सामग्री पर जाएँ

बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/तृतीयः परिच्छेदः

विकिस्रोतः तः
← द्वितीयः परिच्छेदः बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)
तृतीयः परिच्छेदः
प्रज्ञाकरमतिः
चतुर्थः परिच्छेदः →

३. बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः ।

अधुना पापदेशनानन्तरं पुण्यानुमोदनामाह-

अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुभम् ।
अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः ॥ ब्च_३.१ ॥

नरकादिगतौ दुःखमनुभवन्तो हि परिश्रान्ताः सुकृतविपाकमधिगम्य प्रतिलब्धसुखा विश्राम्यन्ति कियत्कालम् । अनुमोदे प्रसादेन इति संप्रहर्षयामि प्रसन्नचित्तः । अनुमोदनापि त्रिविधामनसा कायेन वाचा च । तत्र प्रसन्नचित्तः संप्रहर्षयति मनसा, कायेन रोमहर्षश्रुपातगात्रकम्पादिकमनुभवन्, वाचा च संप्रहृष्टचेतनः तथाविधामेव वाचमुच्चारयन्, साधु कृतं भद्रकं कृतमिति । सुखं तिष्ठन्तु दुःखिता इति यदर्थं तैस्तत्कर्म कृतम्, तदपि तेषां समृध्यतु इति भावः ॥

लौकिकं कर्मानुमोद्य लोकोत्तरमनुमोदमानः प्राह-

संसारदुःखनिर्मोक्षमनुमोदे शरीरिणाम् ।
बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम् ॥ ब्च_३.२ ॥

दुःखनिर्मोक्षमिति श्रावकबोधिः प्रत्येकबुद्धबोधिर्वा । चित्तं वा तदर्थमुत्पादितं तथोच्यते । तदा बोधित्रयमपि तद्गाहः । शरीरिणामिति प्राणिनाम् । बोधिसत्त्वत्वबुद्धत्वमिति बोधिसत्त्वत्वं भगवतां हेत्ववस्थाम्, बुद्धत्वं फलावस्थामिति । तायिनामिति स्वाधिगतमार्गदेशकानाम् । यदुक्तम्- तायः स्वदृष्टमार्गोक्तिः इति । तद्विद्यते येषामिति । अथवा- तायः संतानार्थः आसंसारमप्रतिष्ठितनिर्वाणतयावस्थायिनाम् ॥

बोधिसत्त्वानां पुण्यानुमोदनां कुर्वन्नाह-

चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् ।
सर्वसत्त्वहिताधानाननुमोदे च शासिनाम् ॥ ब्च_३.३ ॥

चित्तोत्पादाः प्रतिक्षणभाविनोऽपर्यन्तागाधतया समुद्रा इव समुद्राः तान् । किंभूतान्? सर्वसत्त्वसुखावहान् सर्वसत्त्वानां सुखमावहन्तीति तद्रसैकनिम्नस्वभावानित्यर्थः । सर्वसत्त्वहिताधानानिति हितविधायकान् । शासिनामिति शासनं शासः बुद्धत्वोपायाभ्यासः, तदर्थत्वादुपचारात् । तद्विद्यते येषामिति शासिनो बोधिसत्त्वाः । तदुक्तम्-

उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम् ।
इति ॥

अथवा- शासितुं शीलं येषामिति शासिनः । बोधिसत्त्वा हि दानादिभिः संग्रहवस्तुभिः सत्त्वान् संगृह्य सन्मार्गेऽवतारयन्ति ॥

एतावता अनुमोदना कथिता । अध्येषणां कथयन्नाह-

सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः ।
धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् ॥ ब्च_३.४ ॥

(ब्च्प्३८) धर्मप्रदीपं कुर्वन्त्विति अज्ञानतमोवृतानां सत्त्वानां मार्गामार्गविशेषपरिज्ञानविकलानां धर्मदेशनात्मकमालोकं कुर्वन्तु ॥

