सामग्री पर जाएँ

बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/पञ्चमः परिच्छेदः

विकिस्रोतः तः
← चतुर्थः परिच्छेदः बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)
पञ्चमः परिच्छेदः
प्रज्ञाकरमतिः
षष्ठः परिच्छेदः →

५. संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः ।

एवमात्मभावादीनामुत्सर्गं रक्षां च प्रतिपाद्य पुनर्विस्तरेण रक्षाशोधनवर्धनानि प्रतिपादयितुमुपक्रमते । उत्पादितबोधिचित्तेन हि बोधिसत्त्वेन उत्सृष्टस्यापि चात्मभावस्य रक्षाशोधनवर्धनानि कार्याणि । यस्मात्-

परिभोगाय सत्त्वानामात्मभावादि दीयते ।
अरक्षिते कुतो भोगः किं दत्तं यन्न भुज्यते ॥
तस्मात्सत्त्वोपभोगार्थमात्मभावादि पालयेत् ।
कल्याणमित्रानुत्सर्गात्सूत्राणां च सदेक्षणात् ॥
[शिक्शा. स. कारिका ५-६]

तच्च आत्मभावादिपरिपालनादि शिक्षारक्षणादेव स्यात् । अन्यथा नरकादिविनिपातगमनात्तन्न स्यात् । अत इदमभिधीयते-

शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः ।
न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥ ब्च_५.१ ॥

शिक्ष्यते उपादीयते गृहीतसंवरणेनेति विहितेषु करणीयता, प्रतिषिद्धेष्वकरणं शिक्षा, तां रक्षितुं परिपालयितुं कामेन इच्छता बोधिसत्त्वेन आत्मचित्तं रक्षितव्यं प्रयत्नत इति कथयिष्यमाणात् । अथ शिक्षारक्षणाधिकारे किमिति चित्तं रक्ष्यत इत्याह- न शिक्षेति । अन्यथा शिक्षैव रक्षितुमशक्या चलमनायत्तं चित्तमरक्षता । चित्तस्य चलतायां शिक्षायाः स्थैर्यायोगात् ॥

इतोऽपि चित्तमेव रक्षणीयमित्याह-

अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् ।
करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः ॥ ब्च_५.२ ॥

अपरिकर्मिता मत्तवरवारणा न जनयन्ति तां पीडामिहलोके । परलोके अवीच्यादौ यां करोति स्वच्छन्दतयावस्थितं चित्तमेव मतङ्गज एव । तथागताज्ञाङ्कुशेन कथंचिद्वशीक्रियमाणत्वात् ।

तस्यायत्तीकरणे गुणमाह-

बद्धश्चेच्चित्तमातङ्गः स्मृतिरज्ज्वा समन्ततः ।
भयमस्तंगतं सर्वं कृत्स्नं कल्याणमागतम् ॥ ब्च_५.३ ॥

यदि बद्धः कथंचिद्भवेत् । स्मृतिर्वक्ष्यमाणलक्षणा । सैव रज्जुर्बन्धनोपायत्वात् । समन्ततः सर्वथा असत्पक्षे प्रचारनिरोधात् । तदा भयमस्तंगतं प्रत्यस्तमितं सर्वमशेषम् । सर्वं कल्याणमभ्युदयनिःश्रेयसलक्षणम् । आगतं संप्राप्तम् । देवश्चेद्वृष्टो निष्पन्नाः शालय इति यथा ॥

(ब्च्प्५१) ननु बहवश्च मृगव्यालादयोऽप्युपद्रवकारिणः सन्ति, तेभ्यः कथं चित्तस्य वशीकरणाद्भयं न भविष्यतीत्याह-

व्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः ।
सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥ ब्च_५.४ ॥
सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् ।
चित्तस्यैकस्य दमनात्सर्वे दान्ता भवन्ति च ॥ ब्च_५.५ ॥

सुबोधम् ॥

कुतः पुनरेवमित्याह-

यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च ।
चित्तादेव भवन्तीति कथितं तत्त्ववादिना ॥ ब्च_५.६ ॥

सर्वे ह्येते कर्माक्षेपवशादनिष्टदायका भवन्ति । कर्म च चित्तमेव । चेतना कर्मेति वचनात् । वाक्कायकर्मणोरपि चित्तमेव समुत्थापकम् । तदन्तरेण तयोरनुत्पत्तेः । चेतयित्वा कर्मेति वचनात् । तस्मात्सर्वमिह कर्मनिर्मितमेव । तच्च चित्तान्नान्यत् । तदाह-

कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत् ।
चेतना मानसं कर्म तज्जे वाक्कायकर्मणी ।
इति ।
[अभि. कोष-४.१]

न च अनपकारचित्तस्य केचिदपकारिणो नाम । यस्मात्-

निवृत्तपापचित्तस्य नास्ति लोके भयं द्विषः ।
सुखहानिर्न तस्यास्ति यस्य चित्तं वशे स्थितम् ॥

अत इदमुक्तम्-

चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ।
इति ।
[=धम्मपद-२५]

तत्त्ववादी भगवान् वस्तुतत्त्वकथनशीलत्वात् । तेनेदं तत्त्वं कथितं प्रकाशितम्- सर्वं चित्तप्रसूतमिति । अतः सर्वत्र चित्तमेव प्रधानम् ॥

इत्थमेवैतन्नान्यथा इति प्रसाधयन्नाह-

शस्त्राणि केन नरके घटितानि प्रयत्नतः ।
तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः ॥ ब्च_५.७ ॥

नरकपालानां कुन्तासिमुसलादीनि, असिपत्रवनसमुद्भूतानि वा केन कृतानि? न तत्र कश्चित्कर्तास्ति ईश्वरादिः, तत्कर्तृत्वस्य अन्यत्र निषिद्धत्वात्, इहापि निषेत्स्यमानत्वात् । (ब्च्प्५२) तप्तलोहमयी च भूमिः केन घटिता? ताश्च स्त्रियः कुतः कारणसामग्रीतो जाताः, याः पारदारिकैः शाल्मलीवृक्षस्य अधस्तादुपरि च दृश्यन्ते? स च शाल्मलिर्वा ? अतो नान्यत्कारणमत्र चित्तादुपकल्पनीयम् । यदुक्तम्-

सत्त्वलोकमथ भाजनलोकं चित्तमेव रचयत्यतिचित्रम् ।
कर्मजं हि जगदुक्तमशेषं कर्म चित्तमवधूय च नास्ति ॥
इति ॥
[मध्यमकावतार-६.८९]

तस्माच्चित्तमेवात्र कारणं नान्यदित्यत आह-

पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः ।
तस्मान्न कश्चित्त्रैलोक्ये चित्तादन्यो भयानकः ॥ ब्च_५.८ ॥

पापकर्मोपस्कृतं चित्तमेव तेषां कारणं भगवान् कथितवात् । नापरं किंचित् । यत एवम्, तस्मान्न त्रिजगति पापचित्तादपरः कश्चिद्भयहेतुरस्ति । तस्माच्चित्तमेव वशीकर्तव्यम् । यदुक्तमार्यरत्नमेघे-

चित्तपूर्वगमाः सर्वधर्माः । चित्ते परिज्ञाते सर्वधर्माः परिज्ञाता भवन्ति ॥

अपि च-

चित्तेन नीयते लोकश्चित्तं चित्तं न पश्यति ।
चित्तेन चीयते कर्म शुभं वा यदि वाशुभम् ॥

चित्तं भ्रमते अलातवत् । चित्तं विभ्रमते तरंगवत् । चित्तं दहते दवाग्निवत् । चित्तं रोहयते (हरते) महाम्बुवत् । इति च ॥

एवं ब्युपपरीक्षमाणश्चित्ते सूपस्थितस्मृतिर्विहरति, न च चित्तस्य वशं गच्छति । अपि तु चित्तमेवास्य वशं गच्छति । चित्तेनास्य वशीभूतेन सर्वे धर्मा वशीभवन्तीति ॥

स्यादेतत्- दानपारमितादिषु कथमिव चित्तं प्रधानम्? सा हि सर्वसत्त्वानां दारिद्यापनयनलक्षणेत्याह-

अदरिद्रं जगत्कृत्वा दानपारमिता यदि ।
जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥ ब्च_५.९ ॥

दारिद्यं हि नाम सास्रवसुखभोगबुभुक्षया चित्तकार्पण्यमुपकरणवैकल्यं वा । तदपनीय जगतो यदि दानपारमितापरिपूरिर्भवतीत्युच्यते, तदा सा कथम्? न कथंचिदपि पूर्वतायिनां पूर्वमभिसंबुद्धानां भगवतां युज्यते । कुतः? जगद्दरिद्रमद्यापि, नाद्यापि यावज्जगद्दारिद्यमुपशाम्यति ॥

(ब्च्प्५३) यद्येवं नेष्यते, कथं सा भवतीत्याह-

फलेन सह सर्वस्वत्यागचित्ताज्जनेऽखिले ।
दानपारमिता प्रोक्ता तस्मात्सा चित्तमेव तु ॥ ब्च_५.१० ॥

सर्वस्वं बाह्याध्यात्मिकं सर्वं वस्तु दानं दानफलं च सर्वसत्त्वेभ्यः परित्यजतोऽभ्यासेन प्रकर्षगमनाद्यदा अपगतमात्सर्यमलं निरासङ्गतया चित्तमुत्पद्यते, तदा दानपारमितानिष्पन्नेत्युच्यते । तस्मात्सा चित्तमेव नान्या दानपारमिता ॥

शीलपारमिता तु सुतरां चित्तमेवेत्यत आह-

मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान् ।
लब्धे विरतिचित्ते तु शीलपारमिता मता ॥ ब्च_५.११ ॥

प्राणातिपातादिसर्वावद्यविरतिचित्तमेव हि शीलम्, न पुनस्तदाश्रयभूतबाह्यविषयनिवृत्तिस्वभावम् । यदि पुनर्वधादिविषयवस्त्वभावेन तद्वधाद्यभावाच्छीलं स्यात्, तदा ते मत्स्यादयः क्व नीयन्तां यत्र तेषां दर्शनं न स्यात्? अन्यथा तद्वधाद्युपक्रमे शीलं न स्यात् । न चैवम् । तस्मात्तेषु विद्यमानेष्वपि लब्धे विरतिचित्ते निवृत्तिमनसिकारे शीलपारमिता मता संमता तत्स्वभावविदाम् । तस्मात्सा चित्तमेव ॥

क्षान्तिपारमितापि न चित्ताद्भिन्नेत्याह-

कियतो मारयिष्यामि दुर्जनान् गगनोपमान् ।
मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥ ब्च_५.१२ ॥

परापकारादिसंभवेऽपि चित्तस्याकोपनता क्षान्तिः । अन्यथा यदि सर्वशत्रूणां तद्विनिपातनेन वैरनिर्यातनं कृतवतः केनचिद्वैराभावादुपशान्तवैरस्य न कश्चिदपकारी स्यात् । इति मर्षणं क्षान्तिः । तदा एतदशक्यानुष्ठानम् । शत्रवो हि गगनसमत्वादपर्यन्ताः । तेषां मारणमशक्यम् । तस्मात्क्रोधादिनिवृत्तिचित्तमेव तेषामुपायेन मारणमिव, तत्कृतापकारस्यागणनात्, जन्मान्तरवैरासंभवाच्च मारितप्रायास्ते ॥

अत्र अशक्यतायामप्युपायेन प्रवृत्तौ दृष्टान्तोपदर्शनेन शक्यतामाह-

भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति ।
उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥ ब्च_५.१३ ॥

कण्टकाद्युपघातरक्षणार्थं पृथ्वी छादयितुमुचिता । न चैतच्छक्यम्, तावतश्चर्मणोऽभावात्, भावेऽपि छादनस्याशक्यत्वात् । उपायेन पुनः शक्यम् । उपानहश्चर्मणा केवलेन सर्वा भूमिश्छादिता भवति ॥

दृष्टान्तोक्तमर्थं प्रकृते योजयन्नाह-

बाह्या भावा मया तद्वच्छक्या वारयितुं न हि ।
स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः ॥ ब्च_५.१४ ॥

(ब्च्प्५४) शत्रुप्रभृतयो भावा मया वारयितुमशक्याः । तद्वत्मेदिनीचर्मच्छादनवतपकारक्रियायाः । अतः स्वचित्तमेव शक्यं वारयिष्यामि । अन्यवारणस्यापार्थकत्वात्, स्वचित्तवारणादेव तत्सिद्धेः । तस्मात्सा चित्तमेव ॥

वीर्यपारमिता तु कुशलोत्साहस्वभावा अतिविस्पष्टं चित्तमेवेत्याह-
सहापि वाक्शरीराभ्यां मन्दवृत्तेर्न तत्फलम् ।
यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् ॥ ब्च_५.१५ ॥

वचनकायसहितस्यापि चित्तस्य कुशलपक्षे मन्दप्रचारस्य न तादृशं फलमुपजायते, यादृशं ध्यानादिविषये पटुप्रवृत्तेरेकाकिनोऽपि चित्तस्य फलं ब्रह्मभूयादिकम् । तस्मात्सा चित्तमेव ॥

ध्यानं तु चित्तैकाग्रतालक्षणं चित्तादन्यथा वक्तुमशक्यमित्याह-

जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि ।
अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् ॥ ब्च_५.१६ ॥

