बृहस्पतिस्मृतिः/-------क्रमः
पीठिका
[सम्पाद्यताम्]
धर्मप्रधानाः पुरुषाः पूर्वं आसन्नहिंसकाः । |
प्रयच्छेच्चेद्भृतिं स्वामी भृत्यानां कर्म कुर्वताम् । |
हिंसां वा कुरुते कश्चिद्देयं वा न प्रयच्छति । |
यतो द्रव्यं विनिक्रीय ऋणार्थं चैव गृह्यते । |
राजगुणाः
[सम्पाद्यताम्]
गुणधर्मानतो राज्ञः कथयाम्यनुपूर्वशः । |
विचारयति यः सम्यक्तस्योत्पत्तिं निबोधत । |
तेजोमात्रं समुद्धृत्य राज्ञो मूर्तिर्हि निर्मिता । |
भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च । |
तस्माद्वर्णाश्रमाणां तु नेतासौ निर्मितः पुरा । |
व्यवहारपदानि
[सम्पाद्यताम्]द्विपदो व्यवहारः स्यात्धनहिंसासमुद्भवः ।। १,१.९ ।। |
द्विसप्तकोऽर्थमूलस्तु हिंसामूलश्चतुर्विधः । |
कुसीदनिधिदेयाद्यं संभूयोत्थानं एव च । |
क्रयविक्रयानुशयः समयातिक्रमस्तथा । |
एतान्यर्थसमुत्थानि पदानि तु चतुर्दश । |
पारुष्ये द्वे साहसं च परस्त्रीसंग्रहस्तथा । |
हीनमध्योत्तमत्वेन प्रभिन्नानि पृथक्पृथक् । |
पदान्यष्टादशैतानि धर्मशास्त्रोदितानि तु । |
पूर्वपक्षः स्मृतः पादो द्वितीयस्तूत्तरस्तथा । |
धर्मादिचतुष्टयबलाबलम्
[सम्पाद्यताम्]
धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया । |
शास्त्रं केवलं आश्रित्य क्रियते यत्र निर्णयः । |
देशस्थित्यानुमानेन नैगमानुमतेन च । |
विहाय चरिताचारं यत्र कुर्यात्पुनर्नृपः । |
धर्मशास्त्रानुसारेण सामात्यः स पुरोहितः । |
धर्माधिकरणम्
[सम्पाद्यताम्]
सप्तप्रकृतिकं यत्तु विजिगीषोररेश्च यत् । |
चत्वारः पृथिवीपालाः पृथङ्मित्रैः सहाष्टकम् । |
प्रातरुत्थाय नृपतिः शौचं कृत्वा विधानतः । |
यथार्हं एतान्संपूज्य सुपुष्पाभरणाम्बरैः । |
राजा कार्याणि संपश्येत्सद्भिरेव त्रिभिर्वृतः । |
दुर्गलक्षणम्
[सम्पाद्यताम्]
आत्मदारार्थलोकानां संचितानां तु गुप्तये । |
भूपानां इन्धनरसैर्वेत्रशष्पान्नवाहनैः । |
वेदविद्याविदो विप्रान्क्षत्रियानग्निहोत्रिणः । |
अनाच्छेद्याः करास्तेभ्यः प्रदेया गृहभूमयः । |
नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा । |
समा निम्नोन्नता वापि यत्र भूमिर्यथाविधा । |
समन्तात्तत्र वेश्मानि कुर्युः प्रकृतयस्ततः । |
शलावस्थाननिष्काश भ्रमश्वभ्रचतुष्पथान् । |
गुणवानिति यः प्रोक्तः ख्यापितो जनसंसदि । |
तस्मात्प्रभुत्वं वृत्तिं च निर्दोषस्य न चालयेत् । |
प्रजापालनलक्षणम्
[सम्पाद्यताम्]
सम्यङ्निविष्टदेशस्तु कृतदुर्गस्तु शास्त्रतः । |
तत्प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः । |
परानीकस्तेनभयं उपायैः शमयेन्नृपः । |
यदधीते यद्यजते यज्जुहोति यदर्चति । |
रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् । |
दशाष्टषष्ठं नृपतेर्भागं दद्यात्कृषीवलम् । |
देशस्थित्या बलिं दद्युर्भूतं षण्मासवार्षिकम् । |
सभानिवेशनप्रकारः
[सम्पाद्यताम्]
