सामग्री पर जाएँ

बोधिचर्यावतारः/चतुर्थः परिच्छेदः

विकिस्रोतः तः
← तृतीयः परिच्छेदः बोधिचर्यावतारः
चतुर्थः परिच्छेदः
[[लेखकः :|]]
पञ्चमः परिच्छेदः →

एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः ।
शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः ॥ ४.१ ॥


सहसा यत्समारब्धं सम्यग्यदविचारितं ।
तत्र कुर्यान्नवेत्येवं प्रतिज्ञायापि युज्यते ॥ ४.२ ॥


विचारितं तु यद्बुद्धैर्महाप्राज्ञैश्च तत्सुतैः ।
मयापि च यथाशक्ति तत्र किं परिलम्ब्यते ॥ ४.३ ॥


यदिचैवं प्रतिज्ञाय साधयेयं न कर्मणा ।
एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति ॥ ४.४ ॥


मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः ।
स प्रेतो भवतीत्युक्तमल्पमात्रेऽपि वस्तुनि ॥ ४.५ ॥


किमुतानुत्तरं सौख्यमुच्चैरुद्धुष्य भावतः ।
जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति ॥ ४.६ ॥


वेत्ति सर्वज्ञ एवैतामचिन्त्यां कर्मणो गतिं ।
यद्बोधिचित्तत्यागेऽपि मोचयत्येव तान्नरान् ॥ ४.७ ॥


बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी ।
यस्मादापद्यमानोऽसौ सर्व सत्त्वार्थहानिकृत् ॥ ४.८ ॥


योऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति ।
तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थधातिनः ॥ ४.९ ॥


एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत् ।
अशेषाकाशपर्यन्त-वासिनां किमु देहिनां ॥ ४.१० ॥


एवमापत्तिबलतो बोधिचित्तबलेन च ।
दोलायमानः संसारे भूमिप्राप्तश्चिरायते ॥ ४.११ ॥


तस्माद्यथा प्रतिज्ञातं साधनीयं मयादरात् ।
नाद्य चेत्क्रियते यत्नस्तलेनास्मि तलं गतः ॥ ४.१२ ॥


अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः ।
नैषामहं स्वदोषेण चिकित्सागोचरं गतः ॥ ४.१३ ॥


अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः ।
दुर्गतिव्याधिमरण-च्छेदभेदाद्यवाप्नुयां ॥ ४.१४ ॥


कदा तथागतोत्पादं श्रद्धां मानुष्यमेव वा ।
कुशलाभ्यासयोग्यत्वमेवं लप्स्येऽति दुर्लभं ॥ ४.१५ ॥


आरोग्यदिवसं चेदं सभक्तं निरुपद्रवं ।
आयुः क्षणं विसंवादि कायो याचितकोपमः ॥ ४.१६ ॥


नहीदृशैर्मच्चरितैर्मानुष्यं लभ्यते पुनः ।
अलभ्यमाने मानुष्ये पापमेव कुतः शुभं ॥ ४.१७ ॥


यदा कुशलयोग्योऽपि कुशलं न करोम्यहं ।
अपायदुःखैः संमूढः किं करिष्याम्यहं तदा ॥ ४.१८ ॥


अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः ।
हतः सुगतशब्दोऽपि कल्पकोटिशतैरपि ॥ ४.१९ ॥


अत एवाह भगवान्मानुषमतिदुर्लभं ।
महार्णवयुगच्छिद्र-कूर्मग्रीवार्पणोपमं ॥ ४.२० ॥


एकक्षणात्कृतात्पापादवीचौ कल्पमाप्स्यते ।
अनादिकालोपचितात्पापात्का सुगतौ कथा ॥ ४.२१ ॥


न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते ।
यस्यात्तद्वेदयन्नेव पापमन्यत्प्रसूयते ॥ ४.२२ ॥


नातःपरा वञ्चनास्ति न च मोहोऽस्त्यतःपरः ।
यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया ॥ ४.२३ ॥


यदि चैवं विमृष्यामि पुनः सीदामि मोहितः ।
शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः ॥ ४.२४ ॥


चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः ।
पश्चात्तापानलश्चित्तं चिरं धक्ष्यतिनिश्चितं ॥ ४.२५ ॥


कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभां ।
जानन्नपि च नीयोऽहं तानेव नरकान्पुनः ॥ ४.२६ ॥


अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः ।
न जाने केन मुह्यामि कोऽत्रान्तर्मम तिष्ठति ॥ ४.२७ ॥


हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः ।
न शुरा न च ते प्राज्ञाः कथं दासीकृतोऽस्मि तैः ॥ ४.२८ ॥


मच्चित्तावस्थिता एव ध्नन्ति मामेव सुस्थिताः ।
तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुतां ॥ ४.२९ ॥


सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः ।
तेऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः ॥ ४.३० ॥


मेरोरपि यदासङ्गान्न भस्माप्युपलभ्यते ।
क्षणात्क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः ॥ ४.३१ ॥


नहि सर्वान्यशत्रूणां दीर्घमायुरपीदृशं ।
अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणां ॥ ४.३२ ॥


सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः ।
सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः ॥ ४.३३ ॥


इतिसततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु ।
हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत् ॥ ४.३४ ॥


भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः ।
मतिवेश्मनि लोभपञ्जरे यदि तिष्ठति कुतः सुखं मम ॥ ४.३५ ॥


तस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहताः समक्षं ।
खल्पेऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य न यान्ति निद्रां ॥ ४.३६ ॥


प्रकृतिमरणदुःखितान्धकारान् रणशिरसि प्रसमं निहन्तुमुग्राः ।
अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा ॥ ४.३७ ॥


किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य ।
भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै ॥ ४.३८ ॥


अकारणेनैव रिपुक्षतानि गात्रेष्वलण्कारवदुद्वहन्ति ।
महार्हसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि ॥ ४.३९ ॥


स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः ।
शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहेऽहम् ॥ ४.४० ॥


दशदिग्व्योमपर्यन्त-जगत्क्लेशविमोक्षणे ।
प्रतिज्ञाय महात्मापि न क्लेशेभ्यो विमोचितः ॥ ४.४१ ॥


आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा ।
अनिवर्त्ती भविष्यामि तस्मात्क्लेशवधे सदा ॥ ४.४२ ॥


अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही ।
अन्यत्र तद्विधात्क्लेशात्क्लेशघातानुबन्धिनः ॥ ४.४३ ॥


गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे ।
न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम् ॥ ४.४४ ॥


निर्वासितस्यापि तु नाम शत्रोर्देशान्तरे स्थानपरिग्रहः स्यात् ।
यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु ॥ ४.४५ ॥


क्वासौ यायान्मनःस्थो निरस्तः स्थित्वा यस्मिन्मद्वधार्थं यतेत ।
नोद्योगो मे केवलं मन्दबुद्धेः क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः ॥ ४.४६ ॥


न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता नातोऽन्यत्र कुहस्थिताः पुनरिमे मथ्नन्ति कृत्स्नं जगत् ।
मायैवेयमतो विमुञ्च हृदयत्रासं भजस्वोद्यमं प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे ॥ ४.४७ ॥


एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः ।
वैद्योपदेशाच्चलतः कुतोऽस्ति भैषज्यसाध्यस्य निरामयत्वम् ॥ ४.४८ ॥


बोधिचर्यावतारे बोधिसत्त्वशिक्षा चतुर्थः परिच्छेदः ॥