मन्त्राद्यावर्तनलक्षणा वचनव्यापारा जपाः । तपांसि च इन्द्रियदमनलक्षणाः कायिकाः । तानि अतिबहुकालमभ्यस्तान्यपि अन्यत्र सक्तचित्तेन मिद्धाद्युपहतचित्तेन वा । समानपाटवविकलेनेत्यर्थः । वृथैव निष्फलमेव, अत्यर्थकृशफलत्वात्, अभिमतार्थेऽनुपयोगाद्वा । पुत्रोऽप्यपुत्र एव, पुत्रकार्याकरणाद्यथा । इत्याह भगवान् सर्वज्ञः । तस्माद्ध्यानपारमितापि चित्तमेव ॥

प्रज्ञा तु निर्विवादा चित्तमेवेत्याह-

दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे ।
यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् ॥ ब्च_५.१७ ॥

पञ्चगतिसंसारजात्यादिदुःखं प्रहातुं तत्प्रहाणे निर्वाणसुखमधिगन्तुं ते सत्त्वा मुधा निरर्थका एव भ्रमन्ति अम्बरे कासीपुष्पमिव निष्फलं संसारे । यदनुष्ठितं क्वचिदपि न लग्नमिति तदेवममिधीयते पञ्चाग्निसेवाशिरोलुञ्चनादिव्रतम् । के पुनरेवं भ्रमन्ति? यैः संसारभयभीरुभिः सुखार्थिभिश्च धर्मसर्वस्वं सर्वलौकिकलोकोत्तरकर्मनिदानभूतं चित्तं बालानामगोचरस्वभावतया गुह्यं न भावितं तत्त्वचित्ततया पुनः पुनः स्थिरीकृतम् । तस्मादियमतितरां चित्तमेव । यथोपवर्णितमार्यगण्डब्यूहे-

स्वचित्ताधिष्ठानं सर्वबोधिसत्त्वचर्या । स्वचित्ताधिष्ठानं सर्वसत्त्वपरिपाकविनयः । पेयालम् । तस्य मम कुलपुत्र एवं भवति- स्वचित्तमेवोपस्तम्भयितव्यं सर्वकुशलमूलैः । स्वचित्तमेव परिस्यन्दयितव्यं धर्ममेघैः । स्वचित्तमेव परिशोधयितव्यमावरणीयधर्मेभ्यः । स्वचित्तमेव दृढीकर्तव्यं वीर्येण । इत्यादि ॥

(ब्च्प्५५) इति चित्तस्वभावतां सर्वत्र प्रतिपाद्य उपसंहरन्नाह-

तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम् ।
चित्तरक्षाव्रतं मुक्त्त्वा बहुभिः किं मम व्रतैः ॥ ब्च_५.१८ ॥

एवमुत्पादितबोधिचित्तेन शिक्षारक्षणे यत्नवता मनसि कर्तव्यम्- स्वधिष्ठितं स्मृत्या सुरक्षितं संप्रजन्येन वक्ष्यमाणरीत्या मया स्वचित्तं कर्तव्यं तदेकाग्रमानसेन । अत्रैव सर्वेषामन्तर्भावात् । अतश्चित्तरक्षणमेव प्रधानं व्रतम् । तद्विहाय किमन्यैर्व्रतैर्बहुभिरपि मम प्रयोजनम्? न किंचित् । तद्रहितस्य निष्फलत्वात् । एतावती चेयं बोधिसत्त्वशिक्षा यदुत चित्तपरिकर्म । एतन्मूलत्वात्सर्वसत्त्वार्थानाम् । तद्यथा धर्मसंगीतिसूत्रे कीर्तितम्-

मतिविक्रमबोधिसत्त्व आह- योऽयं धर्मो धर्म इत्युच्यते, नायं धर्मो देशस्थो न प्रदेशस्थोऽन्यत्र स्वचित्ताधीनो धर्मः । तस्मान्मया स्वचित्तं स्वाराधितं स्वधिष्ठितं सुपरिजितं सुसमारब्धं सुनिगृहीतं कर्तव्यम् । तत्कस्य हेतोः? यत्र चित्तं तत्र गुणदोषाः । तद्बोधिसत्त्वो दोषेभ्यश्चित्तं निवार्य गुणेषु प्रवर्तयति । तदुच्यते- चित्ताधीनो धर्मः, धर्माधीना बोधिरिति ॥

एवं चित्तायत्ततां सर्वत्र निश्चित्य चित्तदृढतायामुदाहरणमाह-

यथा चपलमध्यस्थो रक्षति व्रणमादरात् ।
एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा ॥ ब्च_५.१९ ॥

असमाहितजनमध्ये पुनरुपघातभयात्तद्गतमनसा यथा व्रणं रक्षति कश्चिदप्रमत्तः, एवं तथा शिक्षारक्षणकामः अकारणवैरिबालजनमध्ये संवसन् तत्परश्चित्तं व्रणमिव रक्षेत्सर्वकालम् ॥

यथाप्रसिद्धित इदमुदाहरणम् । न तु पुनर्मनागपि सादृश्यमस्तीत्याह-

व्रणदुःखलवाद्भीतो रक्षामि व्रणमादरात् ।
संघातपर्वताघाताद्भीतश्चित्तव्रणं न किम् ॥ ब्च_५.२० ॥

ईषन्मात्रं दुःखं दुःखलवो व्रणकृतः । तस्माद्भीतो रक्षामि व्रणम् । प्रकृतानुरोधे रक्षतीति पाठो युक्तः । आदरात्तात्पर्येण । संघातनरकप्रभवादनेकवर्षसहस्रानुभूयमानदुःखात्पर्वताघातात्सर्वतो व्याप्तिप्रहारात्भीतः चित्तव्रणं न किं रक्षेदिति प्रकृतेन संबन्धः । यदि वा । अहं तु किं न रक्षामीति परिणामेन योजनीयम् । अथवा । एवमुत्पादितबोधिचित्तेन मनसा चिन्तयितव्यमित्यवतार्यते । तदा रक्षामीति ॥

कः पुनरेवं सति गुणः स्यादित्याह-

अनेन हि विहारेण विहरन् दुर्जनेष्वपि ।
प्रमदाजनमध्येऽपि यतिर्धीरो न खण्डयते ॥ ब्च_५.२१ ॥

(ब्च्प्५६) यस्मादेवंमनसिकारेण विचरन् वनिताजनमध्येऽपि प्रासादपृष्ठे अयमनिवार्योऽतिशयेन कामरागेषु । तेनेदमुक्तं यतिर्धीर इति । अस्मिन्मनसिकारे निध्यप्तचित्तः । न खण्डयते शिक्षारक्षणमनसिकारान्न स्खलति ॥

पुनरेवं करणीयमित्यत्रार्थे दृढमभिनिवेशं दर्शयन्नाह-

लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम् ।
नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन ॥ ब्च_५.२२ ॥

चिवरपिण्डपातादयो नश्यन्तु, विलयं यान्तु मम कामं यथेष्टम् । सत्कारो गौरवेण आसनदानपादवन्दनादिपूजा । कायो जीवितं च सर्वमेतन्नश्यतु । अन्यदपि यत्किंचित्सुखसौमनस्यनिमित्तं तदपि नश्यतु । कुशलं पुनर्मम चित्तं मा कस्मिंश्चिदपि काले नङ्क्षीदिति ॥

अत्र पुनरादरमुत्पादयितुं शास्त्रकार आह-

चित्तं रक्षितुकामानां मयैष क्रियतेऽञ्जलिः ।
स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत ॥ ब्च_५.२३ ॥

अञ्जलिं कृत्वा प्रार्थयामि । किमर्थम्? स्मृतिं च संप्रजन्यं च । न केवलां स्मृतिम्, नापि केवलं संप्रजन्यमिति परस्परापेक्षया चकारद्वयम् । तत्र स्मृतिरार्यरत्नचूडसूत्रेऽभिहिता-

यया स्मृत्या सर्वक्लेशानां प्रादुर्भावो न भवति । यया स्मृत्या सर्वमारकर्मणामवतारं न ददाति । यया स्मृत्या उत्पथे कुमार्गे वा न पतति । यया स्मृत्या दौवारिकभूतया सर्वेषामकुशलानां चित्तचैतसिकानां धर्माणामवकाशं न ददाति, इयमुच्यते सम्यक्स्मृतिरिति ॥

संक्षेपतः पुनरियं स्मृतिरुच्यते- विहितप्रतिषिद्धयोर्यथायोगं स्मरणं स्मृतिः । यच्चाहस्मृतिरालम्बनासंप्रमोष इति ॥

संप्रजन्यं तु प्रज्ञापारमितायामुक्तम्-

चरंश्चरामीति प्रजानाति । स्थितः स्थितोऽस्मीति प्रजानाति । निषण्णो निषण्णोऽस्मीति प्रजानाति । शयानः शयितोऽस्मीति प्रजानाति । यथा यथास्य कायः स्थितो भवति तथा तथैनं प्रजानाति । पेयालम् । सोऽतिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति । आलोकिते विलोकिते संमिञ्जिते प्रसारिते संघाटीपटपात्रचीवरधारणे अशिते पीते खादिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तूष्णीभावे प्रतिसंलयने संप्रजानचारी भवतीति ॥

इदमेव वक्ष्यति-

एतदेव समासेन संप्रजन्यस्य लक्षणम् ।
यत्कायचित्तोवक्षायाः प्रत्यवेक्षा मुहुर्मुहुः ॥
इति ॥ [बोधि. ५.१०८]

(ब्च्प्५७) कः पुनरनयोर्व्यतिरेके दोषः, येनैते यत्नेन रक्षणीये कथिते इत्याह-

व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु ।
तथाभ्यां विकलं चित्तं न क्षमं सर्वकर्मसु ॥ ब्च_५.२४ ॥

रोगोपहतसामर्थ्यो यथा पुरुषः सर्वकर्मसु गमनभोजनादिषु अकर्मण्यो भवति, तथा स्मृतिसंप्रजन्याभ्यां विकलं चित्तं सर्वकर्मसु ध्यानाध्ययनादिलक्षणेषु ॥

अनयोः समुदायाभावे दोषमुक्त्वा प्रत्येकमभावे कथयितुमाह-

असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् ।
सच्छिद्रकुम्भजलवन्न स्मृताववतिष्ठते ॥ ब्च_५.२५ ॥

न विद्यते संप्रजन्यं यस्मिंस्तदसंप्रजन्यम् । तच्चित्तं यस्य तस्य । श्रुतचिन्ताभावनामयप्रज्ञापरिनिष्ठितं वस्तु न स्मरणमधिवसति । तन्मूलं च सर्वं कल्याणम् । किमिव? यथा सच्छिद्रकुम्भे मुखनिक्शिप्तमुदकमधस्ताद्गच्छति नावतिष्ठते ॥

इदमपरं तद्वयतिरेके दूषणमाह-

अनेके श्रुतवन्तोऽपि श्राद्धा यत्नपरा अपि ।
असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः ॥ ब्च_५.२६ ॥

बहवोऽपि बहुश्रुताः तथा श्रद्धावन्तो यत्नपराः शिक्षायामादरकारिणः असंप्रजन्यदोषेण आपत्तिकलुषिता भवन्ति कायचित्तप्रचाराप्रत्यवेक्षणात् ॥

अपरमपि तदभावे दूषणमाह-

असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा ।
उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥ ब्च_५.२७ ॥

असंप्रजन्यमेव संप्रजन्याभावः क्लेशस्वभावश्चौरः कुशलधनापहरणात् । तेन स्मृतिमोषानुसारिणा रक्षपालभूतायाः स्मृतेः प्रमोषमभावमनुसृत्य मुषिता विलुप्तकुशलधनाः सन्तः उपचित्यापि पुण्यानि, कुशलधनानां संचयं कृत्वापि, दुर्गतिपरायणा भवन्ति ॥

कुतः पुनरेवमिति उक्तमेवार्थं स्पष्टयन्नाह-

क्लेशतस्करसंघोऽयमवतारगवेषकः ।
प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम् ॥ ब्च_५.२८ ॥

तस्कराश्चौराः तेषां संघातः अवतारगवेषकः पिशाचवदवतारमार्गप्रेक्षी । छिद्रान्वेषणतत्पर इत्यर्थः । प्राप्यावतारं प्रवेशमार्गमासाद्य मुष्णाति । ततो हन्ति शोभनगतये जीवितप्रतिलम्भं कुशलपाथेयाभावात् ॥

स्मृतिमधिकृत्याधुना प्राह-

तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन ।
गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम् ॥ ब्च_५.२९ ॥

(ब्च्प्५८) यतः स्मृतेरभावे दूषणमेवं स्यात्, तस्मादिदमत्र दोषं पश्यता स्मृतिरालबम्नासंप्रमोषलक्षणा मनोद्वारात्मनोगृहप्रवेशमार्गात्नापनेया नापसार्या । सदा अवस्थापयितव्येत्यर्थः । अथ कदाचित्प्रमादतस्ततोऽपगच्छेत्, तदा गतापि पुनर्निर्वर्त्योपस्थाप्या तत्रैवारोपयितव्या । कथम्? संस्मृत्य मनसि निधाय आपायिकीं नरकादिदुर्गतिव्यथाम् ॥

तत्र द्वादशेमाः स्मृतयो निष्फलस्पन्दवर्जनार्थं तथागताज्ञानतिक्रमानुपालनविपाकगौरवस्मृतिप्रभृतयः शिक्षासमुच्चये प्रदर्शिताः, तत एव विवेकेनावधार्याः ॥

सापि स्मृतिस्तीब्रादरात्समुत्पद्यते । आदरोऽपि शमथमाहात्म्यमवगम्य आतापेन जायते । एतच्च यथावसरं वक्ष्यामः ॥

