सामग्री पर जाएँ

बृहस्पतिस्मृतिः/दायभागः

विकिस्रोतः तः

ददाति दीयते पित्रा पुत्रेभ्यः स्वस्य यद्धनम् ।
तद्दायं ..... .... .... ।। १,२६.१ ।।

एकां स्त्रीं कारयेत्कर्म यथांशेन गृहे गृहे ।
बह्व्यः समांशतो देया दासानां अप्ययं विधिः ।। १,२६.२ ।।

उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते ।
तथा भागानुसारेण सेतुः क्षेत्रं विभज्यते ।। १,२६.३ ।।

युक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ।। १,२६.४ ।।

विभक्तलक्षणम्

[सम्पाद्यताम्]

एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद्द्विभक्तानां तदेव स्याद्गृहे गृहे ।। १,२६.५ ।।

साक्सित्वं प्रतिभाव्यं च दानं ग्रहणं एव च ।
विभक्ता भ्रातरः कुर्युः नाविभक्ताः परस्परम् ।। १,२६.६ ।।

येषां एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।
विभक्तानवगच्छेयुः लेख्यं अप्यन्तरेण तान् ।। १,२६.७ ।।

कुलानुबन्धव्याघात होधं साहससाधकम् ।
स्वस्वभोगस्थावरस्य विभागस्य पृथग्धनम् ।। १,२६.८ ।।

विभागकालः

[सम्पाद्यताम्]

पित्रोरभावे भ्रातृणां विभागः संप्रदर्शितः ।
मातुर्निवृत्ते रजसि प्रत्तसु भगिनीषु च ।। १,२६.९ ।।

विभागक्रमः

[सम्पाद्यताम्]

क्रमागते गृहक्षेत्रे पिता पुत्राः समांशिनः ।
पैतृके न विभागार्हाः सुताः पितुरनिच्छया ।। १,२६.१० ।।

समवर्णासु ये जाताः सर्वे पुत्रा द्विजन्मनाम् ।
उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ।। १,२६.११ ।।

वयोविद्यातपोभिश्च द्व्यंशं हि लभते धनम् ।
यथा यथा विभागाप्तं धनं यागार्थतां इयात् ।
तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् ।। १,२६.१२ ।।

तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ।। १,२६.१३ ।।

द्रव्ये पितामहोपात्ते स्थावरे जङ्गमेऽपि वा ।
समं अंशित्वं आख्यातं पितुः पुत्रस्य चैव हि ।। १,२६.१४ ।।

समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।
तथैव ते पालनीया विनेयास्ते स्युरन्यथा ।। १,२६.१५ ।।

जीवद्विभागे तु पिता गृह्णीतांशद्वयं स्वकम् ।। १,२६.१६ ।।

द्विप्रकारो विभागस्तु दायादानां प्रकीर्तितः ।
वयोज्येष्ठक्रमेणैकः समा परांशकल्पना ।। १,२६.१७ ।।

समवेतैस्तु यत्प्राप्तं सर्वे तत्र समांशिनः ।
तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ।। १,२६.१८ ।।

पितृरिक्थहराः पुत्राः सर्व एव समांशिनः ।
विद्याकर्मरतस्तेषां अधिकं लब्धुं अर्हति ।। १,२६.१९ ।।

विद्याविज्ञानशौर्यार्थे ज्ञानदानक्रियासु च ।
यस्येह प्रथिता कीर्तितः पितरस्तेन पुत्रिणः ।। १,२६.२० ।।

जन्मविद्यागुणैर्ज्येष्ठो द्व्यंशं दायादवाप्नुयात् ।
समांशभागिनस्त्वन्ये तेषां पितृसमस्तु सः ।। १,२६.२१ ।।

तदभावे तु जननी तनयांशसमांशिनी ।
समांशा मातरस्तेषां तुरीयांशा च कन्यका ।। १,२६.२२ ।।

कन्यकानां त्वदत्तानां चतुर्थो भाग इष्यते ।
पुत्राणां च त्रयो भागाः साम्यं त्वल्पधने स्मृतम् ।। १,२६.२३ ।।

यद्येकजाता बहवः समाना जातिसंख्यया ।
स्वधनैस्तैर्विभक्तव्यं मातृभागेन धर्मतः ।। १,२६.२४ ।।

सवर्णा भिन्नसंख्या ये पुंभागस्तेषु शस्यते ।
पितामह्यस्तु सर्वास्ता मातृतुल्याः प्रकीर्तिताः ।। १,२६.२५ ।।

असंस्कृतास्तु यास्तत्र पैतृकादेव ता धनात् ।
संस्कार्या भ्रातृभिर्ज्येष्ठः कन्यकाश्च यथाविधि ।। १,२६.२६ ।।

असंस्कृता भ्रातरस्तु ये स्युस्तत्र यवीयसः ।
संस्कार्याः पूर्वजैस्ते वै पैतृकान्मध्यगाद्धनात् ।। १,२६.२७ ।।

दद्याद्धनं च पर्याप्तं क्षेत्रांशं वा यदिच्छति ।। १,२६.२८ ।।

ऊढया कन्यया वापि भर्तुः पितृगृहेऽपि वा ।
भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ।। १,२६.२९ ।।

सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्रं इष्यते ।
यस्मात्तदानृशंस्यार्थं तैर्दत्तं उपजीवनम् ।। १,२६.३० ।।

विक्रये चैव दाने च यथेष्तं स्थावरेष्वपि ।
स्त्रीधनं स्यादपत्यानां दुहिता च तदंशिनी ।
अप्रत्ता चेत्समूढा तु लभते मानमात्रकम् ।। १,२६.३१ ।।