एतावता अध्येषणा कथिता । याचनामुपदर्शयन्नाह-

निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः ।
कल्पाननन्तांस्तिष्ठन्तु मा भुदन्धमिदं जगत् ॥ ब्च_३.५ ॥

कृतकृत्यतया परिनिर्वाणं गन्तुमनसः । अपर्यन्तकल्पान् स्थितये याचयामि । मा भूदन्धमिति पूर्ववन्मार्गाज्ञाननिश्चेतनं मा भूत् । अनेनापि याचना प्रोक्ता ॥

याचनानान्तरमिदानीं परिणामनामाह-

एवं सर्वमिदं कृत्वा यन्मयासादितं शुभम् ।
तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥ ब्च_३.६ ॥

एवमुक्तक्रमेण सर्वमिदं पूजापापदेशनापुण्यानुमोदनादि कृत्वा विधाय यन्मया आसादितं प्राप्तं शुभं सुकृतं तेन शुभेन स्यां भवेयं सर्वसत्त्वानां समस्तप्राणभृतां सर्वदुःखप्रशान्तिकृदिति निःशेषव्यसनप्रशमनसमर्थो भवेयम् ॥

इति सामान्येन परिणमय्य पुनर्विशेषेणाह-

ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च ।
तदुपस्थायकश्चैव यावद्रोगापुनर्भवः ॥ ब्च_३.७ ॥

तेनेति सर्वत्र यथायोगं संबन्धनीयम् । ग्लानानामिति व्याधिपीडितानाम् । भैषज्यमिति औषधम् । वैद्यश्चिकित्सकः । तदुपस्थायकः तस्य ग्लानस्य परिचारकः । रोगापुनर्भव इति यावद्व्याधिनिवृत्तिः स्यात् ॥

क्षुत्पिपासाव्यथां हन्यामन्नपानप्रवर्षणैः ।
दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् ॥ ब्च_३.८ ॥

क्षुद्बुभुक्षा । पिपासा तृष्णा । तयोर्व्यथा, ताभ्यां वा व्यथा । तां हन्यां निवर्तेयम् । अन्नपानप्रवर्षणैः प्रबन्धाहारपानसंपादनैः । दुर्भिक्षान्तरकल्पेष्विति-

कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः । इति ॥

तत्र दशवर्षायुषि प्रजायामन्तरकल्पपर्यन्ते दुर्भिक्षेण संवर्तः प्रादुर्भवति वर्षान् सप्त, मासान् सप्त, दिवसानपि सप्तैव । यदुक्तम्-

कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण विनिर्गमः ।
दिवसान् सप्त मासांश्च वर्षाश्चैव यथाक्रमम् ॥
इति ।

तत्र अन्नपानाभावादन्योन्यमांसास्थिभक्षणमेव आहारः । तदपि केचिदलभमाना आहारवैकल्याच्च म्रियन्ते । तत्र भवेयं पानभोजनम् ॥

दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः ।
नानोपकरणाकारैरुपतिष्ठेयमग्रतः ॥ ब्च_३.९ ॥

(ब्च्प्३९) दरिद्राणामिति धनविकलानाम् । अक्षय इति आकृष्यमाणधनोऽपि यो न क्षीयते । नानोपकरणाकारैरिति शयनासनवसनभोजनाभरणविलेपनप्रभृति यद्यदभिलषन्ति सत्त्वाः, तैस्तैरुपकरणविशेषाकारैः अहमेव उपतिष्ठेयं प्रत्युपस्थितो भवेयम् । तेषां दरिद्राणां सत्त्वानामग्रतः पुरतः । इदं च परिणामनमार्यवज्रध्वजसूत्रे विस्तरेण प्रतिपादितम् । तत्रेदमुक्तम्-