केषांचित्पुनरन्यथापि स्मृतिरुत्पद्यते । तदुपदर्शयन्नाह-

उपाध्यायानुशासन्या भीत्याप्यादरकारिणाम् ।
धन्यानां गुरुसंवासात्सुकरं जायते स्मृतिः ॥ ब्च_५.३० ॥

आचार्योपाध्यायसंनिधौ तदन्यतमाराध्यब्रह्मचारिसंनिधौ वा संवसतां तदनुशासन्या, भीत्य तद्भयेनापि आदरः कार्येषु सर्वभावेनाभिमुख्यम्, अवज्ञाप्रतिपक्षो धर्मः । तत्कारिणां यत्नवतां सुकृतिनां तदनुशासनीं हिताहितविधिप्रतिषेधनियममनुगृह्णतामकृच्छ्रेणैव स्मृतिरुत्पद्यते ॥

इत्थमपि विहरन् स्मृतिमनसिकारबहुलविहारी भवतीति कारिकाद्वयेन दर्शयन्नाह-

बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः ।
सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः ॥ ब्च_५.३१ ॥
इति ध्यात्वा तथा तिष्ठेत्त्रपादरभयान्वितः ।
बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः ॥ ब्च_५.३२ ॥

सर्वदा बुद्धबोधिसत्त्वानां समस्तवस्तुविषयाप्रतिहतज्ञानचक्षुषां सर्वमेव वस्तुजातं पुरतोऽवस्थितमेव । अहमपि तेषां पुरोऽवस्थित एव, सर्ववस्तुवत् । इति मनसि निधाय तथैव संयतात्मा तिष्ठेत् । त्रपादरभयान्वितः । अप्रतिरूपे कर्मणि त्रपा लज्जा । शिक्षायामादरः, तदतिक्रमे भयम् । बुद्धबोधिसत्त्वेष्वेव वा त्रपादयः । एवं सति अपरोऽपि विशेषः स्यादित्याह- बुद्धेत्यादि । तदेवं विहरतस्तस्य प्रतिक्षणमकामत एव बुद्धानुस्मृतिः स्यात् ॥

संप्रजन्यस्य उत्पत्तिस्थैर्ययोः स्मृतिरेव कारणमिति कथयन्नाह-

संप्रजन्यं तदायाति न च यात्यागतं पुनः ।
स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥ ब्च_५.३३ ॥

यदा स्मृतिर्मनोगृहद्वारि क्लेशतस्करसंघातानुप्रवेशनिवारिणी दौवारिकवदवस्थिता भवति, तदा संप्रजन्यमयत्नत एवोत्पद्यते, उत्पन्नं च सत्स्थिरीभवति ॥

एवं तावदनयोरन्वयव्यतिरेकाभ्यां गुणदोषावभिधाय अनर्थविवर्जनार्थं निष्फलस्पन्दवर्जनमाह-

(ब्च्प्५९) पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् ।
निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा ॥ ब्च_५.३४ ॥

प्रथमं तावतिदं चित्तमित्यध्यात्मनि चिन्तयति- सर्वकालमीदृशमुक्तक्रमयुक्तमुपस्थापयितव्यम् । ततः परं निष्फलस्पन्दवर्जनार्थमपगतकरणग्रामेणेव निष्फलरूपादिविषयग्रहणसर्वविकल्पोपसंहारात्मया स्थातव्यम् । किमिव? काष्ठवत्, चक्षुरादिव्यापारशून्यत्वात् ॥

इदमेव व्यनक्ति-

निष्फला नेत्रविक्षेपा न कर्तव्याः कदाचन ।
निध्यायन्तीव सततं कार्या दृष्टिरधोगता ॥ ब्च_५.३५ ॥

ईषन्मुकुलितपक्ष्मयुगला नासाग्रविनिवेशिता युगमात्रव्यवलोकिनी वा कार्या दृष्टिः ॥

प्रथमारम्भिणः संतताभ्यासेन क्लेशस्य परिहारार्थमाह-

दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन ।
आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत् ॥ ब्च_५.३६ ॥

दृष्टिचित्तपरिखेदपरित्यागाय कदाचित्कर्हिचित्दिशो व्यवलोकयेत् । अथ कदाचित्कश्चित्तत्समीपमागच्छेत्, तदा तस्य प्रतिच्छायामात्रं विदित्वा स्वागतवादेन संतोषणार्थं विलोकयेत् । अन्यथा तत्र तस्य अवध्यानेन अकुशलं प्रसवेत् ॥

मार्गेऽपि तथादृष्टेर्गच्छत उपघातपरिहारार्थमाह-

मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् ।
दिशो विश्रम्य वीक्षेत परावृत्यैव पृष्ठतः ॥ ब्च_५.३७ ॥

भयहेतुचौरादिप्रतिपत्त्यर्थं चतुर्दिशमिति क्रमेण । अन्यथा आत्मभावस्य रक्षा कृता न स्यात् । सर्वदिग्व्यवलोकनं तु क्रियमाणमौद्धत्योपघातपरिहारार्थं स्थित्वा कर्तव्यम् । पृष्ठतो व्यवलोकनं परावृत्य पश्चान्मुखीभूय ॥

असमाधानस्य च रक्षणामाह-

सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च ।
एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् ॥ ब्च_५.३८ ॥

सरेत्पुरः अपसरेत्पश्चात् । प्रपाताद्युपघातं निरीक्ष्य च । एवमित्युक्तक्रमदिशा स्वपरहितप्रयोजनमवगम्य प्रतिपत्तिसारो भवेत् ॥

इदानीं संप्रजन्यकारितां शिक्षयितुमाह-

कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः ।
कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा ॥ ब्च_५.३९ ॥

चतुर्णामीर्यापथानामन्यतमस्मिन्नीर्यापथे । कायेनैवमिति स्थितेन निषण्णेन वा अवस्थेयमिति । तदनन्तरं स्वाध्यायादिक्रियामारभ्य पुनरन्तराले व्यवलोकितव्यं कथं कायः स्थित इति तस्मिन्नेवेर्यापथे, उत भिन्ने ईर्यापथे । भिन्ने पुनः पूर्ववदवस्थाप्यः ॥

(ब्च्प्६०) कायप्रत्यवेक्षामभिधाय चित्तप्रत्यवेक्षणामाह-

निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा ।
धर्मचिन्तामहास्तम्भे यथा वद्धो न मुच्यते ॥ ब्च_५.४० ॥

धर्मस्य स्वपरहितलक्षणस्य चिन्तैव महास्तम्भो वन्धनायत्तीकरणहेतुत्वात् ॥

तस्मिन् बद्धोऽपि पुनः पुनर्निरूपणीय इत्याह-

कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः ।
समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा ॥ ब्च_५.४१ ॥

क्व पुनरिदं मनो मम वर्तते, पूर्वस्मिन्नालम्बने अन्यत्र वा गतम् । गतमवगम्य ततो निर्वत्य तत्रैव योजयितव्यम् । स्वरसवाहितायामुपेक्षणीयम् । इति शमथधुरमेकमपि क्षणं यथा न परित्यजति तथा धारयितव्यम् । एतावता शीलं हि समाधिसंवर्तनीममित्युक्तं भवति । यथोक्तं चन्द्रप्रदीपसूत्रे-

क्षिप्रं समाधिं लभते निरङ्गणं
विशुद्धशीलस्यिमि आनुशंसाः ॥
इति ।
[समाधि. २७.६]

अतोऽवगम्यते- ये केचित्समाधिहेतवः प्रयोगाः, ते शीलेऽनुगता इति । तस्मात्समाध्यर्थिना स्मृतिसंप्रजन्यशीलेन भवितव्यम् । तथा शीलार्थिनापि समाधौ यत्नः कार्य इति ॥

समाधानपरित्यागावकाशमाह-

भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम् ।
दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् ॥ ब्च_५.४२ ॥

अग्निदाहादि भयम् । तथा रत्नत्रयपूजादिकृत उत्सवः । समधिकतरः सत्त्वार्थादिर्वा । तत्संभवे यदि स्थातुमशक्तः, तदा कामचार इत्यनुज्ञातम् । सापत्तिको न भवतीत्यर्थः । कुतः पुनरयमनियमो लभ्यत इत्याह- दानेत्यादि । शीलं यद्यपि दानात्प्रकृष्टम्, तथापि अवरशिक्षायां शिक्षमाणस्य तदनन्तरमेव उत्तरशिक्षावस्थितस्य अभ्यासपाटवाभावात्कथंचित्तावत्कालं ततो निवर्तमानस्यापि नापत्तिः । दानस्यासौ कालो न शीलस्य । अत एवोक्तम्- यद्यशक्त इति । एतावन्मात्रेणेदमुदाहरणम् । यथोक्तम्- तत्रैकस्यां शिक्षायां निष्पाद्यमानायामशक्तस्य इतरशिक्षानभ्यासादनापत्तिः । आर्याक्षयमतिसूत्रेऽप्येवमवोचत्-

दानकाले शीलोपसंहारस्योपेक्षा । इति । न चातः शिथिलेन भवितव्यम् ॥

यत्र कुशलपक्षसंचारेऽपि क्वचित्समाधानविघातः स्यात्, तन्नोपादेयमित्याह-

यद्बुद्ध्वा कर्तुमारब्धं ततोऽन्यन्न विचिन्तयेत् ।
तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना ॥ ब्च_५.४३ ॥

(ब्च्प्६१) स्वयमेव तु युक्त्यागमाभ्यां कल्याणमित्रवचनाद्वा यथाबलमवधार्य यत्किंचित्कर्म कर्तुमारब्धं ध्यानाध्ययनादिकम्, प्रथमतस्तदेव तावन्निष्पत्तिं नेयं तन्निम्नेन चेतसा, न पुनस्तदनिष्पन्नमेव परित्यज्य परमारम्भणीयम् ॥

किं पुनरेवं स्याद्यदि न स्यादित्याह-

एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत् ।
असंप्रजन्यक्लेशोऽपि वृद्धिं चैवं गमिष्यति ॥ ब्च_५.४४ ॥

यस्मादेवमनुतिष्ठतः सर्वं सुश्लिष्टं कृतं स्यात् । तद्विपर्यये पुनर्दुःश्लिष्टमुभयं पूर्वं चात्तं पश्चात्स्वीकृतं च स्यात् । चलप्रवृत्तेरसंप्रजन्यं स्यात् । प्रवेशे वृद्धिः स्यात् ॥

इत्थमपि निष्फलं वर्जयेदित्याह-

नानाविधप्रलापेषु वर्तमानेष्वनेकधा ।
कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् ॥ ब्च_५.४५ ॥

अनेकप्रकारेऽसंबद्धाभिधानेऽपरोपाधिके प्रवर्तमाने आश्चर्यवस्तुषु च समस्तेषु स्वयमपि तत्क्रियायां दर्शनश्रवणाय वाकूचित्तस्य तारतम्यं निवारयेत् ॥

अपरमपि निष्फलवर्जनाय प्रातिमोक्षोद्दिष्टमाचरेतित्याह-

मृन्मर्दनतॄणच्छेदरेखाद्यफलमागतम् ।
स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत् ॥ ब्च_५.४६ ॥

भूमिफलकादिषु नखदण्डादिना रेखाकर्षणलेखनादि निष्प्रयोजनमागतमापतितं विवर्जयेत्भगवता अत्र निवृत्तिराज्ञप्तेति संस्मृत्य, तदतिक्रमविपाकफलभयात् । तत्क्षणमिति न तत्र कालपरिलम्भं कुर्यात् ॥

संक्लेशसमुदाचारे संप्रजन्यकारितां यदेत्यादिभिः सप्तभिः श्लोकैः शिक्षयितुमाह-

यदा चलितुकामः स्याद्वक्तुकामोऽपि वा भवेत् ।
स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत् ॥ ब्च_५.४७ ॥

प्रथमत एव स्वचित्तं निरूप्य । उक्तम् (?) असंक्लिष्टावस्थायां करणीयमुक्तम् ॥

एतदेव दर्शयति-

अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः ।
न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा ॥ ब्च_५.४८ ॥

रक्तं द्विष्टं वा स्वचित्तं यदा पश्येत्, तदा हस्तपादादिचलनमात्रमपि न कर्तव्यम्, नापि वचनोदीरणम् । अन्यथा तदुत्थापिते कायवाग्विज्ञप्ती अपि संक्लिष्टे स्याताम् । अतो बहिरिन्द्रियव्यापारविकल्पावुपसंहृत्य स्थातव्यं काष्ठवत्तदा । सर्वव्यापारविरहान्निर्व्यापाराः सर्वधर्मा इति मनसि निधाय ॥

(ब्च्प्६२) अपरमाह-

उद्धतं सोपहासं वा यदा मानमदान्वितम् ।
सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत् ॥ ब्च_५.४९ ॥
उद्धतमिति । सद्धर्मादिश्रवणप्रमादादपि उद्धतम् । विक्षेपबहुलमित्यर्थः । सोपहासं वाग्विहेठनारम्भकम्, तया युक्तं वा । मानश्चित्तस्योन्नतिः । मदः स्वधर्मे (?) चित्तस्याभिनिवेशः । ताभ्यामन्वितं तत्संप्रयुक्तम् । उत्प्रासः कायिकी विहेठना, तेन सहोत्कटम् । वक्रं कुटिलं शठं वा । वञ्चकं प्रतारकं मायावि वा । यदि मनो भवेत्, स्थातव्यं काष्ठवत्तदेति संबन्धः ॥

