सामग्री पर जाएँ

बृहस्पतिस्मृतिः/संविद्व्यतिक्रमः

विकिस्रोतः तः

एषा हि स्वामिभृत्यानां वै क्रिया परिकीर्तिता ।
संविद्विधानं अधुना समासेन निबोधत ।। १,१७.१ ।।

सद्ब्राह्मणस्थापनं कृत्यं च

[सम्पाद्यताम्]

वेदविद्याविदो विप्राञ् श्रोत्रियानग्निहोत्रिणः ।
आहृत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत् ।। १,१७.२ ।।

अनाच्छेद्यकरास्तेषां प्रदद्याद्गृहभूमिकाः ।
मुक्ता भाव्याश्च नृपतिर्लेखयित्वा स्वशासनैः ।। १,१७.३ ।।

नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।
पौराणां कर्म कुर्युस्ते संदिग्धे निर्णयं तथा ।। १,१७.४ ।।

संभूय धर्मकार्यकरणम्

[सम्पाद्यताम्]

ग्रामश्रेणिगणार्थं तु संकेतसमयक्रिया ।
बाधाकाले तु सा कार्या धर्मकार्ये तथैव च ।। १,१७.५ ।।

चाटचोरभयं बाधा सर्वसाधारणा स्मृता ।
तत्रोपशमनं कार्यं सर्वैर्नैकेन केन चित् ।। १,१७.६ ।।

विश्वासोत्पादनम्

[सम्पाद्यताम्]

कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम् ।
विश्वासं प्रथमं कृत्वा कुर्युः कार्याण्यनन्तरम् ।। १,१७.७ ।।

विद्वेषिणो व्यसनिनः शालीनालसभीरवः ।

नियोज्यानियोज्याः

[सम्पाद्यताम्]

लुब्धातिवृद्धबालाश्च न कार्याः कार्यचिन्तकाः ।। १,१७.८ ।।

शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः ।
सर्वकार्यप्रवीणाश्च कर्तव्यास्तु महत्तमाः ।। १,१७.९ ।।

द्वौ त्रयः पञ्च वा कार्याः समूहहितवादिनः ।
कर्तव्यं वचनं तेषां ग्रामश्रेणिगणादिभिः ।। १,१७.१० ।।

समयक्रिया

[सम्पाद्यताम्]

सभाप्रपादेवगृह तडाकारामसंस्कृतिः ।
तथानाथदरिद्राणां संस्कारो योजनक्रिया ।। १,१७.११ ।।

कुलायनं निरोधश्च कार्यं अस्माभिरंशतः ।
यत्त्वेवं लिखितं पत्रं धर्म्या सा समयक्रिया ।। १,१७.१२ ।।

पालनीयाः समर्थैस्तु यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डस्तस्य निर्वासनं पुरात् ।। १,१७.१३ ।।

तत्र भेदं उपेक्षां वा यः कश्चित्कुरुते नरः ।
चतुःसुवर्णाः षण्णिष्कास्तस्य दण्डो विधीयते ।। १,१७.१४ ।।

यस्तु साधारणं हिंस्यात्क्षिपेत्त्रैविद्यं एव वा ।
संवित्क्रियां विहन्याच्च स निर्वास्यः पुरात्ततः ।। १,१७.१५ ।।

अरुन्तुदः सूचकश्च भेदकृत्साहसी तथा ।
श्रेणिपूगनृपद्विष्टः क्षिप्रं निर्वास्यते ततः ।। १,१७.१६ ।।

कुलश्रेणिगनाध्यक्षाः पुरदुर्गनिवासिनः ।
वाग्धिग्दमं परित्यागं प्रकुर्युः पापकारिणाम् ।। १,१७.१७ ।।

तैः कृतं च स्वधर्मेण निग्रहानुग्रहं नृणाम् ।
तद्राज्ञोऽप्यनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ।। १,१७.१८ ।।

बाधां कुर्युर्यदेकस्य संभूता द्वेषसंयुताः ।। १,१७.१९ ।।

मुख्यैः सह समूहानां विसंवादो यदा भवेत् ।
तदा विचारयेत्राजा स्वमार्गे स्थापयेच्च तान् ।। १,१७.२० ।।
.... .... यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डस्तस्य निर्वासनं पुरात् ।। १,१७.२१ ।।

संभूयैकतमं कृत्वा राजभाव्यं हरन्ति ये ।
ते तदष्टगुणं दाप्या वणिजश्च पलायिनः ।। १,१७.२२ ।।

ततो लभेत यत्किंचित्सर्वेषां एव तत्समम् ।
षाण्मासिकं मासिकं वा विभक्तव्यं यथांशतः ।। १,१७.२३ ।।

देयं वा निःस्ववृद्दान्ध स्त्रीबालातुररोगिषु ।
सान्तानिकादिषु तथा धर्म एष सनातनः ।। १,१७.२४ ।।

यत्नैः प्राप्तं रक्षितं वा गणार्थे वा पणं कृतम् ।
राजप्रसादलब्धं वा सर्वेषां एव तत्समम् ।। १,१७.२५ ।।