सामग्री पर जाएँ

बृहस्पतिस्मृतिः/निर्णयप्रकारः

विकिस्रोतः तः

धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।
चतुष्प्रकारोऽभिहितः संदिग्धेऽर्थे विनिर्णयः ।। १,९.१ ।।

एकैको द्विविधः प्रोक्तः क्रियाभेदान्मनीषिभिः ।
अपराधानुरूपं तु दण्डं च परिकल्पयेत् ।। १,९.२ ।।

सम्यग्विचार्य कार्यं तु युक्त्या संपरिकल्प्तम् ।
परीक्षितं तु शपथैः स ज्ञेयो धर्मनिर्णयः ।। १,९.३ ।।

प्रतिवादी प्रपद्येद्यत्र धर्मः स निर्णयः ।
दिव्यैर्विशोधितः सम्यङ् निर्णयः समुदाहृतः ।। १,९.४ ।।

प्रमाणनिश्चितो यस्तु व्यवहारः स उच्यते ।
वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ।। १,९.५ ।।

अनुमानेन निर्णीतं चारित्रं इति कथ्यते ।
देशस्थित्या तृतीयस्तु शास्त्रविद्भिरुदाहृतः ।। १,९.६ ।।

प्रमाणसमतायां तु राजाज्ञा निर्णयः स्मृतः ।
शास्त्रसभ्याविरोधेन चतुर्थः परिकीर्तितः ।। १,९.७ ।।

धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः ।। १,९.८ ।।

वधादृते ब्राह्मणस्य दण्डो भवति कर्हि चित् ।
अवध्या ब्राह्मणा गावो लोकेऽस्मिन्वैदिकी स्मृतिः ।। १,९.९ ।।

महापातकयुक्तोऽपि न विप्रो वधं अर्हति ।
निर्वासनाङ्कने मौण्ड्यं तस्य कुर्यान्नराधिपः ।। १,९.१० ।।

महापराधयुक्तांश्च वधदण्डेन शासयेत् ।। १,९.११ ।।

स्वल्पेऽपराधे वाग्दण्डो धिग्दण्डः पूर्वसाहसे ।
मध्योत्तमेऽर्धदण्डस्तु राजद्रोहे च बन्धनम् ।। १,९.१२ ।।

निर्वासनं वधो वापि कार्यं आत्महितैषिणा ।
व्यस्ताः समस्ता एकस्य महापातककारिणे ।। १,९.१३ ।।

मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक्तपस्विनाम् ।
विवादिनो नरांश्चापि द्वेषिणोऽर्थेन दण्डयेत् ।। १,९.१४ ।।

पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ।। १,९.१५ ।।

ऋत्विक्पुरोहितामात्याः पुत्राः संबन्धिबान्धवाः ।
धर्माद्विचलिता दण्ड्या निर्वास्या राजभिः पुरात् ।। १,९.१६ ।।

गुरून्पुरोहितान्पूज्यान्वाग्दण्डेनैव दण्डयेत् ।
विवादिनो नरांश्चान्यान्धिग्धनाभ्यां च दण्डयेत् ।। १,९.१७ ।।

प्रतिलोमास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः ।
ब्राह्मणातिक्रमे वध्या न दातव्या दमं क्व चित् ।। १,९.१८ ।।

वधार्हकः स्वर्णशतं दमं दाप्यस्तु पूरुषः ।
अङ्गच्छेदार्हकस्त्वर्धं सदंशशश्तदर्धकम् ।। १,९.१९ ।।

ताडनं बन्धनं चैव तथैव च विडन्नकं ।
एष दण्डो हि शूद्रस्य नार्थदण्डो बृहस्पतिः ।। १,९.२० ।।

प्रतिज्ञा भावनाद्वादी प्राड्विवाकादिपूजनात् ।
जयपत्त्रस्य चादनाज्जयी लोके निगद्यते ।। १,९.२१ ।।

पलायनादनुत्तरादन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य च ।। १,९.२२ ।।

कुलादिभिर्निश्चितेऽपि न संतोषं गतस्तु यः ।
विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् ।। १,९.२३ ।।

निश्चित्य बहुभिः सार्धं ब्राह्मणैः शास्त्रपारगैः ।
दण्डयेज्जयिना साकं पूर्वसभ्यांस्तु दोषिणः ।। १,९.२४ ।।

अपराधानुरूपश्च दण्डोऽत्र परिकल्पितः ।
साक्षिलेख्यानुमानेन सम्यग्दिव्येन वा जितः ।। १,९.२५ ।।

यो न दद्याद्देयदमं स निर्वास्यस्ततः पुरात् ।। १,९.२६ ।।

ललाटाङ्कं ब्राह्मणस्य नान्यो दण्डो विधीयते ।
महापातकयुक्तोऽपि न विप्रो वधं अर्हति ।
निर्वासनाङ्ककरणे मौण्ड्यं कुर्यान्नराधिपः ।। १,९.२७ ।।

प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।
स्वदेशे वा विदेशे वा न स्वातन्त्र्यं विसंवदेत् ।। १,९.२८ ।।

यः स्वामिना नियुक्तस्तु धनायस्यापलापने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः ।। १,९.२९ ।।

राज्ञा यत्नेन कर्तव्यं संदिग्धार्थविचारणम् ।
त्रयस्तत्रोपचीयन्ते हानिरेकस्य जायते ।। १,९.३० ।।

जेताप्नोति धनं पूजां जितो विनयनिग्रहम् ।
जयं दानं दमं राजा सभ्याः पुण्यं अवाप्नुयुः ।। १,९.३१ ।।

एवं शास्त्रोदितं राजा कुर्वन्निर्णयपालनम् ।
वितत्येह यशो लोके महेन्द्रसदृशो भवेत् ।। १,९.३२ ।।

साक्षिलेख्यानुमानेन प्रकुर्वन्कार्यनिर्णयम् ।
वितत्येह यशो राजा ब्रध्नस्याप्नोति विष्टपम् ।। १,९.३३ ।।

यत्रैवं वेत्ति नृपतिः निर्णयं तु बताध्वरम् ।
सोऽस्मिन्लोके यशः प्राप्य याति शक्रसलोकताम् ।। १,९.३४ ।।