यदात्मोत्कर्षणाभासं परपंसनमेव वा ।
साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा ॥ ब्च_५.५० ॥

आत्मोत्कर्षणं स्वगुणातिशयप्रकाशनम् । तदाभासं तत्प्रतिभासं तद्विकल्पनात् । परपंसनं परविग्रहः दोषाविष्करणं वा, तद्युक्तम् । अधिक्षेपः परस्य वचनतिरस्कारः । संरम्भः सदाकलिविवादनिमित्तचित्तप्रदोषः । उभयत्र सह तेन वर्तत इति विग्रहः । एवं यदा पश्येत्स्वकं मनः, स्थातव्यं काष्ठवत्तदेति सामान्योक्तमभिसंबध्यते ॥

लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः ।
उपस्थानार्थि मे चित्तं तस्मात्तिष्ठामि काष्ठवत् ॥ ब्च_५.५१ ॥

कीर्तिर्यशः । परिवारः दासीदासकर्मकरादिः । उपस्थानं पादधावनमर्दनादि । एभिरर्थि तदभिलाषं मम चित्तम् । तस्मात्तिष्ठामि काष्ठवत् ॥

परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा ।
वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत् ॥ ब्च_५.५२ ॥

परार्थरूक्षं परार्थविमुखम् । स्वार्थार्थि स्वार्थाभिनिविष्टम् । परिषत्शिष्यान्तेवासिप्रभृतिजनसमाजः । तदभिलाषि तत्परिवारार्थि ॥

असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा ।
स्वपक्षाभिनिविष्टं च तस्मात्तिष्ठामि काष्ठवत् ॥ ब्च_५.५३ ॥

असहिष्णु असहनशीलम् । अलसं क्रियासु अकर्मण्यम् । कुसीदमित्यर्थः । भीतं कायजीवितभीरु भयहेतुभ्यो वा । प्रगल्भं धृष्टम् । मुखरं दुर्वचस्कम्, युक्तायुक्तमनपेक्ष्य अभिधायकं वा । स्वपक्षेः शिष्यान्तेवासिज्ञातिसालोहितादौ अभिनिविष्टं पक्षपातातिशयवत् ॥

सांप्रतं प्रतिकारनिर्देशमाह-

एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः ।
निगृह्णीयाद्दृढं शूरः प्रतिपक्षेण तत्सदा ॥ ब्च_५.५४ ॥

उपदर्शितक्रमेण संक्लिष्टं संक्लेशसंप्रयुक्तं निष्फलव्यापारं वा ज्ञात्वा स्वचित्तं सर्वप्रवृत्तिनिगेधेन प्रभावमन्दतां विधाय निगृह्णीयादभिभवेत् । दृढं यथा पुनरपि समुदाचारधर्मकं (ब्च्प्६३) न भवति । क्लेशादिसंग्रामे विजयाय कृतपरिकरः शुरो बोधिसत्त्वः । प्रतिपक्षेण यो यस्मिन् प्रतिपक्ष उक्तः यथा रागादावशुभादि, तेन तद्विपरीतविधानेनेत्यर्थः । सदा सर्वकालम्, यदा यदा संक्लिष्टं प्रतीयते । उग्रपरिपृच्छायां गृहिणं बोधिसत्त्वमधिकृत्योक्तम्-

तेन सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतेन भवितव्यम्, अमत्तेन अनुन्मत्तेन अचपलेन अचञ्चलेन अभ्रान्तेन अमुखरेण अनुन्नतेन उपस्थितस्मृतिनाससंप्रजन्येन । इति ॥

अत्रैव च प्रव्रजितं बोधिसत्त्वमधिकृत्योक्तम्- स्मृति संप्रजन्यस्याविक्षेपः । इति ॥

तथा आर्यतथागतगुह्यसूत्रे दर्शितम्-

न खलु पुनः कुलपुत्र बोधिसत्त्वस्य वाग्रक्ता वा दुष्टा वा मूढा वा क्लिष्टा वा क्षणव्याकरणी वा स्वपक्षोत्कर्षणवचना वा परपक्षनिग्रहवचना वा आत्मवर्णानुनयवचना वा परवर्णप्रतिघातवचना वा प्रतिज्ञोत्तारणवचना वा आभिमानिकव्याकरणवचना वेति ॥

एवं निष्फलस्पन्दवर्जनेन अनर्थादात्मभावस्य रक्षा प्रतिपादिता भवति । तस्मान्मया शीलसुस्थितेन अप्रकम्पेन अशिथिलेन भवितव्यमिति ॥

एतच्च समाहितचित्तस्य सिध्यति । अत इदं शमथमाहात्म्यमवगम्य तात्पर्येण भावयितव्यम् । अनेन तीव्र आदरो भवति शिक्शासु । तेनापि स्मृतिरुपतिष्ठते । उपस्थितस्मृतिर्निष्फलं वर्जयति । तस्य अनर्था न संभवन्ति । तस्मादात्मभावं रक्षितुकामेन स्मृतिमूलमन्विष्य नित्यमुपस्थितस्मृतिना भवितव्यम् । एतदेवाह-

तत्रात्मभावे का रक्षा यदनर्थविवर्जनम् ।
केन तल्लभ्यते सर्वे निष्फलस्पन्दवर्जनात् ॥
एतत्सिध्येत्सदा स्मृत्या स्मृतिस्तीव्रादराद्भवेत् ।
आदरः शममाहात्म्यं ज्ञात्वातापेन जायते ॥
इति ।
[शिक्षा. स. कारिका-७-८]

शमथमाहात्म्यं तु यथावसरमिहैव कथयिष्यते ॥

अयमत्र पिण्डार्थः अनर्थविवर्जनार्थमवधारयितव्य इति वृत्तत्रितयेनोपदर्शयन्नाह-

सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् ।
सलज्जं सभयं शान्तं पराराधनतत्परम् ॥ ब्च_५.५५ ॥
परस्परविरुद्धाभिर्बालेच्छाभिरखेदितम् ।
क्लेशोत्पादादिदं ह्येतदेषामिति दयान्वितम् ॥ ब्च_५.५६ ॥
आत्मसत्त्ववशं नित्यमनवद्येषु वस्तुषु ।
निर्माणमिव निर्मानं धारयाम्येष मानसम् ॥ ब्च_५.५७ ॥

(ब्च्प्६४) सुनिश्चितं संदेहविपर्यासरहितम् । सुप्रसन्नं सदा प्रीतिसौमनस्यबहुलम् । धीरमचञ्चलम् । आदरः कथित एव । गौरवमाराध्येषु चित्तस्य नम्रता । ताभ्यां सह वर्तते । सलज्जं पूर्ववत् । सभयं स्खलित[मालोक्य] भीतम् । शान्तं संयतेन्द्रियम् । सत्त्वाराधनयत्नवत् ॥

यदेकस्य रुचिजनकं तदन्यस्य विपरीतम् । अन्योन्यविरुद्धाभिः पृथग्जनेच्छाभिरखेदितमविप्रतिसारि । कथम्? दयान्वितम् । हेतुपदमेतत् । कुतः? यस्मात्क्लेशोत्पादान्न स्वातन्त्र्यादिदमेतत्परस्परविरुद्धचरितमेषां बालानामिति मत्वा ॥

आत्मसत्त्ववशं स्वपरायत्तं सर्वकालम् । किं सर्वत्र? न । अनवद्येषु वस्तुषु उभयसावद्यशून्येषु । किंवत्? निर्माणमिव निर्मितवत् । विगतमानं मानसं धारयामि । एषोऽहमिति बोधिसत्त्वो मनसि निवेशयेत् ॥

अस्मादपि संवेगमनसिकाराच्चित्तस्यानर्थविवर्जनेन रक्षा विधातव्येत्याह-

चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः ।
धारयामीदृशं चित्तमप्रकम्प्यं सुमेरुवत् ॥ ब्च_५.५८ ॥

अतिचिरेण कालेन लब्धमुक्तं क्षणवरं स्मरणेन चेतसि कृत्वा पुनः पुनरन्तरं स्थिरीकरोमि ईदृशमुक्तस्वभावम् । अप्रकम्प्यं कम्पयितुमशक्यं कामादिवितर्कपवनैः पर्वतराजवत् ॥

एवमेताभ्यां शीलसमाधिभ्यामन्योन्यसंवर्धकाभ्यां चित्तकर्मपरिनिष्पत्तिः । तस्मादवस्थितमेतत्- चित्तपरिकर्मैव बोधिसत्त्वशिक्षा इति । तेन यदुक्तम्-

चित्तरक्षाव्रतं मुक्त्वा बहुभिः किं मम व्रतैः ।
[बोधि. ५.१८]

इति, तत्परिनिष्ठितम् ॥

पुनस्तदेकान्तमवधारयितुं कायप्रत्यवेक्षामाह-

गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः ।
न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् ॥ ब्च_५.५९ ॥

कायस्य सर्वथा क्वचिदपि व्यापारो नास्ति, स्वात्मन्यपि सामर्थ्याभावात् । अन्यथा चित्तरहितो मृतस्य कायः । गृध्रादिभिर्विप्रलुज्यमान इतस्ततः प्रतिकारमात्मरक्षणार्थं किमिति न करोतीति पृच्छति सर्वसामर्थ्यविकलत्वात् । अत एव चित्तपरिकर्मैव साध्यम् । तस्मिन् परिकर्मिते कायस्य अयत्नत एव परिकर्मसिद्धेः, तत्परतन्त्रत्वात्तस्येत्युक्तं भवति ॥

एवं सर्वथानुपयोगिनि काये सापेक्षतां निरस्यन्नाह-

रक्षसीमं मनः कस्मादात्मीकृत्य समुच्छ्रयम् ।
त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः ॥ ब्च_५.६० ॥

(ब्च्प्६५) हे मनः, अनात्मकमेव आत्मत्वेन स्वीकृत्य मांसास्थिपुञ्जं कायसंज्ञकं कस्मात्कारणात्त्वं रक्षसि? किमेवमिति चेत्, भवतो यदि भिन्न एवायं कायः, तेन अस्यापचये तव किमपचीयते?

पूर्वमेव चिरं स्वीकृत इति चेदाह-

न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम् ।
अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम् ॥ ब्च_५.६१ ॥

हे मूढ, मोहविजृम्भितमेतद्भवतः । शुचिं पवित्रम् । अयं च अशुचिः । इदमेवाह- अमेध्येति । पूतिकं शतनधर्मकम् ॥

स्यादेतत्- किमन्यस्मिन्नसन्नपि दोष उच्यते इत्यत्राह-

इमं चर्मपुटं तावत्स्वबुद्धयैव पृथक्कुरु ।
अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय ॥ ब्च_५.६२ ॥
अस्थीन्यपि पृथक्कृत्वा पश्य मज्जानमन्ततः ।
किमत्र सारमस्तीति स्वयमेव विचारय ॥ ब्च_५.६३ ॥

चर्ममयं पुटम् । स्वमतिविशेषेण पृथक्कुरु स्वकायादपसारय । अस्थिघटितपञ्जराद्यन्त्रात्प्रज्ञात्मकेन शस्त्रेण मांसकर्तनेन । तदनन्तरमस्थीन्यपि खण्डशः पृथग्भिन्नानि कृत्वा मज्जानं पश्य अवलोकय । यदि अन्तरं कायः चतुर्महाभूतिकः मातपित्रशुचिकललसंभूतः दुःखमयः कृतघ्नश्चेति विस्तरेण प्रतिपादयिष्यतीति किमत्र सारमस्ति विज्ञप्रशस्तं न्याय्यं वा, इत्यात्मनैव विचारय ॥

एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते ।
अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि ॥ ब्च_५.६४ ॥

एवं कथितनयेन । साधूक्तमिति चेत्, अधुना वद कस्मात्त्वमद्यापि सर्वगुणविकलमपि कायं रक्षसि? एवं विद्वानपि ॥

तथापि अस्ति किंचिदत्रोपादेयमिति चेदाह-

न खादितव्यमशुचि त्वया पेयं न शोणितम् ।
नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि ॥ ब्च_५.६५ ॥

यदस्ति, न तदुपयुक्तमिति संक्षेपार्थः । अतः किमनुपयोगिना कायेन करिष्यसि? अत्र आसङ्गो न युक्त इत्यर्थः ॥

अन्यप्रयोजनाभावादिदमेवोचितमुत्पश्यामः इत्याह-

युक्तं गृध्रशृगालादेराहारार्थं तु रक्षितुम् ।
कर्मोपकरणं त्वेतन्मनुष्याणां शरीरकम् ॥ ब्च_५.६६ ॥

(ब्च्प्६६) यस्मात्कर्मणि केनचित्सहकारिभावेनोपयुज्यते इति रक्ष्यते ॥

तथापि नात्राभिनिवेशः कार्य इत्याह-

एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः ।
कायं दास्यति गृध्रेभ्यस्तदा त्वं किं करिष्यसि ॥ ब्च_५.६७ ॥

आच्छिद्येति बलात् । भवतो गृहीत्वा निष्कृपो मृत्युस्तव कायं गृध्रेभ्यो दास्यति, तदापि न कश्चित्प्रतिकारो भविष्यति इत्यभिप्रायः ॥

स्यादेतत्- यद्यपि एवम्, तथापि भक्ताच्छादनमात्रेणापि परिपालनीय इत्यत्राह- न

स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते ।
कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम् ॥ ब्च_५.६८ ॥

यदि नाम भृत्यकर्मकरणं तथापि तत्रानवस्थायिस्वभावे विचक्षणो ज्ञात्वैव प्रवर्तते, एवं प्रकृतेऽपि तद्धर्मिणि केनाभिप्रायेण हे मनः, त्वं कुरुषे व्ययमुपकरणोपक्षयम्?