स तानि कुशलमूलानि परिणामयनेवं परिणामयति- अनेनाहं कुशलमूलेन सर्वसत्त्वानां लयनं भवेयं सर्वदुःखस्कन्धविनिवर्तनतया । सर्वसत्त्वानां त्राणं भवेयं सर्वक्लेशपरिमोचनतया । सर्वसत्त्वानां शरणं भवेयं सर्वभयारक्षणतया । सर्वसत्त्वानां गतिर्भवेयं सर्वभूम्यनुगमनतया । सर्वसत्त्वानां परायणं भवेयमत्यन्तयोगक्षेमप्रतिलम्भनतया । सर्वसत्त्वानामालोको भवेयं वितिमिरज्ञानसंदर्शनतया । सर्वसत्त्वानामुल्का भवेयमविद्यातमोन्धकारविनिवर्तनतया । इत्यादि विस्तरः । इदमुक्त्वा पुनरिदमाह- तत्राध्याशयतः परिणमयतिओ न वचनमात्रेण । तच्चोदग्रचित्तः परिणमयति । हृष्टचित्तः परिणमयति । प्रसन्नचित्तः परिणमयति । प्रमुदितचित्तः स्त्रिग्धचित्तः परिणमयति । मैत्रचित्तः प्रेमचित्तोऽनुग्रहचित्तो हितचित्तः सुखचित्तः परिणमयति । इति विस्तरः ॥

इदानीमात्मभावादिपरित्यागं कुर्वन्नाह-

आत्मभावांस्तथा भोगान् सर्वत्र्यध्वगतं शुभम् ।
निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये ॥ ब्च_३.१० ॥

आत्मभावानिति सर्वगतिच्युत्युपपत्तिषु सर्वकायान् । निरपेक्षः सर्वप्रकारेण निरासङ्ग इत्यर्थः । त्यजामि उत्सृजामि । ददामीत्यर्थः । भोगानिति उपभोग्यवस्तूनि हयगजरथप्रासादाद्याश्रयस्त्रक्चन्दनवस्त्राभरणकन्यादीनि । सर्वत्र्यध्वगतं शुभमिति सर्वत्रैधातुकसंगृहीतं पुण्यानेञ्जयस्वभावम् । यदि वा दानशीलादिप्रसूतं भावनामयं च । त्र्यध्वगतमतीतानागतप्रत्युत्पन्नम् । स्यादेतत्- अनागतस्य असत्स्वभावस्य कोऽयमुत्सर्गो नाम? सत्यम् । किं तु तत्संभवकाले तत्रासङ्गनिवारणार्थमेवमुच्यते, इदानीमेव तत्परित्यागात्, आशयस्य विशुद्धिवर्धनार्थं च । एतदेवाह- निरपेक्ष इति । तद्विपाकस्य स्वार्थेऽनपेक्षः । किमर्थमेवमनुष्ठीयते इत्याह- सर्वसत्त्वार्थसिद्धये इति । सर्वसत्त्वानां त्रैधातुकवर्तिनामभ्युदयनिःश्रेयसलक्षणार्थनिष्पत्तये । अतीतानागतशुभोत्सर्गस्तु आर्याक्षयमतिसूत्रेऽभिहितः । यदुक्तम्-

कुशलानां च चित्तचैतसिकानामनुस्मृतिः, अनुस्मृत्य च बोधिपरिणामना, इद मतीतकौशल्यम् । या अनागतानां कुशलमूलानां निध्यप्तिर्बोधेरामुखीकर्मसमन्वाहारः, ये ये उत्पत्स्यन्ते कुशलाश्चित्तोत्पादाः, ताननुत्तरायां सम्यक्संबोधौ परिणामयिष्यामि । इदमनागतकौशल्यम् । इति विस्तरः । सर्वत्यागाधिमुक्तिं परिपूर्ये परित्यागचित्तवेगात्तेन कायप्रयोगेण उत्सृष्टसर्वपरिग्रहः । सर्वपरिग्रहमूलाद्भवदुःखाद्विमुक्तो मुक्त इत्युच्यते । इति विस्तरः ॥

(ब्च्प्४०) ननु च आत्मार्थमपि किंचिद्रक्षितुमुचितमिति मात्सर्यं निराकुर्वन्नाह-

सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः ।
त्यक्तव्यं चेन्मया सर्व वरं सत्त्वेषु दीयताम् ॥ ब्च_३.११ ॥

