त्व उपस्थानपरिचर्यापरिगर्धमधिपतिं कृत्वा सामिषेण चित्तेन गणं परिकर्षति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । अनापत्तिर्निरामिषचित्तस्योपस्थानपरिचर्यां स्वीकुर्वतः ।

बोधिसत्त्व उत्पन्नमालस्यकौसीद्यं निद्रासुखं शयनसुखं पार्श्वसुखञ्चाकाले अमात्रया स्वीकरोति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । अनापत्ति[र्वाढ]ग्लानः स्यादप्रतिबलः । अनापत्तिरध्वपरिश्रान्तस्य । अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य पूर्ववद्वेदितव्यम् ।

बोधिसत्त्वः संरक्तचित्तः संगणिकया कालमतिनामयति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । मुषितया स्सृत्याऽतिनामयति । अक्लिष्टामापत्तिमापद्यते । अनापत्तिः पर उदाहरेत् । स च परानुवृत्त्या मुहूर्तमुपस्थितस्मृतिः शृणुयात् । अनापत्तिः कौतुकजातस्य परिप्रश्नमात्रे पृष्टस्य च प्रत्युदाहारमात्रे ।

बोधिसत्त्वश्चित्तस्थितिमारभ्यं चितं समाधातुकाम आघातचित्तो मानभिनिगृहीतो नोपसंक्रम्याववादं याचते । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्याक्लिष्टमापत्तिमापद्यते । अनापत्तिग्लानः स्यादप्रतिबलः । अनापत्तिः विपरीतमववादं संभाषयेत् । अनापत्तिः स्वयं बहश्रुतः स्यात्प्रतिबलश्चित्तं समाधातुम् । कृतं चानेनाववादकरणीयं स्यात् ।

बोधिसत्त्व उत्पन्नं कामच्छन्दनिवरणमधिवसयति न विनोदयति । सापत्तिको भवति सातिसारः क्लिष्टमापत्तिमापद्यते । अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य व्यायच्छत स्तीव्रक्लेशतया चित्तमभिभूय समुदाचरणात् । यथा कामच्छन्द एवं व्यापादः स्त्यानमिद्धमौद्धत्यं कौकृत्यं विचिकित्सा च वेदितव्या ।

बोधिसत्त्वो ध्यानमास्वादयति । ध्यानास्वादे च गुणदर्शी भवति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमाद्ते । अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य पूर्ववत् ।

(दुत्त्११९)
यः पुनर्बोधिसत्त्वः एवंदृष्टि स्यादेवंवादी न बोधिसत्त्वेन श्रावकयानप्रतिसंयुक्तो धर्मः श्रोतव्यो नोद्ग्रहीतव्यो न तत्र शिक्षा करणीया । किं बोधिसत्त्वस्य श्रावकप्रतिसंयुक्तेन धर्मेण श्रुतेनोद्गृहीतेन । किं तत्र शिक्षया प्रयोजनमिति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । तथा हि बोधिसत्त्वेन तीर्थिकशास्त्रेष्वपि तावद्योगः करणीयः प्रागेव बुद्धवचने । अनापत्तिः ऐकान्तिकस्य तत्परस्य विच्छन्दनार्थम् ।

बोधिसत्त्वो बोधिसत्त्वपिटके सति बोधिसत्त्वपिटके अकृतयोग्यः सर्वेण सर्वं बोधिसत्त्वपिटकमध्युपेक्ष्य श्रावकपिटके योग्यां करोति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । बोधिसत्त्वो बुद्धवचने सति बुद्धवचने अकृतयोग्यस्तीर्थिकशास्त्रेषु बहिःशास्त्रेषु योग्यां करोति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । अनापत्तिरधिमात्रमेधसः आशूद्ग्रहण-समर्थस्य चिरेणाप्यविस्मरण-समर्थस्य अर्थचिन्तनाप्रतिवेधसमर्थस्य बुद्धवचने युक्त्युपपरीक्षासहगतयाऽविचलया बुद्ध्या समन्वागतस्य तद्द्विगुणेन प्रत्यहं बुद्धवचने योग्यां कुर्वतः ।

एवमपि च बोधिसत्त्वो विधिमनतिक्रम्य तीर्थिकशास्त्रेषु बहिःशास्त्रेषु कौशलं कुर्वन्नभिरतरूपस्तत्र करौति तेन च रमते न तु कटुभैषज्यमिव निषेवमाणःकरोति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते ।

बोधिसत्त्वो बोधिसत्त्वपिटके गम्भीराणि स्थानानि श्रुत्वा परमगंभीराणि तत्त्वार्थं वारभ्य बुद्धबोधिसत्त्वप्रभावं वाऽनधिमुच्यमानोऽपवदते । नैते अर्थोपसंहिता न धर्मोपसंहिता न तथागतभाषिता न हितसुखाय सत्त्वानामिति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । स्वेन वाऽयोनिशोमनस्कारेण परानुवृत्या वाऽपवदमानः ।

भवति खलु बोधिसत्त्वस्य गम्भीराणि परमगंभीराणि स्थानानि श्रुत्वा चेतसोऽनधिमोक्षः । तत्र श्राद्धेनाशठेन बोधिसत्त्वेनेदं प्रतिसंशिक्षितव्यम् । न मे प्रतिरूपं स्यादन्धस्याचक्षुष्मतस्तथागतचक्षुषैवानुव्यवहरतस्तथागतसन्धाय भाषितं प्रतिक्षेप्तुम् । इति [एवं] स बोधिसत्त्व आत्मानञ्चाज्ञं व्यवस्थापयति (दुत्त्१२०) तथागतमेव च तेषु बुद्धधर्मेष्वपरोक्षतायां समनुपश्यति । एवं सम्यक्प्रतिपन्नो भवति । अनापत्तिरनधिमुच्यमानस्याप्रतिक्षिपतः ।

बोधिसत्त्वः सामिषचित्तः प्रतिघचित्तः परेषामन्तिके आत्मानमुत्कर्षयति परान् पंसयति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । अनापत्तिस्तीर्थिकानभिभवितुकामस्य शासनस्थितिकामस्य । अनापत्तिस्तेनोपायेन तमेव पुद्गलं दमयितुकामस्य विस्तरेण पूर्ववत् । अनापत्तिरप्रसन्नानां प्रसादाय प्रसन्नानाञ्च भूयोभावाय ।

बोधिसत्त्वो धर्मश्रवण-धर्मसांकथ्यविनिश्चयं वा मानाभिनिगृहीतः आघातचित्तः प्रतिघचित्तो नोपसंक्रामति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यान्नोपसंक्रामति । अक्लिष्टामापत्तिमापद्यते । अनापत्तिरप्रतिसंवेदयतः । अनापत्तिर्ग्लानः स्यादप्रतिबलः अनापत्तिर्विपरीतां देशनां संभावयेत् । अनापत्तिर्धार्मकथिकचितत्तानुरक्षिणः अनापत्तिः पुनः पुनः [अनु]श्रुतामवधृतां विज्ञातार्थां कथां संजानतः । अनापत्तिर्बहुश्रुतः स्याच्छ्रुताधारः श्रुतसन्निचयः । अनापत्तिर्निरन्तरमालम्ब नचित्तस्थितेः बोधिसत्त्वसमाध्यभिनिर्हाराभियुक्तस्य । अनापत्तिरधिमात्रधन्धप्रज्ञस्य धन्धं धर्ममुद्गृह्णतः धन्धं धारयतः धन्धमालम्बने चित्तं समादधतः ।

बोधिसत्त्वो धर्मभाणकं पुद्गलं संचिन्त्यावमानयत्यसत्करोत्यवहसत्यवस्पण्ङ्यति व्यञ्जनप्रतिसरणश्च भवति नार्थप्रतिसरणः । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते ।

संवरस्थो बोधिसत्त्वः सत्त्वकुत्येष्वाघातचित्तः प्रतिघचित्तः सहायीभावं न गच्छति यच्च तत्कुत्यसमर्थे वा अध्वगमनागमने वा सम्यक्कर्मान्त प्रयोगे वा भोगरक्षणे वा भिन्नप्रतिसन्धाने वा उत्सवे वा पुण्यक्रियायां वा । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यान्न (दुत्त्१२१) सहायीभावं गच्छति । अक्लिष्टामापत्तिमापद्यते । अनापत्तिर्ग्लानः स्यादप्रतिबलः । अनापत्तिः स्वयं कर्तुमसमर्थः स्यात्सप्रतिसरणश्च याचकः । अनापत्तिरनर्थोपसंहितमधर्मोपसंहितं कृत्यं स्यात् । अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विस्तरेण पूर्ववत् । अनापत्तिरन्यस्य पूर्वतरमभ्युपगतं स्यात् । अनापत्तिरन्यमध्येषतः प्रतिबलम् । अनापत्तिः कुशलपक्षे नैरन्तर्येण सम्यक्प्रयुक्तः स्यात् । अनापत्तिः प्रकृत्या धन्धः स्थाद्धन्धमुद्दिशेत्पूर्ववत् । अनापत्तिर्बहुतरकाणामन्येषाञ्चित्तमनुरक्षितुकामस्य । अनापत्तिः सांधिकं क्रियाकारमनुरक्षितुकामस्य ।

बोधिसत्त्वो ग्लानं व्याधितं सत्त्वमासाद्य नोपस्थानपरिचर्यां करोति आघातचित्तः प्रतिघचित्तः । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यान्न करोति । अक्लिष्टामापत्तिमापद्यते । अनापत्तिः स्वयमेव ग्लानः स्यादप्रतिबलः । अनापत्तिः परं प्रतिबलमध्येषतोऽनुकूलम् । अनापत्तिर्ग्लानः सनाथः स्यात्सप्रतिसरणः । अनापत्तिर्याप्येन दीर्घरोगेण स्पृष्टः स्यात् । अनापत्तिरूदारनिरन्तरकुशलपक्षाभियुक्तस्य कुशलपक्षच्छिद्रानुरक्षणार्थम् । अनापत्तिरधिमात्रधन्धप्रज्ञस्य धन्धं धर्ममुद्दिशतो धन्धं धारयतो धन्धमालम्बने चित्तं समादधतः । अनापत्तिरन्यस्य पूर्वतरमभ्युपगतं स्याद् । यथा ग्लानस्योपस्थानम् । एवं दुःखितस्य दुःखापनयाय साहाय्यं वेदितव्यम् ।

बोधिसत्त्वो दृष्टधार्मिके सांपरायिके चार्थे अनयप्रयुक्तान् [सत्त्वान्] दृष्ट्वा आघातचित्तः प्रतिघचित्तो न्यायं नयं न व्यपदिशति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यान्न व्यपदिशति । अक्लिष्टामापत्तिमापद्यते । अनापत्तिः स्वयमज्ञः स्यादप्रतिबलः । अनापत्तिः परं प्रतिबलमध्येषेत । अनापत्तिः स एव स्वयं प्रतिबलः स्यात् । अनापत्तिरन्येन कल्याणमित्रेण परिगृहीतः स्यात् । अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विस्तरेण पूर्ववत् । अनापत्तिर्यस्य न्यायोपदेशः करणीयः स आघातचित्तःस्याद्दुर्वचो विपरीतग्राही विगतप्रेमगौरवः खटुङ्कजातीयः ।

(दुत्त्१२२)
बोधिसत्त्व उपकारिणां सत्त्वानामकृतज्ञो भवत्यकृतवेदी आघातचित्तो न प्रत्युपकारेणानुरूपेण प्रत्युपतिष्ठते । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यान्न प्रत्युपतिष्ठते । अक्लिष्टामापत्तिमापद्यते । अनापत्तिर्यत्नवतः अशक्तस्याप्रतिबलस्य । अनापत्तिस्तेनोपायेन दमयितुकामः स्यात्पूर्ववत् । अनापत्तिः स एव न संप्रतीच्छेत्प्रत्युपकारम् ।

बोधिसत्त्वो ज्ञातिभोगव्यसनस्थानां सत्त्वानामाघातचित्तः उत्पन्नंशोकं न विनोदयति । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यान्न प्रतिविनोदयति । अक्लिष्टामापत्तिमापद्यते । पूर्ववदनापत्तिर्वेदितव्या तद्यथा कृत्येष्वसहायीभावमारभ्य ।

बोधिसत्त्वो भोजनपानादिन्युपकरणजातानि भोजनपानादिकार्थिभ्यः सम्यग्याचितो न प्रयच्छत्याघातचित्तः प्रतिघचित्तः । सापत्तिको भवति सातिसारः क्लिष्टामात्तिमापद्यते । आलस्यकौसीद्यात्प्रमादान्नानुप्रयच्छति । अक्लिष्टामापत्तिमापद्यते । अनापत्तिरसत्स्वसंविद्यमानेषु भोगेषु । अनापत्तिरकल्पिकमपथ्यं वस्तु याचितः । अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत् । अनापत्ती राजापथ्यमनुरक्षतः अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः ।

बोधिसत्त्वः परिषदमुपस्थाप्य न कालेन कालं सभ्यगववदति सम्यक्समनुशास्ति । न च तेषामर्थविघातिनां श्राद्धानां ब्राह्मणगृहपतीनामन्तिकाद्धर्मेण चीवरपिण्डपातशयनासन[ग्लान]प्रत्ययमैषज्यपरिष्कारान् पर्येषते आघातचित्तः । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । [आलस्यकौसीद्यात्प्रमादाद्वा नाववदति न समनुशास्ति न पर्येषते अक्लिष्टामापत्तिमापद्यते ।] अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत् । अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः । अनापत्तिर्ग्लानः स्यातप्रयोगक्षमः । अनापत्तिरन्यं प्रतिबलमध्येषते । अनापत्तिः परिषज्जातमहापुण्या स्यात् । स्वयं प्रतिबलो वा चीवरादीनां पर्येषणाय । कृतं चैषा स्यातववादानुशासन्यामववादानुशासनीकरणीयम् । अनापत्तिस्तीर्थिकपूर्वी धर्मस्तेयेन प्रविष्टः स्यात् । स च स्यादभव्यरुपो विनयाय ।

(दुत्त्१२३)
बोधिसत्त्वः आघातचित्तः परेषां चित्तं नानुवर्तते । सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यात्प्रमादान्नानुवर्तंते अक्लिष्टामापत्तिमापद्यते । अनापत्तिः परेषां यदभिप्रेतं तदपथ्यं स्यात् । अनापत्तिर्ग्लानः स्यादप्रयोगक्षमः । अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः । अनापत्तिस्तस्याभिप्रेतं पथ्यञ्च स्यात्परेषां प्रभूततरकाणामनभिप्रेतमपथ्यञ्च स्यात् । अनापत्तिस्तीर्थिको निर्ग्राह्यः स्यात् । अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत् ।

बोधिसत्त्वः आघातचित्तः परेषां भूतान् गुणान्नोद्भावयति भूतं वर्णं न भाषते सुभाषिते साधुकारं न ददाति । सापत्तिको भवति सातिसारः । क्लिष्टामापत्तिमापद्यते । आलस्यात्कौसीद्यात्प्रमादाद्वा न भाषते अक्लिष्टामापत्तिमापद्यते । अनापत्तिः प्रकृत्याऽल्पेच्छतां संभावयतस्तदनुरक्षयैव । अनापत्तिर्ग्लानः स्यादप्रतिबलः । अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत् । अनापत्तिः सांघिकं क्रियाकारमनुरक्षतः । अनापत्तिस्ततो निदानं संक्लेशं मदमुन्नतिमनर्थाय संभावयतः तस्य च परिहारार्थम् । अनापत्तिर्गुणंप्रतिरूपका गुणाः स्युर्न भूताः । सुभाषितप्रतिरूपकञ्च सुभाषितं स्यान्न भूतम् । अनापत्तिस्तीर्थिकः स्यान्निर्ग्राह्यः । अनापत्तिः कथापर्यवसानकालमागमयतः ।

बोधिसत्त्वोऽवसादनार्हान् सत्त्वान् दण्डकर्मार्हान् [प्रवासनार्हान्] क्लिष्टचित्तो नावसादयति । अवसादयति वा न च दण्डकर्मणा समनुशास्ति । समनुशास्ति वा न प्रवासयति । सापत्तिको भवति सातिसारः । क्लिष्टामापत्तिमापद्यते । आलस्यकौसीद्यात्प्रमादाद्वा नावसादायति यावन्न प्रवासयति अक्लिष्टामात्तिमापद्यते । अनापत्तिरसाध्यरूपमकथ्यं दुर्वचसमाघातबहुलमध्युपेक्षतः । अनापत्तिः कालापेक्षिणः । अनापत्तिस्ततो निदानं कलहभण्डनविग्रहविवादप्रेक्षिणः । अनापत्तिः संवरणविभेदप्रेक्षिणः । अनापत्तिस्ते सत्त्वा अशठा भवेयुस्त्रीव्रेण ह्रीव्यपत्राप्येन समन्वागता लघु लघ्वेव प्रत्यापद्येरन् ।

बोधिसत्त्वो विचित्रर्द्धिविकुर्वितप्रभावसमन्वागतः उत्त्रासनार्हाणां सत्त्वानामुत्त्रासनाय आवर्जनार्हाणाञ्च सत्त्वानामावर्जनाय श्रद्धादेयपरिहाराय [ऋद्ध्या] (दुत्त्१२४) नोत्त्रासयति नावर्जयति । सापत्तिको भवति सातिसारः अक्लिष्टामापत्तिमापद्यते । अनापत्तिर्यत्र सत्त्वा यद्भूयसा प्रतिनिविष्टा भवेयुस्तीर्थिका आर्यापवादिकया मिथ्यादृष्ट्समन्वागताः । सर्वत्र चानापत्तिरधिकचित्तक्षेपतो दुःखवेदनाभिन्न स्यासमात्तसंवरस्य वेदितव्या ।

इतीमान्युत्पन्नवस्तुकानि बोधिसत्त्वानां शिक्षापदानि तेषु तेषु सूत्रान्तेषु व्यग्राणि भगवता आख्यातानि संवरशीलं कुशलसंग्राहकं शीलं सत्त्वार्थक्रियाशीलञ्चारभ्य । तान्यस्यां बोधिसत्त्वपिटकमातृकायां समग्राण्याख्यातानि येषु बोधिसत्त्वेनारदजातेन परमगौरवमुपस्थाप्य शिक्षा करणीया । परतः संवरसमादनं कृत्वा सुविशुद्धेन शिक्षितुकामाशयेन बोध्याशयेन सत्त्वार्थाशयेन आदित एव चाव्यतिक्रमायादरजातेन भवितव्यम् । व्यतिक्रान्तेन च यथाधर्मप्रतिकरणतया प्रत्यापत्तिः करणीया । सर्वा चेयमापत्तिर्बोधिसत्त्वस्य दुष्कृत्यतः संगृहीता वेदितव्या । यस्य कस्यचिच्छ्रावकयानीयस्य वा महायानीयस्य वाऽन्तिके देशयितव्या यस्तां वाग्विज्ञप्तिं प्रतिबलः स्यादवबोद्धं प्रतिग्रहीतुम् । स चेद्बोधिसत्त्वः पाराजयिकस्थानीयं धर्ममध्यापन्नो भवत्यधिमात्रेण पर्यवस्थानेन तेन त्यक्तः संवरः । द्विरपि पुनरादातव्यः । स चेन्मध्येन पर्यवस्थानेनापन्नो भवति तेन त्रयाणां पुद्गलानामन्तिके ततो वा उत्तरि दुष्कृता देशयितव्या । पूर्व वस्तु परिकीर्तयित्वा परतो निषद्येदं स्याद्वचनीयम् । समन्वाहरत्वायुप्मन्नहमेवंनामा बोधिसत्त्व-विनयातिसारिणीं यथा परिकीर्तिते वस्तुनि दृष्कृतामापत्तिमापन्नः । शिष्टं यथा भिक्षोर्दुष्कृतान् देशयतस्तथैव वक्तव्यम् । पाराजयिकस्थानीयस्य च धर्मस्य मृदुना पर्यवस्थानेन तदन्यासाञ्चापत्तीनामेकस्यैव पुरतो देशना वेदितव्या । असति चानुकूले पुद्गले यस्य पुरतो देश्येताशयतो बोधिसत्त्वेन पुनरनध्याचाराय चित्तमुत्पादयितव्यम् । आयत्याञ्च संवरः करणीयः । एवमसौ व्युत्थितो वक्तव्यस्तस्याः आपत्तेः ।

एतदपि बोधिसत्त्वसंवरसमादानम् । यदि तैर्गुणैर्युंक्तः पुङ्गलो न सन्निहितःस्यात्ततो बोधिसत्त्वेन तथागतप्रतिमायाः पुरतः स्वयमेव बोधिसत्त्वशीलसंवरसमादानं करणीयम् । एवञ्च पुनः करणीयम् । एकांसमुत्तरासंगं कृत्वा (दुत्त्१२५) दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य पुरतो वा उत्कुटुकस्थितेन इदं स्याद्वचनीयम् । अहमेवंनामा दशसु दिक्षु सर्वास्तथागतान्महाभूमिप्रविष्टांश्च बोधिसत्त्वान् विज्ञापयामि । तेषाञ्च पुरतः सर्वाणि बोधिसत्त्वशिक्षापदानि सर्वं बोधिसत्त्वशीलं समाददे संवरशीलं कुशलधर्मंसंग्राहकं सत्त्वार्थक्रियाशीलञ्च यत्रातीताः सर्वबोधिसत्त्वाः शिक्षितवन्तः अनागताः सर्वबोधिसत्त्वाः शिक्षिष्यन्ते प्रत्युत्पन्ना दशसु दिक्षु सर्वबोधिसत्त्वा एतर्हि शिक्षन्ते । द्विरपि त्रिरप्येवं वक्तव्यम् । उक्त्वा उत्थातव्यम् । शिष्टं तु सर्वं पूर्ववद्वेदितव्यम् ।

नास्ति च बोधिसत्त्वस्यापत्तिमार्गे निरवशेषा आपत्तिः । यदपि चोक्तं भगवता यद्भूयसा बोधिसत्त्वस्य द्वेषसमुत्थिता आपत्तिर्ज्ञातव्या न रागसमुत्थितेति तत्रायमभिप्रायो द्रष्टव्यः । बोधिसत्त्वः सत्त्वानुनयं सत्त्वप्रेमाधिपतिं कृत्वा यत्किञ्चिच्चेष्टते सर्वं तद्बोधिसत्त्वकृत्यम् । नाकृत्यं न च कृत्यं कुर्वतः आपत्तिर्युज्यते । सत्त्वेषु तु द्विष्टो बोधिसत्त्वो नात्मनो न परेषां हितमाचरति । न चैतद्बोधिसत्त्वकृत्यम् । एवमकृत्यं कुर्वतः आपत्तिर्युज्यते ।

मृदुमध्याधिमात्रता च बोधिसत्त्वस्यापत्तीनां वेदितव्या । तद्यथा वस्तुसंग्रहण्याम् ।

एवञ्च पुनः स्वविनये शिक्षाप्रयुक्तो बोधिसत्त्वस्तिसृभिः संपत्तिभिः समन्वागतः सुखं स्पर्शं विहरति प्रयोगसम्पत्त्या आशयसम्पत्त्या पूर्वहेतुसम्पत्त्या च ।

तत्र प्रयोगसम्पत्कतमा । यथापि तद्बोधिसत्त्वः शीलेष्वखण्डचारी भवति परिशुद्धकायवाङ्मनःसमुदाचारो नाभीक्ष्णापत्तिको विवृतपापश्च भवति । इयमुच्यते प्रयोगसम्पत् ।

आशयसम्पत्कतमा । धर्माभिप्रायः प्रव्रजितो भवति न जीविकाभिप्रायः । अर्थी भवति महाबोध्या नानर्थी । अर्थी श्रामण्येन निर्वाणेन नानर्थी । स एवमर्थी न कुसीदो विहरति [न] हीनवीर्यो [नावीर्यो] न व्यवकीर्ण पापकैरकुशलैर्धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर्दुःखविपाकैरायत्यां जातिजरामरणीयैः । इतीयमुच्यते आशयसम्पत् ।

(दुत्त्१२६)
पूर्वहेतुसंपत्कतमा । यथापि तद्बोधिसत्त्वः पूर्वमन्यासु जातिषु कृतपुण्यो भवति कृतकुशलमूलो येनैतर्हि स्वयञ्च न विहन्यते चोवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । अन्येषामपि प्रतिबलो भवति संविभागक्रियायैः । इतीयं बोधिसत्त्वस्य पूर्वहेतुसम्पद्वेदितव्या ।

आभिस्तिसृभिः संपत्तिभिः समन्वागतो विनये शिक्षाप्रयुक्तो बोधिसत्त्वः सुखं स्पर्शं विहरति । एतद्विपर्ययात्तिसृभिर्विपत्तिभिः समन्वागतो दुःखं संस्पर्शं विहरतीति वेदितव्यम् ।

इदं तावद्बोधिसत्त्वस्य समासव्यासतः सर्वशीलमित्युच्यते गृहिपक्षगतं प्रव्रजितपक्षगतञ्च । अस्यैव च सर्वशीलस्य प्रविभागस्तदन्यान्यपि दुष्करशीलादीनि वेदितव्यानि ।

तत्र कतमद्बोधिसत्त्वस्य दुष्करशीलम् । तत्त्रिविधं द्रष्टव्यम् ।

महाभोगस्य बोधिसत्त्वस्य महत्यैश्वर्याधिपत्ये वर्तमानस्य प्रहाय भोगान् प्रहाय महदैश्वर्याधिपत्यं शीलसंवरसमादानं बोधिसत्त्वस्य दुष्करशीलमित्युच्यते ।

कृच्छ्रापन्नोऽपि च बोधिसत्त्वः समात्तशीलः आप्राणैर्विपद्यमानस्तच्छीलसंवरसमादानं न छिद्रीकरोति । कुतः पुनर्विपादयिष्यति । इदं बोधिसत्त्वस्य द्वितीय दुष्करशीलमित्युच्यते ।

तथा तथा बोधिसत्त्वः सर्वाचारविहारमनसिकारेषूपस्थितस्मृतिरप्रमत्तो भवति । यथा यावज्जीवेन [अपि] प्रतनुकामप्यापतिं नापद्यते न शीले च स्खलति कुतः पुनर्गुर्वीम् । इदं बोधिसत्त्वस्य तृतीयं दुष्करशीलमित्युच्यते ।

तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुख शीलम् । तच्चतुर्विधं द्रष्टव्यम् । समात्तं प्रकृतिशीलमभ्यस्तमुपाययुक्तञ्च ।

तत्र समात्तं शीलं येन त्रिविधमपि बोधिसत्त्वशीलसंवरसमादानं कृतं भवति संवरशीलस्य कुशलसंग्राहक[शीलस्य] सत्त्वार्थक्रियाशीलस्य च ।

तत्र प्रकृतिशीलं यद्गोत्रस्थस्यैव बोधिसत्त्वस्य प्रकृतिभद्रतयैव सन्तानस्य परिशुद्धं कायवाक्कर्म प्रवर्तते ।

(दुत्त्१२७)
तत्राभ्यस्तं शीलं येन बोधिसत्त्वेन पूर्वमन्यासु जातिषु त्रिविधमपि यथानिर्दिष्टं शीलमभ्यस्तं भवति । स तेन पूर्वहेतुबलाधानेन [न] सर्वेण सर्वं पापसमचारेण रमते । पापादुद्विजते । कुशलसमाचारे रमते । कुशलसमाचारमेवाभिलषति ।

तत्रेदमुपाययुक्तं शीलं यच्चत्वारि संग्रहवस्तूनि निश्रित्य बोधिसत्त्वस्य सत्त्वेषु कुशलं कायवक्कर्म प्रवर्तते ।

तत्र कतमद्बोधिसत्त्वस्य सत्पुरुषशीलम् । तत्पञ्चविधं वेदितव्यम् । इह बोधिसत्त्वः स्वयञ्च शीलवान् भवति । परांश्च शीले समादापयति । शीलस्य । च वर्णं भाषते । सहधार्मिकञ्च दृष्ट्वा सुमना भवति । आपत्तिं चापन्नो यथाधर्म प्रतिकरोति ।

तत्र कतमद्बोधिसत्त्वस्य सर्वाकारं शीलम् । तत्षड्विधं सप्तविधं चैकध्यमभिसंक्षिप्य त्रयोदशविधं वेदितव्यम् । महाबोधौ परिणमितम् । विस्तीर्णशिक्षापदपरिगृहीतत्त्वाद्विशदम् । कामसुखल्लिकात्मक्लमथान्तद्वयविवर्जितत्त्वादनवद्यप्रमोदस्थानीयम् । यावज्जीवेनापि शिक्षाप्रत्याख्यानात्सातत्यम् । सर्वलाभसत्कारपरप्रवादिक्लेशोपक्लेशैरनभिभवनीयत्वादहार्यत्वाद्दृढम् । शीलालङ्कारसंयुक्तं च । शीलालङ्कारो वेदितव्यस्तद्यथा श्रावकभूमौ प्राणातिपातादिविरत्या । निवृत्तिशीलम् । कुशलसंग्रहात्सत्त्वार्थकरणाच्च प्रवृत्तिशीलम् । प्रवृत्तिनिवृत्तिशीलानुरक्षणादारक्षकं शीलम् । महापुरुषलक्षणवैपाक्यं शीलम् । अधिचित्तवैपाक्यम् । इष्ट गतिवैपाक्यम् । सत्त्वार्थक्रिया वैपाक्यं चेति ।

तत्र कतमद्बोधिसत्त्वस्य विघातार्थिकशीलम् । तदष्टविधं वेदितव्यम् । इह बोधिसत्त्वः स्वयमेवैवमनुचिन्तयति । यथाहमर्थी [जीवितेन] न मे कश्चिज्जीवताद्व्यपरोपयेत् । अदत्तमादद्यात्कामेषु मिथ्याचरेत्मृषावाचं भाषेत पैशुन्यं पारुष्यं सभिन्नप्रलापं कुर्यात्पाणिलोष्टताडन संस्पर्शैश्चानिष्टैर्विहिंसासंस्पर्शैः समुदाचरेदिति । तस्य मे एवमर्थिनः स चेत्परे विपर्ययेण समुदाचरेयुः तेन मे स्याद्विधातस्तन्मे स्यादमनापम् । परोऽप्यर्थिनो यथाऽस्माकं परे न जीवितद्व्यपरोपयेयुर्विस्तरेण यावन्न विहिंसासस्पर्शै समुदाचरेयुरिति । (दुत्त्१२८) तेषामप्येवमर्थिनां स चेदहं विपर्ययेण समुदाचरेयं तेन ते स्युर्विघातिनस्तत्तेषां स्यादमनापम् । इति यन्मम परेषाञ्चामनापं सोऽहं किं तेन परान् समुदाचरिष्यामि । इति प्रतिसंख्याय बोधिसत्त्वो जीवितहेतोरपि परानष्टविधेनामनापेन न समुदाचरति । इदं बोधिसत्त्वस्याष्टाकारं विघातार्थिकशीलमित्युच्यते ।

तत्र कतमद्बोधिसत्त्वस्येहामुत्र सुखं शीलम् । तन्नवविधं द्रष्टव्यम् । इह बोधिसत्त्वः सत्त्वानां प्रतिशेद्धव्यानि स्थानानि प्रतिषेधयति । अभ्यनुज्ञेयानि स्थानान्यभ्यनुजानाति । संग्रहीतव्यान् सत्त्वान् संगृह्णाति । निगृहीतव्यान् सत्त्वान्निगृह्णाति । तत्र बोधिसत्त्व य यत्कायवाक्कर्मपरिशुद्धं प्रवर्तते । इदं तावच्चतुर्विधं शीलम् । पुनरन्यद्दानसहगतं शीलं क्षान्तिसहगतं [वीर्यसहगतं] ध्यानसहगतं प्रज्ञासहगतञ्च पञ्चविधम् । तदेतदैकध्यमभिसंक्षिप्य नवाकारं शीलं भवति । तस्य च बोधिसत्त्वस्य परेषाञ्च दृष्टधर्मसंपरायसुखाय संवर्तते । तस्मादिहामुत्र सुखमित्युच्यते ।

तत्र विशुद्धं शीलं बोधिसत्त्वस्य कतमत् । तद्दशविधं वेदितव्यम् । आदित एव सुगृहीत भवति श्रामण्यसबोधिकामतया न जीविकानिमित्तम् । नातिलीनं भवति व्यतिक्रमे मन्दकौकृत्यापगतत्वात् । नातिसृतं भवत्यस्थानकौकृत्यापगतत्वात् । कौसीद्यापगतं भवति निद्रासुखपार्श्वसुखशयनसुखास्वीकरणतया रात्रिंदिवं कुशलपक्षाभियोगाच्च । अप्रमादपरिगृहीतं भवति । पूर्ववत्पञ्चाङ्गाप्रमादप्रतिनिषेवणतया । सम्यक्प्रणिहितं भवति लाभसत्कारगर्धविगमात्देवत्वाय प्रणिधाय ब्रह्मचर्यावासानाभ्युपगमाच्च । आचारसपत्त्या परिगृहीतमीर्यापथेतिकरणीयकुशलपक्षप्रयोगेषु सुसम्पन्नप्रतिरूपकायवाक्समुदाचारतया । आजीवसम्पत्त्या परिगृहीतं कुहनादिसर्वमिथ्याजीवकरकदोषविवर्जिततया । अन्तद्वयविवर्जित कामसुखल्लिकात्मकक्लमथानुयोगविवर्जितत्वात् । नैर्याणिक सर्वतीर्थिकदृष्टिविवर्जिततया । समादानापरिभ्रष्टं शीलं बोधिसत्त्वानामछिद्रीकरणाविपादनतया । इत्येतद्दशाकार शीलं बोधिसत्त्वानां विशुद्धमित्युच्यते ।

इत्येष बोधिसत्त्वस्य महान् शीलस्कन्धो महाबोधिफलोदयो यमाश्रित्य (दुत्त्१२९) बोधिसत्त्वः शीलपारमितां परिपूरयित्वा अनुत्तरां सम्यक्संबोधिमभिसम्बुध्यते । यावच्च नाभिसबुध्यते तावदयमस्मिन्नप्रमेये बोधिसत्त्वशीलस्कन्धे शिक्षमाणः पञ्चानुशंसान् प्रतिलभते । बुद्धैः समन्वाह्रियते । महाप्रामोद्यस्थितः कालं करोति । कायस्य च भेदात्तत्रोपपद्यते यत्रास्य समानाधिकशीला बोधिसत्त्वाः सभागाः सहधार्मिकाः कल्याणमित्रभूता भवन्ति । अपरिमाणेन पुण्यस्कन्धेन शीलपारमितापरिपूरकेण समन्वागतो भवति । दृष्टे धर्मे सम्परायेऽपि प्रकृतिशीलतां शीलतन्मयतां प्रतिलभते ।

सर्वञ्चैतच्छीलं यथानिर्दिष्टं स्वभावशीलादिकं नवाकारं त्रिविधेन शीलेन संगृहीतं वेदितव्यम् । संवरशीलेन कुशलधर्ममंग्राहकेण सत्त्वार्थक्रियाशीलेन च । तत्पुनस्त्रिविधं शीलं समासतो बोधिसत्त्वस्य त्रीणि कार्याणि करोति । संवरशीलं चित्तस्थितये संवर्तते । कुशलधर्मसंग्राहकमात्मनो बुद्धधर्मंपरिपाकाय संवर्तते । सत्त्वार्थक्रियाशीलं सत्त्वपरिपाकाय संवर्तते । एतावच्च बोधिसत्त्वस्य सर्वं करणीयं भवति । यदुत दृष्टधर्मसुखविहाराय चित्तस्थितिः । अक्लान्तकायचित्तस्य च बुद्धधर्मपरिपाकः सत्त्वपरिपाकश्च । एतावद्बोधिसत्त्वशीलम् । एतावान् बोधिसत्त्वशीलानुशंसः । एतावत्बोधिसत्त्वशीलकार्यं नात उत्तरि नातो भूयः । यत्रातीता बोधिसत्त्वा महाबोधिकामाः शिक्षितवन्तः । अनागता अपि शिक्षिष्यन्ते । वर्तमाना अपि दशसु दिक्ष्वनन्तापर्यन्तेसु । लोकधातुषु शिक्षन्ते

इति बोधिसत्त्वभूमावाधारे योगस्थाने दशमं शीलपटलम् ।


(दुत्त्१३०)
क्षान्तिपटलम् (अध्याय १.११)

उद्दानं पूर्वद्वेदितव्यं तद्यथा शीलपटले ।

तत्र कतमा बोधिसत्त्वस्य स्वभावक्षान्तिः । या प्रतिसंख्यानबलसन्निश्रयेण वा प्रकृत्या वा परापकारस्य मर्षणा सर्वेषाञ्च मर्षणा सर्वस्य च मर्षणा निरामिषेण च चित्तेन केवलया करुणया [मर्षणा] । अयं समासतो बोधिसत्त्वस्य क्षान्तिस्वभावो वेदितव्यः ।

तत्र कतमा बोधिसत्त्वस्य सर्वा क्षान्तिः । या द्विविधा द्रष्टव्या । गृहिपक्षाश्रिता प्रव्रजितपक्षाश्रिता च । सा पुनरुभयपक्षाश्रितापि त्रिविधा वेदितव्या । परापकारमर्पणा-क्षान्तिः । दुःखाधिवासना-क्षान्तिः । धर्मनिध्यानाधिमोक्ष क्षान्तिञ्च ।

तत्र कथं बोधिसत्त्वः परापकारं मर्षयति क्षमते । इह बोधिसत्त्वस्तीव्रे निरन्तरे चित्रे दीर्घकालिकेअऽपि परापकारजे दुःखे सम्मुखीभूते इदं प्रतिसंशिक्षते । स्वकर्मापराध एष मे । येनाहं स्वयंकृतस्याशुभस्य कर्मणो दुःखमीदृशं फलं प्रत्यनुभवामि । दुःखेन चाहमनर्थी । इयञ्चाक्षान्तिरायत्यां पुरनपि मे दुःखहेतुस्थानीया । सोऽहमेतद्दुःखहेतुभूतं धर्मं समादाय वर्तेयम् । यद्धा यन्ममैवानिष्टं तेनाहमात्मनैवात्मानं सयोजयेयम् । अत आत्मन एव मेऽपकृतं स्यात् । न तथा परेषाम् । स्वभावतश्च दुःखप्रकृतिका एवेमे सर्वसंस्काराः स्वपरसान्तानिकाः । तत्परे तावदज्ञाः ये अस्माकं प्रकृतिदुःखितानां भूयो दुःखमुपसंहरन्ति । अस्माकं तु विज्ञानां सतां न प्रतिरूपं स्याद्यद्वयमपि परेषां प्रकृतिदुःखितानां भूयो दुःखमुपसंहरेमः । भूयोऽपि चात्मार्थे तावत्प्रयुक्तानां श्रावकाणामक्षान्तिर्न युक्तरूपा स्यात्स्वपरेषां दुःखजनिका । प्रागेवास्माकं तु परार्थप्रयुक्तानाम् । इदं प्रतिसंख्याय स (दुत्त्१३१) बोधिसत्त्वः पञ्चाकारां संज्ञां भावयन्मित्रामित्रोदासीनेभ्यः हीनतुल्यविशिष्टेभ्यः सुखितदुःखितेभ्यो गुणदोषयुक्तेभ्यश्च सत्त्वेभ्यः सर्वापकारांस्तितिक्षते ।

पञ्च संज्ञाः कतमाः । पूर्वजन्मसुहृत्संज्ञा । धर्ममात्रानुसारिणीसंज्ञा [अनित्यसंज्ञा] दुःखसंज्ञा । परिग्रहसंज्ञा चेति ।

कथञ्च बोधिसत्त्वोऽपकारिषु सत्त्वेषु सुहृत्संज्ञां भावयति । इह बोधिसत्त्व इदं प्रतिसंशिक्षते । नासौ सत्त्वः सुलभरूपो यो मे न दीर्घस्याध्वनोऽत्ययात्पूर्वमन्यासु जातिषु माता वाभूत्पिता वा भ्राता वा भगिनी वा आचार्यो वा उपाध्यायो वा गुरुर्वा गुरुस्थानीयो वा । तस्यैवं योनिशो मनसिकुर्वतः प्रत्यर्थिकसंज्ञा अपकारिषु सत्त्वेषु अन्तर्धीयते सुहृत्संज्ञा च संतिष्ठते । स तां सुहृत्संज्ञां निश्रित्यापकारान्मर्षयति क्षमते ।

कथञ्च बोधिसत्त्वः अपकारिषु सत्त्वेषु धर्ममात्रानुसारिणीं संज्ञां भावयति । इह बोधिसत्त्व इदं प्रतिषंशिक्षते । प्रत्ययाधीनमिदं संस्कारमात्रं धर्ममात्रम् । नास्त्यत्र कश्चिदात्मा वा सत्त्वो वा जीवो वा जन्तुर्वाय आक्रोशेद्रोषयेत्ताडयेद्भण्डयेत्परिभाषेत वा यो वा पुनराक्रुश्येत वा रोष्येत वा ताडयेत वा भण्डयेत वा परिभाष्येत वा । तस्यैवं योनिशो मनसिकुर्वतः सत्त्वसंज्ञा चान्तर्धीयते । धर्ममात्रसंज्ञा च संतिष्ठते । स तां धर्ममात्रसंज्ञानिश्चित्य प्रतिष्ठाप्य परतः सर्वापकारान्मर्षयति क्षमते ।

कथञ्च बोधिसत्त्वोऽपकारिषु सत्त्वेषु अनित्यसंज्ञां भावयति । इह बोधिसत्त्व इदं प्रतिसंशिक्षते । ये केचित्सत्त्वा जाता भूताः सर्वे ते अनित्या मरणधर्माणः । एष च परमः प्रत्यतकारो यदुत जीविताद्वयपरोपणम् । एवञ्च प्रकृत्त्या मरणधर्मकेष्वनित्येषु सत्त्वेषु न प्रतिरूपं स्याद्विज्ञपुरुषस्य कलुषमपि तावच्चित्तमुत्पादयितुं प्रागेव पाणिना वा प्रहर्तुं लोष्टेन वा दण्डेन वा प्रागेव सर्वेण सर्वं जीविताद्व्यपरोपयितुम् । तस्यैवं योनिशो मनसि कुर्वतः नित्यसारसज्ञा च प्रहीयते । अनित्यासारसंज्ञा च संतिष्ठते । स तामपि अनित्यासारसंज्ञां निश्रित्य सर्वापकारान्मर्षयति क्षमते ।

कथञ्च बोधिसत्त्वः अपकारिषु सत्त्वेषु दुःखसंज्ञां भावयति । इह बोधिसत्त्वो ये तावत्सत्त्वा महत्यामपि सम्पदि वर्तन्ते तानपि तिसृभिः (दुत्त्१३२) दुःखताभिरनुषक्तान् पश्यति- संस्कारदुःखतया विपरिणामदुःखतया दुःखदुःखतया च प्रागेव विपत्तिस्थितान् । स एवं पश्यन्निदं प्रतिसंशिक्षते । एवं सदा दुःखानुगतानां सत्त्वानां दुःखापकर्षणायास्माभिर्व्यायच्छितव्यं न दुःखोपसंहाराय । तस्यैवं योनिशो मनसि कुर्वतः सुखसंज्ञा प्रहीयते दुःखसंज्ञा चोत्पद्यते । स तां दुःखसंज्ञां निश्रित्य परेषां सर्वापकारान्मर्षयति क्षमते ।

कथञ्च बोधिसत्त्वोऽपकारिषु सत्त्वेषु परिग्रहसंज्ञां भावयति । इह बोधिसत्त्व इदं प्रतिसंशिक्षते । मया खलु सर्वसत्त्वा बोधाय चित्तमुत्पादयता कडत्रभावेन परिगृहीताः । सर्वसत्त्वानां मयार्थः करणीय इति । तन्न मे प्रतिरूपं स्याद्यदहमेवं सर्वसत्त्वानुपादायैषामर्थं करिष्यामीत्यनर्थमेव कुर्यामपकारममर्षयन् । तस्यैव यानिशो मनसि कुर्वतः अपकारिषु सत्त्वेषु परसंज्ञा प्रहीयते । परिग्रहसंज्ञा च संतिष्ठते । स तां परिग्रहसज्ञां निश्रित्य परेषां सर्वापकारान्मर्षयति क्षमते ।

क्षान्तिः कतमा । यन्न कुप्यति न प्रत्यपकारं करोति । नाप्यनुशयं वहति । इयमुच्यते क्षान्तिः ।

तत्र बोधिसत्त्वस्य दुःखाधिवासनाक्षान्तिः कतमा । इह बोधिसत्त्व इदं प्रतिसंशिक्षते । मया खलु पूर्व कामचर्यासु वर्तमानेन कामान्पर्येषता प्रतिसंख्याय दुःखहेतुतया दुःखात्मकानां कामानामर्थे प्रभूतानि तीव्राणि दुःखानि अभ्युपगतानि अधिवासितान्यनुभूतानि कृषिवणिज्या राजपौरुष्यप्रयुक्तेन । एवं तद्वयर्थं दुःखस्यैवार्थे मया महद्दुःखमभ्युपगतं प्रतिसंख्यायाज्ञानदोषेण । सांप्रतं तु मम सुखाहारके कुशले प्रयुक्तस्य [प्रतिसंख्याय] ततः कोटीशतसहस्रगुणस्य दुःखस्याधिवासनाभ्युपगमः प्रतिरूपः स्यात् । प्रागेव ततो न्यूनस्य । एवं योनिशो मनसि कुर्वन् बोधाय प्रयुक्तो बोधिसत्त्वः सर्ववस्तुकं दुःखमधिवासयति ।

सर्ववस्तुकं दुःखं कतमत् । तत्समासतः अष्टाकारं वेदितव्यम् । सन्निश्रयाधिष्ठानं लोकधर्माधिष्ठानमीर्यापथाधिष्ठानं धर्मपरिग्रहाधिष्ठान भिक्षाकवृत्ताधिष्ठानमभियोगक्लमाधिष्ठानं सत्त्वार्थक्रियाधिष्ठानमितिकरणीयाधिष्ठानञ्चेति ।

(दुत्त्१३३)
चत्वारः सन्निश्रयाः । यानाश्रित्य स्वाख्याते धर्मविनये प्रव्रज्योपसम्पद्भिक्षुभावः । तद्यथा चीवरं पिण्डपातः शयनासनं ग्लानप्रत्ययभैषज्यपरिष्काराश्च । तैर्बोधिसत्त्वो लूहैः स्तोकैरसत्कृत्य धन्धञ्च लब्धैर्नोत्कण्ठ्यते न परित्रस्यति नापि ततो निदानं वीर्यं स्रंसयति । एवं सन्निश्रित्याधिष्ठानं दुःखमधिवासयति ।

नव लोकधर्माः । अलाभः अयशो निन्दा दुःखंनाशधर्मकस्य नाशः क्षयधर्मकस्य क्षयः जराधर्मकस्य जरा व्याधिधर्मकस्य व्याधिः मरणधर्मकस्य मरणम् । एषां लोकधर्माणां समस्तव्यस्तानामापतनात्सम्मुखीभावात्यद्दुःखमुत्पद्यते तल्लोकधर्माधिष्ठानमित्युच्यते । तेनापि स्पृष्टो बोधिसत्त्वो न तन्निदानं वीर्यं स्रंसयति प्रतिसंख्यायोद्वहते अधिवासयति ।

चत्वार ईर्यापथाः । चंक्रमः स्थानं निषद्या शय्या च । तत्र बोधिसत्त्वः चंक्रमनिषद्याभ्यां दिवारात्रौ वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयंस्तन निदानं परिश्रमजं दुःखमधिवासयति । न त्वकाले पार्श्वमनुप्रयच्छति मञ्चे वा पीठे वा तृणसंस्तरे वा पर्णसंस्तरे वा ।

सप्तविधो धर्मपरिग्रहः । रत्नत्रयपूजोपस्थानं गुरुपूजोपस्थानं धर्माणामुद्ग्रहणमुद्गृहीतानां परेषां विस्तरेण देशना विस्तरेण स्वरेण स्वाध्यायक्रिया एकाकिनो रहोगतस्य सम्यक्चिन्तना तुलना उपपरीक्षणा योगमनसिकारसंगृहीता शमथविपश्यना भावना च । अस्मिन् सप्ताकारे धर्मपरिग्रहे बोधिसत्त्वस्य व्यायच्छमानस्य यद्दुःखमुत्पद्यते तदप्यसावधिवासयति । न च तन्निदानं वीर्यं स्त्रंसयति ।

भिक्षाकवृत्तमपि सप्ताकारं वेदितव्यम् । वैरूप्याभ्युपगमः शिरस्तुण्डमुण्डनादिभिरपहृतगृहिव्यञ्जनतया । वैवर्ण्याभ्युपगमो विकृतविवर्णवस्त्रधारणतया । आकल्पान्तरक्रिया सर्वलौकिकप्रचारेषु तन्त्रितविहारतया । परप्रतिबद्धाजीविका कृष्यादिकर्मान्तविवर्जितस्य परलब्धेन यात्राकल्पनतया । यावज्जीवं परतश्चीवरादिपर्येषणा लब्धानां सन्निधिकारापरिभोगतया । यावज्जीवं (दुत्त्१३४) मानुष्यकेभ्यः कामेभ्य आवरणक्रिया अब्रह्मचर्यमैथुनधर्मप्रतिविवरणतया । यावज्जीवं मानुष्यकेभ्यो रतिक्रीडाभ्य आवरणकिया नटनर्तनकहासकलासकादिसंदर्शनप्रतिविरमणतया । मित्रसुहृद्वयस्यैश्च सह हसितक्रीडितरमितपरिचारित-प्रतिविरमणतया । इत्येवं रूपं कृच्छ्रसंबाधं भिक्षाकवृत्तमागम्य यद्दुःखमुत्पद्यते तदपि बोधिसत्त्वोऽधिवासयति । न च तन्निदानं वीयु स्रंसयति ।

कुशलपक्षाभियुक्तस्यापि च बोधिसत्त्वस्य [ये] परिश्रमनिदाना उत्पद्यन्ते कायिकाः क्लमाः चैतसिकाः अप्युपायासा न बोधिसत्त्वस्तन्निदानं वीर्यं संस्त्रयति ।

सत्त्वार्थकर्म त्वेकादशप्रकारं पूर्ववद्वेदितव्यमु । तन्निदानमपि बोधिसत्त्वो दुःखसमुत्पन्नमधिवासयति । न च तन्निदानं वीर्यं स्त्रंसयति ।

इतिकरणीयं प्रव्रजितस्य चीवरपात्रकर्मादि । गृहिणः पुनः सम्यक्कृषिवणिज्या-राजपौरुष्यादि । तन्निदानमपि बोधिसत्त्वो दुःखमधिवासयति । नो तु तन्निदानं वीर्यं स्रंसयति । यत्पुनर्बोधिसत्त्वः स्पृष्टः सन्नन्यतमेन दुःखेन प्रयुज्यत एवानुत्तरायै सम्यक्संबोधये । न [न] प्रयुज्यते । प्रयुक्तश्च न विवर्तंते । अविमनस्कश्चासंक्लिष्टचित्तः प्रयुज्यते । इयमस्योच्यते दुःखाधिवासनाक्षान्तिः ।

तत्र कतमा बोधिसत्त्वस्य धर्मनिध्यानाधिमुक्तिक्षान्तिः । इह बोधिसत्त्वस्य सम्यग्धर्मप्रविचयसुविचारितया बुद्ध्या अष्टविधे अधिमुक्त्यधिष्ठाने अधिमुक्तिः सुसन्निविष्टा भवति रत्नगुणेषु तत्त्वार्थे बुद्धबोधिसत्त्वानां महाप्रभावे हेतौ फले प्राप्तव्येऽर्थे आत्मनस्तत्प्राप्त्युपाये ज्ञेयगोचरे च । सा पुनरधिमुक्तिर्द्वाभ्यां कारणाभ्यां सुसन्निविष्टा भवति । दीर्घकालाभ्यासतश्च सुविशुद्धज्ञानसमुदागमतश्च । इतीयं बोधिसत्त्वानां सर्वक्षान्तिः पक्षद्वयमाश्रिता । यामाश्रित्य दुष्करक्षान्त्यादिविस्तरविभागो बोधिसत्त्वानां वेदितव्यः ।

तत्र कतमा बोधिसत्त्वस्य दुष्करक्षान्तिः । सा त्रिविधा द्रष्टव्या । इह बोधिसत्त्वो दुर्बलानां सत्त्वानामन्तिकादपकारं क्षमते । इयं प्रथमा दुष्करक्षान्तिः । प्रभुर्भूत्वा स्वयं क्षमते । इयं द्वितीया दुष्करक्षान्तिः । जातिगोत्रनीचतराणाञ्च सत्त्वानामन्तिकादुत्कृष्टमधिमात्रमपकारं क्षमते । इयं तृतीया दुष्करक्षान्तिः ।

(दुत्त्१३५)
तत्र कतमा बोधिसत्त्वस्य सर्वतोमुखी क्षान्तिः । सा चतुर्विधा द्रष्टव्या । इह बोधिसत्त्वो मित्रादप्यपकारं क्षमतेऽमित्रादप्युदासीनादपि । तेभ्यश्च त्रिभ्यो हीनतुल्याधिकेभ्यः क्षमते ।

तत्र कतमा बोधिसत्त्वस्य सत्पुरुषक्षान्तिः । सा पञ्चविधा द्रष्टव्या । इह बोधिसत्त्वः आदित एव क्षान्तावनुशंसदर्शी भवति । क्षमः पुद्गलः आयत्त्यामवैरबहुलो भवति । अभेदबहुलो भवति । सुखसौमनस्यबहुलो भवति । अविप्रतिसारी कालं करोति । कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते । इति स एवमनुशंसदर्शी । स्वयञ्च क्षमो भवति । परञ्च क्षान्तौ समादापयति । क्षमायाश्च वर्णं भाषते । क्षमिणञ्च पुद्गलं दृष्ट्वा सुमनस्को भवत्यानन्दीजातः ।

तत्र कतमा बोधिसत्त्वस्य सर्वाकारक्षान्तिः । सा षड्विधा सप्तविधा चैकध्यमभिसंक्षिप्य त्रयोदशविधा वेदितव्या । इह बोधिसत्त्वोऽनिष्टविपाकमक्षान्तिं विदित्वा भयादपि क्षमते । सत्त्वेषु च दयाचित्तः कारुण्यचित्त [स्निग्धचित्तः] स्नेहादपि क्षमते । अनुत्तरायां सम्यक्संबोधौ तीव्रच्छन्दः क्षान्तिपारमितां परिपूरयितुकामः कारणहेतोरपि क्षमते । क्षान्तिबलाश्च प्रव्रजिता उक्ता भगवता । तदनेनापि पर्यायेण न युक्तरूपा समात्तशीलस्य प्रव्रजितस्याक्षान्तिरिति धर्मसमादानतोऽपि क्षमते । गोत्रसम्पदि पूर्वके च क्षान्त्यभ्यासे वर्तमानोऽवस्थितः प्रकृत्यापि क्षमते । [निः]सत्त्वांश्च सर्वधर्मान् विदित्वा निरभिलाप्यधर्ममात्रदर्शी धर्मनिध्यानतोऽपि क्षमते । सर्वञ्चापकारं क्षमते । सर्वतश्च क्षमते । सर्वत्र च देशे क्षमते । रहसि वा महाजनसमक्षं वा सर्वकालञ्च क्षमते । पूर्वाह्नेऽपि मध्याह्नेऽपि सायाह्नेऽपि रात्रौ च दिवा वाऽती तमप्यनागतमपि प्रत्युत्पन्नमपि ग्लानोऽपि स्वस्थोऽपि पतितोऽप्युत्थितोऽपि । कायेनापि क्षमतेऽप्रहरणतया । वाचापि क्षमतेऽमनापवचनानिश्चारणतया । मनसापि क्षमतेऽकोप्यतया कलुषाशयाधारणतया च ।

तत्र कतमा बोधिसत्त्वस्य विघातार्थिकक्षान्तिः । साऽष्टविधा द्रष्टव्या । दुःखितानां याचकानामन्तिकाद्याञ्चोपरोधनक्षान्तिः । रौद्रेष्वधिमात्रपापकर्मसु सत्त्वेषु धर्ममहाकरुणां निश्रित्याघाताकरण-क्षान्तिः । दुःशीलेषु प्रव्रजितेषु (दुत्त्१३६) धर्ममहाकरुणां निश्रित्याघाताकरण-क्षान्तिः । पञ्चाकारा च व्यवसायसहिष्णुताक्षान्तिः । दुःखितानां सत्त्वानां दुःखापनयनाय व्यायच्छतः धर्मान् पर्येषतः धर्मस्यानुधर्मे प्रतिपद्यभानस्य तानेव धर्मान् परेषां विस्तरेण संप्रकाशयतः सत्त्वकृत्येषु [सत्त्वकरणीयेषु] च सम्यक्सहायीभावं गच्छतो या व्यवसायसहिष्णुता । इतीयमष्टाकारा विघातार्थिकक्षान्तिरित्युच्यते । येन च सत्त्वा विधातिनः स्युः तस्य च क्षान्त्या परिवर्जनात् । येन चार्थिनस्तस्योपसंहारात् ।

तत्र कतमा बोधिसत्त्वस्य इहामुत्रसुखा क्षान्तिः । सा नवविधा दृष्टव्या । इह बोधिसत्त्वः अप्रमत्तो विहरन् कुशलेषु धर्मेषु क्षमो भवति । शीतस्योष्णस्य जिघत्सापिपासयोः दंशसंस्पर्शानां [मशकसंस्पर्शानां वातातपयोः सरीसृपसंस्पर्शानां] क्षमो भवति । परिश्रमजन्यकायचित्तक्लमोपायासस्य क्षमो भवति । संसारपतितजराव्याधिमरणादिकानां दुःखानां सत्त्वानुकम्पामेव पुरस्कृता इत्येवं क्षमो बोधिसत्त्व आत्मना च दृष्टे च धर्मे सुखसंस्पर्शं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैः । सांपरायिकञ्च सुखहेतुं समादाय वर्तते । [परेषामपि च सुखहेतुं समादाय वर्तते ।] परेषामपि च दृष्टे धर्मे संपराय सुखाय प्रतिपन्नो भवति । तस्मादियमिहामुत्रसुखा क्षान्तिरित्युच्यते ।

तत्र कतमा बोधिसत्त्वस्य विशुद्धा क्षान्तिः । सा दशविधा द्रष्टव्या । इह बोधिसत्त्वः परेषामन्तिकादपकारं विघातं व्यतिक्रमं लभमानो नापि प्रत्यपकारं करोति । नापि मनसा कुप्यति । नापि प्रत्यर्थिकाशयं वहति । उपकाराय चाभिमुखो भवति यथा पूर्वं तथा पश्चान्नोपकारक्रिययाऽपकारमुपेक्षते अपकारिषु च स्वयमेव संज्ञप्तिमनुप्रयच्छति न च खेदयित्वा परेषामन्तिकात्संज्ञप्तिं प्रतिगृहणाति खेदितो भवत्विति । एतमेव प्रत्ययं कृत्वा अक्षान्तिमारभ्य तीव्रेण [ह्रीव्यपत्राप्येन] समन्वागतो भवति । क्षान्तिमारभ्य तीव्रेण शास्तरि प्रेमगौरवेण समन्वागतो भवति । सत्त्वाविहेठनतामारभ्य तीव्रेण सत्त्वेषु करुणाशयेन सन्वागतो भवति । सर्वेण वा सर्वमक्षान्तिधर्मसहायं प्रहाय कामवीतरागो भवति । सर्वेण एभिर्दशभिराकारैर्बोधिसत्त्वस्य क्षान्तिविशुद्धा वेदितव्या निर्मला ।

(दुत्त्१३७)
इत्येतां स्वभाव-[क्षान्त्यादिकं विशुद्ध-]क्षान्तिपर्यवसानां क्षान्तिं विपुलामप्रमाणां महाबोधिफलो[दयां] निश्रित्य बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने एकादशमं क्षान्तिपटलं समाप्तम् ।


(दुत्त्१३८)
वीर्यंपटलम् (अध्याय १.१२)

उद्दानं पूर्ववद्वेदितव्यम ।

तत्र कतमद्बोधिसत्त्वस्य स्वभाववीर्यम् । यो बोधिसत्त्वस्य चित्ताभ्युत्साहोऽप्रमेयकुशलधर्मसंग्रहाय सत्त्वार्थक्रियायै । उत्तप्तश्च निश्छिद्रश्चाविपर्यस्तश्च तत्समुत्थितश्च कायवाङ्मनः परिस्पन्दः । अयं बोधिसत्त्वस्य वीर्यस्वभावो वेदितव्यः ।

तत्र कतमद्बोधिसत्त्वस्य सर्ववीर्यंम् । तत्समासतो द्विविधं वेदितव्यम् । गृहिपक्षाश्रितं प्रव्रजितपक्षाश्रितञ्च । तत्पुनरुभयपक्षाश्रितमपि त्रिविधं वेदितव्यम् । सन्नाहवीर्यं कुशलधर्मसंग्राहकं सत्त्वार्थक्रियायै च ।

तत्रेदं बोधिसत्त्वस्य सन्नाहवीर्यम् । इह बोधिसत्त्वः पूर्वमेव वीर्यारम्भप्रयोगादेवं चेतसोऽभ्युत्साहपूर्वकं सन्नाहं सन्नह्यते । स चेदहमेकसत्त्वस्यापि दुःखविमोक्षहेतोर्महाकल्पसहस्रतुल्यै रात्रिन्दिवसैर्नंरकवासेनैव नान्यगतिवासेन यावता कालेन बोधिसत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते तेनैव कोटीनियुतशतसहस्रगुणितेन कालेनाहमनुत्तरां सम्यक्संबोधिमासादयेयम् । तथापि चोत्सहेयम् । न नानुत्तरायाः सम्यक्संबोधेरर्थेन प्रयुज्येयम् । न च प्रयुक्त-वीर्यं संस्रयेयम् । प्रागेव न्यूनतरेण कालेन तनुतरेण च दुःखेन । इदमेवंरूपं बोधिसत्त्वस्य सन्नाहवीर्यम् । यो बोधिसत्त्वः एवरूपे बोधिसत्त्वानां सन्नाहवीर्येऽधिमुक्तिमात्रकं प्रसादमात्रकमप्युत्पादयेत्सोऽपि तावद्बोधिसत्त्वो धीरोऽप्रमाणस्य बोधाय वीर्यारम्भस्य धातुं परिपोषयेत् । प्रागेव यो बोधिसत्त्वः ईदृशेनैव सन्नाहवीर्येण समन्वागतः स्यात्न च पुनस्तस्य बोधिसत्त्वस्य बोधेरर्थे सत्त्वानामर्थाय किञ्चिदस्ति दुष्करं करणीयं कर्म यत्रास्य बोधिसत्त्वस्य संकोचो वा स्यात्चेतसो दुष्करं वा कर्तुम् ।

तत्र कतमद्बोधिसत्त्वानां कुशलधर्मसंग्राहकं वीर्यम् । यद्वीर्यं दानपारमिताप्रायोगिकं दानपारमितासमुदागमाय यद्वीर्यं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताप्रायोगिकं (दुत्त्१३९) यावत्प्रज्ञापारमितासमुदागमाय । तत्पुनः समासतः सप्ताकारं वेदितव्यम् । अचलं सर्वकल्पविकल्पक्लेशोपक्लेशपरप्रवादिदुःखसंस्पर्शैरविचाल्यत्वात् । गाढं सत्कृत्य प्रयोगित्वात् । अप्रमेयं सर्वविद्यास्थानसमुदागमप्रत्युपस्थानत्वात् । उपायप्रयुक्तं प्राप्तव्यस्यार्थस्याविपरीतमार्गा नुगतत्वात्समताप्रतिवेधाच्च । सम्यग्वीर्यमर्थोपसंहितस्य प्राप्तव्यस्यार्थस्य प्राप्तये प्रणिहितत्वात् । प्रततं सातत्यप्रयोगित्वात् । विगतमानं तेन वीर्यारम्भेणानुन्नमनात् । इत्येभिः सप्तभिराकारैः कुशलधर्मसंग्रहाय वीर्यारम्भप्रयोगो बोधिसत्त्वानां क्षिप्रं पारमितापरिपूरयेऽनुत्तरसम्यक्संबोध्यधिगमाय संवर्तते । यतश्च सर्वेषां बोधिकरकाणां कुशलानां धर्मणामेवं समुदागमाय वीर्यमेव प्रधानं श्रेष्ठं कारणं न तथान्यत् । तस्माद्वीर्यमनुत्तरायै सम्यक्संबोधये इति निर्दिशन्ति तथागताः ।

सत्त्वार्थक्रियावीर्यं पुनर्बोधिसत्त्वानां वेदितव्यमेकादशप्रकारम् । तद्यथा शीलपटले । यत्तत्र शीलयुक्तं तदिह वीर्यं वक्तव्यम् । अयं विशेषः ।

