बृहस्पतिस्मृतिः/साक्षिणः
पीठिका
[सम्पाद्यताम्]
नव सप्त च पञ्च स्युश्चत्वारस्त्रय एव वा । |
द्यूतकः शटिकाग्राही कार्यमध्यगतस्तथा । |
स्तेनाः साहसिकाः षण्डाः कितवाः सूचकास्तथा । |
साक्षिभेदाः
[सम्पाद्यताम्]
लिखितो लिखितो गूढः स्मारितः कुल्यदूतकौ । |
नृपोऽध्यक्षस्तथा ग्रामः साक्षी द्वादशधा स्मृतः । |
जातिनामादिलिखितं येन स्वं पित्र्यं एव च । |
अर्थिना च क्रिया भेदैस्तस्य कृत्वा ऋणादिकम् । |
कुड्यव्यवहितो यस्तु श्राव्यते ऋणभाषितम् । |
आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके । |
विभागदाने विपणे ज्ञातिर्यश्चोपयुज्यते । |
अर्थिप्रत्यर्थिवचनं शृणुयात्प्रेषितस्तु यः । |
क्रियमाणे तु कर्तव्ये यः कश्चित्स्वयं आगतः । |
यत्र साक्षी दिशं गच्छेन्मुमूर्षुर्वा यथाक्रमम् । |
साक्षिणां अपि यः साक्ष्यं उपर्युपरि भाषताम् । |
उभाभ्यां यस्य विश्वस्तं कार्यं चापि निवेदितम् । |
अर्थिप्रत्यर्थिनोर्वाक्यं यच्छ्रुतं भूभृता स्वयम् । |
निर्णीते व्यवहारे तु पुनर्न्यायो यदा भवेत् । |
व्युषितं छादितं यत्र सीमायां च समन्ततः । |
लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्च लेखिताः । |
दूतकः स्वटिकाग्राही कार्यमध्यगतस्तथा । |
साक्षिदोषकथनं दुष्टानां दण्डश्च
[सम्पाद्यताम्]
साक्षिणोऽर्थसमुद्दिष्टान्यस्तु दोषेण दूषयेत् । |
लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः । |
साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना । |
प्रतिपत्तौ न साक्षित्वं अर्हन्ति तु कदा चन । |
अभावयन्दमं दाप्यः प्रत्यर्थी साक्षिणा स्फुटम् । |
प्रत्यर्थिनोऽर्थिनो वापि साक्षिदूषणसाधने । |
जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । |
उक्तेऽर्थे साक्षिणो यस्तु दूषयन्प्रागदूषितान् । |
लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः । |
साक्षिभिर्गदितैः सभ्यैः प्रक्रान्ते निर्णये तु यः । |
साक्षिसंदूषणे कार्यं पूर्वं साक्षिविशोधनं । |
सत्यप्रशंसावचनैरनृतस्यापवर्जनैः । |
आ जन्मनश्चा मरणात्सुकृतं यत्त्वयार्जितम् । |
कूटसभ्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः । |
एवं विदित्वा यः साक्षी स यथार्थं वदेत्ततः । |
पुरुषाः सन्ति लोभाद्ये कार्यं प्रब्रूयुरन्यथा । |
प्रष्टव्याः साक्षिणो ये तु वर्ज्याश्चैव नराधमाः । |
श्रौतस्मार्तक्रियायुक्ताः लोभद्वेषविवर्जिताः । |
असाक्षिणः
[सम्पाद्यताम्]
मातुः पिता पितृव्यश्च भार्याया भ्रातृमातरौ । |
परस्त्रीपानसक्ताश्च कितवाः पूर्वदूषिताः । |
सन्तोऽपि न प्रमाणं स्युर्मृते धनिनि साक्षिणः । |
विहायोपानदुष्णीषं दक्षिणं पाणिं उद्धरेत् । |
उपस्थिताः परीक्ष्याः स्युः स्वर्वर्णेङ्गितादिभिः । सकृत्प्रमादापराधि विप्रं व्यापदि पीडितम् । |
यस्याशेषः प्रतिज्ञार्थः साक्षिभिः प्रतिवर्णितः । |
आहूतो यत्र नागच्छेत्साक्षी रोगविवर्जितः । |
साक्ष्युक्तिबलाब्लविचारः
[सम्पाद्यताम्]
साक्षिद्वैधे प्रभूताः स्युर्ग्राह्याः साम्ये गुणान्विताः । |
अपृष्टाः सत्यवचने प्रश्नस्याकथने तथा । |
देशकालवयोद्रव्य संज्ञाजातिप्रमाणतः । |
देशकालवयोद्रव्य प्रमाणाकृतिजातिषु । |
निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते । |
पूर्वपक्षे प्रतिज्ञातं अशेषं प्रतिभावयेत् । |
ऊनं अभ्यधिकं वार्थं विब्रूयुर्यत्र साक्षिणः । |
साध्यार्थांशे निगदिते साक्षिभिः सकलं भवेत् । |
ऊनाधिकं तु यत्र स्यात्साक्ष्यं तत्र विवर्जयेत् । |