बृहस्पतिस्मृतिः/वेतनस्यानपाकर्म

विकिस्रोतः तः

पीठिका[सम्पाद्यताम्]

त्रिभागं पञ्चभागं वा गृह्णीयात्सीरवाहकः ।
भक्ताच्छादभृतः सीराद्भागं गृणीत पञ्चमम् ।। १,१६.१ ।।

जातसस्यात्त्रिभागं तु प्रगृह्णीयादथाभृतः ।। १,१६.२ ।।

भृतकस्तु न कुर्वीत स्वामिनः शाठ्यं अण्वपि ।
भृतिहानिं अवाप्नोति ततो वादः प्रवर्तते ।। १,१६.३ ।।

भृतस्य कर्माकरणनिर्णयः[सम्पाद्यताम्]

भृतोऽनार्तो न कुर्याद्यो दर्पात्कर्म यथेरितम् ।
स दण्ड्यः कृष्णलानष्टौ न देयं चास्य वेतनम् ।। १,१६.४ ।।

गृहीतवेतनस्य दण्डः[सम्पाद्यताम्]

गृहीतवेतनः कर्म न करोति यदा भृतः ।
समर्थश्चेद्दमं दाप्यो द्विगुणं तच्च वेतनम् ।। १,१६.५ ।।

गृहीतवेतनः कर्म त्यजन्द्विगुणं आवहेत् ।

अगृहीतवेतनस्य दण्डः[सम्पाद्यताम्]

अगृहीते समं दाप्यो भृतै रक्ष्य उपस्करः ।। १,१६.६ ।।

प्रतिश्रुत्यकरणे दण्डः[सम्पाद्यताम्]

प्रतिश्रुत्य न कुर्याद्यः स कार्यः स्याद्बलादपि ।
स चेन्न कुर्यात्तत्कर्म प्राप्नुयाद्विंशतिं दमम् ।। १,१६.७ ।।

स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ।। १,१६.८ ।।

भृत्यदोषाभावः[सम्पाद्यताम्]

प्रभुणा विनियुक्तः सन्भृतको विदधाति यत् ।
तदर्थं अशुभं कर्म स्वामी तत्रापराध्नुयात् ।। १,१६.९ ।।

पालस्य दोषाभावसमयाः[सम्पाद्यताम्]

दैवराज्ञोस्तथा न्याये तथा राष्ट्रस्य विभ्रमे ।
यत्प्रणष्टं भृतं वा स्यान्न पालस्तत्र किल्बिषी ।। १,१६.१० ।।

स्वामिनो दण्डसमयः[सम्पाद्यताम्]

कृते कर्मणि यः स्वामी न दद्याद्वेतनं भृतेः ।
राज्ञा दापयितव्यः स्याद्विनयं चानुरूपतः ।। १,१६.११ ।।

पालदोषदण्डः[सम्पाद्यताम्]

पालदोषाद्विनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिने द्रव्यं एव च ।। १,१६.१२ ।।

व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा ।
आमन्त्रिता च नागच्छेतवाच्या बडबा स्मृता ।। १,१६.१३ ।।

स्वामिपालधर्माः[सम्पाद्यताम्]

तथा धेनुभृतः क्षीरं लभेतास्याष्टमेऽखिलम् ।
सायं समर्पयेत्सर्वं .... .... ।। १,१६.१४ ।।

अव्यायच्छन्नविक्रोशन्स्वामिने चानिवेदयन् ।
वोढुं अर्हति गोपस्तां विनयं चैव राजनि ।। १,१६.१५ ।।

कृमिचोरव्याघ्रभयाद्दरीश्वभ्राच्च पालयेत् ।
आयच्छेच्छक्तितः क्रोशोत् स्वामिने वा निवेदयेत् ।। १,१६.१६ ।।

सस्यान्निवारयेद्गास्तु चीर्णे दोषद्वयं भवेत् ।
स्वामी शतदमं दाप्यः पालस्ताडनं अर्हति ।
शदश्च सदमं चीर्णे समूले कार्षभक्षिते ।। १,१६.१७ ।।