तत्र कतमद्बोधिसत्त्वस्य दुष्करवीर्यम् । तत्त्रिविधं द्रष्टव्यम् । यद्बोधिसत्त्वो नैरन्तर्येण चीवरसंज्ञां पिण्डपातसंज्ञां शयनासनसंज्ञामपि आत्मसंज्ञामकुर्वन् कुशलेषु धर्मेषु भावनासातत्येन प्रयुक्तो भवति । इदं बोधिसत्त्वस्य प्रथमं दुष्करवीर्यम् । पुनर्बोधिसत्त्वस्तेन तथारूपेण वीर्यारम्भेण आ-निकायसभागनिक्षेपात्सर्वकालं प्रयुक्तो भवति । इदं द्वितीयं बोधिसत्त्वस्य दुष्करवीर्यम् । पुनर्बोधिसत्त्वः समताप्रतिवेधगुणयुक्तेन नातिलीनेन नात्यारब्धेनाविपरीतेनार्थोपसंहितेन वीर्येण समन्वागतो भवति । इदं बोधिसत्त्वस्य तृतीयं दुष्करवीर्यं वेदितव्यम् । अस्य खलु बोधिसत्त्वानां दुष्करवीर्यस्य बलं सत्त्वेषु करुणा प्रज्ञा च संग्रहहेतुर्वेदितव्यः ।

तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुखं वीर्यम् । तच्चतुर्विध द्रष्टव्यम् । क्लिष्टधर्मविवर्जकं शुक्लधर्मावर्जकं कर्मपरिशोधकं ज्ञानविवर्धकञ्च । तत्र क्लिष्टधर्मविवर्जकं बोधिसत्त्वस्य वीर्यमनुत्पन्नानाञ्च संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानामनुत्पादायोत्पन्नानाञ्च प्रहाणाय । तत्र शुक्लधर्मावर्जकं बोधिसत्त्वस्य (दुत्त्१४०) वीर्यं यदनुत्पन्नानाञ्च कुशलानां धर्माणामुत्पत्तये वीर्यम् । उत्पन्नानाञ्च स्थितये असंमोषायै वृद्धिविपुलतायै यद्वीर्यम् । तत्र कर्मपरिशोधकं बोधिसत्त्वस्य वीर्यं यत्त्रयाणां कर्मणां विशुद्धये संग्रहाय कुशलस्य कायकर्मणो वाक्कर्मणो मनस्कर्मणश्च । तत्र ज्ञानविवर्धके बोधिसत्त्वस्य वीर्यम् । यच्छ्रु तचिन्ताभावनामय्याः प्रज्ञायाः समुदागमाय परिवृद्धये संवर्तते ।

तत्र कतमद्बोधिसत्त्वस्य सत्पुरुषवीर्यम् । तत्पञ्चविधं द्रष्टव्यम् । अनिराकृतं सर्वेण सर्वं छन्दप्रयोगानिराकरणतया । अन्यूनं यथोपात्ततुल्याधिकवीर्यानुबृंहणतया । अलीनमुत्तप्तदीर्घकालिक-निरन्तरवीर्यारम्भायासंकुचिताविषण्णचित्ततया । अविपरीतमर्थोपसंहितोपायपरिगृहीततया । उत्तप्तप्रयोगञ्च बोधिसत्त्वानां वीर्यमनुत्तरायां सम्यक्संबोधावभिकरणतया ।

तत्र कतमद्बोधिसत्त्वानां सर्वाकारं वीर्यम् । तत्षडाकारं सप्ताकारञ्च ऐकध्यमभिसंक्षिप्य त्रयोदशाकारं वेदितव्यम् । सातत्यवीर्यं नित्यकालप्रयोगितया । सत्कृत्यवीर्यं निपुणप्रयोगितया । नैष्यन्दिकं वीर्यं पूर्ववीर्यहेतुबलाधानतया । प्रायोगिकं वीर्यं प्रतिसंख्याय कुशलपक्षप्रयोगितया । अकोप्यवीर्यं सर्वदुःखसंस्पर्शैरविकोप्यतयाऽनन्यथाभावोपगमनतया असंतुष्टिवीर्यमल्पावरमात्रविशेषाधिगमासन्तुष्टतया । इदं तावत्षड्विधं सर्वाकारं वीर्यं येन समन्वागतो बोधिसत्त्वः आरब्धवीर्यः स्थामवान् वीर्यवानुत्साही दृढपराक्रमः अनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्युच्यते । सप्तविधं पुनः छन्दसहगतं बोधिसत्त्वस्य वीर्यं पुनः पुनरनुत्तरायां सम्यक्संबोधौ तीव्रच्छन्द प्रणिधानानुवृंहणतया साम्ययुक्तं बोधिसत्त्वस्य वीर्यं यदन्यतमेन क्लेशोपक्लेशेनासंक्लिष्टचेतसोऽपर्यवस्थितस्य येन वीर्येण बोधिसत्त्वः कुशलेषु धर्मेषु तुल्योचित्तविहारी संभवति । वैशेषिकं वीर्यं बोधिसत्त्वस्यान्यतमेनोपक्लेशेनोपक्लिष्टचेतसः [पर्यवसितचेतसः] तस्योपक्लेशस्य प्रहाणाय यदादीप्तशिरो निर्वाणोपमं वीर्यम् । एषकं वीर्यं बोधिसत्त्वस्य सर्वविद्यास्थानपर्येषणतया । शिक्षावीर्यं बोधिसत्त्वस्य तेष्वेव पर्येषितेषु धर्मेषु यथायोग्यं यथार्हं धर्मानुधर्मप्रतिपत्तिसंपादनतया । परार्थक्रियावीर्यं बोधिसत्त्वस्य पूर्ववदेकादशविधं वेदितव्यम् । आत्मनः सम्यक्प्रयोगारक्षायै
(दुत्त्१४१) स्खलितस्य च यथाधर्मप्रतिकरणतायै वीर्यं सप्तमं बोधिसत्त्वस्य । इतीदं त्रयोदशाकारं बोधिसत्त्वस्य वीर्य सर्वाकारमित्युच्यते ।

विघातार्थिकवीर्यं चेहामुत्रसुखञ्च बोधिसत्त्वानां वीर्यं क्षान्तिवद्द्रष्टव्यम् । तत्रायं विशेषः । या तत्र क्षान्तिः सेह वीर्यमभ्युत्साहो वक्तव्यः ।

तत्र कतमद्बोधिसत्त्वस्य विशुद्धं वीर्यम् । तत्समासतो दशविधं वेदितव्यम् । अनुरूपमभ्यस्तमश्लथं सुगृहीतं कालाभ्यास-प्रयुक्तं निमित्तप्रतिवेधयुक्तमलीनमविधुरं समं महाबोधिपरिणमितञ्चेति ।

इह बोधिसत्त्वो येन येनोपक्लेशेनात्यर्थं बाध्यते । तस्य तस्योपक्लेशस्य प्रहाणायानुरूपं प्रतिपक्षं भजते । कामरागस्य प्रतिपक्षेणाशुभां भावयति । व्यापादप्रतिपक्षेण मैत्रीम् । मोहप्रतिपक्षेणेदंप्रत्ययता-प्रतीत्यसमुत्पादं भावयति । वितर्कप्रतिपक्षेणानापानस्मृतिम् । मानप्रतिपक्षेण धातुप्रभेदं भावयति । इदमेवंभागीयं बोधिसत्त्वस्य अनुरूपं [वीर्य]मित्युच्यते ।

इह बोधिसत्त्वो न आदिकर्मिक-तत्प्रथमकर्मिकवीर्येण समन्वागतो भवति । यदुत चित्तस्थितयेऽऽववादानुशासन्याम् । नान्यत्राभ्यस्तप्रयोगो भवति परिचितप्रयोगः । इतीदं बोधिसत्त्वस्याभ्यस्तं वीर्यमित्युच्यते ।

न चापि बोधिसत्त्वः अभ्यस्तप्रयोगो भवति अववादानुशासन्यां चित्तस्थितिमारभ्य । अपि त्वादिकर्मिक एव स बोधिसत्त्वस्तस्मिन् प्रयोगेऽश्लथप्रयोगो भवति सातत्यसत्कृत्यप्रयोगितया । इतीदं बोधिसत्त्वस्याश्लथं वीर्यमित्युच्यते ।

पुनर्बोधिसत्त्वो गुरुणामन्तिकात स्वयमेव वा बाहुश्रुत्यबलाधानतयाऽविपरीतग्राहितया चित्तस्थितये वीर्यमारभते । इतीदं बोधिसत्त्वस्य सुगृहीतं वीर्यमित्युच्यते ।

पुनर्बोधिसत्त्वः एवमविपरीतग्राही शमथकाले शमथं भावयति । प्रग्रहकाले चित्तं प्रतिगृहणाति । उपेक्षाकाले उपेक्षां भावयति । इदमस्य कालप्रयुक्तं वीर्यमित्युच्यते ।

(दुत्त्१४२)
पुनर्बोधिसत्त्वः शमथप्रग्रहोपेक्षानिमित्तानां समाधिस्थितिव्युत्थाननिमित्तानां चोपलक्षणासंप्रमोष-प्रतिवेधाय सातत्यकारी भवति सत्कृत्यकारी । इतीदं बोधिसत्त्वस्य निमित्तप्रतिवेधं वीर्यमित्युच्यते ।

पुनर्बोधिसत्त्वः परमोदारान् परमगम्भीरानचिन्त्याप्रमेयान् बोधिसत्त्वानां वीर्यारम्भनिर्देशान् श्रुत्वा नात्मानं परिभवति न सलीनचित्तो भवति । नापि चाल्पमात्रकेणावरमात्रकेण विशेषाधिगमेन सन्तुष्टो भवति । नोत्तरि न व्यायच्छते । इतीदं बोधिसत्त्वस्यालीनं वीर्यमित्युच्यते ।

पुनर्बोधिसत्त्वः कालेन कालमिन्द्रियैर्गुप्तद्वारतां भोजने मात्रज्ञतां पूर्वरात्रापररात्रं जागरिकानुयुक्ततां सप्रजानन् विहारितामित्येवंभागीयान् समाधिसंभारान् समादाय वर्तते । तेषु चोद्युक्तो भवति । अविपरीतञ्चार्थोपसंहितं सर्वत्र यत्नमारभते । इतीदं बोधिसत्त्वस्याविधुरं वीर्यमित्युच्यते ।
पुनर्बोधिसत्त्वो नातिलीनं नात्यारब्धं वीर्यमारभते । सम योगवाहि सर्वेषु चारम्भकरणीयेषु समं सत्कृत्यकारी भवति । इयं बोधिसत्त्वस्य समं वीर्यमित्युच्यते ।

पुनर्बोधिसत्त्वः सर्ववीर्यारम्भानभिसंस्कृताननुत्तरायां सम्यक्संबोधौ परिणमयतीदं बोधिसत्त्वस्य सम्यक्परिणमितं वीर्यमित्युच्यते ।

इत्येतत्स्वभाववीर्यादिकं विशुद्धवीर्यावसानञ्च बोधिसत्त्वानां वीर्य महाबोधिफलं यदाश्रित्य बोधिसत्त्वा वीर्यपारमितां परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा अभिसंभोत्स्यन्तेऽभिसंबुध्यन्ते च ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने द्वादशमं वीर्यपटलं समाप्तम् ।


(दुत्त्१४३)
ध्यानपटलम (अध्याय १.१३)

उद्दानं पूर्वंवद्वेदितव्यम् ।

तत्र कतमो बोधिसत्त्वानां ध्यानस्वभावः । बोधिसत्त्वपिटकश्रवणचिन्तापूर्वकं यल्लौकिकं लोकोत्तरं बोधिसत्त्वानां कुशलं चित्तैकाग्र्यञ्चित्तस्थितिः शमथपक्ष्या वा विपश्यनापक्ष्या वा युगनद्धवाहिमार्गं तदुभयापक्ष्या वा । अयं बोधिसत्त्वानां ध्यानस्वभावो वेदितव्यः ।

तत्र कतमद्बोधिसत्त्वानां सर्वंध्यानम् । तद्द्विविधं द्रष्टव्यम् । लौकिकं लोकोत्तरञ्च । तत्पुनर्यथायोगं त्रिविधं वेदितव्यम् । दृष्टधर्मसुखविहाराय ध्यानं बोधिसत्त्व-समाधिगुणनिर्हाराय ध्यान सत्त्वार्थक्रियायै ध्यानम् ।

तत्र यद्बोधिसत्त्वानां सर्वविकल्पापगतं कायिकचैत्तसिकप्रस्रब्धिजनकं परमप्रशान्तं मन्यनापगतमनास्वादितं सर्वनिमित्तापगतं ध्यानम् । इदमेषां दृष्टधर्मसुखविहाराय वेदितव्यम् ।

तत्र यद्बोधिसत्त्वानां ध्यानं विचित्राचिन्त्याप्रमाणदशबलगोत्र-संगृहीतसमाधिनिर्हाराय संवर्तते । येषां समाधीनां सर्वश्रावकप्रत्येकबुद्धा अपि नामापि न प्रजानन्ति कुतः पुनः समापत्स्यन्ते । यच्च बोधिसत्त्वविमोक्षाभिभ्वायतनकृत्स्नायतनानां प्रतिसंविद्-अरणा-प्रणिधिज्ञानादीनां [गुणानां] श्रावकसाधारणानामभिनिर्हाराय संवर्तते । इदं बोधिसत्त्वस्य ध्यानं समाधिगुणाभिनिर्हाराय वेदितव्यम् । सत्त्वार्थकर्मणि ध्यानं बोधिसत्त्वस्यैकादशाकारं पूर्ववद्वेदितव्यम् । यद्ध्यानं निश्रित्य बोधिसत्त्वः सत्त्वानां कृत्येष्वर्थोपसंहितेषु सहायीभावं गच्छति । दुःखमनपनयति । दुःखितानां न्यायमुपदिशति । कृतज्ञः कृतवेदी उपकारिषु प्रत्युपकारं करोति । भयेभ्यो रक्षति । व्यसनस्थानां शोकं प्रतिविनोदयति । उपकरणविकलानामुपकरणोपसंहारं करोति । सम्यक्परिषदं परिकर्षति । चित्तमनुवर्तते । भूतैर्गुणैर्हर्षयति । सम्यक्च निगृह्णाति । (दुत्त्१४४) ऋद्ध्या चोत्रासयत्यावर्जयति चेति । तदैतत्सर्वमेकध्यमभिसंक्षिप्य बोधिसत्त्वानां सर्वध्यानमित्युच्यते । नात उत्तरि नातो भूयः ।

तत्र कतमद्बोधिसत्त्वानां दुष्करध्यानम् । तत्त्रिविधं द्रष्टव्यम् । यद्बधिसत्त्वा उदारैर्विचित्रैः सुपरिचितैर्ध्यानविहारैरभिनिर्हृतैर्विहृत्य स्वेच्छया तत्परमं ध्यानसुखं व्यावर्त्य प्रतिसंख्याय सत्त्वानुकम्पा प्रभूतां सत्त्वार्थक्रियां सत्त्वार्थपरिपाकं समनुपश्यन्तः कामधातावुपपद्यन्ते । इदं बोधिसत्त्वानां प्रथम दुष्करध्यानं वेदितव्यम् । पुनर्यद्बोधिसत्त्वो ध्यानं निश्रित्याप्रमेयासंख्येयाचिन्त्यान्सर्वश्रावकप्रत्येकबुद्धविषयसमतिक्रान्तान् बोधिसत्त्वसमाधीनभिनिर्हरति । इदं बोधिसत्त्वस्य द्वितीयं दुष्करध्यानं वेदितव्यम् । पुनर्यद्बोधिसत्त्वो ध्यानं निश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । इतीदं बोधिसत्त्वस्य तृतीय दुष्करध्यानं वेदितव्यम् ।

तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुखं ध्यानम् । तच्चतुर्विधं द्रष्टव्यम् । सवितर्कं-सविचारं [विवेकजं समाधिजं] प्रीतिसहगतं सात-सुखसहगतमुपेक्षासहगत च ।

तत्र कतमद्बोधिसत्त्वस्य सत्पुरुषध्यानम् । तत्पञ्चविधं द्रष्टव्यम् । अनाखादितं मैत्रीसहगतं करुणासहगतं मुदितासहगतमुपेक्षासहगतञ्च ।

तत्र कतमद्बोधिसत्त्वस्य सर्वाकार-ध्यानम् । तत्षड्विधं [सप्तविधं] चैकध्यमभिसंक्षिप्य त्रयोदशविधं वेदितव्यम् । कुशलं ध्यानमव्याकृतं च निर्मितनिर्माणाय ध्यानं शमथपक्ष्यं विपश्यनापक्ष्यं स्वपरार्थसम्यगुपनिध्यानाय ध्यानमभिज्ञाप्रभावगुणर्निर्हाराय ध्यानं नामालम्बनंमर्थालम्बनं शमथनिमित्तालम्बनं प्रग्रहनिमित्तालम्बनमुपेक्षानिमित्तालम्बनं [दृष्टधर्मसुख]विहाराय परार्थक्रियायै च ध्यानम् । इतीदं त्रयोदशाकारं बोधिसत्त्वानां ध्यानं सर्वाकारमित्युच्यते ।

तत्र कतमद्बोधिसत्त्वस्य विघातार्थिकध्यानम् । तदष्टविधं द्रष्टव्यम् । विषाशनि विषमज्वरभूतग्रहाद्युपद्रवसंशमकानां सिद्धये मन्त्राणामधिष्ठायकं ध्यानम् । धातुभैषम्यजातानाञ्च व्याधीनां विविधानां व्युपशमाय ध्यानम् । दुर्भिक्षेषु महारौरवेषु प्रत्युपस्थितेषु वृष्टिनिर्हारकं ध्यानम् । विविधेभ्यो भयेभ्यो (दुत्त्१४५) मनुष्यामनुष्यकृतेभ्यो जलस्थलगतेभ्यः सम्यक्परित्राणा ध्ययानम् । तथा भोजनपानहीनानामटवीकान्तारगतानां भोजनपानोपसंहाराय ध्यानम् । भोगविहीनानां विनेयानां भोगोपसहाराय ध्यानम् । दशसु दिक्षु प्रमत्तानां सत्त्वानां सम्यक्संबोधनाय ध्यानम् । उत्पन्नोत्पन्नानाञ्च सत्त्वकृत्यानां सम्यक्क्रियायै ध्यानम् ।

तत्र कतमद्बोधिसत्त्वस्येहामुत्रसुखं ध्यानम् । तन्नवविधं द्रष्टव्यम् । ऋद्धिप्रातिहार्येण सत्त्वानां विनयाय ध्यानम् । आदेशनाप्रातिहार्येणानुशास्तिप्रातिहार्येण सत्त्वानां विनयाय ध्यानम् । पापशारिणामपायभूमिविदर्शनं ध्यानम् । नष्टप्रतिभानानां सत्त्वानां प्रतिभानोपसंहाराय ध्यानम् । मुषितस्मृतीनां सत्त्वानां स्मृत्युपसंहाराय ध्यानम् । अविपरीतशास्रकाव्यमातृकानिबन्धव्यवस्थानाय सद्धर्मचिरस्थितिकतायै ध्यानम् । लौकिकानां शिल्पकर्मस्थानानामर्थोपसंहितानां सत्त्वानुग्राहकाणां लिपिगणनन्यसनसंख्यामुद्रादीनां मञ्चपीठच्छत्रोपानहादीनाञ्च विचित्राणां विविधानां भाण्डोपस्कराणामनुप्रवर्तकं ध्यानम् । अपायभूम्युपपन्नानाञ्च सत्त्वानां तत्कालापायिकदुःखप्रतिप्रस्रम्भणतायै रश्मिप्रमोचकं ध्यानम् ।

तत्र कतमद्बोधिसत्त्वस्य विशुद्धं ध्यानम् । तद्दशविधं द्रष्टव्यम् । लौकिक्या शुद्ध्या [वि]शुद्धमनास्वादितं ध्यानम् । अक्लिष्टं लोकोत्तरया शुद्ध्या [वि]शुद्धं ध्यानम् । प्रयोगशुद्ध्या [वि]शुद्धं मौलविशुद्ध्या [वि]शुद्धं मौलविशेषोत्तरविशुद्ध्या विशुद्धं ध्यानम् । प्रवेशस्थितिव्युत्थानवशिताविशुद्ध्या विशुद्धं ध्यानम् । ध्यानव्यावर्तने पुनः समादपनवशिता-विशुद्ध्या विशुद्धं ध्यानमभिज्ञाविकुर्वणवशिता-विशुद्ध्या विशुद्धं ध्यानम् । सर्वदृष्टिगतापगमविशुद्ध्या विशुद्धं ध्यानम् । क्लेशज्ञेयावरणप्रहाणविशुद्ध्या च विशुद्धं ध्यानम् । इत्येतद्ध्यानमप्रमेय बोधिसत्त्वानां महाबोधिफलं यदाश्रित्य बोधिसत्त्वा ध्यानपारमितां परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसम्बुद्धवन्तोऽभिसं[भोत्स्यन्तेऽभिसं]बुध्यन्ते च ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने त्रयोदशमं ध्यानपटलम् ।


(दुत्त्१४६)
प्रज्ञापटलम् (अध्याय १.१४)

उद्दानं पूर्ववद्वेदितव्यम् ।

तत्र कतमो बोधिसत्त्वस्य प्रज्ञास्वभावः । सर्वज्ञेयप्रवेशाय च सर्वज्ञेयानुप्रविष्टश्च यो धर्माणां प्रविचयः पञ्चविद्यास्थानान्यालम्ब्य प्रवर्तते अध्यात्मविद्यां हेतुविद्यां शब्दविद्याञ्चिकित्साविद्यां शिल्पकर्मस्थानविद्याञ्च । अयं बोधिसत्त्वानां प्रज्ञास्वभावो वेदितव्यः ।

तत्र कतमा बोधिसत्त्वानां सर्वा प्रज्ञा । सा द्विविधा द्रष्टव्या । लौकिकी लोकोत्तरा च । सा पुनः समासतस्त्रिविधा वेदितव्या । ज्ञेयतत्त्वानुबोधप्रतिवेधाय । पञ्चसु च यथानिर्दिष्टेषु विद्यास्थानेषु त्रिषु च राशिषु कौशल्यक्रियायै सत्त्वार्थक्रियायै च । या बोधिसत्त्वानामनभिलाप्यं धर्मनैरात्म्यमारभ्य सत्यावबोधाय वा सत्यावबोधकाले वा सत्याभिसंबोधाद्वा उर्द्धं प्रज्ञा परमप्रशमप्रत्युपस्थाना निर्विकल्पा सर्वंप्रपञ्चागता सर्वंधर्मेषु समतानुगता महासामान्यलक्षणप्रविष्टा ज्ञेयपर्यन्तगता समारोपापवादान्तद्वय विवर्जितत्वान्मध्यमप्रतिपदनुसारिणी । इयं बोधिसत्त्वानां तत्त्वानुबोधप्रतिवेधाय प्रज्ञा वेदितव्या । पञ्चसु विद्यास्थानेषु कौशल्यं विस्तरेण पूर्ववद्वेदितव्यं तद्यथा बलगोत्रपटले । त्रयः पुना राशयोर्थोपसंहितानां धर्माणां राशिः । अनर्थोपसंहितानां धर्माणां राशिः । नैवार्थोपसंहितानां नानाऽर्थोपसंहितानां धर्माणां राशिः । इत्येतेष्वष्टासु स्थानेषु प्रज्ञायाः कौशल्यपरिग्रहो महान्तं निरुत्तरं ज्ञानसम्भारं परिपूरयत्यनुत्तरायै सम्यक्संबोधये । सत्त्वार्थक्रिया पुनः पूर्ववदेकादशप्रकारैव वेदितव्या । तेष्वेव स्थानेषु या प्रज्ञा सा सत्त्वार्थक्रियायै प्रज्ञा वेदितव्या ।

तत्र कतमा बोधिसत्त्वस्य दुष्करा प्रज्ञा । सा त्रिविधा द्रष्टव्या गम्भीरस्य धर्मनैरात्म्यज्ञानाय दुष्करा । सत्त्वानां विनयोपायस्य प्रज्ञानाय दुष्करा । सर्वज्ञेयानावरणज्ञानाय च परमदुष्करा ।

(दुत्त्१४७)
तत्र कतमा बोधिसत्त्वस्य सर्वतोमुखी प्रज्ञा । सा चतुर्विद्या द्रष्टव्या । श्रावकपिटकं बोधिसत्त्वपिटकं चारभ्य श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा । प्रतिसंख्याय बोधिसत्त्वकरणीयानुवृत्तावकरणीयनिवृत्तौ च प्रतिसंख्यानबलसंगृहीता प्रज्ञा । भावनाबलसंगृहीता च समाहितभूमिका अप्रमाणा प्रज्ञा ।

तत्र कतमा बोधिसत्त्वस्य सत्पुरुषस्य सत्पुरुषप्रज्ञा । सा पञ्चविधा द्रष्टव्या । सद्धर्मश्रवणसमुदागता प्रत्यात्मं योनिशो मनस्कारसहगता स्वपरार्थनिश्चिता प्रज्ञा क्लेशविजहना च प्रज्ञा । अपरः पर्यायः । सूक्ष्मा यथावद्भाविकतया ज्ञेयप्रवेशात् । निपुणा यावद्भाविकतया ज्ञेयप्रवेशात् । सहजा पूर्वकज्ञानसंभारसमुदागमात् । आगमोपेता बुद्धैर्महाभूमिप्रविष्टैश्च बोधिसत्त्वैः संप्रकाशितधर्मार्थस्योद्ग्रहणधारणात् । अधिगमोपेता शुद्धाशयभूमिमुपादाय यावन्निष्ठागमनभूमिपरिग्रहात् ।

तत्र कतमा बोधिसत्त्वस्य सर्वाकारा प्रज्ञा । सा षड्विधा सप्तविधा चैकध्यमभिसंक्षिप्य त्रयोदशविधा वेदितव्या । सत्येषु दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानम् । निष्ठायां क्षयज्ञानमनुत्पादज्ञानम् । इयं तावत्षड्विधा प्रज्ञा । सप्तविधा पुनः धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानमभिज्ञाज्ञानं लक्षणज्ञानं दशबलपूर्वङ्गमं ज्ञानं चतसृषु च युक्तिषु युक्तिज्ञानम् ।

तत्र कतमा बोधिसत्त्वस्य विधातार्थिकप्रज्ञा । साऽष्टविधा द्रष्टव्या । धर्माणां पर्यायज्ञानमारभ्य बोधिसत्त्वस्य धर्मप्रतिसंवित् । धर्माणां लक्षणज्ञानमारभ्यार्थप्रतिसंवित् । धर्माणां निर्वचनज्ञानमारभ्य निरुक्तिप्रतिसंवित् । धर्माणां प्रकारपदप्रभेदमारभ्य प्रतिभानप्रतिसंवित् । सर्वपरप्रवादिनिग्रहाय बोधिसत्त्वस्य प्रज्ञा । सर्वस्ववादव्यवस्थानप्रतिष्ठापनाय च प्रज्ञा । गृहतन्त्रसम्यक्प्रणयनाय कुलोदयाय प्रज्ञा । राजनीतिलौकिकव्यवहारनीतिषु च बोधिसत्त्वस्य या निश्चिता प्रज्ञा ।

तत्र कतमा बोधिसत्त्वस्येहामुत्रसुखा प्रज्ञा । सा नवविधा द्रष्टव्या । अध्यात्मविद्यायां सुव्यवदाता सुप्रतिष्ठिता प्रज्ञा । हेतुविद्यायां शब्दविद्यायां चिकित्साविद्यायां लौकिकशिल्पकर्मस्थानविद्यायां सुव्यवदाता नो तु प्रतिष्ठिता प्रज्ञा । तामेव च सुव्यवदातां पञ्चप्रकारां विद्यां निश्रित्य या बोधिसत्त्वस्य (दुत्त्१४८) परेषां विनेयानां मूढानां प्रमत्तानां संलीनानां सम्यक्प्रतिपन्नानां यथाक्रमं संदर्शनी समादापनी समुत्तेजनी संप्रहर्षणी च प्रज्ञा ।

तत्र कतमा बोधिसत्त्वस्य विशुद्धा प्रज्ञा । सा समासतो दशविधा वेदितव्या । तत्त्वार्थे द्विविधा यावद्भाविकतया यथावद्भाविकतया च तत्त्वार्थस्य ग्रहणात् । प्रवृत्त्यर्थे द्विविधा सम्यगहेतुतः फलतश्च ग्रहणात् । उपादानार्थे द्विविधा विपर्यासाविपर्यास-यथाभूतपरिज्ञानात् । उपायार्थे द्विविधा सर्वकरणीयाकरणीय-यथाभूतपरिज्ञानात् । इतीयं बोधिसत्त्वानां पश्चाकारा दशप्रभेदा प्रज्ञा विशुद्धा परमया विशुद्ध्या वेदितव्या ।

इतीयं बोधिसत्त्वानां सु-विनिश्चिता चाप्रमेया च प्रज्ञा महाबोधिफला यामाश्रित्य बोधिसत्त्वाः प्रज्ञापारमितां परिपूर्यानुत्तरां सम्यक्सम्बोधिमभिसंबुध्यन्ते ।

स खल्वेष षण्णां पारमितानां तेषु-तेषु सूत्रान्तरेषु भगवता व्यग्राणां निर्दिष्टानामयं समास-संग्रह-निर्देशो वेदितव्यः । यस्मिंतथागत-भाषिते सूत्रे दानपारमिता वा यावत्प्रज्ञापारमिता वा उद्देशमागच्छति निर्देशं वा सा स्वभाव-दाने वा यावत्विशुद्धे वा दानेऽवतारयितव्या । संग्रहश्च तस्या यथा योगं वेदितव्यः । एवमन्येषां शीलादीनां प्रज्ञावसानानां यथानिर्दिष्टानामवतारः संग्रहश्च यथायोगं वेदितव्यः । यानि च तथागतानां बोधिसत्त्वचर्या-जन्माप्रमेयाणि जातकानि दुष्करचर्या-प्रतिसंयुक्तानि तानि सर्वाणि दानप्रतिसंयुक्तानि दानमारभ्य वेदितव्यानि । यथा दानमेवं शीलं क्षान्तिं वीर्यं ध्यानं सर्वाणिं प्रज्ञाप्रतिसंयुक्तानि प्रज्ञामारभ्य वेदितव्यानि । कानिचिद्दानमेवारभ्य कानिचिद्यावत्प्रज्ञामेवारभ्य कानिचिद्द्वयसंसृष्टानि कानिचित्रयसंसृष्टानि कानिचिच्चतुःसंसृष्टानि कानिचित्पञ्चसंसृष्टानि कानिचित्सर्वा एव षट्पारमिता आरभ्य वेदितव्यानि । आभिः षड्भिः पारमिताभिरनुत्तरायै सम्यक्संबोधये समुदागच्छन्तो बोधिसत्त्वा महाशुक्लधर्मार्णवा महाशुक्लधर्मसमुद्रा इत्युच्यन्ते । सर्वसत्त्वसर्वाकारसंपत्तिहेतुमहारत्नह्रदा इत्युच्यन्ते । अस्य पुनरेषामेवमप्रमाणस्य पुण्यज्ञानसंभारसमुदागमस्य नान्यत्फलमेवमनुरूपं यथानुत्तरैवं सम्यक्संबोधिरिति ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने चतुर्दशमं प्रज्ञापटलम् ।


(दुत्त्१४९) (अध्याय १.१५)
संग्रहवस्तुपटलम्

उद्दानं पूर्ववद्वेदितव्यम् ।

तत्र कतमो बोधिसत्त्वानां प्रियवादितास्वभावः । इह बोधिसत्त्वो मनापां सत्यां धर्म्याञ्चार्थोपसंहिताञ्च सत्त्वेषु वाचमुदाहरति । अयं बोधिसत्त्वानां समासतः प्रियवादितास्वभावः ।

तत्र कतमा बोधिसत्त्वस्य सर्वा प्रियवादिता । सा त्रिविधा द्रष्टव्या । इह बोधिसत्त्वस्य या वाक्सम्मोदनी यया वाचा बोधिसत्त्वो विगतभृकुटिः पूर्वाभिलापी उत्तानमुखवर्णः स्मितमुख पूर्वङ्गमः क्षेमस्वस्त्ययनपरिपृच्छया वा धातुसाम्यपरिपृच्छया वा सुखरात्रिन्दिवपरिपृच्छया वा एहीति स्वागत[वादि]तया वा इत्येवमादिभिराकारैः सत्त्वान् प्रतिसम्मोदयति लोकयात्रां नागरकभावमनुवर्तमानः । या च वाग्बोधिसत्त्वस्यानन्दनी यया वाचा बोधिसत्त्वः पुत्रवृद्धिं [दारवृद्धिं] ज्ञातिवृद्धिं धनवृद्धिं धान्यवृद्धिं वा दृष्ट्वा अप्रतिसंविदितात्मवृद्धिकानां सत्त्वानामावेदयन्नानन्दयति श्रद्धाशीलश्रुतत्यागप्रज्ञावृद्ध्या वा पुनरानन्दयति । या च बोधिसत्त्वस्य सर्वाकारगुणोपेतधर्मदेशनाप्रतिसंयुक्ता वाक्सत्त्वानां हितसुखाय सततसमितं प्रत्युपस्थिता परमेणोपकारेणोपकारिभूता । इयं बोधिसत्त्वानां प्रियवादिता प्रभेदशः सर्वा वेदितव्या ।

तत्र कतमा बोधिसत्त्वानां समासतः सर्वा प्रियवादिता । सा द्विविधा द्रष्टव्या । लोकयात्रानुगता सम्यग्धर्मदेशनानुगता च । तत्र या च सम्मोदनीवाग्या चानन्दनी इयं लोकयात्रानुगता वेदितव्या । तत्र येयं वागुपकरा परमेणोपकारेण प्रत्युपस्थिता निर्दिष्टा इयं सम्यग्धर्मदेशनानुग्रता वेदितव्या ।

तत्र कतमा बोधिसत्त्वस्य दुष्करा प्रियवादिता । सा त्रिविधा द्रष्टव्या । यद्बोधिसत्त्वो वधकेषु प्रत्यर्थिषु प्रत्यमित्रेषु सुविशुद्धेन निष्कलुषेण चेतसा प्रतिसंख्याय सम्मोदनीं वा आनन्दनीं वा उपकरां वाचमुदीरयति इयं (दुत्त्१५०) बोधिसत्त्वस्य प्रथमा दुष्करा प्रियवादिता वेदितव्या । यत्पुनर्बोधिसत्त्वः अधिमात्रं संमूढेषु सत्त्वेषु धन्धेन्द्रियेष्वपरितस्यमानः प्रतिसंख्याय धर्म्यां कथां कथयति खेदमभ्युपगम्य ग्राहयति न्यायं धर्मं कुशलमियं द्वितीया बोधिसत्त्वस्य दुष्करा प्रियवादिता वेदितव्या । पुनर्यद्बोधिसत्त्वः शठेषु मायाविषु सत्त्वेष्वाचार्योपाध्यायगुरुदक्षिणीयविसंवादकेषु मिथ्याप्रतिपन्नेषु अनाघातचित्तोऽप्रतिघचित्तः सम्मोदनीमानन्दनीमुपकरां वाचमुदीरयति इयं बोधिसत्त्वस्य तृतीया दुष्करा प्रियवादिता वेदितव्या ।

तत्र कतमा बोधिसत्त्वस्य सर्वतो-मुखी प्रियवादिता । सा चतुर्विधा द्रष्टव्या । निवरण-प्रहाणाय सुगतिगमनाय पूर्वकालकरणीया धर्मदेशना । विगतनिवरणस्य कल्य-चित्तस्य सामुत्कर्षिकी चतुरार्यसत्य-प्रतिसंयुक्ता धर्मदेशना । प्रमत्तानां सत्त्वानां गृहि-प्रव्रजितानां सम्यक्संचोदना प्रमादचर्याया उत्थाप्य अप्रमादचर्यायां प्रतिष्ठापनार्थम् । उत्पन्नोत्पन्नाञ्च संशयानामपनयाय या धर्मदेशना सांकथ्यविनिश्चय-क्रिया ।

तत्र कतमा बोधिसत्त्वानां सत्-पुरुषाणां सत्पुरुषप्रियवादिता । सा पञ्चविधा द्रष्टव्या । इह बोधिसत्त्वभूतास्तथागतभूताश्च बोधिसत्त्वाः सनिदानमेव विनेयानां धर्मं देशयन्ति सनिःसरणं सप्रतिसरणं सपराक्रमं सप्रातिहार्यम् । स्थाने सोत्पत्तिकं शिक्षापदं प्रज्ञपयन्ति । तस्मातेषां धर्मः सनिदानो भवति । समात्तशिक्षाणाञ्चापन्नानामापत्तेः व्युत्थानं प्रज्ञपयन्ति । तस्मातेषा धर्मः सनिःसरणो भवति । चतुर्भिः प्रतिसरणैः संगृहीतामविपरीतां धर्मविनयेऽस्मिन् प्रतिपत्तिं प्रज्ञपयन्ति । तस्मादेषां धर्मः सप्रतिसरणो भवति । सर्वदुःख-नैर्याणिकीमप्रत्युदावर्तां प्रतिपदं संप्रकाशयन्ति । तस्मादेषां धर्मः सपराक्रमो भवति । त्रिभिश्च प्रातिहार्यैः सर्वां देशनामबन्ध्यां कुर्वन्ति । तस्मादेषां धर्मः सप्रातिहार्यो भवति ।

तत्र कतमा बोधिसत्त्वानां सर्वाकारा प्रियवादिता । सा षड्विधा सप्तविधा चैकध्यमभिसंक्षिप्य त्रयोदशविधा द्रष्टव्या । अनुज्ञेयेषु धर्मेष्वनुज्ञाने प्रियवादिता । प्रतिषेद्धव्येषु धर्मेषु प्रतिषेधे । धर्माणां धर्मपर्यायोद्भाविका प्रियवादिता । धर्मलक्षणाविपरीतोद्भाविका । धर्म-निर्वचनाविपरीतोद्भाविका । धर्मपदप्रकारप्रभेदोद्भाविका (दुत्त्१५१) प्रियवादिता । सम्मोदनी प्रियवादिता । आनन्दनी प्रियबादिता । परेषां सर्वोपकरणैरल्पोत्सुकतायां सर्वकृत्येषु च सम्यग्गतेष्वल्पोत्सुकतायां विशदप्रवारणी प्रियवादिता । विविधेषु च भयेषु भीतानामाश्वासनी प्रियवादिता । न्यायोपदेशसंगहीता च प्रियवादिता । अकुशलात्स्थानाद्वुत्थाप्य कुशले स्थाने प्रतिष्ठापनार्थं सम्यग्दृष्ट-श्रुत-परिशङ्कित-संचोदनावसादनी प्रियवादिता । परं प्रतिबलमध्येष्योपसंहृता प्रियवादिता । इयं बोधिसत्त्वानां त्रयोदशाकारा प्रियवादिता सर्वाकारा वेदितव्या ।

तत्र कतमा बोधिसत्त्वानां विधातार्थिक-प्रियवादिता । साऽष्टविधा द्रष्टव्या । या बोधिसत्त्वस्य चतुर्विधां वाग्विशुद्धिं निश्रित्याष्टस्कार्येषु व्यवहारेषु वाक् । इयं विघातार्थिक-प्रियवादिता बोधिसत्त्वानामुच्यते । तत्रेयं चतुविधा वाग्विशुद्धिः । मृषावादात्प्रतिविरतिः । पैशुन्यात्पारुष्यात्संभिन्नप्रलापात्प्रतिविरतिः । तत्रेमेऽष्टावार्या व्यवहाराः । दृष्टे दृष्टवादिता श्रुते मते विज्ञाते विज्ञातबादिता । अदृष्टेऽदृष्टवादिता । अश्रुतेऽमते अविज्ञातेऽविज्ञातवादिता ।

तत्र कतमा बोधिसत्त्वानामिहामुत्रसुखा प्रियवादिता । सा नवविधा द्रष्टव्या । ज्ञातिव्यसनशोकप्रहाणाय प्रियवादिता । भोगव्यसनशोक प्रहाणाय आरोग्यव्यसनशोकप्रहाणाय प्रियवादिता । शीलव्यसनप्रहाणाय दृष्टिव्यसनप्रहाणाय प्रियवादिता । शीलसंपदे दृष्टिसंपदे आचारसंपदे आजीवसंपदे च या प्रियवादिता सद्धर्मदेशना ।

तत्र कतमा बोधिसत्त्वस्य विशुद्धा प्रियवादित्ता । सः विंशतिविधा द्रष्टव्या । विंशत्याकारैर्या धर्मदेशना सा पुनः पूर्ववद्वेदितव्या । तद्यथा बलगोत्रपटले । तत्रार्थचर्या यथैव प्रियवादिता तथैव विस्तरेण वेदितव्या । एयद्विशिष्टाञ्चार्थचर्यामन्यां वक्ष्यामि । तथा हि बोधिसत्त्वः सर्वप्रकारयाऽनया प्रियवादितया तत्र-तत्रोपगमार्थं सत्त्वानामाचरति । तत्र कतमो बोधिसत्त्वानामर्थचर्यास्वभावः । एवं प्रियवादितया युक्तिसंदर्शितानां सत्त्वानां यथायोगं शिक्षास्वर्थचर्यायां धर्मानुधर्मप्रतिचर्यायां कारुण्यचित्तमुपस्थाप्य निरामिषेण (दुत्त्१५२) चेतसा समादापना विनयना निवेशना प्रतिष्ठापना । अयमर्थचर्यायाः समासतः स्वभावनिर्देशः

तत्र कतमा बोधिसत्त्वानां सर्वार्थचर्या । सा द्विविधा द्रष्टव्या । अपरिपक्वानाञ्च सत्त्वानां परिपाचना । परिपक्वानाञ्च सत्त्वानां विमोचना । सा पुनस्त्रिभिर्मुखैः वेदितव्या । दृष्टधार्मिकेऽर्थे समादापना । सांपरायिकेऽर्थे समादापना । दृष्टधर्म-सांपरायिकेऽर्थे समादापना । तत्र धार्मिकैः कर्मगुणैः भोगानामर्जन-रक्षण-वर्धन-सम्यक्-समादापनतया दृष्टधार्मिकेऽर्थे समादापना वेदितव्या । येनायं परतश्च प्रशंसां लभते दृष्टे च धर्मै सुखम् । उपकरणसुखेनानुगृहीतो विहरति । तत्र भोगानुत्सृज्य भिक्षाकवृत्त-जीविका-प्रतिबद्धमव्रज्या-समादापना । सांपरायिकेऽर्थे समादापना वेदितव्या । येनायं नियतं संपरायसुखितो भवति न त्ववश्यं दृष्टे धर्मे । तत्र या गृहिणो वा प्रव्रजितस्य वानुपूर्वेण वैराग्य-गमन-समादापना । इयं दृष्टधर्म-सांपरायिकेऽर्थे समादापना वेदितव्या । येनायं दृष्टे च धर्मे प्रस्रब्ध-काय प्रस्रब्ध-चित्तः सुखं स्पर्शं विहरति । संपराये च विशुद्धिदेवेषूपद्यते । निरूपधिशेषे निर्वाणधातौ परिनिर्वाति ।

तत्र कतमा बोधिसत्त्वानां दुष्करा अर्थचर्या । सा त्रिविधा द्रष्टव्या । पूर्वकुशलमूलहेत्वचरितेषु सत्त्वेष्वर्थचर्या बोधिसत्त्वानां दुष्करा । तथा हि ते दुःखसमादाप्या भवन्ति कुशले । महत्यां भोगसंपदि वर्तमानेषु सत्त्वेषु तदध्यवसानगतेष्वर्थचर्या बोधिसत्त्वानां दुष्करा । तथाहि ते महति प्रमादपदे प्रमादस्थाने वर्तन्ते । इतो बाह्यकेषु तीर्थिकेषु पूर्वं [च] तीर्थिक दृष्टिचरितेषु सत्त्वेष्वर्थंचर्या बोधिसत्त्वानां दुष्करा । तथा हि ते स्वयं संमूढाश्चाभिनिविष्टाश्चास्मिन् धर्मविनये ।

तत्र कतमा बोधिसत्त्वानां सर्वतोमुखी अर्थचर्या । सा चतुर्विधा द्रष्टव्या । इह बोधिसत्त्वः अश्राद्धं श्रद्धासंपदि समादापयति यावत्प्रतिष्ठापयति । दुःशीलं शीलसंपदि दुष्प्रज्ञं प्रज्ञासंपदि मत्सरिणं त्यागसंपदि समादापयति यावत्प्रतिष्ठापयति ।

(दुत्त्१५३)
तत्र कतमा बोधिसत्त्वस्य सत्पुरुषार्थचर्या । सा पञ्चविधा द्रष्टव्या । इह बोधिसत्त्वः सत्त्वान् भूतेऽर्थे समादापयति । कालेन समादायपति । अर्थोपसंहितेऽर्थे समादापयति । श्लक्ष्णेन समादापयति । मैत्रचित्तेन समादापयति ।

तत्र कतमा बोधिसत्त्वानां सर्वाकारार्थचर्या । सा षड्विधा सप्तविधा चैकध्यमभिसक्षिप्य त्रयोदशविधा द्रष्टव्या । इह बोधिसत्त्वः संग्रहीतव्यांश्च सत्त्वान् सम्यक्संगृह्णाति । निग्रहीतव्यांश्च सत्त्वान् सम्यग्निगृह्णाति । शासनप्रतिहतानाञ्च सत्त्वानां प्रतिघातमपनयति । मध्यस्थान् सत्त्वानस्मिन् शासनेएऽवतारयति । अवतीर्णाश्च सत्त्वान् सम्यक्त्रिषु यानेषु परिपाचयति । परिपक्वांश्च सत्त्वान् विमोचयति । तदेकत्यांश्च सम्भार-रक्षोपचये संनियोजयति । यदुत हीनयान-निःसृतिं वारभ्य महायान-निःसृतिं वारभ्य । यथा सम्भाररक्षोपचये एवं प्रविवेके चित्तैकाग्रतायामावरणविशुदौ मनस्कारभावनायां च सन्नियोजयति । श्रावक-प्रत्येक-बुद्धगोत्रान् श्रावक-प्रत्येक-बुद्धयाने सन्नियोजयति । तथागत-गोत्राननुत्तरे सम्यक्संबोधियाने नियोजयति ।

तत्र कतमा बोधिसत्त्वानां विघातार्थिकार्थचर्या । साऽष्टविधा द्रष्टव्या । ह्रेतव्येषु स्थानेष्वाह्रीक्यपर्यवस्थान-पर्यवस्थितानां सत्त्वानामाह्रीक्यपर्यवस्थानं विनोदयत्यपनयति । यथा आह्रीक्यपर्यवस्थानमेवमपत्रपितव्येषु अनपत्राप्यपर्यवस्थानं मिद्धपर्यस्थानमौद्धत्यपर्यवस्थानं कौकृत्यपर्यंवस्थानमीर्षापर्यस्थानं [मात्सर्यपर्यवस्थानं] विनोदयत्यपनयति ।

तत्र कतमा बोधिसत्त्वस्येहामुत्रसुखाऽर्थचर्या । सा नवविधा द्रष्टव्या । परसत्त्वानां कायकर्मपरिशुद्धिमारभ्य सर्वाकारा प्राणातिपातात्प्रतिविरतिसमानापनता । सर्वाकारादत्तादानात्-प्रतिविरति-समादापनता । सर्वाकारा काममिथ्याचारात्-प्रतिविरति-समादापनता । सर्वाकारा सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरति-समादापनता । वाक्कर्मपरिशुद्धिमारभ्य सर्वाकारा मृषावाद-प्रतिविरति-समादापनता । सर्वाकारा पैशुन्य-प्रतिविरति-समादापनता । सर्वाकारा पारुष्य-प्रतिविरति-समादापनता । सर्वाकारा सम्भिन्नप्रलाप-प्रतिविरति-समादापनता । (दुत्त्१५४) मनस्कर्मपरिशुद्धिमारभ्य सर्वाकाराभिध्याव्यापादमिथ्यादृष्टि-प्रतिविरति-समादापनता ।

तत्र कतमा बोधिसत्त्वस्य विशुद्धाऽर्थचर्या । सा दशविधा द्रष्टव्या । बहिःशुद्धिमुपादाय पञ्चविधा । अन्तःशुद्धिमुपादाय पञ्चविधा । बहिःशुद्धिमुपादाय बोधिसत्त्वानां पञ्चविधा सत्त्वेष्वर्थचर्या कतमा । अनवद्याऽपरावृत्ताऽनुपूर्वा सर्वत्रगा यथायोगं च ।

इह बोधिसत्त्वः सत्त्वान्न दुश्चरितव्यामिश्रे दुश्चरितपूर्वगमे सावद्ये सक्लिष्टेऽकुशले सन्नियोजयति । इयमस्यानवद्या भवत्यर्थचर्या सत्त्वेषु ।

पुनर्बोधिसत्त्वो नामोक्षे चानेकान्तविशुद्धे चायतने मोक्ष एष एकान्तविशुद्ध एष इति सत्त्वांस्तत्रैव समादापयति । इयमस्यापरावृत्ता सत्त्वेष्वर्थचर्या ।

पुनर्बोधिसत्त्वः पूर्वं बालप्रज्ञानां सत्त्वानामुत्तानां धर्मदेशनां करोति । उत्तानामववादानुशासनीमनुप्रवर्तयति । मध्यप्रज्ञांश्चैनांविदित्वा मध्यां धर्मदेशनां सूक्ष्मामववादानुशासनीमनुप्रवर्तयति अनुपूर्वेण कुशलपक्षसमुदागमाय । इयमस्यानुपूर्वा सत्त्वेष्वर्थचर्या ।

पुनर्बोधिसत्त्वश्चतुर्णां वर्णानामा-देवमनुष्याणां सर्वसत्त्वानां यथाशक्तियथाबलमर्थमाचरति । हितसुखं पर्येषते । तत्रैव समादापयति । इममस्य मर्वत्र्ःगा सत्त्वेष्वर्थचर्या ।

पुनर्बोधिसत्त्वो ये सत्त्वा यस्मिन् स्वार्थे कुशले परीत्ते मध्येऽधिमात्रे वा शक्यरूपाः समादापयितुं येन चोपायेन शक्यरूपाः समादायितुं तान् यथायोगं तत्र तथा समादापयति । इयं तावद्बोधिसत्त्वानां सत्त्वेषु पञ्चविधा वहिःशुद्धा अर्थचर्या ।

तत्र कतमा बोधिसत्त्वानां पञ्चविधाऽन्तःशुद्धा सत्त्वेष्वर्थचर्या । इह बोधिसत्त्वो विपुलेन सत्त्वेषु कारुण्याशयेन प्रत्युपस्थितेनार्थमाचरति । पुनर्बोधिसत्त्वः सत्त्वानामर्थे सर्वदुःखपरिश्रमैरप्यपरिखिन्नमानसः प्रमुदित एवं सत्त्वानामर्थमाचरति । पुनर्बोधिसत्त्वः प्रवरायामग्र्यायामपि संपदि वर्तमानो दासवत्प्रेष्यवद्वश्यपुत्रवच्चण्डालदारकवन्नीचचित्तो निहतमदमानाहंकारः नामर्थमाचरति । (दुत्त्१५५) पुनर्बोधिसत्त्वो निरामिषेणाकृत्रिमेण च परमेण च प्रेम्णा सत्त्वानामर्थमाचरति । पुनर्बोधिसत्त्व आत्यन्तिकेनापुनः प्रत्युदावर्त्येन मैत्रेण चेतसा सत्त्वानामर्थमाचरति । इयं बोधिसत्त्वस्य पञ्चविधाऽन्तःशुद्धा सत्त्वेष्वर्थचर्या वेदितव्या । या च पञ्चविधा वहिःशुद्धा या च पञ्चविधाऽन्तःशुद्धा तां सर्वामेकध्यमभिसंक्षिप्य दशविधा बोधिसत्त्वानां विशुद्धाऽर्थचर्येत्युच्यते ।

तत्र कतमा बोधिसत्त्वस्य समानार्थता । इह बोधिसत्त्वो यस्मिन्नर्थे यस्मिन् कुशलमूले परान् समादापयति तस्मिन्नर्थे तस्मिन् कुशलमूल समादापने तुल्ये वाऽधिके वा स्वयं संशिक्ष्यते । इति यैवं बोधिसत्त्वस्य परैस्तुल्यार्थता इयमुच्यते समानार्थता । तां समानार्थतां परे विनेया बोधिसत्त्वेभ्य उपलभ्य दृढनिश्चया भवन्त्यप्रत्युदावर्त्यास्तस्मिन् कुशल[मूल]समादापने । तत्कस्य हेतोः । तेषामेवं भवति । नूनमेतदस्माकं हितमेतत्सुखं यत्रायं बोधिसत्त्वोऽस्मान् समादापितवान् । यस्मादयं बोधिसत्त्वो यत्रैवास्मान् सन्नियोजयति तदेवात्मना समुदाचरति । तत्रायं जानन्नहितमसुखं नात्मना समुदाचरेदिति न चास्य समानार्थस्य बोधिसत्त्वस्यैवं भवन्ति परे वक्तारः । त्वं तावत्स्वयं न कुशलं समादाय वर्तसे । कस्मात्त्वं परं कुशलेऽत्यर्थ समादापयितव्यं वक्तव्यमववदितव्यं मन्यसे । त्वमेव तावदन्यैर्वक्तव्योऽववदितव्योऽनुशासितव्य इति । अस्ति बोधिसत्त्वः परैः समानार्थ एव संस्तां समानार्थतां परेषां नोपदर्शयति । अस्त्यसमानार्थ एव सन् समानार्थतामुपदर्शयति । अस्ति समानार्थः ससानार्थतामुपदर्शयति । अस्ति नैव समानार्थो नापि समानार्थतामुपदर्शयति । तत्र प्रथमा कोटि तुल्यगुणप्रभावानां बोधिसत्त्वानां बोधिसत्त्वमार्गे आचार्यत्वमभ्युपगतानां तुल्यगुणप्रभावो बोधिसत्त्वः प्रतिच्छन्नकल्याणतया गुणान् प्रभावञ्च नोपदर्शयति । द्वितीया कोटी हीनाधिमुक्तिकानां सत्त्वानां गंभीरेषु स्थानेषूत्त्रस्तानां प्रतिसंख्याय बोधिसत्त्वः तेषामेव सत्त्वानां तेनोपायेन विनयनार्थं सहधार्मिकमात्मानमुपदर्शयति । संचिन्त्य आ-चण्डालानामा-शुनामर्थं कर्तुकाम उपद्रवं संशमितुकामो विनयितुकाम आ-चण्डालानामाशुनां (दुत्त्१५६) सभागतायामुपपद्यते । तृतीया कोटी
चलकुशलमूलसमादानानां विनेयानां स्थिरीकरणार्थं बोधिसत्त्वः समानार्थः अधिकार्थो वा समानार्थतामुपदर्शयति । चतुर्थी कोटी स्वयं प्रमत्तः परार्थमप्यभ्युपेक्षते ।

तत्र यच्च दानमनेकविधं निर्दिष्टं यच्च शीलं विस्तरेण यावद्या च समानार्थता तत्र पारमिताभिरध्यात्मं बुद्धधर्मपरिपाकः । संग्रहवस्तुभिः [सर्व]सत्त्वपरिपाकः । समासतो बोधिसत्त्वस्यैतत्कुशलानां धर्माणां कर्म वेदितव्यम् । तत्र यच्च दानमनेकविधं पूर्ववद्यावत्समानार्थता इत्येषामनेकविधानामप्रमेयाणां कुशलानां धर्माणां बोधिपाक्षिकानां त्रिभिः कारणैः समुदाचारो वेदितव्यः । द्वाभ्यां कारणाभ्यां श्रेष्ठता वेदितव्या । त्रिभिः कारणैर्विशुद्धिर्वेदितव्या ।

कायेन वाचा मनसा समुदाचारो वेदितव्यः । उदारत्वादसंक्लिष्टत्वाच्च श्रेष्ठता निरुत्तरता असाधारणता च वेदितव्या । तत्र सत्त्वाभेदतो वस्त्वभेदतः कालाभेदत्तश्चोदारता वेदितव्या । तत्र सत्त्वाभेदो यद्बोधिसत्त्वः सर्वसत्त्वानधिष्ठाय सर्वसत्त्वानारभ्य तानि दानादीनि कुशलमूलानि समुदाचरति न केवलस्यात्मन एवार्थे । तत्र वस्त्वभेदो यद्बोधिसत्त्वः सर्वाणि सर्वाकाराणि तानि कुशलमूलानि दानादिकानि समादाय वर्तते । तत्र कालाभेदो यद्बोधिसत्त्वः सततसमितमनिराकृतप्रयोगोऽनिक्षिप्तधुरो रात्रौ च दिवा वा दृष्टे वा धर्मे तेनैव च हेतुनाऽभिसंपरायेऽपि तानि दानादीनि कुशलमूलानि समुदाचरति । तत्र चतुर्भिराकारैरसंक्लिष्टता वेदितव्या । इह बोधिसत्त्वो मुदितचित्तः तान् कुशलान् धर्मान्निषेवते न दुःखी न दुर्मना अविप्रतिसारी भवति ततो निदानम् । पुनर्बोधिसत्त्वः परमनपहत्य दृष्टिगतान्यनभिनिविश्य दुश्चरितेनाव्यामिश्राणि तानि कुशलमूलानि दानादिकानि समुदाचरति । पुनर्बोधिसत्त्वः सत्कृत्य सर्वात्मना तेष्वेव गुणदर्शी सारदर्शी शान्तदर्शी सुनिश्चितोऽपरप्रत्ययोऽनन्यनेयः तान् कुशलान् धर्मान् दानादीन् समादाय वर्तते । पुनर्बोधिसत्त्वो न तेर्षा दानादीनां कुशलानां धर्मांणां विपाकं प्रतिकांक्षते चक्रवर्तित्वं वा शक्रत्वं वा मारत्वं वा ब्रह्मत्वं वा नापि परतः प्रतिकारं प्रत्याशंसते । न तत्र निश्रितो भवति । न सर्वलाभसत्कारश्लोकेषु नाप्यन्ततः कायजीवितेऽपि निश्रितो भवति । इति य एभिराकारैः प्रसादप्रामोद्यसहगतश्चाविषमश्च सत्कृत्य चानिश्रितश्च दानादीनां समानार्थतापर्यवसानानां (दुत्त्१५७) कुशलानां धर्माणां समुदाचारः । सा एषामसंक्लिष्टतेत्युच्यते । विशुद्धिरुत्तप्तता अचलता सुविशुद्धता च वेदितव्या । तत्राशय शुद्धिभूमिप्रविष्टस्य बोधिसत्त्वस्य उत्तप्तान्यचलानि चैतानि कुशलमूलानि भवन्ति
। तत्रेयमुत्तप्तता यदाशयशुद्धस्य बोधिसत्त्वस्य सर्वे ते कुशला धर्मा अप्रतिसंख्यानकरणीया भवन्ति । तत्रेयमचलनता यदाशयशुद्धो बोधिसत्त्वो यथा प्रतिलब्धेभ्यो यथोपचितेभ्यश्च एभ्यः कुशलेभ्यो धर्मेभ्यो न परिहीयते । न भव्यो भवत्यायत्यां परिहाणाय । नान्यत्र तेषां तेषां रात्रिदिवानामत्ययात्तेषां तेषामात्मभावानां समतिक्रमाच्चन्द्रो वा शुक्लपक्षे प्रत्युपस्थिते वर्धत एव एभिः कुशलैर्धर्मैर्न [परि]हीयते बोधिसत्त्वः निष्ठागमनभूमिब्यवस्थितस्य पुनर्बोधिसत्त्वस्यैकजातिप्रतिबद्धस्य चरमभविकस्य वा एते कुशला धर्माः सुविशुद्धा वेदितव्या येषामुत्तरि बोधिसत्त्वभूमौ परिशुद्धतरता नास्ति । एवं त्रिभिः कारणैरेषां कुशलानां धर्माणां समुदाचारः । द्वाभ्यां कारणाभ्यां श्रेष्ठता । त्रिभिः कारणैः सुविशुद्धता वेदितव्या दानादीनां समानर्थतावसानानाम् ।

तत्र सर्वदानस्य सर्वशीलस्य विस्तरेण यावत्सर्वसमानर्थताया आसेवितायाः सुविशोधितायाः सकलसंपूर्णाया अनुत्तरा सम्यक्संबोधिर्वज्रसारशरीरता सद्धर्मचिरस्थितिकता च फलमभिनिर्वर्तते । तत्र दुष्करदानेन दुष्करशीलेन यावद्दुष्करसमानार्थतया आसेवितया सुविशोधितया तथागतस्याप्रतिसमाश्चर्याद्भुतधर्मसमन्वागतत्वं फलमभिनिर्वर्तते । तत्र सर्वतोमुखेन दानेन सर्वतोमुखेन शीलेन विस्तरेण यावत्सर्वतोमुखया समानार्थतया तथागतस्य सर्वतः प्रधानसत्त्वैर्देवमनुष्यैः पूज्यत्वं फलमभिनिवर्तते । तत्र सत्पुरुषदानस्य सत्पुरुषशीलस्य यावत्सत्पुरुषसमानार्थतायाः तथागतस्य ये केचित्सत्त्वा अपदा वा [द्विपदा वा] चतुष्पदा वा बहुपदा वा रूपिणो वाऽरूपिणो वा संज्ञिनो वासंज्ञिनो वा नैवसंज्ञानासंज्ञायतनोपगा वा [तेषां] सर्वेषां सत्त्वानामग्र्यत्वं फलमभिनिर्वर्तते । तत्र सर्वाकारस्य दानस्य [सर्वाकारस्य] शीलस्य विस्तरेण यावत्सर्वाकारायाः समानार्थतायास्तथागतस्याप्रमेयविचित्रपुण्यपरिगृहीतं द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनकायता फलमभिनिर्वर्तते । (दुत्त्१५८) तत्र विघातार्थिकदानस्य विघातार्थिकशीलस्य विस्तरेण यावद्विघातार्थिकसमानार्थतायाः तथागतस्य बोधिमण्ड निषण्णस्य सर्वमारप्रत्यर्थिकविधाताविहेठाविकम्पनाप्रतिबलनता फलमभिनिर्वर्तते । तत्रेहामुत्रसुखस्य दानस्य इहामुत्रसुखस्य शीलस्य विस्तरेण यावदिहामुत्रसुखायाः समानार्थतायास्तथागतस्य परमध्यानविमोक्षसमाधिसमापत्तिसुखं फलमभिनिर्वर्तते । तत्र विशुद्धस्य दानस्य विशुद्धस्य शीलस्य विस्तरेण यावद्विशुद्धायाः समानार्थंताया आसेवितायाः सुविशोधितायाः सकलसंपूर्णयास्तथागतस्य सर्वाकाराश्चतस्रः परिशुद्धयः आश्रयपरिशुद्धिरालम्बनपरिशुद्धिश्चित्तपरिशुद्धिर्ज्ञानपरिशुद्धिः फलमभिनिर्वर्तते । तथा त्रीण्यारक्ष्याणि दशबलवैशारद्यस्मृत्युपस्थान-सर्वावेणिकबुद्धधर्मविशुद्धिश्च
फलमभिनिर्वर्तते । इदमस्य बोधिसत्त्वस्य दानादीनां कुशलानां धर्माणां पर्यन्तगतं फलं निरुत्तरम् । अन्यच्चास्याप्रमाणमिष्टमनवद्यं बोधिसत्त्वचर्यासु संसरतो वेदितव्यम् ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने पञ्चदशमं संग्रहवस्तुपटलम् ।


(दुत्त्१५९)
पूजासेवाऽप्रमाणपटलम् (अध्याय १.१६)

उद्दानम् ।

रत्न-पूजा मित्र-सेवा अप्रमाणैश्च पश्चिमम् ।

तत्र बोधिसत्त्वस्य तथागतेषु तथागत-पूजा कतमा । सा सामासतो दशविधा वेदितव्या । शरीर-पूजा चैत्य-पूजा सम्मुख-पूजा विमुख-पूजा स्वयंकृत-पूजा पर-कारित-पूजा लाभ-सत्कार-पूजा उदार-पूजा असंक्लिष्टपूजा प्रतिपत्ति-पूजा च ।

तत्र यद्बोधिसत्त्वः साक्षात्तथागत-रूप-कयमेव पूजयति । इयमस्योच्यते शरीर पूजा ।

तत्र यद्बोधिसत्त्वस्तथागतमुद्दिस्य स्तूपं वा गहं वा कूटं वा पुराणचैत्य वा अभिनव-चैत्यं वा पूजयति । इयमस्योच्यते चैत्य-पूजा ।

