बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/दशमः परिच्छेदः

विकिस्रोतः तः
← नवमः परिच्छेदः बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)
दशमः परिच्छेदः
प्रज्ञाकरमतिः

१०. परिणामनापरिच्छेदो दशमः ।

बोधिचर्यावतारं मे यद्विचिन्तयतः शुभम् ।
तेन सर्वे जनाः सन्तु बोधिचर्याविभूषणाः ॥ ब्च_१०.१ ॥
सर्वासु दिक्शु यावन्तः कायचित्तव्यथातुराः ।
ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रमोद्यसागरान् ॥ ब्च_१०.२ ॥
आसंसारं सुखज्यानिर्मा भूत्तेषां कदाचन ।
बोधिसत्त्वसुखं प्राप्तं भवत्वविरतं जगत् ॥ ब्च_१०.३ ॥
यावन्तो नरकाः केचिद्विद्यन्ते लोकधातुषु ।
सुखावतीसुखामोद्यैर्मोदन्तां तेषु देहिनः ॥ ब्च_१०.४ ॥
शीतार्ताः प्राप्नुवन्तूष्णमुष्णार्ताः सन्तु शीतलाः ।
बोधिसत्त्वमहामेघसंभवैर्जलसागरैः ॥ ब्च_१०.५ ॥
असिपत्रवनं तेषां स्यान्नन्दनवनद्युति ।
कूटशाल्मलिवृक्षाश्च जायन्तां कल्पपादपाः ॥ ब्च_१०.६ ॥
कादम्बकारण्डवचक्रवाकहंसादिकोलाहलरम्यशोभैः ।
सरोभिरुद्दामसरोजगन्धैर्भवन्तु हृद्या नरकप्रदेशाः ॥ ब्च_१०.७ ॥
सोऽङ्गारराशिर्मणिराशिरस्तु तप्ता च भूः स्फाटिककुट्टिमं स्यात् ।
भवन्तु संघातमहीधराश्च पूजाविमानाः सुगतप्रपूर्णाः ॥ ब्च_१०.८ ॥
अङ्गारतप्तोपलशस्त्रवृष्टिरद्यप्रभृत्यस्तु च पुष्पवृष्टिः ।
तच्छस्त्रयुद्धं च परस्परेण क्रीडार्थमद्यास्तु च पुआपयुद्धम् ॥ ब्च_१०.९ ॥
पतितसकलमांसाः कुन्दवर्णास्थिदेहा
दहनसमजलायां वैतरण्यां निमग्नाः ।
मम कुशलबलेन प्राप्तदिव्यात्मभावाः
सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः ॥ ब्च_१०.१० ॥
त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोरा
ध्वान्तं ध्वस्तं समन्तात्सुखरतिजननी कस्य सौम्या प्रभेयम् ।
(ब्च्प्२८४)
इत्यूर्ध्व प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं
दृष्ट्वा प्रामोद्यवेगाद्वयपगतदुरिता यान्तु तेनैव सार्धम् ॥ ब्च_१०.११ ॥
पतति कमलवृष्टिर्गन्धपानीयमिश्रा-
च्छमिति (?)नरकवह्निं दृश्यते नाशयन्ती ।
किमिदमिति सुखेनाह्वादितानामकस्माद्
भवतु कमलपाणेर्दर्शनं नारकाणाम् ॥ ब्च_१०.१२ ॥
आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः
संप्राप्तोऽस्माकमेष ज्वलदभयकरः कोऽपि चीरीकुमारः ।
सर्व यस्यानुभावाद्वयसनमपगतं प्रीतिवेगाः प्रवृत्ताः
जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च ॥ ब्च_१०.१३ ॥
पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं
कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् ।
कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतैर्
दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम् ॥ ब्च_१०.१४ ॥
इति मत्कुशलैः समन्तभद्रप्रमुखानावृतबोधिसत्त्वमेघान् ।
सुखशीतसुगन्धवातवृष्टीनभिनन्दन्तु विलोक्य नारकास्ते ॥ ब्च_१०.१५ ॥
शाम्यन्तु वेदनास्तीव्रा नारकाणां भयानि च ।