औदकं पार्वतं वार्क्ष्यं ऐरणं धान्वनं तथा । |
प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत्सभाम् । |
प्रतिमालेख्यदेवैश्च युक्तां अग्न्यम्बुना तथा । |
भद्रासनं अधिष्ठाय संवीताङ्गः समाहितः । |
विप्रो धर्मद्रुमस्यादिः स्कन्धशाखे महीपतिः । |
यशो वित्तं फलरसो भोगोपग्रहपूजनम् । |
वोदोत्वैतान्न्यायरसान्समो भूत्वा विवादनम् । |
राजा वृत्तिविवादानां स्वयं एव प्रदर्शनम् । |
तस्मान्न्यायेन राजा तु सम्यग्यत्नेन पालयेत् । |
सत्यं देवाः समासेन मनुष्यास्त्वनृतं विदुः । |
पश्वाज्य्यर्त्विगादीनां संयोगाज्जायतेऽध्वरः । |
प्राड्विवाकसदस्यानां उपजीव्य मतानि तु । |
सभाप्रभेदाः
[सम्पाद्यताम्]
प्रतिष्ठिताप्रतिष्ठा च मुद्रिता शासिता तथा । |
प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता । |
न्यायान्पश्येत्कृतमतिः सा सभाध्वरसंमिता । |
सभ्याः
[सम्पाद्यताम्]
लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा । |
कुर्यादलग्नकौ रक्षेदर्थिप्रथ्यर्थिनौ सदा । |
द्विसस्याष्टमं भागं मुक्त्वा कालं सुसंविशेत् । |
साधुकर्मक्रियायुक्ताः सत्यधर्मपरायणाः । |
सप्त पञ्च त्रयो वा सभासदो भवन्ति ।। १,१.६३ ।। |
उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये ।। १,१.६४ ।। |
न्यायाङ्गान्यग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ।। १,१.६५ ।। |
दीप्यमानः स्ववपुषा तेन राजाभिधीयते ।। १,१.६६ ।। |
तस्य निर्णयकृद्राजा ब्राह्मणश्च बहुश्रुतः ।। १,१.६७ ।। |
विवदेत्तत्र यस्तस्मिन्प्राड्विवाकस्तु स स्मृतः ।। १,१.६८ ।। |
प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ।। १,१.६९ ।। |
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ।। १,१.७० ।। |
विप्रं प्राज्ञं क्रमायातं अमात्यं स्थापयेद्द्विजम् ।। १,१.७१ ।। |
तस्य प्रक्षरते राष्ट्रं बलं कोशं च नश्यति ।। १,१.७२ ।। |
सेनायां सैनिकानां तु सार्थेषु बणिजां तथा ।। १,१.७३ ।। |
लिङ्गिनस्तस्कराश्चैव स्वेन धर्मेण निर्णयः ।। १,१.७४ ।। |
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ।। १,१.७५ ।। |
मायायोगविदां चैव न स्वयं कोपकारणात् ।। १,१.७६ ।। |
अयशो महदाप्नोति नरकं चैव गच्छति ।। १,१.७७ ।। |
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ।। १,१.७८ ।। |
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ।। १,१.७९ ।। |
ब्रवीति ब्राह्मणोऽस्मीति तं आहुर्ब्राह्मणब्रुवम् ।। १,१.८० ।। |
नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ।। १,१.८१ ।। |
सभ्याधीनः सत्यवादी कर्तव्यस्तु स पूरुषः ।। १,१.८२ ।। |
न्य्हायं पश्येत्कृतमतिः सा सभाध्वरसंमिता ।। १,१.८३ ।। |
बाहू सभ्याः स्मृतिर्हस्तौ जङ्घे गणकलेखकौ ।। १,१.८४ ।। |
हिरण्यं अग्निं उदकं धर्मशास्त्राणि चैव हि । |
आदित्यचन्द्रदेवादि दिक्पालान्तत्र कल्पयेत् । |