यद्बोधिसत्त्वस्तथागत-काय वा तथागत-चैत्यं वा सम्मुखीभूतमध्यक्ष पूजयति । इयमस्य सम्मुख-पूजेत्युच्यते ।

तत्र यद्बोधिसत्त्वस्तथागते वा तथागते-चैत्ये वा सम्मुख-पूजां कुर्वन्नेवमध्याशय-सहगतं प्रसाद-सहगतं चित्तमभिसंस्करोति । या एकस्य तथागतस्य धर्मता सा सर्वेषां तथागतानामतीतानागतप्रत्युत्पन्नानां धर्मता । या एकस्य तथागत-चैत्यस्य धर्मता सा सर्वेषां तथागत-चैत्यानां धर्मता । इत्यतोऽहमेतञ्च सम्मुखीभूतं तथागतं पूजयामि सर्वांश्च तानतीतानागतप्रत्युत्पन्नांश्च तथागतान् पूजयामि । एतच्च सम्मुखीभूत तथागत-चैत्यं पूजयामि । तदन्यानि च दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु सर्वाणि स्तूपानि गहानि कूटागाराणि पुराण-चैत्यानि अभिनव-चैत्यानि पूजयामि । इतीयं तावद्बोधिसत्त्वस्य साधारणा सम्मुखा ।

विमुखा च तथागत-पूजा तथागत-चैत्य-पूजा च वेदितव्या । यत्पुनर्बोधिसत्त्वः असम्मुखीभूते तथागते तथागत-चैत्ये वा तथागतचित्तमभिसंस्कृत्य (दुत्त्१६०) पूजां प्रयोजयति सर्वबुद्धानुद्दिश्य सर्वतथागतचैत्यानि चोद्दिश्य । सास्य केवला विमुखैव पूजा वेदितव्या । यदपि बोधिसत्त्वः परिनिर्वृते तथागते तथागतमुद्दिश्य तथागतस्य शरीरं स्तूपं वा कारयति गहं वा कूटं वा एकं वा द्वौ वा सम्बहुलानि वा यावत्कोटि-शतसहस्राणि यथाशक्ति-यथाबलम् । इयमपि बोधिसत्त्वस्य तथागतेषु विमुखा विपुला पूजा अप्रमाण-पुण्य-फलाऽनेकब्राह्मपुण्यपरिगृहीता । यथा बोधिसत्त्वः अनेकैरेव कल्पै[र्महाकल्पै]रविनिपातगामी भवति । न चानुत्तरायाः सम्यक्संबोधेः सम्भारं न परिपूरयति तन्निदानम् । तत्र येयं बोधिसत्त्वस्य केवलैव तथागते तथागतचैत्ये वा पूजा इयमेव तावद्विपुलपुण्यफला द्रष्टव्या ततो विपुलतरपुण्यफला केवलैव विमुखा द्रष्टव्या । ततो विपुलतमपुण्यफला साधारणसम्सुखविमुखा पूजा द्रष्टव्या ।

तत्र यद्बोधिसत्त्वस्तथागते वा तथागतचैत्ये वा पूजां कर्तुकामः स्वयमेव स्वहस्तं करोति न दासीदासकर्मंकर-[पौरुषेय-]मित्रामात्यज्ञातिसालोहितैः कारयत्यालस्यकौसीद्यं प्रमादस्थानं वा निश्रित्य । इयं बोधिसत्त्वस्य स्वयंकृता पूजा वेदितव्या । तत्र यद्बोधिसत्त्वस्तथागते वा तथागतचैत्ये वा पूजां कर्तुकामो न केवलं स्वयेव करोत्यपि तु मातापितृभ्यां कारयति पुत्रदारेण दासीदासकर्मकरपौरुषेयैर्मित्रामात्यज्ञातिसालोहितैः परैश्च राजभिः राजमहामात्रैर्ब्राह्मणैगृहपतिभिर्नैगमैर्जानपदैर्धनिभिः श्रेष्ठभिः सार्थवाहैरन्ततः स्त्रीपुरुषदारकदारिकाभिः कृपणैदुःखितैर आ-चण्डालैरपि कारयति । तथाऽचार्योपाध्यायैः सार्धविहार्यन्तेवासिभिः सब्रह्मचारिभिश्च प्रव्रजितैरप्यन्यतीर्थ्यैस्तथागते [वा तथागत-]चैत्ये वा पूजां कारयति । इयं बोधिसत्त्वस्य साधारणा पूजा स्वपरकृता वेदितव्या ।

यत्पुनर्बोधिसत्त्वः परीत्ते पूजाकरणीये देयवस्तुनि संविद्यमाने करुणासहगतेन चेतसा संचिन्त्य परेषामेव तद्वस्त्वनुप्रयच्छत्येते दुःखिताः सत्त्वा अल्पपुण्याश्चाशक्ताश्च तथागते वा तथागतचैत्ये वा कारां कृत्वा सुखिता भवन्त्विति । परे च तेन वस्तुना तथागते वा तथागतचैत्ये वा पूजां कुर्वन्ति न बोधिसत्त्वः इयं बोधिसत्त्वस्य केवला परकारिता पूजा वेदितव्या ।

(दुत्त्१६१)
तत्र या केवला स्वयंकृता सा महापुण्यफला । या केवला परकारिता सा महत्तरपुण्यफला । या पुनः साधारणा या महत्तमपुण्यफला निरुत्तरा वेदितव्या ।

तत्र यद्बोधिसत्त्वः तथागते वा तथागतचैत्ये वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरभिवादनवन्दनप्रत्युत्थानाञ्जलिकर्मभिश्च धूपगन्धैश्चूर्णगन्धैरनुलेपनगन्धैर्विचित्रैश्च माल्यैर्विचित्रैर्वाद्यै र्विचित्रैश्छत्रध्वजपताकाप्रदीपदानैर्विचित्रैः स्तोत्राभिव्याहारैः पञ्चमण्डलप्रणामैः प्रदक्षिणावर्तैः पूजां करोति । तथाऽक्षयणिकाप्रदानैः मणिमुक्तावैदूर्यशंखशिलाप्रवाडाश्मगर्भमुसारगल्वजातरूपरजतलोहितिका-दक्षिणावर्तप्रभृतिभिः रत्नप्रदानैर्मणिकुण्डलकेयूराद्यलङ्कारप्रदानैरन्ततश्च घण्टाप्रदानकार्षापण-क्षेपसूत्रपरिवेष्टनैः पूजयति । इयं बोधिसत्त्वस्य तथागते वा तथागतचैत्ये वा लाभसत्कारपूजा वेदितव्या ।

तत्र यद्बोधिसत्त्वो दीर्घकालिकीञ्च तथागते वा तथागतचैत्ये वा एतामेव लाभसत्कारपूजां करोति प्रभूतवस्तुकाञ्च प्रणीतवस्तुकाञ्च सम्मुखविमुखाञ्च स्वयंकृतपरकृताञ्च घनरसेन च प्रसादेन सम्मुखीभूतेन तीव्रया चाधिमुक्त्या पूजां करोति । तच्च कुशलमूलमनुत्तरायै सम्यक्संबोधये परिणामयति । इयं बोधिसत्त्वस्य सप्ताकारा उदारपूजेत्युच्यते ।

तत्र यद्बोधिसत्त्वः स्वहस्तं तथागते वा तथागतचैत्ये वा कारां करोति न परैरवज्ञया कारयति प्रमादकौसीद्याद्वा । सत्कृत्य करोति । नापविद्धमविक्षिप्तचित्तः करोत्यसंक्लिष्टचित्तः । न बुद्धाभिप्रसन्नानां राजादीनामुदारसत्त्वानां लाभसत्कारहेतोः कुहनार्थं प्रतिरूपेण च वस्तुना पूजयति । न हरिताल-लेपन-धृतस्नान-गुग्गुलुधूपार्कपुष्पादिभिरन्यैश्चाकल्पिकैरुपकरणैः । इयं बोधिसत्त्वस्य षडाकाराऽसंक्लिष्टा पूजा वेदितव्या ।

तां पुनरेतामुदारामसंक्लिष्टां लाभसत्कारपूजां बोधिसत्त्वस्तथागते वा तथागतचैत्ये वा स्वबाहुबलोपार्जितैर्भोगैः करोति परतो वा पर्येषितैः । षरिष्कारवशिता-प्रतिलब्धैर्वा । तत्र परिष्कारवशिताप्राप्तो बोधिसत्त्वः द्वौ वा (दुत्त्१६२) त्रीन्वा संबहुलान् वा समुच्छ्रयान् यावत्समुच्छ्र्यकोटीनियुतशतसहस्त्राण्यनेकान्यभिनिर्माय सर्वैस्तैः समुच्छ्रयैस्तथागतेषु प्रणामं करोति । तेषाञ्च समुच्छ्रयाणामेकैकस्य हस्तशतं हस्तसहस्रं वा ततो वा परेण निर्माय सर्वैस्तैर्दिव्यसमतिक्रान्तैः कुसुमैः परमसुगन्धिभिः परममनोरमैः तांस्तथागतानभ्यवकिरति । सर्वे च ते समुच्छ्रया अत्युदाराणि तथागतभूतगुणोपसंहितानि स्तोत्राणि भाषन्ते । सर्वैरेव च तैः समुच्छ्रयैर्विचित्राण्यमात्राणि [अग्राणि] प्रणीतानि केयूरमणिकुण्डलानि छत्रध्वजपताकाश्च तथागतेषूत्सृजयत्त्यारोपयति । इयमेवंभागीया परिष्कारवशिता-प्राप्तस्य बोधिसत्त्वस्य स्वचित्तप्रतिबद्धा पूजा । न चास्य पुनर्बुद्धोत्पादः प्रत्याशंसितव्यः प्रार्थयितव्यो वा भवति । तत्कस्य हेतोः । तथाहि तस्यावैवर्तिकभूमिप्रविष्टत्वात्सर्वबुद्धक्षेत्रेष्वव्याहता गतिर्भ वति । नो चापि बोधिसत्त्वस्य स्वबाहुबलोपार्जिता भोगा भवन्तिनापि च परतः पर्येषितलब्धा वा । नापि च बोधिसत्त्वः परिष्कारवशिताप्राप्तो भवति । अपि तु या काचित्तथागतपूजा जम्बूद्वीपे [वा] चातुर्द्वीपे वा साहस्रे [वा द्विसाहस्रे वा त्रिसाहस्र-]महासाहस्रे वा यावद्दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु मृदुमध्याधिमात्रा प्रवर्तते । तां सर्वां श्राद्धो बोधिसत्त्वः प्रसादसहगतेनोदाराधिमुक्तिसहगतेन चेतसा स्फरित्वाभ्यनुमोदते । इयमपि बोधिसत्त्वस्याल्पकृच्छ्रेण महती अप्रमाणा तथागतपूजा बोधाय महासंभारपरिगृहीता यस्यां बोधिसत्त्वेन सतत-समितं कल्याणचित्तेन हृष्टचित्तेन योगः
करणीयः । तत्र यद्बोधिसत्त्वः स्तोकस्तोकं मुहूर्तमुहूर्तमन्ततो गोदोहमात्रमपि सर्वसत्त्व प्राणिभूतेषु मैत्रचित्तं भावयति । करुणासहगतं मुदितासहगतमुपेक्षासहगतं चित्तं भावयति । तथा सर्वसंस्कारेष्वनित्यसंज्ञामनित्ये दुःखसंज्ञां दुःखेऽनात्मसंज्ञां निर्वाणे चानुशंससंज्ञां भावयति । तथा तथागतानुस्मृतिं धर्मसंघपारमितानुस्मृतिं भावयति । तथा स्तोकस्तोकं मुहूर्तमुहूर्तं सर्वधर्माणां प्रादेशिकेन मृदुक्षान्तिकेनापि ज्ञानेन निरभिलाप्यधर्मस्वभावतथताधिमुक्तो निर्विकल्पेन निर्निमित्तेन चेतसा विहरति । प्रागेव तत उत्तरि ततो भूयः । तथा बोधिसत्त्वशीलसंवरपरिपालना । शमथविपश्यनायां बोधिपाक्षिकेषु च धर्मेषु योगक्रिया । तथा पारमितासु संग्रहवस्तुषु च सम्यग्योगक्रिया । इतीयं बोधिसत्त्वस्य प्रतिपत्तिसहगता तथागत पूजाऽग्र्यावरा (दुत्त्१६३) प्रणीता निरुत्तरा । यस्याः पूजायाः पूर्विका लाभसत्कारपूजा सर्वाकारापि शततमीमपि कलां नोपैति सहस्रतमीमपि कलां नोपैति विस्तरेण यावदुपनिषदमपि नोपैति । इतीयं दशभिराकारैः सर्वाकारा तथागतपूजा वेदितव्या ।

यथा तथागतपूजा एवं धर्मपूजा संघपूजा यथायोगं वेदितव्या ।

तत्र त्रिषु रत्नेष्वेतां दशाकारां पूजां कुर्वन्बोधिसत्त्वस्तथागतालम्बनैः षड्मिरध्याशयैः करोति । गुणक्षेत्रनिरुत्तराध्याशयतया उपकारिनिरुत्तराध्याशयतयाऽपदद्विपदादिसर्वसत्त्वाग्र्याध्याशयतया उदुम्बरपुष्पवत्सुदुर्लंभाऽध्याशयतया एकाकिनस्त्रिसाहस्रम साहस्रे लोक उत्पादात्केवलाध्याशयतया लौकिकलोकोत्तरसम्पत्सर्वार्थंप्रतिसरणाध्याशयतया । तस्यैभिः षड्भिरध्याशयैः तथागते तस्य वा धर्मे तस्य वा संघे पूजा प्रकल्पिता परीत्ताप्यप्रमेयफला भवन्ति प्रागेव प्रभूता ।

तत्र कतिभिराकारैः समन्वागतं बोधिसत्त्वस्य कल्याणमित्रं वेदितव्यम् । कतिभिश्चाकारैः कल्याणमित्रताऽबन्ध्या भवति । कतिभिकारारैः समन्वागतं कल्याणमित्रं प्रसादपदस्थानगतं भवति । कति कल्याणमित्रभूतस्य [बोधिसत्त्वस्य] विनेयेषु कल्याणमित्र-करणीयानि भवन्ति । कतिविधा च कल्याणमित्रसंसेवा बोधिसत्त्वस्य । कत्याकारया च संज्ञया कल्याणमित्रस्यान्तिकाद्बोधिसत्त्वेन धर्मः श्रोतव्यः । कतिषु च स्थानेषु कल्याणमित्रस्यान्तिकाद्बोधिसत्त्वेन धर्मं श्रुण्वता तस्मिन्धर्मभाणके पुद्गलेऽमनसिकारः करणीयः ।

तत्राष्टाभिरङ्गैः समन्वागतं बोधिसत्त्वस्य कल्याणमित्रं सर्वाकारपरिपूर्णं वेदितव्यम् । वृत्तस्थो भवति बोधिसत्त्वसंवरशीलेषु व्यवस्थितोऽखण्डच्छिद्रकारी । बहुश्रुतो भवति नाव्युत्पन्नबुद्धिः । अधिगमयुक्तश्च भवति लाभी भावनामयस्यान्यतमान्यतमस्य कुशलस्य लामी शमथविपश्यनायाः । अनुकम्पकश्च भवति कारुणिकः सोऽध्युपेक्ष्य स्वं दृष्टधर्मंसुखविहारं परेषामर्थाय परयुज्यते । विशारदो भवति न परेषामस्य धर्मं देशयतः स्मृतिः प्रतिभानं - व शारद्यभयात्प्रमुष्यते । क्षमश्च भवति परतोऽवमाननावहसनावस्पन्दन दुरुक्त-दुराग-तादीनामनिष्टानां वचन्स्पथानां विविधानञ्च सत्त्वविप्रतिपत्तीनाम् । अपरिखिन्नमानसश्च (दुत्त्१६४�॰) भवति बलवान् प्रतिसंख्यानबहुलः अकिलासी चतसृणां परिषदां धर्मदेशनायै । कल्याणवाक्यश्च भवति वाक्करणेनोपेतो धर्मताप्रणष्टस्पष्टवाक् ।

तत्र पञ्चभिराकारैरेव सर्वाकारगुणयुक्तस्य बोधिसत्त्वस्य कल्याणमित्रस्याबन्ध्यं कल्याणमित्रकरणीयं भवति । स हि परेषामादित एव हितसुखैषी भवति । तच्च हितसुखं यथाभूतं प्रजानाति । न तत्र विपर्यस्तबुद्धिर्भवति । येन चोपायेन यद्रुपया धर्मदेशनया यः सत्त्वः शक्यरूपो भवति विनेतुं तत्र शक्तो भवति प्रतिबलः । अपरिखिन्नमानसश्च भवति । समकारण्यश्च भवति । सर्वसत्त्वेषु हीनमध्यविशिष्टेषु न पक्षपतितः ।

तत्र पञ्चभिराकारैस्तत्कल्याणमित्रं प्रसादपदस्थितं भवति येनैनं परेऽत्यर्थमभिप्रसीदन्त्यनुश्रवेणापि श्रुत्वा प्रागेव सम्मुखं निरीक्ष्य । ईर्यापथसंपन्नो भवति प्रशान्तेर्यापथः सर्वाङ्गप्रत्यङ्गैनिर्विकारः । स्थितो भवत्यनुद्धतअचपलकायवाङ्मनःकर्मान्तप्रचारः । निष्कुहकश्च भवति न परेषां कुहनार्थमीर्यापथं स्थैर्यं वा प्रतिसंख्याय कल्पयति । अनीर्षुकश्च भवति न परेषां धर्म्यं कथां लाभसत्कारं वा आरभ्यामर्षमुत्पादयति । अपि तु स्वयमध्येष्यमाणोऽपि धर्मकथने परैः लभमानोऽपि विपुलं लाभसत्कारं परमपदिशति अशठेन चेतसा प्रसन्नेन । परेषां तच्च धार्मकथिकत्वं तञ्च लाभसत्कारमारभ्यानुजनाति । यथा स्वेन लाभसत्कारेण तुष्टो भवति तथा भृशतरं परलाभेन परसत्कारेण तुष्टो भवति । [सुमनाः] संलिखितश्च भवत्यल्पभाण्डोऽल्पपरिष्कारः उत्पन्नोत्पन्नपरित्यक्तसर्वोपकरणः ।

तत्र पञ्चभिराकारैरयं कल्याणमित्रभूतो बोधिसत्त्वः परेषां विनेयानां कल्याणमित्रकार्यं करोति । चोदको भवति । स्मारको भवति । अववादको भवति । अनुशासको भवति । धर्मदेशको भवति । एषाञ्च पदानां विस्तरेण विभागो वेदितव्यः । तद्यथा श्रावकभूमावववादानुशासनञ्च भूयस्तत उत्तरि वेदितव्यं तद्यथा बलगोत्रपटले ।

तत्र चतुर्भिराकारैर्बोधिसत्त्वस्य कल्याणमित्रसेवा परिपूर्णा वेदितव्या । कालेन कालं ग्लानोपस्थानस्वस्थोपस्थान क्रियया प्रेमगौरवप्रसादोपसंहृतया । (दुत्त्१६५) कालेन कालमभिवादनवन्दनप्रत्युत्थानाञ्जलिसामिचीकर्मपूजाक्रियया धर्मचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारदानपूजया च । निश्रितस्य च धार्मिकेष्वर्थसंयोग-वियोगेषु वशवर्तनतया अविकम्पनतया यथाभूतत्वाविष्करणतया । कालेन च चाज्ञामिप्रायस्योपसंक्रमणपर्युपासनपरिपृच्छनश्रवणतया ।

तत्र कल्याणमित्रस्यान्तिकाद्धर्मं श्रोतुकामेन बोधिसत्त्वेन पञ्चाकारया संज्ञया धर्मः श्रोतव्यः । रत्नसंज्ञया दुर्लभार्थेन । चक्षुःसंज्ञयोदारसहजप्रज्ञाप्रतिलाभाय हेतुभावार्थेन । आलोकसंज्ञया प्रतिलब्धसहजज्ञानचक्षुषा सर्वाकार-यथाभूत-ज्ञेयसंप्रकाशनार्थेन । महाफलानुशंससंज्ञया निर्वाणसंबोधिनिरुत्तरपदप्राप्तिहेतुभावार्थेन । अनवद्यरतिसंज्ञया दृष्टे धर्मेऽप्राप्त निर्वाणसंबोधिधर्मयथाभूतप्रविचयशमथविपश्यनाऽनवद्यमहारतिहेतुभावार्थे ।

तत्र बोधिसत्त्वेन कल्याणमित्रस्यान्तिकाद्धर्मं श्रुण्वता तस्मिन्धर्मभाणके पुद्गले पञ्चस्थानेष्वमनसिकारं कृत्वाऽवहितश्रोत्रेण प्रसन्नमानसेन धर्मः श्रोतव्यः । शीलभ्रंशेऽमनसिकारः करणीयः । नैवं चित्तमभिसंस्कर्तव्यं दुःशीलोऽयमसंवरस्थः नाहमतः श्रोष्यामि । कुलभ्रंशेऽप्यमनसिकारः करणीयः । नैवं चित्तमभिसंस्कर्तब्यं नीलकुलोऽयं नाहमतः श्रोष्यामि । रूपभ्रंशेऽप्यमनसिकारः करणीयः । नैवं चित्तमभिसंस्कर्तव्यं विरुपोऽयं नाहमतः श्रोष्यामि । व्यञ्जनभ्रंशेऽप्यमनसिकारः करणीयः । नैवं चित्तमभिसंस्कर्तव्यमनभिसंस्कृतवाक्योऽयं नाहमतः श्रोष्यामि । नान्यत्रार्थप्रतिसरणेन भवितव्यं न व्यञ्जनप्रतिसरणेन । माधुर्यभ्रंशेऽप्यमनसिकारः करणीयः । नैवं चित्तमभिसंस्कर्तव्यं परुषवाक्योयं क्रोधनो न च मधुरं धर्मं भाषते नाहमतः श्रोष्यामीति । इत्येवं पञ्चसु स्थानेष्वमनसिकारं कृत्वा बोधिसत्त्वेन सादरेण सद्धर्मपरिग्रहः कार्यो न जातु धर्मः पुद्गलदोषेण दुष्टो भवति । तत्र योऽसौ मन्दप्रज्ञो बोधिसत्त्वः पुद्गलदोषेषूपहतचित्तो धर्मं नेच्छति श्रोतुं स आत्मन एवाहिताय प्रज्ञापरिहाणाय प्रतिपन्नो वेदितव्यः ।

(दुत्त्१६६)
कथञ्च बोधिसत्त्वश्चत्वार्यप्रमाणानि भावयति । मैत्रीं करुणां मुदितामुपेक्षाम् । इह बोधिसत्त्वः समासतस्त्रिविधानि चत्वार्यप्रमाणानि भावयति । सत्त्वालम्बनानि धर्मालम्बनान्यनालम्बनानि च । यद्बोधिसत्त्वस्त्रिषु राशिषु सर्वसत्त्वानवस्थाप्य सुखितान् दुःखितानदुःखितासुखितान् सत्त्वान् सुखकामानधिकृत्य सुखोपसंहाराध्याशयगतेन मैत्रेण चेतसा दशदिशः स्फरित्वा सत्त्वाधिमोक्षेण विहरति । इयमस्य सत्त्वालम्बना मैत्री वेदितव्या । यत्पुनः धर्ममात्रसंज्ञी धर्ममात्रे सत्त्वोपचारमाशयतः संपश्यंस्तामेव मैत्रीं भावयति । इयमस्य धर्मालम्बना मैत्री वेदितव्या । यत्पुनर्धर्मानप्यविकल्पयंस्तामेव मैत्रीं भावयति । इयमस्यानालम्बना मैत्री वेदितव्या । यथा सत्त्वालम्बना धर्मालम्बनाऽनालम्बना मैत्री एवं करुणा मुदितोपेक्षा अपि वेदितव्या । तत्र बोधिसत्त्वो दुःखितान् सत्त्वानारभ्य दुःखापनयनाध्याशयो दशसु दिक्षु करुणासहगतं चित्तं भावयति । सास्य करुणा । सुखितान्वा पुनः सत्त्वानारभ्य सुखानुमोदनाध्याशयो दसशु दिक्षु मुदितासहगतं चित्तं भावयति । सास्य मुदिता । स तेषामेव त्रिविधानां सत्त्वानामदुःखासुखिताना दुःखितानां सुखितानाञ्च यथाक्रमं मोहद्वेषरागक्लेशविवेकाध्याशयो दशसु दिक्षूपेक्षासहगतं चित्तं भावयति । इयमस्योपेक्षा । तत्र यानि बोधिसत्त्वस्य मैत्र्यादीन्यप्रमाणानि सत्त्वालम्बनानि तान्यन्यतीर्थ्य साधारणानि वेदितव्यानि । यानि पुनर्धर्मालम्बनानि तानि श्रावकप्रत्येकबुद्धसाधारणानि न त्वन्यतीर्थ्यसाधारणानि वेदितव्यानि । यानि तु बोधिसत्त्वस्यानालम्बनान्यप्रमाणानि तानि सर्वतीर्थ्य-श्रावकप्रत्येकबुद्धासाधारणानि वेदितव्यानि । तत्र बोधिसत्त्वस्य त्रीण्यप्रमाणानि सुखाध्याशयसंगृहीतानि वेदितव्यानि । मैत्री करुणा मुदिता च । एकम प्रमाणं हिताध्याशयसंगृहीतं वेदितव्यं यदुत उपेक्षा
। सर्वाणि चैतान्यप्रमाणानि बोधिसत्त्वस्यानुकम्पेत्युच्यते । तस्मात्तैः समन्वागता बोधिसत्त्वा अनुकम्पका इत्युच्यन्ते ।

(दुत्त्१६७)
तत्र दशोत्तरशताकारं दुःखं सत्त्वधातौ संपश्यन्तो बोधिसत्त्वाः सत्त्वेषु करुणां भावयन्ति । दशोत्तरशताकारं दुःखं कतमत् । एकविधं दुःखम् । अविशेषेण प्रवृत्तिदुःखमारभ्य सर्वसत्त्वाः प्रवृत्तिपतिता दुःखिताः । द्विविधं दुःखम् । छन्दमूलकं येषां [प्रियाणां] वस्तूनां परिणामादन्यथीभावाद्दुःखमुत्पद्यते । सम्मोहविपाकञ्च दुःखं यैस्तीव्रैः शारीरैर्वेदितैः स्पृष्टस्तस्मिन्नात्मभावे अहमिति वा ममेति वा सम्मूढोऽत्यर्थं शोचति । येन द्विशल्यां वेदनां वेदयते कायिकीञ्चैतसिकीञ्च । त्रिविधं दुःखं दुःखदुःखतया संस्कारदुःखतया विपरिणामदुःखतया च । चतुर्विधं दुःखम् । विरहदुःखं प्रियाणां विसंयोगाद्यदुत्पद्यते । समुच्छेददुःखं निकायसभागनिक्षेपान्मरणाद्यदुत्पद्यते । सन्ततिदुःखं मुत्तरत्रमृतस्य जन्मपारंपर्येण यदुत्पद्यते । अत्यन्तदुःखमपरिनिर्वाणधर्मकाणां सत्त्वानां ये पञ्चोपादानस्कन्धाः । पञ्चविधं दुःखम् । कामच्छन्दपर्यवस्थान प्रत्ययं व्यापादस्त्यान-मिद्धौद्धत्य-कौकृत्य-विचिकित्सा-पर्यवस्थानप्रत्ययञ्च यद्दूःखम् । षड्विधं दुःखम् । हेतुदुःखमापयहेतुर्निषेवणात्फलदुःखमपायोपपत्तितः । भोगान् पुनरारभ्य पर्येष्टिदुःखमारक्षादुःखमतृप्तिदुःखं विप्रणाशदुःखञ्च । तदेतदभिसमस्य षड्विधं दुःखं भवति । सप्तविधं दुःखम्
। जातिर्दुःखं जराव्याधिर्मरणमप्रियसंयोगः प्रियविनाभावः यदपीच्छन्पर्येषमाणो न लभते तदपि दुःखम् । अष्टविधं दुःखम् । शीतदुःखभुष्णदुःखं जिघत्सादुःखं पिपसादुःखमस्वातन्त्र्यदुःखम् । आत्मोपक्रमदुःखं तद्यथा निग्रन्थप्रभृतीनाम् । परोपक्रमदुःखं तद्यथा पणिलोष्टसंस्पर्शादिभिः परतो दंशमशकादिसंस्पर्शैश्च ।

ईर्यांपथैकजातीयविहारदुःखञ्च । नवविधं दुःखम् । आत्मविपत्तिदुःखं परविपत्तिदुःखं [ज्ञातिविपत्तिदुःखं भोगविपत्तिदुःखम्] आरोग्यविपत्तिदुःखं शीलविपत्तिदुःखं दृष्टि-[विपत्तिदुःखं] दृष्टधार्मिकदुःखं साम्परायिकञ्च दुःखम् । दशविधं दुःखम् । भोजनकायपरिष्कारवैकल्यदुःखं पानयानवस्त्रालङ्कारभाण्डोपष्करपरिष्कारवैकल्यदुःखं गन्धमाल्यविलेपनपरिष्कारवैकल्यदुःखं नृत्यगीतवादित्रपरिष्कारवैकल्यदुःखमालोकपरिष्कारवैकल्यदुःखं स्त्रीपुरुषपरिचर्याकायपरिष्कारवैकल्यदुःखञ्च दशमं पुनरन्यं नवविधं दुःखं वेदितव्यम् । सर्वदुःखं महादुःखं सर्वतोमुखं दुःखं विप्रतिपत्तिदुःखं प्रवृत्तिदुःखमकामकारदुःखं विघातदुःखमानुषङ्गिकं दुःखं सर्वाकारञ्च (दुत्त्१६८) दुःखम् । तत्र सर्वदुःखं यत्पूर्वहेतुसमुत्पन्नं वर्तमानप्रत्ययसमुत्पन्नञ्च । तत्र महादुःखं यद्दीर्घंकालिकं प्रगाढं चित्रं निरन्तरञ्च । तत्र सर्वतोमुखं दुःखं यन्नारकं तैर्यग्योनिकं प्रेतलौकिकं सुगतिपर्यापन्नञ्च । तत्र विप्रतिपत्तिदुःखं यद्दृष्टे वा धर्मे परव्यतिक्रमात्परापकारकरणाल्लभते समुत्थापयति । विषमभोजनपरिभोगाद्धातुवैषम्यजं दुःखं समुत्थापयति
। अनयेन वात्मदृष्टधर्मदुःखोपक्रमात्स्वयं कृतं दुःखं समुत्थापयति । अयोनिशोमनस्कार-तद्बहुलविहारितया वा क्लेशोपक्लेशपर्यवस्थानदुःखं प्रत्यनुभवति । कायवाङ्मनोदुश्चरितबाहल्याद्बा आयत्यामापायिकं दुःखं प्रत्यनुभवति । तत्र प्रवृत्तिदुःखं यत्षडाकारादनियमादुत्पद्यते संसारे संसरतः । आत्मभावानियमाद्राजा भूत्वा आढ्यः कृपणो भवति । मातापित्रनियमात्पुत्रदारानियमाद्दासीदासकर्मकरपौरुषेयानियमात्

मित्रामात्यज्ञातिसालोहितानियमात्मातापितरौ भूत्वा यावद्विस्तरेण मित्रामात्यज्ञातिसालोहितो भूत्वाऽपरेण समयेन संसरतो वधको भवति प्रत्यर्थिकः प्रत्यमित्रः । भोगानियमाच्च संसारे संसरन्महाभोगो भूत्वा पुनरपरेण समयेन परमदरिद्रो भवति । तत्राकामकारदुःख यद्दीर्घायुष्कामस्य अकाममल्पायुष्कतयोत्पद्यते ।

आभिरुप्यकामस्य चाकामं वैरुप्यतः । उच्चकुलोपपत्तिकामस्य चाकामं नीचकुलोपपत्तितः । ऐश्वर्यकामस्याकामं दारिद्र्योपनिपाततः [महा-]बलकामस्य चाकामं दौर्वल्योपनिपातत उत्पद्यते । ज्ञेयं ज्ञातुकामस्य चाकामं सम्मोहाज्ञानसमुदाचार उत्पद्यते । परपराजयकामस्य चाकामं परापराजयादात्मपरजयाद्यद्दःखमुत्पद्यते । तत्र विघातदुःखं यद्गृहिणाञ्च पुत्रदाराद्यपचयाद्यदुत्पद्यते । प्रव्रजितानाञ्च रागादिक्लेशोपचयाद्यद्दुःखमुत्पद्यते । यच्च दुखं दुर्भिक्षोपघाताद्वा परचक्रोपधाताद्वाऽटवीदुर्गप्रवेशसम्बाध संकटोपघाताद्वा उत्पद्यते । यच्च दुःखं परायत्तवृत्ततया उत्पद्यते । यच्च दुःखंमङ्गप्रत्यङ्गवैकल्योपघाताद्वोत्पद्यते । यच्च दुःखं वधबन्धनच्छेदनताडनप्रवासनाद्युपद्यातादुत्पद्यते । तत्रानुषङ्गिकं दुःखं यदष्टासु लोकधर्मेषु दुःखं नशन धर्मके नष्टे क्षयधर्मके क्षीणे जराधर्मके जीर्णे व्याधिधर्मके व्याधिते मरणधर्मके मृतेऽलाभतो वा पुनरयशस्तो वा निन्दातो वा यद्दःखम् । इत्येतदष्टविधं दुःखं प्रार्यनादुःखञ्च । इदमुच्यते आनुषङ्गिकं दुःखम् । तत्र सर्वाकारं दुःखं (दुत्त्१६९) यत्पञ्चाकारं यथोद्दिष्टसुखविपक्षेण दुःखं हेतुदुःखं वेदयितदुःखं सुखाभावमात्रदुःखं वेदितयानुपच्छेददुःखं नैष्क्रम्यप्रविवेकोपशमसंबोधिसुखविपक्षेण वागारिककामधातुसंयोगज-वितर्क-पृथग्जनदुःखं पञ्चमं वेदितव्यम् । इत्येतच्च पश्चविधं दुःखम् । औपक्रमिकमुपकरणवैकल्यजं
धातुवैषम्यजं प्रियविपरिणामजं त्रैधातुकावचरक्लेशपक्ष्यदोष्ठुल्यदुःखञ्च पञ्चमम् । इत्येतत्पञ्चविधं पूर्वकं चैकध्यमभिसंक्षिप्य दशविधं दुखं सर्वाकारमित्युच्यते ।

इति पूर्वकञ्च [पञ्चपञ्चाशदाकारमिदञ्च] पञ्चपञ्चाशदाकारमैकध्यमभिसंक्षिप्य दशोत्तरशताकारं दुःखं भवति बोधिसत्त्वः करुणाया आलम्बनं येनालम्बनेन बोधिसत्त्वानां करुणोत्पद्यते विवर्धते भावनापरिपूरिं गच्छति ।

अतश्च महतो दुःखस्कन्धादेकान्नविंशतिप्रकारदुःखालम्बना महाकरुणा प्रवर्तते । एकान्नविंशतिप्रकारं दुःखं कतमत् । सम्मोहविपाकं दुःखं संस्कारदुःखतासंगृहीतं दुःखमात्यन्तिकं दुःखं हेतुदुःखं जातिदुःखं स्वयंकृतौपक्रमिकं दुःखं शीलविपत्तिदुःखं दृष्टिविपत्तिदुःखं पूर्वहेतुकं दुःखं महद्दुःखं नारकं दुःखं सुगतिसंगृहीतं दुःखं सर्वविप्रतिपत्तिजं दुःखं सर्वप्रवृत्तिदुःखमज्ञानदुःखमौपचयिकं दुःखमानुषङ्गिकं दुःखं वेदयितदुःखं दौष्ठुल्यदुःखञ्चेति ।

तत्र चतुर्भिः कारणैः करुणा महाकरुणेत्युच्यते गम्भीरं सूक्ष्मं दुर्विज्ञेयं सत्त्वानां दुःखमालम्व्योत्पन्ना भवति । दीर्घकालपरिचिता च भवत्यनेक कल्पशतसहस्राभ्यस्ता । तीव्रेण चाभोगेनालम्बने प्रवृत्ता भवति यद्रूपेणाभोगेनायं करुणाविष्टो बोधिसत्त्वः सत्त्वानां दुःखापनयनहेतोः स्वजीवितशतान्यपि परित्यजेत्प्रागेवैकं जीवितं प्रागेव च कायपरिष्कारम् । सर्वदुःखयातनाप्रकारांश्चोद्वहेत् । सुविशुद्धा च भवति तद्यथा निष्ठागतानाश्च बोधिसत्त्वानां बोधिसत्त्वभूमिविशुद्ध्या तथागतानाञ्च तथागतभूमिविशुद्ध्या ।

अनेन खलु दशोत्तरेणाकारशतेन ये बोधिसत्त्वः करुणां भावयन्ति सत्त्वेषु ते सर्वां बोधिसत्त्वकरुणां भावयन्ति । ते पुनः क्षिप्रमेव करुणाशयशुद्धिमधिगच्छन्ति शुद्धाशयभूमिप्रविष्टाम् । सत्त्वेषु चात्यर्थं स्निग्धचित्ताश्च भवन्ति प्रेमचित्ताश्च कर्तुकामचित्ताश्चाखिन्नचित्ताश्च दुःखोद्बहनचित्ताश्च कर्मण्यवश्यचित्ताश्च । न च तथा दुःखसत्यमभिसमितवत आर्यश्रावकस्य निष्ठागतस्य दूरीभूता (दुत्त्१७०) निर्वित्-सहगता चित्तसंततिः प्रवर्तते यथा बोधिसत्त्वस्युर सत्त्वेषु करुणापूर्वङ्गमेन चित्तेन दशोत्तराकारशतपतितमेतं महान्तं दुःखस्कन्धं संपश्यतः । न च बोधिसत्त्व एवं करुणापरिभावितमानसः किञ्चिदाध्यात्मिकबाह्यं वस्तु यन्न परित्यजेत् । नास्ति तच्छीलसंवरसमादानं यन्न कुर्यात् । नास्ति स परापकारः कश्चिद्यन्न क्षमेत् । नास्ति स वीर्यारम्भो यन्नारभेत । नास्ति तद्ध्यानं यन्न समापद्येत । नास्ति सा प्रज्ञा यां नानुप्रविशेत् । तस्मात्तथागताः पृष्टाः सन्तः-कुत्र प्रतिष्ठिता बोधिसत्त्वस्य बोधिरिति-सम्यक्व्याकुर्वाणा व्याकुर्वन्ति करुणाप्रतिष्ठिता बोधिसत्त्वस्य बोधिरिति ।

तत्रैकैकमत्र यथानिर्दिष्टमप्रमाण[मप्रमाणया] समृद्ध्या समृद्धिं बोधिसत्त्वस्य प्रवर्तते । अप्रमाणेष्ठफलपरिग्राहकमप्रमाणैश्चाकारैरेकान्तकुशलैरनवद्यैः प्रवर्तते । एवमप्रमाणभावनानुयुक्तस्य बोधिसत्त्वस्य चत्वारोऽनुशंसा वेदितव्याः । सास्याप्रमाणभावना आदित एव परमदृष्टधर्मसुखविहाराय भवति । अप्रमाणपुण्यसंभारपरिग्रहोपचयाय भवति । अनुत्तरायां सम्यक्संबोधावाशयदृढत्वाय भवति । सत्त्वानां चार्थे संसारे सर्वदुःखोद्वहनाय भवति ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने षोडशमं पूजासेवाप्रमाणपटलम् ।


(दुत्त्१७१)
बोधिपक्ष्यपटलम् (अध्याय १.१७)

उद्दानम् ।

ह्रीधृत्यखेदता चैव शास्त्र-लोकज्ञता तथा ।
सम्यक्स्यात्प्रतिसरणं तथैव प्रतिसंविदः ॥
संभारो बोधिपक्ष्याश्च शमथश्च विपश्यना ।
उपायकुशलत्वञ्च धारणी प्रणिधानता ।
समाधयस्त्रयो ज्ञेया धर्मोद्दानचतुष्टयमिति ॥

तत्र कतमद्बोधिसत्त्वानां ह्रीव्यपत्राप्यम् । तत्समासतो द्विविधं वेदितव्यम् । स्वभावतश्चाधिष्ठानतश्च ।

अवद्यसमुदाचारे आत्मन एवाप्रतिरूपतां विदित्वा बोधिसत्त्वस्य लज्जा ह्रीः । तत्रैव परेषां भयगौरवाल्लज्जा व्यपत्राप्यम् । सा पुनर्ल्लज्जा बोधिसत्त्वस्य प्रकृत्यैव तीव्रा भवति प्रागेवाभ्यस्ता । एवं स्वभावतो बोधिसत्त्वस्य ह्रीव्यपत्राभ्यं वेदितव्यम् ।

अधिष्ठानं पुनः समासतश्चतुर्विधम् । बोधिसत्त्वकरणीयस्याननुष्ठाने या लज्जा । इदं प्रथममधिष्ठानम् । तथा बोधिसत्त्वाकरणीयस्यानुष्ठाने या लज्जा । इदं द्वितीयमधिष्ठानम् । तथा बोधिसत्त्वस्यात्मनः प्रतिच्छन्नपापतायां या लज्जा । इदं तृतीयमधिष्ठानम् । तथा बोधिसत्त्वस्य कौकृत्ये समुत्पन्ने सप्रतिसरणे आनुषङ्गिके या लज्जा । इदं चतुर्थमधिष्ठानम् । एवमधिष्ठानतो वेदितव्यम् ।

तत्र कतमा बोधिसत्त्वस्य धृतिबलाधानता । सापि द्विविधा द्रष्टव्या । स्वभावतश्चाधिष्ठानतश्च ।

क्लिष्टचित्तसन्नियच्छनता क्लेशवशा[न]नुयायिता दुःखाधिवासनशीलता विचित्रप्रभूतोद्रिक्तैरपि भयभैरवैरामुखैः सम्यक्प्रयोगाविकम्पनता प्रकृतिसत्त्वयोगात्प्रतिसंख्यानाद्वा धीरता । इतीयं धृतिबलाधानता स्वभावतो वेदितव्या ।

(दुत्त्१७२)
अस्याः खलु बोधिसत्त्वानां धृतिबलाधानतायाः समासतः पञ्चविधमधिष्ठानं वेदितव्यम् । विचित्रः संसारदुःखोपनिपातो विचित्रा विनेयकृता विप्रतिपत्तिः । दीर्घकालिकः सत्त्वानामर्थे संसाराभ्युपगमः । परवादिभिराकलनानुयोगो महत्याञ्च परिषदि धर्मदेशना । सर्वबोधि [सत्त्व-]शिक्षा[पदा]भ्युपगमः । उदारगंभीरधर्मश्रवणञ्च पञ्चममधिष्ठानं वेदितव्यम् ।

तत्र पञ्चभिः कारणैरपरिखिन्नमानसता बोधिसत्त्वानां सर्वसम्यक्प्रयोगेषु वेदितव्या । इह बोधिसत्त्वः प्रकृत्या बलवान् भवति येन न परिखिद्यते । पुनः सैवाखिन्नमानसताऽनेन पुनः पुनरभ्यस्ता भवति येन न परिखिद्यते । पुनरुपायपरिगृहीतेनवीर्यांरम्भेण प्रयुक्तो भवति येन पौर्वापर्येण विशेषं समनुपश्यन्न परिखिद्यते । तीव्रेण च प्रज्ञाप्रतिसंख्यानबलेन समन्वागतो भवति येन न परिखिद्यते । तीव्रञ्चास्य बोधिसत्त्वस्य सत्त्वेषु कारुण्यचित्तमनुकम्पाचित्तं सततसमितं प्रत्युपस्थितं भवति येन न परिखिद्यते ।

तत्र कतमा बोधिसत्त्वस्य शास्त्रज्ञया । इह बोधिसत्त्वेन पञ्चविधास्थानान्यारभ्य नामकाय-पदकाय-व्यञ्जनकाय-प्रतिसंयुक्तो धर्मः परतः सुगृहीतो भवति । वचसा च सुपरिचितः । तस्यैव च धर्मस्यार्थः परतो वा सुश्रुतो भवति । स्वयं वा सुविचि[न्ति]तो भवति स्वभ्यूहितः । एवमपि च धर्मज्ञेनार्थज्ञेन बोधिसत्त्वेन तस्यैव च धर्मस्यार्थस्याविस्मरणाय प्रयोगोऽनिराकृतो भवत्यन्यस्य चाभिनवस्याभिनवस्योत्तरोत्तरस्य धर्मार्थविशेषस्य ज्ञानाय । श्रुतचिन्तानिष्ठागतेनापि चानेन कालान्तरकृतः परिपाकः प्रसादः तस्मिन्धर्मे चार्थे च प्रतिलब्धो भवति । एभिराकारैर्बोधिसत्त्वस्याप्रमाणा परिपूर्णा अविपरीता च शास्त्रज्ञता वेदितव्या ।

तत्र कतमा बोधिसत्त्वस्य लोकज्ञता । इह बोधिसत्त्वः सत्त्वलोकमारभ्यैवं यथाभूतं प्रजानाति-कृच्छ्रं वतायं लोक आपन्नो यदुत जायतेऽपि जीर्यतेऽपि म्रियतेऽपि च्यवतेप्युपपद्यतेप्यथ च पुनरमी सत्त्वा जरामरणस्योत्तरि निःसरणं यथाभूतं [न] प्रजानन्तीति । पुनः सत्त्वलोकस्यैव कषायोत्सदकालताञ्च यथाभूतं (दुत्त्१७३) प्रजानाति । निष्कषायानुत्सदकषायकालताञ्च यदुत पञ्चकषायानारभ्य आयुष्कषायं [सत्त्वकषायं] क्लेशकषायं कल्पकषायम् । तद्यथा एतर्ह्यल्पं जीवितं मनुष्याणां यश्चिरं जीवति स वर्षशतम् । तद्यथैतर्हि सत्त्वा यद्भूयसा [अ]मातृज्ञा अपितृज्ञा अश्रामण्या अब्राह्मण्या न कुलज्येष्ठापचायका नार्थकरा न कृत्यकरा न इह लोके न परलोके अवद्ये भयदर्शिनो न दानानि ददति न पुण्यानि कुर्वन्ति नोपवासमुपवसन्ति न शीलं समादाय वर्तन्ते । तद्यथैतर्हि यद्भूयसाऽधर्मरागाश्च विषमलोभाश्च शस्त्रादानदण्डादानकलहभण्डनविग्रहविवादशाठ्यवञ्चननिकृतिमृषावादमिथ्याधर्मसंगृहीता अनेकविधाः पापका अकुशला धर्माः प्रज्ञायन्ते । तद्यथैतर्हि सद्धर्मप्रलोपाय सद्धर्मान्तर्धानाय सद्धर्मप्रतिरूपकाणि प्रभूतानि प्रादुर्भूतानि मिथ्याधर्मार्थ-सन्तीरणापूर्विकाणि । तद्यथा एतर्हि दुर्भिक्षान्तरकल्पसमासन्नानि प्रचुराणि दुर्भिक्षाण्युपलभ्यन्ते । रोगान्तरकल्पसमासन्नाश्च रोगाश्च प्रचुरा उपलभ्यन्ते ।

शस्त्रान्तरकल्पसमासन्नाश्च प्रचुराः शस्त्रकाः प्राणातिपाता उपलभ्यन्ते । न तु तथा पूर्वमासीत् । एवं हि बोधिसत्त्वः सत्त्वलोकमारभ्य लोकज्ञो भवति । पुनर्बोधिसत्त्वो भाजनलोकस्य संवर्तविवर्तं यथाभूतं प्रजानाति यथा भाजनलोकः संवर्तते विवर्तते च । पुनर्बोधिसत्त्वो लोकञ्च [लोक]समुदयञ्च लोकनिरोधञ्च लोकसमुदयगामिनीञ्च प्रतिपदं लोकनिरोधगामिनीञ्च प्रतिपदं लोकस्यास्वादमादीनवञ्च निःसरणञ्च यथाभूतं प्रजानाति । पुनर्बोधिसत्त्वः चक्षुर्यावन्मनः अरूपिणश्च स्कन्धांश्चातुर्महाभौतिकञ्च पुरुषस्य समुच्छ्रयमेतावन्मनुष्यत्वमित्युच्यते । तत्र या संज्ञा आत्मा वा सत्त्वो वेति संज्ञामात्रमेवैतत् । तत्र या प्रतिज्ञा अहं चक्षुषा रूपाणि पश्यामि यावन्मनसा धर्मान विजानामीति प्रतिज्ञामात्रमेव तत् । तत्र यो व्यवहार इत्यपि स आयुष्मानेवंनामा एवंजातीय एवंगोत्र एवमाहार एवं सुखदुःखप्रतिसंवेदी एवं दीर्यायुरेवं चिरस्थितिक एवमायुष्पर्यन्त इति व्यवहारमात्रमेवैतदिति सर्वं यथाभूतं प्रजानाति । इति हि स बोधिसत्त्वः सत्त्वलोकप्रवृत्तिञ्च भाजनलोकप्रवृत्तिञ्च अष्टाकारलोकोपपरीक्षार्थञ्च [लोकपरमार्थं च] यथाभूतं प्रजानाति । तस्माल्लोकज्ञैत्युच्यते । पुनर्बोधिसत्त्वो वृद्धतरकं गुणप्रतिविशिष्टतरकं दृष्ट्वा सम्यक्संभाषयत्युत्थायासनेनोपनिमन्त्रयति (दुत्त्१७४) अभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म प्रवर्तयति । तुल्यं वा पुनर्वयसा गुणैश्च दृष्ट्वा सम्यगालपति प्रतिसमोदयति श्लक्ष्णैर्मधुरैर्वचनपथैः । न चानेन सह मानमाश्रित्यात्मान परितुलयति । हीनं वा पुनर्वयसा गुणैश्च दृष्ट्वा शक्त्या गुणाधानमारभ्य प्रोत्साहयति । भूतञ्चास्य गुणं स्वल्पमप्युद्भावयति । भूतञ्च दोषं प्रतिच्छादयति
। न विवृणोति येनास्य स्यान्मंकुभावः । न चैनमवमन्यते । नाप्यर्थिकं केनचिद्धर्मामिषेण तं ज्ञात्वा विमुखो भवति भृकुटीकृतः । नापि चैनं स्खलितेऽवहसति । नापि विनिपतितं परिभवति । तथा सर्वेषामेव हीनतुल्यविशिष्टानां सत्त्वानां पूर्वाभिभाषी च भवति । एहि स्वागतवादी सम्यक्प्रतिशामकश्च सम्यग्धर्मामिषाभ्यां यथाशक्त्या संग्राहकश्च । नापि च सत्त्वेषु कुटिलगाम्भीर्योपेतो भवति न गर्वितः केनचिदेवोच्छ्रयविशेषेण । यथोपात्तं सत्त्वं सर्वोपकरणैरपि नाध्युपेक्षते ग्लानं वा स्वस्थं वा आनुलोमिकेन च कायवाक्कर्मणा । यथा संस्तुतं तथैवासंस्तुतं सर्वं मित्रसखा च भवति विगतप्रत्यर्थिकः । सर्वेषाञ्चानाथानामप्रतिसरणानां सत्त्वानां यथाशक्त्या यथाबलं चार्थक्रियां करोति । न च केनचित्पर्यायेण परेषां दुःखदौर्मनस्यमुपसंहरति कच्चिदेषां मुहूर्तमप्यस्पर्शविहारो भवत्विति । एतमेव प्रत्ययं कृत्वा परिहसन्नपि परैः सह युक्तपरिहासो भवति नायुक्तपरिहासः ।

असत्यवचनानि च न कथयत्यपि निरत्ययैः परमविश्रम्भोपगतैर्वयस्यकैः । न च चिरं परेषां क्रुध्यति । क्रोद्धोऽपि च परेषां न मर्माणि कीर्तयति । परैश्च कायेन वाचा वाहतः सन् प्रतिसंख्याय धर्मतां वा प्रतिसरति आत्मानमेव वाऽपराधिकं पश्यति । स्थिरचित्तश्च भवत्यचलः । स्थिरकायवाङ्मनःप्रचारश्चतुर्दशमलकर्मापगतश्च भवति । षड्दिग्भागप्रतिच्छन्नः चतुःपापमित्रपरिवर्जितः । चतुःकल्याणमित्रपरिगृहीतः । एतच्च यथासूत्रमेव सर्वं वेदितव्यम् । दृष्टधर्महितार्थं वा भोगप्रतिसंयुक्तमारभ्य उत्थानसंपन्नो भवत्यारक्षासंपन्नः समजीवी । च लौकिकेषु च शिल्पकर्मस्थानेषु कौशल्यप्राप्तः । अशठश्च भवत्यमायावी न परवञ्चनशीलः । ह्रीमांश्च भवत्यवद्यसमुदाचारिषु । चारित्रसम्पन्नश्च (दुत्त्१७५) भवति तद्गुरूकश्चारित्ररक्षकः । निक्षिप्तस्य विश्वासेन परद्रविणस्य न द्रोग्धा भवति । उपात्तस्य परत ऋणस्य न विसंवादयिता भवति । दायादस्य च न परिवञ्चयिता भवति । रत्नं वा रत्नसम्मतमुपादाय यावत्कार्षापणेऽपि सम्मूढानां न विप्रलम्भयिता भवति विप्रलोभ्यैनाम् । तथा लौकिकीषु व्यवहारनीतिषु लौकानुग्रहकारिषु पटुर्भवति । तेषु च तेष्वर्थकरणीयेषु परैरायाचितः सन् सहायीभावं गच्छति न विकम्पते नान्येनान्यं प्रतिसरति । सुसंप्रयुक्त-कर्मान्तश्च भवति न कुप्रयुक्त-कर्मान्तः । राज्यं वा पुनः कारयन् धर्मेण कारयति नाघर्मेण । न च दण्डरुचिर्भवति । दौःशील्याच्च महाजनकायं व्यावर्तयित्वा शीलेसु समादापयति । तथार्यैरष्टाभिर्व्यवहारैः समन्वागतो भवति । दृष्टे दृष्टवादितया श्रुते मते विज्ञाते विज्ञातवादितया अदृष्टेऽदृष्टवादितया
अश्रुतेऽमतेऽविज्ञाते अविज्ञातवादितया इत्येभिरेवं भागीयैर्धर्मैः समन्वागतो बोधिसत्त्वो यथा लोके विज्ञातव्यो यथा लोके वर्तितव्यं तत्सर्वं यथाभूतं प्रजानाति तस्माल्लोकज्ञ इत्युच्यते ।

तत्र कथं बोधिसत्त्वश्चतुर्षु प्रतिसरणेषु प्रयुज्यते । इह बोधिसत्त्वः अर्थार्थी परतो धर्मं श्रुणोति न व्यञ्जनाभिसंस्कारार्थी । सोऽर्थार्थी धर्मं शुण्वन्न व्यञ्जनार्थी प्राकृतयापि वाचा धर्मं देशयमानमर्थप्रतिसरणो बोधिसत्त्वः सत्कृत्य शृणोति । पुनर्बोधिसत्त्वः कालापदेशञ्च [महापदेशञ्च] यथाभूतं प्रजानाति । प्रजानन् युक्तिप्रतिशरणो भवति न स्थविरेणाभिज्ञातेन वा पुद्गलेन तथागतेन वा [संघेन वा] इमे धर्मा भाषिता इति पुद्गलप्रतिसरणो भवति । स एवं युक्तिप्रतिसरणो न पुद्गलप्रतिसरणस्तत्त्वार्थात्न विचलति । अ-परप्रत्ययश्च भवति धर्मेषु पुनर्बोधिसत्त्वस्तथागते विविष्टश्रद्धो निविष्टप्रसाद एकान्तिको वचस्यभिप्रसन्नस्तथागत-नीतार्थं सूत्रं प्रतिसरति न नेयार्थम् । नीतार्थं सूत्रं प्रतिसरनसंहार्यो भवत्यस्माद्धर्मविनयात् । तथाहि नेयार्थस्य सूत्रस्य नानामुखप्रकृतार्थविभागोऽनिश्चितः संदेहकरो भवति । सचेत्पुनर्बोधिसत्त्वो नीतार्थेऽपि सूत्रेऽनैकान्तिकः स्यादेवमसौ संहार्यः स्यादस्माद्धर्मविनयात् । पुनर्बोधिसत्त्वोऽधिगमज्ञाने सारदर्शी भवति न श्रुतचिन्ताधर्मार्थविज्ञानमात्रके । स यद्भावनामयेन ज्ञानेन ज्ञातव्यं न तच्छक्यं श्रुतचिन्ताविज्ञानमात्रकेण विज्ञातुमिति (दुत्त्१७६) विदित्वा परमगम्भीरानपि तथागतभाषितान्धर्मान् श्रुत्वा न प्रतिक्षिपति नापवदति । एवं हि बोधिसत्त्वश्चतुर्षुप्रतिसरणेषु प्रयुज्यते । एवञ्च पुनः सुप्रयुक्तो भवति । तत्रैषु चतुर्षु प्रतिसरणेषु समासतश्चतुर्णां प्रामाण्यं संप्रकाशितम् । भाषितस्यार्थस्य युक्तेः शास्तुः भावनामयस्य चाधिगमज्ञानस्य । सर्वैश्च [पुनश्च]तुर्भिः प्रतिसरणैः सम्यक्प्रयोगसमारम्भगतस्य बोधिसत्त्वस्याविभ्रान्तनिर्याणमभिद्योतितं भवति ।

तत्र कतमा बोधिसत्त्वस्य चतस्रो बोधिसत्त्वप्रतिसंविदः । यत्सर्वधर्माणां सर्वपर्यायेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम् । इयमेषां धर्मप्रतिसंवित् । यत्पुनः सर्वधर्माणामेव सर्वलक्षणेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम् । इयमेषामर्थप्रतिसंवित् । यत्पुनः सर्वधर्माणामेव सर्वनिर्वचनेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम् । इयमेषां निरुक्तिप्रतिसंवित् । यत्पुनः सर्वधर्माणामेव सर्वप्रकारपदप्रभेदेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम् । इयमेषां प्रतिभानप्रतिसंवत् । एताश्चतस्रो बोधिसत्त्वप्रतिसंविदो निश्रित्योऽप्रमेयं बोधिसत्त्वानां पञ्चस्थानकौशल्यं वेदितव्यम् । स्कन्धकौशल्यं धात्वायतनप्रतीत्यसमुत्पादस्थानास्थानकौशल्यञ्च । एभिश्चतुर्भिराकारैः । सर्वधर्मा बोधिसत्त्वेन स्वयञ्च स्वभिसंबुद्धा भवन्ति । परेषाञ्च सुप्रकाशिताः । अत उत्तरि स्वयमभिसंबोधो नास्ति कुतः पुनः परेषां प्रकाशना ।

तत्र कतमो बोधिसत्त्वस्य बोधिसंभारः । स द्विविधो द्रष्टव्यः । पुण्यसंभारो ज्ञानसंभारश्च । तस्य पुनर्द्विविधस्यापि संभारस्य विस्तरविभागो वेदितव्यः । तद्यथा स्वपरार्थपटले । स पुनः पुण्यज्ञानसंभारो बोधिसत्त्वस्य प्रथमे कल्पासंख्येये मृदुर्वेदितव्यो द्वितीये मध्यस्तृतीयेऽधिमात्रो वेदितव्यः ।

कथं बोधिसत्त्वः सप्तत्रिंसत्सु बोधिपक्ष्येषु धर्मेषु योगं करोति । इह बोधिसत्त्वश्चतस्रो बोधिसत्त्वप्रतिसंविदो निश्रित्योपाय-परिगृहीतेन ज्ञानेन सप्तत्रिंशद्बोधिपक्ष्यान्धर्मान्यथाभूतं प्रजानाति । न चैतान् साक्षात्करोति । स (दुत्त्१७७) द्विविधेनापि याननयेन तान् यथाभूतं प्रजानाति श्रावकयाननयेन च महायाननयेन च । तत्र श्रावकयाननयेन यथाभूतं प्रजानाति । तद्यथा श्रावकभूमौ सर्वं यथा निर्दिष्टं वेदितव्यम् । कथञ्च बोधिसत्त्वो महायाननयेन
सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् यथाभूतं प्रजानाति । इह बोधिसत्त्वः काये कायानुदर्शी विहरन्नैव कायं कायभावतो विकल्पयति । नापि सर्वेण सर्वमभावतः । तञ्च कायनिरभिलाप्यस्वभावधर्मतां यथाभूतं प्रजानाति । इयमस्य परमार्थिकी काये कायानुपश्यना स्मृत्युपस्थानम् । संवृतिनयेन पुनर्बोधिसत्त्वस्याप्रमाणव्यवस्थान-नयज्ञानानुगतं काये कायानुपश्यना स्मृत्युपस्थानं वेदितव्यम् । यथा काये कायानुपश्यना स्मृत्युपस्थानमेवमवशिष्टानि स्मृत्युपस्थानानि अविशिष्टाश्च बोधिपक्ष्या धर्मा वेदितव्याः । स नैव कायादीन्धर्मान् दुःखतो वा विकल्पयति समुदयतो वा । नापि तत्कृतं प्रहाणं निरोधतः कल्पयति । नापि तत्प्राप्तिहेतुं मार्गतः कल्पयति । निरभिलाप्यस्वभावधर्मतया च दुःखधर्मतां समुदयधर्मतां निरोधधर्मतां मार्गधर्मतां यथाभूतं प्रजानाति । इयमस्य पारमार्थिकी बोधिपक्ष्यभावना-सन्निश्रयेण सत्यभावना भवति । संवृत्त्या पुनरप्रमाणव्यवस्थान-नयज्ञानानुगता बोधिसत्त्वस्य सत्यालम्बनभावना दृष्टव्या ।

तत्र या बोधिसत्त्वस्यैषा धर्माणामेवमविकल्पना सोऽस्य शमथो द्रष्टव्यः । यच्च तद्यथाभूतज्ञानं पारमार्थिकं यच्च तदप्रमाण-व्यवस्थाननयज्ञानं धर्मेषु इयमस्य विपश्यना द्रष्टव्या ।

तत्र बोधिसत्त्वस्य समासतश्चतुराकारः शमथो वेदितव्यः । पारमार्थिकसाङ्केतिक-ज्ञानपूर्वङ्गमः पारमार्थिकसांकेतिक-ज्ञानफलं सर्वप्रपञ्चसंज्ञासु अनाभोगवाहनः तस्मिंश्च निरभिलाप्ये वस्तुमात्रै निर्निमित्ततया च निर्विकल्पचित्ताशान्त्या सर्वधर्मसमतैकरसगामी । एभिश्चतुर्भिराकारैबोधिसत्त्वानां शमथमार्गः प्रवर्तते यावदनुत्तर-सम्यक्संबोधिज्ञानदर्शन-परिनिष्पत्तये समुदागमाय ।

तत्र बोधिसत्त्वानां समासतश्चतुराकारैव विपश्यना वेदितव्या । एतच्चतुराकार-शमथपूर्वङ्गमा सर्वधर्मेषु समारोपासद्ग्राहान्तविवर्जिता अपवादासद्ग्राहान्तविवर्जिता अप्रमाणधर्मप्रभेदव्यवस्थान-नयानुगता च विपश्यना । एभिश्चतुर्भिराकारै र्बोधिसत्त्वानां विपश्यनामार्गः प्रवर्तते यावदनुत्तर-सम्यक्संबोधिज्ञानिदर्शन-[परि]निष्पत्तये (दुत्त्१७८) समुदागमाय । इतीयं बोधिसत्त्वानां शमथविपश्यना समासनिर्देशतः ।

तत्र कतमद्बोधिसत्त्वानामुपायकौशल्यम् । तत्समासतो द्वादशाकारम् । अध्यात्म-बुद्धधर्मसमुदागममारभ्य [षड्विधम् ।] बहिर्धा-सत्त्वपरिपाकमारभ्य षड्विधमेव ।

अध्यात्म-बुद्धधर्मसमुदागममारभ्य षड्विधमुपायकौशल्यं कतमत् । या बोधिसत्त्वस्य सर्वसत्त्वेषु करुणासहगता अपेक्षा यच्च सर्वसंस्कारेषु यथाभूतसर्वपरिज्ञानं या चानुत्तरसम्यक्संबोधिज्ञाने स्पृहा । यच्च सत्त्वापेक्षां निश्रित्य संसारापरित्यागः या च संस्कारेषु यथाभूतपरिज्ञानं निश्रित्यासंक्लिष्टचित्तस्य संसारसंसृती । या च बुद्धज्ञाने स्पृहा निश्रित्योत्तप्तवीर्यता । इदमध्यात्मबुद्धधर्मंसमुदागममारभ्य षडिवधमुपायकौशल्यं वेदितव्यम् ।