सर्वेषां सास्रवात्मभावादीनां निर्वाणं मोक्षः । तदर्थि च मे मनः, तदर्थि च मम चित्तम् । त्यक्तव्यं चेदिति । निर्वाणसमये यदि सर्वमात्मभावादि अवश्यं परित्यज्य यातव्यं मया, तदा वरं सत्त्वेषु दीयताम्, किमनेन मात्सर्यहेतुना विधृतेनेति भावः ॥

तस्मादिदमिहानुरूपमित्याह-

यश्चासुखीकृतश्चात्मा मयायं सर्वदेहिनाम् ।

यथाकामंगमकारितायां नियुक्तो मयायमात्मा कायः । सर्वदेहिनां सर्वसत्त्वानां कृते । एतदेव दर्शयन्नाह-

घ्रन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांसुभिः ॥ ब्च_३.१२ ॥
क्रीडन्तु मम कायेन हसन्तु विलसन्तु च ।
दत्तस्तेभ्यो मया कायश्चिन्तया किं ममानया ॥ ब्च_३.१३ ॥
कारयन्तु च कर्माणि यानि तेषां सुखावहम् ।

दण्डादिभिस्ताडयन्तु वा, अवर्णवादैर्जुगुप्सन्तु, आकिरन्तु च पांसुभिः, धूलिभिरवकिरन्तु । दत्तस्तेभ्यो मया काय इति, सर्वः सर्वेण मया तेषां परित्यक्तः, किं मम समविषमचिन्तया? कारयन्तु कर्माणीति अनवद्यानि । एतदेवाह-

अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन ॥ ब्च_३.१४ ॥

अनिष्टं कस्यचित्प्राणिनो मा भूत्, मामाश्रित्य कदाचन, इह परत्र वा ॥

येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत् ।
तेषां स एव हेतुः स्यान्नित्यं सर्वार्थसिद्धये ॥ ब्च_३.१५ ॥

येषां क्रुद्धा येषामप्रसन्ना वा मतिश्चित्तं भवेत्, तेषां क्रुद्धाप्रसन्नमतीनां स एव हेतुः स्यात्, क्रुद्धा अप्रसन्ना मतिरेव । पुंस्त्वं तु तच्छब्दस्य हेतुसमानाधिकरणतया । सर्वार्थसिद्धय इति आत्मपराभ्युदयनिःश्रेयसनिष्पत्तये ॥

अभ्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः ।
उत्प्रासकास्तथान्येऽपि सर्वे स्युर्बोधिभागिनः ॥ ब्च_३.१६ ॥

अभ्याख्यास्यन्ति इति मिथ्यारोपितदोषेण दूषयिष्यन्ति । अन्येऽपि ये कायिकं मानसिकं वा अपकारं करिष्यन्ति । उत्प्रासका इति उपहासकाः, विडम्बकारिणो वा । तथा अन्येऽपि उदासीनाः प्रसन्नाश्च । सर्वे भवेयुर्बुद्धत्वलाभिनः ॥

अनाथानामहं नाथः सार्थबाहश्च यायिनाम् ।
पारेप्सूनां च नौभूतः सेतुः संक्रम एव च ॥ ब्च_३.१७ ॥

(ब्च्प्४१) अनाथानामिति सांनाय्यान्वेषिणाम् । सार्थवाहश्च यायिनामिति सार्थमुख्यो मार्गप्रपन्नानाम् । पारेप्सूनामिति नद्यादीनां पारिमकूलं गन्तुकामानाम् ॥

दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम् ।
दासार्थिनामहं दासो भवेयं सर्वदेहिनाम् ॥ ब्च_३.१८ ॥

दीपार्थिनामिति अन्धकारावस्थितानाम् । शय्यार्थिनामिति शयनाभिलाषिणाम् । दासार्थिनामिति उपस्थानार्थं ये भृत्यकर्मकरादीनिच्छन्ति ॥

चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः ।
भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम् ॥ ब्च_३.१९ ॥