तत्किं सर्वथैव निरवकाशोऽयं कर्तव्यः? नेत्याह-

दत्वास्मै वेतनं तस्मात्स्वार्थं कुरु मनोऽधुना ।
न हि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते ॥ ब्च_५.६९ ॥

वेतनं कर्ममूल्यम् । तावन्मात्रं दत्वा अस्मै गत्वरशरीराय, कर्मोपकरणत्वात्, स्वप्रयोजनमनुविधेयं हे मनः । अनेनैवोपार्जितं कस्मादस्मै न दीयते इति चेत्, न हि यस्मात्यत्किंचित्कर्मकरेणोपात्तं सर्वं तस्मै कर्मकराय प्रदीयते इति न्यायोऽस्ति ॥

तस्मादेवमुपस्तम्भमात्रं दत्वा-

काये नौबुद्धिमाधाय गत्यागमननिश्रयात् ।
यथाकामंगमं कायं कुरु सत्त्वार्थसिद्धये ॥ ब्च_५.७० ॥

काये नौबुद्धिं कृत्वा प्रवृत्तिनिवृत्तिहेतोः इच्छायत्तं कायं कुरु सत्त्वार्थानुष्ठानाय निष्पत्तये वा । हे मनः इति प्रकृतमभिसंबध्यते ॥

इति कायप्रत्यवेक्षया तत्स्वभावमुपयोगं च विचार्य परिनिश्चितकायप्रयोजनमुपसंहरन्नाह-

एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् ।
त्यजेद्भृकुटिसंकोचं पूर्वाभाषी जगत्सुहृत् ॥ ब्च_५.७१ ॥

उक्तनीत्या आयत्तीकृतः आत्मा चित्तकायलक्षणः । सर्वदा प्रसन्नवदनो भवेत् । भ्रूललाटसंकोचं च प्रसादहानिकरं त्यजेत् । पूर्वमेव असंचोदित एव परेण स्वागतादिवादैः संतोषणशीलो भवेत् । सर्वसत्त्वानामकारणबान्धवश्च ॥

इत्यपि शिक्षा अनर्थवर्जनाय कार्येत्याह-

सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत् ।
नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा ॥ ब्च_५.७२ ॥

(ब्च्प्६७) सहसा त्वरितमेव निष्प्रयोजनं हस्तदण्डादिना कपाटं च नाकोटयेत् । संक्षेपतः निःशब्दाभिरतिर्भवेत् ॥

कः एवं सति गुणः स्यादित्याह-

बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन् ।
प्राप्नोत्यभिमतं कार्यमेवं नित्यं यतिश्चरेत् ॥ ब्च_५.७३ ॥

एते सर्वे निःशब्दा अनुद्धताश्च विहरन्तो विवक्षितमर्थं लभन्ते । व्रतिनापि तथैव समाधानकण्टकपरिहारेण विहर्तव्यम् ॥

इत्यपि शिक्षितव्यमित्याह-

परचोदनदक्षाणामनधीष्टोपकारिणाम् ।
प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत् ॥ ब्च_५.७४ ॥

कौकृत्यविनोदनाववादानुशासनीसमर्थानां विनयादिकोविदानामप्रार्थितहितैषिणां हितविधायकं वचनं मूर्ध्ना गृह्णीयात् । न तेषु स्वचित्तं दूषयितव्यम्, नाप्यवमानना कार्येति भावः । सर्वसत्त्वेषु गुरुगौरवधिया समाचरितव्यमिति सर्वं सर्वेभ्यः शिक्षेत् ॥

ईर्ष्यामलप्रक्षालनामाह-

सुभाषितेषु सर्वेषु साधुकारमुदीरयेत् ।
पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् ॥ ब्च_५.७५ ॥

परकीयगुणवर्धनवचनेषु तत्परितोषणाय साधु साधु, भद्रकमिदम्, इति शब्दमध्याशयेनोच्चारयेत् । कुशलकर्मकारिणमपि दृष्ट्वा साधु कृतम्, धन्यो भवान् सुकृतकर्मकारी, इत्यादिभिः स्तुतिवचनैः प्रोत्साहयेत् ॥

लपनाशङ्कां निरस्यन्नाह-

परोक्षं च गुणान् ब्रूयादनुब्रूयाच्च तोषतः ।
स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम् ॥ ब्च_५.७६ ॥

परगुणान् सद्भूतानपि परोक्षं ब्रूयान्न समक्षम् । अन्यथा लपनां कश्चिन्मन्येत । परेण तु तत्समक्षमन्यस्य गुणे भाष्यमाणे तदनुवादकतया समक्षमपि ब्रूयात् । अन्यथा नास्य रूचिरत्रेति मत्वा स्वचित्तं प्रदूषयेत्परः । स्वगुणे पुनः केनचिद्गुणपक्षपातिना प्रसन्नेन समक्षं परोक्षं च कीर्त्यमाने चित्तस्योन्नतिं निवारयंस्तस्यैव गुणाभिधायकस्य गुणानुरागितां मनसि कुर्यात् ॥

परगुणामर्षणं वारयन्नाह-

सर्वारम्भा हि तुष्टयर्थाः सा वित्तैरपि दुर्लभा ।
भोक्ष्ये तुष्टिसुखं तस्मात्परश्रमकृतैर्गुणैः ॥ ब्च_५.७७ ॥

(ब्च्प्६८) सर्वेषां हीनमध्योत्कृष्टानां सत्त्वानाम् । सर्वे वा उपक्रमाः दुःखपरिहारेण तुष्टयर्थाः । सर्वारम्भपरिश्रमेण तुष्टिरेवोत्पादयितव्येत्यर्थः । सा च तुष्टिर्धनविसर्गैरपि दुर्लभा, स्याद्वा न वेति । इह पुनरयत्नसिद्धोपस्थिता कस्मात्परिहीयत इति मत्वा भोक्ष्ये अनुभविष्यामि संतोषसुखमन्ययत्ननिष्पादितैर्गुणैरुपनामितम् । न हि प्रियपुत्रगुणैरक्षमायुक्ता । इति भावनया परगुणश्रवणाच्चित्तकार्कश्यमपकुर्यात् ॥

अत्रैवोपचयमाह-

न चात्र मे व्ययः कश्चित्परत्र च महत्सुखम् ।
अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च ॥ ब्च_५.७८ ॥

नैव अस्मिन्नर्थे प्रवृत्तिमतो मम इहलोके वा उपक्षयलेशोऽपि संभवति । उपचयः पुनर्विद्यत एवेति दर्शयति- परत्र महत्सुखं परगुणाभिनन्दनात् । एवमक्रियमाणे पुनरपचयो दृश्यते, उभयलोकेऽपि दुःखं परगुणासहनात् ॥

तस्मात्सर्वकल्मषपरित्यागेन इयमुचिता कर्मकारिता शिक्सणीयेत्याह-

विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् ।
श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् ॥ ब्च_५.७९ ॥

सर्वावद्यविनिर्मुक्तत्वाद्विश्चस्तम् । आनुपूर्व्या व्यवस्थितपदम् । असंदिग्धार्थम् । मनःप्रह्लादनकरम् । श्रवणाप्यायकम् । करुणारसनिष्यन्दभूतं न रागादिनिदानम् । मृदुस्वरमकर्कशवचनम् । मन्दस्वरं यावता ध्वनिना प्रतिपाद्यस्य प्रतीतिः स्यात्, न ततो न्यूनं नातिरिक्तमुदीरयन् ।

ऋजु पश्येत्सदा सत्त्वांश्चक्षुषा संपिबन्निव ।
एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति ॥ ब्च_५.८० ॥

अवक्रमकुटिलं परमप्रीतिरसभरावनतेन चक्षुषा तृषित इव शीतलजल परमाह्लादकरं संपिवन्निव सत्त्वान् व्यवलोकयन् । न रक्तेन न दुष्टेन मुग्धेन । परमोपकारका ह्येते । कुतः? यस्मादेतान् सत्त्वान् समासाद्य दुर्लभलाभं बुद्धत्वं मे भविष्यति उत्पत्स्यते । एवं च विहरनद्यत्वेऽपि सत्त्वार्थसमर्थो भवत्येव । यदुक्तम्-

सर्वत्राचपलो मन्दमितस्निग्धाभिभाषणात् ।
आवर्जयेज्जनं भव्यमादेयश्चापि जायते ॥
इति ।
[शिक्षा. स. कारिका-१०]

एतदेव च बोधिसत्त्वस्य कृत्यं यदुत सत्त्वावर्जनं नाम । यथा धर्मसंगीतिसूत्रे आर्याप्रियदर्शनेन बोधिसत्त्वेन परिदीपितम्-

तथा तथा भगवन् बोधिसत्त्वेन प्रतिपत्तव्यं यत्सहदर्शनेन सत्त्वाः प्रसीदेयुः । तत्कस्माद्धेतोः? न भगवन् बोधिसत्त्वस्यान्यत्करणीयमस्ति अन्यत्र सत्त्वावर्जनात् । सत्त्वपरिपाक एवेयं भगवन् बोधिसत्त्वस्य धर्मसंगीतिरिति ॥

(ब्च्प्६९) एवमक्रियमाणे को दोष इति चेत्-

अनादेयं तु तं लोकः परिभूय जिनाङ्कुरम् ।
भस्मच्छन्नं यथा बह्निं पच्येत नरकादिषु ॥
इति ।
[शिक्षा. स. कारिका-११]

तस्मात्सत्त्वाराधनमेव बोधिसत्त्वस्य कर्म उपकारिक्षेत्रमसाधारणं पुण्यप्रसूतिहेतुरिति ॥

तत्प्रसङ्गेन अन्यदपि दर्शयन्नाह-

सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च ।
गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम् ॥ ब्च_५.८१ ॥

समादानेन क्रियमाणम् । अभिनिवेशोत्थं तीव्रप्रसादजनितम् । प्रतिपक्षोत्थं क्लेशप्रतिपक्षशून्यतादिभावनाप्रसूतम् । गुणक्षेत्रं बुद्धबोधिसत्त्वादि । उपकारिक्षेत्रं मातापितादि । दुःखिता ग्लानादयः । एतेषु स्वल्पमति कृतमप्रमेयशुभहेतुरुपजायते ॥

इदमपि बोधिसत्त्वेनाभ्यसनीयमित्याह-

दक्ष उत्थानसंपन्नः स्वयंकारी सदा भवेत् ।
नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु ॥ ब्च_५.८२ ॥

दक्षः सर्वत्र पटुप्रचारः । उत्थानसंपन्नः कौसीद्यापनयनाद्वीर्यसमन्वागतः । अत एव स्वयमेव सर्वं करणीयम्, न परापेक्षा क्वचिदपि कर्मणि कार्या । इदमेव नावकाश इत्यादिना दर्शयति ॥

पारमिताभ्यासेऽनर्थविवर्जनायानुपूर्वकारितामाह-

उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः ।
नेतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः ॥ ब्च_५.८३ ॥

उपर्युपरितः । दानाच्छीलं श्रेष्ठम्, शीलात्क्षान्तिरित्यादयः । अतोऽवरपारमिताहेतोरुत्तरं न त्यजेत् । तद्विरोधेन न सेवेतेति भावः । किं सर्वथा? नेत्याह- अन्यत्रेति । बोधिअत्त्वानां य आचारः शिक्षासंवरलक्षणः स एव कुशलजलरक्षणाय सेतुबन्धो विहितः, तस्मादन्यत्र तं विहाय । स यथा न भिद्यते इत्यर्थः ॥

तस्मात्संभारमुपादित्सुना करुणापरतन्त्रेण सर्वं करणीयमुक्तमित्याह-

एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः ।
निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः ॥ ब्च_५.८४ ॥

एवमनुत्तरं ज्ञात्वा सत्त्वानां हितसुखविधानाय नित्यमारब्धवीर्यो भवेत् । प्रतिषिद्धार्थे प्रवृत्तौ कथं न सापत्तिक इति चेत्, न । क्वचिन्निषिद्धमपि सत्त्वार्थविशेषं प्रज्ञाचक्षुषा (ब्च्प्७०) पश्यतः करणीयतया अनुज्ञातं भगवता । सनिःसरणं च भगवतः शासनम् । तच्चापि न सर्वस्य, अपि तु कृपालोः करुणाप्रकर्षप्रवृत्तितया तत्परतन्त्रस्य परार्थैकरसस्य स्वप्रयोजनविमुखस्य । इति प्रज्ञाकरुणाभ्यामुद्भूतपरार्थवृत्तेरुपायकुशलस्य प्रवर्तमानस्य नापत्तिः । अत्र च उपालिपरिपृच्छायामापत्त्यनापत्तिविभागो वेदितव्यः । तथा उपायकौशल्यसूत्रे ज्योतिष्कमाणवकाधिकारे ॥

एषा रक्षात्मभावस्य भैषज्यवसनादिभिः ।
[शिक्षा. स. कारिका-१३]

इत्येतत्प्रतिपादयितुमाह-

विनिपातगतानाथव्रतस्थान् संविभज्य च ।
भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् ॥ ब्च_५.८५ ॥