तत्र कतमद्बहिर्धा-सत्त्वपरिपाकमारभ्य षड्विधमुपायकौशल्यम् । येनोपायकौशल्येन बोधिसत्त्वः परात्तानि कुशलमूलानि अप्रमाणफलतायामुपनयति । तथाल्पकृच्छ्रेण विपुलान्यप्रमाणानि कुशलमूलानि समावर्तयत्युपसंहरति । तथा बुद्धशासनप्रतिहतानां सत्त्वानां प्रतिघातमपनयति । मध्यस्थानवतारयति । अवतीर्णान् परिपाचयति । परिपक्वान् विमोचयति ।

कथञ्च बोधिसत्त्वः सत्त्वानां परीत्तानि कुशलमूलानि अप्रमाणफलतायामुपनयति । इह बोधिसत्त्वो यत्किंचित्सत्त्वं प्रत्यवरमपि वस्त्वन्ततः सक्तुप्रसृतं प्रत्यवर एव क्षेत्रे प्रदापयति अन्ततस्तिर्यग्योनिगतेऽपि परीत्तं तच्च प्राणिभूते दापयित्वा चानुत्तरायां सम्यक्संम्बोधौ परिणामयति । एवं तत्कुशलमूलं वस्तुतोऽपि क्षेत्रतोऽपि परीत्तं तच्च परिणामना-वशेनाप्रमाणफलतयामुपनीतं भवति

कथं च बोधिसत्त्वः सत्त्वानामल्पकृच्छ्रेण विपुलान्यप्रमाणानि कुशलमूलानि संजनयति । इह बोधिसत्त्वो मिथ्या-मासोपवासानशनाद्यधिमुक्तानां सत्त्वानामार्याष्टाङ्गमुपवासं व्यपदिशति । तस्माद्विच्छन्दयति कृच्छ्रादनिष्टफलादुपवासात् । तस्मिन्नकृच्छ्रसमादाने महाफले चोपवासे समादापयति । तथा आत्मक्लमथयोगमनुयुक्तानां मोक्षकामानां मिथ्याप्रयुक्तानां [सत्त्वानां] (दुत्त्१७९) मध्यमां प्रतिपदमन्तद्वयविगतां व्यपदिशति तस्यां चावतारयति । तथा स्वर्गकामानां [सत्त्वानां] मिथ्याप्रयुक्तानामग्निप्रवेशातटप्रपाताऽनशनस्थानादिभिः सम्यग्ध्यानं दृष्टधर्मसुखविहाराय चायत्यामकृछ्रेण सहैव सुखेन सह सौमनस्येन स्वर्गोपपत्तये व्यपदिशति । पुनर्वैदिकमन्त्रोद्देशस्वाध्यायशुद्धिनिष्ठागमनाधिमुक्तान् बुद्धवचनोद्देशस्वाध्यायक्रियायामर्थचिन्तायाञ्च समादापयति । पुनर्गम्भीरांस्तथागतभाषितान् शून्यताप्रतिसंयुक्तान्धर्मान् तथा तथा उत्तानीकरोति संप्रकाशयति यथा परे श्रुत्वा तीव्रञ्च संवेगमुत्पादयन्ति तीव्रं च प्रसादम् । तदेकक्षणिकमपि संवेगप्रसादसहगतं चित्तं विपुल[कुशमूल]संग्रहे संख्यां गच्छति प्रागेव प्राबन्धिकम् । पुनर्बोधिसत्त्वो यानि कानिचिन्माल्यानि गन्धजातानि च लोके विविधानि प्रवराणि प्रणीतानि तैः प्रसादसहगतेनाध्याशयेन बुद्धधर्मसंघ[त्रि]रत्नपूजामधिमुच्यते परांश्चाधिमोचयति दशसु दिक्षु । पुनः सर्वा दिशस्तेनैव प्रसादसहगतेनाध्याशयेन स्फरित्वा सर्वां त्रिरत्नपूजामभ्यनुमोदते परांश्चाभ्यनुमोदयति । पुनर्बुद्धानुस्मृतिं सततसमितं भावयति परेषाञ्च समादापयति धर्मानुस्मृतिं संघानुस्मृतिं यावद्देवतानुस्मृतिम् । पुनर्मनोजल्पैस्त्रिरत्न-नमस्क्रियया अबन्ध्यं कालं करोति कारयति च । पुनः सर्वसत्त्वानां
सर्वपुण्यमनुमोदते अनुमोदयति च । पुनः सर्वसत्त्वानां विपुलकरुणानुप्रविष्टेनाध्याशयेन सर्वदुःखमात्मनि संप्रतीच्छति । तत्रैव परं समादापयति । पुनरतीतप्रत्युत्पन्नानि सर्व-स्खलितानि सर्वव्यतिक्रमांश्च कल्याणेन शिक्षाकामानुगतेन चेतसा सर्वदिक्षु बुद्धानां भगवतामन्तिके प्रतिदेशयति । तत्रैव च परान् समादापयति । तस्यैवमभीक्ष्णं स्खलितं प्रतिदेशयतः सर्वकर्मावरणेभ्यो विमोक्षो भवत्यल्पकृच्छ्रेण । पुनः प्रभूतैर्विचित्रैश्च निर्माणैः सर्वदिक्षु बुद्धधर्मसंघाधिष्ठानं सत्त्वाधिष्ठानञ्चाप्रमेयं बोधिसत्त्वः ऋद्धिमांश्चेतोवशिप्राप्तः पुण्यपरिग्रहं करोति । पुनर्बोधिसत्त्वः मैत्रीं करुणां मुदितामुपेक्षां भावयति । तत्रैव च परं समादापयति । एवं हि बोधिसत्त्वोऽल्पकृच्छ्रेण विपुलान्यप्रमेयफलानि कुशलमूलान्यभिनिर्हरति समुदानयति ।

कथञ्च बोधिसत्त्वः प्रतिहतानाञ्च सत्त्वानां प्रतिघातमपनयति । मध्यस्थांश्चावतारयति । अवतीर्णांश्च परिपाचयति । परिक्वांश्च विमोचयति । (दुत्त्१८०) अत्रापि बोधिसत्त्वस्य चतुर्विधस्याप्यस्य सत्त्वार्थस्याभिनिष्पत्तये समासतः षड्विध एवोपायो वेदितव्यः । आनुलोमिको विबन्धस्थायी विसभागाशयः अवष्टम्भजः कृतप्रकृतिकः विशुद्धश्च षष्ठ उपायः ।

तत्रायं बोधिसत्त्वस्यानुलोमिक उपायः । इह बोधिसत्त्वः पूर्वमेव तावद्येषां सत्त्वानां धर्मं देशयितुकामो भवति तेषां श्लक्ष्णैर्मधुरैः कायवाक्समुदाचारैरुपप्रदानानुवृत्तिसमुदाचारैश्चात्मगतं तेषां प्रतिघातमपनयति । प्रतिघातमपनीय प्रेमगौरव जनयति । प्रेमगौरवं जनयित्वा धर्मेऽर्थित्वं जनयति । तत एषां पश्चाद्धर्मं देशयति । तञ्च पुनर्धर्मं यथार्हं सुप्रवेशं गमकं कालेनानुपूर्वमविपरीतमर्थोपसंहितञ्च देशयति । विमर्दसहिष्णुश्च भवति । सत्त्वविनये परमया च कर्तुकामतया अनुकम्पाचित्तेन समन्वागतो भवति । स ऋद्ध्या चित्तादेशनया युक्तरूपया धर्मदेशनया परं वाऽध्येष्य विचित्रैर्वा प्रभूतैश्च निर्मितैः सत्त्वान्विनयति । संक्षिप्तानाञ्चार्थोपसंहितानां शास्त्राणां प्रविस्तरणतया अतिविस्तृतानां चाभिसंक्षेपणतया तथा उद्देशदानेन अनुस्मरणपरिपृच्छादानेन धृतानाञ्चोद्गृहीतानाञ्च धर्माणां सम्यगर्थविवरणतया सर्वालम्बनसमाध्यवतारमुखेषुचानुलोमिक्या अववादानुसासन्या सत्त्वाननुगृह्णाति सत्त्वानामर्थमाचरति । ये च सत्त्वा गम्भीराणां तथागतभाषितानां शून्यताप्रतिसंयुक्तानां सूत्रान्तानामाभिप्रायिकं तथागतानामर्थमविज्ञाय ये ते सूत्रान्ताः निःस्वभावतां धर्माणामभिवदन्ति निर्वस्तुकतामनुत्पन्नानिरुद्धतामा काशसमतां मायास्वप्नोपमतां धर्माणामभिवदन्ति तेषां यथावदर्थमविज्ञायोत्रस्तमानसाः तान् सूत्रान्तान् सर्वेण सर्वं प्रतिक्षिपन्ति नैते तथागतभाषिता इति । तेषामपि सत्त्वानां स बोधिसत्त्वः आनुलोमिकेनोपायकौशल्येन तेषां सूत्रान्तानां तथागताभिप्रायिकमर्थं यथावदनुलोमयति


तांश्च सत्त्वान् ग्राहयति । एवञ्च पुनरनुलोमयति । यथा नेमे धर्माः सर्वेण सर्वं न संविद्यन्ते अपि त्वभिलापात्मकः स्वभाव एषां नास्ति तेनेमे निःस्वभावा इत्युच्यन्ते । यद्यप्येतवभिलाप्यवस्तु विद्यते यदाश्रित्याभिलापाः प्रवर्तन्ते तदपि यैरभिलापैर्यत्स्वभावमभिलप्यते तदपि न तत्स्वभाव परमार्थतः । तस्मान्निर्वस्तुका इत्युच्यन्ते एवञ्च सति तेऽभिलाप्याः स्वभावा धर्माणामादित एव सर्वेण (दुत्त्१८१) सर्वं न संविद्यन्ते । ते किमुत्पत्स्यन्ते वा निरोत्स्यन्ते वा तस्मादनुत्पन्ना अनिरुद्धा इत्युच्यन्ते । तद्यथा चाकाशे विचित्राणि प्रभूतानि रूपाणि रूपकर्माणि चोपलभ्यन्ते । सर्वेषाञ्च तेषां रूपाणां रूपकर्मणां चावकाशं ददाति । तदाकाशं गमनागमनस्थानोत्पतननिपतनाकुञ्चनप्रसारणादीनाम् । यदा च पुनस्तद्रूपं तानि च रूपकर्माण्यपनीतानि भवन्ति तदा रूपाभावमात्रात्मकमेव परिशुद्धमाकाशं ख्याति । एवं तस्मिन्नाकाशस्थानीये निरभिलाप्ये वस्तुनि विविधाभिलापकृताः संज्ञा विकल्पाः प्रपञ्चसंज्ञानुगताः रूपकर्मस्थानीयाः प्रवर्तन्ते । सर्वेषाञ्च तेषामभिलापकृतानां संज्ञाविकल्पानां प्रपञ्चसंज्ञानुगतानां चित्ररूपकर्मस्थानीयानां तन्निरभिलाप्यं वस्त्वाकाश स्थानीयमवकाशं ददाति । यदा च पुनर्बोधिसत्त्वैर्ज्ञानेनार्येण तेऽभिलापसमुत्थिता मिथ्यासंज्ञाविकल्पाः प्रपञ्चसंज्ञानुगताः सर्वेण सर्वमपनीता भवन्ति तदा तेषां बोधिसत्त्वानां परमार्याणां तेनार्यज्ञानेन तन्निरभिलाप्यं वस्तु सर्वाभिलाप्यस्वभावाभावमात्रमाकाशोपमं परिशुद्धं ख्याति । न च तस्मात्परमन्यं स्वभावमस्य मृगयन्ते । तस्माद्धर्मा आकाश समा इत्युच्यन्ते । तद्यथा माया न च यथा ख्याति तथास्ति । न च पुनः सर्वेणैव सर्वं नास्ति तन्मायाकृतम् । एवं न चैते धर्मा
यथैवाभिलापसंस्तववशेन ख्यान्ति बालानां तथैव संविद्यन्ते । न च पुनः सर्वेण सर्वं न संविद्यन्ते पारमार्थिक-निरभिलाप्यात्मना । ते चानेन नयप्रवेशेन न सन्तो नासन्त इत्यद्वया मायावत् । तस्मान्मायोपमा इत्युच्यन्ते । एवं हि बोधिसत्त्वः सर्वस्माद्धर्मधातोर्न किञ्चिदुत्क्षिपति न च किञ्चित्प्रतिक्षिपति नोनी-करोति नाधिकं करोति न विनाशयति । भूतञ्च भूततः प्रजानाति । तथैव च संप्रकाशयति । अयं बोधिसत्त्वस्यानुलोमिक उपायो वेदितव्यः ।

तत्र कतमो बोधिसत्त्वस्य विबन्धस्थायी उपायः इह बोधिसत्त्वो भोजनपानादि-दश-कायादिपरिष्कारार्थिकानां [सत्त्वानां] विप्रतिबन्धेनावतिष्ठते । स चेन्मातृज्ञा भवथेति पितृज्ञाः श्रामण्याः ब्राह्मण्या विस्तरेण पूर्ववत्यावत्सचेच्छीलं समादाय वर्तध्वे एवमहं युष्माकं भोजनपानादीन् कायपरिष्कारान्यावदर्थमनुप्रदास्यामि । अन्यथा न दास्यामीति । तथा क्षेत्रवस्तुगृहवस्त्वापणवस्तु-राज्यवस्तु-देशवस्तु-धनवस्तु-धान्यवस्तु अर्थिकानां (दुत्त्१८२) तथा शिल्पकर्मस्थानविद्यार्थिकानां तथा तेन सह सख्यार्थिकानामावाहविवाहार्थिकानामाभक्षणसंभक्षणार्थिकानां कृत्यसहायार्थिकानाञ्च सत्त्वानां कार्यविप्रतिबन्धेनावतिष्ठते । एवमहं युष्माकं विस्तरेण यावत्कृत्येषु सहायीभावं गमिष्यामि स चेन्मातृज्ञा भवथेति पूर्ववत् । पुनर्बोधिसत्त्वः अपराधिषु दुषिष्वपकारिषु सत्त्वेषु परैर्वधबन्धनच्छेदनताडनकुत्सनतर्जनप्रवासनायोपात्तेष्वाधमनबन्धन-विक्रयाय चोपात्तेषु विप्रतिबन्धे नावतिष्ठते शक्तः प्रतिबलः । स चेन्मातृज्ञाः [पितृज्ञा] भवथेति विस्तरेण पूर्ववतेवमहं भवतोऽस्माद्व्यसनाद्विमोचयिष्यामीति । पुनर्बोधिसत्त्वो राजचौरोदकाग्निमनुष्यामनुष्याजीविकाश्लोकादिभयभीतानां सत्त्वानां विप्रतिबन्धेनावतिष्ठते । स चेन्मातृज्ञा भवथेति पूर्ववत्विस्तरेणैवमहं भवतोऽस्माद्भयात्परित्रास्यामीति । पुनर्बोधिसत्त्वः प्रियसमागमकामानां वाप्रियवियोगकामानाञ्च सत्त्वानां विप्रतिबन्धेनावतिष्ठते । स चेन्मातृज्ञा भवथ विस्तरेण पूर्ववतेवमहं भवतां प्रियसमागममप्रियविनाभावं चोपसंहरिष्यामीति । पुनर्बोधिसत्त्व आबाधिकानां सत्त्वानां व्याधितानां विप्रतिबन्धेनावतिष्ठते
। स चेन्मातृज्ञा भवथ विस्तरेण पूर्ववतेवमहं भवतोऽस्माद्व्याधिदुःखात्परिमोचयिष्यामीति । ते च सत्त्वाः एवं विबन्धावस्थितस्य बोधिसत्त्वस्य लघुलध्वेव तस्मिन् कुशलसमादाने पापप्रहाणे च यथाकामं करणीया भवन्ति । अयं बोधिसत्त्वस्य विबन्धस्थायी उपाय इत्युच्यते ।

ये पुनः सत्त्वा एवं विबन्धस्थायिनो बोधिसत्त्वस्य यथापरिकीर्तितेषु वस्तुषु न लघु-लघ्वेव यथाकामं प्रतिपद्यन्ते तेषां बोधिसत्त्वो यथा परिकीर्तितैर्वस्तुभिरर्थिकानां तानि वस्तूनि नानुप्रयच्छति हितकामतया । न चादातुकामाशयो भवति । व्यसनस्थान् भीतान्प्रियाप्रियसंयोगविसंयोगकामान् व्याधिदुःखेन आर्तान् सत्त्वान् कञ्चित्कालमध्युपेक्षते हितकामतया । न चोपेक्षणाशयो भवति नापरित्राणाशयः । ते च सत्त्वा एवं निष्ठुरकर्मणा प्रतिपद्यमानस्य बोधिसत्त्वस्य न त्वाशयतः अपरेण समयेन यथाकामकरणीया भवन्ति पापप्रहाणाय कुशलसमादानाय च । ये च सत्त्वा नाप्यर्थिनो (दुत्त्१८३) बोधिसत्त्वस्य नापि च व्यसनस्था नापि विस्तरेण यावद्व्याधितास्ते चास्य संस्तुताः सप्रणयाः । तानपि बोधिसत्त्वस्तस्मिन्नेव कुशल-[मूले] समादापयति यदुत मातृज्ञतायां विस्तरेण यावच्छीलसमादानानुवर्तनायाम् । त एवं बोधिसत्त्वेन समादाप्यमानाः स चेद्विकम्पनेन [न] प्रतिपद्यन्ते तेषां बोधिसत्त्वः कुपितमप्यात्मानमुपदर्शयति हितकामतया । न चाशयतः कुपितो भवति । कृत्येषु वैमुख्यमुपदर्शयति हितकामतया । न चाशयतो विमुखो भवति । तदेकत्वमप्यस्यानर्थं लौकिकमुपसंहरति हितकामतया । न चाशयतोऽनर्थकामो भवति । विसभागोऽस्य बोधिसत्त्वस्य तेषु [सत्त्वेषु] तस्याश्चेष्टायाः स आशयो भवति । तेन च तान्सत्त्वांस्तस्मिन् पापप्रहाणे कुशलसमादाने च सन्नियोजयति । तस्मादयं सत्त्वविनयोपायो बोधिसत्त्वस्य विसभागाशय इत्युच्यते ।

तत्र कतमो बोधिसत्त्वस्यावष्टम्भज उपायः । इह बोधिसत्त्वः स्वामिभूतो वा राजभूतो वा आधिपत्यप्राप्तः स्वं वा परिजनं स्व वा विजितमेवं सम्यक्समनुशास्ति । यो मे कश्चित्परिजने वा विजिते वाऽमातृज्ञो भविष्यति विस्तरेण यावद्दौशील्यं समादाय वर्तिष्यते तस्याहमुचितं वा भक्ताच्छादनं समुच्छेत्स्यामि वारयिष्यामि वा ताडयिष्यामि वा सर्वस्वेन वा वियोजयिष्यामि सर्वेण वा सर्व विजितात्प्रवासयिष्यामीति । तत्र च कर्मणि कुशलान् दक्षान् पौरुषेयान्विनियोजयति । ते च सत्त्वास्तस्मान्महतो दण्डकर्मणो भीताः पापञ्च प्रजहति कुशलञ्च समादाय वर्तन्ते । अकामका अपि तेन बलावष्टम्भेन कुशले सन्नियोज्यन्ते ते सत्त्वा अनेनोपायेन । तस्मादयमवष्टम्भज उपाय इत्युच्यते ।

तत्र कतमो बोधिसत्त्वस्य कृतप्रतिकृतिक उपायः । सह बोधिसत्त्वेन येषां सत्त्वानां पूर्वमेवोपकारः परीत्तः प्रभूतो वा कृतो भवति दानेन वा व्यसनपरित्राणतया (दुत्त्१८४) वा भयपरित्राणतया वा प्रियाप्रियसंयोगविसयोगोपसंहरणतया वा व्याधिसशमनतया वा तेषां कृतज्ञानां कृतवेदिनां प्रत्युपकार-कामानामन्तिकाद्बोधिसत्त्वः कुशलसमादानमेव प्रतिकारतो याचते संप्रतीच्छति । न किञ्चिदन्यल्लोकामिषम् । एवं चाह । अयमेव मे भवतामन्तिकान्महाप्रत्युपकारो भविष्यति । स चेद्यूयमेव मातृज्ञा भवथ पितृज्ञा विस्तरेण यावच्छीलं समादाय वर्तध्वे कृतस्य प्रतिकृतं कुशलसमादानं परतः प्रत्यासंशते तेन चोपायेन परांस्तत्र कुशले समादापयति । तस्मादयमुपायः कृतिप्रतिकृतिक इत्युच्यते ।

तत्र कतमो बोधिसत्त्वस्य विशुद्ध उपायः । इह निष्ठागमन-बोधिसत्त्वभूमि-स्थितो बोधिसत्त्वः सुविशोधितबोधिसत्त्वमार्गस्तुषिते देवनिकाये उपपद्यते । अमुको बोधिसत्त्ववस्तुषिते देवनिकाये उपपन्नः । स न चिरस्येदानीं जम्बूद्वीपे अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । तं वयमारागयेम न विरागयेम । तस्य च बोधिसत्त्वस्यान्तिकेऽस्माकं जन्म भवेदित्यपरिमितसत्त्व-सम्यक्-छन्द-जननार्थं छन्दबहुलीकरणार्थम् । पुनर्बोधिसत्त्वस्तुषिताद्देवनिकायाच्च्युत्वा उच्चे वा सम्मते वा कुले उपपद्यते यदुत राजकुले वा पुरोहितकुले वा । तथोदारान् कामानुत्सृज्य निष्क्रामति सत्त्वानां बहुमानोत्पादनार्थम् । पुनर्दुष्करचर्यामभ्युपगच्छति दुष्करचर्याधिमुक्तानां सत्त्वान विच्छन्दनार्थम् । पुनरनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तदन्येषां सत्त्वानां बोधिविमुक्तिसामान्योपगमनपरिहर्षणार्थम् । पुनरनुत्तरां सम्यक्संबोधिमभिसंबुध्य ब्रह्माध्येषणां प्रतीक्षते । न तावत्सत्त्वानां धर्मं देशयति । तेषां सत्त्वानां धर्मगौरवोत्पादनार्थम् । नावरमात्रकमेतद्धर्माख्यानं भवति यत्रेदानीं ब्रह्मा [स्वयं] धर्मदेशनायै भगवन्तमध्येषत इति । पुनर्बुद्धचक्षुषा लोकं व्यवलोकां यति । ब्रह्माध्येषितेऽनेन धर्मो देशितो ब्रह्मगौरवात् । परव्यापारितेन न तु स्वेन सत्त्वेषु कारुण्यचित्तेन नात्मन एव प्रतिरुपतां विदित्वेति । तदेकत्यानां सत्त्वानामेवंरूपस्य मिथ्याग्राहस्य विप्रणाशार्थम् । पुनर्धर्मचक्रमप्रवर्तितपूर्वं लोके प्रवर्तयति । तथा धर्मं देशयति । शिक्षापदानि च प्रज्ञपयति । अयमुच्यते बोधिसत्त्वस्य विशुद्ध उपायः । यस्मादुपायादन्य उपाय उत्तरि अतिक्रान्ततरश्च प्रणीततरश्च नास्ति ।

(दुत्त्१८५)
इतीदं षड्विधमुपायकौशल्यं बोधिसत्त्वानां समासव्यासनिर्देशतः प्रतिहतानां सत्त्वानां प्रतिघाताय नयनाय मध्यस्थानामवतारायावतीर्णानां परिपाकाय परिपक्कानां विमोचनाय । इति नास्त्यत उत्तरि नास्त्यतो भूयः । इदं बोधिसत्त्वानामुपायकौशल्यम् ।

तत्र कतमा बोधिसत्त्वानां धारणी । समासतश्चतुर्विधा द्रष्टव्या । धर्मधारणी । अर्थधारणी । मन्त्रधारणी । बोधिसत्त्वक्षान्तिलाभाय च धारणी ।

तत्र धर्माधारणी कतमा । इह बोधिसत्त्वस्तद्रूपां स्मृतिप्रज्ञाबलाधानतां प्रतिलभते यथा श्रुतमात्रकेणैवानाम्नातान् वचसाऽपरिचितान्नामपदव्यञ्जनकायसंगृहीताननुपूर्वचरिताननुपूर्वसमायुक्तान् प्रमाणान् ग्रन्थानप्रमाणं कालं धारयति ।

तत्रार्थधारणी कतमा । पूर्ववत् । तत्रायं विशेषः । तेषामेव धर्माणामप्रमाणमर्थमनाम्नातमपरिचितं मनसाऽप्रमाणं कालं धारयति ।

तत्र मन्त्रधारणी कतमा । इह बोधिसत्त्वस्तद्रूपं समाधिवशितां प्रतिलभते यथा यानि मन्त्रपदानीति संशमनाय सत्त्वानामधितिष्ठन्ति । तानि सिद्धानि भवन्ति । परमसिद्धान्यमोघान्येनेकविधानामीतीनां संशमनाय । इयमुच्यते बोधिसत्त्वस्य मन्त्रधारणी ।

तत्र कतमा बोधिसत्त्वस्य बोधिसत्त्वक्षान्तिलाभाय धारणी । इह बोधिसत्त्वः स्वयं प्रगाढहेतुचरितः प्रज्ञावान् प्रविविक्तविहारी वाचमप्यनुदीरयन् दर्शनपथमप्यनागच्छन् केनचित्सह तथा मात्राभोजी असंकीर्णभोजी एकप्रकाराशनभोजी प्रध्यानपरतः अल्पं रात्रौ स्वपन् बहु जाग्रन् यानीमानि तथागतभाषितानि बोधिसत्त्वक्षान्तिलाभाय मन्त्रपदानि तद्यथा इटि मिटि किटिभिः क्षान्तिपदानि स्वाहा । इत्येतेषां मन्त्रपदानामर्थं चिन्तयति तुलयत्युपपरीक्षते । स तेषां मन्त्रपदानामेवं सम्यक्प्रतिपन्न एवमर्थं स्वयमेवाश्रुत्वा कुतश्चित्प्रतिविध्यति । तद्यथा नास्त्येषां मन्त्रपदानां काचिदर्थपरिनिष्पत्तिः निरर्था एवैते । अयमेव चैषामर्थो यदुत निरर्थता । तस्माच्च परं पुनरपरमर्थं न समन्वेषते । इयता तेन तेषां मन्त्रपदानामर्थः सुप्रतिविद्धो भवति । स (दुत्त्१८६) तेषां मन्त्रपदानामर्थं सम्यक्प्रतिविध्य तेनैवार्थानुसारेण सर्वधर्माणामत्यर्थं सम्यक्प्रतिविध्यति स्वयमेवाश्रुत्वा परतः । एवञ्च पुनरर्थं प्रतिविध्यति । सर्वाभिलापैः सर्वधर्माणां स्वभावार्थापरिनिष्पत्तिः । या पुनरेषां निरभिलाप्यस्वभावता अयमेवैषां स्वभावार्थः । स एवं सर्वधर्माणां स्वभावार्थं सम्यक्प्रतिविध्य तस्मात्परमर्थं न समन्वेषते । उदारञ्च तस्यार्थस्य प्रतिवेधात्प्रीतिप्रामोद्यं प्रतिलभते । तेन बोधिसत्त्वेन प्रतिलब्धा तानि धारणीपदान्यधिष्ठाय बोधिसत्त्वक्षान्तिर्वक्तव्या । तस्याश्च लाभात्स बोधिसत्त्वो न चिरस्येदानीमध्याशयविशुद्धिं प्रतिलभते । अधिमात्रायामधिमुत्तिचर्याभूमिक्षान्तौ वर्तते । इयं बोधिसत्त्वस्य बोधिसत्त्वक्षान्तिलाभाय धारणी वेदितव्या ।

तत्र धर्मधारणीमर्थधारणीञ्च बोधिसत्त्वः प्रथमस्य कल्पासंख्येयस्यात्ययाच्छुद्धाध्याशयभूमिप्रविष्टो लभते नियतां स्थिरामुदाराञ्च । ततः पुनरर्वाग्लभते प्रणिधानवशेन वा ध्यानसन्निश्रयेण वा नतु नियतां न स्थिरां नोदाराम् । यथाधर्मार्थधारणी एवं मन्त्रधारणी वेदितव्या । बोधिसत्त्वक्षान्तिलाभाय तु धारणी यथैव व्याख्याता तथैव लभ्यते ।

एताः पुनः सर्वा धारणीर्बोधिसत्त्वश्चतुर्भिगुणैर्युक्तो लभते नान्यतमविकलः । कतमैश्चतुर्भिः । कामेष्वनध्ववसितो भवति परसमुच्छ्रयेष्वीर्यां नोत्पादयति । अनीर्षुर्भवति सर्व-याचित-प्रदश्च भवत्यननुताप्यदायी । धर्मारामश्च भवति धर्मरतो बोधिसत्त्वपिटकमारभ्य पिटकमातृकां वा

तत्र कतमद्बोधिसत्त्वस्य बोधिसत्त्वप्रणिधानम् । तत्समासतः पञ्चविधं द्रष्टव्यम् । चित्तोत्पादप्रणिधानमुपपत्तिप्रणिधानं गोचरप्रणिधानं सम्यक्प्रणिधानं महाप्रणिधानञ्च ।

तत्र प्रथमचित्तोत्पादो बोधिसत्त्वस्यानुत्तरायां सम्यक्संबोधौ चित्तोत्पादप्रणिधानमित्युच्यते ।

आयत्यां सत्त्वार्थानुकूलासु सुगत्युपपत्तिषु प्रणिधानं बोधिसत्त्वस्योपपत्तिप्रणिधानमित्युच्यते ।

(दुत्त्१८७)
सम्यग्धर्मप्रविचयप्रणिधानमप्रमाणादिकुशलधर्मभावना-विषय-प्रणिधानञ्च बोधिसत्त्वस्य गोचरप्रणिधानमित्युच्यते ।

आयत्यां सर्वबोधिसत्त्वकुशलसंग्रहाय सर्वगुणसंग्रहाय च समासतो व्यासतो वा प्रणिधानं बोधिसत्त्वस्य सम्यक्प्रणिधानमित्युच्यते ।

महाप्रणिधानं पुनर्बोधिसत्त्वसत्त्वस्यास्मादेव सम्यक्प्रणिधानाद्वेदितव्यम् । तत्पुनर्दशविंधम् । आयत्यां सर्वाकाराप्रमेय-तथागत-पूजोपस्थानतायै प्रथमं प्रणिधान बोधिसत्त्वस्य महाप्रणिधानमित्युच्यते । बुद्धानां च भगवतां सद्धर्म-परिग्रहारक्षणतायै धर्मनेत्रीसन्धारणाय महाप्रणिधानम् । तुषितभवनवासमुपादाय पुर्ववद्यावत्परिनिर्वाणाय महाप्रणिधानम् । बोधिसत्त्व-सर्वाकारसम्यक्चर्याचरणतायै महाप्रणिधानम् । सर्वसत्त्वपरिपाकाय महाप्रणिधानम् । सर्वलोकधातुसन्दर्शनाय महाप्रणिधानम् । बुद्धक्षेत्रपरिशोधनाय महाप्रणिधानम् । सर्वबोधिसत्त्वैकाशयप्रयोगतायै महायानावतरणतायै महाप्रणिधानम् । अबन्ध्यसर्व-सम्यक्प्रयोगतायै महाप्रणिधानम् । अनुत्तरसम्यक्संबोध्यभिसंबोधाय महाप्रणिधानम् ।

तत्र कतमो बोधिसत्त्वस्य शून्यतासमाधिः । इह बोधिसत्त्वस्य सर्वाभिलाषात्मकेन स्वभावेन विरहितं निरभिलाप्यस्वभावं वस्तु पश्यतः या चित्तस्य स्थितिः । अयमस्योच्यते शून्यतासमाधिः ।

अप्रणिहितः समाधिः कतमः । इह बोधिसत्त्वस्य तदेव निरभिलाप्यस्वभावं वस्तु मिथ्याविकल्पसमुत्थापितेन क्लेशेन दुःखेन च परिगृहीतत्वादनेकदोषदुष्टं समनुपश्यतो या आयत्यां तत्राप्रणिधानपूर्विका चित्तस्थितिः । अयमस्याप्रणिहितः समाधिरित्युच्यते ।

अनिमित्तः समाधिः कतमः । इह बोधिसत्त्वस्य तदेव निरभिलाप्यस्वभावं वस्तु सर्वविकल्पप्रपञ्च निमित्तान्यपनीय यथाभूतं शान्ततो मनसि कुर्वतो या चित्तस्थितिः । अयमस्योच्यते अनिमित्तः समाधिः । कस्मात्पुनरेषामेव त्रयाणां समाधीनां प्रज्ञप्तिर्भवति । नात उत्तरि नातो भूयः द्वयमिदं सच्चासच्च । तत्र संस्कृतमसस्कृतञ्च सतसदात्मा वात्मीयं वा । तत्रः (दुत्त्१८८) संस्कृते सत्यप्रणिधानतः प्रातिकूल्यतोऽप्रणिहितसमाधिव्यवस्थानम् । असंस्कृते पुनर्निर्वाणे प्रणिधानतः सम्यगभिरतिग्रहणतो निर्निमित्तसमाधिव्यवस्थानम् । यत्पुनरेतदसदेव वस्तु तत्र बोधिसत्त्वेन न प्रणिधानं नाप्रणिधानं करणीयम् । अपि तु तदसदसदित्येव यथाभूतं द्रष्टव्यम् । तच्च दर्शनमधिकृत्य शून्यतासमाधिव्यवस्थानं वेदितव्यम् । एवं हि बोधिसत्त्व एषु त्रिषु समाधिषु योगं करोति । एवं च व्यवस्थानं यथाभूतं प्रजानाति । तदन्याकारानपि त्रीन्समाधीन्यथाभूत-व्यवस्थान-नयप्रवेशेन भावना-नयप्रवेशेन च यथाभूतं प्रजानाति येषु श्रावकाः शिक्षन्ते समुदागच्छति च ।

चत्वारीमानि धर्मोद्दानानि यानि बुद्धाश्च बोधिसत्त्वाश्च सत्त्वानां विशुद्धये देशयन्ति । कतमानि चत्वारि । अनित्याः सर्वसंस्कारा इति धर्मोद्दानम् । दुःखाः सर्वसंस्कारा इति धर्मोद्दानम् । अनात्मानः सर्वधर्मा इति धर्मोद्दानम् । शान्तं निर्वाणमिति धर्मोद्दानम् । एतत्प्रतिसंयुक्तार्थ यद्भूयसा धर्ममुदीरयन्ति बुद्धबोधिसत्त्वाः सत्त्वानाम् । तस्मादेतानि धर्मोद्दानानीत्युच्यन्ते । पौराणेश्च शान्तमानसैर्मुनिभिरुदितोदितत्वान्नित्यकालमुद्दानानीत्युच्यन्ते । महोदयगामिनी भवाग्रोर्ध्वंगामिनी चैषा प्रतिपत्तस्मादुद्दानानीत्युच्यन्ते ।

कथं च बोधिसत्त्वः सर्वसंस्काराननित्यतः समनुपश्यति । इह बोधिसत्त्वः सर्वसंस्काराणामभिलाप्यस्वभावं नित्यकालमेव नास्तीत्युपलभ्यानित्यतः सर्वसंस्कारान् पश्यति । पुनरविज्ञातस्य भूततस्तस्यैव निरभिलाप्यस्य वस्तुनः अपरिज्ञानहेतुकमुदयव्ययमुपलभ्यतान्निरभिलाप्यस्वभावान् सर्वसंस्काराननित्यतः समनुपश्यति । सोऽतीतान् संस्कारानुत्पन्ननिरुद्धान्समनुपश्यति । तेषां नैव हेतुमुपलभते नापि स्वभावम् । तस्मात्तेषां नैव हेतुतो नैव स्वभावतो विद्यमानतां समनुपश्यति । प्रत्युत्पन्नानिरुद्धान्समनुपश्यति । तेषां हेतुं नोपलभते दत्तफलत्वात् । स्वभावं पुनरुपलभते अनिरुद्धत्वात् । तस्मात्तेषां स्वभावतो विद्यमानतां समनुपश्यति नो तु हेतुतः । अनागतान् संस्काराननुत्पन्नानिरुद्धान् पश्यति । तेषां हेतुमुपलभते अदत्तफलत्वात् । नो तु स्वभावमनुत्पन्नत्वात् । तस्मात्तेषां बोधिसत्त्वो हेतुतो विद्यमानतां (दुत्त्१८९) पश्यति नो तु स्वभावतः । स एव त्रिष्वध्वस्वव्यवच्छिन्नां संस्कार-सन्ततिं प्रवर्तमानां दृष्ट्वा एकैकस्मिन् संस्कारक्षणे त्रीणि संस्कृतस्य संस्कृतलक्षणानि पश्यति । क्षणादुर्क्ष्वं चतुर्थं संस्कृतलक्षणं समनुपश्यति । तत्र पूर्वसंस्कारक्षणे स्वभावविनाशानन्तर योऽपूर्वसंस्कारक्षणस्वभावप्रादुर्भावः सा जातिरिति पश्यति । उत्पन्नस्य यस्तत्कालाविप्रणाशः सा स्थितिरिति पश्यति । तं पूर्वनिरुद्धं संस्कारज्ञणस्वभावमपेक्ष्य तस्योत्पन्नस्य यदन्यत्वमन्यथात्वं वा सा जरेति पश्यति । तस्माज्जातिक्षणादूर्ध्वं तस्यैवोत्पन्नस्य संस्कारक्षणस्य यः स्वभावविनाशः
स व्यय इति पश्यति । स यत्स्वभावमेव तमुत्पन्नं संस्कारक्षणं समनुपश्यति । तत्स्वभावानेव तस्य जातिं स्थितिं जरां च । [न] पश्यति तदन्यस्वभावान् ।

तस्माच्च क्षणादूर्ध्वं च एव तस्य संस्कारक्षण[स्वभाव]स्यापगमः स एव तेषां जात्यादीनामिति यथाभूतं पश्यति तान्येतानि चत्वार्यषि संस्कृतलक्षणान्यभिसमस्य संस्काराणां समासतो द्वयावस्था-प्रभावितानि । भावप्रभावितान्यभावप्रभावितानि च । तत्र भगवता यो भावस्तदेकं संस्कृतलक्षणं व्यवस्थापितम् । यस्त्वभावस्तत्द्वितीयं संस्कृतलक्षणं व्यवस्थापितम् । स च भावस्तेषां संस्काराणां स्थित्यन्यथात्वप्रभावित इति कृत्वा तृतीयं संस्कृतलक्षणं व्यवस्थापितम् । तत्र बोधिसत्त्वः संस्कारमात्रं स्थापयित्वा न तस्य जातिं न स्थितिं न जरां नानित्यतां सर्वकालं द्रव्यस्वभावपरिनिष्पत्तितः पश्यति । तत्कस्य हेतोः । संस्कारमात्रं स उत्पद्यमानमुपलभते । नास्यान्यां जातिं न स्थितिं न जरां नानित्यताम् । संस्कारमात्रमेव च जायमानं तिष्ठन्तं जीर्यमाणं विनश्यमानमुपलभते । न तस्यान्यां जातिं स्थितिं जरामनित्यताञ्च । युक्त्यापि बोधिसत्त्वो विमृशन्नेतान् जात्यादीन् द्रव्यतो नोपलभते । एवञ्च पुनर्विमृशन्नोपलभते । स चेद्रूपादिसंस्कारविनिर्मुक्तः अन्यो जातिधर्मः स्यात्स यथैव रूपादिकः संस्कारः स्वात्मनोत्पद्यते । तथैव सोऽप्युत्पद्येत । एवं सति द्वे जन्मनी स्यातां यच्च संस्कार-जन्म यच्च जाति-जन्म तत्र तत्संस्कारजन्म तस्माज्जातिजन्मनः अनन्यदेव वा स्यात् । [अन्यदेव वा ।] यदि तावदनन्यदेवं सत्यपार्थिका जातिद्रव्यकल्पना । अन्या जातिर्द्रव्यतोऽस्तीतिं न युज्यते । (दुत्त्१९०) अथ च पुनरन्यदेवं सति संस्कार-जन्म जातिर्न भवति । संस्कार-जन्म जातिरिति न युज्यते । यथा
जातिरेवं स्थितिर्जरा विनाशश्च विस्तरेण वेदितव्यः । स चेद्विनाशो नाम स्वभावतो धर्मः परिनिष्पन्नः स्यात्सोऽप्युत्पद्येत निरुध्येत वा । यदा च विनाश उत्पन्नः स्यात्तदा सर्वसंस्कारैर्निरुद्धैर्भवितव्यं स्यात् । एवं सत्यल्पकृच्छ्रेण निरोधसमापन्नस्येव चित्तचैतसिकानां धर्माणामप्रवृत्तिः स्यात् । तस्य च पुनर्विनाशस्य निरोधात्निरुद्धैरपि तैः संस्कारैः पुनरेव भवितव्यं स्यात्विनाश एषां नास्तीति कृत्वा । अतो विनाश उत्पद्यते निरुध्यते चेति न युज्यते । न च पुनः कुलपुत्रस्य वा कुलदुहितुर्वा सर्वकालास्तिताञ्च द्रव्यसतां स्वभावपरिनिष्पतिञ्च प्रज्ञप्ति सतां पश्यतो निर्विद्विरागो विमुक्तिश्च युज्यते । अतो विपर्ययेण तु युज्यते । इत्येभिराकारैर्बोधिसत्त्वः सर्वसंस्कारा अनित्या इति यथाभूतं प्रजानाति ।

तान् पुनरेव अनित्यान् संस्कारान् प्रबन्धेन वर्तमानाद्बोधिसत्त्वः त्रिःप्रकाराया दुःखतायाः सन्निश्रयभावेन पश्यति संस्कारदुःखतायाः विपरिणामदुःखतायाः दुःखदुःखतायाश्च । एवं हि बोधिसत्त्वः सर्वसंस्कारा दुःखा इति यथाभूतं प्रजानाति ।

पुनः सर्वधर्माणां बोधिसत्त्वः संस्कृतासंस्कृतानां द्विविधं नैरात्म्यं यथाभूतं प्रजानाति । पुद्गलनैरात्म्यं धर्मनैरात्म्यं च । तत्रेदं पुद्गलनैरात्म्यम् । यन्नैवते विद्यमाना धर्माः पुद्गलाः । नापि विद्यमानधर्मविनिर्मुक्तोऽन्यः पुद्गलो विद्यते । तत्रेदं धर्मनैरात्म्यम् । यत्सर्वेष्वभिलाप्येषु वस्तुषु सर्वाभिलापस्वभावो धर्मो न संविद्यते । एवं हि बोधिसत्त्वः सर्वधर्मा अनात्मान इति यथाभूतं प्रजानाति ।

यः पुनरेषामेव संस्काराणां पूर्वं हेतुसमुच्छिन्नानां पश्चादशेषोपरमस्तदन्येषाञ्चात्यन्तमनभिनिर्वृत्तिरप्रादुर्भावः । इदमुच्यते निर्वाणम् । तच्च शान्तं क्लेशोपशमात्दुःखोपशमाच्च वेदितव्यम् । एवं च तावदनध्याशयशुद्धो बोधिसत्त्वः अदृष्टसत्यो वा श्रावकायानीयो निर्वाणमधिमुक्तो भवति । एवञ्चाभिवदति-शान्तं निर्वाणमिति । न चास्य तस्मिन्निर्वाणे यथाभूतावगमो यथावज्ज्ञानदर्शनं (दुत्त्१९१) प्रवर्तते । अस्ति त्वेष योनिशो मनस्कारः । तद्यथा राजपुत्रो वा गृहपतिपुत्रो वा राज्ञा गृहपतिना वाऽन्तर्गृहे संवर्धितः स्यात्तस्य च दहरस्यैव कुमारभूतस्य तेन राज्ञा गृहपतिना वा कृत्रिमका मृगरथका वा गो-अश्वरथका वा हस्तिरथका वा उपसंहृता भवेयुः । स च राजपुत्रो वा गृहपतिपुत्रो वा तैः क्रीडन् रममाणः परिचारयंस्तेष्वेव कृत्रिमेषु मृगेषु मृगसंज्ञी स्यात्कृत्रिमेषु गोऽश्वेषु हस्तिषु हस्तिसंज्ञी स्यात् । अथैकदा स राजा वा गृहपतिर्वा स्वस्य पुत्रस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकाद्भूतानां मृगाणां वर्णं भाषेत । भूतानां यावद्धस्तिनां वर्णं भाषेत । तस्य पुना राजपुत्रस्य [वा] गृहपतिपुत्रस्य वा त वर्णवादं श्रुत्वा एवं स्यात् । एषामयं राजा गृहपतिर्वा अस्माकं मृगरथकानां यावद्धस्तिरथकानां वा वर्णं भाषत इति । अथापरेण समयेन स राजा गहपतिर्वा स्वं पुत्रं बहिरागारान्निवीष्य भूतानेव मृगांस्तस्मै उपदर्शयेद्भूतानेव यावद्धस्तिन उपदर्शयेत् । तस्य तान् दृष्ट्वा तस्मिन्समये प्रत्यात्मं प्रत्यवगमो यथाभूत उत्पद्येत । इमे ते भूतार्थिका मृगरथका विस्तरेण यावद्धस्तिरथका येषामस्माकं पिता दीर्घरात्रं वर्णं भाषितवानस्माकमेव
त्वयथाभूते अर्थे तत्प्रतिरूपमात्रके तत्प्रतिबिम्बप्रतिभासमात्रके अधिमोक्षः प्रवृत्त इति । तेन पूर्वकेणाधिमोक्षेणारितीयेरन् । एवमेव संसारान्तर्गृहसंवृद्धानामशुद्धाशयानां बोधिसत्त्वानामदृष्टसत्यानाञ्च श्रावकाणां पुत्रस्थानीयानां पितृकल्पैर्बुद्धैर्बोधिसत्त्वैश्च महाभूमिप्रविष्टैर्निर्वाणप्रत्यक्षदर्शिभिस्तेषां बोधिसत्त्वानां श्रावकाणाञ्च पुरस्तान्निर्वाणस्य यथादृष्टस्य वर्णो भाषितः । तैश्च तन्निर्वाणं गुणतो घोषमात्रानुसरिण्या बुद्ध्या दीर्घरात्रमधिमुक्तम् । यदा पुनस्तेषां संभारपरिपाकवृद्धेरन्वयात्श्रद्धाशयानाञ्च बोधिसत्त्वानां दृष्टसत्यानाञ्च श्रावकाणां निर्वाणे प्रत्यक्षं ज्ञानदर्शनमुत्पद्यते । तदा तेषामपि यथाभूतः प्रत्यवगम उत्पद्यते । इदं तन्निर्वाणं सर्वश्रावकप्रत्येकबुद्धानां यस्य बुद्धबोधिसत्त्वैर्वर्णा भाषितः । अस्माभिस्तु पूर्वबालप्रज्ञतया न यथाभूतमधिमुक्तम् । अस्ति तु तदस्य प्रतिरूपकम् । अस्ति प्रतिभासमात्रकम् । ते तेन पूर्वकेणाधिमोक्षेण (दुत्त्१९२) रितीयन्ते पश्चिमकं यथाभूताधिमोक्षं निश्रित्य । तद्यथा किञ्चिद्व्याधितं पुरुषं कश्चिन्महावैद्यस्तस्य प्रप्युपस्थितस्य व्याधेः प्रशमायानुलोमिकैर्भैषज्यैरूपतिष्ठेत् । स च व्याधितपुरुषो दीर्घकालप्रतिनिषेवणात्तेषां भैषज्यानां तदधिमुक्त एव भवेत्तदारामः । तेष्वेव सारदर्शी भवेत् । अथ तस्यैव व्याधितपुरुषस्य स च पूर्वको व्याधिस्तया भैषज्यासेवया व्युपशाम्येदन्यश्चापूर्वो व्याधिरन्यभैषज्यसाध्यः प्रादुर्भवेत् । अथ स महावैद्यः पूर्वकस्य च व्याधेः प्रशमं पश्चिमकस्य चोत्पादमन्यभैषज्यसाध्यं विदित्वा तञ्च पूर्वकं
भैषज्यप्रयोगं प्रतिक्षिपेदन्यं चानुलोमिकं व्यपदिशेद्भैषज्यम् । स बालो व्याधित पुरुषः पूर्वभैषज्याधिमुक्तस्तेष्वेव पथ्यसंज्ञी येनैव महावैद्येन तानि पूर्वपश्चिमानि भैषज्यानि व्यपदिष्टानि । एवमप्युच्यमानस्तेन संमुखमपथ्यान्येतानि पूर्वकाणि भैषज्यानि पश्चिमे व्याधाविति संप्रत्ययेन न गच्छन्नाष्य वचनमभिश्रद्धव्यादेवमेव तदुपमास्ते बाला बोधिसत्त्वाः श्रावकाश्च वेदितव्याः । ये व्याधितपुरुषा एव क्लेशग्रस्ता महावैद्यस्य तथागतस्योत्तरादुत्तरतरामुत्तमतमामुत्तानादुत्तानतरां गम्भीराद्गम्भीरतरां गम्भीरतमां हीनादुदारामुदारतरामुदारतमां धर्मदेशनां सम्यग्व्यपदेशमववादानुशासनीं नावतरन्ति नाधिमुच्यन्ते न प्रतिपद्यन्ते धर्मस्यानुधर्मम् । तत्र श्राद्धो बोधिसत्त्वः श्रावको वा न कस्मिंश्चित्तथागतभाषिते विमतिसन्देहमुत्पादयति । स पुनः सर्वाङ्गपरिष्कारसुसमायुक्तमिवाजन्यरथं तं तथागतभाषितं धर्मरथमभिरूह्य कुशल इव सारथिर्यावती तेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या तां लघुलध्वेव गन्ता भवत्यधन्धायमानः ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने सप्तदशमं बोधिपक्ष्यपटलम् ।


(दुत्त्१९३)
बोधिसत्त्वगुणपटलम् (अध्याय १.१८)

उद्दानम् ।

आश्चर्यं चाप्यनाश्चर्यं समचित्तोपकारिता ।
प्रतिकारस्तथा शास्ति स्यादबन्ध्यप्रयोगता ॥

पञ्चेमे बोधिसत्त्वास्याश्चर्याद्भूता धर्मा अनुत्तरे सम्यक्संबोधियाने शिक्षमाणस्य वेदितव्याः । कतमे पञ्च । निष्कारणवत्सलता सर्वसत्त्वेषु । सत्त्वानामेवार्थाय संसारेऽप्रमेयदुःखसहिष्णुता । बहुक्लेशानां दुर्विनेयानां च सत्त्वानां विनयोपायज्ञता । परमदुर्विज्ञानतत्त्वार्थानुप्रवेशः । अचिन्त्यप्रभावता च । इमे पञ्च बोधिसत्त्वानामाश्चर्याद्भुता धर्मा असाधारणस्तदन्यैः सर्वसत्त्वैः ।

पञ्चेमानि बोधिसत्त्वस्यानाश्चर्याणि यैः समन्वागतो बोधिसत्त्वः अनाश्चर्याद्भुतधर्मसमन्वागत इत्युच्यते । कतमानि पञ्च । यद्बोधिसत्त्वः परहितहेतुकेन दुःखेन सुखात्मक एव सन् कृत्स्नं परहितहेतुकं दुःखमभ्युपगच्छति । इदं बोधिसत्त्वस्य प्रथममनाश्चर्यं येन समन्वागतो बोधिसत्त्वः अनाश्चर्याद्भुतधर्मसमन्वागत इत्युच्यते । पुनरपरं यद्बोधिसत्त्वः संसारदोषज्ञो निर्वाणगुणज्ञ एव च सन् सत्त्वपरिशुद्धिप्रियस्तेनैव च सुखात्मकः सत्त्वपरिशुद्धिमेवाधिपतिं कृत्वा संसारमभ्युपगच्छति । इदं बोधिसत्त्वस्य द्वितीयमनाश्चर्यं पूर्ववत् । पुनरपरं यद्बोधिसत्त्वस्तूष्णींभाव-सुखरसज्ञ एव सन् सत्त्वपरिशुद्धिप्रियस्तेनैव च सुखात्मकं सत्त्वपरिशुद्धिमेवाधिपतिं कृत्वा सत्त्वानां धर्मेदेशनायै प्रयुज्यते । इदं बोधिसत्त्वस्य तृतीयमनाश्चर्यं पूर्ववत् । पुनरपरं यद्बोधिसत्त्वः [षट्] पारमितोपचितं कुशलमूलं सत्त्वपरिशुद्धिप्रियस्तेनैव च सुखात्मकः सत्त्वपरिशुद्धिमेवाधिपतिं कृत्वा सर्वसत्त्वानामाशयतः समुत्सृजति । न च पुनस्तस्य समुत्सर्गस्य विपाकेनार्थी भवति । इदं बोधिसत्त्वस्य चतुर्थमनाश्वर्यं पूर्ववत् । पुनरपरं यद्बोधिसत्त्वः परकार्यस्वकार्य इव सर्वपरकार्यार्थक्रियासु संदृश्यते । इदं बोधिसत्त्वस्य पञ्चममनाश्चर्यं येन समन्वागतो बोधिसत्त्वः अनाश्चर्याद्भुतधर्मसमन्वागत इत्युच्यते ।

(दुत्त्१९४)
पञ्चभिराकारैर्बोधिसत्त्वः सर्वसत्त्वेषु समचित्तो वेदितव्यः । कतमैः पञ्चभिः । प्रथमेन बोधाय चित्तोत्पाद-प्रणिधानेन । तथा हि बोधिसत्त्वः सर्वसत्त्वानामर्थे समं तच्चित्तमुत्पादयति । अनुकम्पासहगतेन चित्तेन समचित्तो भवति । बोधिसत्त्वः सर्वसत्त्वेषु एकपुत्रक इव प्रेमसहगतेन चित्तेन समचित्तो भवति । बोधिसत्त्वः सर्वसत्त्वेषु एकपुत्रक एव प्रेमसहगतेन चित्तेन समचित्तो भवति । बोधिसत्त्वः सर्वसत्त्वेषु प्रतीत्यसमुत्पन्नेषु च [सर्व]संस्कारेषु सत्त्वसंज्ञेति विदित्वा बोधिसत्त्वो या एकस्य सत्त्वस्य धर्मता सा सर्वेषामिति धर्मसमतानुगतेन चेतसा सर्वसत्त्वेषु समचित्तो विहरति । यथा चैकस्य सत्त्वस्यार्थमाचरति तथा सर्वेषाम् । एवं हि बोधिसत्त्वः सर्वार्थक्रियासहगतेन चेतसा सर्वसत्त्वेषु स्मचित्तो विहरति । एभिः पञ्चभिराकारैर्बोधिसत्त्वः सत्त्वेषु समचित्तो भवति ।

पञ्चभिराकारैर्बोधिसत्त्वानां सत्त्वेषु सर्वोपकारक्रिया वेदितव्या । कतमैः पञ्चभिः । सम्यगाजीवव्यपदेशोपसंहारेण । विलोमेषु च कृत्येष्वर्थोपसंहितेष्वनुलोमोपदेशोपसंहारेण । अनाथानां च दुःखितानां कृपणानामप्रतिशरणानां सनाथक्रियया । सुगतिगमनाय मार्गव्यपदेशोपसंहारेण यानत्रयव्यपदेशोपसंहारेण च ।

पञ्चभिराकारैः सत्त्वा उपकारिणो बोधिसत्त्वस्य प्रत्युपकारेण प्रत्युपस्थितो भवन्ति । कतमैः पञ्चभिः । आत्मानं गुणैः संयोजयन्ति परगुणाधानाय प्रयुक्तारो भवन्ति । अनाथेषु दुःखितेषु कृपणेष्वप्रतिशरणेषु सत्त्वेषु सानाथ्यं कुर्वन्ति । तथागतान् पूजयन्ति । तथागताभाषितञ्च धर्ममुखेन वा लेखयित्वा वा धारयन्ति तञ्च पूजयन्ति ।

पञ्चेमानि स्थानानि बोधिसत्त्वेन नित्यमेवमाशंसितव्यानि भवन्ति । कतमानि पञ्च । बुद्धोत्पादारागणता । तेषामेव च बुद्धानामन्तिकात्षटे पारमिता-बोधिसत्त्वपिटकश्रवणम् । सर्वाकारसत्त्वपरिपाचनप्रतिअबलता । अनुत्तरसम्यक्संबोधिप्राप्तिः । अभिसंबोधेश्च श्रावकसामग्री ।

(दुत्त्१९५)
पञ्चभिः कारणैः बोधिसत्त्वस्य सत्त्वेष्व्वबन्ध्योऽर्थक्रिया-प्रयोगो भवति । कतमैः पञ्चभिः । इह बोधिसत्त्व आदित एव सत्त्वेषु हितसुखैषी भवति । तच्च हितसुखं यथाभूतं प्रजानाति । अविपर्यस्तबुद्धिर्भवति । इति सर्वं पूर्ववद्वेदितव्यं यद्यथा पूजासेवाऽप्रमाणपटले ।

उद्दानम् ।

सम्यक्प्रयोगो हानिश्च विशेषगमनं तथा ।
प्रतिरूपाश्च भूताश्च गुणा विनयनं तथा ॥

पञ्चभिः प्रयोगैर्बोधिसत्त्वस्य सर्वसम्यक्संप्रयोग संग्रहो वेदितव्यः कतमैः पञ्चभिः । अनुरक्षणा-प्रयोगेण । अनवद्यप्रयोगेण प्रतिसंख्यानबलप्रयोगेण । अध्याशयशुद्धिप्रयोगेण । नियतपतितप्रयोगेण च ।

तत्र बोधिसत्त्वोऽनुरक्षणा प्रयोगेण मेधां रक्षति येन सहजेन ज्ञानेन धर्मान् लघुलध्वेवोद्गृह्णाति । स्मृतिं रक्षति यया स्मृत्या उद्गृहीतान् धर्मान् धारयति । ज्ञानमारक्षति येन ज्ञानेन धृतानां धर्माणामर्थमुपपरीक्षते । सम्यक्प्रज्ञया प्रतिविध्यति मेधास्मृतिबुद्धिहानभागीयनिदानपरिवर्जनतया स्थितिवृद्धिभागीयनिदानप्रतिनिषेवणतया च । स्वचित्तमारक्षति इन्द्रियाणां गुप्तद्वारतया । परचित्तमारक्षति सम्यक्परिचित्तानुवर्तनतया । तत्र बोधिसत्त्वस्यानवद्यप्रयोगो यः कुशलेषु धर्मेष्वविपरीतश्चोत्तप्तश्चाप्रमाणश्च सततश्च बोधिपरिणामितश्च । प्रतिसंख्यानबलप्रयोगः पुनरस्य सर्वस्यामधिमुक्तिचर्याभूमौ द्रष्टव्यः । [शुद्धाध्याशयप्रयोगः] शुद्धाध्याशयभूमौ चर्या प्रतिपत्तिभूमौ च द्रष्टव्यः । नियतिपतितप्रयोगो नियतायां भूमौ निष्ठागमनभूमौ च द्रष्टव्यः । इवमेभिः पञ्चभिः प्रयोगैर्बोधिसत्त्वस्य सर्वसम्यक्प्रयोगसंग्रहो भवति ।

पञ्चेमे बोधिसत्त्वस्य हानभागीया धर्मा वेदितव्याः । कतमे पञ्च । अगौरवता धर्मे धर्मभाणके च । प्रमादकौसीद्यम् । क्लेशासेवाऽधिवासनता । दुश्चरितासेवाऽधिवासनता । तदन्यैश्च बोधिसत्त्वैः सह परितुलनाभिमानता धर्मविपर्यासाभिमानता च ।

(दुत्त्१९६)
पञ्चेमे बोधिसत्त्वस्य धर्मा विशेषभागीया वेदितव्याः । ते पुनरेषामेव पञ्चानां कृष्णपक्ष्याणां धर्माणां यथाक्रमं विपर्ययेण वेदितव्याः ।

पञ्चेमे बोधिसत्त्वानां गुणप्रतिरूपकः बोधिसत्त्वदोषा वेदितव्याः । कतमे पञ्च । रौद्रदुःशीलेषु सत्त्वेषु ततो निदानमपकारक्रिया । कुहकस्येर्यापथसम्पत्तिक्रल्पना । लोकायतैर्मन्त्रैस्तीर्थिकशास्त्रप्रविसंयुत्तैर्ज्ञात्र प्रतिलम्भः पण्डितसंख्या-गमनता च । सावद्यस्य च दानादिकस्य कुशलस्याध्याचारः । सद्धर्मप्रतिरूपकाणां च । रोचना देशना व्यवस्थापना ।

पञ्चेमे बोधिसत्त्वस्य भूता बोधिसत्त्वगुणा वेदितव्याः । कतमे पञ्च । रौद्रदुःशीलेषु सत्त्वेषु विशेषेण कारुण्यचित्तता । प्रकृत्या ईर्यापथसंपन्नता । तथागतप्रणीतेनागमाधिगमेन ज्ञात्रप्रतिलम्भः । पण्डितसंख्यागमनता च । अनवद्यस्य च दानादिकस्य कुशलस्य क्रिया । सद्धर्मस्य च प्रकाशना सद्धर्मप्रतिरूपकाणां च प्रतिक्षेपणता ।

दशसु स्थानेषु समासतो बोधिसत्त्वा विनेयान् सत्त्वान् सम्यगेव विनयन्ति । कतमेषु दशसु । दुश्चरितविवेके । [कामविवेके] । आपत्त्यन ध्याचारव्युत्थाने । इन्द्रियैर्गुप्तद्वारतायाम् । संप्राजनविहारितायाम् । संसर्गविवेके प्रविविक्तस्यासद्वितर्कंविवेके । आवरणविवेके । क्लेशपर्यवस्थानविवेके । क्लेशपक्षदौष्ठुल्यविवेके च ।

उद्दानम् ।

व्याकृतिर्नियतौ पातो ह्यवश्यकरणीयता ।
सातत्यकरणीयञ्च प्राधान्यं पश्चिमं भवेत् ॥

षड्भिराकारैः समासतस्तथागता बोधिसत्त्वमनुत्तरायां सम्यक्संबोधौ व्याकुर्वन्ति । कतमैः षड्भिः । गोत्रस्थमनुत्पादितचित्तम् । तथोत्पादितं चित्तं सम्मुखावस्थितम् । विपरोक्षावस्थितम् । परिमितं कालमियता कालेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यत इति । अपरिमितकालं व्याकुर्वन्ति न तु कालनियम कुर्वन्ति ।

(दुत्त्१९७)
त्रय इमे बोधिसत्त्वस्य नियतिपाताः । कतमे त्रयः । गोत्रस्थ एव बोधिसत्त्वो नियतिपतित इत्युच्यते । तत्कस्य हेतोः । भव्योऽसौ प्रत्ययानासाद्य नियतमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । पुनरेकत्यो बोधिसत्त्वो नियतं चित्तमुत्पादयत्यनुत्तरायां सम्यक्संबोधौ न पुनस्तावत्प्रत्युदावर्तयति यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । पुनर्बोधिसत्त्वो वशिताप्राप्तः सर्वां सत्त्वार्थचर्यां यथेच्छति यथारभते तथैवाबन्ध्यां करोति । त एते त्रयो नियतिपाता भवन्ति । गोत्रस्थनियतिपातः । चित्तोत्पादनियतिपातः । अबन्ध्य-चर्या-नियतिपातश्च । तत्र पश्चिमं नियतिपातमारभ्य तथागता नियतिपतितं बोधिसत्त्वं व्याकुर्वाणा व्याकुर्वन्ति ।

पञ्चेमानि स्थानानि बोधिसत्त्वस्यावश्यकरणीयानि भवन्ति यान्यकृत्वा बोधिसत्त्वः अभव्यो भवत्यनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । कतमानि पञ्च । प्रथमश्चित्तोत्पादः । सत्त्वेष्वनुकम्पा । उत्तप्तवीर्यम् । सर्वविद्यास्थानेषु योग्यता । अखेदश्च ।

पञ्चेमानि बोधिसत्त्वस्य स्थानानि सातत्यकरणीयानि । कतमानि पञ्च । अप्रमादो बोधिसत्त्वस्य सातत्यकरणीयः । अनाथेषु सत्त्वेषु [दुःखितेषु च] अप्रतिशरणेषु सनाथक्रिया । तथागतपूजा स्खलितपरिज्ञानम् । सर्वक्रियाचारविहारमनसिकारेषु बोधिचित्तपूर्वङ्गमता बोधिसत्त्वस्य पञ्चमं सातत्यकरणीयम् ।