दुर्गतिभ्यो विमुच्यन्तां सर्वदुर्गतिवासिनः ॥ ब्च_१०.१६ ॥
अन्योन्यभक्षणभयं तिरश्चामपगच्छतु ।
भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः ॥ ब्च_१०.१७ ॥
संतर्प्यन्तां प्रेताः स्त्राप्यन्तां शीतला भवन्तु सदा ।
आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः ॥ ब्च_१०.१८ ॥
अन्धाः पश्यन्तु रूपाणि शृण्वन्तु बधिराः सदा ।
गर्भिण्यश्च प्रसूयन्तां मायादेवीव निर्व्यथाः ॥ ब्च_१०.१९ ॥
वस्त्रभोजनपानीयं स्त्रक्चन्दनविभूषणम् ।
मनोभिलषितं सर्वं लभन्तां हितसंहितम् ॥ ब्च_१०.२० ॥
मीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः ।
उद्विग्राश्च निरुद्वेगा धृतिमन्तो भवन्तु च ॥ ब्च_१०.२१ ॥
आरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात् ।
दुर्बला बलिनः सन्तु स्त्रिग्धचित्ताः परस्परम् ॥ ब्च_१०.२२ ॥
(ब्च्प्२८५)
सर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम् ।
येन कार्येण गच्छन्ति तदुपायेन सिध्यतु ॥ ब्च_१०.२३ ॥
नौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः ।
क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः ॥ ब्च_१०.२४ ॥
कान्तारोन्मार्गपतिता लभन्तां सार्थसंगतिम् ।
अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः ॥ ब्च_१०.२५ ॥
सुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे ।
अनाथबालवृद्धानां रक्षां कुर्वन्तु देवताः ॥ ब्च_१०.२६ ॥
सर्वाक्षणविनिर्मुक्ताः श्रद्धाप्रज्ञाकृपान्विताः ।
आकाराचारसंपन्नाः सन्तु जातिस्मराः सदा ॥ ब्च_१०.२७ ॥
भवन्त्वक्षयकोशाश्च यावद्गगनगञ्जवत् ।
निर्द्वन्द्वा निरुपायासाः सन्तु स्वाधीनवृत्तयः ॥ ब्च_१०.२८ ॥
अल्पौजसश्च ये सत्त्वास्ते भवन्तु महौजसः ।
भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः ॥ ब्च_१०.२९ ॥
याः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः ।
प्राप्नुवन्तूच्चतां नीचा हतमाना भवन्तु च ॥ ब्च_१०.३० ॥
अनेन मम पुण्येन सर्वसत्त्वा अशेषतः ।
विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा ॥ ब्च_१०.३१ ॥
बोधिचित्ताविरहिता बोधिचर्यापरायणाः ।
बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः ॥ ब्च_१०.३२ ॥
अप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते ।
नित्यं जीवन्तु सुखिता मृत्युशब्दोऽपि नश्यतु ॥ ब्च_१०.३३ ॥
रम्याः कल्पद्रुमोद्यानैर्दिशः सर्वा भवन्तु च ।
बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः ॥ ब्च_१०.३४ ॥
शर्करादिव्यपेता च समा पाणितलोपमा ।
मृद्वी च वैडूर्यमयी भूमिः सर्वत्र तिष्ठतु ॥ ब्च_१०.३५ ॥
बोधिसत्त्वमहापर्षन्मण्डलानि समन्ततः ।
निषीदन्तु स्वशोभाभिर्मण्डयन्तु महीतलम् ॥ ब्च_१०.३६ ॥
पक्षिभ्यः सर्ववृक्षेभ्यो रश्मिभ्यो गगनादपि ।
धर्मध्वनिरविश्रामं श्रूयतां सर्वदेहिभिः ॥ ब्च_१०.३७ ॥
बुद्धबुद्धसुतैर्नित्यं लभन्तां ते समागमम् ।