भैषज्यवसनादिभिरात्मभावो हि परिपालनीयः परार्थोपयोगित्वात् । यथोक्तं प्राकूतत्र द्विविधं भैषज्यं सततभैषज्यं ग्लानप्रत्ययभैषज्यं च । तत्र सततभैषज्यमोदनादि । तदर्थं पिण्डाय गोचरे चरता ग्रामप्रवेशे यथोक्तशिक्षायां स्मृतिमाधाय चरितव्यम् । ततो लब्धात्पिण्डपातात्चतुर्थभागविभक्तात्विनिपातगताननाथव्रतस्थान् संविभागिनः कुर्यात् । एकं प्रत्यङ्गं विनिपातिनाम् । द्वितीयमनाथानाम् । तृतीयं सब्रह्मचारिणां दत्वा चतुर्थमात्मना परिभुञ्जीत । स परिभुञ्जानो न रक्तः परिभुङ्क्ते असक्तः, अगृद्धः, अनध्यवसितः, अन्यत्र यावदेवास्य कायस्य स्थितये यापनायै । मध्यमां मात्राम् । तथा च परिभुङ्क्ते यथा नातिसंलिखितो भवति, नातिगुरुकायः । तत्कस्य हेतोः? अति संलिखितो हि कुशलपक्षपराङ्मुखो भवति, अतिगुरुकायो मिद्धावष्टब्धो भवति । तेन तं पिण्डपातं परिभुज्य कुशलपक्षाभिमुखेन भवितव्यम् । इति आर्यरत्नमेघेऽभिहितम् । आर्यरत्नराशावपि-

परिभुञ्जता च एवं मनसिकार उत्पादयितव्यः- सन्ति अस्मिन् काये अशीतिकृमिकुलसहस्राणि, तानि अनेनैवोजसा सुखं विहरन्तु । इदानीं चैषामामिषेण संग्रहं करिष्यामि । बोधिप्राप्तश्च पुनर्धर्मेण संग्रहं करिष्यामि । इति विस्तरः ॥

पुनरत्रैवोक्तम्-

द्वयोरहं काश्यप श्रद्धादेअयमनुजानामि । कतमयोर्द्वयोः? युक्तस्य मुक्तस्य च । इति ॥

अनया दिशा सर्वपरिभोगाः सत्त्वार्थमधिष्ठातव्याः । अन्यथा-

आत्मतृष्णोपभोगात्तु क्लिष्टापत्तिः प्रजायते ॥
इति ॥
[शिक्षा. स. कारिका-१३]

(ब्च्प्७१) यथोक्तं चन्द्रप्रदीपसूत्रे-

ते भोजनं स्वादुरसं प्रणीतं लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः ।
तेषां स आहारु वधाय भोति यथ हस्तिपोतान बिसा अधौतकाः ॥
[=समाधि. ९. २९]

विस्तरेण चैतच्छिक्षासमुच्चये द्रष्टव्यम् ॥

ग्लानभैषज्यं तु यामिकं साप्ताहिकं यावज्जीविकमिति त्रिविधम् । एतच्च भिक्षुविनये प्रतिपादितं तत्रैवावधार्यम् ॥

वसनादिभिरात्मरक्षामाह- त्रिचीवरबहिस्त्यजेत् । इति । सचेदागत्य कश्चिद्बोधिसत्त्वं पात्रचीवरं याचेत, तेन अतित्यागो न कर्तव्यः । किं तु यत्तदनुज्ञातं भगवता- त्रिचीवरं श्रमणकल्पः, ततोऽतिरिक्तं च यद्भवेत्, त्यक्तव्यमर्थिने, नान्यथा । उक्तं च बोधिसत्त्वप्रतिमोक्षे- सचेत्पुनः कश्चिदागत्य पात्रं वा चीवरं वा याचेत, सचेत्तस्यातिरिक्तं भवेद्बुद्धानुज्ञातात्त्रिचीवरात्, यथापरित्यक्तं दातव्यम् । सचेत्पुनस्तस्य ऊनं त्रिचीवरं भवेत्यन्निश्रित्य ब्रह्मचर्यावासः, तन्न परित्यक्तव्यम् । तत्कस्माद्धेतोः? अविसर्जनीयं हि त्रिचीवरमुक्तं तथागतेन । सचेच्छारिपुत्र बोधिसत्त्वस्त्रिचीवरं परित्यज्य याचनगुरुको भवेत्, न तेन अल्पेच्छता आसेविता भवेत् । इति ॥

अतित्यागं निषेधयन् पुनरात्मरक्षामुपदर्शयन्नाह-

सद्धर्मसेवकं कायमितरार्थं न पीडयेत् ।
एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत् ॥ ब्च_५.८६ ॥

सतां सत्पुरुषाणां बोधिसत्त्वानां धर्मः । लौकिकलोकोत्तरपरहितसुखविधानम् । तत्सेवकं कायमल्पार्थनिमित्तं न पीडयेत् । अन्यथा महतोऽर्थराशेर्हानिः स्यात् । अत एव पूर्वस्मिन् हेतुपदमेतत् । कुतः पुनरेवम्? यस्मादनेनैव सुकुमारोपक्रमेण संवर्धमानः शीघ्रमेव सत्त्वानां हितसुखसंपादनसमर्थो भवति ॥

यत एवं तस्मात्-

त्यजेन्न जीवितं तस्मादशुद्धे करुणाशये ।
तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते ॥ ब्च_५.८७ ॥

स्वशरीरशिरोदानादि न कर्तव्यमिति निषिद्धम् । कदा? अशुद्धे मित्रामित्रेतरसर्वव्यसनिजनसाधारणप्रवृत्ते कृपाचित्ते । अत्यारब्धेन हि वीर्येण स्वपरहितार्थस्य बाधा स्यात् । समप्रवृत्ते पुनराशये स्वपरात्मनोऽतिरिक्ते वा न निषिध्यते । यदुक्तम्- तथा स्वपरबोधिपक्षश्रुताद्यन्तरायकरौ त्यागात्यागौ न कार्यौ । अधिकसत्त्वार्थशक्तेस्तुल्यशक्तेर्वा (ब्च्प्७२) बोधिसत्त्वस्य अधिकतुल्यकुशलान्तरायकरौ त्यागात्यागौ न कार्याविति सिद्धं भवति । इदमेव च संधाय बोधिसत्त्वप्रातिमोक्षेऽभिहितम्- यस्तु खलु पुनः शारिपुत्र अभिनिष्क्रान्तगृहावासो बोधिसत्त्वो बोध्यङ्गैरभियुक्तः, तेन कथं दानं दातव्यम्, कतरं दानं दातव्यम्, कियद्रूपं दानं दातव्यम् । पेयालम् । धर्मदायकेन भवितव्यम् । यश्च शारिपुत्र गृही बोधिसत्त्वो गङ्गानदीवालिकासमानि बुद्धक्षेत्राणि सप्तरत्नपरिपूर्णानि तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च शारिपुत्र प्रव्रज्यापर्यापन्नो बोधिसत्त्वः एकां चतुष्पदिकां गाथां प्रकाशयेत्, अयमेव ततो बहुतरं पुण्यं प्रसवति । न शारिपुत्र तथागतेन प्रव्रजितस्य आमिषदानमनुज्ञातम् । पेयालम् । यस्य पुनः शारिपुत्र पात्रागतः पात्रपर्यापन्नो लाभो भवेद्धार्मिको धर्मलब्धः, तेन साधारणभाजिना भवितव्यं सार्धं सब्रह्मचारिभिरिति ॥

तत्रैवाह- यस्तु खलु पुनः शारिपुत्र अनभिनिष्क्रान्तगृहावासो बोधिसत्त्वः, तेन धर्म आसेवितव्यः । तत्र तेनाभियुक्तेन भवितव्यमिति । अन्यथा हि एकसत्त्वार्थसंग्रहार्थं महतः सत्त्वराशेस्तस्य च सत्त्वस्य बोधिसत्त्वाशयपरिकर्मान्तरायान्महतोऽर्थस्य हानिः कृता स्यादिति ॥

अनेनोपायकौशलेन विहरन्न बोधिमार्गात्परिभ्रश्यते । अयमभिप्रायः- दत्तः पूर्वमेव अनेन आत्मभावः सर्वसत्त्वेभ्यः । केवलमकालपरिभोगात्परिरक्षणीयः । अतो न मात्सर्यस्यावकाशः । नापि प्रतिज्ञातार्थहानिरिति । यदुक्तम्-

भैषज्यवृक्षस्य सुदर्शनस्य मूलादिभोग्यस्य यथैव बीजम् ।
दत्वापि संरक्ष्यमकालभोगात्संबुद्धभैषज्यतरोस्तथैव ॥
इति ॥

सत्त्वाशयरक्षणादप्यात्मा रक्षितव्य इत्याह-

धर्मं निर्गौरवे स्वस्थे न शिरोवेष्टिते वदेत् ।
सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके ॥ ब्च_५.८८ ॥

देवमनुष्यपूजितो हि भगवतो धर्मः । ततोऽवध्यायन्ति देवतादयो गौरवमकुर्वतो धर्मप्रकाशनात् । निषिद्धं चैतद्भगवता इति तदाज्ञातिक्रमे सापत्तिको भवेत् । न वस्त्रादिबद्धशिरसि । सहशब्देन त्रिष्वपि संबन्धः । तथोत्तरीयादिना पिहितशीर्षे । प्रत्येकं स्वस्थ इति संबन्धनीयम् । ग्लाने पुनरनापत्तिः । उपलक्षणं चैतत् । न स्थितेन सुप्ताय निषण्णाय वा, न निषण्णेन सुप्ताय, न चानासनेन निषण्णाय । नोत्पथयायिना मार्गयायिने, नाग्रगामिने पृष्ठगामिना, नाप्यलंकारयुक्ताय । इत्यादयोऽपि द्रष्टव्या इति ॥

इदमप्यनर्थविवर्जनाय मूलापत्तिकारणमकरणीयमित्याह-

गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना ।

(ब्च्प्७३) गम्भीरो दुर्मेधसामगाधत्वात् । उदारश्च प्रकर्षपर्यन्तत्वात् । तादृशं च धर्ममल्पेषु असंस्कृतबुद्धिषु हीनाधिमुक्तिषु वा न वदेदिति प्रकृतेन संबन्धः । न मातृग्रामस्य एकाकी रहोगतो धर्मं वदेत् । वदन् सापत्तिको भवति । न दोषः पुरुषो यदि स्यात् ॥

हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् ॥ ब्च_५.८९ ॥

श्रावकयानभाषितेषु वा महायानभाषितेषु वा धर्मेषु तुल्यं चित्तप्रसादादिकं कुर्यात् । अन्यथा सद्धर्मप्रतिक्षेपः स्यात् ॥

नोदारधर्मपात्रं च हीने धर्मे नियोजयेत् ।
न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् ॥ ब्च_५.९० ॥

गम्भीरोदारधर्मभाजनं च सत्त्वं निमित्तज्ञैर्ज्ञात्वा न श्रावकयानादिधर्मेष्ववतारयेत् । न च आचारं शिक्षासंवरकरणीयतां मुक्त्वा सूत्रान्तादिपाठेनैव तव शुद्धिर्भविष्यति इति धर्मकामं प्रभावयेत् । आह चात्र- पुनरपरोऽनर्थो रत्नकूटे दृष्टः- अपरिपाचितेषु सत्त्वेषु विश्वासो बोधिसत्त्वस्खलितम् । अभाजनीभूतेषु उदारबुद्धधर्मप्रकाशना बोधिसत्त्वस्खलितम् । उदाराधिमुक्तिकेषु सत्त्वेषु हीनयानप्रकाशना बोधिसत्त्वस्खलितमिति ॥

आर्यसर्वधर्मवैपुल्यसंग्रहे सूक्ष्मोऽप्यनर्थ उक्तः- सूक्ष्मं हि मञ्जुश्रीः सद्धर्मप्रतिक्षेपकर्मावरणम् । यो हि कश्चिन्मञ्जुश्रीः तथागतभाषिते धर्मे कस्मिंश्चित्शोभनसंज्ञां करोति, क्वचिदशोभनसंज्ञाम्, स सद्धर्मं प्रतिक्षिपति । तेन सद्धर्मप्रतिक्षेप्त्रा तथागतोऽभ्याख्यातो भवति, संघोऽपवादितो भवति, य एवं वदति- इदं युक्तमिदमयुक्तम् । इति विस्तरः ॥

आर्याकाशगर्भसूत्रे च मूलापत्तिप्रस्तावे चोक्तम्- पुनरपरमादिकर्मिको बोधिसत्त्वः केषांचिदेवं वक्ष्यति- किं भोः प्रातिमोक्षविनयेन? शीलेन सुरक्षितेन शीघ्रं त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयस्व । महायानं पठ । यत्ते किंचित्कायवाङ्मनोभिः क्लेशप्रत्ययादकुशलं कर्म समुदानीतम्, तेन ते शुद्धिर्भविष्यत्यविपाकम्, यावद्यथा पूर्वोक्तम् । इयमादिकर्मिकस्य बोधिसत्त्वस्य तृतीया मूलापत्तिरिति ॥

अतः इदमपि प्रातिमोक्षनिषिद्धं नाचरणीयमित्याह-

दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् ।
नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम् ॥ ब्च_५.९१ ॥

खेटस्य श्लेष्मणो विसर्जनमपावृतं न कुर्यात् । जले स्थले भोग्ये उपभोग्ये मूत्रपुरीषादेरपि कुत्सितम् । अत्रापि देवताद्यवध्यानादपुण्यं प्रसवेत् ॥

मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम् ।
प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् ॥ ब्च_५.९२ ॥