दशानां अपि चैतेषां कर्म प्रोक्तं पृथक्पृथक् । |
स्मृतिर्विनिर्णयं ब्रूते जयदानं दमं तथा । |
गणको गणयेदर्थं लिखेन्न्यायं च लेखकः । |
वाग्दण्डश्चैव धिग्दण्डो विप्राधीनौ तु ताऊभौ । |
राज्ञा ये विदिताः सम्यक्कुलश्रेणिगणादयः । |
कुलश्रेणिगणाध्यक्षाः प्रोक्ता निर्णयकारकाः । |
गणैश्च श्रेण्यविज्ञातं गणाज्ञातं नियुक्तकैः । |
सर्वेषां अधिको राजा धर्मं यत्नेन निश्चितम् । |
उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः । |
निरामयान्यः कुरुते शास्त्राञ्जनशलाकया । |
लोभद्वेषादिकं त्यक्त्वा यः कुर्यात्कार्यनिर्णयम् । |
अधर्मतः प्रवृत्तं तु नोपेक्षेरन्सभासदः । |
न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः । |
सभ्येन तावद्वक्तव्यं धर्मार्थसहितं वचः । |
अनिर्णीतेषु यद्येवं संभाषेत रहोऽर्थिना । |
स्नेताच्चाज्ञानतो वापि मोहाद्वा लोभतोऽपि वा । |
लेख्यं यत्र न विद्येत न साक्षी न च भुक्तयः । |
निश्चेतुं ये न शक्याः स्युर्वादाः संदिग्धरूपिणः । |
व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ।। १,१.१०६ ।। |
विश्वस्ते वञ्चकाश्चैव निर्वास्याः सर्व एव ते ।। १,१.१०७ ।। |
यत्तेन सदसि प्रोक्तं स धर्मो नात्र संशयः ।। १,१.१०८ ।। |
गणकः पश्चिमा यस्तु लेखको दक्षिणामुखः ।। १,१.१०९ ।। |
तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ।। १,१.११० ।। |
समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ।। १,१.१११ ।। |
तत्र धर्मो हतो हन्ति सर्वानेव न संशयः ।। १,१.११२ ।। |
द्वयोर्विरोधे कर्तव्यं धर्मशास्त्रोदितं वचः ।। १,१.११३ ।। |
युक्तिहीने विचारे तु धर्महानिः प्रजायते ।। १,१.११४ ।। |
पश्येत्पुराणधर्मार्थ शास्त्राणि शृणुयात्तथा ।। १,१.११५ ।। |
युक्तिं विना विचारेण माण्डव्यश्चोरतां गतः ।। १,१.११६ ।। |
दृश्यन्ते भ्रान्तिजनकास्तस्माद्युक्त्या विचारयेत् ।। १,१.११७ ।। |
जयी तु यजमानोऽत्र जितः पशुरुदाहृतः ।। १,१.११८ ।। |
त्रयी शास्त्राणि सभ्यास्तु ऋत्विजो दक्षिणा दमः ।। १,१.११९ ।। |
एषोऽध्वरसमः प्रोक्तो व्यवहारः समाहृतः ।। १,१.१२० ।। |
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ।। १,१.१२१ ।। |
अस्वतन्त्रकृतश्चैव पूर्वपक्षो न सिध्यति ।। १,१.१२२ ।। |
असंबन्धकृतश्चैव व्यवहारो न सिध्यति ।। १,१.१२३ ।। |
एतेषां समवेतानां व्यवहारो न सिध्यति ।। १,१.१२४ ।। |
अप्रसिद्धं पुरद्विष्टं विवादं न विचारयेत् ।। १,१.१२५ ।। |
देशजातिधर्मास्तथैव पालनीयाः
[सम्पाद्यताम्]
प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् । |
तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा । |
उदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः । |
मत्स्यादाश्च नराः पूर्वे व्यभिचाररताः स्त्रियः । |
सहजाताः प्रगृह्णन्ति भ्रातृभार्यां अभर्तृकाम् । |