दशेमे धर्मा बोधिसत्त्वानां प्रधानसम्मता यान् बोधिसत्त्वा अग्रतो धारयन्त्यग्र्यप्रज्ञप्तिषु च प्रज्ञपयन्ति । कतमे दश । बोधिसत्त्वगोत्रं सर्वगोत्राणां प्रधानम् । प्रथमश्चित्तोत्पादः सर्वसम्यक्प्रणिधानानं प्रधानम् । वीर्यं च प्रज्ञा च सर्वपारमितानां प्रधानम् । प्रियवादिता सर्वसंग्रहवस्तूनां प्रधानम् । तथागतः सर्वसत्त्वानां प्रधानम् । करूणाऽप्रमाणानां प्रधानम् । चतुर्थं ध्यानं [सर्वध्यानानां प्रधानम् ।] त्रयाणां समाधीनां शून्यतासमाधिः प्रधानम् । सर्वसमापत्तीनां (दुत्त्१९८) निरोधसमापत्तिः प्रधानम् । सर्वोपायकौशल्यानां विशुद्धमुपायकौशल्यं यथानिर्दिष्टं प्रधानम् ।

उद्दानम् ।

प्रज्ञप्तेः स्याद्व्यवस्थानं धर्माणामेषणा तथा । यथाभूतपरिज्ञानमप्रमेयास्तथैव च ॥
देशनायाः फलं चैव महत्त्वं यानसंग्रहः ।
बोधिसत्त्वा दश ज्ञेया नामप्रज्ञप्तयस्तथा ॥

चत्वारीमानि बोधिसत्त्वानां प्रज्ञप्तिव्यवस्थानानि यानिं बोधिसत्त्वा एव सम्यक्प्रज्ञपयन्ति व्यवस्थापयन्ति तथागता वा । न त्वन्यः कश्चिद्देवभूतो वा मनुष्यभूतो वा श्रमणब्राह्मणभूतो वान्यत्रैतेभ्य एवं श्रुत्वा । कतमानि चत्वारि । धर्मप्रज्ञप्तिव्यवस्थानं सत्यप्रज्ञप्तिव्यवत्त्थानं युक्तिप्रज्ञप्तिव्यवस्थानं यानप्रज्ञप्तिव्यवस्थानञ्च ।

तत्र या द्वादशाङ्गस्य सूत्रादिकस्य वचोगतस्यानुपूर्वरचना अनुपूर्वव्यवस्थानसमायोगः । इदमुच्यते धर्मप्रज्ञप्तिव्यवस्थानम् ।

सत्यप्रज्ञप्तिव्यवस्थानं पुनरनेकविधम् । अवितथार्थेन तावदेकमेव सत्यं न द्वितीयमस्ति । द्विविधं सत्यम् । संवृतिसत्यं परमार्थसत्यं च । त्रिविधं सत्यम् । लक्षणसत्यं वाक्सत्यं क्रियासत्यं च । [चतुर्विधं सत्यम् ।] दुःखसत्यं यावन्मार्गसत्यम् । पञ्चविधं [सत्यम् ।] हेतुसत्यं फलसत्यं ज्ञानसत्यं ज्ञेयसत्यमग्र्यसत्यं च । षड्विधं [सत्यम्] । सत्यसत्यं मृषासत्यं परिज्ञेयसत्यं प्रहातव्यसत्यं साक्षात्कर्तव्यसत्यं भावयितव्यसत्यं च । सप्तविधं सत्यम् । आस्वादसत्यमादीनवसत्यं निःसरणसत्यं धर्मतासत्यमधिमुक्तिसत्यमार्याणां सत्यमनार्याणां सत्यं च । अष्टविधं [सत्यं] । संस्कारदुःखतासत्यं विपरिणामदुःखतासत्यं दुःखदुःखतासत्यं प्रवृत्तिसत्यं निवृतिसत्यं संक्लेशसत्यं व्यवदानसत्यं सम्यक्प्रयोगसत्यं च । नवविधं [सत्यम्] । अनित्यसत्यं दुःखसत्यं शून्यतासत्यं नैरात्म्यसत्यं [भवतृष्णासत्यं] (दुत्त्१९९) विभवतृष्णासत्यं तत्प्रहाणोपायसत्यं सोपधिशेषनिर्वाणसत्यं निरुपधिशेषनिर्वाणसत्यं [च] । दशविधं सत्यम् । औपक्रमिकदुःखसत्यं भोगवैकल्यदुःखसत्यं धातुर्वैषम्यदुःखसत्यं प्रियविपरिणामदुःखसत्यं दौष्ठुल्यदुःखसत्यं कर्मसत्यं क्लेशसत्यं तथा श्रवणयोनिशोमनस्कारसत्यं
सम्यक्दृष्टिसत्यं सम्यग्दृष्टिफलसत्यं चेति । इदमुच्यते बोधिसत्त्वानां सत्यप्रज्ञप्तिव्यवस्थानम् । प्रभेदशः पुनरेतदप्रमाण वेदितव्यम् ।

चतस्रो युक्तयो युक्तिप्रज्ञप्तिव्यवस्थानमित्युच्यते । तासां पुनः प्रविभागः पूर्ववद्वेदितव्यः ।

त्रयाणां यानानामेकैकस्य सप्तभिराकारैः प्रज्ञप्तिव्यवस्थानम् । श्रावकयानस्य प्रत्येकबुद्धयानस्य महायानस्य यानप्रज्ञप्तिव्यवस्थानमित्युच्यते । चतुर्ष्वार्यसत्येषु या प्रज्ञा तस्या एव च प्रज्ञाया य आश्रयः आलम्बनं सहायः कर्म संभारस्तस्या एव च प्रज्ञाया यत्फलमेभिः सप्तभिराकारैः श्रावकयानप्रज्ञप्तिव्यवस्थानं साकल्येन वेदितव्यम् । यथा श्रावकयानमेवं प्रत्येकबुद्धयानप्रज्ञप्तिव्यवस्थानम् । निरभिलाप्यं वस्त्वालम्बनीकृत्य सर्वधर्मेषु या तथता निर्विकल्पसमता निर्याणता प्रज्ञा तस्या एव च प्रज्ञाया य आश्रय आलम्बनं सहायः कर्म सम्भारस्तस्या एव च प्रज्ञाया यत्फलम् । इत्येभिः सप्तभिराकारैर्महायानप्रज्ञप्तिव्यवस्थानं वेदितव्यम् । अतीतानागतप्रत्युत्पन्नेष्वध्वषु ये केचिद्बोधिसत्त्वाः सम्यक्प्रज्ञप्तिव्यवस्थानं कृतवन्तः करिष्यन्ति कुर्वन्ति वा पुनः सर्वे त एभिश्चतुभिर्वस्तुभिः । नात उत्तरि नातो भूयः ।

चत्वारीमानि बोधिसत्त्वानां सर्वधर्माणां यथाभूतपरिज्ञायै पर्येषणावस्तूनि । कतमानि चत्वारि । नामपर्येषणा । वस्तुपर्येषणा । स्वभावप्रज्ञप्तिपर्येषणा । विशेषप्रज्ञप्तिपर्येषणा च । एषां च विभागः पूर्ववद्वेदितव्यः तद्यथा तत्त्वार्थपटले ।

(दुत्त्२००) चत्वारीमानि बोधिसत्त्वानां सर्वधर्माणां यथाभूतपरिज्ञानानि । कतमानि चत्वारि । नामपर्येषणागतं यथाभूतपरिज्ञानं वस्तुपर्येषणागतं स्वभावप्रज्ञप्तिपर्येषणागतं विशेषप्रज्ञप्तिपर्येषणागतं यथाभूतपरिज्ञानम् । एषामपि विभागः पूर्ववद्वेदितव्यः । [तद्यथा तत्त्वार्थपटले ।] ।

पञ्चेमे अप्रमेया बोधिसत्त्वानां सर्वकौशल्यक्रियायै संवर्तन्ते । कतमे पञ्च । सत्त्वधातुरप्रमेयो लोकधातुरप्रमेयो धर्मधातुरप्रमेयः । विनेयधातुरप्रमेयो विनेयोपायश्चाप्रमेयः । चतुःषष्टिः सत्त्वनिकायाः सत्त्वधातुस्तद्यथा मनोमप्यां भूमौ । सन्तानभेदेन पुनरप्रमेयः । दशसु दिक्षुप्रमेया अप्रमेयनामलोकधातवस्तद्यथा इयं सहा नाम लोकधातुर्यस्य नाम्ना ब्रह्मा सहांपतिरित्युच्यते । कुशलाकुशलाव्याकृता धर्माः प्रभेदनयेनाप्रमेया वेदितव्याः । स्यादेकविधो विनेयः सर्वसत्त्वा विनेया इति कृत्वा । स्याद्द्विविधः । सकलबन्धनो विकलबन्धनश्च । स्यात्त्रिविधः मृद्विन्द्रियो मध्येन्द्रियस्तीक्ष्णेन्द्रियश्च । चतुर्विधः । क्षत्रियो ब्राह्मणो वैश्यः शूद्रश्च । पञ्चविधः । रागचरितो द्वेषचरितो मोहचरितो मानचरितो वितर्कचरितश्च । षड्विधः । गृही प्रव्रजितः अपरिपक्वः परिपक्वो [ऽविमुक्तश्च] विमुक्तश्च । सप्तविधः । प्रतिहतो मध्यस्थः विपञ्चितज्ञः उद्धटितज्ञः तदात्वविनेयः आपत्तिविनेयः प्रत्ययहार्यश्चविनेयो यादृशान् प्रत्ययान् लभते तथा तथा परिणमति । अष्टविधः । अष्टौ परिषदः । क्षत्रियपरिषदमादिं कृत्वा यावद्ब्रह्मपरिषत् । नवविधः । तथागतविनेयः श्रावकप्रत्येकबुद्धविनेयः बोधिसत्त्वविनेयः कृच्छ्रसाध्यः [अकृच्छ्रसाध्यः] श्लक्ष्णसाध्यः अवसादना-साध्यः दूरे विनेयः अन्तिके च विनेयः । दशविधः । नारकः तैर्यक्योनिकः यामलौकिकः कामावचरो दिव्यमानुष्यकः आन्तराभविकः रूपी अरूपी सज्ञी असंज्ञी नैवसज्ञीनासंज्ञी च । अयं तावत्प्रकारभेदेन पञ्चपञ्चाशदाकारः । अप्रमाणस्तु
सन्तानप्रभेदेन वेदितव्यः । तत्र (दुत्त्२०१) सत्त्वधातु विनेयधात्वोः किं नानाकरणं सत्त्वधातुरविशेषेण सर्वसत्त्वा गोत्रस्थाश्चागोत्रस्थाश्च । ये पुर्नगोत्रस्था एव तासु ताष्ववस्थासु वर्तन्ते । स विनेयधातुरित्युच्यते । विनेयोपायः पुनः पूर्ववद्यथा निर्दिष्टो वेदितव्यः । सोऽपि चाप्रभेयः प्रकारभेदतः ।

त एतेऽभिसमस्य पञ्चाप्रमेया भवन्ति । तत्कस्य हेतोः । इह बोधिसत्त्वो येषां सत्त्वानामर्थे प्रयुज्यते स प्रथमोऽप्रमेयः । तान्पुनः सत्त्वान् यत्रस्थानुपलभते । स द्वितीयोऽप्रमेयः तान्पुनः सत्त्वांस्तेषु तेषु लोकधातुषु यैर्धर्मैः संक्लिश्यमानांश्च विशुध्यमानांश्चोपलभते । स तृतीयोऽप्रमेयः । तेभ्यश्च सत्त्वेभ्यो यान्सत्त्वान् भव्यान् शक्यरुपानत्यन्तदुःखविमोक्षाय पश्यति । स चतुर्थोऽप्रमेयः । यश्चोपायस्तेषामेव सत्त्वानां विमोक्षाय स पञ्चमोप्रमेयः । तस्मादेते पञ्चाप्रमेया बोधिसत्त्वानां सर्व[कौशल]क्रियायै संवर्तन्ते ।

पञ्चेमे बुद्धबोधिसत्त्वानां सत्त्वेषु धर्मदेशनाया विपुलाः फलानुशंसा वेदितव्याः । कतमे पञ्च । तदेकत्याः सत्त्वाः तस्मिन्नेव सद्धर्मे देश्यमाने विरजो विगतमलं धर्मेषु धर्मचक्षुरूत्पादयन्ति । तदेकत्याः सत्त्वा देश्यमान एव सद्धर्मतः आस्रवक्षयमनुप्राप्नुवन्ति । तदेकत्याः सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति । तदेकत्याः सत्त्वाः परमां बोधिसत्त्वक्षान्तिं प्रतिलभन्ते । श्रुतमात्र एव तस्मिन्सद्धर्मे देशितश्च सद्धर्मो बुद्धैर्बोधिसत्त्वैश्च उद्देशस्वाध्यायसंप्रतिपत्तिपारंपर्ययोगेन सद्धर्मनेत्र्याश्चिरस्थितिकतायै संवर्तते । इतीमे पञ्च देशनाया विपुलाः फलानुशंसा वेदितव्याः ।

सप्तेमानि महत्त्वानि यैर्युक्तं बोधिसत्त्वानां यानं महायानमित्युच्यते । कतमानि सप्त । धर्ममहत्त्वम् । तद्यथा द्वादशाङ्गाद्वचोगताद्बोधिसत्त्वपिटकवैपुल्यम् । चित्तोत्पादमहत्त्वम् । तद्यथा एकत्योऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति । अधिमुक्तिमहत्त्वम् । तद्यथैकत्यः तस्मिन्नेव च धर्ममहत्त्वेऽधिमुक्तो भवति । अध्याशयमहत्त्वम् । तद्यथैकत्यः अधिमुक्तिचर्याभूमिं (दुत्त्२०२) समतिक्रम्याध्याशयशुद्धिभूमिमनुप्रविशति । सम्भारमहत्त्वम् । यस्य पुण्यसम्भारस्य ज्ञानसम्भारस्य समुदागमादनुत्तरां सम्यक्संबोधिमभिसम्बुध्यते । कालमहत्त्वम् । येन कालेन यैस्त्रिभिष्कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । समुदागममहत्त्वम् । सैवानुत्तरा सम्यक्संबोधिः । यस्यात्मभावसमुदागमस्यान्यः आत्मभावसमुदागमः समो नास्ति । कुतः पुनरुत्तरि कुतो भूयः । तत्र यच्च धर्ममहत्त्वं यच्च चित्तोत्पादमहत्त्वं यच्चाधिमुक्तिमहत्त्वं यच्चाध्याशयमहत्त्वं यच्च सम्भारमहत्त्वं यच्च कालमहत्त्वमितीमानि षट्महत्त्वानि हेतुभूमानि समुदागम-महत्त्वस्य । तत्पुनरेकं समुदागम-महत्त्वं फलस्थानीयमेषां षण्णां वेदितव्यम् ।

अष्टाविमे धर्माः सर्वस्य महायानस्य संग्रहाय संवर्तन्ते । बोधिसत्त्वपिटकदेशना । तस्मिन्नेव च बोधिसत्त्वपिटके य सर्वधर्माणां तत्त्वार्थप्रकाशना । तस्मिन्नेव बोधिसत्त्वपिटके या सर्वबुद्धबोधिसत्त्वानामचिन्त्या परमोदारा प्रभावसंप्रकाशना । तस्य च यद्योनिशः श्रवणम् । योनिशश्च चिन्तापूर्वकमध्याशयोपगमनम् । अध्याशयोपगमनपूर्वंकश्च भावनाकारप्रवेशः । भावनाकारप्रवेशपूर्विका च भावनाफलपरिनिष्पत्तिः । तश्या एव च भावनाफलपरिनिष्पत्तेरत्यन्तनैर्याणिकता । एवं हि बोधिसत्त्वाः शिक्षमाणा अनुत्तरां सम्यक्संबोधिमभिसंबुध्थन्ते ।

के पुनस्ते बोधिसत्त्वा य एवं शिक्षमाणा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते । ते समासतो दश वेदितव्याः । गोत्रस्थः । अवतीर्णः । अशुद्धाशयः । शुद्धाशयः । अपरिपक्वः । परिपक्वः । अनियतिपतितः । नियतिपतितः । एकजातिप्रतिबद्धः । चरमभविकश्चेति । तत्र गोत्रस्थो बोधिसत्त्वः शिक्षमाणश्चित्तमुत्पादयति । सोऽवतीर्ण इत्युच्यते । स एव पुनरवतीर्णो यावत्शुद्धाशयभूमिमप्रविष्टो भवति तावदशुद्धाशय इत्युच्यते । प्रविष्टस्तु शुद्धाशयो भवति । स एव पुनः शुद्धाशयो यावन्निष्ठागमनभूमिमप्रविष्टो भवति तावदपरिपक्व इत्युच्यते । प्रविष्टस्तु परिपक्वो भवति । स पुनरपरिपक्वो यावन्नियतनियताचर्याभूमौ (दुत्त्२०३) वा नानुप्रविष्टो भवति तावदनियत इत्युच्यते । प्रविष्टस्तु नियतो भवति । स एव पुनः परिपक्वौ द्विविधः । एकजातिप्रतिबद्धो यस्य जन्मनोऽनन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । चरमभविकश्च तस्मिन्नेव जन्मनि स्थितोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तत्र ते गोत्रमुपादाय यावदनुत्तरायाः सम्यक्संबोधेर्दश बोधिसत्त्वा निर्दिष्टाः । ये बोधिसत्त्वशिक्षासु शिक्षन्ते तेषां नात उत्तरि शिक्षा विद्यते । यत्र शिक्षेरन् यथा च शिक्षेरन्न च एभ्यो यथा निर्दिष्टेभ्यो बोधिसत्त्वेभ्य उत्तरि बोधिसत्त्वो विद्यते यो बोधिसत्त्वशिक्षासु शिक्षते ।

तेषां पुनः सर्वेषामेव बोधिसत्त्वानामभेदेनिमान्येवं भागीयानि गौणानि नामानि वेदितव्यानि । तद्यथा बोधिसत्त्वो महासत्त्वः धीमानुत्तमद्युतिः जिनपुत्रो जिनाधारः विजेता जिनाङ्कुरः विक्रान्तः परमार्यः सार्थवाहो महायशः कृपालुर्महापुण्यः ईश्वरो धार्मिकश्चेति । तेषां पुनर्दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुष्वनन्तानां बोधिसत्त्वानामप्रमेयाः प्रयात्मगताः संज्ञाप्राप्तयो वेदितव्याः । तत्र ये बोधिसत्त्वाः स्म इति प्रतिज्ञायां बोधिसत्त्वा वर्तन्ते न च बोधिसत्त्वशिक्षासु सम्यक्प्रतिपद्यन्ते ते बोधिसत्त्वप्रतिरूपका वेदितव्याः । नो तु भूताः । बोधिसत्त्वाः स्म इति प्रतिज्ञायां वर्तन्ते सम्यक्[च ये] बोधिसत्त्वशिक्षाषु शिक्षन्ते ते भूता बोधिसत्त्वा वेदितव्याः ।

इति बोधिसत्त्वभूमावाधारे योगस्थाने बोधिसत्त्वगुणपटलमष्टादशमम् ।

समाप्तं चाधारयोगस्थानम् ।



आधारानुधर्मयोगस्थानम् (बोओक्२)
(दुत्त्२०७)
बोधिसत्त्वलिङ्गपटलम् (अध्याय २.१)

उद्दानम् ।

स्वभावोऽधिष्ठानं [फलानुशंसः] अनुक्रमः संग्रहेण च ।

पञ्चेमानि भूतस्य बोधिसत्त्वस्य बोधिसत्त्वलिङ्गानि यैः समन्वागतो [बोधिसत्त्वो] बोधिसत्त्व इति संख्यां गच्छति । कतमानि पञ्च । अनुकम्पा प्रियवादिता वैर्यं मुक्तहस्तता गम्भीरार्थसन्धिनिर्मोचनता च । इमे पुनः पञ्च धर्माः पञ्च परिवर्तेन वेदितव्याः । स्वभावतोऽधिष्ठानतः फलानुसंशतः अनुक्रमतः संग्रहतश्च ।

तत्रानुकम्पायाः स्वभावो द्विविधः । आशयगतः प्रतिपत्तिगतश्च । तत्राशयगतो हिताशयः सुखाशयश्च बोधिसत्त्वस्य सत्त्वेष्वनुकम्पेत्युच्यते । प्रतिपत्तिगतश्च स्वभावतोऽनुकम्पायाः यदाशयो भवति बोधिसत्त्वः सत्त्वेषु तदेव यथाशक्त्या यथाबलं कायेन वाचा उपसंहरति । तत्र प्रियवादितायाः स्वभावः पूर्ववदामोदनी संमोदनी उपकरा च वाग्वेदितव्या । तद्यथा संग्रहवस्तुपटले । तत्र सत्त्वं धृतिरलीनत्वं च यद्बलं बोधिसत्त्वस्य अयं वैर्यंस्वभाव इत्युच्यते । तत्र या बोधिसत्त्वस्योदारदानता असंक्लिष्टदानता वा । अयं मुक्तहस्ततायाः स्वभावो वेदितव्यः । चतस्रः प्रतिसंविदस्तासामेव चाभिनिर्हाराय यत्सम्यक्प्रायोगिकं ज्ञानमयं बोधिसत्त्वानां गम्भीरार्थसन्धिनिर्मोचनतायाः स्वभावो वेदितव्यः ।

तत्रानुकम्पायाः पञ्चाधिष्ठानानि । कतमानि पञ्च । दुःखिताः सत्त्वा दुश्चरितचारिणः प्रमत्ता मिथ्याप्रतिपन्नाः क्लेशानुशयिताश्च । नारकान्सत्त्वानुपादाय शेषां केषांचित्सत्त्वानां दुःखा वेदना प्राबन्धिकी सन्ततिसमारूढा वर्तते । (दुत्त्२०८) इमे [ते] सत्त्वा दुःखिता इत्युच्यन्ते । ये पुनर्नावश्यं दुःखिताअपि तु बहुलं कायदुश्चरितमध्याचरन्ति वाग्दुश्चरितं मनोदुश्चरितमध्याचरन्ति । तत्र चाभिरतरूपा विहरन्ति । इमे सत्त्वा दुश्चरितचारिण इत्युच्यन्ते तद्यथा औरभ्रिक-शौकरिक-कौक्कुटिकप्रभृतयः । ये पुनर्नावश्यं दुःखिता न दुश्चरितचारिणोऽपि त्वध्यवसिताः कामानुपभुञ्जते नटनर्तकहासकलासकप्रेक्षणपरा विहरन्ति आत्मोपलाडनपराः । इमे सत्त्वाः प्रमत्ता इत्युच्यन्ते तद्यथा तदेकत्याः कामोपभोगिनः । ये पुनर्नावश्यं दुःखिता न दुश्चरितचारिणो न वापि प्रमत्ताः अपि तु दृष्टिविपत्तिमाश्रित्य दुःखविमोक्षाय प्रतिपन्नाः । इमे सत्त्वा मिथ्याप्रतिपन्ना इत्युच्यन्ते तद्यथा कामानुत्सृज्य दुराख्याते धर्मविनये प्रव्रजिताः । ये पुनः सत्त्वा नावश्यं दुःखिता विस्तरेण यावन्न मिथ्याप्रतिपन्नाः अपि तु सकलबन्धनाश्च विकलबन्धनाश्च क्लेशैः इमे सत्त्वाः क्लेशानुशयिता इत्युच्यन्ते तद्यथा ये च सम्यक्प्रयुक्ताः पृथग्जना कल्याणका ये च शैक्षाः एतावदनुकम्पाधिष्ठानं बोधिसत्त्वानां येनाधिष्ठानेन येनालम्बनेनानुकम्पा प्रवर्तते । नात उत्तरि नातो भूयः ।

पञ्चेमानि बोधिसत्त्वानां प्रियवादिताया अधिष्ठानानि । कतमानि पञ्च । सम्यगालपना सम्यगानन्दना सम्यगाश्वासना सम्यक्प्रवारणा न्यायोपदेशश्च । तेषां पुनः प्रतिभागो वेदितव्यः । तद्यथा संग्रहवस्तुपटले । एभिः पच्चभिरधिष्ठानैरेभिरालम्बनैर्बोधिसत्त्वानां प्रियवादिता प्रवर्तते । नात उत्तरि नातो भूयः ।

पञ्चेमानि बोधिसत्त्वस्य वैर्याधिष्ठानानि वेदितव्यानि । कतमानि पञ्च । यैरेव पञ्चभिराकारैर्बोधिपक्षपटले धृतिबलाधानता बोधिसत्त्वानामुक्ता तान्येव बोधिसत्त्वस्य वैर्याधिष्ठानानि वे दितव्यानि । यैरधिष्ठानैर्यैरालम्बनैर्बोधिसत्त्वस्य वैर्य प्रवर्तते । नात उत्तरि नातो भूयः ।

(दुत्त्२०९)
पञ्चेमानि बोधिसत्त्वस्य मुक्तहस्तताया अधिष्ठानानि । कतमानि पञ्च । अभीक्ष्णदानता प्रमुदितदानता सत्कृत्यदानता असंक्लिष्टदानता अनिश्रित्यदानता च । एषां पुनर्विस्तरेण विभागो वेदितव्यः । तद्यथा दानपटले । एभिरधिष्ठानैरेभिरालम्बनैर्बोधिसत्त्वानां मुक्तहस्तता प्रवर्तते । नातुत्तरि नातो भूयः ।

पञ्चेमानि बोधिसत्त्वस्य गम्भीरार्थसन्धिनिर्मोचनताया अधिष्ठानानि । कतमानि पञ्च । ये ते तथागतभाषिताः सूत्रान्ताः गम्भीरागम्भीरावभाषाः शून्यता-प्रतिसंयुक्ता इदंप्रत्ययता । प्रतीत्यसमुत्पादानुलोमाः । इदं प्रथममधिष्ठानम् । विनये वा पुनरापत्तिकौशल्यमापत्तिव्युत्थान-कौशल्यं च । इदं द्वितीयमधिष्ठानम् । मातृकायां वा पुनरविपरीतं धर्मलक्षणव्यवस्थानम् । इदं तृतीयमधिष्ठानम् । आभिप्रायिकनिगूढधर्मसंज्ञार्थविभावनता । इदं चतुर्थमधिष्ठानम् । सर्वधर्माणाञ्च धर्मार्थनिर्वचनप्रकारभेदः । इदं पञ्चममधिष्ठानम् । येनाधिष्ठानेन येनालम्बनेन बोधिसत्त्वानां गम्भीरार्थसन्धिनिर्मोचनता प्रवर्तते । नात उत्तरि नातो भूयः ।

अनुकम्पा बोधिसत्त्वस्य सत्त्वेष्वादित एव तावद्वैरप्रहाणाय संवर्तते । तथानुकम्पको बोधिसत्त्वः सर्वसत्त्वार्थक्रियासु अदिनमनाः प्रयुज्यते । तस्मिंश्च प्रयोगे न परिखिद्यते । अनुकम्पा तद्-बहुलविहारिता चास्यानवद्यदृष्टधर्मसुखविहाराय परानुग्रहाय च संवर्तते । ये च भगवता मैत्र्या अनुशंसा उक्तानास्य काये विषं क्रामति न शस्रमित्येवमादयः । तेऽप्यनुकम्पकस्य बोधिसत्त्वस्य सर्वे वेदितव्याः । इत्ययमनुकम्पाया बोधिसत्त्वानां फलानुशंसो द्रष्टव्यः ।

प्रियवादी बोधिसत्त्वो दृष्टे धर्मे चतुर्विधं वाग्दोषं विजहाति मृषावादं पैशून्यं षारुष्यं सम्भिन्नप्रलापञ्च । सा चास्य बागात्मानुग्रहाय परानुग्रहाय च प्रवृत्ता भवति । दृष्ट एव च धर्मे आयत्यां च प्रियवादी बोधिसत्त्वः आदेयवचनो भवति ग्राह्यवचनः । इत्ययं बोधिसत्त्वस्य प्रियवादितायाः [फला]नुशंसो वेदितव्यः ।

धीरो बोधिसत्त्वो दृष्टे [तावत] धर्मे सर्वेण सर्वमालस्यकौसीद्यापगतो भवति प्रमुदितचित्तश्च । बोधिसत्त्वशीलसंवरसमादानं करोति । कृत्वा च न (दुत्त्२१०) विषीदति । आत्मानं च परञ्च क्षान्त्यानुगृह्णाति । आयत्यां च सर्वबोधिसत्त्वकृत्यसमारम्भेषु प्रकृत्या दृढसमारंभो भवति । नाकृत्वा विनिवर्तते । इतीमे बोधिसत्त्वानां वैर्यफलानुशंसा वेदितव्या ।

मुक्तहस्तताया गम्भीरार्थसन्धिनिर्मोचनतायाश्च फलानुशंसा वेदितव्याः । तद्यथा प्रभावपटले दानप्रभावे प्रज्ञाप्रभावे च । अयमेषां बोधिसत्त्वविज्ञानां फलानुशंसः ।

कश्चैषामनुक्रमः । पूर्वं तावद्बोधिसत्त्वोऽनुकम्पया सत्त्वाननुगृह्णाति तेषु च सापेक्षो भवत्यर्थकामः । ततश्चाकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनाय युक्तिं भाषते ग्राहयति व्यपदिशति । एवमवतीर्णेषु च सत्त्वेषु सत्त्वविप्रतिपत्तिषु [च] क्लेशविप्रकृतास्वर्थविधासु विमर्दसहो भवति । प्रतिपत्तिविप्रति[पत्ति]स्थितानां सत्त्वानामनुत्सर्गतया । स एवं धीरः एकत्यान्सत्त्वानामिषसंग्रहेण परिपाचयति एकत्यान्धर्मसंग्रहेण तदेकत्यांस्तदुभाभ्यां धर्माभिषसंग्रहाभ्याम् । अयमेषां पञ्चानां बोधिसत्त्वलिङ्गानामनुक्रमो वेदितव्यः ।

पञ्चेमानि बोधिसत्त्वलिङ्गानि षट्पारमिताः । आसां षण्णां पारमितानां कतमया पारमितया कतमद्बोधिसत्त्वलिङ्गं संगृहीतम् । अनुकम्पा ध्यानपारमितया संगृहीता । प्रियावादिता शीलपारमितया प्रज्ञापारमितया च संगृहीता । वैर्यं वीर्यपारमितया क्षान्तिपारमितया प्रज्ञापारमितया च संगृहीतम् । मुक्तहस्तता दानपारमितायैव संगृहीता । गम्भीरार्थसन्धिनिर्मोचनता ध्यानपारमितया प्रज्ञापारमितया च संगृहीता एवमिमानि [पञ्च बोधि]सत्त्वलिङ्गानि पञ्चपरिवर्तेन वेदितव्यानि । स्वभावतोऽधिष्ठानतः फलानुसंशतोऽनुक्रमतः संग्रहतश्च वेदितव्यानि ।

इति बोधिसत्त्वभूमावाधारानुधर्मे योगस्थाने प्रथमं बोधिसत्त्वलिङ्गपटलम् ।


(दुत्त्२११)
पक्षपटलम् (अध्याय २.२)

उद्दानम् ।

सुकृतकर्मान्तता कौशल्यं परानुग्रहः परिणामनं च पश्चिमम् ।

गृहिपक्षे वा प्रव्रजितपक्षे वा वर्तमानस्य बोधिसत्त्वस्य समासतश्चत्वारो धर्मा वेदितव्याः । येषु गृही प्रव्रजितो व बोधिसत्त्वः शिक्षमाणः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते । कतमे चत्वारः । सुकृतकर्मान्तता कौशल्यं परानुग्रहः परिणामना च ।

तत्र कतमा बोधिसत्त्वस्य सुकृतकर्मान्तता । या पारमितासु नियतकारिता निपुणकारिता नित्यकारिता अनवद्यकारिता च । कथञ्च बोधिसत्त्वो नियतकारी भवति यदुत दाने । इह बोधिसत्त्वः संविद्यमाने देयधर्मे याचनके सम्यक्प्रप्युपस्थिते अपकारिण्युपकारिणि वा गुणवति दोषवति वाऽवश्यं ददाति । नास्य दानचित्तं कश्चिद्विकम्पयितुं समर्थो भवति मनुष्यो वाऽमनुष्यो वा श्रमणो वा ब्राह्मणो वा कश्चिद्वा पुनर्लोके सहधर्मेण । कथं च बोधिसत्त्वो निपुणकारी भवति यदुत्दाने । इह बोधिसत्त्वः संविद्यमाने देयधर्मे सम्यक्प्रत्युपस्थिते याचनके सर्वं ददाति । नास्त्यस्य किञ्चिद्यदपरित्याज्यं भवति सत्त्वेभ्यः आध्यात्मिकमपि वस्तु प्रागेव बाह्यम् । कथं च बोधिसत्त्वो नित्यकारी भवति यदुत दाने । इह बोधिसत्त्वो अपरिखिद्यमानो दानेन सततसमितमेव सर्वकालं यथोत्पन्नं दानं ददाति । कथं च बोधिसत्त्वः अनवद्यकारी भवति यदुत दाने । इह बोधिसत्त्वो यत्तत्संक्लिष्टं दानं वर्णितं दानपटले तत्संक्लिष्टं वर्जयित्वा असंक्लिष्टं दानं ददाति । एवं हि बोधिसत्त्वः सुकृतकारी भवति यदुत दाने । यथा दाने एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितासु (दुत्त्२१२) यथायोगं वेदितव्यम् । एत एव चत्वार आकारा नियतकारिता निपुणकारिता नित्यकारिता अनवद्यकारिता च ।

तत्र कतमद्बोधिसत्त्वस्य कौशल्यम् । तत्समासतो दशविधं वेदितव्यं प्रतिहतानां सत्त्वानां प्रतिघातापनयायोपायकौशल्यम् । मध्यस्थानामवतारणाय अवतीर्णानां परिपाचनाय परिपक्वानां विमोचनायोपायकौशल्यम् । लौकिकेषु सर्वशास्त्रेषु कौशल्यम् । बोधिसत्त्वशीलसंवरसमादाने स्खलितप्रत्यवेक्षणाकौशल्यं सम्यक्प्रणिधानकौशल्यम् । [श्रावकयानकौशल्यं] प्रत्येकबुद्धायानकौशल्यं महायानकौशशल्यञ्च । एषां सर्वेषामेव कौशल्यानां पूर्ववद्यथायोगं तत्र तत्रास्यामेव बोधिसत्त्वभूमौ प्रविभागो वेदितव्यः । एतानि पुनर्बोधिसत्त्वस्य दश कौशल्यानि पञ्चकृत्यानि कुर्वन्ति । पूर्वकैश्चतुर्भिः कौशल्यैर्बोधिसत्त्वः सत्त्वान् स्वार्थे सन्नियोजयति । लौकिकेषु सर्वशास्त्रेषु कौशल्येन बोधिसत्त्वः सर्वपरप्रवादानभिभवति । बोधिसत्त्वशीलसंवरसमादाने स्खलितप्रत्यवेक्षणाकौशल्येन बोधिसत्त्वः आपत्तिं [न] वापद्यते । आपन्नो वा यथाधर्मं प्रतिकरोति । सुविशुद्धं शीलसंवरसमादानं परिकर्षति । सम्यक्प्रणिधानकौशल्येन बोधिसत्त्वः आयत्यां सर्वाभिप्रेतार्थसमृद्धिमधिगच्छति । त्रिभिन्नं कौशल्यैर्बोधिसत्त्वो यथा गोत्रेन्द्रियाधिमुक्तानां तदुपमं धर्मं देशयति । अनुकूलां युक्तिं व्यपदिशति । एवमेभिर्दशभिः कौशल्यैर्बोधिसत्त्वः पञ्चकृत्यानि करोति । यैरस्य पञ्चभिः कृत्यैः सर्वकृत्यसमाप्तिर्भवति । दृष्टधार्मिकसांपरायिकं चार्थमारभ्य ।

तत्र कतमो बोधिसत्त्वस्य परानुग्रहः । इह बोधिसत्त्वश्चत्वारि संग्रहवस्तूनि निश्रित्य दानं प्रियवादितामर्थचर्यां समानार्थताञ्च तदेकत्यानां सत्त्वानां हितमप्युपसंहरति । सुखमप्युपसंहरति । [हितसुखमप्युपसंहरति ।] अयं बोधिसत्त्वानां परानुग्रहस्य समासनिर्देशः । विस्तरनिर्देशः पुनः पूर्ववद्वेदितव्यः तद्यथा स्वपरार्थपटले ।

(दुत्त्२१३)
तत्र कतमा बोधिसत्त्वस्य परिणामना । इह बोधिसत्त्वो यत्किञ्चिदेभिस्त्रिभिर्मुखैरुपचितोपचितं कुशलमूलं सुकृतकर्मान्ततया कौशल्येन परानुग्रहेण च तत्सर्वमतीतानागतप्रत्युत्पन्नमनुत्तरायां सम्यक्संबोधौ घनरसेन प्रसादेन परिणामयति । न तस्य कुशलमूलस्यान्यं फलविपाकं प्रतिकांक्षति नान्य[त्रा]नुत्तरामेव सम्यक्संबोधिम् । ये च केचिद्भगवता गृहिणां वा प्रव्रजितानां वा बोधिसत्त्वानां शिक्षाधर्मा व्यपदिष्टाः सर्वेषां तेषामेष्वेव चतुर्षु संग्रहो वेदितव्यः सुकृतकर्मान्ततायां कौशल्ये परानुग्रहे परिणामनायां च । तस्मादेवं सुकृतकर्मान्तस्य बोधिसत्त्वस्य कुशलस्य परानुग्रहप्रवृत्तस्य परिणामकस्य एवं दुष्प्रापा दुरधिगमा च बोधिरासन्ना समासन्ना वेदितव्या । अतीतानागतप्रत्युत्पन्नेष्वध्वसु ये केचिद्बोधिसत्त्वा गृहि-प्रव्रजित पक्षेषु शिक्षमाणा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धवन्तोऽभिसंभोत्स्यन्तेऽभिसंबुध्यन्ते च सर्वे ते एभिरेव चतुर्भिर्धर्मैः । नात उत्तरि नातो भूयः । एवमपि चतुर्षु धर्मेषु सम्यक्प्रयुक्तो गृही प्रव्रजितो वा बोधिसत्त्वो भवति । अपि तु गृहिणो बोधिसत्त्वस्यान्तिकात्प्रव्रजितस्य बोधिसत्त्वस्य सुमहान् विशेषः । सुमहान्नानाकरणं वेदितव्यम् । तथाहि प्रव्रजितो बोधिसत्त्वः परिमुक्तो भवत्यादित एव तावन्मातापितृपुत्तदारादिकलत्रपरिग्रहदोषात् । अपरिमुक्तस्तु गृही वेदितव्यः । पुनः प्रव्रजितो बोधिसत्त्वः परिमुक्तो भवति तस्यैव परिग्रहस्यार्थे कृषिवणिज्या-राजपौरुष्यादि-परिक्लेशे व्यासङ्गदुःखेभ्यः । अपरिमुक्तस्तु गृही वेदितव्यः । पुनः प्रव्रजितो बोधिसत्त्व एकान्तसङ्कलीकृतं ब्रह्मचर्यं शक्नोति चरितुं [न तु] गृही बोधिसत्त्वः । पुनः प्रव्रजितो बोधिसत्त्वः
सर्वेषु बोधिपक्ष्येषु धर्मेषु क्षिप्राभिज्ञो भवति । यद्यदेव कुशलमारभते तत्र तत्रैव लघुलध्वेव निष्ठां गच्छति । न तु तथा गृही बोधिसत्त्वः । पुनः प्रव्रजितो बोधिसत्त्वः परेषां व्रतनियमे स्थितत्वादादेयवचनो भवति । न तु तथा गृही बोधिसत्त्वः । इत्येवंभागीयैर्धर्मैः सुमहदन्तरं गृहि-प्रव्रजितयोर्बोधिसत्त्वयोर्वेदितव्यम् ।

इति बोधिसत्त्वभुमावाधारानुधर्मे योगस्थाने द्वितीयं पक्षपटलम् ।


(दुत्त्२१४)
अध्याशयपटलम् (अध्याय २.३)

उद्दानम् ।

वात्सल्यं सर्वसत्त्वेषु सप्ताकारं हि धीमताम् ।
पञ्चदशाशयास्तेषां दश कृत्यकरा मताः ॥

सप्ताकारं बोधिसत्त्वानां सत्त्वेषु वात्सल्यं प्रवर्तते येन वात्सल्येनोपेता बोधिसत्त्वाः कल्याणाशयाः परमकल्याणाशया इत्युच्यन्ते । सप्ताकारं वात्सल्यं कतमत् । अभयं युक्तमखेदमयाचितमनामिषं विस्तीर्णं समञ्चेति । न हि बोधिसत्त्वः कस्यचिद्भयाद्वत्सलो भवति । आनुलोमिकेन कायवाङ्मनस्कर्मणा समुदाचरति मनापेन हितसुखेन च । न च पुनर्बोधिसत्त्वस्य सत्त्वेषु योगरहितं वात्सल्यं प्रवर्तते तद्यथा अधर्मेऽविनयेऽसत्यसमुदाचारे अस्थाने समादापनतायै । तथा च बोधिसत्त्वो वत्सलो भवति सत्त्वेषु यथा तेषामर्थे सर्वारम्भैर्न परिखिद्यते । अयाचित एव च बोधिसत्त्वः सत्त्वेषु वत्सलो भवति न तु केनचिद्याचितः । निरामिषेण च चित्तेन वत्सलो [भवति] न परतः प्रत्युपकारं प्रतिकांक्षमाणः परत्र च विपाकमिष्टं प्रत्याशंसमान इति निष्कारणवत्सलो भवति सत्त्वेषु बोधिसत्त्वः । विपुलञ्च तद्बोधिसत्त्वस्य वात्सल्यं भवति सत्त्वेषु न परीत्तम् । तथा च विपुलं भवति यथैषां सत्त्वानामन्तिकाद्बोधिसत्त्वः सर्वाकारमप्यपकारं लभमानो नोत्सृजति आत्मानं काममप्रियं करोति । न तु केनचित्पर्यायेण परेषां पापकर्मेच्छति । तत्पुनरेवं लक्षणमेव गुणयुक्तं वात्सल्यं बोधिसत्त्वानां सर्वसत्त्वेष्वेव सममासमन्त सत्त्वधातुप्रादेशिकः । एवमनेन सप्ताकारेणैव वात्सल्येन युक्ता बोधिसत्त्वाः कल्याणाशयाः परमकल्याणाशया इत्युच्यन्ते ।

(दुत्त्२१५)
तत्र श्रद्धापूर्वंको धर्मविचयपूर्वकश्च बुद्धधर्मेषु योऽधिमोक्षः प्रत्यवगमो निश्चयो बोधिसत्त्वस्य सोऽध्याशय इत्युच्यते । ते पुनरध्याशया बोधिसत्त्वस्य समासतः पञ्चदश वेदितव्याः । कतमे पञ्चदश । अग्र्याशयो वृत्ताशयः पारमिताशयः तत्त्वार्थाशयः प्रभावाशयः हिताशयः सुखाशयो विनिर्मुक्ताशयः दृढाशयः अविसंवादनाशयः अशुद्धाशयः शुद्धाशयः सुशुद्धाशयः निगृहीताशयः सहजश्चाशयः । तत्र यो बुद्धधर्मसंघरत्नेषु बोधिसत्त्वस्याध्याशयः सोऽग्र्याशय इत्युच्यते । बोधिसत्त्वशीलसंवरसमादाने योऽध्याशयोऽयं वृत्ताशय इत्युच्यते । दानशीलक्षान्तिवीर्यध्यानप्रज्ञासमुदागमाय योऽध्याशयोऽयं पारमिताशय इत्युच्यते । धर्मपुग्दलनैरात्म्ये परमार्थे च धर्मतथतायां गम्भीरायां योऽध्याशयोऽयं तत्त्वार्थाशय इत्युच्यते । बुद्धबोधिसत्त्वानामचिन्त्येऽभिज्ञाप्रभावे सहजे वा प्रभावे योऽध्याशयोऽयं प्रभावाशय इत्युच्यते । सत्त्वेषु कुशलोपसंहर्तुकामता हिताशय इत्युच्यते । सत्त्वेष्वेवानुग्रहोपसंहर्तुकामता सुखाशय इत्युच्यते । सत्त्वेष्वेव निरामिषचित्तता इष्टे च विपाके निष्प्रतिबद्धचित्तता विनिर्मुक्ताशय इत्युच्यते । अनुत्तरायां सम्यक्संबोधौ या चितैकान्तिकतायं दृढाशय इत्युच्यते । सत्त्वार्थोपाये बोध्युपाये अविपरीतज्ञानसहगतोऽधिमोक्षः अविसंवादनाशय इत्युच्यते । सर्वस्यामधिमुक्तिवर्याभूमौ योऽध्याशयो बोधिसत्त्वानां सोऽशुद्धाशय इत्युच्यते । शुद्धाशयभूमिमुपादाय यावन्नियतचर्याभूमेरध्याशयो बोधिसत्त्वानां शुद्धाशय इत्युच्यते । निष्ठागमनभूमावध्याशयो बोधिसत्त्वानां सुशुद्धाशय इत्युच्यते । तत्र यो हि [अ]शुद्धाशयः स एव निगृही[ताशय] इत्युच्यते प्रतिसंख्यानकरणीयतया । यः पुनः शुद्धः सुशुद्धश्चाध्याशयः
स सहजोऽध्याशय इत्युच्यते प्रकृत्या तन्मयतया आश्रयसुसंनिविष्टतया च ।

इत्येभिर्बोधिसत्त्वाः पञ्चदशभिः कल्याणैरध्याशयैः सर्वभूमिगतैः समासतो दशकृत्यानि कुर्वन्ति । कतमानि दश । अग्र्याशयेन रत्नपूजां सर्वाकारां प्रयोजयन्ति सर्वबोधिसम्भाराणामग्र्यभूताम् । वृत्ताशयेन बोधिसत्त्वशीलसंवरसमादाने (दुत्त्२१६) जीवितहेतोरपि [न] संचिन्त्यापत्तिमापद्यन्ते । आपन्नाश्च त्वरितत्वरितं प्रतिदेशयन्ति । पारमिताशयेन कुशलानां धर्माणां भावनासातत्यक्रिययाऽप्रमादविहारिणो भवन्ति परमाप्रमादविहारिणश्च । तत्त्वार्थाध्याशयेनासंक्लिष्टचित्ताश्च संसारे सत्त्वहेतोः संसरन्ति । अविनिर्मुक्त-निर्वाणाध्याशयाश्च भवन्ति । प्रभावाध्याशयेन घनरसं च शासने प्रसादं प्रवेदयन्ति । भावनायां च सारसंज्ञिनः स्पृहाजाता बहुलं विहरन्ति । न तु श्रुतमात्रचिन्तामात्रसंतुष्टाः । हिताशयेन सुखाशयेन विनिर्मुक्ताशयेन च सर्वाकरासु सत्त्वार्थक्रियासु प्रयुज्यन्ते । प्रयुक्ताश्च न परिखिद्यन्ते । दृढाशयेन उत्तप्तवीर्या विपुलवीर्याः समारम्भा विहरन्ति । न शिथिलप्रयोगाः । न छिद्रप्रयोगाः । अविसंवादनाध्याशयेन क्षिप्राभिज्ञा भवन्ति तेषु तेषु कुशलधर्माभिनिर्हारेषु । न चाल्पमात्रकेणावरमात्रकेण हीनेन विशेषाधिगमेन तुष्टिमापद्यन्ते । निगृहीतेनाध्याशयेन सहजाध्याशयमाकर्षन्ति । सहजेन पुनरध्याशयेन क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते अर्थाय हिताय सुखाय देवमनुष्याणाम् । तत्र ये केचिद्भगवता बोधिसत्त्वानामध्याशया आख्याताः प्रज्ञप्ताः प्रकाशितास्तेषु तेष्वधिकरणेषु तेषां सर्वेषामेभिरेव पञ्चदशभिरध्याशयैः संग्रहो वेदितव्यः । तस्मादतीतानागतप्रत्युत्पन्नेष्वध्वसु ये बोधिसत्त्वाः कल्याणैरध्याशयैरनुत्तरां सम्यक्संबोधिमभिसंबुद्धवन्तोऽभिसंभोत्स्यन्ते
ऽभिसंबुध्यन्ते च सर्वे त एभिरेव पञ्चदशभिरध्याशयैः । नात उत्तरि नातो भूयः । एवमेते पञ्चदश बोधिसत्त्वाध्याशया महाफलानुशंसाः । तस्मात्तानाश्रित्य बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिमधिगच्छेदिति ।

इति बोधिसत्त्वभूमावाधारानुधर्मे योगस्थाने तृतीयमध्याशयपटलम् ।


(दुत्त्२१७)
विहारपटलम् (अध्याय २.४)

उद्दानम् ।

गोत्रं तथाऽधिमुक्तिश्च प्रमुदितोऽधिशीलमधिचितम् ।
त्रयः प्रज्ञा द्वे अनिमित्तेसाभोगश्च अनाभोगश्च ।
प्रतिसंविदश्च परमश्च स्यात्तथागतोत्तमो विहारः ॥

एवं गोत्रसंपदमुपादाय यथोक्तायां बोधिसत्त्वशिक्षायां शिक्षमाणानां यथोक्तेषु च बोधिसत्त्वलिङ्गेषु संदृश्यमानानां बोधिसत्त्वपक्ष्यप्रयोगेषु च सम्यक्प्रयुक्तानां बोधिसत्त्वाध्याशयाञ्च यथोक्तां विशोधयतां बोधिसत्त्वानां समासतो द्वादशबोधिसत्त्वविहारा भवन्ति । यैर्बोधिसत्त्वविहारैः सर्वा बोधिसत्त्वचर्या संगृहीता वेदितव्याः । त्रयोदशश्च तथागतो विहारो योऽस्य भवत्यभिसंबोधेर्निरुत्तरो विहारः ।
तत्र द्वादशबोधिसत्त्वविहाराः कतमे । [गोत्रविहारः ।] अधिमुक्तिचर्याविहारः । प्रमुदितविहारः । अधिशीलविहारः । अधिचित्तविहारः । अधिप्रज्ञविहारास्त्रयः । बोधिपक्ष्यप्रतिसंयुक्तः । सत्यप्रतिसंयुक्तः । प्रतीत्यसमुत्पादप्रवृत्तिनिवृत्तिप्रतिसंयुक्तश्च । इति येन [च] बोधिसत्त्वस्तत्त्वं पश्यति यञ्च तत्त्वं पश्यति तस्य च तत्त्वस्याज्ञानाद्यथा प्रवृत्तिर्दुःखस्य ज्ञानाच्च पुनरप्रवृत्तिर्दुःखस्य भवति सत्त्वानाम् । तदेतद्बोधिसत्त्वस्य त्रिभिर्मुखैः प्रज्ञया व्यवचारयतः त्रयोरधिप्रज्ञविहारा भवन्ति । साभिसंस्कारःसाभागो निश्छिद्रमार्गवाहनो निर्निमित्तो विहारः । अनभिसंस्कारोऽनाभोगमार्गवाहनो निर्निमित्त एव विहारः । [प्रतिसंविद्विहारः] परमश्च परिनिष्पन्नो बोधिसत्त्वविहारः । इमे ते द्वादश[विधा] बोधिसत्त्वानां बोधिसत्त्वविहाराः । यैर्विहारैरेषां सर्वविहारसंग्रहः सर्वबोधिसत्त्वचर्यासंग्रहो भवति । ताथागतः (दुत्त्२१८) पुनर्विहारो यः सर्वबोधिसत्त्वविहारसमतिक्रान्तस्याभिसंबुद्धबोधेर्विहारः तत्र तथागतस्य पश्चिमस्य विहारस्य प्रतिष्ठायोगस्थाने पश्चिमे साकल्येन निर्देशो भविष्यति ।

द्वादशानां पुनर्बोधिसत्त्वविहाराणां यथा व्यवस्थानं भवति तथा निर्देक्षामि ।

कतमश्च बोधिसत्त्वस्य गोत्रविहारः । कथं च बोधिसत्त्वो गोत्रस्थो विहरति । इह बोधिसत्त्वो गोत्रविहारी प्रकृतिभद्रसन्तानतया प्रकृत्या बोधिसत्त्वगुणैर्बोधिसत्त्वार्हैः कुशलैर्धर्मैः समन्वागतो भवति । तत्समुदाचारे संदृश्यते । प्रकृतिभद्रतयैव न हठयोगेन तस्मिन् कुशले प्रवर्त्तते । अपि तु प्रतिसंख्यानतः सावग्रहः सम्भृतो भवति । सर्वेषां च बुद्धधर्माणां गोत्रविहारी बोधिसत्त्वो बीजधरो भवति । सर्वबुद्धधर्माणामस्य [सर्व]बीजान्यात्मभावगतान्याश्रयगतानि विद्यन्ते । औदारिकमलविगतश्च बोधिसत्त्वो गोत्रविहारी भवति । अभव्यः स तद्रूपं [सं]क्लेशपर्यवस्थानं सम्मुखीकर्तुम् । येन पर्यवस्थानेन पर्यवस्थितः अन्यतमदानन्तर्यकर्म समुदाचरेत् । कुशलमूलानि वा समुच्छिन्द्यात् । यश्च विधिर्गोत्रस्थस्य गोत्रपटले निर्दिष्टः । स गोत्रविहारिणो बोधिसत्त्वस्य विस्तरेण वेदितव्यः । [इति] अयमुच्यते बोधिसत्त्वस्य गोत्रविहारः ।

तत्र कतमो बोधिसत्त्वस्याधिमुक्तिचर्याविहारः । इह बोधिसत्त्वस्य प्रथमं चित्तोत्पादमुपादाय अशुद्धाध्याशयस्य या काचिद्बोधिसत्त्वचर्या अयमस्याधिमुक्तिचर्याविहार इत्युच्यते । तत्र गोत्रविहारी बोधिसत्त्वस्तदन्येषां [सर्वेषां] बोधिसत्त्वविहाराणामेकादशानां ताथागतस्य च विहारस्य हेतुमात्रे वर्तते हेतु परिग्रहेण । नो तु तेन कश्चितु तदन्यो बोधिसत्त्वविहार आरब्धो भवति न प्रतिलब्धो न विशोधितः । कुतः पुनस्तथागतविहारः । अधिमुक्तिचर्याविहारिणा पुनर्बोधिसत्त्वेन सर्वे बोधिसत्त्वविहारास्ताथागतश्च विहार आरब्धा भवन्ति (दुत्त्२१९) नो तु प्रतिलब्धा न विशोधिताः । स एव त्वधिमुक्तिचर्याविहारः प्रतिलब्धो भवति । तस्यैव चायं विशुद्धये प्रतिपन्नः । अधिमुक्तिचर्याविहारे परिशुद्धे प्रमुदितविहारं पूर्वारब्धमेव प्रतिलभते । तस्यैव च विशुद्धये प्रतिपन्नो भवति । प्रमुदित विहारे परिशुद्धेऽधिशीलविहारं पूर्वारब्धमेव प्रतिलभते । तस्यैव च विशुद्धये प्रतिपन्नो भवति । एवं विस्तरेण यावत्परमः परनिष्पन्नो बोधिसत्त्वविहारो वेदितव्यः । परमे परिनिष्पन्ने बोधिसत्त्वविहारे परिशुद्धेऽनन्तरं पूर्वारब्धस्य तातथागतस्य विहारस्य सकृत्प्रतिलम्भो विशुद्धिश्च वेदितव्या । इदं ताथागतविहारे बोधिसत्त्वविहारेभ्यो विशेषणं वेदितव्यम् ।

तत्र कतमो बोधिसत्त्वस्य प्रमुदितविहारः । यः शुद्धाशयस्य बोधिसत्त्वस्य विहारः । तत्र कतमो बोधिसत्त्वस्याधिशीलविहारः । योऽध्याशयशुद्धिनिदानेन प्रकृतिशीलेन संयुक्तस्तस्य विहारः । तत्र कतमो बोधिसत्त्वस्याधिचित्तविहारः । योऽधिशीलविहार विशुद्धिनिदानैलौकिकध्यानसमाधिसमापत्तिभिर्विहारः । तत्र कतमो बोधिसत्त्वस्य बोधिपक्ष्यप्रतिसंयुक्तोऽधिप्रज्ञविहारः । यो लौकिकं ज्ञानविशुद्धिसन्निश्रयभूतं समाधिं निश्रृत्य सत्यावबोधाय सम्यक्स्मृत्युपस्थानादीनां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणां प्रविचयविहारः ।

तत्र कतमो बोधिसत्त्वस्य सत्यप्रतिसंयुक्तोऽधिप्रज्ञविहारः । यो बोधिपक्ष्यप्रविचयं निश्रित्य यथावत्सत्यावबोधविहारः । तत्र कतमो बोधिसत्त्वस्य प्रतीत्यसमुत्पादप्रवृत्तिनिवृत्तिप्रतिसंयुक्तोऽधिप्रज्ञविहारः । यस्तमेव सत्यावबोध[मधि]पतिं कृत्वा तदज्ञानात्सहेतुकदुःखप्रवृति । प्रविचयप्रभावितस्तज्ज्ञानाच्च सहेतुकदुःखनिरोधप्रविचयप्रभावितो विहारः ।

तत्र कतमो बोधिसत्त्वानां साभिसंस्कारः साभोगो निर्निमित्तो विहारः । यस्तमेव त्रिविधमप्यधिप्रज्ञविहारमधिपतिं कृत्वाऽभिसंस्कारेणाभोगेन निश्छिद्रनिरन्तरः सर्वधर्मेषु तथता-निर्विकल्पप्रज्ञाभावना सहगतो विहारः ।

तत्र कतमो बोधिसत्त्वानामनभिसंस्कारोऽनाभोगो निर्निमित्तो विहारः । (दुत्त्२२०) यस्तस्यैव पूर्वकस्य निर्निमित्तस्य विहारस्य भावना-बाहुल्यात्स्वरसेनैव निश्छिद्रनिरन्तर-वाहिर्मार्गानुगतो विहारः ।

तत्र कतमो बोधिसत्त्वानां प्रविसंविद्विहारः । यस्तमेव सुपरिशुद्धं निश्चलं प्रज्ञासमाधिं निश्रित्य महामतिवैपुल्यमनुप्राप्तस्य परेषां धर्मसमाख्यानानुत्तर्यमारभ्य धर्माणां पर्यायार्थ-निर्वचनप्रभेदप्रविचयविहारः ।

तत्र कतमो बोधिसत्त्वस्य परमो विहारः । यत्र स्थितो बोधिसत्त्वो बोधिसत्त्वमार्गनिष्ठागतोऽनुत्तरायां सम्यक्संबोधौ महाधर्माभिषेकप्राप्त एकजातिप्रतिबद्धो वा भवति चरमभविको वा । यस्य विहारस्यानन्तरं संहितमेवानुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वबुद्धकार्यं करोति । तत्राधिमुक्तिचर्याविहारे [बोधिसत्त्वो] बोधिसत्त्वभावनायां परीत्तकारी भवति च्छिद्रकारी अनियतकारी पुनर्लाभपरिहाणितः । प्रमुदितविहारे बोधिसत्त्वस्तस्यामेव बोधिसत्त्वभावनायां विपुलकारी भवत्यच्छिद्रकारी नियतकारी यथाप्रतिलब्धापरिहाणितः । यथा प्रमुदितविहारे एवं यावत्त्रिष्वधिप्रज्ञविहारेषु । प्रथर्म निर्निमित्तं विहारमुपादाय यावत्परमाद्बोधिसत्त्वविहाराद्बोधिसत्त्वो बोधिसत्त्वभावनायामप्रमाणकारी भवत्यच्छिद्रकारी नियतकारी च । तत्राधिमुक्तिचर्याविहारे बोधिसत्त्व-निर्निमित्तभावनायाः समारम्भो वेदितव्यः । प्रमुदितविहारेऽघिशीलाधिचित्ताधिप्रज्ञविहारेषु च तस्या बोधिसत्त्व-निर्निमित्तभावनायाः प्रतिलम्भो वेदितव्यः । प्रथमेऽनिमित्तविहारे समुदागमो द्वितीयेऽनिमित्तविहारे बोधिसत्त्व-निर्निमित्तभावनायाः परिशुद्धिर्वेदितव्या । प्रतिसंविद्विहारे परमे च विहारे तस्या एव बोधिसत्त्व-निर्निमित्त-भावनायाः फलप्रत्यनुभावना वेदितव्या ।

अधिमुक्तिचर्याविहारे वर्तमानस्य बोधिसत्त्वस्य के आकाराः कानि लिंगानि कानि निमित्तानि भवन्ति । अधिमुक्तिचर्या-विहारे वर्तमानो बोधिसत्त्वः प्रतिसंख्यानबलिको भवति । बोधिसत्त्वकृत्यप्रयोगेषु प्रतिसंख्याय प्रज्ञया प्रयुज्यते । नो तु प्रकृत्या तन्मयतया । दृढायाः स्थिरायाः अविवर्तया बोधिसत्त्वभावनायाः अलाभी भवति । यथा भावनाया एवं भावनाफलस्य विविधानां प्रतिसंविदभिज्ञाविमोक्षसमाधिसमापत्तीनाम् । (दुत्त्२२१) पञ्च च भयान्यसमतिक्रान्तो भवति । अजीविकाभयमश्लोकभयं मरणभयं दुर्गतिभयं परिषद्शारद्यभयं च । प्रतिसंख्याय च सत्त्वार्थेषु प्रयुज्यते न प्रकृत्यनुकम्पा-प्रेमतया । एकदा च सत्त्वेषु मिथ्यापि प्रतिपद्यते कायेन वाचा मनसा । एकदा विषयेष्वप्यध्यवसितो भवति । एकदा आगृहीत-परिष्कारतायामपि संदृश्यते । श्रद्धागामी च भवति परेषां बुद्धबोधिसत्त्वानाम् । नो तु प्रत्यात्मं तत्त्वज्ञो भवति यदुत तथागतं वा आरभ्य धर्मं वा संघं वा तत्त्वार्थं वा बुद्धबोधिसत्त्वप्रभावं वा हेतुं वा फलं वा प्राप्तव्यं वाऽर्थं प्राप्त्युपायं वा गोचरं वा । परीत्तेन च श्रुतमयचिन्तामयेन ज्ञानेन समन्वागतो भवति नाप्रमाणेन । तदपि चास्यैकदा संप्रमुष्यते । संप्रमोषधर्मो च भवति । दुःखया च धन्धाभिज्ञया बोधिसत्त्व-प्रतिपदा समन्वागतो भवति । न च तीव्रच्छन्दो भवति महाबोधौ । नोत्तप्तवीर्यो न गम्भीरसुसन्निविष्टप्रसादः । त्रिषु च स्थानेषु मुषित-स्मृतिर्भवति । विषयेषु मनापामनापेषु रूपशब्दगन्धरसस्प्रष्टव्यधर्मेष्वेकदा विपर्यस्तचित्ततायाः । उपपत्तौ तत्र तत्रात्मभावान्तरे प्रत्याजातस्य पूर्वकात्मभावविस्मरणात् । उद्दिष्टानामुद्गृहीतानां
धर्माणां चिरकृतचिरभाषितस्य चैकदा विस्मरणात् । एवमेषु त्रिषु स्थानेषु मुषितस्मृतिर्भवति । एकदा च मेधावी भवति धर्माणामुद्ग्रहणधारणार्थप्रवेशसमर्थः । एकदा न तथा । एकदा स्मृतिमान् भवति । एकदा मुषितस्मृतिजातीयः । न च सत्त्वानां यथावद्विनयोपायाभिज्ञो भवति । नाप्यात्मनो बुद्धधर्माभिनिर्हारोपायाभिज्ञः । हठेन च परेषां धर्मं देशयति । अववादानुशासनीं वा प्रवर्तयति । सा चास्य हठेन प्रवर्तिता न यथाभूतमाज्ञाय । एकदा च वन्ध्या भवत्येकदा चावन्ध्या । रात्रिक्षिप्तानामिव शराणां यदृच्छासिद्धितामुपादाय । एकदा च चित्तमप्युत्पादितं महाबोधादुत्सृजति । एकदा च बोधिसत्त्वशीलसंवरसमादानान्निवर्तते नोत्सहते वा । एकदा सत्त्वार्थक्रियाप्रयुक्तोऽपि खेदमन्तरा कृत्वा तस्मात्सत्त्वार्थक्रियाप्रयोगात्प्रतिनिवर्तते । आशयतश्चात्मनः सुखकामो भवति प्रतिसंख्याय च परसुखकामः । बोधिसत्त्वस्खलितेषु च परिज्ञाबहुलो भवति । नो तु परिज्ञाय परिज्ञायाशेष-प्रहाणवान् पुनः पुनः स्खलिताध्याचारतया । एकदा नेयश्च भवत्यस्माद्बोधिसत्त्वपिटकधर्मविनयात् । (दुत्त्२२२) एकदा गम्भीरामुदारां धर्मदेशनां श्रुत्वा उत्व्रस्यति । भवति चास्य चेतसो विकम्पितत्वं विमतिः सन्देहश्च । सर्वेण च सर्वं महाकरुणासमुदाचारविवर्जितो भवति सत्त्वेषु । अल्पेन च हितसुखोपसंहारेण सत्त्वेषु प्रत्युपस्थितो भवति । न विपुलेन नाप्रमेयेण च सर्वासु परिपूर्णासु यथानिर्दिष्टासु बोधिसत्त्वशिक्षासु शिक्षते । न च सर्वैः परिपूर्णैर्यथानिर्दिष्टैर्बोधिसत्त्वलिङ्गैः समन्वागतो भवति । न च सर्वेषु यथानिर्दिष्टेषु बोधिपक्षप्रयोगेषु परिपूर्णेषु संदृश्यते । दूरे चानुत्तरायां सम्यक्संबोधेरात्मानं प्रत्येति । न च तथा निर्वाणेऽस्याध्याशयः सन्निविष्टो भवति यथा संसारसंसृतौ
। उत्तप्तैरचलैश्च कुशलैर्बोधिपक्ष्यैर्धर्मैरसमन्वागतो भवति । इतीमान्येवंभागीयानि लिङ्गानि निमित्तानीमे आकारा अधिमुक्तिचर्याविहारे वर्तमानस्य बोधिसत्त्वस्य वेदितव्याः । अधिमुक्तिचर्याविहारे मृद्ध्यां क्षान्त्यां वर्तमानस्य बोधिसत्त्वस्यैषां यथा निर्दिष्टानामाकारलिङ्ग-निमित्तानामधिमात्रता वेदितव्या । मध्यायां क्षान्तौ वर्तमानस्य [मध्यता] वेदितव्या । अधिमात्रायां क्षान्तौ वर्तमानस्य बोधिसत्त्वस्यैषामाकारलिङ्गनिमित्तानां मृदुता तनुत्वं वेदितव्यम् । अधिमात्रायामेव क्षान्तौ वर्तमानस्यैषामाकारलिङ्गनिमित्तानामशेषप्रहाणामनन्तरञ्च प्रमुदितविहारप्रवेशो बोधिसत्त्वस्य वेदितव्यः प्रतिलम्भयोगेन । तस्यास्य प्रमुदितविहारविहारिण एते [सर्व]धर्माः सर्वेन सर्वं न भवन्ति येऽधिमुक्तिचर्याविहार-विहारिण आख्याताः । एतद्विपर्ययेण च सर्वे शुक्लपक्ष्या धर्माः संविद्यन्ते । यैरयं समन्वागतो बोधिसत्त्वः शुद्धाशय इत्युच्यते । किञ्चाप्यधिमुक्तिचर्याविहारेऽपि वर्तमानस्य बोधिसत्त्वस्य मृदुमध्याधिमात्रयोगेनोत्तरोत्तरा शुद्धिरधिमोक्षस्यास्ति । न त्वसौ अध्याशयशुद्धिरित्युच्यते । तत्कस्य हेतोः । तथा हि सोऽधिमोक्ष एभिरनेकविधैरुपक्लेशैरुपक्लिष्टः प्रवर्तते । प्रमुदितविहारस्थितस्य तु बोधिसत्त्वस्य सर्वेषामेषामधिमोक्षोपक्लेशानां प्रहाणान्निरूपक्लेशः शुद्धोऽधिमोक्षः प्रवर्तते ।