मुखं पूरितं कृत्वा महत्कवलग्रहणात् । सशब्दं सुकसुनिकादिशब्देन । [प्रसृताननं] दूरं विदारितमुखम् । प्रलम्बपादं भूम्याद्यलग्नपादं खट्वाद्यारोहणे सति नासीत । द्वावपि बाहू सममेकस्मिन् काले न मर्दयेत् । क्रममर्दने न दोषः । सति प्रत्यये ॥

(ब्च्प्७४) नैकयान्यस्त्रिया कुर्याद्यानं शयनमासनम् ।

एकया अद्वितीयया अन्यस्त्रिया । गृहिप्रव्रजितयोरिदमिह साधारणमित्यन्यग्रहणम् । न कुर्याद्यानादि । संक्षेपेण संकलय्य दर्शयन्नाह-

लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत् ॥ ब्च_५.९३ ॥

लोकानां यत्प्रसादजनकं न भवति, तत्सर्व दृष्ट्वा शास्त्रे व्यवहारे वा । पृष्ट्वा विज्ञान् । वर्जयेत् । अनेनैतद्दर्शितं भवति- दृष्टेऽपि यद्बाधाकरमेवंविधं तद्वर्जयेतापत्तिर्भवतीति । यदुक्तम्-

रत्नमेघे जिनेनोक्तस्तेन संक्षेपसंवरः ।
येनाप्रसादः सत्त्वानां तद्यत्नेन परित्यजेत् ॥
इति ॥
[शिक्षा. स. कारिका-१२]

यथाह- कतमे च ते बोधिसत्त्वसमुदाचाराः? यावदिह बोधिसत्त्वो नाघःस्थाने विहरति, नाकाले । नाकाले भाणी भवति । नाकालज्ञो भवति । नादेशज्ञो भवति । यतोनिदानमस्यान्तिके सत्त्वा अप्रसादं प्रतिसंवेदयेयुः । स सर्वसत्त्वानुरक्षया आत्मनश्च बोधिसंभारपरिपूरणार्थं सम्यगीर्यापथो भवति, मृदुभाणी मन्दभाणी असंसर्गबहुलः प्रविवेकाभिमुखः सुप्रसन्नमुखः इति ॥

न बोधिसत्त्वेन अवमन्यना क्वचिदपि कर्तव्येत्याह-

नाङ्गुल्या कारयेत्किंचिद्दक्षिणेन तु सादरम् ।
समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् ॥ ब्च_५.९४ ॥

एकया अङ्गुल्या तर्जन्यादिकया न किंचिदुपदर्शयेत्, अपि तु समस्तेनैव समग्रेणैव हस्तेन । दक्षिणेन न वामेन । मार्गमपि कथयेत् । आस्तां तावत्सगौरवं वस्तु ॥

लोकाप्रसादनिवारणायाह-

न बाहूत्क्षेपकं कंचिच्छब्दयेदल्पसंभ्रमे ।
अच्छटादि तु कर्तव्यमन्यथा स्यादसंवृतः ॥ ब्च_५.९५ ॥

न भुजमुत्क्षिप्य कंचिदाह्वयेत्, अल्पप्रयोजनतारतम्ये । महति पुनरदोषः । अच्छटादिशब्दं तु कुर्यात् । तदकरणेऽसमाहितचारितायामसंवृतः स्यात् । एतावता औद्धत्यपरिहारोऽपि दर्शितो भवति ॥

स हि शय्यां परिकल्पयन्नेवं परिकल्पयेदित्युपदर्शयन्नाह-

नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा ।
संप्रजानंल्लघूत्थानः प्रागवश्यं नियोगतः ॥ ब्च_५.९६ ॥

भगवतो महानिर्वाणशय्यामिव शय्यां परिकल्पयेत् । अभिमतया दिशा शिरो विधाय, दक्षिणेन पार्श्वेन, पादस्योपरि पादमाधाय, दक्षिणं बाहुमुपधानं कृत्वा, वामं च (ब्च्प्७५) प्रसार्य जङ्घोपरि निवेश्य, चीवरैः सुसंवृतकायः, स्मृतः, संप्रजानानः, उत्थानसंज्ञी, आलोकसंज्ञी, शयितः, नाचित्तकमिद्धावष्टब्धः । न च निद्रासुखमाखादयेत्, न च पार्श्वसुखमन्यत्र यावदेवैषां महाभूतानां स्थितये यापनायै इति । लघुत्थानः शीघ्रमेवोत्तिष्ठेत् । न तु जृम्भिकां गात्रमोटनं कुर्वन्नालस्योपहितश्चिरेण । एतेभ्य एव सर्वेभ्यः पूर्वमेव ॥

इदमपरमभिसंक्षिप्य कथयन्नाह-

आचारो बोधिसत्त्वानामप्रमेय उदाहृतः ।
चित्तशोधनमाचारं नियतं तावदाचरेत् ॥ ब्च_५.९७ ॥

आचारः शिक्षणीयम् । अप्रमेयः असंख्येयः बोधिसत्त्वप्रातिमोक्शादिषु प्रदर्शितः । तत्संग्रहरूपं प्रथमतः चित्तशोधनमेव आचारमाचरेत् । नियतमवश्यंतया ॥

सामान्यापत्तिशोधनायाह-

रात्रिंदिवं च त्रिस्कन्धं त्रिष्कालं च प्रवर्तयेत् ।
शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात् ॥ ब्च_५.९८ ॥

त्रिष्कृत्वो रात्रेः । त्रिष्कृत्वो दिवसस्य । त्रिस्कन्धः त्रयाणां स्कन्धानां पापदेशनापुण्यानुमोदनाबोधिपरिणामनानां समाहारः । त्रिस्कन्धं प्रवर्तयेत् । शेषा मूलाया अन्याः । अथवा, संचित्य कृता याः प्रतिकृताः ताभ्योऽन्याः स्मृतिसंप्रमोषेण असंप्रजानता वा कृताः । तासां प्रशमः प्रतिकरणं तेन त्रिस्कन्धपरिवर्तनेन बोधिचित्तस्य जिनानां च भगवतां समाश्रयणाच्च ॥

एतेन विदूषणासमुदाचारादयो दर्शिता भवन्ति ॥

तत्र पापशोधनं चतुर्धर्मकसूत्रे देशितम्-

चतुर्भिर्मैत्रेय धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृतोपचितं पापमभिभवति । कतमैश्चतुर्भिः? यदुत विदूषणासमुदाचारेण, प्रतिपक्षसमुदाचारेण, प्रत्यापत्तिबलेन, आश्रयबलेन च । तत्र विदूषणासमुदाचारः अकुशलं कर्म कृत्वा विप्रतिसाररूपात्सविगर्हणा पापदेशना, तदनुष्ठानं तत्समुदाचारः । तत्र प्रतिपक्षसमुदाचारः अकुशलप्रतिपक्षः कुशलम्, तत्समुदाचारः, कृत्वाप्यकुशलं कर्म कुशले कर्मण्यत्यन्तमभियोगः । तत्र प्रत्यापत्तिबलं संवरसमादानादकरणसंवरलाभः । तत्राश्रयबलं बुद्धधर्मसंघशरणगमनम्, अनुत्सृष्टबोधिचित्तता च । स बलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुम् । एभिर्मैत्रेय चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृतोपचितं पापमभिभवतीति ॥

विशेषतस्तु बोधिसत्त्वापत्तीनां गुर्वीणां लध्वीनां च देशना आर्योपालिपरिपृच्छायामुक्ताः । ताः शिक्षासमुच्चये द्रष्टव्याः ॥

सर्वापत्तयो बोधिसत्त्वेन पञ्चत्रिंशतां बुद्धानां भगवतामन्तिके रात्रिंदिवमेकाकिना देशयितव्याः । तत्रेयं देशना- अहमेवंनामा बुद्धं शरणं गच्छामीत्यारभ्य यावत्संघं शरणं गच्छामि, नमः शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय । नमो वज्रप्रमर्दिने इत्यारभ्य यावत्-

(ब्च्प्७६) उपैमि सर्वान् शरणं कृताञ्जलिः ।

इति विस्तरमुक्त्वाह- इति हि शारिपुत्र बोधिसत्त्वेन इमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्वतथागतानुगतैर्मनसिकारैः पापविशुद्धिः कार्या । तस्यैवं पापविशुद्धस्य त एव बुद्धा भगवन्तो मुखान्युपदर्शयन्ति । पेयालम् । न तत्शक्यं सर्वश्रावकप्रत्येकबुद्धनिकायैरापत्तिकौकृत्यस्थानं विशोधयितुं यद्बोधिसत्त्वस्तेषां बुद्धानां भगवतां नामधेयधारणपरिकीर्तनेन रात्रिंदिवं त्रिस्कन्धकधर्मपर्यायप्रवर्तनेन आपत्तिकौकृत्यान्निःसरति, समाधिं च प्रतिलभते ॥

एतत्साकल्येन शिक्षासमुच्चये वेदितव्यम् ॥

उक्तो विदूषणासमुदाचारः । प्रतिपक्षसमुदाचारप्रत्यापत्तिबले अपि विस्तरेण शिक्षासमुच्चयादेव द्रष्टव्ये । आर्यमैत्रेयविमोक्षे तु बोधिचित्तेन पापविशुद्धिरुक्ता । तच्चोक्तमेव प्राक् । जिनाश्रयात्पापविशुद्धौ सूकरिकावदानमुदाहार्यम् ।

ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम् ।
प्रहाय मानुषान् कायान् दिव्यान् कायांल्लभन्ति ते ॥

एवं धर्मं संघं चाधिकृत्य पाठः । अनेनाश्रयबलमुक्तम् ॥

पुनरनियमेन दर्शयन्नाह-

या अवस्थाः प्रपद्येत स्वयं परवशोऽपि वा ।
तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ॥ ब्च_५.९९ ॥

स्वयमात्मना परायत्तो वा सत्त्वार्थक्रियायां प्रवृत्तः ॥

किं पुनरेवमनियमेनाभिधीयत इत्याह-

न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः ।
न तदस्ति न यत्पुण्यमेवं विहरतः सतः ॥ ब्च_५.१०० ॥

यस्मात्सर्वाकारं सर्ववस्तुतत्त्वमधिगम्य सर्वेषां हितसुखविधानार्थमुद्यच्छद्भिर्बुद्धसुतैः न तदस्ति किंचित्, यन्न शिक्षितव्यम् । अन्यथा सर्वाकारः सर्वसत्त्वानामर्थः कर्तुमशक्यः । पुण्यसंभारोऽपि एवं विचरतोऽपर्यन्त एव स्यात् ॥

इयमपि शिक्षापदमुद्रा अवधारयितव्येत्याह-

पारंपर्येण साक्षाद्वा सत्त्वार्थ नान्यदाचरेत् ।
सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् ॥ ब्च_५.१०१ ॥

अन्ततः स्वयमाहारादिक्रियया परप्रेरणया अपरापरदूतप्रेरणया वा, साक्षात्स्वयमेव आमिषदानादिना वा, यत्सत्त्वानां हितसुखहेतुर्न भवति, तन्न कुर्यात्कारयेद्वा । न चैतदेव केवलम् । किंचित्सत्त्वानामेव संसारदुःखपतितानां ततो निःसरणाय सर्वं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयेत् ॥

एतावता श्लोकद्वयेन पुण्यवृद्धिरुपदर्शिता भवति ॥

(ब्च्प्७७) यदुक्तं कल्याणमित्रानुत्सर्गादिति [शिक्षा. स. कारिका-६] तदाह-

सदा कल्याणमित्रं च जीवितार्थेऽपि न त्यजेत् ।
बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ॥ ब्च_५.१०२ ॥

कल्याणकर्मणि अभ्युदयनिःश्रेयसप्राप्तिलक्षणे मित्रमसाधारणो बन्धुः, तत्कायजीवितविप्रणाशभयभीतोऽपि न त्यजेत् । कल्याणमित्रानुशंसाश्च प्रज्ञापारमितायामार्याष्टसाहस्रिकायां [अष्ट. ३०] सदाप्ररुदितपरिवर्ताद्वेदितव्याः । चतुर्धर्मकसूत्रेऽप्युक्तम्- कल्याणमित्रं भिक्षवो बोधिसत्त्वेन महासत्त्वेन यावज्जीवं न त्यक्तव्यमपि जीवितहेतोरिति । अपरित्याज्यस्य कल्याणमित्रस्य लक्षणमाह- बोधिसत्त्वशिक्षासंवरे व्यवस्थितम् । महायानार्थपण्डितम् । एतादृशं सुदुर्लभम् ॥

कल्याणमित्रस्य पर्युपासनपरिज्ञानार्थमाह-

श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम् ।

श्रीसंभवविमोक्षातार्यगण्डव्यूहपरिवर्तात्कल्याणमित्रपर्युपासनं शिक्षेत्जानीयात् । यथोक्तमार्यगण्डव्यूहे आर्यश्रीसंभवेन- कल्याणमित्रसंधारिताः कुलपुत्र बोधिसत्त्वा न पतन्ति दुर्गतिषु । यावत्- संचोदकाः कल्याणमित्रा अकरणीयानाम् । संनिवारकाः प्रमादस्थानात् । निष्कासयितारः संसारपुरात् । तस्मात्तर्हि कुलपुत्र एवंमनसिकाराप्रतिप्रस्रब्धेन कल्याणमित्राण्युपसंक्रमितव्यानि । पृथिवीसमचित्तेन सर्वभारोद्वहनापरितसनतया । वज्रसमचित्तेन अभेद्याशयतया । चक्रवालसमचित्तेन सर्वदुःखासंप्रवेधनतया । लोकदाससमचित्तेन सर्वकर्मसमादानाविजुगुप्सनतया । रजोहरणसमचित्तेन मानाभिमानविवर्जनतया । यानसमचित्तेन गुरुभारनिर्वाहनतया । अश्वसमचित्तेन अक्रुध्यनतया । नौसमचित्तेन गमनागमनापरितसनतया । सुपुत्रसदृशेन कल्याणमित्रमुखवीक्षणतया । आत्मनि च ते कुलपुत्र आतुरसंज्ञोत्पादयितव्या कल्याणमित्रेषु च वैद्यसंज्ञा, अनुशासनीषु भैषज्यसंज्ञा, प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा । आत्मनि च ते कुलपुत्र भीरुसंज्ञोत्पादयितव्या, कल्याणमित्रेषु शूरसंज्ञा, अनुशासनीषु प्रहरणसंज्ञा, प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञा ॥