चिन्तामणिरिति चिन्तितफलदाता रत्नविशेषः । भद्रघट इति यद्यद्वस्तु अभिलषितमभिसंधाय अस्मिन् हस्तं प्रक्षिपेत्, तत्सर्वं संपद्यते । सिद्धविद्येति सिद्धमन्त्रः यद्यत्कर्म तया क्रियते, तत्सर्वं सिध्यति । महौषधिरिति यदेकैव सर्वोपद्रवपीडाप्रशमनहेतुः । कल्पवृक्षश्चेति कल्पितार्थसंपादको वृक्षविशेषः । कामधेनुश्चेति या वाञ्छितदोहं दुह्यते ॥

पृथिव्यादीनि भूतानि निःशेषाकाशवासिनाम् ।
सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा ॥ ब्च_३.२० ॥
एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा ।
भवेयमुपजीव्योऽहं यावत्सर्वे न निर्वृताः ॥ ब्च_३.२१ ॥

पृथिव्यादीनीति पृथिवी वसंधरा । आदिशब्दादापस्तेजो वायुरिति चत्वारि महाभूतानि । तानि यथा शयनाशनसस्यफलमूलाद्याधारतया , तथा यानावगाहनादिहेतुतया । एवमन्यत्रापि योज्यम् । अनन्ताकाशधतुव्यापिनामसंख्यानां सत्त्वानां परिभोगमुपयान्ति, एवमेव अहमपि सर्वसत्त्वानामनेकप्रकारेण उपभोग्यो भवेयम् । यावत्सर्वे न निर्वृता इति यावत्सर्वे न संसारदुःखविनिर्मुक्ताः ॥

तस्मादेषामात्मभावादीनामुत्सर्गः कार्यो बोध्यर्थिना । एतच्च दानमतिविस्तरेण शिक्षासमुच्चये प्रदर्शितम् । तद्यथा तत्रैव बोधिसत्त्वप्रातिमोक्षे कथितम्-

पुनरपरं शारिपुत्र बोधिसत्त्वः सर्वधर्मेषु परकीयसंज्ञामुत्पादयति, न कंचिद्भावमुपादत्ते । तत्कस्य हेतोः? उपादानं हि भयमिति ।

इदमुक्त्वा तत्रैव पुनरिदमुक्तम्-

तथा चित्तशूराः खलु पुनः शारिपुत्र बोधिसत्त्वा भवन्ति । यावत्स्वहस्तपरित्यागी भवति, पादपरित्यागी नासापरित्यागी शीर्षपरित्यागी अङ्गप्रत्यङ्गपरित्यागी, यावत्सर्वस्वपरित्यागीति ॥

एवं नारायणपरिपृच्छायामप्यभिहितम्-

न तद्धस्तु उपादातव्यं यस्मिन् वस्तुनि नास्य त्यागचित्तमुत्पद्येत, न त्यागबुद्धिः क्रमेत, (ब्च्प्४२) इति यावत्, अपि तु खलु पुनः कुलपुत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तमुत्पादयितव्यम्- अयं ममात्मभावः सर्वसत्त्वेभ्य उत्सृष्टः परित्यक्तः, प्रागेव बाह्यानि वस्तूनि । इति विस्तरः ॥

तथा आर्याक्षयमतिसूत्रेऽपि देशितम्-

अयं मया कायः सर्वसत्त्वानां किंकरणीयेषु क्षपितव्यः । तद्यथा इमानि चत्वारि महाभूतानि पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुश्च नानासुखैः नानापर्यायैः नानारम्बणैः नानोपकरणैः नानापरिभोगैः सत्त्वानामुपभोगं गच्छन्ति, एवमेव अहमिमं चतुर्महाभूतसमुच्छ्रयं कायं नानासुखैः नानापर्यायैः नानारम्बणैः नानोपकरणैः नानापरिभोगैर्विस्तरेण सर्वसत्त्वानामुपजीव्यं करिष्यामीति विस्तरः ॥