तत्रप्रमुदितविहारे वर्तमानस्य बोधिसत्त्वस्य के आकाराः कानि लिङ्गानि कानि निमित्तानि वेदितव्यानि । इह बोधिसत्त्वोऽधिमुक्तिचर्याविहारात्प्रमुदितविहारमनुप्रवेशन-पूर्वकञ्च बोधिसत्त्वप्रणिधानमनुत्तरायां सम्यक्संबोधौ असुप्रतिविद्धबोध्य सुप्रतिविद्धबोध्युपायं यद्भूयसा परप्रत्ययगासुनिश्चितं (दुत्त्२२३) प्रहायान्यदभिनवं षड्भिराकारैः सु[वि]निश्चितं प्रत्यात्मं भावानामयं बोधिसत्त्वप्रणिधानमुत्पादयति । सर्वं तदन्यशुल्कप्रणिधान-समतिक्रान्तमतुल्यमसाधारणफलम् । लौकिकं च तत्सर्व[लोक]विषय-समतिक्रान्तं च । सर्वसत्त्वदुःखपरित्राणानुगतत्वात्सर्वश्रावकप्रत्येकबुद्धासाधारणम् । एकक्षण[मात्रं] समुत्पन्ने अपि तस्मिन् प्रणिधाने धर्मप्रकृतिः सा तादृशी याऽप्रमेयशुल्कधर्मेष्टफला भवति बोधिसत्त्वानाम् । निर्विकारञ्च तत्प्रणिधान[म]क्षयम् । नास्य प्रतिलब्धस्य केनचित्पर्यायेण परिहाणिरन्यथाभावो वा उपलभ्यते । विशेषभागीयञ्च तदपरान्तकोटीपतितम् । महाबोधिनिष्ठं तत् ।

पुनरेतत्सुविनिश्चितं बोधिसत्त्वप्रणिधानं चित्तोत्पादे इत्युच्यते । स पुनरेष चित्तोत्पादो बोधिसत्त्वस्य समासतश्चतुर्भिराकारैर्वेदितव्यः । कतमैश्चतुर्भिः । आदित एव तावत्कीदृशानां बोधिसत्त्वानां तच्चित्तमुत्पद्यते । किञ्चालम्ब्योत्पद्यते । कीदृशञ्च किं लक्षणं केनात्मना उत्पद्यते । उत्पन्ने च तस्मिश्चित्ते कोऽनुशंसो भवति । इत्येभिश्चतुर्भिराकारैः स चित्तोत्पादो वेदितव्यः । तत्राधिमुक्तिचर्याविहारिणां सर्वाकारसूपचितकुशलमूलानां समासतः सम्यग्बोधिसत्त्वचर्यानिर्यातानां बोधिसत्त्वानां तच्चित्तमुत्पद्यते । आयत्यां सम्यगाशु सर्वबोधिसम्भारपरिपूरिं सर्वबोधिसत्त्व-सत्त्वार्थक्रियापरिपूरिमनुत्तरसम्यक्संबोधि सर्वाकार-सर्वबुद्धधर्मपरिपूरिं बुद्धकार्यक्रियापरिपूरिं च समासतः आलम्बनीकृत्य तद्बोधिसत्त्वानाञ्चित्तमुत्पद्यते । सम्यगाशु च सर्वाकारसर्वबोधिसंभारानुकूलं सर्वसत्त्वेषु सर्वाकारबोधिसत्त्वकृत्यानुकूलमनुत्तर-सम्यक्संबोधिस्वयंभूज्ञानप्रतिलम्भानुकूलं सर्वाकारबुद्धकृत्यकरणानुकूलं तच्चित्तमुत्पद्यते । तस्य च चित्तस्योत्पादाद्बोधिसत्त्वोऽतिक्रान्तो भवति बालबोधिसत्त्वपृथग्जनभूमिम् । अवक्रान्तो भवति बोधिसत्त्वनियामम् । जातो भवति तथागतकुले । तथागतस्यौरसः पुत्रो भवति । नियतं संबोधिपरायणः तथागतवंशनियतो भवति । स च तथाभूतोऽवेत्यप्रसादप्राप्तः प्रामोद्यबहुलो भवति । असंरम्भाविहिंसाक्रोधबहुलः (दुत्त्२२४) परेषां सर्वाकारां बोधिसत्त्व-सत्त्वार्थक्रियां सर्वाकारां बोधिसंभारपरिपूरिं सर्वाकारां बोधिं बुद्धधर्मांश्च बुद्धकृत्यानुष्ठानं च शुद्धेनाध्याशयेनालम्बनीकुर्वनधिमुच्यमानोऽवतरनेतद्धर्माशु-समुदागमोऽनुकूलताञ्चात्मनः सम्पश्यन् प्रत्यवगच्छन् प्रामोद्यबहुलो भवति । कुशलेनोदारेण नैष्क्रम्योपसंहितेन
निरामिषेणाप्रतिसमेन कायचित्तानुग्राहकेण प्रामोद्येन उत्तप्तैरचलैरस्मि कुशलैर्धर्मैः समन्वागतः । आसन्नीभूतश्चास्म्यनुत्तरायाः सम्यक्सम्बोधेः । विशुद्धश्च मे आध्याशयो महाबोधौ । सर्वाणि च मे भयान्यपगतानि । इति अतोऽपि प्रामोद्यबहुलो भवति । तथा ह्यस्य [सुवि]निश्चितोत्पादितचित्तस्य बोधिसत्त्वस्य पञ्च भयानि प्रहीणानि भवन्ति । सुपरिभावितनैरात्म्यज्ञानस्यात्मसंज्ञा तावन्न प्रवर्तते । कुतः पुनरस्य आत्म[स्नेहो] वा उपकरणस्नेहो वा भविष्यति । अतोऽस्य जीविकाभयं न भवति । न च परेषमन्तिकात्किञ्चित्प्रतिकांक्षति । एवंकामश्च भवति । मयैवैषां सत्त्वानां सर्वार्था उपसंहर्तव्या इति । अतोऽस्य अश्लोकभयं न भवति । आत्मदृष्टिविगमाच्चास्यात्म[विगम]संज्ञा न प्रवर्तते । अतोऽस्य मरणभयं न भवति । मरणात्मे ऊर्ध्वमायत्यां नियतं बुद्धबोधिसत्त्वैः समवधानं भविष्यतीति एवं निश्चितो भवति । अतोऽस्य दुर्गतिभयं न भवति । आत्मनश्च सर्वलोके न पश्यत्याशयेन कञ्चित्समसमम् । कुतः पुनरुत्तरतरमिति । अतोऽस्य परिषच्छारद्यभयं न भवति । स एवं सर्व भयापगतः सर्वगम्भींरनिर्देशत्रासापगतः सर्वोच्छ्रयमानस्तंभापगतः सर्वपरापकारविप्रतिपत्तिषु द्वेषापगतः सर्वलोकामिष हर्षापगतः अक्लिष्टत्वादनुपहतेन उत्तप्तत्वादप्रकृतेनाशयेन सर्वकुशलधर्मसमुदागमाय दृष्टे च धर्मे सर्वाकारं बोधिसत्त्ववीर्यमारभते श्रद्धाधिपतेयं पूर्वङ्गमां कृत्वा । आयत्याञ्च यानि तानि पूर्वनिर्दिष्टानि बोधिपक्ष्यपटले दशमहाप्रणिधानानि तान्यस्मिन् प्रमुदितविहारेऽभिनिर्हृत्याशय-शुद्धितामुपादाय अग्रयसत्त्वदक्षिणीयशास्तृधर्मस्वामिपूजायै महाप्रणिधानं तत्प्रणीत-[सद्]-धर्मसन्धारणाय द्वितीयमनुपूर्वसद्धर्मप्रवर्तनाय तृतीयं तदनुकूल-बोधिसत्त्वचर्याचरणतायै
चतुर्थं तद्भाजनसत्त्वपरिपाचनतायै (दुत्त्२२५) पञ्चमं बुद्धक्षेत्रेषूपसंक्रम्य तथागतदर्शनपर्युपासनसद्धर्मश्रवणतायै षष्ठं स्वबुद्धक्षेत्र-परिशोधनतायै सप्तमं सर्वजातिषु बुद्धबोधिसत्त्वाविरहिततायै बोधिसत्त्वैश्च सहैकाशयप्रयोगितायै अष्टमं सर्वसत्त्वार्थक्रियामोघतायै नवममनुत्तरसम्यक्सम्बोध्यभिसंबुध्यनतायै बुद्धकृत्यकरणतायै च दशमं महाप्रणिधानभिनिर्हरति पारम्पर्येण च सत्त्वधात्वनुपच्छेदवल्लोकधर्मानुपच्छेदवदेषामेव [मे] महाप्रणिधानानां जन्मनि जन्मनि यवद्बोधिपर्यन्तगमनादविगमश्चासंप्रमोषश्चाविसयोगश्च स्यादिति सम्यक्चित्तं प्रणिदधाति । पूर्वकं प्रणिधातव्येऽर्थे प्रणिधानं पश्चिमकं प्रणिधानं वेदितव्यम् । एतान्येव च महाप्रणिधानानि प्रमुखानि कृत्वा तस्य बोधिसत्त्वस्य दशप्रणिधानासंख्येयशतसहस्राण्युत्पद्यन्ते सम्यक्प्रणिधानानाम् ।

तस्यैवमायत्याञ्च प्रणिधानवतः दृष्टे च धर्मे आरब्धवीर्यस्य दशविहारपरिशोधना धर्माः प्रमुदितविहारपरिशुद्धये संवर्तन्ते । सर्वबुद्धधर्मानभिश्रद्दधाति । प्रतीत्यसमुत्पादयोगेन केवलं सत्त्वानां दुःखस्कन्धसमुदागमं पश्यतः करुणा । मयैते सत्त्वा अस्मात्केवलाद्दुःखस्कन्धाद्विमोचयितव्या इति संपश्यतो मैत्री । सर्वदुःखपरित्राणाभिप्रायस्यात्मनिरपेक्षता । तन्निरपेक्षस्य सत्त्वेष्वाध्यात्मिकबाह्यवस्तुपरित्यागः । परतश्च तेषामेव सत्त्वानामर्थे लौकिक-लोकोत्तरधर्मपरिगवेषणोऽखेदः । अखिन्नस्य च सर्वशास्त्रज्ञानसमुदागमविशुद्धितः शास्त्रज्ञता । शास्रज्ञस्य हीनमध्यविशिष्टेषु सत्त्वेषु यथायोगानुरूपप्रतिपत्तितो लोकज्ञता । तेष्वेव प्रयोगेषु कालवेलामात्रादिचर्यामारभ्य ह्री-व्यपत्राप्यता । तेष्वेव च प्रयोगेष्वप्रत्युदावर्तनतया धृतिबलाधानता । लामसत्कारप्रतिपत्तिभ्याञ्च तथागतपूजोपस्थानता । इमे दश धर्मा विहारपरिशुद्धये संवर्तन्ते । यदुत श्रद्धा करुणामैत्रीत्यागः अखेदः शास्त्रज्ञता लोकज्ञता ह्रीव्यपत्राप्यता धृतिबलाधानता तथागतपूजोपस्थानता च ।

(दुत्त्२२६)
स च बोधिसत्त्व एतांश्च धर्मां समादाय वर्तते बहलीकरोति । तदन्येषाञ्च नवानामधिशीलादीनां बोधिसत्त्वविहाराणां सर्वाकारमार्गगुणदोषान् पर्येषते बुद्धबोधिसत्त्वानामन्तिकात् । तदभिज्ञाश्च सुखाविप्रनष्टमार्गः सूद्गृहीताकारप्रतिलम्भनिष्यन्दनिमित्तः । स्वयञ्च सर्वविहारानाक्रम्य महाबोधिमधिगच्छति महासत्त्वसार्थञ्च संसारकान्तारमार्गादुत्तारयति । यैराकारैः प्रवेशति त आकाराः यः प्रवेशः स प्रतिलम्भः । प्रविष्टस्य या [महा]फलानुशंसनिष्पत्तिः समुदागमश्च स निष्यन्दो वेदितव्यः । तस्यास्मिन्विहारे व्यवस्थितस्य द्वाभ्यां कारणाभ्यां बहवो बुद्धा आभासमागच्छन्ति औदारिकदर्शनस्य । ये च तेन श्रुता भवन्ति बोधिसत्त्वपटिके । ये च चेतसाऽधिमुक्ता भवन्ति । सन्ति दशसु दिक्षु नाना-नामसु लोकधातुषु नाना-नामानस्तथागता इति । तानौदारिकप्रसादसहगतेन चेतसा दर्शनायायाचते । तस्य च तथाभूतस्य ऋध्यत्येव । सा आयाचना इदमेकं कारणम् । एवञ्च चित्तं प्रणिदधाति । तत्र बुद्धोत्पादस्तत्र मे जन्म भवेदिति । तस्य तथाभूतस्य ऋध्यत्येव तत्प्रणिधानम् । स एवमौदारिकप्रसाददर्शनतया प्रणिधानबलाधानतया च तांस्तथागतान् दृष्ट्वा सर्वाकारां पूजां सुखोपधानतामुपसंहरति यथाशक्त्या यथाबलं संघसम्माननां च करोति । तेषां च तथागतानामन्तिकाद्धर्मं शृणोति उद्गृहणाति धारयति । धर्मानुधर्मप्रतिपत्त्या च सम्पादयति । तानि च सर्वाणि कुशलमूलानि महाबोधौ परिणामयति । चतुर्भिश्च संग्रहवस्तुभिः सत्त्वान्परिपाचयति । तस्यैभिस्त्रिभिर्विशुद्धिकारणैस्तानि कुशलमूलानि [यद्] भूयस्या मात्राया विशुध्यन्ति तथागतधर्मसंघपूजा-परिग्रह[ण]तया संग्रहवस्तुभिः सत्त्वपरिपाचनतया कुशलमूलानां बोधिपरिणमनतया च यावदनेकानि कल्पकोटीनियुतशतसहस्राणि । तद्यथा सुवर्णं प्रकृतिस्थितं यथा
यथाग्नौ प्रक्षिप्यते दक्षेण कर्मारेण तथा तथा विशुद्धतरतां गच्छति । एवमेवास्याशयशुद्धस्य बोधिसत्त्वस्य तानि कुशलमूलानि तैविंशुद्धिकारणैर्विशुद्धितरतां गच्छन्ति । तत्रस्थश्चासावुपपत्तितो यद्भूयसा चक्रवर्ती भवति जन्मनि (दुत्त्२२७) जन्मनि जम्बुद्वीपेश्वरः । सर्वमात्सर्यमलापगतः प्रभुः सत्त्वानां मात्सर्यविनयनतायै । यच्च किञ्चिच्चतुर्भिः संग्रहवस्तुभिः कर्मारभ्यते तत्सर्वमविरहितं रत्नसर्वाकारबोधिसमुदागम-मनस्कारैः । कश्चिदहं सर्वसत्त्वानामग्र्यः सर्वार्थप्रतिशरणो भवेयमिति । आकांक्षमाणश्च तद्रूपं वीर्यमारभते यत्सर्वगृहकलत्रभोगानुत्सृज्य तथागतशासने प्रव्रजित्वा एकक्षणलवमुहूर्तेन शतं बोधिसत्त्वसमाधीनां समापद्यते । तथागतशतं नानाबुद्धक्षेत्रेषु दिव्येन चक्षुषा पश्यति । तेषां च निर्मिताधिष्ठानं बोधिसत्त्वाधिष्ठाञ्च जानाति । लोकधातुशतं च कम्पयति । तथा कायेनाक्रामते । आभया स्फरित्वा परेषामुपदर्शयति । विनेयसत्त्वशतं निर्मितशतेन परिपाचयति । कल्पशतमप्याकांक्षमाणः स्थानमधितिष्ठति । कल्पशतं च पूर्वान्तापरान्ततो ज्ञानदर्शनेन प्रविशति । [धर्ममुखशतं च] प्रविचिनोति स्कन्धधात्वायतनादिकानां धर्ममुखानाम् । कायशतं च निर्मिमीते । कायञ्च कायं बोधिसत्त्वशतपरिवारमादर्शयति अतःपरं प्रणिधानबलेनाप्रमाणा प्रभावविकुर्वणा बोधिसत्त्वानां वेदितव्या अस्मिन् प्रमुदितविहारे स्थितानाम् । प्रणिधानबलिका हि ते प्रणिधानविशेषैर्विकुर्वन्ति । तेषां सम्यक्प्रणिधानां न सुकरां संख्या कर्तु यावत्कल्पकोटीनियुतशतसहस्रैरपि । एवमयं बोधिसत्त्वानां प्रमुदितविहारः सुविनिश्चित[तः] चतुराकारः चित्तोत्पादतः
सम्यक्प्रणिधानवीर्यारम्भाभिनिर्हारतः विहारपरिशोधनतस्तदन्यविहारव्युत्पत्तितः कुशलमूलपरिशोधनतः उपपत्तितः प्रभावतश्च समासनिर्देशतो वेदितव्यः । विस्तरनिर्देश[तः] पुनर्यथासूत्रमेव दशभूमिके प्रमुदितभूमिनिर्देशमारभ्य । याश्च दशभूमिके सूत्रे दश बोधिसत्त्वभूमयः त इह बोधिसत्त्वपिटके मातृकानिर्देश-दश-बोधिसत्त्वविहारा यथाक्रमं प्रमुदितविहारमुपादाय यावत्परमविहाराद्वेदितव्याः । तत्र बोधिसत्त्वानां परिग्रहार्थेन भूमिरित्युच्यते । उपभोगवासार्थेन पुनर्विहार इत्युच्यते ।

तत्र कतमे बोधिसत्त्वानामधिशीलविहारस्य आकाराः कानि लिङ्गानि कानि निमित्तनि वेदितव्यानि । इह बोधिसत्त्वेन पूर्वमेव प्रमुदितविहारे दशाकारेण (दुत्त्२२८) चित्ताशयेनाशयशुद्धिः प्रतिलब्धा भवति । सर्वाचार्यगुरुदक्षिणीयाविसंवादना[ध्या]शयः । सहधार्मिकबोधिसत्त्वसौरत्यसुखसंवासाशयः । सर्वक्लेशोपक्लेशमारकर्माभिभव-स्वचित्तवशवर्तनाशयः । सर्वसंस्कारेषु दोषाशयः निर्वाणेऽनुशंसाशयः । कुशलानां बोधिपक्ष्याणां धर्माणां भावनासातत्याशयः । तेषामेव च भावनानुकूलतया प्राविविक्याशयः । सर्वलौकामिषसमुच्छ्रयलाभसत्कारनिरपेक्षाशयः । हीनयानमपहाय महायानाधिगमाशयः सर्वसत्त्वसर्वार्थकरणाशयश्च । इतीमे दश सम्यगाशयास्तस्मिंश्चित्ते प्रवृत्ता भवन्ति । यैरस्याशयः शुद्ध इत्युच्यते । एषामेव चाशयानामधिमात्रत्वात्परिपूर्णत्वात्द्वितीयमधिशीलविहारं बोधिसत्त्वः प्रविशत्याक्रमते । सोऽधिशीलविहारे प्रकृतिशीली भवति । स्वल्पमपि मिथ्याकर्मपथसंगृहीतदौःशील्यं न समुदाचरति । प्रागेव मध्यमधिमात्रं वा । दशसु च परिपूर्णेषु [कुशलेषु] कर्मपथेषु प्रकृत्या संदृश्यते । स एवं प्रकृतिशीली प्रज्ञया क्लिष्टाक्लिष्टानां कर्मपथानां दुर्गतिसुगतियानेषु कर्मसमुदाचारे हेतुफलसमुदागमव्यवस्थानं यथाभूतं प्रजानाति । विपाकनिष्यन्दफल[त]श्च तानि कर्माणि यथाभूतं प्रजानाति । स स्वयं चाकुशलकर्मप्रहाणे कुशलकर्मसमादाने संदृश्यते । परांश्च तत्रैव समादापयितुकामो भवति समादापयति च विषमकर्मसमाचारदोषदुष्टञ्च सत्त्वधातुं सर्वमविशेषेण सम्पत्तिविपत्तिगतं परमार्थतो दुःखितं व्यसनस्थं विचित्रैर्व्यसनाकारैरनुकम्पमानो
ऽनुकम्पावैपुल्यमनुप्राप्तः प्रत्यवेक्षते । तस्यास्मिनधिशीलविहारे व्यवस्थितस्य बुद्धदर्शनं कुशलमूलविशुद्धिः पूर्ववद्वेदितव्या । तत्रायं विशेषः । तद्यथा तदेव सुवर्णं कुशलेन कर्मकारेण कासीसं ग्रक्षिप्तं भूयस्या मात्रया विशुद्धतरं भवत्यग्नौ प्रक्षिप्यमाणम् । एवमस्य बोधिसत्त्वस्य सा कुशलमूलविशुद्धिर्वेदितव्या । अस्मिंश्च विहारे शुद्धचित्ताशयनिष्पत्तिप्रवेशत उपपत्ति[त]श्चातुर्द्वीपकश्चक्रवर्ती भवति । यद्भूयसा बाहुल्येन च दौःशील्यादकुशलेभ्यः कर्मपथेभ्यः सत्त्वान् व्यावर्तयति । कुशलेषु च कर्मपथेषु समादापयति । प्रभावोऽप्यस्य पूर्वकाद्दशगुणो वेदितव्यः । इत्येवं बोधिसत्त्वानामधिशीलविहारः । प्रकृतिशीलतश्च सर्वाकारदौःशील्यमलापकर्षतश्च सर्वकर्मपथसर्वाकारहेतुफलज्ञानप्रतिवेधतश्च शुभे कर्मणी परसमादापनकामश्चानुकम्पावैपुल्यप्रतिलम्भतश्च (दुत्त्२२९) सत्त्वधातुकर्मजदुःखव्यसनालोचनतश्च कुशलमूलविशुद्धितश्च उपपत्तितश्च प्रभावतश्च समासनिर्देशतो वेदितव्यः । विस्तरनिर्देशतः पुनर्यथा सूत्रमेव यथा दशभूमिके विमलायां भूमौ दौःशील्यमलापगतत्वात्विमला भूमिरित्युच्यते । दौःशील्यमलापगतत्वातेवाधिशीलविहार इति । या तत्र विमला भूमिः सेहाधिशीलविहारो वेदितव्यः ।

तत्र कतमे बोधिसत्त्वानामाकाराः कानि लिङ्गानि कानि निमित्तानि अधिचित्तविहारस्य । इह बोधिसत्त्वेन पूर्वमेवाधिशीलविहारे ते दश शुद्धाशया मनसिकृता भवन्ति जुष्टाः प्रतिविद्धाः । दशभिरपरैराकारैस्तेषां चित्ताशयमनसिकाराणामधिमात्रत्वात्परिपूर्णत्वादधिशीलविहारं समतिक्रम्याधिचित्तविहारमनुप्रविशति । शुद्धो मे दशभिराकारैश्चित्ताशय इति मनसिकारेण । अभव्यश्चाहं तस्माद्दशाकारात्त्छुद्धाशयात्परिहाणायेति मनसिकारेण । सर्वास्रवसास्रवेषु मे धर्मेषु चित्तं न प्रस्कन्दति प्रतिकूलतायां च सन्तिष्ठत इति मनसिकारेण । तत्प्रतिपक्षभावनायां च मे विज्ञानं संस्थितमिति मनसिकारेण । अभव्यश्चाहमस्मात्प्रतिपक्षात्पुनः परिहाणायेति मनसिकारेण । अभव्यश्चाहमेवं दृढप्रतिपक्षस्तैः सर्वास्रवसास्रवैर्धर्मैः सर्वमारैश्चाभिभवितुमिति मनसिकारेण । असंलीनं च मे मानसं प्रवर्तते सर्वबुद्धधर्मेष्विति मनसिकारेण । सर्वदुष्करचर्यासु च मे नास्ति व्यथेति मनसिकारेण । अधिमुक्तं च मे महायाने चित्तमेकान्तेन न तदन्यहीनयानेष्विति मनसिकारेण । सर्वसत्त्वार्थक्रियाभिरतञ्च मे चित्तमिति मनसिकारेण । एभिर्दशभिश्चित्ताशयमनसिकारैः प्रविशति ।

अधिचित्तविहारस्थितो बोधिसत्त्वः सर्वसंस्कारानादीनवाकारैर्विचित्रैर्विदूषयति । तेभ्यश्च मानसमुद्वेजयति । बुद्धज्ञाने चानुशंसदर्शी भवति विचित्रैरनुशंसाकारैः । तत्र च स्पृहाजातो भवति घनरसेन च्छन्देन । सत्त्वधातुं दुःखितं व्यवलोकयति विचित्रैर्दुःखाकारैः । तेषु च सत्त्वेषुपेक्षाचित्तो भवत्यर्थप्रतिशरणचित्तः । सर्वसंस्कारेष्वप्रमत्तः । बोधायोत्तप्तवीर्यः । सत्त्वेषु विपुलकरुणाशयः । तेषां सत्त्वानामत्यन्तदुःखविमोक्षोपायं सर्वक्लेशानावरणज्ञानमेव पश्यति । (दुत्त्२३०) तस्य च विमोक्षस्य समुदागमाय धर्मधातौ सर्वविकल्पप्रचार-संल्केशोत्पत्तिप्रतिपक्षं प्रज्ञां पश्यति । तस्य च ज्ञानालोकस्य निष्पत्तये सम्यक्संबोधिं पश्यति । तञ्च ध्यानसमाधिसमापत्तिनिर्हारं बोधिसत्त्वपिटकश्रवणपूर्वकं श्रवणनिदानं पश्यति । दृष्ट्वा [च] महता वीर्यारम्भेण श्रुतपर्येष्टिमापद्यते । सद्धर्मश्रवणहेतोर्नास्ति तद्द्रविणं परिष्कारमाध्यात्मिक-वाह्यं वस्तु यन्न परित्यजति । नास्ति सा गुरुपरिचर्या यान्नाभ्युपगच्छति । नास्ति सा सन्ततिर्यान्नाभ्युपगच्छति । नास्ति सा कायोत्पीडा यान्नाभ्युपगच्छति । स प्रीततरो भवत्येक चतुष्पदगाथाश्रवणेन न त्वेवं त्रिसाहस्रपूर्णप्रतिमेन महारत्नराशिना । प्रीततरो भवत्येकधर्मपदश्रवणेन सम्यक्संबुद्धोपनीतेन बोधिसत्त्वचर्यापरिशोधकेन न सर्वशक्रत्व[-मारत्व-]ब्रह्मत्व-लोकपालत्व-चक्रवर्तित्व-समुच्छ्रयप्रतिलम्भैः । स चेदेनं कश्चिदेवं वदेत् । एवमहमिदं [धर्मपदं] सम्यक्संबुद्धोपनीतं सर्वबोधिसत्त्वचर्यापरिशोधकं तेऽनुश्रावयिष्यामि स चेन्महत्यामग्निखदायामात्मानं प्रक्षिपसि महान्तञ्च दुःखोपक्रमं संप्रतीच्छसीति
। श्रुत्वास्यैवं भवेत् । उत्सहाम्यहमस्य धर्मपदस्यार्थे पूर्ववत्त्रिसाहस्रमहासाहस्रप्रतिमायामाप्यग्निखदायां ब्रह्मलोकादात्मानमुत्स्रष्टुं प्रागेव प्रत्यवरायाम् । नारकदुःखसंवासैरप्यस्माभिर्बुद्धधर्माः पर्येषितव्याः प्रागेव प्राकृतैर्दुःखोपक्रमैरिति । एवंरूपेण वीर्यारम्भेण धर्मान् पर्येष्यैवं योनिशो मनसिकरोति । यथा धर्मान्नुधर्मप्रतिपत्तिं बुद्धधर्मानुगतां न व्यञ्जनस्वरमात्रविशद्धिमिति विदित्वा तदेव श्रुतं निश्रित्य धर्मनिमित्तानि सम्यगालम्बनीकुर्वन् विविक्तं कामैर्विस्तरेण प्रथमं द्वितीयं तृतीयं चतुर्थञ्च ध्यानं लौकिकं चतस्र आरूप्यसमापत्तीर्लौकिकीश्चत्वार्यप्रमाणानि पञ्च चाभिज्ञा उपसंपद्य विहरति । स तैर्बहुलं विहृत्य तानि ध्यानानि समाधीन् समापत्तीः व्यावर्तयित्वा प्रणिधानवशेन कामधातौ यत्र सत्त्वार्थं बोधिपक्षधर्मपरिपूरिं च पश्यति तत्रोपपद्यते । न त्वेवास्य तद्वशेनोपपत्तिर्भवति । तस्य कामवीतरागत्वात्कामबन्धनानि प्रहीणानि भवन्ति ध्यानसमाधिसमापत्तिव्यावर्तनत्वाद्(दुत्त्२३१) भवबन्धनानि । अधिमुक्तिचर्या-भूमावेवास्य पूर्वमेव धर्मतथताधिमोक्षाद्दृष्टिकृतबन्धनानि प्रहीणानि भवन्ति । मिथ्यारागद्वेषमोहाश्चास्यात्यन्तं न प्रवर्तन्ते । तस्य बुद्धदर्शनं विस्तरेण कुशलमूलविशुद्धिः पूर्ववद्वेदितव्या । तत्रायं विशेषः । तद्यथा तदेव सुवर्णकुशलस्य कर्मारस्य हस्तगतं प्रक्षीणमलकषायमपि समधरणमवतिष्ठते तुल्यमानम् । एवमस्य सा कुशल मूलविशुद्धिर्वेदितव्या । उपपत्तितश्च शक्रो भवति देवेन्द्रो यद्भूयसा । कुशलः सत्त्वानां कामरागविनिवर्तनतायै । प्रभावेऽपि यत्र पूर्वके विहारे सहस्रमाख्यातं तत्रेह शतसहस्रं वेदितव्यम् । अयं बोधिसत्त्वानामधिचित्तविहारश्चित्तमनस्कार-परिनिष्प[त्ति]प्रवेशतश्च संसारसत्त्वधातुमहाबोधिसम्यक्-प्रतिवेध[त]श्च
सत्त्वदुःखविमोक्षोपाय-सम्यक्-पर्येषणतश्च महागौरवधर्मपर्येषणतश्च धर्मानुधर्मप्रतिपत्ति-लौकिकध्यानसमाधिसमापत्त्यभिज्ञाभिनिर्हार-विहारतश्च तद्व्यावर्तनं प्रणिधाय यत्र कामोपपत्तितश्च कुशलमूलविशुद्धितश्चोपपत्तितश्च प्रभावतश्च समासनिर्देशतो वेदितव्यः । विस्तरनिर्देशः पुनर्यथासूत्रं तद्यथा दशभूमिके प्रभाकर्यां भूमौ । श्रुताकारधर्मालोकावभास-समाध्यालोकावभास-प्रभावितत्वादस्या भूमेः प्रभाकरीत्युच्यते । अध्यात्मं चित्तविशुद्धिमुपादाय सा प्रभा संभवति तस्मात्स विहारः अधिचित्त इत्युच्यते । येनार्थेन प्रभाकरी भूमिः तेनैवार्थेनाधिचित्तविहारो वेदितव्यः ।

तत्र कतमो बोधिसत्त्वानां बोधिपक्ष्यप्रतिसंयुक्तोऽधिप्रज्ञविहारः । इह बोधिसत्त्वेन पूर्वमेवाधिचित्तविहारे दश धर्मालोकप्रवेशाः श्रुतपर्येष्टिमधिपत्तिं कृत्वा प्रतिलब्धा भवन्ति । येषामधिमात्रत्वात्परिपूर्णत्वादधिचित्तविहारमतिक्रम्य प्रथममधिप्रज्ञविहारं प्रविशति । [ते] पुनर्दश धर्मालोकप्रवेशा ग्रन्थतो यथा सूत्रमेव वेदितव्यः । ये च प्रज्ञप्यन्ते यत्र च प्रज्ञप्यन्ते येन च प्रज्ञप्यन्ते ते च यत्समाः परमार्थः यस्य च संक्लेश-व्यवदानश्च संक्लिश्यन्ते विशुद्धन्ते च यत्प्रतियुसंक्तेन संक्लेशेन संक्लिश्यन्ते यया चानुत्तरया विशुद्ध्या (दुत्त्२३२) विशुध्यन्ते । इत्ययं समासार्थस्तेषां धर्मालोकनिर्देशानां वेदितव्यः । स तस्मिन् विहारे व्यवस्थितः । अभेद्याशयता पूर्वङ्गमैर्यथासूत्रमेव दशाकारेण ज्ञानपरिपाकेन [ज्ञान-]परिपाचकैर्धर्मैः समन्वागतः संवृत्तो भवति तथागतकुले तदात्मक-धर्मप्रतिलम्भात् । सर्वाकारां बोधिसत्त्वापेक्षामधिपतिं कृत्वा स्मृत्युपस्थानप्रमुखान् सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयन्ति यथासूत्रमेव । तस्य तान्धर्मानुपायपरिग्रहेण भावयतः सत्कायदृष्टिः सुसूक्ष्माप्यस्य स्कन्धधात्वायतनान्यभिनिवेशः सर्वेञ्जितानि चात्यन्तासमुदाचारतः प्रहीयन्ते । तेषां प्रहाणाद्यानि तथागत-विवर्णितानि कर्माणि तानि सर्वेण सर्वं नाध्याचरति । यानि पुनस्तथागत-वर्णितानि तानि सर्वाप्यनुवर्तन्ते यथावत् । तथाभूतश्च भूयसा मात्रया स्निग्धमृदुकर्मण्यचित्तश्च भवति तथा चित्राकारसुविशुद्धचित्तश्च । कृतज्ञकृतवेदितादिभिस्तदाशयानुगुणैर्विचित्रैः शुक्ल-धर्मैः समन्वागतो भवति । उत्तरि च भूमिपरिशोधकानि कर्माणि समन्वेषमाणो महावीर्यारम्भप्राप्तो भवति । तस्य तन्निदानमाशयाध्याशयाधिमुक्तिधातुः परिपूर्यते । तन्निदानं चासंहार्यो भवति अविकम्प्यः सर्वतीर्थ्यमारशासनप्रत्यर्थिकभूतैः
। पूर्ववच्च बुद्धदर्शनं विस्तरेण कुशलमूलविशुद्धिर्वेदितव्या । तत्रायं विशेषः । तद्यथा तदेव सुवर्णकुशलेन कर्मकारेणालंकारविधिकृतमसंहार्यं भवत्यकृताभरणैर्जातरुपैः । एवमस्य बोधिसत्त्वस्य तानि कुशलमूलान्यसंहार्याणि भवन्ति तदन्यबालविहारस्थितैर्बोधिसत्त्वकुशलमूलैः । तद्यथा च मणिरत्नमुक्तालोकमसंहार्यं भवति तदन्यैर्मणिभिः । सर्ववातोदकवृष्टिभिश्चानाच्छेद्यप्रभं भवति । एवमयं बोधिसत्त्वोऽसंहार्यो भवति सर्वश्रावकप्रत्येकबुद्धैः । अनाच्छेद्यप्रज्ञालोकश्च भवति सर्वमारप्रत्यर्थिकैः । उपपत्तितश्च सुयामो भवति देवराजः । कुशलः सत्त्वानां सत्कायदृष्टिविनिवर्तनतायै । प्रभावे च यत्र पूर्वविहारे शतसहस्रगुणं समाख्यातं तत्रास्मिन् कोटिसमाख्यातं वेदितव्यम् । अयं बोधिसत्त्वानां बोधिपक्ष्याधिप्रज्ञविहारः । धर्मालोकप्रवेशनिष्पत्तिं प्रतिलाभतश्च ज्ञानपरिपाचनतश्च बोधिपक्ष्यधर्मनिषेवणतश्च सत्कायदृष्ट्यादि-सर्वाभिनिवेशेञ्जितप्रहाणतश्च प्रतिषिद्धानुज्ञातकर्मविवर्जन-निषेवणतश्च तन्निदानं चित्तमार्दवतश्च तदनुकूलगुणसमृद्धितश्च (दुत्त्२३३) भूमिपरिशोधक-कर्मपर्येष्टिमारभ्य महावीर्यारम्भतश्च तन्निदानमाशयाध्याशयाधिमुक्तिविशोधनतश्च तन्निदानं सर्वशासनप्रत्यर्थिकासंहार्यतश्च कुशलमूलविशुद्धितश्चोपपत्तितश्च प्रभावतश्च समासनिर्देशतो वेदितव्यः । विस्तरनिर्देशः पुनस्तद्यथादशभूमिकेऽर्चिष्मती भूमिनिर्देशे बोधिपक्ष्या धर्मास्तस्यां भूमौ ज्ञानार्चिभूताः सम्यग्धर्मदेशना प्रज्ञावभासकरकालोकानाम् । तस्मात्सा भूमिरर्चिष्मतीत्युच्यते । सैव चेह बोधिपक्ष्याप्रज्ञावभासकर-धिप्रज्ञविहार इत्युच्यते ।

तत्र कतमो बोधिसत्त्वानां सत्यप्रतिसंयुक्तो द्वितीयोऽधिप्रज्ञविहारः । इह बोधिसत्त्वः पूर्वकेऽधिप्रज्ञविहारे [या] दश विशुद्धाशयसमताः प्रतिलब्धाः तासामधिमात्रात्वात्परिपूर्णत्वात्द्वितीयमधिप्रज्ञविहारं प्रविशति । दश विशुद्धाशयसमता यथासूत्रं ग्रन्थतो वेदितव्याः । असमैश्च बुद्धैर्बुद्धाः समाः । तदन्यसत्त्वधातुसमतिक्रान्ताः । यैश्च धर्मैर्यथा समाः । इत्ययं समासार्थो विशुद्धाशयसमतानां वेदितव्यः । सोऽस्मिन्विहारे व्यवस्थितः । भूयो ज्ञानवैशेषिकतां प्रार्थयमानः चत्वार्यसत्यानि दशभिराकारैर्यथाभूतं प्रजानाति । ग्रन्थतो यथासूत्रमेव सर्वं वेदितव्यम् । परसंज्ञापनतां [प्रत्यात्मज्ञानतां] तदुभयाधिष्ठानतां चारभ्य यच्च देश्यते । सूत्रविनयमातृकामारभ्य येन च देश्यते । प्रत्युपन्नदुःखात्मकतां हेतु[त]श्चानागतदुःखप्रभावतां हेतुक्षयात्[तत्]क्षयानुत्पाद[न]तां तत्प्रहाणोपायनिषेवणतां चारभ्य यथा देश्यते । इत्ययं समासार्थस्तस्य दशाकारस्य चतुरार्यसत्यज्ञानस्य वेदितव्यः । स एवं सत्यकुशलः सर्वञ्च संस्कारगतं प्रज्ञया सम्यग्विदूषयति । सत्त्वधातौ च करूणाशयं विवर्धयति । पूर्वान्तापरान्ततश्च बालसत्त्वमिथ्याप्रतिपत्तिं सम्यक्प्रतिविध्यति । तेषाञ्च विमोक्षाय महापुण्यज्ञानसम्भारपरिग्रहे चित्तं प्रणिधत्ते । तद्गताशयं च समुदानयति । स्मृतिमतिगतिप्रमुखैः प्रभूतैर्विचित्रैर्गुणैः समृद्धश्च । अन्य मनसिकारापगतः । चित्रैः परिपाचनोपायै सत्त्वान् परिपाचयति । यानि च सत्त्वानुग्राहकानि लौकिकानि लिपिशास्त्रमुद्रागणनादीनि यथासूत्रमेव शिल्पकर्मंस्थानानि तानि सर्वाण्याभिनिर्हरति सत्त्वकरुण[त]या । (दुत्त्२३४) अनुपूर्वेण यावत्बोधिप्रतिष्ठापनार्थं लौकिकव्यवहारानुकूलतया
दारिद्र्य-नाशोपायतया धातुवैषम्यमनुष्यामनुष्योपसंहृतोपद्रवप्रशमनतयाऽनवद्यक्रीडारतिवस्तूपसंहारतो धर्मरतिव्यावर्तनतया सन्निवासोपकरणार्थिनामल्पकृच्छ्रेण सन्निवासोपकरणोपसंहरणतया राजचौराद्युपद्रवपरित्राणतया स्थानास्थानप्रयोगानुज्ञाप्रतिषेधनतया मङ्गल्यामङ्गल्यवस्त्वादानत्यागसन्नियोजनतया दृष्टे धर्मे परस्परानभिद्रोहसम्परायाविपरीताभ्युदयमार्गोपदेशनतया । इत्ययं तेषां सत्त्वानुग्राहकानां शिल्पकर्मस्थानानां समासार्थो वेदितव्यः । सर्वमन्यत्पूर्ववत् । तत्रायं विशेषः । तद्यथा तदेव स्वर्णकुशलेन कर्मकारेण मुसारगल्व-मृष्टं प्रत्यर्पितमतुल्यतयाऽसंहार्यं भवति तदन्यैः सुवर्णैः । एवमयं बोधिसत्त्वोऽसंहार्यो भवति सर्वश्रावकप्रत्येकबुद्धैः तदन्यभूमिस्थितैश्च बोधिसत्त्वैः । तद्यथा चन्द्रसूर्यनक्षत्राणामाभा असंहार्या च भवति सर्व वातमण्डलैः । [सर्व]वातवाहा साधारणा च भवति । एवमेवास्य बोधिसत्त्वस्य सा प्रज्ञा असंहार्या भवति सर्वश्रावकप्रत्येकबुद्धैः । लौकिकक्रिया साधारणा च भवति । उपपत्तितः संतुषितो भवति देवराजः । कुशलः सर्वतीर्थ्यविनिवर्तनतायै । प्रभावश्च कोटीशतसहस्रसंख्या निर्देशतो वेदितव्यः । अयं बोधिसत्त्वानां सत्यप्रतिसंयुक्तोऽधिप्रज्ञविहारः । शुद्धाशयसमता-निष्पत्ति-प्रवेशतश्च उपायसत्यव्यवचारणा-प्रतिविवर्धनतश्च सर्वसंस्कारविदूषणतश्च कारूण्यविवर्धनतश्च तदर्थं पुण्यज्ञानसंभारोपचयप्रणिधानप्रयोगतश्च स्मृतिमतिगत्यादिगुणविवृद्धितश्चानन्यमनसिकार-सर्वाकार-सत्त्वपरिपाचनाभियोगतश्च लौकिकशिल्पाभिनिर्हारतश्च कुशलमूलविशुद्धितश्चोपपत्तितश्च प्रभावतश्च समासनिर्देशतो वेदितव्यः । विस्तरनिर्देशतः पुनस्तद्यथा दशभूमिके सुदुर्जयायां भूमौ सत्त्वेषु
निश्चयज्ञानं सुदुर्जयम् । तच्चेह परिदीपितम् । तस्मात्सा भुमिः सुदुर्जयेत्युच्यते । तेनैव चार्थेन सत्यप्रतिसंयुक्तोऽधिप्रज्ञविहारो द्रष्टव्यः ।

तत्र कतमो बोधिसत्त्वानां प्रतीत्यसमुत्पादप्रतिसंयुक्तोऽधिप्रज्ञविहारः । इह बोधिसत्त्वेन पूर्वमेव सत्यप्रतिसंयुक्ते अधिप्रज्ञविहारे दश धर्मसमताः प्रतिलब्धः (दुत्त्२३५) भवन्ति । यथासूत्रं ग्रन्थतस्ता वेदितव्याः । तासामधिमत्रत्वात्परिपूर्णत्वादिदं विहारमनुप्रविशति । सर्वधर्मेषु पारमार्थिकस्य सतः स्वभावस्य निर्निमित्तसमतया अभिलापाभिसंस्कारप्रतिभासस्यालक्षणसमतया तस्यैवालक्षणत्वात्स्वयमजातसमतया हेतुतोऽनुत्पन्नसमता स्वयं हेतु[त]श्चानुप्तन्नत्वादत्यन्तमादिशान्तसमतया विद्यमान[स्य] वस्तुग्राहकस्य ज्ञानस्य निष्प्रपञ्चसमतया आदानत्यागाभिसंस्कारविगमसमतया च तस्यैव क्लेशदुःखसंक्लेश-विसंयोगाद्विविक्तसमतया विकल्पितस्य ज्ञेयस्वभावस्य मायानिर्मितोपमसमतया निर्विकल्पज्ञानगोचरस्य स्वभावस्य भावाभावाद्वयसमतया । इत्ययं तासां दशानां धर्मसमतानामर्थविभागो वेदितव्यः । सोऽस्मिन्विहारे स्थितः सत्त्वेषु संवृद्धकरुणो बोधौ तीव्रच्छन्दाभिलाषजातः । लोकानां संभवञ्च विभवञ्च सर्वाकारया प्रतीत्यसमुत्पाद-सम्यग्व्यवचारणतया व्यवचारयति प्रजानाति । प्रतीत्यसमुत्पादज्ञानसन्निश्रितं चास्य विमोक्षमुखत्रयमाजातं भवति शून्यमनिमित्तमप्रणिहितम् । ततो निदानं चास्यात्म-पर-कारक-वेदकभावाभावसंज्ञा न प्रवर्तन्ते । स एवं परमार्थकुशलः सत्त्वसापेक्षः योनिशः प्रतिविध्यति क्लेशसंयोगात् । प्रत्ययसामग्र्याच्च संस्कृतं प्रकृतिदुर्बलमात्मात्मीयविरहितमनेकदोषदुष्टं प्रवर्तते न विना क्लेशसंयोगप्रत्ययसामग्रीम् । तेन मया क्लेशसंयोगप्रत्ययसामग्रीं च विकलीकर्तव्या चात्मरक्षार्थम् । न च सर्वेण सर्वं संस्कृतं व्युपशमयितव्यं सत्त्वानुग्रहार्थम् । तस्यैवं
ज्ञानकारूण्यानुगतस्यास्मिन् विहारेऽसङ्गज्ञानाभिमुखो नाम प्रज्ञापारमिताविहारः अभिसंमुखी भवति । येनायं सर्वलोकिकचर्यास्वशक्तश्चरति । स च विहारो या तीक्ष्णा सप्तम्यां भूमौ प्रायोगिकचर्यापर्यन्तगता बोधिसत्त्वक्षान्तिः तयानुलोमिक्या क्षान्त्या संगृहीतो वेदितव्यः । सोऽसङ्गज्ञानाभिमुख-प्रज्ञापारमिता-विहाराभिमुख्याद्बोध्याहारकांश्च प्रत्ययानाहरति । लौकिकानाञ्च संस्कृतसंवासे न संवसति । प्रशमे च शान्तदर्शी भवति । न च तत्रावतिष्ठते । तस्यैवमुपाय-प्रज्ञाज्ञानानुगत-स्यावतार-शून्यतासमाधिप्रमुखानि दश समाधिमुखशतसहस्राण्यामुखी भवति । यथा शून्यतासमाधिः एवमप्रणिहितानिमित्तसमाधयो वेदितव्याः । (दुत्त्२३६) तेषामामुखीभवादभेद्याशयश्च भवति । सर्वाकाराच्छासनादसंहार्यश्च भवति सर्वमारतीर्थ्यशासनप्रत्यर्थिकैः शेषं पूर्ववत् । तत्रायं विशेषः । तद्यथा तदेव सुवर्णं कुशलेन कर्मकारेण वैदूर्यमणिरत्नमुष्टं प्रत्यर्पितमसंहार्यं भवति तदन्यैः सर्वजातरूपैः एवमस्य बोधिसत्त्वस्य तानि कुशलमूलानि विशुद्धतराणि भवन्त्यसंहार्याणि पूर्ववत् । तद्यथा चन्द्रप्रभा सत्त्वाश्रयांश्च प्रहलादयत्यनाच्छेद्यप्रभा च भवति चतसृभिर्वातमण्डलिकाभिः । एवमस्य बोधिसत्त्वस्य सा प्रज्ञाभा सर्वसत्त्वक्लेशपरिदाहञ्च प्रशमयति । अनाच्छेद्या च भवति सर्वमारप्रत्यर्थिकैः । सुनिर्मितश्च भवति देवराजः । कुशलः सत्त्वानां सर्वाभिमानविनिवर्तनतायै । प्रभावोऽपि कोटीशतसहस्रं संख्यानिर्देशतो द्रष्टव्यः । अयं प्रतीत्यसमुत्पादप्रतिसंयुक्तोऽधिप्रज्ञविहारः । धर्मसमता-परिनिष्पत्तिप्रवेशतश्च प्रतीत्यसमुत्पादावबोधविमोक्षमुखसम्भवतश्च सर्वमिथ्यासंज्ञासमुदाचारतश्च उपायसंसारपरिग्रहतश्च असङ्गज्ञानाभिमुख-प्रज्ञापारमिताविहाराभिमुखतश्च
अप्रमाण-समाधिप्रतिलम्भतश्च अभेद्याशयप्रतिलम्भतश्च शासनादासंहार्यतश्च कुशलमूलविशुद्धित उपपत्तितः प्रभावतश्च समासनिर्देशतो वेदितव्यः । विस्तर[निर्दशत]स्तद्यथाऽभिमुख्यां भूमौ । असङ्गज्ञानाभिमुखस्य प्रज्ञापारमिताविहारस्याभिमुख्यादभिमुखीत्युच्यते । तनैवार्थेनायं विहारो वेदितव्यः ।

तत्र कतमो बोधिसत्त्वानां साभिसंस्कारः साभोगो निर्निमित्तो विहारः । इह बोधिसत्त्वेनानन्तरेऽधिप्रज्ञविहारे दशोपायेन प्रज्ञया चाभिनिर्हृताः सर्वसत्त्वासाधारणा लौकिकाः सर्वलोकासाधारणाश्च मार्गान्तरारम्भविशेषाः प्रतिलब्धा भवन्ति । येषामधिमात्रत्वात्परिपूर्णत्वात्सप्तमं विहारमनुप्रविशति । तेषां यथासूत्रमेव ग्रन्थविस्तरो वेदितव्यः । लौकिकसम्पत्तिसंवर्तकं पुण्यपरिग्रह मारभ्य सत्त्वेषु हितसुखाशयमारभ्य बोधाय पुण्यसम्भारबोधिपक्ष्य-धर्मोत्तरोत्कर्षमारभ्य श्रावकासाधारणतामारभ्य प्रत्येकबुद्धासाधारणतामारभ्य सत्त्वधर्मधातुमारभ्य लोकधातुमारभ्य तथागतकायवाक्चित्तज्ञानमारम्य । इत्यथं तेषामुपायप्रज्ञाभिनिहृतानां मार्गान्तराणामारम्भविशेषाणामधिकारार्थः समासतो वेदितव्यः । स एभिर्युक्तोऽप्रमाणमसंख्येयं तथागतविषयं प्रतिविध्यति । तत्समुत्थानाय (दुत्त्२३७) चानाभोगनिर्निमित्ताकल्पाविकल्पनतयाऽप्रमाणबुद्धिविषय-समुत्थानं पश्यन्निरन्तरं निश्च्छिद्रं प्रयुज्यते सर्वेर्यापथ-चारविहारमनसिकारेषु । नास्य सर्वावस्थागतस्य मार्गविप्रयुक्तो भवति । तस्य चित्तक्षणे दशपारमिताः प्रमुखाः सर्वे बोधिपक्ष्या धर्माः परिपूर्यन्ते विशेषेण । अन्येषु तु विहारेषु न तथा । प्रथमे प्रमुदितविहारे प्रणिधानाध्यालम्बनतया द्वितीये चित्तदौःशील्यमलापकर्षणतया तृतीये प्रणिधानविवर्धनधर्मालोकप्रतिलाभतया चतुर्थे मार्गावतारणतया पञ्चभे लौकिकक्रियावतारण या षष्ठे गम्भीरप्रवेशनतया । आस्मिन् पुनः सप्तमे विहारे सर्वबुद्धधर्मसमुत्थापनतया बोधङ्गानि परिपूर्यन्ते बोधिसत्त्वप्रायोगिकचर्यापरिपूरिसंग्रहादस्य विहारस्य ज्ञानाभिज्ञाचर्याविशुद्धाष्टमविहाराक्रमणाच्च । तथा हि स बोधिसत्त्वोऽस्य विहारस्यानन्तरमष्टमं विशुद्धं
विहारं प्रविशति । स च विहार एकान्तविशुद्धः । इमे तु सप्त विहारा व्यामिश्राः । विशुद्धविहारपूर्वङ्गमत्वादसंक्लिष्टः । तदसंप्राप्तत्वात्संक्लिष्टचयपतिता वक्तव्याः । तस्मादस्मिन् विहारे सर्वे रागादिप्रमुखाः क्लेशाः प्रहीयन्ते । स च न संक्लेशो न निःक्लेशो वेदितव्यः असमुदाचाराद्बुद्धज्ञानाभिलाषाच्च । तथाभूतस्यास्याध्याशयपरिशुद्धमप्रमाणं काय वाडभनस्कर्म प्रवर्तते । स यानि तथागतविवर्णितानि कर्माणि पूर्ववत्तस्य पञ्चमविहाराभिनिहृतानि लौकिकानि शिल्पज्ञानानीह परिपूर्यन्ते आचार्यसम्मतश्च भवति त्रिसाहस्रमहासाहस्रे स्थापयित्वा ऊर्ध्वविहारस्थान् बोधिसत्त्वांस्तथागतांश्च । न कश्चिदस्याशयप्रयोगाभ्यां समो भवति । सर्वे च ध्यानादयो बोधिपक्ष्या धर्मा आमुखी भवन्ति । भावनाकाराभिमुखतया नोत्तरियाकारस्थानतः । तद्यथा आमुखी भवन्ति । भावनाकाराभिमुखतया नोत्तरियाकारस्थानतः । तद्यथा अष्ठमे विहारे । स तथा प्रयुक्तः सुनिश्चितविषयसमाधिप्रमुखानि दश समाधिशतसहस्राण्यभिनिर्हरति बोधिसत्त्वसमाधीनाम् । तेषाञ्च लाभात्समतिक्रान्तो भवति श्रावकप्रत्येकबुद्धसमाधिविषयम् । स एवं सर्वक्लेशविविक्तेन दुर्विज्ञेयेन सर्वविकल्पप्रचारापगतेन कायवाङ्मनस्कर्मणा विहरति । न चोत्तरिविशेषपरिमार्गणाभियोगमुत्सृजति सत्त्वापेक्षया । बोधिपरिपूर्णार्थं तस्याप्रमाणं सर्वनिमित्तापगतं कायवाङ्मनस्कर्म प्रवर्तते सुपरिशोधितमनुत्पत्तिकधर्मक्षान्त्यावभासितम् । (दुत्त्२३८) अस्मिन्विहारे स्वबुद्धिविषयतया सर्वश्रावकप्रत्येकबुद्धविषयसमतिक्रान्तास्तदन्येषु तु षट्षु बुद्धधर्माध्यालम्बनतया षष्ठे च विहारे बोधिसत्त्वो निरोधं समापद्यते । अस्मिंस्तु प्रतिक्षणं समापद्यते । इदञ्चास्यात्यद्भुतं कर्माचिन्त्यम् । यद्भूतकोटिविहारेण च विहरति न च निरोधं साक्षात्करोति
। स तमेवोपायज्ञानाभिनिहारमधिपतिं कृत्वा सर्वसत्त्वासाधारणां बोधिसत्त्वचर्याञ्चरति लौकिकप्रतिभासाञ्चातन्मयीं च यथासूत्रमेव । तस्य तु पिण्डार्थः । पुण्यक्रियामारभ्य कडत्रपरिषत्परिग्रहमभिनिर्वृत्तिविशेषप्रार्थना-समारम्भं विमोक्षत्रयविहारतां हीनयानाधिमुक्तोपायविनयनतां कामपरिभोगं कामविशेषप्रार्थनां तीर्थिकव्यावर्तनतां परचित्तानुवर्तनतां महाजनकायानुवर्तनतां चारभ्य शेषं पूर्ववत् । तत्रायं विशेषः । तद्यथा तदेव सुवर्णं कुशलेन कर्मकारेण सर्वमणिरत्नमृष्टुं प्रत्यर्पितमत्यर्थं भ्राजते । असंहार्यञ्च भवति तदन्यैर्जाम्बूद्वीपकैराभरणैः । एवमस्य तानि कुशलमूलानि विशुद्धतराण्यसंहार्याणि भवन्ति सर्वश्रावकप्रत्येकबुद्धकुशलमूलैस्तदन्यैश्च निकृष्टतरविहारस्थैर्बोधिसत्त्वकुशलमूलैः । तद्यथा सूर्याभा जम्बूद्वीपे यद्भूयसा स्नेहश्च परिशोषयति । असंहार्या च भवति स च तदन्यप्रभाभिः । एवमस्य बोधिसत्त्वस्य प्रज्ञाभा सत्त्वानां सर्वक्लेशविषाणि च शोषयति । असंहार्या च भवति पूर्ववत्श्रावकादिज्ञानप्रभाभिः । वशवर्ती च भवति देवराजः । कुशलः श्रावकप्रत्येकबुद्धाभिसमयोपसंहारेषु । प्रभावः कोटीशतसहस्रसंख्यानिर्देशतो वेदितव्यः । अयं साभोगो निर्निमित्तो विहारः उपायप्रज्ञाभिनिहृतमार्गान्तरारम्भविशेषनिष्पत्तिप्रवेशतश्च तथागतविषयसमुत्थान-प्रतिवेध-निरन्तरप्रयोगतश्च प्रतिक्षणं सर्वबोधिपक्ष्यधर्मसमुदागमतश्च क्लिष्टाक्लिष्ट-व्यवस्थानतश्च प्रयोगिकचर्यापरिपूरिसंग्रहतश्च आशयशुद्धिकर्मप्रवृत्तिमधिकृत्य सर्वलौकिकशिल्पकर्मादिपरिपूरणतश्च अप्रमेयश्रावकप्रत्येकबुद्धासाधारणसमाधि-प्रतिलम्भतश्च प्रतिक्षणनिरोधसमापत्तितश्च
सर्वसत्त्वासाधारणलोकचर्याचरणतश्च कुशलमूलविशुद्धितश्च उपपत्तितः प्रभावतश्च समास-निर्देशतो वेदितव्यः । (दुत्त्२३९) विस्तरतः पूर्ववत् । तद्यथा दूरंगमायां भूमौ । बोधिसत्त्व-प्रायोगिकचर्या-परिपूरिसंगृहीतत्वात्दूरंगमेत्युच्यते । तेनैव चार्थेन विहारो वेदितव्यः ।

तत्र कतमो बोधिसत्त्वानामनाभोगो निर्निमित्तो विहारः । इह बोधिसत्त्वेन प्रथमेऽनन्तरे विहारे दशाकारं सर्वधर्मपरमार्थावतारज्ञानं प्रतिलब्धं भवति । त्रिषु अध्वेषु यथायोगमाद्यनुत्पन्नतामजन्मतामलक्षणतामारभ्य तदन्यहेतुभावासम्भवाविनाशताञ्चारभ्य परमार्थतो निरभिलाप्यस्वभावे वस्तुन्यभिलापाभिसंस्कारप्रतिभासस्य स्वभावस्य लक्षणेन हेतुभावेन चाविद्यमानस्य तस्यैव संक्लेशात्मनाप्रवृत्तिताञ्चानिवृत्तिताञ्चारभ्य तदज्ञानमिथ्याभिनिवेशहेतुकाञ्च तस्मिन्विद्यमाने वस्तुनि निरभिलाप्ये आदौ मध्ये पर्यवसाने सर्वकालसंक्लेशसमतां चारभ्य तथता-सम्यक्प्रवेशनिर्विकल्पसमतया च तत्संक्लेशापनयनमारभ्य । इत्यस्य ज्ञानस्य दशाकारस्याधिमात्रत्वात्परिपूर्णत्वादिममष्टमं परिशुद्धं विहारमवतरति ।

इहस्थश्चानुत्पत्तिकेषु धर्मेषु परमां बोधिसत्त्वक्षान्तिं सुविशुद्धां लभते । सा पुनः कतमा । चतसृभिः पर्येषणाभिरयं बोधिसत्त्वः सर्वधमान् पर्येष्य यदा चतुर्भिरेव यथाभूतपरिज्ञानैः परिजानाति । तदा सर्वमिथ्याविकल्पाभिनिवेशेष्वपनीतेषु सर्वधर्माणां दृष्टे च धर्मे सर्वसंल्केशानुत्पत्त्यनुकूलतां पश्यति । सम्पराये च सर्वेण सर्वं निरवशेषतोऽनुत्पतिं पश्यति तेषामेव पूर्वमिथ्याविकल्पाभिनिवेशहेतुसमुत्पन्नानां धर्माणाम् । ताः पुनः चतस्रः पर्येषणा यथापूर्वं निर्दिष्टास्तत्त्वार्थपटले । चत्वारि च यथाभूतपरिज्ञानानि तान्यधिमुक्तिचर्याविहारमुपादाय यावत्साभोगनिर्निर्मित्ताद्विहारान्न सुविशुद्धानि भवन्ति । अस्मिंस्तु विहारे परिशुद्धानि भवन्ति । तस्मात्स बोधिसत्त्वः अनुत्पत्तिकेषु धर्मेषु क्षान्ति-प्रतिलब्ध इत्युच्यते । स तस्याः क्षान्तेर्लाभाद्गम्भीरं बोधिसत्त्वविहारमनुप्राप्तो भवति । तस्य ये पूर्वके निर्निमित्ते विहारे चत्वारोऽपक्षालास्ते प्रहीणा भवन्ति । यः साभोगाभिसंस्कारः स प्रहीणो भवति । उत्तरि च विशुद्धविहारे औत्सुक्यं प्रहीणं भवति । सर्वाकारसत्त्वार्थक्रियाशक्तावौत्सुक्यं (दुत्त्२४०) प्रहीणं भवति । सूक्ष्मसंज्ञा-समुदाचारश्च प्रहीणो भवति । तस्मात्स विहारः सुविशुद्ध इत्युच्यते ।