यदुक्तं सूत्राणां च सदेक्षणादिति [शिक्षा. स. का.-६], तदुपदर्शयितुमाह-

एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात् ॥ ब्च_५.१०३ ॥

एतदिह शास्त्रे प्रतिपादितम्, अन्यद्यदिह नोक्तम् । बुद्धेन भगवता बोधिसत्त्वानां करणीयतया निर्दिष्टम्, तन्नानासूत्रान्तार्थपरिचयाद्वेदितव्यम् ॥

एतदेव दर्शयति-

शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत् ।

शिक्षा बोधिसत्त्वानां हेयोपादेयलक्षणाः । सूत्रेषु महायानसूत्रान्तेषु रत्नमेघादिषु । यत एवं तस्मात् । इदं तु विशेषनिर्देशमाह-

आकाशगर्भसूत्रे च मूलापत्तीर्निरूपयेत् ॥ ब्च_५.१०४ ॥

(ब्च्प्७८) आर्याकाशगर्भसूत्रे क्षत्रियस्य मूर्धाभिषिक्तस्य पञ्च मूलापत्तयो निर्दिष्टाः । तथा सामान्येन एका मूलापत्तिः । तथा आदिकर्मिकस्य बोधिसत्त्वस्य अष्टौ मूलापत्तय इति । तथा च तत्रोक्तम्- पञ्च कुलपुत्र क्षत्रियस्य मूर्धाभिषिक्तस्य मूलापत्तयः याभिर्मूलापत्तिभिः क्षत्रियो मूर्धाभिषिक्तः सर्वाणि पूर्वावरोपितानि कुशलमूलानि झोषयति । वस्तुपतितः पराजितः सर्वदेवमनुष्यसुखेभ्यः अपायगामी भवति । कतमाः पञ्च? यः कुलपुत्र क्षत्रियो मूर्धाभिषिक्तः स्तौपिकं वस्तु अपहरति सांघिकं वा चातुर्दिशसंघे निर्यातितं वा, स्वयं वा अपहरति हारयति वा । इयं प्रथमा मूलापत्तिः । एवं त्रियानभाषितधर्मप्रतिक्षेपात्द्वितीया । प्रव्रजितस्य शीलवतो दुःशीलस्य वा काषायापहरणात्, गृहस्थकरणात्, कायप्रहारात्, चारके प्रक्षेपात्, जीवितवियोजनाद्वा तृतीया । पञ्चानन्तर्येष्वन्यतमकरणाच्चतुर्थी । मिथ्यादृष्टेः, दशाकुशलकर्मपथसमादानात्, परसमादापनाद्वा पञ्चमीति ॥

तथा ग्रामभेदादिकरणात्सर्वेषां साधारणी चैका । तत्रैवोक्तम्-

आदिकर्मिकाणां महायानसंप्रस्थितानां कुलपुत्राणां कुलदुहितृणां च अष्टौ मूलापत्तयः, यामिर्मूलापत्तिभिः स्खलिता आदिकर्मिका महायानसंप्रस्थिताः सर्वाणि पूर्वारोपितानीत्यादि पूर्ववत् । कतमा अष्टौ? ये सत्त्वाः पूर्वदुश्चरितहेतुना अस्मिन् क्लिष्टे पञ्चकषाये लोके उत्पन्नाः, ते इत्वरकुशलमूलाः । यावत्, तेषामिदं परमं गम्भीरं शून्यताप्रतिसंयुक्तं सूत्रान्तं यावद्विस्तरेणाग्रतः स्मारयन्ति प्रकाशयन्ति । ते हि अकृतश्रमा बालपृथग्जनाः शृण्वन्त उत्रस्यन्ति, यावद्विवर्तयन्ति अनुत्तरायाः सम्यक्संबोधेश्चित्तम्, श्रावकयाने चित्तं प्रणिदधति । एषा आदिकर्मिकस्य बोधिसत्त्वस्य मूलापत्तिः प्रथमा, यया मूलापत्त्या इत्यादि पूर्ववत् । तस्माद्बोधिसत्त्वेन परसत्त्वानां परपुद्गलानामाशयानुशयं प्रथमं ज्ञात्वा यथाशयानां सत्त्वानामनुपूर्वेण धर्मदेशना कर्तव्येति । सोपायायाः सम्यक्संबोधेर्विनिवर्त्य हीनयाने परस्य चित्तमुत्पादयतो द्वितीया । प्रातिमोक्षशिक्षासंवरं विहाय महायाने चित्तोत्पादमात्रेण तत्पठनेन चास्य शुद्धिप्रकाशनात्तृतीया । श्रावकादियानस्य तत्फलस्य गोपननिन्दाप्रकाशनात्, महायाने सर्वशुद्धिप्रकाशनात्, परेषां तद्वचनकरणाच्चतुर्थी । कीर्तिलाभादिहेतोः महायानपठनादिना, तथा तत्प्रत्ययात्परेषां कुत्सानिन्दादिभाषणात्, आत्मोत्कर्षणात्, उत्तरमनुष्यधर्मोपगमात्पञ्चमी । पाठमात्रेण गम्भीरधर्माधिगमप्रकाशनात्, परेषां तथैव समादापनात्षष्ठी । क्षत्रियस्य पुरोहितामात्यचण्डालैर्ये भिक्षवो दण्डिता अर्थदण्डेन सांघिकं स्तौपिकं वा चातुर्दिशसांघिकं वा द्रव्यमपहृत्य तेभ्य एवोपनामयन्ति । ते च क्षत्रिया उभयेऽपि मूलापत्तिमापद्यन्ते । इयं
सप्तमी । धर्माधर्मविवादनापूर्वं शिक्षाप्रणयनात्, तन्मूलाचारविपन्नानां सत्कारात्, प्रहाणिकानामुपभोगपरिभोगाण्यन्यत्र परिणामनातुभयेऽपि मूलापत्तिमापद्यन्ते । इयमष्टमी ॥

आसां च मूलापत्तीनां सुखग्रहणार्थं शास्त्रकारोपदर्शिताः संग्रहकारिका उच्यन्ते-

रत्नत्रयस्वहरणादापत्पाराजिका मता ।
सद्धर्मस्य प्रतिक्षेपाद्द्वितीया मुनिनोदिता ॥
(ब्च्प्७९) दुःशीलस्यापि वा भिक्षोः काषायस्तैन्यताडनात् ।
चारके वा विनिक्षेपादपप्रव्राजनेन च ॥
पञ्चानन्तर्यकरणान्मिथ्यादृष्टिग्रहेण च ।
ग्रामादिभेदनाद्वापि मूलापत्तिर्जिनोदिता ॥
शून्यतायाश्च कथनात्सत्त्वेष्वकृतबुद्धिषु ।
बुद्धत्वप्रस्थितानां तु संबोधेर्विनिवर्तनात् ॥
प्रातिमोक्षं परित्याज्य महायाने नियोजनात् ।
शिष्ययानं न रागादिप्रहाणायेति वा ग्रहात् ॥
परेषां ग्रहणाद्वापि पुनः स्वगुणकाशनात् ।
परपंसनतो लाभसत्कारश्लोकहेतुना ॥
गम्भीरक्षान्तिकोऽस्मीति मिथ्यैव कथनात्पुनः ।
दण्डापयेद्वा श्रमणान् दद्याद्वा शरणत्रयात् ॥
गृह्णीयाद्दीयमानं वा शमथत्याजनात्पुनः ।
प्रतिसंलीनभोगं च स्वाध्यायिषु निवेदनात् ॥
मूला आपत्तयो ह्येता महानरकहेतवः ।
आर्यस्याकाशगर्भस्य स्वप्ने देश्याः पुरःस्थितैः ॥
बोधिचित्तपरित्यागाद्याचकायाप्रदानतः ।
तीव्रमात्सर्यलोभाभ्यां क्रोधाद्वा सत्त्वताडनात् ॥
प्रसाद्यमानो यत्नेन सत्त्वेषु न तितिक्षते ।
क्लेशात्परानुवृत्त्या वा सद्धर्माभासवर्णनात् ॥
इति ॥

तस्मिन्नेव सूत्रे समुद्धरणमासामुक्तम् ॥

शिक्शासमुच्चयेऽपि बोधिसत्त्वानां करणीयमुपदिष्टमिति तदपि निरूपणीयमित्याह-

शिक्षासमुच्चयोऽवश्यं द्रष्टव्यश्च पुनः पुनः ।
विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः ॥ ब्च_५.१०५ ॥

शिक्शासमुच्चयोऽपि स्वयमेभिरेव कृतः । अवश्यं नियमेन । द्रष्टव्यः पुनः पुनरसकृत् । अभ्यसनीय इति भावः । कुतः? यस्मात्सतां बोधिसत्त्वानाम् । आचरणमाचार इतिकर्तव्यता । तत्र शिक्षासमुच्चये । विस्तरेण प्रबन्धेन । प्रदर्शितः विस्पष्टीकृत्य प्रकाशितः, तस्मात् ॥

यदि तस्याभ्यासेऽशक्तिः, तदा-

संक्षेपेणाथवा तावत्पश्येत्सूत्रसमुच्चयम् ।

नानासूत्रैकदेशानां वा समुच्चयमेभिरेव कृतं संक्षेपेण पश्येत्व्यवलोकयेत्ग्रन्थतोऽर्थतो वा । अत्रापि पूर्वकमेव प्रयोजनम् ॥ यदि वा-

(ब्च्प्८०) आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः ॥ ब्च_५.१०६ ॥

आर्यनागार्जुनपादैर्निबद्धं द्वितीयं शिक्षासमुच्चयं सूत्रसमुच्चयं च पश्येत्प्रयत्नतः आदरतः । यदिह न दृश्यते, तत्तत्र दृश्यते इति भावः ॥

नियमेन शिक्षादर्शनेऽपि साकल्येन सर्वेषामुपयोगमाह-

यतो निवार्यते यत्र यदेव च नियुज्यते ।
तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत् ॥ ब्च_५.१०७ ॥

यतो हेयादकरणीयान्निवार्यते, न करणीयमेतदिति प्रतिषिध्यते । यत्र शिक्शासमुच्चये सूत्रसमुच्चये वा । यदेव कर्म कर्तव्यतया नियुज्यते विधीयते, तत्प्रसिद्धं विहितं वा । लोकानां चित्तमाशयः तस्य रक्षार्थम्, तद्यथा विकोपितं न स्यात् । शिक्षां दृष्ट्वा शिक्षासमुच्चयादिषु । प्रतिपादं समाचरेत्, यत्र यद्यथा युज्यते, तत्र तथा व्यवहरेत् । अन्यथा अर्थसंमूढव्यवहारस्य आपत्तिकश्मलता स्यात् ॥

एतावता आत्मभावस्य शुद्धिराख्याता । यदाह-

आत्मभावस्य का शुद्धिः पापक्लेशविशोधनम् ।
संबुद्धोक्त्यनुसारेण यत्नाभावे त्वपायगः ॥
इति ॥
[शिक्षा. स. कारिका-१९]

यदुक्तम्- सदा स्मृतिसंप्रजन्यचारिणा भवितव्यमिति, ततः स्मृतेः स्वनाम्नैव स्वरूपं प्रतीतम् । संप्रजन्यस्य तु न ज्ञायते कीदृशमिति, तत्स्वरूपप्रतिपत्तये प्राह-

एतदेव समासेन संप्रजन्यस्य लक्षणम् ।
यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः ॥ ब्च_५.१०८ ॥

यत्कायावस्थायाः चित्तावस्थायाश्च सर्वेर्यापथेषु प्रत्यवेक्षा निरूपणं सर्ववारं यथा प्रतिपादितं प्राक् ॥

सर्वमेतदुक्तशिक्षाकौशलं कर्मणा निष्पादयितव्यं न वचनमात्रेणेति नियमयितुमाह-

कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत् ।
चिकित्सापाठमात्रेण रोगिणः किं भविष्यति ॥ ब्च_५.१०९ ॥

मनःपूर्वंगमत्वात्कायव्यापारस्य, सोऽप्यनेनैव प्रतिपादितः । प्रतिपत्त्या सर्वं संपादयिष्यामि, न तु शब्दमात्रघोषणया निष्फलत्वादिति बोधिसत्त्वेन यतितव्यम् । कथमिव? वैद्यकशास्त्राध्ययनमात्रेण तत्क्रियामकुर्वतो व्याधिग्रस्तस्य किं फलं निष्पत्स्यते? तावन्मात्रेण रोगस्य तस्याविनिवृत्तेः । न किंचिदिति भावः । तस्मात्सर्वमेतत्क्रियानुष्ठानेन निष्पादयितव्यमिति ॥

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः ॥