विहिताकरणान्नित्यं प्रतिषिद्धनिषेवणात् । |
[प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम्] । |
तां दृष्ट्वा निर्णयं कुर्यात्प्राङ्निविष्टव्यवस्थया । |
मर्यादा लेखिता कार्या नैगमाधिष्ठिता सदा । |
परीक्ष्य पदं आदद्यादन्यथा नरकं व्रजेत् ।। १,१.१३४ ।। |
अनासेध्याः
[सम्पाद्यताम्]
सत्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः । |
आसन्ने सैनिकः संख्ये कर्षको वापसंग्रहे । |
अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । |
वणिग्विक्रीतपण्यस्तु सस्ये जाते कृषीवलः । |
मतिर्नोत्सहते यत्र विवादं कर्तुं इच्छते । |
यस्याभियोगं कुरुते तथ्येनाशङ्कयापि वा । |
अप्रगल्भजडोन्मात वृद्धस्त्रीबालरोगिणाम् । |
ऋत्विग्वादे नियुक्तश्च समौ संपरिकीर्तिनौ । |
आह्वानम्
[सम्पाद्यताम्]
आहूतो यस्तु नागच्छेद्दर्पाद्बन्धुबलान्वितः । |
काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् । |
एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैः ब्राह्मणैः सह । |
मुद्रां दद्याद्यथा पत्रं पुरुषं वा समादिशेत् । |
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ।। १,१.१४७ ।। |
हीने कर्मणि पञ्चाशन्मध्यमेषु शतावरः । |
परानीकहते देशे दुर्भिक्षे व्याधिपीडिते । |
कार्यातिपातिव्यसनि नृपकार्योत्सवाकुलान् ।। १,१.१५० ।। |
मत्तोन्मत्तप्रमत्तांश्च भृत्यान्नाह्वाययेन्नृपः ।। १,१.१५१ ।। |
परार्थवादी दण्ड्यः स्याद्व्यवहारेषु विब्रुवन् ।। १,१.१५२ ।। |
सर्ववर्णोत्तमां कन्यां ताः ज्ञातिप्रभुक्ताः स्मृताः ।। १,१.१५३ ।। |
अकल्पादीनपि शनैर्यानैराह्वापयेन्नृपः ।। १,१.१५४ ।। |
निष्कुला याश्च पतितास्तासां आह्वानं इष्यते ।। १,१.१५५ ।। |
ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः । |
वक्तव्येऽर्थे न तिष्ठन्तं उत्क्रामन्तं च तद्वचः । |
स्थानासेधः काल्कृतः प्रवासात्कर्मणस्तथा । |
क्षेत्रारामगृहादीनि धनधान्यादिकं तथा । |
आसेद्धा तु स्वं आसेधं स्वयं एवोत्सृजेद्यदि । |
राज्ञे निवेदनादूर्ध्वं आसेद्धा नोत्सृजेद्स्वयम् । |
नदीसंतारकान्तार दुर्देशोपप्लवादिषु । |
निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः । |
गवां प्रचारे गोपालाः सस्यारम्भे कृषीवलाः । |
वृक्षं पर्वतं आरूढा हस्त्यश्वरथनौस्थिताः । |
यस्त्विन्द्रियनिरोधेनाप्याहारोच्छ्वसनादिभिः । |
आसेधयोग्य आसेधं उत्क्रामन्दण्डं अर्हति । |
आगतानां विवदतां असकृद्वादिनां नृपः । |
वादिप्रतिवादिनोरुक्तिक्रमः
[सम्पाद्यताम्]
पीडितः स्वयं आयातः शस्त्रेणार्थी यदा भवेत् । |
योऽदत्तव्यवहारत्वादनियुक्तः प्रवर्तते । |
अहं पूर्विकया यातावर्थिप्रत्यर्थिनौ यदा । |
उन्मत्तमत्तनिर्धूता महापातकदूषिताः । |
पक्षः प्रोक्तस्त्वनादेयो वादी चानुत्तरस्तथा । |
पीडातिशयं आश्रित्य यद्ब्रवीति विवक्षितम् । |