तस्य च तस्मिन् गम्भीरे विहारेऽभिरतस्य तस्मिन् धर्ममुखस्रोतसि तथागत-संचोदना-समादापनाभिनिर्हारमुख-ज्ञानाभिज्ञा-कर्मोपसंहारोऽप्रमेयः । तथा संचोदितस्य चाप्रमाणकायविभक्तिज्ञानाभिनिर्हारो दशवशिता-प्राप्तिश्च यथासूत्रमेव विस्तरेण वेदितव्याः । वशिताप्राप्तः स तावदाकांक्षति तावत्तिष्ठति । येन वा ध्यानविमोक्षादिचित्तविहारेणाकांक्षति तेन विहरति । संकल्पमात्रेणैवास्य सर्वभोजनादि-परिष्कारसम्पद्भवति । सर्वशिल्पकर्मस्थानेषु चास्य यथाकामप्रचारता भवति । सर्वोपपत्तिसंवर्तनीयेषु च कर्मसु सर्वोपपत्त्यायतनेषु चास्य कामकामोपपत्तिता भवति । यथेप्सितञ्च सर्वर्द्धिकार्यं करोति । सर्वप्रणिधानानि चास्य यथाकामं समृध्यन्ति । यद्यदेव वस्तु यथाधिमुच्यते तत्तथैव भवति नान्यथा । यञ्च ज्ञेयं ज्ञातुकामो भवति तदपि जानीते यथावत् । नामकायपदकायव्यञ्जनकायानाञ्च निकामलाभी भवति । सर्वधर्मसम्यक्व्यवस्थानकुशलः । एवं वशिताप्राप्तस्य बोधिसत्त्वस्यातः परेण वशिताप्राप्तकृतोऽनुशंसो विस्तरेण यथासूत्रमेव वेदितव्यः । औदारिकञ्च बुद्धदर्शनं विहाय सततसमितमविरहितो भवति बुद्धदर्शनेन । शेषकुशलमूलविशुद्धिर्यथासूत्रं वेदितव्या । महर्घसुवर्णदृष्टान्तेन [आभादृष्टान्तेन] च । उपपत्तिः प्रभावविशेषश्चाप्यस्य बोधिसत्त्वस्यास्मिन्विहारे यथासूत्रमेव वेदितव्यः । अयमनाभोगो निर्निमित्तो विहारः । परमार्थवतारज्ञाननिष्पत्तिप्रवेशतश्च अनुत्पत्तिकधर्मक्षान्तिलाभतश्च सर्वापक्षालापगत-गम्भीर-बोधिसत्त्वविहारप्राप्तितश्च धर्ममुखस्रोतसि बुद्धैरप्रमेयाभिनिर्हारमुखज्ञानाभिज्ञाकर्मोपसंहारतश्च अप्रमाणकायविभक्तिज्ञानप्रवेशतश्च वशिताप्राप्तितश्च वशितानुशंसप्रत्यनुभवनतश्च कुशलमूलविशुद्धित उपपत्तिः प्रभावतश्च समासनिर्देशतो वेदितव्यः । विस्तरेण निर्देशतो यथासूत्रं तद्यथाऽचलायां भूमौ । पूर्वकाभिसंस्कारापगमादनाभोगानिश्चलवाहिमार्गसमारूढं
(दुत्त्२४१) तच्चित्तं तस्यां भूमौ प्रवर्तते । तस्मात्सा भूमिरचलेत्युच्यते । तेनैव चार्थेनायं विहारो द्रष्टव्यः ।

तत्र कतमो बोधिसत्त्वानां प्रतिसंविद्विहारः । इह बोधिसत्त्वस्तेनापि विहारेण गम्भीरेणासंतुष्ट उत्तरिज्ञानविशेषतामनुगच्छन् यैश्च धर्मज्ञानाभिसंस्कारैः परेषां धर्मः सर्वाकारो बोधिसत्त्वेन देशयितव्यो यच्च धर्माख्यानकृत्यं तत्सर्वं यथाभूतं प्रजानाति तत्रेदं धर्मसमाख्यानकृत्यम् । गहनोपविचारेषु ये च संक्लिश्यन्ते विशुध्यन्ते च । येन च संक्लिश्यन्ते येन च विशुध्यन्ते । यच्च संक्लेशव्यवदानम् । या च तस्यानैकान्तिकता । या च तस्यैकान्तिकता । या च तस्यैकान्तिकताऽनैकान्तिकता । तस्य यथाभूतज्ञानम् । एवञ्च धर्म-देशनाकुशलस्य देशनाकृत्यकुशलस्य च यत्सर्वाकारमहाधर्म-भाणकत्वमप्रमेयधारणीप्राप्तस्य सर्वस्वराङ्गविभक्तिकुशलस्याक्षयप्रतिभानस्य । यादृश्या धर्मधारणोद्ग्रहणशक्त्या समन्वागतस्य । यया बोधिसत्त्वप्रतिसंविदभिनिहृतया वाचा । यदृशे धर्मासने निषण्णस्य । यत्र येषु च धर्म देशयतः यावद्भिर्मुखैः यया सत्त्व-विज्ञापन सन्तोषण-कृत्यसंनियोजन-शक्त्या समन्वागतस्य । तत्सर्वं यथासूत्रमेव विस्तरनिर्देशतो वेदितव्यम् । कुशलमूलविशुद्ध्युपपत्तिप्रभावविशेषोऽपि यथासूत्रमेव वेदितव्यः । अयं बोधिसत्त्वानां प्रतिसंविद्विहारः शान्तविमोक्षसन्तुष्टिप्रवेशतश्च धर्मसमाख्यानाभिसंस्कारज्ञानतश्च तत्कृत्यज्ञानतश्च अचिन्त्यमहाधर्मभाणकत्वप्रतिलम्भतश्चकशलमूलविशुद्धित उपपत्तितः प्रभावतश्च समासनिर्देशतो वेदितव्यः । विस्तरनिर्देशतः पुनः यथासूत्रमेव । तद्यथा साधुमत्यां भूमौ । सर्वसत्त्वानां हितसुखाशयपरिशुद्ध्या बोधिसत्त्वप्रतिसंविन्मत्या धर्मसमाख्यानाधिकारत्वात्सा भूमिः साधुमतीत्युच्यते । तेनैव चार्थेनायमपि विहारो द्रष्टव्यः ।

तत्र कतमो बोधिसत्त्वानां परमो विहारः । इह बोधिसत्त्वस्य प्रतिसंविद्-विहारे सर्वाकारपरिशुद्धे धर्मराजत्वार्हस्य धर्माभिषेकसमासन्नस्य विमलादिसमाध्यप्रमेयप्रतिलम्भ-तत्कृत्यकरणतः सर्वज्ञज्ञानविशेषाभिषेकपश्चिमसाधिसम्मुखीभावाच्च (दुत्त्२४२) सर्वबुद्धेभ्यस्यदनुरूपासनकायपरिवारप्रतिलाभिनः स्वरश्मिगमनप्रत्यागमनैः सर्वाकारसर्वज्ञज्ञानाभिषेकप्रतिलम्भतश्च अभिषिक्तस्य च सर्वविनेय-समुदानयन-तद्विमोक्षोपाय-बुद्धकृत्यज्ञानतश्च अप्रमेय-विमोक्ष-धारणी अभिज्ञा प्रतिलम्भतश्च तदाधिपतेय महास्मृतिज्ञा नाभिनिर्हारनिर्वचनव्यवस्थानतश्च महाभिज्ञाभिनिर्हारतश्च कुशलमूलविशुद्ध्युपपत्तिप्रभावविशेषतश्च समासनिर्देशतः परमो विहारो वेदितव्यः । विस्तरनिर्देशतः पुनर्यथासूत्रमेव तद्यथा धर्ममेघायां बोधिसत्त्वभूमौ । परिपूर्णबोधिसत्त्वमार्गः सुपरिपूर्ण-बोधिसम्भारश्च स बोधिसत्त्वः तथागता नामन्तिकात्धर्ममेधभूम्यामत्युदारां दुःसहाः तदन्यैः सर्वसत्त्वैः सद्धर्मंवृष्टि सम्प्रतीच्छति । महामेधभूतश्च स्वयमनभिसम्बुद्धबोध्यभिसम्बुद्धबोधिश्चाप्रमेयानां सत्त्वानां सद्धर्म-वृष्टया निरपमया क्लेशरजांसि प्रशमयति । विचित्राणि च कुशलमुलशस्यानि विरोहयति विवर्धयती पाचयती तस्यां भूमाववस्थितः । तस्मात्सा भूमिर्धर्ममेघेत्युच्यते । तेनैव चार्थेन परमो विहारो द्रष्टव्यः ।

न च यान्युत्तरोत्तरेषु विहारेष्वङ्गानि निर्निष्टानि तानि पूर्वकेषु विहारेषु सर्वेण सर्वं न संविद्यन्ते । अपि तु मृदुत्वान्न संख्यां गच्छन्ति । तेषामेव च मध्याधिमात्रत्वात्[त]दन्योत्तरभूमिप्रतिलाभ-निष्पत्तिव्यवस्थानं वेदितव्यम् । एकैकश्चात्र विहारोऽनेकैर्महाकल्पकोटीशतसहस्रैस्ततो वा प्रभूततरैः प्रतिलभ्यते निष्पद्यते च । ते तु सर्वे विहारास्त्रिभिर्महाकल्पासंख्येयैः समुदागच्छन्ति महाकल्पासंख्येयेनाधिमुक्तिचर्या-विहारं समतिक्रम्य प्रमुदितविहारो लभ्यते । यच्च व्यायच्छमानो ध्रौव्येण नाव्यायच्छमानः । द्वितीयेन महाकल्पासंख्येयेन प्रमुदितविहारं यावत्साभोगं निर्निमित्तं विहारमतिक्रम्यानाभोगं निर्निमित्तं प्रतिलभते । तच्च निय मेव । तथा हि स शुद्धाशयो बोधिसत्त्वो नियतं व्यायच्छते । तृतीयेन महाकल्पासंख्येयेनानाभोगञ्च निर्निमित्तं प्रतिसंविद्विहारञ्च समतिक्रम्य परमं बोधिसत्त्वविहारं प्रतिलभते ।

तत्र दौ कल्पासंख्येयौ वेदितव्यौ । योऽपि महाकल्पः सोऽपि रात्रिन्दिवसमासार्धमासगणनायोगेन कालाप्रमेयत्वादसंख्येय इत्युच्यते । यापि (दुत्त्२४३) तेषामेव महाकल्पानां गणनायोगेन सर्वगणना समतिक्रान्ता संख्या सोऽप्यसंख्येयः । पूर्वकेण कल्पासंख्येयेन बोधिरनल्पैः कल्पासंख्येयैरधिगम्यते । पश्चिमकेन पुनः कल्पासंख्येयेन त्रिभिरेवनधिकैः । यस्त्वधिमात्राधिमात्रेण वीर्यारम्भेण प्रयुज्यते ततः कश्चिदन्तरकल्पान् प्रभूतान् व्यावर्तयति कश्चित्यावन्महाकल्पान् । न त्वसंख्येयव्यावृत्तिः कस्यचिदस्तीति वेदितव्यम् ।

एभिश्च द्वादशभिर्बोधिसत्त्वविहारैस्त्रिभिरसंख्येयैः क्लेशावरणपक्ष्यञ्च दौष्ठुल्यं प्रहीयते ज्ञेयावरण-पक्ष्यञ्च । तत्र त्रिषु विहारेषु क्लेशावरणपक्ष्यदौष्ठुल्यस्य प्रहाणं वेदितव्यम् । प्रमुदिते [विहारे] आपायिकक्लेशपक्ष्यस्य सर्वेण सर्वं समुदाचारतस्त्वधिमात्रमम्यस्य सर्वक्लेशपक्ष्यस्य अनाभोगे निर्निमित्ते विहारेऽनुत्पत्तिकधर्मक्षान्ति-विशुद्धिविबन्धक्लेश पक्ष्यस्य सर्वेण सर्वं दौष्ठुल्यस्य प्रहाणं वेदितव्यम् । समुदाचारतस्तु सर्वक्लेशानाम् । परमे पुनर्विहारे सर्वक्लेश[स]वासनानुशयावरणप्रहाणं वेदितव्यम् । तच्च तथागतं विहारमनुप्रविशतः ज्ञेयावरणपक्ष्यमपि दौष्ठुल्यं त्रिविधं वेदितव्यम् । त्वग्गतंफल्गुगतं सारगतञ्च । तत्र त्वग्गतस्य प्रमुदितविहारे प्रहाणं भवति । फल्गुगतस्यानाभोगे निर्निमित्ते सारगतस्य तथागते विहारे प्रहाणं भवति । सर्वावरणविशुद्धिज्ञानता च तेषु त्रिषु विहारेषु तस्य क्लेश-ज्ञेयावरणप्रहाणस्य तदन्ये विहारा यथानुक्रमं संभारभूता भवन्ति ।

एषु त्रयोदशसु विहारेषु समासत एकादशविधा विशुद्धिर्वेदितव्या । प्रथमे गोत्रविशुद्धिः । द्वितीये श्रद्धाविमुक्तिविशुद्धिः । तृतीयेऽध्याशयविशुद्धिः । चतुर्थे शीलविशुद्धिः । पञ्चमे चित्तविशुद्धिः । षष्ठे सप्तमेऽष्टमे च सम्यक्ज्ञानसमारम्भविशुद्धिः । नवमे प्रायोगिकचर्या-परिपूरिविशुद्धिः । दशमे तत्त्वज्ञानाभिनिर्हारविशुद्धिः एकादशे तदर्थसम्यक्परसमाख्यानाय प्रतिर्सविद्विशुद्धिः । द्वादशे सर्वाकारसर्वज्ञेयानुप्रवेशज्ञानविशुद्धिः । त्रयोदशे तथागते विहारे सवासन-सर्वक्लेश-ज्ञेयावरणविशुद्धिः ।

अष्टाभिश्च पूर्वनिर्दिष्टैर्महायानसंग्राहकैर्धर्मैरेषां त्रयोदशानां विहाराणां संग्रहो वेदितव्यः । प्रथमद्वितीययोर्विहारयोः श्रद्धाजातस्याधिमुक्तिगतस्य (दुत्त्२४४) बोधिसत्त्वपिटक-श्रवणचिन्तना । तृतीये विहारेऽध्याशयोपगमनं भावनाकारप्रतिलाभपूर्वकम् । तदन्येषु सर्वविहारेषु यावत्साभोगनिर्निमित्ताद्भावनावाहुल्यम् । ततश्चोर्ध्वं त्रिषु बोधिसत्त्वविहारेषु परिशुद्धचर्या संगृहीतेषु भावनाफलनिष्पत्तिः । तथागते विहारेऽत्यन्त नैर्याणिकता वेदितव्या ।

श्रावकविहारे साधर्म्येण चैषां द्वादशानां बोधिसत्त्वविहाराणामनुक्रमो वेदितव्यः । यथा श्रावकस्य स्वगोत्रविहारस्तथाऽस्य प्रथमो वेदितव्यः । यथा तस्य [सम्यकत्व]न्यामावक्रान्तिप्रयोगविहारः एवमस्य द्वितीयः । यथा तस्य न्यामावक्रान्तिविहारः तथास्य तृतीयो विहारः । यथा तस्यावेत्यप्रसादलाभिनः आर्यकान्ताधिशीलविहार उत्तरि आस्रवक्षयाय तथास्य चतुर्थो विहारः । यथा तस्याधिशीलं निश्रित्याधिचित्तशिक्षानिर्हारविहारः तथास्य पञ्चमो विहारः । यथा तस्य यथा प्रतिलब्धसत्यज्ञानाधिप्रशिक्षाविहारः तथास्य षष्ठ सप्तमाष्टमा विहारा वेदितव्या । यथा तस्य सुविचारित ज्ञेयस्यानिमित्तसमाधिप्रयोगविहारः तथास्यनवमो विहारः । यथा तस्य परिनिष्पन्नो निर्निमित्तो विहारः तथास्य दशमो विहारः । यथा तस्य व्युत्थितस्य विमुक्त्यायतनविहारः तथास्यैकादशो विहारः । यथा तस्य सर्वाकारोऽर्हत्वविहारः तथास्य द्वादशो विहारो वेदितव्यः ।

इति बोधिसत्त्वभूमावाधारानुधर्मे योगस्थाने चतुर्थं विहारपटलम् ।

समाप्तञ्च योगस्थानं द्वितीयम् ।



आधारनिष्ठायोगस्थानम् (बोओक्३)

(दुत्त्२४७)
उपपत्तिपटलम् (अध्याय ३.१)

समासतो बोधिसत्त्वानां पञ्चविधा उपपत्तिः सर्वत्रं सर्वविहारेषु च सर्वेषाञ्च बोधिसत्त्वानामनवद्या पर्वसत्त्वहितसुखाय । ईति-संशमनी तत्सभागानुवर्तनी महत्त्वोपपत्तिराधिपत्योपपत्तिश्चरमा चोपपत्तिः ।

तत्रेति-संशमनी उपपत्तिः कतमा । इह बोधिसत्त्वो दुर्भिक्षेषु कृच्छ्रेषु महाकान्तारेषु कालेषु प्रणिधाय सत्त्वानामल्पकृच्छ्रेण यात्रानिमित्तं महामत्स्यादियोनिषूपपद्यते । विपुलेष्वात्मभावेषु यत्रोपपन्नः कृत्स्नं जगत्स्वमांसेन सन्तर्पयति । व्याधिबहुलेषु च सत्त्वेषु प्रणिधाय सिद्धविद्याधर-महावैद्यात्मभावं परिगृह्णाति तेषां व्याधीनां प्रशमाय । भृश-परचक्रोपद्रवेषु च सत्त्वेषु बलवान् भूमिपतिर्भवति धर्मेण शमेनोपायकौशल्येन परचक्रोपद्रवप्रशमनार्थं परस्पर-विरुद्धेषु च सत्त्वेष्वादेयवचनो भवति सन्धिक्रियायै वैराशयप्रहाणाय च । दण्डबन्धनचित्रपीडाप्रवृत्तेषु च प्रजानां राजसु तेषामेव सत्त्वोपद्रवाणां प्रहाणाय तद्रूपेषु राजकुलेषूपपद्यते । राजा च धार्मिको भवति सत्त्वानुकम्पः । ये च सत्त्वा मिथ्यादृष्टयश्च पापकारिणश्च कस्मिंश्चिद्देवायतनेऽधिमुक्ताः तेषामनुकम्पया मिथ्यादृष्टिदुश्चिरितप्रहाणाय तस्मिन्देवायतने उपपद्यते । प्रणिधानवशिताबलाभ्याञ्च इयमुपपत्तिरनुकम्पा-पूर्विका अप्रमेया वेदितव्या विस्तरनिर्देशतस्तासु तासु विचित्रासु योनिषु तिर्यग्योन्युपपन्नेषु सत्त्वेषु समास-निर्देशस्त्वयमाशयः ।

तत्सभागानुवर्तिनी उपपत्तिः कतमा । इह बोधिसत्त्वः प्रणिधाय वा वशिताप्राप्तितो वा विचित्रेषु तिर्यग्योन्युपपन्नेषु सत्त्वेषु देवनागयक्षासुरादिषु चान्योन्यद्रुग्ध विरुद्धेषु तथा मिथ्यादृष्टिकेषु ब्राह्मणेषु तथा दुश्चरितचारिषु तत्(दुत्त्२४८) आजीवेषु तदभिरतेषु तथाकामेष्वत्यर्थाध्यवसितेषु कामाधिमुक्तेषु [सत्त्वेषु] तेषां सत्त्वानां सभा[गता]यामुपपद्यते प्रामुख्येन तस्य दोषस्य विनिवर्तनार्थम् । स प्रमुखो भूत्वा यत्ते सत्त्वाः समुदाचरन्ति तदसा न समुदाचरन्ति । यत्ते न समुदाचरन्ति कुशलं तदसौ समुदाचरति । कुशलसमुदाचाराय चैषां धर्मं देशयति । ते तया [च] धर्मदेशनया [तया] च विसभागसमुदाचारतया तेभ्यो दोषेभ्यस्तेनोपायकौशल्येन विनिवर्तन्ते । इयमप्युपपत्तिप्रमेया पूर्ववद्वेदितव्या ।

तत्र महत्त्वोपपत्तिः कतमा । इह बोधिसत्त्वः प्रकृत्यैवौपपद्यमानः सर्वलोकप्रतिविशिष्टमायुर्वर्णकुलैश्वर्यादि-विपाकमभिनिर्वर्तयति । तेन च विपाकेन यथोक्तं स्वपरार्थपटले कर्म करोति । साप्युपपत्तिर्बोधिसत्त्वस्याप्रमेया तासु तासु योनिषु वेदितव्या ।

तत्र कतमा बोधिसत्त्वस्याधिपत्योपपत्तिः । या बोधिसत्त्वस्य प्रथमं प्रमुदितविहारमुपादाय यावद्दशमाद्विहारादुपपत्तिर्वर्णिता साऽस्याधिपत्त्योपपत्तिरित्युच्यते । जम्बूद्वीपेश्वरत्वमुपादाय यावन्महेश्वरत्वादकनिष्ठानतिक्रम्य सर्वोपपत्त्यायतनप्रविष्टं यत्र परमविहारप्राप्ता एव बोधिसत्त्वा उपपद्यन्ते । तेषां हि तत्कर्माधिपत्येन निर्वृत्तम् ।

तत्र चरमा बोधिसत्त्वोपपत्तिः कतमा । यस्यामुपपत्तौ परिपूर्णबोधिसम्भारी बोधिसत्त्वः पुरोहितकुले वा राजकुले वा उपपद्यानुत्तराञ्च सम्यक्संबोधिमभिसंबुध्यते । सर्वञ्च बुद्धकार्य करोति । इयमुपपत्तिश्चरमा पश्चिममेत्युच्यते । ये केचिद्बोधिसत्त्वा अतीतानागतप्रत्युत्पन्नेष्वध्वसु शुभासु भद्रासु कल्याणासु उपपत्तिषूपपन्ना उपपत्स्यन्ते उपपद्यन्ते च सर्वे ते आस्वेव पञ्चसु । नात उत्तरि नातो भूयः स्थापयित्वा बालभूम्युपपत्तीः । तथा हि विज्ञैर्बोधिसत्त्वैः उपपत्तय एताः पञ्चाभिप्रेताः । ताः खल्वेता उपपत्तयो महाबोधिफलाः । या आश्रित्य बोधिसत्त्वाः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते ।

इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने प्रथममपपत्तिपटलम् ।


(दुत्त्२४९)
परिग्रहपटलम् (अध्याय ३.२)

तत्र सर्वासु विहारगतासु बोधिसत्त्वचर्यासु बोधिसत्त्वानां समासतः षड्विधः सम्यक्त्वपरिग्रहो वेदितव्यः । सकृत्सर्वसत्त्वपरिग्रहः । अधिपत्यपरिग्रहः । उपादानपरिग्रहः । दीर्घकालिकः । अदीर्घकालिकः । चरमश्च परिग्रहः ।

प्रथम एव चित्तोत्पादे बोधिसत्त्वेन सर्वः सत्त्वधातुः कलत्रभावेन परिगृहीतः । एषां मया यथाशक्ति यथाबलं सर्वाकारहितसुखोपसंहारः करणीय इति । तथैव च करोति । अयं बोधिसत्त्वस्य सकृत्सर्वसत्त्वपरिग्रहः ।

स्वामिभूतस्य मातापितृपुत्रदारदासीदासकर्मकरपौरुषेयपरिग्रहे राजभूतस्य च राज्यजने बोधिसत्त्वस्याधिपत्यपरिग्रहसंज्ञा । स च तस्मिन्परिग्रहे परिग्रहानुरूपया क्रियया बोधिसत्त्वानुरूपया प्रवर्तते । मातापितरञ्च कुशलमूले सन्नियोजयति विविधैरुपायैः । कालेन च कालं पूजोपस्थानं करोति । कृतज्ञश्च भवति कृतवेदी । चित्तानुवर्तकश्च मातापित्रोर्भवति । धर्मेष्वर्थेषु तद्वशवर्ती । पुत्रदारदासीदासादीनां कालेन कालं सम्यग्भक्तप्रावरणमनुप्रयच्छति । कर्मान्तैश्चैनां न बाधते । व्यतिक्रमञ्चैषां क्षमते । ग्लानानाञ्च सम्यक्ग्लानोपस्थानं करोति । कुशले चैनां सन्नियोजयति । कालेन च कालं वैशेषिकेण लाभेन प्रियवादितया चोपवत्सयति न चैषु दासदासीसंज्ञां करोति । आत्मवच्चैनां विशेषेण वा परिपालयति । राज्यजने पुना राजभूतो बोधिसत्त्वः अदण्डेनाशस्त्रेण राज्यं कारयति । धर्मेण भोगानुपसंहरति । अन्वयागतञ्च राज्यं परिभुंक्ते । न परराष्ट्रं सहसा बलेनाक्रामति । यथाशक्ति च यथाबलं सत्त्वान् पापान्निवारयति । पितृभूतश्च भवति प्रजानाम् । संविभागशीलश्च भवति परसत्त्वानामपि प्रागेव स्वभृत्यानाम् । अनभिद्रोही च भवति सत्यवादी च । वधबन्धनदण्डनच्छेदनताडनादि-सत्त्वोत्पीडा विवर्जिताः ।

(दुत्त्२५०)
तत्र सम्यग्गणपरिकर्षणं बोधिसत्त्वस्योपादानपरिग्रह इत्युच्यते । स द्वाभ्यां कारणाभ्यां सम्यक्परिषदं परिगृह्णाति । निरामिषचित्तेन परिगृह्णाति । सम्यक्च स्वार्थे प्रयोजयति । न मिथ्याप्रयोगेण विप्रतिपादयति । सर्वस्मिंश्च परिग्रहे समचित्तो भवति न पक्षपतितः । न च तेषामन्तिके धर्ममात्सर्यं करोति न चाचार्यमुष्टिम् । न च तेषामन्तिकादुपस्थानपरिचर्यां प्रत्याशंसते । कुशलकामतया तु स्वयं कुर्वतां न निवारयति तेषामेव-पुण्यसम्भारोपचयनिमित्तं कालं च प्राप्य स्वयमेवतेषामुपस्थानपरिचर्याकर्ता भवति । अव्युत्पन्नञ्चैषामार्थं व्युत्पादयति । व्युत्पञ्च पर्यवदापयति । उत्पन्नोत्पन्नञ्च संशयं नाशयति । कौकृत्यञ्च प्रतिविनोद यति । गम्भीरं चार्थपदं प्रज्ञया प्रतिविध्य कालेन कालं संप्रकाशयति । समदुःखसुखी च तैर्भवति । आत्मनश्चान्तिकात्तेषामर्थे आमिषहेतोरधिकेन व्यापारेण समन्वागतो भवति । कालेन च कालमेषांव्यतिक्रमे सम्यक्चोदको भवति । कालेन च न्यायेनावसादकः । व्याधितांश्चैतां विमनस्कं वा सर्वथा नाभ्युपेक्षते व्याधिप्रशमाय दौर्मनस्यापगमाय । हीनांश्चैनान् रूपस्मृतिवीर्यज्ञानादिभिर्न परिभवति । कालेन च कालं तेषां खेदमनुप्रविश्य युक्तरूपं धर्मं देशयति । कालेन च कालमेषामालम्बने सम्यगववादमनुप्रयच्छति । विमर्दसहिष्णुश्च भवत्यसंक्षोभ्यः । तैश्च सह तुल्यवृत्तसमाचारो भवत्यधिको वा [न] न्यूनः । लाभसत्कारे च निष्पृहो भवति । कारुणिकश्च भवति । अनुद्धतश्चाचपलश्च शलीदृष्ट्याचाराजीवसम्पन्नश्च भवति । उत्तानमुखवर्णश्च [भवति ।] विगतभृकुटिः पेशलो मधुरभाणी पूर्वाभिलापी स्मितपूर्वङ्गमः । सततसमितमभियुक्तश्च भवति । कुशलपक्षे । प्रमादकौसीद्यापगतः
। तथैव परिषदोऽनु शिक्षणार्थमात्मविशेषता-गमनतायै च । न च बोधिसत्त्वः सर्वं कालं परिषदुपादानं करोति । नैव न करोति । न चान्यथा करोति ।

तत्र ये मृदुके परिपाके व्यवस्थिताः सत्त्वास्ते बोधिसत्त्वस्य दीर्घकालिकमुपादानमित्युच्यन्ते चिरेण कालेन विशुइद्धिभव्यतया ।

(दुत्त्२५१)
ये पुनर्मध्ये परिपाके व्यवस्थितास्तेऽदीर्घकालिकमुपादानमित्युच्यन्ते न चिरेण विशुद्धिभव्यतया ।

ये पुनः सत्त्वा अधिमात्रे परिपाके व्यवस्थितास्ते बोधिसत्त्वस्य चरममुपादानमित्युच्यन्ते तस्मिन्नेव जन्मनि विशुद्धिभव्यतया । इत्ययं षड्विधः सम्यक्सत्त्वपरिग्रहो बोधिसत्त्वानाम् । येन परिग्रहेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वाः सत्त्वान् परिगृहीतवन्तः परिग्रहीष्यन्ति परिगृह्णन्ति वा । पुनः नास्त्यत उत्तरि नास्तो भूयः ।

एवञ्च सम्यक्सत्त्वपरिग्रहवृत्तानां बोधिसत्त्वानां द्वादशसम्बाधसंकटप्राप्तयो वेदितव्याः । तासु च विचक्षणेन बोधिसत्त्वेन भवितव्यम् । व्यतिक्रमव्यवस्थितेषु सत्त्वेषु युदि वा बाधनं यदि वाऽध्युपेक्षणा बोधिसत्त्वस्य संबाधसंकटप्राप्तिः कटुकेन च प्रयोगेण सत्त्वे समुदाचारः स्वस्य चाशयस्य क्लेशारक्षासम्बाधसंकटप्राप्तिः । अल्पके च देयधर्मे संविद्यमाने बहूनां याचकानां सम्मुखीभावो याचनाय संबाधसंकटप्राप्तिः । एकात्मकस्य चास्य बहूनां सत्त्वानां कृत्येषु विचित्रेषूत्पन्नेषु सहायीभावयाचना संबाधसंकटप्राप्तिः । प्रमादस्थानीया च शुभा लौकिकी समापत्तिर्देवलोकोत्पत्तिश्चाकर्मण्यचेतसः संबाधसंकटप्राप्तिः । सत्त्वार्थक्रियार्थिनश्च सत्त्वार्थकरणासमर्थता संबाधसंकटप्राप्तिः । मूढशठखठुंकेषु सत्त्वेषु धर्मस्य देशना वाध्युपेक्षणा वा संबाधसंकटप्राप्तिः । संसारे च नित्यकालं दोषदर्शनं संसारापरित्यागश्च संबाधसंकटप्राप्तिः । अविशुद्धेऽध्याशये मुषितस्मृते मरणं संबाधसंकटप्राप्तिः । अविशुद्धे चाध्याषये परैरग्रस्य परम-प्रियस्य वस्तुनो याचना संबाधसंकटप्राप्तिः नानाधिभिन्नमतानां नानाधिमुक्तिकानां सत्त्वानां संज्ञप्तिका अध्युपेक्षणा वा संबाधसंकटप्राप्तिः । आत्यन्तिकश्चाप्रमादः करणीयः क्लेशाश्च सर्वेण सर्वं न प्रहातव्य इति संबाधसंकटप्राप्तिः । एवं संबाधसंकटप्राप्तेन
बोधिसत्त्वे क्वचिद्गुरुलाघवं लक्षयित्वा तथैव प्रयोक्तव्यं क्वचित्पुद्गलप्रविचयः करणीयः । क्वचिद्धैर्यमालम्ब्य हेतुं समादाय वर्तितव्यम् । सम्यक्प्रणिधानानि च करणीयानि । क्वचिच्चित्तस्य प्रसरो न देयः । क्वचित्तीव्रं प्रतिसंख्यानमुपस्थाप्याखिन्नेन क्षमेन भवितव्यम् । क्वचिद्(दुत्त्२५२) उपेक्षकेण भवितव्यम् । क्वचिदारब्धवीर्येण आतप्तकारिणा भवितव्यम् । क्वचिदुपायकुशलेन भवितव्यम् । एवं सम्यक्प्रतिपक्षकुशलो बोधिसत्त्वः सर्वसंबाधसंकटप्राप्तिसम्मुखीभावेऽपि न विषीदति सम्यक्चात्मानं परिहरति ।

इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने परिग्रहपटलं द्वितीयम् ।


(दुत्त्२५३)
भूमिपटलम् (अध्याय ३.३)

एषु यथावर्णितेषु त्रयोदशसु विहारेष्वनुगताः सप्त भूमयो वेदितव्याः । षट्बोधिसत्त्वभूमयः । एका व्यामिश्रा बोधिसत्त्व-ताथागती-भूमिः । गोत्रभूमिः । अभिमुक्तिचर्याभूमिः शुद्धाध्याशयभूमिः । चर्याप्रतिपत्तिभूमिः । नियता भूमिः । नियतचर्याभूमिः । निष्ठागमनभूमिश्च इतीमाः सप्त बोधिसत्त्वभूमयः । आसां पश्चिमा व्यामिश्रा । तत्र गोत्रविहारोऽधिमुक्तिचर्याविहारश्च द्वे भूमी । प्रमुदितो विहारः शुद्धाध्याशया भूमिः । अधिशीलाधिचित्तविहारौ त्रयश्चाधिप्रज्ञविहाराः साभोगश्च निर्निमित्तो विहारश्चर्याप्रतिपत्तिभूमिः । अनाभोगो निर्निमित्तो विहारो नियता भूमिः । तस्यां भूमौ बोधिसत्त्वस्तृतीयनियतिपातपतितो भवति । प्रतिसंविद्विहारो नियतचर्याभूमिः । परमो विहारस्ताथागतश्च निष्ठागमनभूमिः । ताथागतस्य पुनर्विहारस्य भूमेश्च पश्चान्निर्देशो भविष्यति बुद्धधर्मप्रतिष्ठा पटले ।

तत्र बोधिसत्त्वः अधिमुक्तिचर्याभूमेः शुद्धाध्याशयभूमिमनुप्रविशन् कथमपायान्समतिक्रामति । इह बोधिसत्त्वो लौकिकं परिशुद्धं ध्यानं निश्रित्याधिमुक्तिचर्याभूमौ सुसम्भृतबोधि सम्भारो दशोत्तरेण पूर्वनिर्दिष्टेनाकारशतेन सत्त्वेष्वनुकम्पां भावयप्यनन्यमनसिकारः । स भावनान्वयात्तद्रूपं सत्त्वेष्वनुकम्पाशयं करुणाशयं प्रतिलभते । येनापायान् सत्त्वानामर्थेऽगारावसायोगेनाधितिष्ठति । यदि मे एष्वेव सन्निवसतोऽनुत्तरा सम्यक्संबोधिः समुदागच्छति तथाप्यहमुत्सहामीति सत्त्वानां दुःखापनयनहेतोः । सर्वाञ्च सत्त्वानामापायिकं कर्म तेन शुद्धेनाशयेनात्मवैपाक्यमिच्छति । अत्यन्तञ्च सर्वाकुशलकर्मासमुदाचाराय मानं संप्रणिधत्ते । तस्य तथा परिभावितं तल्लौकिकं परिशुद्धं ध्यानम् । आपायिकक्लेशपक्ष्यं दौष्ठल्यमाश्रयादपकर्षति । अचिरेण तस्य प्रहाणादाश्रयोऽस्य बोधिसत्त्वस्य परिवर्तते पापकस्यापायिकस्य कर्मणोऽत्यन्तमकरणतायै अपायागमनतायै (दुत्त्२५४) च । इयता बोधिसत्त्वः समतिक्रान्तोऽपायगतीः सर्वा भवति । समतिक्रान्तश्चाधिमुक्तिचर्याभूमिम् । प्रविष्टश्च शुद्धाध्याशयभूमिम् ।

ये च ते दशधर्मा विहारपटले निर्दिष्टा । श्रद्धादयो विहारपरिशोधनाः त इहापि भूमिविशोधना वेदितव्याः । तेषां विपक्षप्रतिपक्षतो व्यवस्थानं वेदितव्यम् । समासार्थोऽनुक्रमश्च वेदितव्यः । तत्र दशेमे । एषां दशानां भूमिविशोधनानां धर्माणां विपक्षभूता धर्माः । येषां प्रतिपक्षेणैषां व्यवस्थानं भवति । कतमे दश । सर्वेण सर्वमनारम्भचित्तोत्पादना बोधिसत्त्वशिक्षापदासमादानमयं श्रद्धाविपक्षो धर्मः । यस्य प्रतिपक्षेण श्रद्धा । सत्त्वेषु विहिंसाचित्तं करुणाविपक्षः । यस्य प्रतिपक्षेण करुणा । सत्त्वेषु व्यापादो मैत्रीविपक्षः । यस्य प्रतिपक्षेण मैत्री । भोगजीविकापेक्षा दानविपक्षः । यस्य प्रतिपक्षेण त्यागः । सत्त्वेभ्योऽपकार-विप्रतिपत्तिलाभो बहुकर्तव्यता चाखेदविपक्षः । यस्य प्रतिपक्षेणाखेदता । अनुपायप्रयोगः शास्त्रज्ञता-विपक्षः । यस्य प्रतिपक्षेण शास्त्रज्ञता । असौरत्यापरचित्तानुवर्तनता लोकज्ञता-विपक्षः । यस्य प्रतिपक्षेण लोकज्ञता । कुशलधर्मभावनायां प्रमादकौसीद्यं ह्रीव्यपत्राप्य-विपक्षः । यस्य प्रतिपक्षेण ह्रीव्यपत्राप्यता । दीर्घकालिकैश्चित्रैस्तीव्रैर्निरन्तरैः संसारदुःखैर्व्यवदीरणता धृतिबलाधानता-विपक्षः । तस्य प्रतिपक्षेण धृतिबलाधानता । शास्तरि कांक्षा विमतिर्विचिकित्सा तथागतपूजोप स्थानतायाः विपक्षः । यस्य प्रतिपक्षेण तथागतपूजोपस्थानता । एवं तावदेषां विपक्षप्रतिपक्षतो व्यवस्थानं भवति ।

कः पुनरेषां समासार्थः । समासेन दशभिरेभिर्धर्मैराशयशुद्धिः प्रयोगशुद्धिश्च परिदीपिता । तत्र त्रिभिः पूर्वकैराशयशुद्धिः । अवशिष्टैः प्रयोगशुद्धिर्वेदितव्या । बोधिमभिश्रद्धद्बोधिसत्त्वः सत्त्वान् दुःखितान् करुणायते । करुणायमानो मयैते परित्रातव्या इति मैत्रायते । तथा मैत्रचित्तस्य सर्वपरित्यागी भवत्येषु भोगजीवितनिरपेक्षः । निरपेक्षश्चैषामर्थे प्रयुज्यमानो न परिखिद्यते । अपरिखिन्नश्च शास्त्रज्ञो भवति । शास्त्रज्ञश्च यथा लोके (दुत्त्२५५) प्रवर्तितव्यमनेन तथा जानाति । एवं लोकज्ञो भवति । स्वयञ्च क्लेशसमुदाचारेण जेह्रीयते व्यपत्रपते । ह्रीमानपत्रापी च क्लेशावशगो धृतिबलधानप्राप्तो भवति । धृतिबलाधानप्राप्तश्च सम्यक्प्रयोगादपरिहीयमानः कुशलैश्च धर्मैर्विवर्धमानः प्रतिपत्तिपूजया लाभसत्कारपूजया च तथागतपूजोपस्थानं करोति । इत्ययमेषां दशानां धर्माणामनुक्रमसमुदागमो वेदितव्यः । एभिर्दशभिर्धर्मैः सर्वभूमिविशोधना भवति ।

इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने तृतीयं भूमिपटलम् ।


(दुत्त्२५६)
चर्यापटलम् (अध्याय ३.४)

अधिमुक्तिचर्याभूमिमुपादाय सर्वासु बोधिसत्त्वभूमिषु बोधिसत्त्वानां समासतश्चतस्रश्चर्या वेदितव्याः । [कतमाश्चतस्रः ।] पारमिताचर्या बोधिपक्ष्याचर्या [अभिज्ञाचर्या] सत्त्वपरिपाकचर्या च । तत्र षट्च पूर्वनिर्दिष्टाः पारमिताः । उपायकौशल्यपारमिता च प्रणिधानपारमिता च बलपारमिता च ज्ञानपारमिता च । इतीमा दशपारमिता अभिसमस्य पारमिताचर्येत्यु च्यते । तत्र द्वादशाकारं पूर्वनिर्दिष्टमुपायकौशल्य[मुपायकौशल्य-]पारमिता । पञ्च पूर्वनिर्दिष्टानि प्रणिधानानि प्रणिधानपारमिता । दशबलप्रयोगविशुद्धिर्बलपारमिता । सर्वधर्मेषु यथावद्व्यवस्थानज्ञानं ज्ञानपारमिता । तत्र परमार्थग्रहणप्रवृत्ता प्रज्ञा प्रज्ञापारमिता । संवृतिग्रहणप्रवृत्ता पुनर्ज्ञानपारमिता । इत्ययमनयोर्विशेषः । अपरः पर्यायः । अप्रमाणज्ञानता उपायकौशल्यपारमिता । उत्तरोत्तरज्ञानवैशेषिकता-प्रार्थना प्रणिधानपारमिता । सर्वमारैर्मार्गानाच्छेद्यता बलापारमिता । यथावज्ज्ञैयावबोधता ज्ञानपारमिता । स्मृत्युपस्थानान्युपादाय सर्वे सप्तत्रिंशद्बोधिपक्ष्या धर्माश्चतस्रश्च पर्येषणाश्चत्वारि च यथाभूतपरिज्ञानानि यथापूर्वनिर्दिष्टान्यभिसमस्य बोधिसत्त्वानां बोधिपक्ष्यचर्येत्युच्यते । यथा संवर्णिताश्च षड्भिज्ञाः प्रभावपटले बोधिसत्त्वानामभिज्ञाचर्येत्युच्यते । द्वौ च पूर्वनिर्दिष्टावप्रमेयौ विनेयाप्रमेयश्च विनयोपायाप्रमेयश्च [सर्वसत्त्वपरिपाको यथानिर्दिष्टः] सत्त्वपरिपाकपटले बोधिसत्त्वस्याभिसमस्य सत्त्वपरिपाकचर्येत्युच्यते ।

आभिश्चतसृभिर्बोधिसत्त्वचर्याभिः सर्वबोधिसत्त्वचर्यांसंग्रहो वेदितव्यः । तत्रासंख्येयत्रय-दीर्घकालसमुदागमात्स्वभावविशुद्धिविशेषात्तदन्येभ्यः सर्वलौकिकश्रावकप्रत्येकबुद्धकुशलमूलेभ्यः परमबोधिफलपरिग्रहाच्चैते दश (दुत्त्२५७) दानादयो धर्माः परमेण कालेन समुदागताः परमया स्वभावविशुद्ध्या विशुद्धाः परमञ्च फलमनुप्रयच्छन्ति । इति तस्मात्पारमिता इत्युच्यन्ते ।

त्रिभिश्च कारणैः पारमितानामनुक्रमव्यवस्थानं वेदितव्यम् । कतमैस्त्रिभिः । प्रतिपक्षतः उपपत्तितो विपाकफलतश्च ।

तत्र मात्सर्यं दुश्चरितं सत्त्वेषु वैरोत्पीडनता कौसीद्यं विक्षेपो मन्दमोमुहता च । अमी षड्धर्मा बोधेरावरणस्थानीयाः । एषां [षण्णां] धर्माणां प्रतिपक्षेण षट्पारमिता यथायोगं वेदितव्याः । तदन्याश्च पारमिता आभिरेव संगृहीताः । एवं प्रतिपक्षतो व्यवस्थानं भवति ।

कथमुपपत्तितः । इहादित एव भोगनिरपेक्षो बोधिसत्त्वः त्यक्त्वा आगारिकान् कामान् शीलसमादानं करोति । शीलगौरवाच्च परविहेठं क्षमते । नो तु परं विहेठयति । समादानतश्च क्षान्तितश्च विशुद्धिशीलो निश्चलेन निरन्तरेण कुशलपक्षप्रयोगेण प्रयुज्यते । स तथा वीर्येणाप्रमत्तः स्पृशति कुशलाञ्चित्तस्यैकाग्रताम् । स तथा समाहितचित्तो यथाभूतं ज्ञेयं जानाति दृश्यं पश्यति । एवमेषामेवानुक्रमेणोपपत्तितो व्यवस्थानं वेदितव्यम् ।

कथं फलविपाकतः । इह बोधिसत्त्वस्य दृष्टे धर्मे एतान् दानादीन् कुशलान्धर्मान् समादाय वर्तमानस्य तन्निदानमायत्यां बाह्यतश्च भोगसम्पत्प्रतिलम्भो भवति दानकृतः । अध्यात्मिकश्च पञ्चाकार आत्मभावसम्पत्प्रतिलम्भो भवति तदन्यशीलादि-पारमिताकृतः ।

पञ्चाकारा आत्मभावसम्पत्कतमा । सुगतिपर्यापन्नो दिव्यमानुष्यकस्तदन्यसत्त्वायुरादिविशेषवान् । इयं प्रथमा सम्पत् । सहजा चकुशलमूलप्रयोगे अखेदता परव्यतिक्रमसहिष्णुता च परोपतापप्रियता । इयं द्वितीया सम्पत् । सहजा सर्वारम्भेषु दृढव्यवसायता । इयं तृतीया सम्पत् । सहजा च मन्दरजस्कस्य स्वचित्तवशिता चित्तकर्मण्यता सर्वार्थेषु क्षिप्राभिज्ञतायै । इयं चतुर्थी सम्पत् । सहजञ्च मतिवैपुल्यं पाण्डित्यं (दुत्त्२५८) विचक्षणता च सर्वार्थेषु । इयं पञ्चमी सम्पतितीदं फलविपाककृतमन्यदनुक्रमव्यवस्थानं षण्णां पारमितानां वेदितव्यम् ।

तत्र चतसृभिः पारमिताभिः [सह]सम्भारेण स्वभावेन परिवारेण रक्षया च परिपूर्णा बोधिसत्त्वानामधिशीलं शिक्षा वेदितव्या । ध्यानपारमितया अधिचित्तं शिक्षा । प्रज्ञापारमितया अधि[प्रज्ञं] शिक्षा । न च बोधिसत्त्वस्योत्तरि शिक्षामार्ग उपलभ्यते । त्रिभिः अतः सर्वबोधिसत्त्वशिक्षामार्गंसंग्रहात्षडेव पारमिता [व्यवस्थापिता] । नात उत्तरि नातो भूयः ।

चत्वारि चेमानि बोधिसत्त्वानां समासतः कृत्यानि । यैरेषां सर्वकृत्यसंग्रहो भवति । बोधाय कुशलाभ्यासः । तत्पूर्वकश्च तत्त्वार्थप्रतिवेधः प्रभावसमुदागमः । सत्त्वपरिपाचनता च । एतानि च चत्वारि कृत्यानि बोधिसत्त्वाः आभिश्चतसृभिश्चर्याभिर्यथाक्रमं कुर्वन्त्यनुतिष्ठन्ति । तस्मादपि तदुत्तरा चर्या न व्यवस्थाप्यते ।

इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने चतुर्थं चर्यापटलम् ।


(दुत्त्२५९)
लक्ष्मणानुव्यञ्जनपटलम् (अध्याय ३.५)

तत्र तथागतविहारमारभ्य ताथागतीञ्च निष्ठागमनभूमिं भगवतां चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतं भवति । द्वात्रिंशन्महापुरुषलक्षणानि अशीत्युनुव्यञ्जनानि चतस्रः सर्वाकाराः परिशुद्धयः दश तथागतबलानि चत्वारि वैशारद्यानि त्रीणि स्मृत्युपस्थानानि त्रीण्यरक्षाणि महांकरुणाऽसम्मोषधर्मता वासना-समुद्धातः सर्वाकार-वरज्ञानञ्च ।

द्वात्रिंशन्महापुरुषलक्षणानि कतमानि । सुप्रतिष्ठितपादो महापुरुषः सममाक्रमति महीम् । इदं महापुरुषस्य महापुरुषलक्षणम् । अधस्थात्पादतलयोश्चक्रे जाते सहस्रारे सनाभिके सनेमिके सर्वाकारपरिपूर्णे । दीर्घाङ्गुलिमंहापुरुषः । आयतपादपार्ष्णिः । मृदुतरुणपाणिपादः । जालपाणिपादः । उच्छङ्गचरणः । एणेयजङ्घः । अनवनतकायः । कोशगतवस्तिगुह्यः । न्योग्रधपरिमण्डलः । व्यामप्रभः । ऊर्ध्वाङ्गरोमा । एकैकरोमा । एकैकमस्य रोमकूपे जातं नीलं कुण्डलकजातं प्रदक्षिणावर्तम् । काञ्चनसन्निभत्वक् । श्लक्ष्णवत्क् । श्लक्ष्णत्वात्त्वचे रजो मलस्य काये नावतिष्ठते । सप्तोत्सदकायः । सप्तास्योत्सदाः । काये जाताः-द्वौ हस्तयोर्द्वौ पादयोर्द्वावसंयोरेको ग्रीवायाम् । सिंहपूर्वार्धकायः । सुसंवृत्तस्कन्धः । चितान्तरांशः । बहदृजुगात्रः । चत्वारिंशत्समदन्तः । अविरलदन्तः । सुशुक्लदन्तः । सिंहहनुः । प्रभूत-तनुजिह्वः । प्रभूतत्वाज्जिह्वायाः मुखाज्जिहवां निर्णाम्य सर्वमुखमण्डलमवच्छादयति यावन्तकं क्लेशपर्यन्तम् । रसरसाग्रप्राप्तः । ब्रह्मस्वरः । कलविङ्क-मनोज्ञभाणी । दुन्दुभिस्वरनिर्घोषः । अभिनीलनेत्रः । गोपक्ष्मा । (दुत्त्२६०) उष्णीषशीर्षा । ऊर्णा चास्य भ्रूवोर्मध्ये जाता श्वेता शंखनिभा प्रदक्षिणावर्ता । इदं महापुरुषस्य महापुरुषलक्षणम् ।

अशीतिरनुव्यञ्जनानि कतमानि । हस्तपादयोर्विशतिरङ्गुल्यः सपर्वाणः सनखाः । विंशतिरनुव्यञ्जनानि । हस्तपादयोरेवाष्टौ तलानि । द्वयोर्हस्तयोश्चत्वारि द्वयोः पादयोश्चत्वार्यष्टावनुव्यञ्जनानि । षड्विधो गुल्फजानूरुसंघातः । षडनुव्यञ्जनानि । षड्विधो बाह-संघातः षडनुव्यञ्जनानि । जघनम् । सीवनी च । वृष्णेऽनुव्यञ्जनद्वयम् । उपस्थम् । द्वे स्फिचौ अनुव्यञ्जनद्वयम् । त्रिकम् । उदरम् । नाभिः । द्वे पार्श्वे द्वे कक्षे द्वौ स्तनौअभिसमस्य षडनुव्यञ्जने भवन्ति । उरः हृदयं ग्रीवा पृष्ठम् । इत्येत्यानि अधः कायगतानि ग्रीवायाम ऊर्ध्वं स्थापयित्वा षष्टिरनुव्यञ्जनानि भवति । द्वे दन्तमाले द्वे अनुव्यञ्जने । तालुकम् । द्वौ सपरिवारौ चोष्टौ अनुव्यञ्जनद्वयम् । सुपरिपूर्णं कपोलम् । द्वे गण्डे परिपूर्णे सुसंस्कृते अनुव्यञ्जनद्व्यम् । द्वौ अक्षिपरिवारावनुव्यञ्जनद्वयम् । द्वे भ्रुवावनुव्यञ्जनद्वयम् । द्वे नासिकाविले अनुव्यञ्जनद्वयम् । ललाटम् । द्वे शङ्खे द्वौ च कर्णावनुव्यञ्जन-चतुष्टम् । सकेशञ्च शिरोऽनुव्यञ्जनम् । इत्येतानि ग्रीवायाः ऊर्ध्वं काये विंशतिरनुव्यञ्जनानि भवन्ति । पूर्वकानि च षष्टिः पश्चिमकानि च विंशतिरेकध्यमभिसंक्षिप्य अशीतिरनुव्यञ्जनानि भवन्ति । इत्येतानि लक्षणानुव्यञ्जनानि [भद्राणि] शुद्धाशयभूमिप्रविष्टो बोधिसत्त्वो विपाकतः प्रतिलभते । ततस्तूर्ध्वमेषां शुद्धिरुत्तरोत्तरा यावद्बोधिमण्डनिषदनाद्वेदितव्या । परिशिष्टानावेणिकान् सर्वाकार-परिशुद्धादीन् सुविशुद्धान् परिपूर्णान् प्रतिलभते । हीनैस्तु तैः पूर्वमपि बोधिसत्त्वभूतः समन्वागतो भवति शुद्धाध्याशयभूमिमुपादाय । सर्वश्चाविशेषेण बोधिसम्भारः सर्वेषां लक्षणानुव्यञ्जनानां निर्वर्तको भवति ।

स पुनर्बोधिसम्भारो द्विविधः । बोधेर्दूरश्चासन्नश्च । तत्र दूरः । यः प्रतिलब्धेषु विपाकतो लक्षणानुव्यञ्जनेषु । आसन्नः । यः प्रतिलब्धेषु तत्प्रथमतो विपाकतो लक्षणानुव्यञ्जनेषु । ततो वा उत्तरोत्तरविशुद्धिविशेषगतेषु ।

(दुत्त्२६१)
विचित्रकर्माभिसंस्कारफलानि त्वेतानि लक्षणानुव्यञ्जनानि भगवता [अर्थि-]विनेयवशेन निर्देशितानि । तत्कस्य हेतोः । सत्त्वा विचित्रे पापकर्मसमुदाचारेऽभिरताः । अप्येव ते तस्य पापकस्य कर्मणो विपक्षभूतस्य विचित्रस्य यत्प्रातिपक्षिकं विचित्रं कुशलं लक्षणानुव्यञ्जननिर्वर्तकं कर्म तस्येदं विचित्रफलानुशंसं श्रुत्वा तस्य महतः फलानुशंसस्य स्पृह्यमानरूपारतस्माच्च पापाद्विरमेयुः । तच्च कुशलं समादाय वर्तेरन्निति । यथोक्तं लक्षणसूत्रे । शीलव्रतक्षान्तित्यागेषु प्रतिष्ठितत्वात्सुप्रतिष्ठितपादत्वं प्रतिलभते । मातापित्रोरुपस्थानेन विचित्रेण विचित्रया च सत्त्वोपद्रवारक्षया आगमन-गमनादिपरिस्पन्दमुपादाय चक्राङ्कपादतां प्रतिलभते । परविहिंसामदत्तादानञ्च प्रहाय गुरूणां चाभिवादनवन्दन-प्रत्युत्थानाञ्जलि-सामीची-कर्म कृत्वा परेषां मनस्तुष्टिप्रियभोगाह्रस्वीकरणान्निहतमानत्वाच्च दीर्घाङ्गुलित्वं महापुरुषलक्षणं प्रतिलभते । यैश्च त्रिभिः कर्मभिरेतानि त्रीणि महापुरुषलक्षणानि निर्दिष्टानि तैरेव सर्वैः समस्तैरायतपादपार्ष्णित्वं प्रतिलभते । तत्र त्रयाणामपि लक्षणानां संनिश्रयत्वात्चतुर्भिः संग्रहवस्तुभिर्गुरून् संगृह्य जालपाणिपादतां प्रतिलभते । गुरूणामेव चाभ्यङ्गोद्वर्तन-स्नानाच्छादनानि दत्त्वा मृदुतरुणपाणिपादतां प्रतिलभते । कुशलधर्मासंतुष्ट्या उत्तरोत्तरान् कुशलान्धर्मान्वर्ध यित्वा उच्छङ्गचरणतां प्रतिलभते । यथावद्धर्मानुद्गृह्य पर्यवाप्य परेषां च देशयित्वा दौत्यञ्च सम्यक्परेषां कृत्वा ऐणेयजङ्घतां प्रतिलभते । अनुपूर्वेण धर्मसमादानेन नेत्रीवर्तमानत्वात्पापकं कायवाङ्गमनःकर्म संयमय्य
। तत्रानवनतः ग्लानेषु च ग्लानोपस्थानं कृत्वा भैषज्यञ्च दत्त्वा व्याध्यनवनतोच्छ्रयणान्मात्राशी च कामेष्वनवनतः अनवनतकायतां प्रतिलभते । परैर्निर्वासितान् सत्त्वान् धर्मेण समेन संहृत्य ह्रीमानपत्रापी वस्त्रप्रदश्च कोषगतवस्तिगुह्यतां प्रतिलभते । कायवाङ्मनोभिः संवृतात्मा प्रतिग्रह-भोजने च मात्रज्ञः ग्लानेषु भैषज्यप्रदः विषमे कर्मणि प्रतिग्रह-परिभोगवैषम्ये चाप्रवृत्तत्वात्(दुत्त्२६२) [धातुवैषम्यानु]लोमनाच्च न्यग्रोधपरिमण्डलत्वं प्रतिलभते । येनैव च कर्मणा उत्सङ्गचरणतां प्रतिलभते तेनैवोर्ध्वङ्गरोमताम् । स्वयं कुशलमीमांसकः पण्डितविज्ञ-सेवी सूक्ष्मार्थचिन्तकः गुरूणां स्थानशोधकः उत्सादकः स्नापकश्च एकविहारित्वादेकमित्र-संश्रयत्वात्सूक्ष्मार्थप्रवेशात्तृणपर्णाद्याविलापकर्षणादागन्तुकमलापकर्षणाच्च एकैकरोमतां प्रतिलभते । मनोज्ञप्रीतिकरभोजनपानयानवस्त्रालङ्कारादि-कायपरिष्कारं दत्त्वा अक्रोधनः काञ्चनसन्निभत्वचतां व्यामप्रभताञ्च प्रतिलभते । येनैव च कर्मणा एकैकरोमतोक्ता तेनैव सूक्ष्मश्लक्ष्णत्वचता वेदितव्या । प्रभूतेनोत्सदेन विशदेनान्नपानेन महाजनकायं संतर्पयित्वा सप्तोत्सदकायतां प्रतिलभते । सत्त्वानामुत्पन्नोत्पन्नेषु धर्मेषु करणीयेषु प्रामुख्येनावस्थितः । नाहं मानी न च निष्ठुरः । अहिताञ्च सत्त्वाना निवारयिता ताडिता हिताहिते च सन्नियोजयिता सिंहपूर्वार्धकायतां प्रतिलभते सिंहवत्सत्त्वार्थेषु पराक्रमशीलत्वात् । अनेनैव च कर्मणा सुसंवृत्तस्कन्धता चितान्तरांशता च वेदितव्या । येनैव च कर्मणा दीर्घाङ्गुलित्वं प्रतिलभते तेनैव बृहदृजुगात्रतां प्रतिलभते । मित्रभेदकरीं पिशुनां
वाचं प्रहाय भिन्नानाञ्च सत्त्वानां सामग्रीं कृत्वा चत्वारिंशद्दन्ततां समाविरलदन्तताञ्च प्रतिलभते । कामावचरीं मैत्रीं भावयित्वा धर्मार्थचिन्तकः सुशुक्लदन्ततां प्रतिलभते । अर्थिम्यः सत्त्वेभ्यो यथाभिप्रेतं धनं सम्यग्विसृज्य सिंहहनुतां प्रतिलभते । स्वसुतवत्-सत्त्वान्संरक्ष्य श्राद्धश्चानुकम्पकश्च भैषज्यप्रदश्च [प्रसन्नश्च] रसरसाग्रतां प्रतिलभते धर्मरसानुप्रदानाद्धर्मरसास्वादनात्प्रनष्टरसविशोधनाच्च । पञ्च शिक्षापदानि प्राणातिपातविरत्यादीनि स्वयञ्च समादाय संरक्ष्य परांश्च तेष्वेव समादापयित्वा करुणाचित्ततामुपादाय महती धर्मसमादाने प्रतिपन्नत्वादुष्णीषशिरस्कताञ्च प्रभूत-तनुजिह्वतां च प्रतिलभते । सत्यवादितया प्रियवादितया कालधर्मवादितया च ब्रह्मस्वरतां प्रतिलभते । कृत्स्नं जगन्मैत्रेण चेतसाऽनुकम्प्य मातृवत्पितृवदभिनीलनेत्रतां गोपक्ष्मनेत्रताञ्च प्रतिलभते । गुणवतां तु भूतस्य वर्णस्य हर्तां वर्णवादी भ्रुवोर्मध्ये ऊर्णां प्रतिलभते श्वेतां शंखनिभां प्रदक्षिणावर्ताम् । (दुत्त्२६३) सर्वेषु च द्वात्रिंशत्सु महापुरुषलक्षणेष्वविशेषेण शीलं कारणं प्रतिलम्भाय वेदितव्यम् । तत्कस्य हेतोः । न हि शीलविपन्नो बोधिसत्त्वो मनुष्यत्वमेव तावदासादयेत्कुतः पुनर्महापुरुषलक्षणम् । तत्रोष्णीषशिरस्कता अनव लोकितमूर्धता चैकं महापुरुषक्षणं वेदितव्ये तद्व्यतिरेकेणानुपलम्भात् । इदं तावद्विस्तरेण लक्षणाभिनिवृत्त्यानुरूप्येण विचित्रकर्मव्यवस्थानम् ।

समासतः पुनश्चतुराकारया पक्षद्वयगतया सुकृतकर्मान्ततया सर्वलक्षणाभिनिर्वृत्तिर्वेदितव्या । तत्र नियतकारितया सुप्रतिष्ठितपादया निर्वर्तते । निपुणकारितया चक्रचरणता उच्छङ्गचरणता जालपाणिपादता सूक्ष्मत्वचता चितान्तरांशता सुसंवृत्तस्कन्धता वृहदृजुगात्रता प्रभूततनुजिह्वता च निर्वर्तते । नित्यकारितया दीर्घाङ्ग लित्वमायतपादपार्ष्णिता अनवनतकायता न्यग्रोधपरिमण्डलता अविरलदन्तता च निर्वर्तते । अनवद्यकारितया परिशिष्टानां लक्षणानामभिनिर्वृत्तिः । तत्र सत्त्वेष्वव्याबाध्यप्रयोगान्मृदुतरुणपाणिपादता श्लक्ष्ण-सूक्ष्म-त्वचता च निर्वर्तते । क्रमप्रयोगाच्च कालप्रयोगाच्च कुशले ऐणेयजङ्घता निर्वर्तते । प्रामोद्यप्रीतिप्रभास्वरेण चित्तेन कुशलसमाचाराद्व्याम-प्रभता च काञ्चनसन्निभत्वचता शुक्लदन्तता ऊर्णा च श्वेता निर्वर्तते । कीर्तिशब्दश्लोकेऽसन्निश्रयात्प्रतिच्छन्न-कल्याणत्वाच्च कोशगतवस्तिगुह्यता निर्वर्तते । बोधाय कुशलमूलपरिणमनादूर्ध्वाङ्ग-रोमता चत्वारिंशत्समदन्तता रसरसाग्रता उष्णीषशिरस्कता च निर्वर्तते । कुशले अतृप्तालीनप्रयोगात्सिंहपूर्वार्धकायता सिंहहनुता च निर्वर्तंते । सत्त्वेषु हितचित्ततया समदर्शनात्समदन्तता अभिनीलनेत्रता गोपक्ष्ममा च निर्वर्तते । हीनेनासन्तुष्टिप्रयोगाच्च ब्रह्मस्वरता च निर्वर्तंते । एवमनया चतुराकारया सुकृतकर्मान्ततया बोधिसत्त्वानामेषां द्वात्रिंशतां-महापुरुष लक्षणानां प्रतिलम्भो विशुद्धिश्च भवति ।

तत्र गोत्रभूमौ बोधिसत्त्वानामेतल्लक्षणबीजमात्रेऽवस्थानं वेदितव्यम् । अधिमुक्तिचर्याभूमौ प्राप्त्युपाये वृत्तिरेषां वेदितव्या । अध्याशयशुद्धि भूमौ प्राप्तिरेषां वेदितव्या । तदन्यासु तदुत्तरोत्तरासु बोधिसत्त्वभूमिषु विशुद्धिरेषां (दुत्त्२६४) वेदितव्या ताथागत्यां निष्ठागमनभूमौ सुविशुद्धतैषां निरुत्तरता च वेदितव्या । तत्र रूपित्वादेषां लक्षणानां हीनमध्योत्तमैश्च सत्त्वैः सूपलक्ष्यत्वात्सत्सु सर्वेष्वेव बुद्धधर्मेषु महापुरुषलक्षणेष्वेतान्येव महापुरुषलक्षणानि व्यवस्थापितानि । एतान्येव च द्वात्रिंशन्महापुरुषलक्षणान्याश्रयभावेन धारयन्त्यानुरूप्याच्च शोभयन्ते तस्मादनुव्यञ्जनानीत्युच्यन्ते ।