तच्चित्तरत्नेन्त्यारभ्य सर्वमिदं पूर्वकं बोधिचित्तसंवरग्रहणाय प्रयोगो वेदितव्यः । तदेवं पूजादि विधाय आत्मभावादिदानमुत्सृज्य प्रतिपन्नबोधिचित्तानुशंसः क्षणसंपदं परमदुर्लभामवेत्य श्रद्धामूलं दृढमुपस्थाप्य सत्त्वानत्राणानपरायणान् करुणायमानः स्वसुखनिरपेक्षः परदुःखदुःखी तत्समुद्धरणाशयाभिप्रायो बुद्धत्वमेव तदुपायं समुत्पश्यन् तत्र बद्धसंनाहः-

यदात्मनः परेषां च भयं दुःखं च न प्रियम् ।
तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् ॥
इति । [शिक्ष.स.कारिका-१]

तेन आत्मनः सत्त्वधातोश्च-

दुःखान्तं कर्तुकामेन सुखान्तं गन्तुमिच्छता ।
श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर्दृढा ॥
इति ॥ [शिक्ष.स.कारिका-२]

सम्यक्संबोधिचित्तमुत्पादयितुमुपक्रमते-

यथा गृहीतं सुगतैर्बोधिचित्तं पुरातनैः ।
ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथा स्थिताः ॥ ब्च_३.२२ ॥

येनाशयेन सर्वसत्त्वानां सर्वदुःखप्रहाणार्थम् । यदि वा यथा गृहीतं तदेव भगवन्तो जानन्ति । बोधिचित्तमिति बोधिर्बुद्धत्वं सर्वावरणप्रहाणात्सर्वधर्मनिःस्वभावताधिगमः । एतच्च सप्रचयं प्रज्ञापरिच्छेदे वक्ष्यामः । तत्र चित्तमध्याशयेन तत्प्राप्तये मनसिकारः बुद्धो भवेयं सर्वसत्त्वहितसुखसंपादनायेत्यर्थः ॥ इति पूर्वार्धेन बोधिचित्तोत्पादं प्रतिपाद्य शिक्षासंवरग्रहणं प्रतिपादयन्नाह- ते बोधिसत्त्वेत्यादि । बोधिसत्त्वशिक्षा यदुत्पादितबोधिचित्तेन बोधिसत्त्वेन सदा करणीयम्, तत्रेत्यर्थः । आनुपूर्वीति अनु..........

(ब्च्प्४३) तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते ।
तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमम् ॥ ब्च_३.२३ ॥
एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः ।
पुनः पुष्टस्य पुष्टयर्थं चित्तमेवं प्रहर्षयेत् ॥ ब्च_३.२४ ॥
अद्य मे सफलं जन्म सुलब्धो मानुषो भवः ।
अद्य बुद्धकुले जातो बुद्धपुत्रोऽस्मि सांप्रतम् ॥ ब्च_३.२५ ॥
तथाधुना मया कार्यं स्वकुलोचितकारिणाम् ।
निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा ॥ ब्च_३.२६ ॥
अन्धः संकारकूटेभ्यो यथा रत्नमवाप्नुयात् ।
तथा कथंचिदप्येतद्बोधिचित्तं ममोदितम् ॥ ब्च_३.२७ ॥
जगन्मृत्युविनाशाय जातमेतद्रसायनम् ।
जगद्दारिद्यशमनं निधानमिदमक्षयम् ॥ ब्च_३.२८ ॥
जगद्वयाधिप्रशमनं भैषज्यमिदमुत्तमम् ।
भवाध्वभ्रमणश्रान्तजगद्विश्रामपादपः ॥ ब्च_३.२९ ॥
दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनाम् ।
जगत्क्लेशोपशमन उदितश्चित्तचन्द्रमाः ॥ ब्च_३.३० ॥
जगदज्ञानतिमिरप्रोत्सारणमहारविः ।
सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम् ॥ ब्च_३.३१ ॥
सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः ।
सुखसत्रमिदं ह्युपस्थितं सकला भ्यागतसत्त्वतर्पणम् ॥ ब्च_३.३२ ॥
जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा ।
पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः ॥ ब्च_३.३३ ॥

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः ॥