पूजामेघैरनन्तैश्च पूजयन्तु जगद्गुरुम् ॥ ब्च_१०.३८ ॥
(ब्च्प्२८६)
देवो वर्षतु कालेन सस्यसंपत्तिरस्तु च ।
स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः ॥ ब्च_१०.३९ ॥
शक्ता भवन्तु चौषध्यो मन्त्राः सिध्यन्तु जापिनाम् ।
भवन्तु करुणाविष्टा डाकिनीराक्षसादयः ॥ ब्च_१०.४० ॥
मा कश्चिद्दुःखितः सत्त्वो मा पापी मा च रोगितः ।
मा हीनः परिभूतो वा मा भूत्कश्चिच्च दुर्मनाः ॥ ब्च_१०.४१ ॥
पाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः ।
नित्यं स्यात्संघसामग्री संघकार्यं च सिध्यतु ॥ ब्च_१०.४२ ॥
विवेकलाभिनः सन्तु शिक्षाकामाश्च भिक्षवः ।
कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः ॥ ब्च_१०.४३ ॥
लाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः ।
भवन्त्यखण्डशीलाश्च सर्वे प्रव्रजितास्तथा ॥ ब्च_१०.४४ ॥
दुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा ।
सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः ॥ ब्च_१०.४५ ॥
पण्डिताः संस्कृताः सन्तु लाभिनः पैण्डपातिकाः ।
भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः ॥ ब्च_१०.४६ ॥
अभुक्त्वापायिकं दुःखं विना दुष्करचर्यया ।
दिव्येनैकेन कायेन जगद्धुद्धत्वमाप्नुयात् ॥ ब्च_१०.४७ ॥
पूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा ।
अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा ॥ ब्च_१०.४८ ॥
सिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः ।
यच्चिन्तयन्ति ते नाथास्तत्सत्त्वानां समृध्यतु ॥ ब्च_१०.४९ ॥
प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा ।
देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः ॥ ब्च_१०.५० ॥
जातिस्मरत्वं प्रव्रज्यामहं च प्राप्नुयां सदा ।
यावत्प्रमुदिताभूमिं मञ्जुघोषपरिग्रहात् ॥ ब्च_१०.५१ ॥
येन तेनासनेनाहं यापयेयं बलान्वितः ।
विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु ॥ ब्च_१०.५२ ॥
यदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन ।
तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः ॥ ब्च_१०.५३ ॥
दशदिग्व्योमपर्यन्तसर्वसत्त्वार्थसाधने ।
यथा चरति मञ्जुश्रीः सैव चर्या भवेन्मम ॥ ब्च_१०.५४ ॥
(ब्च्प्२८७)
आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः ।
तावन्मम स्थितिर्भूयाज्जगद्दुःखानि निघ्नतः ॥ ब्च_१०.५५ ॥
यत्किंचिज्जगतो दुःखं तत्सर्वं मयि पच्यताम् ।
बोधिसत्त्वशुभैः सर्वैर्जगत्सुखितमस्तु च ॥ ब्च_१०.५६ ॥
जगद्दुःखैकभैषज्यं सर्वसंपत्सुखाकरम् ।
लाभसत्कारसहितं चिरं तिष्ठतु शासनम् ॥ ब्च_१०.५७ ॥
मञ्जुघोषं नमस्यामि यत्प्रसादान्मतिः शुभे ।
कल्याणमित्रं वन्देऽहं यत्प्रसादाच्च वर्धते ॥ ब्च_१०.५८ ॥

॥ बोधिचर्यावतारे परिणामनापरिच्छेदो दशमः ॥
॥ समाप्तोऽयं बोधिचर्यावतारः । कृतिराचार्यशान्तिदेवस्य ॥