तत्र समासतः सर्वसत्त्वेषु पुण्यसदृशेन पुण्यस्कन्धेन तथागतस्यैकैको रोमकूपो निर्वर्तते । यावत्सर्वरोमकूपप्रविष्टः पुण्यस्कन्धः । इयता पुण्यस्कन्धेनैकैकमनुव्यञ्जनगति निर्वर्तते । यावत्सर्वानुव्यञ्जनप्रविष्टः पुण्यस्कन्धः । ततः शतगुणेन पुण्यस्कन्धेन तथागतस्यैकं लक्षणं निर्वर्तते । यावत्सर्वलक्षणप्रविष्टः पुण्यस्कन्धः स्थापयित्वा ऊर्णामुष्णीषञ्च । ततः सहस्रगुणेन पुण्यस्कन्धेनोर्णा निर्वर्तते । यावानूर्णा-प्रविष्टः पुण्यस्कन्धः ततः शतसहस्रगुणेन पुण्यस्कन्धेन उष्णीषशिरस्कता अनवलोकितमूर्धता च निर्वर्तते । यावानुष्णीषप्रविष्टः पुण्यस्कन्धः । ततः कोटीशतसहस्रगुणेन पुण्यस्कन्धेन तथागतस्य लक्षणानुव्यञ्जनासंगृहीतोऽन्यो धर्मशंख्यो नाम निर्वर्तते । येन तथागत आकांक्षमाणः अनन्तापर्यन्तान् लोकधातून् स्वरेण विज्ञापयति । एवमप्रमेयः पुण्यसम्भार-समुदागतस्तथागतः । तथागतानामचिन्त्यो निरुत्तरः सर्वाकारसम्पत्तिपरिगृहीत आत्मभावो निर्वर्तते ।

तेषां पुनर्लक्षणानुव्यञ्जननिर्वर्तकानां कुशलानां कर्मणां समासतस्त्रिभिः कारणेप्रमेयता वेदितव्या । कल्पासंख्येयतयाऽभ्याससमुदागमात्कालाप्रमेयतयाअप्रमेयसत्त्वहितसुखाशयाधिपतेयत्वादाशयाऽप्रमेयतया अप्रमेयकुशलकर्मवैचित्र्याकाराप्रमेयतया च । तस्मादप्रमेयपुण्यसम्भारसमुदागतस्तथागतानां लक्षणानुव्यञ्जनादय इत्युच्यते ।

इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने पञ्चमं लक्षणानुव्यञ्जनपटलम् ।


(दुत्त्२६५)
प्रतिष्ठापटलम् (अध्याय ३.६)

चतस्रः सर्वाकाराः परिशुद्धयः कतमाः । आश्रयशुद्धिः । आलम्बनशुद्धिः । चित्तशुद्धिः ज्ञानशुद्धिश्च ।

तत्राश्रयविशुद्धिः कतमा । सवासनानां सर्वक्लेशपक्ष्याणां दौष्ठुल्यानामाश्रयान्निरवशेषतोऽत्यन्तपरमः स्वे चात्मभावे यथाकामादानस्थानच्युतिवशवर्तिता सर्वाकारा आश्रयशुद्धिस्त्युच्यते ।

तत्रालम्बनविशुद्धिः कतमा । निर्वाणे परिणामे संप्रख्याने च सर्वालम्बनेषु या वशवर्तिता । इयमुच्यते सर्वाकारा आलम्बनविशुद्धिः ।

तत्र चित्तविशुद्धिः कतमा । पूर्ववत्सर्वचित्तदौष्ठुल्यापगमाच्चित्ते च सर्वाकार-कुशलमूलोपचयात्सर्वाकारा चित्तविशुद्धिरित्युच्यते ।

तत्र कतमा ज्ञानविशुद्धिः । पूर्ववत्सर्वाविद्यापक्ष्यदौष्ठुल्यापगमात्सर्वत्र च ज्ञेये ज्ञानस्यानावरणात्ज्ञानवशवर्तिता सर्वाकारा ज्ञानविशुद्धिरित्युच्यते ।

तत्र दश तथागतबलानि कतमानि । स्थानास्थानज्ञानबलं कर्मस्वकज्ञानबलं ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलमिन्द्रियपरापरज्ञानबलं नाना धातुज्ञानबलं नानाधिमुक्तिज्ञानबलं सर्वत्रगामिनीप्रतिपज्ज्ञानबलं पूर्वनिवासानुस्मृतिज्ञानबलं च्युत्युपपत्तिज्ञानबलमास्रवक्षयज्ञानबलञ्च । इत्येतानि दश तथागतबलानि युथा दशबलसूत्रे निर्देशतो विस्तरेण वेदितव्यानि ।

[तत्र] यत्किञ्चिदनेन भाषितं लपितमुदाहृतं सर्वं तत्तथा अवितथेति तस्मात्तथागत इत्युच्यते । तत्र फलस्य शुभाशभस्य यो भूतप्रवृत्तः अविषमो हेतुः तदस्य स्थानं प्रतिष्ठा निश्रयोऽभिनिर्वर्तकमित्युच्यते । शुभाशुभस्यैव फलस्य विषमहेतुरेतद्विपर्ययेणास्थानमित्युच्यते । निरभिमानं ज्ञानं यथाभूतमित्युच्यते । (दुत्त्२६६) सर्वज्ञानमसक्तज्ञानं शुद्धञ्च तन्निरभिमानं [ज्ञानं] वेदितव्यम् । एषाञ्च सर्वज्ञानादीनां पदानां पूर्ववद्व्याकरणं वेदितव्यं तद्यथा परमबोधिपटले । अनुपूर्वं गणनया प्रथमम् । निरुत्तरत्वात्सर्वाकार-सर्वसत्त्वार्थक्रियाशक्तियुक्तत्वात्सर्वमारबलात्यन्ताभिभवाच्च बलमित्युच्यते । यथावद्धेतुसमुदागमपरिग्रहाद्यथाकामसमुदाचारवशवर्तिता समन्वागत इत्युच्यते । निरुत्तरत्वान्निर्वाणमुदारमित्युच्यते । आर्याष्टाङ्गेण मार्गेण लभ्यत्वात्सर्वोपद्रवभयापगतत्वाच्चार्षभमित्युच्यते । आत्मनस्तदधिगमेन प्रतिज्ञानात्प्रतिजानातीत्युच्यते । स्वयमधिगम्य परेषामप्यनुकम्पया विस्तरेण प्रकाशनाद्ब्राह्मचक्रं प्रवर्तयतीत्युच्यते । तत्कस्य हेतोः । तथागतस्यैतदधिवचनं यदुत ब्रह्मा इत्यपि शान्तः शीतीभूत इत्यपि । तेन तत्प्रवर्तितं तत्प्रथमतः तदन्यैः पुनस्तदन्येषाम् । एवं पारंपर्येण ब्रह्मा प्रेरितं सर्वसत्त्वनिकाये भ्रमति । तस्माद्ब्राह्मञ्चक्रमितुच्यते । अग्रप्रज्ञप्तिपतितस्य निरुत्तरशास्तृसंपत्परिगृहीतस्य चात्मनो विख्यापनात्तन्मार्गदेशनया च सर्वतदन्यपाषण्डप्रतिक्षेपणात्तन्मार्गविप्रत्यनीकवादिषु च प्रत्युपस्थितेषु असंकोचात्सर्वपरवादाभिभवाय चोदारनिरुत्तरवागभ्युदोरणात्परिषदि सम्यक्सिंहनादं नदतीत्युच्यते । समासतस्त्वात्महित-प्रतिपत्तिसम्पत्-परहित-[प्रतिपत्ति-]स्व परहितप्रतिपत्तिसम्पदश्चासाधारणम् । तेषामुत्ताना विवृता प्रज्ञप्ता प्रकाशिता भवति । अपरः समासार्थपर्यायः ।
प्राप्तव्यन्तप्राप्त्यभ्युपायः । तस्य चाभ्युपायस्य सर्वजन्यतायो [यः] कश्चिदाकांक्षति देवभूतो वा [मनुष्यभूतो वा] सर्वेण तेन ममैवान्तिकाल्लभ्य एषोऽभ्युपाय इति । तत्र व्याधिप्रशमनवदुदारमार्षभं स्थानं द्रष्टव्यम् । व्याधिप्रशमनोपायवद्ब्राह्मचक्रप्रवर्तना द्रष्टव्या । सर्व[कु]वैद्यप्रतिज्ञा प्रतिक्षेपणवत्स्वयं च नियतं व्याधिप्रशमनप्रतिज्ञानवत्परिषदि सम्यक्सिंहनादं नदितं द्रष्टव्यम् ।

यानि कर्माणि कृतान्युपचितानि निरुद्धानि तान्यतीतानीत्युच्यन्ते । यानि नैव कृतानि न निरुद्धानि नापि करोति अपि तु करिष्यत्यायत्याम् । (दुत्त्२६७) तान्यनगतानीत्युच्यन्ते । यानि पुनः कर्माणि नैव कृतानि न निरुद्धान्यपि तु कर्तुमेव प्रणिहितो व्यवसितः तानि प्रत्युत्पन्नानीत्युच्यन्ते । तानि पुनःप्रकारभेदेन त्रीणि कायकर्म वाक्कर्म मनस्कर्म । धर्मसमादानानि चत्वारि यथापूर्वमेव निर्दिष्टानि । अस्ति धर्मसमादानं प्रत्युत्पन्नसुखमायत्यां दुःखविपाकमिति विस्तरेण । तानि पुनरेतानि दृष्टधर्मसम्परायहिताहितप्रयोगतो यथायोगं वेदितव्यानि । यस्मिन् देशे क्रियन्ते तत्तेषां स्थानमित्युच्यते । यच्च सत्त्वसंख्यातमसत्त्वसंख्यातं वा वस्त्वाधिष्ठाय क्रियन्ते तत्तेषां वस्तु इत्युच्यते । येनाकुशलमूलेन [कुशलमूलेन] वा निदानेन क्रियन्ते । तत्तेषां हेतुरित्युच्यते । यदिष्टानिष्टमादीनवानुशंसंयुक्तं फलमभिनिवर्तयन्ति तत्तेषां विपाक इत्युच्यते । तदेतदभिसमस्य सर्वकालं सर्वप्रकारं सर्वावस्थाप्रयोगं सर्वदेशं सर्वाधिष्ठानं सर्वनिदानं सर्वादीनवानुशंसञ्च सर्वाकारं तथागतानां कर्मज्ञानं भवति । नास्ति वात उत्तरि नातो भूयः ।

चत्वारि ध्यानानि । अष्टौ विमोक्षाः । ध्यानविमोक्षैः कर्मण्यचेतसश्चेतोवशिप्राप्तस्य यथेप्सितस्यार्थस्य समृद्धये या तस्य तदनुरूपस्य समाधेः समापद्यनता ता समाधिसमापत्तिरित्युच्यते । [यथोच्यते च ।] भगवांस्तद्रूपं समाधि समापन्नम् । यथा समाहिते चित्ते सर्वो ब्रह्मलोकौदारेणावभासेन स्फुटो बभूव । भाषितस्य चास्य शब्दः श्रूयते । न चैनं कश्चित्पश्चतीति विस्तरः । एवं हि तथागतो यं यमेवार्थं प्रसाधयितुकामो लोकसाधारणं [असाधारणं वा] स तद्रूपं समाधिं समापद्य लघुलध्वेव प्रसाधयति । तत्रध्यानविमोक्षाभ्यां चित्तवशितया च चित्ताधीन-सर्वेप्सितार्थसमृद्धिः एतावच्च सर्वध्यायीनां करणीयम् । नात उत्तरि नातो भूयः । तच्चैतद्ध्यायिकरणीयं [सर्वाकारं] तथागतानां तस्माद्ध्यानविमोक्षसमाधिसमापत्तय एवोच्यन्ते । एषां पुनर्ध्यानादीनां समासतो द्वौ संक्लेशौ । अप्राप्तेषु चैषु प्राप्तये बिबन्धसंक्लेशः । तद्यथाऽनुपायप्रयोगो निवरणान्यतमसमुदाचारश्च । प्राप्तेषु चैषु तद्भूमिकं क्लेशपर्यवस्थानमनुशयो वा । व्यवदानं पुनर्विविधमेवैतद्विपर्ययेण (दुत्त्२६८) वेदितव्यम् । तेषामेव च ध्यानादीनां विचित्राणामभिनिर्हृतानां नामसंकेतेन अनुरूपेण यथायोगं व्यवस्थितिर्व्यवस्थानामित्युच्यते । एषामेव च ध्यानादीनां प्रतिलब्धानामुत्तरि या भावना-परिपूरिर्निकामलाभिताऽकृच्छ्रेणानवरकलाभिता सैषां विशुद्धिरित्युच्यते । तत्र यथा चैषामप्राप्तिर्यथा च प्राप्तिः तेषु च या च हीनता या च प्रणीतता यच्चैषां नाम या चोत्कर्षपर्यन्तता तत्सर्वं प्रजानाति । तस्मादेवं निरुत्तरं तथागतानां ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलमित्युच्यन्ते


यथा परिपाकसमुदागमतः श्रद्धादीनां पञ्चानामिन्द्रियाणां मृदुमध्याधिमात्रता इन्द्रिय-परापरतेत्युच्यते ।

परश्रद्धापूर्वा धर्मविचारणा-पूर्वा च मृदुमध्याधिमात्रा रुचिः प्रत्यवगमः नानाधिमुक्तिकतेत्युच्यते । नानागोत्रव्यवस्थानम् । श्रावकप्रत्येकबुद्ध-तथागतगोत्राणां रागादिचरितप्रभेदनयेन च यावदशीति सत्त्वचरितसहस्राणि नानाधातुकतेत्युच्यते ।

तेषामेवावतार-मुखानुरूपा प्रतिपत्तद्यथा रागचरितानामशुभा विस्तरेण तद्यथा श्रावकभूमौ सर्वत्रगामिनी प्रतिपदित्युच्यते । अपरः पर्यायः । सर्वा पञ्चगतिगामिनी प्रतिपत्सर्वत्रगामिनीत्युच्यते । अपरः पर्याय । परस्परविरुद्धेषु नानापक्षाश्रितेष्वन्योन्यरुचिदृष्टिविप्रत्यनीकवादिषु पृथगितो बाह्यकेषु श्रमणब्राह्मणेषु या प्रतिपत्सर्वप्रकारैरिहामुत्रानवद्यगामिनीत्युच्यते । तद्यथा कामसूत्रादिषु ।

विचित्रेषु सत्त्वनिकायेषु तद्यथा पूर्वेषु दक्षिणेषु उत्तरेषु पश्चिमेषु नाना नामसंकेतव्यवस्थानभिन्नेषु अष्टासु व्यवहारपदेष्वनुगतं पूर्वकेष्वभ्यतीतेवात्मभावेषु षड्विधं समासतश्चरितमनुस्मरत्यनेकविधं पूर्वेनिवासे समनुस्मरन् । अष्टौ व्यवहारपदानि कतमानि । एवं नामा । एवं जात्यः । एवं गोत्रः । एवमाहारः । एवं सुखदुःखप्रतिसंवेदी । एवं दीर्घायुः । एवं चिरस्थितिकः । एवमायुः पर्यन्त इति ।

(दुत्त्२६९)
षड्व्यवहारपदव्यरितानि कतमानि । आह्वानाय संकेतः क्षत्रियादयो वर्णा मातापितरं भोजनपानविधिः सम्पत्तिविपत्तिः आर्युर्वैचित्र्यञ्च । तथा हि लोके एतान्यष्टौ व्यवहारपदानि उपनिश्रित्य षट्चरितानि परेषामात्मनो व्यपदिशन्तो व्यपदिशन्ति । इदं मे नामास्येदं नामेति । क्षत्रियोऽहमयं वा । ब्राह्मणो वैश्यः शूद्रोऽहमयं वा अयं मे पिताऽस्य व । यथा पिता एवं माता । एवं रूपमहमाहारमाहरामि । मन्थान् वा अपूपान् वा ओदानकुल्माषान् वा परे वा । एवं रूपेऽहं व्यसने सम्पदि वा वर्तेऽयं वा । एवंरूपेऽहं वयसि व्यवस्थितो नवे वा मध्ये वा वृद्धे वा । अयं वा । इत्येतानि षड्[अष्ट]व्यवहार पदानुगतानि चरितानि भवन्ति । नास्ति चात उत्तरि व्यवहारपदं तच्चरितञ्च । तस्मादेतावदेवानुस्मरति । नातो भूयः । तत्र व्यवहारचरितानि आकारो व्यवहारपदान्युद्देशः । तस्य चानुस्मरणात्साकारं सोद्देशमनुस्मरतीत्युच्यते । तत्र दिव्यो विहारो ध्यानानीत्युच्यन्ते । तदाश्रितत्वात्तस्य चक्षुषस्तत्फलत्वात्तत्परिगृहीतत्वाद्दिव्यञ्चक्षुरित्युच्यते । सुपरिपूर्ण-परिशुद्धध्यानफलत्वात्सुविशुद्धमित्युच्यते । मनुष्याणामन्ततो [नाम]वैधर्म्यादतिक्रान्तमानुष्यकर्मित्युच्यते । अस्ति च कामावचराणां देवानामुपपत्ति-प्रतिलम्भिकमपि तावद्दिव्यञ्चक्षुस्तन्नामसादृश्यानुर्ति । मनुष्याणां पुनस्तदपि नास्ति ।

म्रियमाणाः सत्त्वाः व्ययमाना इत्युच्यन्ते । अन्तराभवस्था उपपद्यमाना इत्युच्यन्ते । द्वाभ्यामाकाराभ्यां तमःपरायणानामयमेवंरूपो मनोमयोऽन्तराभवो निर्वर्तते । तद्यथा कृष्णस्यकुतपस्य निर्भासः अन्धकारतमिस्राया वा रात्र्याः । तस्माद्दुर्वर्णा इत्युच्यन्ते । ये पुनर्द्वाभ्यामाकाराभ्यां ज्योतिः परायणास्तेषामयमेवंरूपो मनोमयोऽन्तराभवो निर्वर्तते । तद्यथा ज्योत्स्नया रात्र्या वाराणसेयकस्य वा सम्पन्नस्य वस्त्रस्य । तस्मात्सुवर्णा इत्युच्यन्ते । तत्र ये दुर्वर्णास्ते हीनाः । ये सुर्वर्णास्ते प्रणीताः । ये हीनास्ते दुर्गतिगामिनः । ये प्रणीतास्ते सुगतिगामिनः । स समुत्थानया शीलविपत्त्या कायवाङ्म नोदुश्चरितेन समन्वागता इत्युच्यन्ते । द्विविधया मिथ्यादर्शनदृष्टिविपत्त्या समन्वागमात्(दुत्त्२७०) सर्वापवादिकया तन्मतविपक्षावस्थितार्यपवादिकया च मिथ्यादृष्टयः आर्याणामपवादका इत्युच्यन्ते । तया मिथ्यादृष्ट्या मिथ्याहेतुञ्च फलञ्चाभिनिवेशते । ततस्तत्प्रत्ययं मिथ्याकर्माभिसंस्करोति । मिथ्याकर्माभिसंस्कुर्वन् यदिदं धर्मसमादानं प्रत्युत्पन्नसुखमायत्यां दुःखविपाकम् । यत्वा प्रत्युत्पन्नदुःखमायत्यामपि दुःखविपाकंतत्समादत्ते । तस्मान्मिथ्यादृष्टिकर्मधर्मसमादानहेतोरित्युच्यते । समन्वागतस्यापि तदन्यैरनेकविधैः कुशलैर्धर्मैस्तेनैव दुर्गतिगमनात्तद्धेतोस्तत्प्रत्ययमित्युच्यते । नामरुपान्योन्यविश्लेषात्कायस्य भेद इत्युच्यते । सर्वमरणानां निहीनपरमत्वातस्य परम्मरणादित्युच्यते । नरकाणां सङ्कुचितावनतयाऽपायदुर्गतिविनिपाता इत्युच्यन्ते । स्वभावशरीरवस्तुविभावनतया नरका इत्युच्यन्ते । तत्रापयानमित्युच्यन्ते । अधर्मचर्या विषमचर्या च तया तत्र यानं भवति । तस्मादपाया इत्युच्यन्ते । दुःखसंस्पर्शत्वाद्दीर्घकालिक विचित्र तीव्रनिरन्तरदुःखोपभोगसमुद्गतत्वाद्दुर्गतय इत्युच्यन्ते । अधोभागावस्थितत्वान्महाप्रपातभूतत्वात्कृच्छकरुणदीनमहाविप्रलापप्रलापित्वाद्विनिपाता इत्युच्यन्ते । अधिमात्रसंवेजकत्वान्नरका
एवोच्यन्ते । इति येन चोपपद्यन्ते उपपन्नाश्च यदुपभुञ्जते तदुपभोगाच्च पुनर्यदन्यत्स्वयंकृतं दुःखान्तरमभिनिर्वर्तयन्ति तदेतदाभिः संज्ञाभिः परिदीपितम् । एतद्विपर्ययेण यथायोगं सर्वशुक्लपक्षो वेदितव्यः । तत्रायं विशेषः । सुचरितपूर्वा गतिः सुगतिरित्युच्यते । सुखोपभोगपरत्वात्स्वर्गलोक इत्युच्यते । सर्वास्रवाणामशेषानुशयप्रहाणाद्यत्तत्प्रातिपक्षिकमनास्रवं चित्तमनाश्रवा प्रज्ञापरमाधिप्रज्ञसंगृहीता आस्रवाणां क्षयादनास्रवा चेतोविमुक्तिः प्रज्ञाविमुक्तिरित्युच्यते । तां पुनश्चेतोविमुक्तिं [प्रज्ञाविमुक्ति] तस्मिन्नेव चरमे भवे प्रत्यात्मं षष्ठाभिज्ञया दर्शनमार्गसन्निश्रयेण भावनामार्ग-सन्निश्रयेण चाधिगम्य स्वञ्चाधिगमं यथावत्प्रजानन्ति । परेषां चाकांक्षमाणानामारोचयन्ति । तस्माद्दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्वोपसंपद्य (दुत्त्२७१) प्रवेदयन्तीत्युच्यन्ते । क्षीणां मे जातिरित्येवमादीनां पदानां नानाकरणं वेदितव्यम् । तद्यथा पर्यायसंग्रहन्याम् ।

उद्दानम् ।

स्वभावश्च प्रभेदश्च कैवल्यं समता तथा ।
कर्मक्रियानुक्रमश्च विशेषः पश्चिमो भवेत् ॥

एषां पुनर्दशानां तथागतबलानां स्वभावो वेदितव्यः । प्रभेदो वेदितव्यः । कैवल्यं वेदितव्यम् । समता वेदितव्या । कर्मक्रिया वेदितव्या । अनुक्रमो वेदितव्यः । विशेषो वेदितव्यः । इत्येभिः सप्तभिराकारैः समासतो दश तथागतबलानि वेदितव्यानि ।

तत्र [कतम] एषां स्वभावः । पञ्चेन्द्रियस्वभावान्येनाति । अपि तु प्रज्ञायाः प्राधान्यात्प्रज्ञास्वभावानीत्युच्यन्ते । तथा ह्युच्यते । स्थानास्थानज्ञानबलं न तु श्रद्धाबलं वा तदन्यद्वा बलमित्युच्यते । यथा स्थानास्थानज्ञानबलमेवमवशिष्टानि द्रष्टव्यानि । तत्र क एषां प्रभेदः । समासतस्रिविधेन प्रभेदेनैषामप्रमाणता वेदितव्या । कालप्रभेदेनातीतानागतवर्तमानाध्वपतितसर्वज्ञेयप्रवेशात् । प्रकारप्रभेदेनैकैकस्य संस्कृतस्य वस्तुनः स्वलक्षणसामान्यलक्षणसर्वाकारप्रवेशात् । सन्तानप्रभेदेन दशसु दिक्षु सर्वसत्त्वधातुप्रत्येकसर्वसन्तानसर्वार्थानुप्रवेशात् । एवमेभिस्त्रिभिः प्रभेदैरेषां दशानां तथागतबलानामप्रमेयता वेदितव्या । अयमेषां प्रभेदः । तत्र कैवल्यमेषां कतमत् । तथागतस्यैव एतानि दशबलानि केवलान्यावेणिकानि । न तु सर्वश्रावकप्रत्येकबुद्धानाम् । इदमेषां कैवल्यमित्युच्यते । सर्वतथागतानां चैतानि बलानि समानि निर्विशिष्टानि । इयमेषां समता विहारविशेषस्तु तथागतानामन्योन्यं भवेदन्येन बलविहारेण अन्यस्तथागतस्तद्वहुलविहारी भवति । अन्येनान्यः ।

एषां दशानां बलानां तथागतः केन किं कर्मं करोति । स्थानास्थानज्ञानबलेन तथागतः हेतुञ्च हेतुतः फलञ्च फलतो यथाभूतं प्रजानाति । अहेतुविषमहेतुवादिनश्च (दुत्त्२७२) श्रमण-ब्राह्मणान्निगृह्णाति । कर्मस्वकताज्ञानबलेन तथागतः स्वयंकृत-फलोपभोगताञ्च कर्मणां यथाभूतं प्रजानाति । दानपुण्यक्रियासंक्रान्तिवादिनश्च श्रमणब्राह्मणान्निगृह्णाति । ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तथागतस्रिभिश्च प्रातिहार्यैर्विनेयान् सम्यगववदति । प्रतिविरोधविपक्षप्रत्यनीकवादावस्थितांश्च श्रमणब्राह्मणान्निगृह्णाति । इन्द्रियपरापरज्ञानबलेन तथागतः सत्त्वानामिन्द्रियमृदुमध्याधिमात्रताञ्च विभज्य यथाभूतं प्रजानाति । तेषाञ्च यथार्हं यथायोगं धर्मदेशनां करोति । नानाधिमुक्तिज्ञानबलेन तथागतो मृदुमध्याधिमात्र-शुभाशुभाधिमुक्तितां यथाभूतं प्रजानाति । शुभाञ्चाधिमुक्तिमनुबृंहयति । अशुभाञ्च त्याजयति । नानाधातुज्ञानबलेन तथागतो हीनमध्येप्रणोतधातुकताश्च विभज्य यथाभूतं प्रजानाति । यथेन्द्रियान् यथाषयान् यथानुशयांश्च सत्त्वांस्तेषु तेष्ववतारमुखेष्वववादक्रियया सम्यग्यथायोगं संनियोजयति । तत्र यथा तथागताः श्रावकाणां तेषु तेष्ववतारमुखेष्वववादमनुप्रयच्छन्ति तथाश्रावकभूमौ सर्वेण सर्वं निरन्तरमाख्यातमुत्तानं विवृतं प्रज्ञप्तं प्रकाशितम् । कथञ्च पुनस्तथागता बोधिसत्त्वमादिकर्मिकं तत्प्रथमकर्मिकं समाधिसम्भारपरिग्रहेऽवस्थितञ्चित्तस्थितिकामं चित्तस्थितयेऽववदन्ति । इह तथागतो बोधिसत्त्वासतं समाधिसम्भारगुरुकमादिकर्मिकं तत्प्रथमकर्मिकं तत्प्रथमतः एवमववदति । एहि त्वं कुलपुत्र प्रविविक्तशयनासनगत एकाकी अद्वितीयो यत्ते मातापितृभ्यां
नाम व्यवस्थापितमाचार्योपाध्यायाभ्यां वा तदेव नामाध्यात्मं मनसिकुरु । एवञ्च पुनर्मनसिकुर्वस्ति मे [स] कश्चित्षडायतनविनिर्मुक्तो धर्मः स्वभावेन परिनिष्पन्नः अध्यात्मं वा बहिर्धा वा उभयमन्तरेण वा विद्यते । यत्रेदं नाम (दुत्त्२७३) संज्ञा प्रज्ञप्तिः उपचारः प्रवर्तते स त्वमेवं योनिशो मनसिकुर्वंस्तं धर्मं नोपलप्स्यसे । नान्यत्र ते एवं भविष्यति । आगन्तुकेष्वेषु धर्मेष्वियमागन्तुकी संज्ञाप्रवृत्तेति । यदा च ते कुलपुत्र तस्मिन् स्वनाम्नि आगन्तुकसंज्ञा उत्पान्न भवति प्रतिलब्धा स त्वं या ते चक्षुषि चक्षुर्नाम चक्षुःसंज्ञा चक्षुः-प्रज्ञप्तिस्तामध्यात्मं योनिशोमनसिकुरु । एवञ्च पुनर्मनसिकुरु । अस्मिञ्चक्षुषि द्वयमुपलभ्यते । इदं च नाम संज्ञा प्रज्ञप्तिश्चक्षुरिति । एतच्च वस्तुमात्रम् । यत्रेदं नाम संज्ञा प्रज्ञप्तिः । नात उत्तरि नातो भूयः । तत्र यच्चक्षुषि नाम संज्ञा प्रज्ञप्तिस्तत्तावन्न चक्षुः । यदपि तद्वस्तु यत्र चक्षुःसंज्ञा तदपि स्वभावतो न चक्षुः । तत्कस्य हेतोः । न हि तत्र चक्षुर्नाम चक्षुःसंज्ञां चक्षुःप्रज्ञप्तिं विना कस्यचित्चक्षुर्बुद्धिः प्रवर्तते । स चेदेतद्वस्तु तेनात्मना परिनिष्पन्नं स्यात् । येन नाम्नाऽभिलप्यते न तत्र पुनस्तदपेक्षा चक्षुरित्येवं बुद्धिः प्रवर्तते । नान्यत्र प्रकृत्यैवाश्रुतोऽपरिकल्पित-नामकानामपि तस्मिन् वस्तुनि चक्षुरिति बुद्धिः प्रवर्तते । न च पुनः प्रवर्तमाना उपलभ्यते तस्मादिदमपि चक्षुर्नाम चक्षुःसंज्ञा चक्षुःप्रज्ञप्तिः
आगन्तुके धर्मे संज्ञा आगन्तुकी । एवं तेऽध्यात्ममेतच्चक्षुर्योनिशो मनसिकुर्वतश्चक्षुःसंज्ञायामप्यागन्तुकसंज्ञा उत्पन्ना भविष्यति प्रतिलब्धा । यथा चक्षुष्येवं श्रोत्रघ्राणजिह्वाकायेषु विस्तरेण यावद्दृष्टश्रुतमतविज्ञातेषु प्राप्तेषु पर्येषितेषु मनसाऽनुवितर्कितेष्वनुविचारितेषु समासतः सर्वधर्मसंज्ञास्वागन्तुकसंज्ञा उत्पन्ना भविष्यति प्रतिलब्धा । एवं [ते] स्वात्मनि या संज्ञा [अवस्था] तस्या विभवाय प्रयोगमार्गः सम्यक्परिगृहीतो भविष्यति । विस्तरेण यावत्सर्वधर्मेषु या संज्ञा तस्या विभवाय प्रयोगमार्गः सम्यक्परिगृहीतो भविष्यति । स त्वमेवं सर्वज्ञेय-सुविचारितया बुद्ध्या एवं ते सर्वधर्मसंज्ञास्वागन्तुकसंज्ञया सर्वधर्मेषु सर्वप्रपञ्चसंज्ञामपनीयापनीय निर्विकारेण चेतसा निर्निमित्तेनार्थमात्रग्रहणप्रवृत्तेनास्मिन् वस्तुनि बहलं विहर । [एवं ते] तथागतज्ञान-विशुद्धिसमाधिगोत्राच्चित्तस्यैकाग्रता प्रतिलब्धा भविष्यति । स त्वं सचेदशुभां मनसिकरोषि एनं मनसिकारं मा रिञ्चिष्यसि । स चेन्मैत्री मिदंप्रत्ययता प्रतीत्यसमुत्पादं धातुप्रभेदमानापानस्मृतिं प्रथमं ध्यानं विस्तरेण यावन्नैवसंज्ञानासंज्ञायनमप्रमाण-बोधिसत्त्व ध्यानाभिज्ञा-समाधिसमापत्तीर्मनसिकरोषि । एतमेव मनसिकारं मा रिञ्चिष्यसि । एवं तेऽयं बोधिसत्त्व मनस्कारोऽनुपूर्वेण यावदनुत्तरायै सम्यक्सम्बोधये निर्यास्यतीति । इयं सर्वत्रगामिनी बोधिसत्त्वानां प्रतिपद्वेदितव्या । अतीतेऽप्यध्वनि तथागता (दुत्त्२७४) बोधिसत्त्वमादिकर्मकमेवमेवाववदितवन्तः । अनागतेऽप्यध्वन्येवमेववदिष्यन्ति । प्रत्युत्पन्नेऽप्यध्वन्येवमेववदन्ति । श्रावकोऽपि चानेन मनस्कारेण
प्रयुज्यमानः क्षिप्राभिज्ञतरः स्याद्धर्माभिसमयाय यदि शक्नुयादेतं मनसिकारं यथावत्प्रतिवेद्धुम् । सर्वत्रागमिनी प्रतिपत्ज्ञानबलेन तथागतः सर्वदुःख-नैर्याणिकीमनैर्याणिकीं च प्रतिपदं यथाभूतं प्रजानाति । अनैर्याणिकीं च प्रतिपदं वर्जयित्वा नैर्याणिकीमुपसंहरति । पूर्वे निवासानुस्मृतिज्ञानबलेन तथागतः पूर्वान्ते इतिवृत्तकांश्च जातकांश्च स्मृत्वा चित्तसंवेगाय चित्तप्रसादाय विनेयानां देशयति । शाश्वतवादिनश्च श्रमणब्राह्मणान्निगृह्णाति । च्युत्युपपादज्ञानबलेन तथागतः श्रावकं चाभ्यतीतकालगतमुपपत्तौ व्याकरोति । उच्छेदवादिनश्च श्रमणब्राह्मणान्निगृह्णाति । आस्रवक्षयज्ञानबलेन तथागतः स्वे च विमोक्षे निष्कांक्षो भवति निर्विचिकित्सः । अर्हत्त्वाभिमानिनश्च श्रमणब्राह्मणान्निगृह्णाति । इदं तावत्तथागतस्य दशानां [बलानां] कर्म वेदितव्यम् ।

तत्र क एषां दशानां तथागतबलानामनुक्रमः । सहाभिसंबोधादनुत्तरायाः सम्यक्संबोधेस्तथागतः सर्वाण्येव दश बलानि सकृत्प्रतिलभते । सकृत्प्रतिलब्धानां पुनरेषां क्रमेण सम्मुखीभावो भवति । अभिसंबुद्धमात्र एव तथागतो धर्माणां सम्यगेव हेतुफलव्यवस्थानं स्थानास्थानज्ञागबलेन व्यवलोकयति । व्यवलोक्य कामधातावेव सभागे धाताविष्टफल-विशेषार्थिकानां कर्मस्वकता-ज्ञानबलेनाकुशलकर्मपरिवर्जनां कुशलकर्मसमुदाचारताञ्च व्यपदिशति । लौकिक-वैराग्यकामानां पुनः सत्त्वानां ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन लौकिकवैराग्यगमनाय यथावन्मार्गप्रतिलाभायाववादमनुप्रयच्छति । लोकोत्तरवैराग्यकामानां पुनस्तदन्यैः सप्तभिस्थागतबलैर्लोकोत्तरवैराग्योपगमाय मार्गं व्यपदिशति । तत्र पूर्वं तावल्लोत्तरवैराग्यकामानामिन्द्रियं व्यवलोकयतीन्द्रियपरापरज्ञानबलेन । तत इन्द्रियपूर्वमाशयं व्यवलोकयति नानाधिमुक्तिज्ञानबलेन । ततश्चाशयपूर्वमनुशयं व्यवलोकयति नानाधातुज्ञानबलेन । स एवमिन्द्रियाशयानुशयज्ञः यथायोगमालम्बनावतारमुखेष्ववतारयति सर्वत्रगामिनी प्रतिपज्-ज्ञानबलेन । ततश्चानुरूपेणालम्बनावतारमुखप्रयोगेन चित्तस्थितिञ्च ग्राहयित्वा (दुत्त्२७५) चरितानि च विशोधयित्वा सत्कायदृष्टिमूल-श्वाशतोच्छेदान्तग्राहविवर्जितां मध्यमां प्रतिपदं व्यपदिशति सर्वक्लेशप्रहाणाय पूर्वेनिवासानुस्मृतिज्ञानबलेन च्युत्युपपत्तिज्ञानबलेन च । तत एवं सम्यक्प्रयुक्तः शमथोपस्तब्धो अप्रहीणक्लेशसमुदाचारयोगाकृते कृताभिमानिनामभिमानं त्याजयति आस्रवक्षयज्ञानबलेन । अयं तावदेको बलानामनुक्रमपर्यायः ।

अपरः पर्यायः । इह तथागतोऽनुत्तरां सम्यक्सम्बोधिभिसंबुध्य तत्प्रथमतः स्थानास्थानज्ञानबलं सम्मुखीकृत्य प्रतीत्यसमुत्पन्नेषु धर्मेषु परमं धर्मस्थितिज्ञानं व्यवचारयति । तच्च धर्मस्थितिज्ञानं निःश्रित्य कर्मस्वकताज्ञानबलेन गृहिपक्षं व्यवलोकयति येन येन कर्मणा विचित्रेण तेषां गृहिपक्षाश्रितानां समुदागमोऽभूद्भविष्यति विद्यते [च] । गृहिपक्षं व्यवलोक्य ध्यानविमोक्ष-समाधिसमापत्तिज्ञानबलेन प्रव्रजितपक्षं व्यवलोकयति । किमस्त्यस्मिन् कश्चिद्प्रव्रजितपक्षे दुःखान्निःसृतो दुःखान्निःसरणाय च मार्गस्य देशयिता । आहोश्वित्नास्तीति । स नास्तीति अवगम्य निस्राणमशरणं सर्वं लोकमवेक्ष्य महाकरुणामुपादाय बुद्धचक्षुषा लोकं व्यवलोकयति । स व्यवलोकयन्निन्द्रियपरापरज्ञानं सम्मुखीकृत्य प्रजानाति । सन्ति सत्त्वा लोके जाता [लोके] वृद्धा मृद्विन्द्रिया अपि मध्येन्द्रिया अपि तीक्ष्णेन्द्रिया अपीति । [इति] विदित्वास्य धर्मदेशनायां चित्तं क्रामति । ततः पूर्ववत्सर्वानुक्रमो नानाधिमुक्त्यादिकानां तदन्येषां बलानां वेदितव्यः । अयं द्वितीयो बलानामनुक्रमपर्यायः ।

अपरः पर्यायः । पूर्वं तावत्तथागतोऽभिसंबुध्यमात्र एव स्थानास्थानज्ञानबलेन प्रतीत्यसमुत्पन्नं धर्मधातुं विचारयति । ततः कर्मस्वकज्ञानबलेन येषु प्रतीतत्यसमुत्पन्नेषु धर्मेषु सत्त्वसंज्ञातं सत्त्वधातुं विचारयति । अमी सत्त्वा एवं रूपस्य स्वयंकृतस्य कर्मण एवं रूपं फलं प्रत्यनुभवन्तीति । धर्मधातुं [सत्त्वधातुं] च यथावद्व्यवचारयित्वा ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तानेव सत्त्वान् दुःखविमोक्षाय सम्यक्त्रिभिः प्रातिहार्यैरववदति । अववदन् पूर्वंवदननुक्रमेणावशिष्टैर्वलैरिन्द्रियादीनि ज्ञात्वा मार्गे चावतारयित्वा तान् सत्त्वान् दुःखाद्विमोचयति । अयं तृतीयो बलानाम नुक्रमपर्यायः ।

(दुत्त्२७६)
तत्र स्थानास्थानज्ञानवलस्य कर्मस्वकज्ञानबलस्य च को विशेषः । यत्कुशलाकुशलस्य कर्मण इष्टानिष्टफलं निर्वर्तते इदं स्थानास्थानज्ञानबलात् । यत्पुनर्य एव कुशलाकुशलं कर्म करोति स एव तदिष्टानिष्टफलं प्रत्यनुभवति । इदं कर्मस्वकज्ञानबलात् । यत्तावद्य एव ध्यानविमोक्षादीनां समापत्त्या तस्यैव ते भवन्ति । नान्यस्य । इदं कर्मस्वकज्ञानबलात् । यत्पुनस्तानेव ध्यानादीनाश्रित्य विनेयांस्रिभिः प्रातिहार्यैरववदति । इदं ध्यानविमोक्ष[समाधि]समापत्तिज्ञानबलात् । यत्तावच्छ्रद्धा-दिसहजेन संप्रयुक्तं चित्तं प्रगृह्णाति । इदं ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलात् । यत्पुनस्तान्येवेन्द्रियाणि मृदुमध्याधिमात्रादिप्रभेदेन विभजति । इदमिन्द्रियपरापरज्ञानबलात् । यत्तावदिन्द्रियपूर्व तेषु तेषु धर्मेष्वाशयं गृह्णाति । इदमिन्द्रियपरापरज्ञानबलात् । यत्पुनस्तमेवाशयं नाना विभजति इदं नानाधिमुक्तिज्ञानबलात् ।

तस्य पुनराशयस्य समासतः षड्भिराकारैर्विभागो वेदितव्यः । अनैर्याणिक आशयः । तद्यथा पृथङ्महेश्वर-नारायण-ब्रह्मलोकाद्यधिमुक्तानाम् । नैर्याणिक आशयः तद्यथा त्रिषु यानेष्वधिमुक्तानाम् । शुद्धिदूर आशयः । तद्यथा मृदुमध्यपरिपाकव्यवस्थितानाम् । विशुद्धिसमासन्न आशयः । तद्यथाऽधिमात्रपरिपाकव्यवस्थितानाम् । दृष्टे एव धर्मे निर्वाणप्राप्त्याशयः । तद्यथा श्रावकयानेन निर्वाणप्राप्त्यधिमुक्तानाम् । आयत्यां निर्वाणप्राप्त्याशयः । तद्यथा महायानेन निर्वाणप्राप्त्यधिमुक्तानाम् । यत्तावदधिमुक्तिसमुत्थापितं तदुपमं बीजं गृह्णाति । इदं नानाधिमुक्तिज्ञानबलात् । यत्पुनस्तदेव बीजं बिभज्यानेकप्रकारं गृह्णाति । इदं नानाधातुज्ञानबलात् । स पुनर्धातुप्रविभागः समासतश्चतुष्प्रकारो वेदितव्यः । प्रकृतिस्थं बीजं पूर्वाभ्याससमुत्थितं बीजं विशोध्यं बीजम् । तद्यथा परिनिर्वाणधर्मकाणाम् । अविशोध्यञ्च बीजम् । तद्यथा परिनिर्वाणधर्मकाणाम् । यत्तावद्यथा धात्वनुरूपं प्रतिपदमवतारं प्रजानाति । इदं नानाधातुज्ञानबलात् । यत्पुनस्तामेव प्रतिपदं सर्वैः प्रकारैः प्रविभजति । इयं प्रतिपत्संक्लेशायेयं व्यवदानायेयमत्यन्तव्यवदानायेयं नात्यन्तव्यवदानायेति । (दुत्त्२७७) इदं सर्वत्रगामिनी प्रतिपज्ज्ञानबलात् । यत्तावत्पूर्वान्तमनुस्मरन् सर्वगतिहेतुं पूर्वान्तसहगतां यथाभूतं प्रजानाति । इदं सर्वत्रगामिनी प्रतिपज्ज्ञानबलात् । यत्पुनः प्रविभज्य व्यवहारपदानुगतं पूर्ववत्षड्विधं चरितं प्रजानाति । इदं पूर्वे निवासानुस्मृतिज्ञानबलात् । यत्तावत्पूर्वान्तमारभ्य सत्त्वानां च्युत्युपपादं प्रजानाति । इदं पूर्वे निवासानुस्मृतिज्ञानबलात् । यत्पुनपरान्तिकं सत्त्वानां च्युत्युपपादं पश्यति । इदं च्युत्युपपत्तिज्ञानबलात्
। यत्तावदपरिनिष्ठित-स्वकार्थानां सत्त्वानामपरान्ते उपपत्तिं प्रतिसन्धिं प्रजानाति । इदं च्युत्युपपत्तिज्ञानबलात् । यत्पुनः परिनिष्ठितस्वकार्थानां सुविमुक्तचित्तानां दृष्टधर्मनिर्वाणप्राप्तिं प्रजानाति । इदमास्रवक्षयज्ञानबलात् । अयमेषां दशानां तथागतबलानामन्योन्यं विशेषश्चाविशेषश्च वेदितव्यः ।

चत्वारि वैशारद्यानि ग्रन्थतो यथासूत्रमेव वेदितव्यानि । तत्र चत्वार्येतानि स्थानानि तथागतैः परिषदि प्रतिज्ञातव्यानि भवन्ति । श्रावकासाधारणो ज्ञेयावरणविमोक्षात्सर्वाकारसर्वधर्माभिसंबोधः । इदं प्रथमं स्थानम् । श्रावकसाधारणश्च क्लेशावरणविमोक्षः । इदं द्वितीयं स्थानम् । विमोक्षकामानां च सत्त्वानां दुःखसमतिक्रमाय नैर्याणिको मार्गः । इदं तृतीयं स्थानम् । तस्यैव च मार्गस्य प्राप्तिविबन्धभूता ये आन्तरायिका धर्माः परिवर्जयितव्याः । इदं चतुर्थं स्थानम् । यथार्थप्रतिज्ञश्च तथागतः एषु चतुर्षु स्थानेषु । अतः प्रतिज्ञाविगुणां द्वयोः पूर्वयोः स्थानयोः कायवाङ्मनश्चेष्टां प्रतिज्ञाविगुणां च द्वयोः पश्चिमयोः स्थानयोः पूर्वापरविरोधतामयुक्तिपतिताञ्चापरेषां दिव्यदृशां चादिव्यदृशाञ्च परचित्तविदामपरिचित्तविदां च प्रतिज्ञानस्थानप्रतिपक्षेण संचोदनायां निमित्तभूतामसमनुपश्यन् येनैतानि स्थानानि विशारदोऽलीनचित्तो निराशङ्को निर्भीः प्रतिजानाति । एतावच्च शास्त्रा प्रतिज्ञातव्यं यदुत परिपूर्णा स्वहितप्रतिपत्तिः परहितप्रतिपत्तिश्च । तत्र पूर्वकाभ्यां द्वाभ्यां स्थानाभ्यां परिपूर्णा स्वहितप्रतिपत्तिः प्रतिज्ञाता भवति । पश्चिमकाभ्यां [स्थानाभ्यां] परिपूर्णा परिहितप्रतिपत्तिः प्रतिज्ञाता भवति । तत्रात्मनः सर्वधर्माभिसंबोधात्सम्यक्संबुद्धत्वं तथागतो महायानसंप्रस्थितान् बोधिसत्त्वानधिकृत्य प्रतिजानीते । सर्वास्त्रवक्षयं पुनः (दुत्त्२७८) श्रावकप्रत्येकबुद्धयानसंप्रस्थितान् सत्त्वानधिकृत्य प्रतिजानीते । मार्गं नैर्याणिकं धर्मानान्तरायिकांस्तदुभयानधिकृत्य प्रतिजानीते । एवमेतत्सूत्रपदं
तथागतेन देशितम् । यो वा मे बोधिसत्त्वानां श्रावकाणाञ्च नैर्याणिको मार्गो देशित इति विस्तरः । स च बोधिसत्त्वापदेशः संगीतिकारैः श्रावकपिटकाधिकारादपनीतः । बोधिसत्त्वपिटके पुनर्बोधिसत्त्वोपदेश एव केवलः पठ्यते ।

त्रीणि स्मृत्युपस्थानानि ग्रन्थतो यथासूत्रमेव वेदितव्यानि । दीर्घरात्रं तथागत एवं कामः कच्चिन्मया सुदेशिते धर्मे विनेयाः प्रतिपत्तौ यथावदवतिष्टेरन्निति । तस्य च दीर्घरात्रं तत्कामस्य धर्मस्वामिनो गणपरिकर्षकस्य तस्याः प्रार्थितायाः सम्पत्तिभ्यामसंक्लेशस्रिभिः स्मृत्युपस्थानैः समासतः प्रभाव्यते ।

तानि पुनरेतानि परिषत्त्रयप्रभेदात्त्रीणि व्यवस्थाप्यन्ते । तिस्रः परिषदा कतमाः । एकान्तेन सम्यक्प्रतिपद्यन्ते सर्व एव । इयमेका परिषत् । एकान्तेन मिथ्या प्रतिपद्यन्ते सर्व एव । इयं द्वितीया परिषत् । तृतीया पुनः परिषद्यास्यां तदेकत्याः सम्यक्प्रतिपद्यन्ते तदेकत्या मिथ्या प्रतिपद्यन्ते ।

त्रीण्यरक्ष्याणि यथासूत्रमेव ग्रन्थतो वेदितव्यानि । समासतः सर्वाकारकुकृतप्रतिच्छादनता-प्रहाणम् । एतत्तथागतस्य त्रिभिररक्ष्यैः परिदीपितं यदपि तदर्थतोऽपि किञ्चिदव्याकृतं कुकृतमात्रकं भवति कदाचित्कर्हिचित्स्मृतिप्रमोषात् । तदपि तथागतस्य सर्वेण सर्व नास्ति । अतस्तथागतो यथा प्रतिज्ञातस्तथा स्वभावः । श्रावकान्निगृह्य निगृह्य ब्रवीति । प्रसह्य प्रसह्य तदेकत्यानवसादयति । तदेकत्यान् प्रवासयति । अपि तु निष्ठुरं प्रतिपद्यते नास्य तेष्वनुरक्षा उत्पद्यते । मा हैव मे श्रावकाः संवासान्वयादपरिशुद्धकायवाङ्मनः-समुदाचारतां विदित्वा तेन वस्तुनाऽनात्तमनस्का अनभिराद्ध्याश्चोदयिष्यन्ति । परेषां वा आख्यास्यन्तीति ।

(दुत्त्२७९)
तत्र तथागतानां महाकरुणा सर्वाकारा यथा पूर्वनिर्दिष्टा पूजासेवाप्रमाणपटले वेदितव्या । सा पुनरप्रमाणा निरुत्तरा ताथागती वेदितव्या । तत्र तथागतस्यानुष्टेयं यच्च भवति [यत्र च भवति] यथा च भवति यदा च भवति तत्र तस्य तथा तदा सम्यगनुष्ठानादियं तथागतस्यासम्मोषधर्मतेत्युच्यते । इति या च तत्र तथागतस्य सर्वकृत्येषु सर्वदेशेषु सर्वकृत्योपायेषु सर्वकालेषु स्मृत्यसंप्रमोषता सदोपस्थितस्मृतिता । इयमत्रासम्मोष-धर्मता द्रष्टव्या ।

तत्र या तथागतस्य स्पन्दिते वा प्रेक्षिते वा कथिते वा विहारे वा क्लेशसद्भावसदृशं चेष्टाऽसमुदाचार-प्रचारता । अयं तथागतस्य वासनासमुद्घात इत्युच्यते । अर्हतां पुनः प्रहीणक्लेशानामपि क्लेशसद्भावसदृशी चेष्टा स्पन्दित-प्रेक्षित-कथित-विहृतेषु भवत्येव ।

समासतस्तथागतेन धर्माणां त्रयो राशयोऽभिसंबुद्धाः । कतमे त्रयः । अर्थोपसंहिता धर्मा अनर्थोपसंहिता नैवार्थोपसंहिताः नानर्थोपसंहिताः । तत्र यत्तथागतस्यानर्थोपसंहितेषु नैवार्थोपसंहित-नानर्थोपसंहितेषु सर्वधर्मेषु ज्ञानम् । इदं तथागतस्य सर्वाकारज्ञानमित्युच्यते । तत्र यत्तथागतस्यार्थोपसंहितेषु सर्वधर्मेषु ज्ञानम् । इदं तथागतस्य वरज्ञानमित्युच्यते । तत्र यच्च सर्वाकारं ज्ञानं यच्च वरज्ञानं तदैकध्यमभिसंक्षिप्य सर्वाकारवरज्ञानमित्युच्यते ।

तदेतदभिसमस्य सर्वञ्चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतं भवति । तत्र लक्षणानुव्यञ्जनान्यनेन बोधिसत्त्वभूतेन चरमे भवे सुपरिशुद्धानि प्रतिलब्धानि भवन्ति । यदा तु बोधिमण्डे निषीदति सुपरिपूर्ण-बोधिसंभारमार्गो बोधिसत्त्वः पश्चिमे भवे तदासावनाचार्यकं सप्तत्रिंशतं बोधिपक्ष्यान् धर्मान् भावयन्नेकक्षणानावरणज्ञानदं नाम समाधिं प्रतिलभते शैक्ष्यभूतस्य बोधिसत्त्वस्य वज्रोपमसमाधि-संगृहीतम् । तस्यानन्तरं द्वितीये क्षणे परिशिष्टानां दशबलादीनां बुद्धधर्माणां सर्वाकार-वरज्ञान-पर्यवसानानां सुविशुद्धतां निरुत्तरतां सकृत्प्रतिलभते । तेषाञ्च लाभात्सर्वस्मिन् ज्ञेयेऽसक्तमनावरणं सुविशुद्धं निर्मलं ज्ञानं प्रवर्तते आभोगमात्र-प्रतिबद्धम् । परिपूर्णसंकल्पश्च भवति । तथा परिपूर्णमनोरथः समतिक्रान्तो बोधिसत्त्वचर्या बोधिसत्त्वभूमिम् । तथागतचर्यां तथागतभूमिमवक्रान्तो (दुत्त्२८०) भवति । सारगतस्य च ज्ञेयावरणपक्ष्यस्य दौष्ठुल्यस्य निरवशेषं प्रहाणादस्याश्रयः परिवृत्तो भवति । सा चास्य निरुत्तरा आश्रयपरिवृत्तिः । अन्याः सर्वाः परमविहारावसाना बोधिसत्त्वानामाश्रयपरिवृत्तयः सोत्तरा एव वेदितव्याः ।
तत्र निष्ठागमन-भूमिस्थितस्य च बोधिसत्त्वस्य [तथागतस्य च कथं ज्ञानविशेषोऽवगन्तव्यो ज्ञानान्तरम् । इह निष्ठागमन-भूमिस्थितस्य बोधिसत्त्वस्य] पेलवपटान्तरितं यथाचक्षुष्मतो रूपदर्शनम् । एवं तस्य सर्वस्मिन् ज्ञेये ज्ञानं वेदितव्यम् । यथा पुनर्न केनचिदन्तरितम् । एवं तथागतस्य ज्ञानं द्रष्टव्यम् । तद्यथा सर्वाकाररंग-परिपूर्णं चित्रकर्म पश्चिमया सुविशुद्धया रंगलेखयाऽपरिशोधितम् । एवं तस्य बोधिसत्त्वस्य ज्ञानं द्रष्टव्यम् । यथा सुविशोधितमेवं तथागतस्य ज्ञानं द्रष्टव्यम् । तद्यथा चक्षुष्मतः पुरुषस्य मन्दतमस्कं रूपदर्शनम् । एवं बोधिसत्त्वस्य पूर्ववत् । यथा सर्वाकारापगततमस्कमेवं तथागतस्य ज्ञानं द्रष्टव्यम् । तद्यथा चक्षुष्मत आराद्रूपदर्शनमेवमेवं बोधिसत्त्वस्य पूर्ववत्यथा आसन्ने एवं तथागतस्य पूर्ववत् । यथा मृदुतैमिरिकस्य रूपदर्शनमेवं बोधिसत्त्वस्य पूर्ववत्यथा सुविशुद्ध-चक्षुषः एवं तथागतस्य पूर्ववत् । यथा गर्भगतस्यात्मभाव एवं निष्ठागमनभूमिस्थितो बोधिसत्त्वो द्रष्टव्यः । यथोपपत्तिभवे जातस्यात्मभाव एवं तथागतो द्रष्टव्यः । यथार्हतः स्वप्नान्तरगतस्य चित्तप्रचारस्तथा निष्ठागमन-भूमिस्थितस्य बोधिसत्त्वस्य द्रष्टव्यः । यथा तस्यैव प्रतिविबुद्धस्य चित्तप्रचार एवं तथागतस्य द्रष्टव्यः । तद्यथा प्रदीपस्याविशुद्धस्य स्वभावः तथा निष्ठागमन-भूमिस्थितस्य बोधिसत्त्वस्य ज्ञानस्वभावो द्रष्टव्यः । यथा सुविशुद्धस्य प्रदीपस्य स्वभावः एवं तथागतस्य ज्ञानस्वभावो द्रष्टव्यः । अतो महज्ज्ञानान्तरमात्मभावान्तरं चिन्तान्तरं
तथागतनिष्ठागमनभूमिस्थित-बोधिसत्त्वयोर्वेदितव्यम् ।

एवमभिसंबुद्धो बोधिस्तथागतो दशसु दिक्षु सर्वबुद्धक्षेत्रे सर्वबुद्धकार्यं करोति । तत्र बुद्धकार्यं कतमत् । समासतो दशेमानि तथागतस्य तथागतकृत्यानि तथागतकरणीयानि । एकैकञ्च तथागतकृत्यमप्रमाणानां सत्त्वानामर्थकारकं भवति । नास्त्यत उत्तरि नास्त्यतो भूयः । कतमानि दश । स्वे महापुरुषभावे (दुत्त्२८१) आदित एव चित्तप्रसादकारकमहापुरुष[भाव]संप्रत्ययजनना प्रथमं तथा[गत]कृत्यं तच्च लक्षणानुव्यञ्जनैः सम्पादयति । सर्वसत्त्वानां सर्वाकाराववादप्रयोगतथागतकृत्यं [यत्] चतस्रभिः सर्वाकारपरिशुद्धिभिः सम्पादयति । [इदं] द्वितीयं तथागतकृत्यम् । सर्वसत्त्वकार्यकरणसामर्थ्यं सर्वसंशयच्छेदनसामर्थ्यञ्च तृतीयं तथागतकृत्यम् । यत्तथागतो दशभिर्ताथागतबलैः सम्पादयति तथा हि तथागतो दशभिः पूर्वनिर्दिष्टैर्वलैः सर्वसत्त्वानां सर्वार्थसम्पादनं प्रति समर्थो भवति । ये चैनं तथागतबलान्यारभ्य प्रश्नं पृच्छन्ति यथा यानि तथागतेन ज्ञातानि दृष्टानि विदितानि विज्ञातानि तथा तानि तथागतस्तेषां प्रश्नं पृष्टो व्याकरोति । सर्वपरप्रववादनिग्रहः स्ववादव्यवस्थापना तथागतस्य चतुर्थं कृत्यम् । यत्तथागतो वैशारद्यैः सम्पादयति तथागताज्ञायां स्थितेष्वस्यितेषु च विनेयेष्वसंक्लिष्टचित्तता पञ्चमं तथागतकृत्यम् । यत्तथागतः स्मृत्युपस्थानैः सम्पादयति यथावादि तथाकारिता षष्ठं तथागतकृत्यम् । यत्तथागतः अरक्ष्यैः सम्पादयति बुद्धचक्षुषा रात्रिन्दिवं सर्वलोकव्यवलोकना सप्तमं तथागतकृत्यम् । यत्तथागतो महाकरुणया सम्पादयति । सर्वसत्त्वसर्वकृत्याविहाराणि अष्टमं तथागतकृत्यम् । यत्तथागतोऽसम्मोषधर्मतया
सम्पादयति तथागतस्याचारविहारस्य यथावदनुवर्तना अधितिष्ठना नवमं तथागतकृत्यम् । यत्तथागतो वासनासमुद्धातेन सम्पादयति ये धर्मा अनर्थोपसंहिता ये च नैवार्थोपसंहितानानार्थोपसंहितास्तानभिनिर्वर्ज्य ये च धर्मा अर्थोपसंहितास्तेषां समाख्यानं विवरणा उत्तानीकर्मे दशमं तथागतकृत्यम् । यत्तथागतः सर्वाकारवरज्ञानेन सम्पादयति एवं हि तथागतोऽनेनावेणिकेन चत्वारिंशदुत्तरेण बुद्धधर्मशतेन दशतथागत कृत्यानि कुर्वन् सर्वबुद्धकार्यं करोति । विस्तरविभागतः पुनरस्यैव बुद्धकार्यस्य न सुकरासंख्यां कर्तुं यावत्कल्पकोटीनियुतशतसहस्रैरपि ।

अयं स तथागतो विहारस्तथागती भूमिः प्रतिष्ठेत्युच्यते । तत्कस्य हेतोः । एतामाश्रित्यैतां प्रतिष्ठाय यस्याः स्पृहयमाणरूपा बोधिसत्त्वा बोधिसत्त्वशिक्षासु शिक्षन्ते अधिगम्यापि च तां प्रतिष्ठामेतामेवाश्रित्यैतां प्रतिष्ठाय सर्वसत्त्वानां सर्वार्थान् साम्पादयति । तस्मात्प्रतिष्ठेत्युच्यते ।

(दुत्त्२८२)
सर्वे चैते बुद्धधर्मा अत्यर्थं परार्थक्रियानुकूलाः परार्थक्रियाप्रभाविताश्च तथागतानाम् । [न] तथा श्रावकप्रत्येकबुद्धानाम् । तस्मात्तस्यैव ते आवेणिका इत्युच्यन्ते । सन्ति च ते बुद्धधर्मा ये सर्वेण सर्वं श्रावकप्रत्येकबुद्धेषु नोपलभ्यन्ते । तद्यथा महाकरुणाऽसम्मोषधर्मता वासनासमुद्धातः सर्वाकारवरज्ञानम् । येऽपि चोपलभ्यन्ते तेऽपि न सर्वाकारपरिपूर्णाः । तथागतस्य तु सर्वे चोपलभ्यन्ते सर्वाकारपरिपूर्णाश्चातिक्रान्ततराश्च प्रणीततराश्च । तस्मात्ते तस्यावेणिका इत्युच्यन्ते । कैवल्यार्थश्चावेणिकार्थो वेदितव्यः ।

इत्ययं परिपूर्णो बोधिसत्त्वानां शिक्षामार्गः । शिक्षामार्गफलञ्च प्रकाशितम् । सर्वबोधिसत्त्व-शिक्षामार्गस्य शिक्षामार्गफलस्य च तर्वाकारस्य निर्देशाय अधिष्ठानभूतं सा खल्वियं बोधिसत्त्वभूमिर्बोधिसत्त्वपिटकमातृकेत्यप्युच्यते । महायानसंग्रह इत्यप्युच्यते । [प्रणाशा-]प्रणाशपथविवरणमित्युच्यते । अनावरणज्ञानविशुद्धि मूलमित्यप्युच्यते । यः कश्चित्सदेवमानुषा[सुरा]ल्लोकाद्देवभूतो वा [मनुष्यभूतो वा] श्रमणो वा ब्राह्मणो वास्यां बोधिसत्त्वभूमौ दृढामधिमुक्तिमुत्पाद्येमां श्रोष्यत्युद्ग्रहीष्यति धारयिष्यति भावनाकारेण वा प्रयोक्ष्यते परेषां वा विस्तरेण प्रकाशयिष्यत्यन्ततो लेखयित्वा धारयिष्यति पूजासत्कारञ्च प्रयोक्ष्यते । तस्य समासतो यावान् पुण्यस्कन्धो भगवता सर्वबोधिसत्त्वपिटके संगृहीतस्य सूत्रान्तस्य श्रवणादिकर्मण आख्यात उत्तानो विवृतः प्रज्ञप्तः प्रकाशितः तावानस्य पुण्यस्कन्धः प्रत्याशंसितव्यः । तत्कस्य हेतोः । तथा ह्यस्यां बोधिसत्त्वभूमौ सर्वस्य बोधिसत्त्वपिटकस्योद्देशनिर्देशमुखानि संगृहीतान्याख्यातानि । यावच्चास्यां [बोधिसत्त्व]भूमौ यो धर्मविनयो विस्तरेण प्रकाशितः स बहुलमुद्देशस्वाध्याय-धर्मानुधर्मप्रतिपत्तितः स्थास्यति पृथुवृद्धिवैपुल्यताञ्च गमिष्यति न तावत्सद्धर्मप्रतिरूपकाः प्रचुरा भविष्यन्ति सद्धर्मान्तर्द्धानाय । यतश्च पुनः सद्धर्मप्रतिरूपकाः प्रचुरा भविष्यन्ति ततश्चायं सद्धर्मो भूतार्थोपसंहितो तस्य तदन्तर्धानं भविष्यति ।

इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने षष्ठं प्रतिष्ठापटलम् ।

॥ समाप्ता च बोधिसत्त्वभूमिः ॥

॥ कृतिरियमाचार्यार्यासङ्गपादानाम् ॥


ये धर्मा हेतुप्रभवा हेतुं तेषान्तथागतो ह्यवदत् ।
तेषाञ्च यो निरोध एवं वादी महाश्रमणः ॥

"https://sa.wikisource.org/w/index.php?title=बोधिसत्त्वभूमिः&oldid=366971" इत्यस्माद् प्रतिप्राप्तम्