मातुः स्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ।। १,२६.३२ ।।

यदासां औरसो न स्यात्पुत्रो दौहित्र एव वा ।
तत्सुतो वा धनं तासां स्वस्त्रीयाद्याः समाप्नुयुः ।। १,२६.३३ ।।

पुत्रलक्षणम्

[सम्पाद्यताम्]

सवर्णजोऽप्यगुणवान्नार्हः स्यात्पैतृके धने ।
तत्पिण्डदाः श्रोत्रिया ये तेषां तत्तु विधीयते ।। १,२६.३४ ।।

उत्तमर्णाधमर्णेभ्यः पितरं त्रायते सुतः ।
अतस्तु विपरीतेन तेन नास्ति प्रयोजनम् ।। १,२६.३५ ।।

तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।। १,२६.३६ ।।

शास्त्रशौर्यार्थरहितस्तपोविज्ञानवर्जितः ।
आचारहीनः पुत्रस्तु मूत्रोच्चारसमः स्मृतः ।। १,२६.३७ ।।

पुत्रविभागः

[सम्पाद्यताम्]

स्थावरद्विपदं चैव यद्यपि स्वयं आर्हितम् ।
असम्भूय सुतान्सर्वान्न दानं न च विक्रयः ।। १,२६.३८ ।।

जाता जनिष्यद्गर्भस्थाः पितृस्था ये च मानवाः ।
सर्वे कांक्षन्ति तां वृत्तिं अनाच्छेद्यास्ततस्तु सा ।। १,२६.३९ ।।

गृहोपस्करवाह्यादि भोज्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते गूढे केशो विधीयते ।। १,२६.४० ।।

क्षत्रजास्त्रिद्व्येकभागा विड्जौ तु द्व्येकभागिनौ ।। १,२६.४१ ।।

ब्रह्मक्सत्रियविष्शूद्रा विप्रोत्पन्नास्त्वनुक्रमात् ।
चतुस्त्रिद्व्येकभागेन भवेयुस्ते यथाक्रमम् ।। १,२६.४२ ।।

शूद्र्यां द्विजातिभिर्जातो न भूमेर्भागं अर्हति ।
द्विजातिराप्नुयात्सर्वं इति धर्मो व्यवस्थितः ।। १,२६.४३ ।।

तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः ।
हीनास्तं उपजीवेयुर्ग्रासाच्छादनसंभृताः ।। १,२६.४४ ।।

सर्वे ह्यनौरसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति ।। १,२६.४५ ।।

पितामहपितृभ्यां च दत्तं मात्रा च यद्भवेत् ।
तस्य तन्नापहर्तव्यं शौर्यभार्याधनं तथा ।। १,२६.४६ ।।

वस्त्रादयोऽविभाज्या यैरुक्तं तैर्न विचारितम् ।
धनं भवेत्समृद्धानां वस्त्रालंकारसंश्रितम् ।। १,२६.४७ ।।

ऋणं उद्वाह्य लेखितं .... .... ।। १,२६.४८ ।।

उक्तप्रकारो विज्ञेयः पत्रारूढऋणे खलु ।
उक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ।। १,२६.४९ ।।

मध्यस्थितं अनाजीव्यं दातुं नैकस्य शक्यते ।
युक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ।। १,२६.५० ।।

विक्रीय वस्त्राभरणं धनं उद्ग्राह्य लेखितम् ।
कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते ।। १,२६.५१ ।।

योगक्षेमवतो लाभः समत्वेन विभज्यते ।
प्रचारश्च यथांशेन कर्तव्यो रिक्थिभिः सदा ।। १,२६.५२ ।।

ब्रह्मदायं गतां भूमिं हरेद्यो ब्राह्मणीसुतः ।
गृहं द्विजातयः सर्वे तथा क्षेत्रं क्रमागतम् ।। १,२६.५३ ।।

पित्रा सह विभक्तानां व्यवस्था

[सम्पाद्यताम्]

पित्रा सह विभक्ता ये सापत्ना वा सहोदराः ।
जघन्याश्चैव ये तेषां पितृभागहरास्तु ते ।। १,२६.५४ ।।

अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः ।। १,२६.५५ ।।

पुत्रैः सह विभक्तेन पित्रा यत्स्वयं आर्जितम् ।
विभक्तजस्य तत्सर्वं अनीशाः पूर्वजाः स्मृताः ।। १,२६.५६ ।।

यथा धने तथा र्णे च दानादानक्रयेषु च ।
परस्परं अनीशास्ते मुक्त्वाशौचोदकक्रियाम् ।। १,२६.५७ ।।

पैतामहं हृतं पित्रा स्वशक्त्या यदुपार्जितम् ।
विद्याशौर्यादिनावाप्तं तत्र स्वाम्यं पितुः स्मृतम् ।। १,२६.५८ ।।

प्रदानं स्वेच्छया कुर्यात्भोगं चैव ततो धनात् ।
तदभावेऽपि तनयाः समांशाः परिकीर्तिताः ।। १,२६.५९ ।।

वस्त्रालंकारशय्याइ पितुर्यद्वाहनादिकम् ।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे तदर्पयेत् ।। १,२६.६० ।।

पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् ।
न तं भजेरन्दायादाः भजमानाः पतन्ति ते ।। १,२६.६१ ।।

पितृप्रसादात्भुज्यन्ते वस्त्राण्याभरणानि च ।। १,२६.६२ ।।

कृतेऽकृते वा विभागे रिक्थी यत्र प्रवर्तते ।
सामान्यं चेद्भावयति तत्र भागहरस्तु सः ।। १,२६.६३ ।।

ऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् ।
चिरकालप्रोषितोऽपि भागभागागतस्तु सः ।। १,२६.६४ ।।

गोत्रसाधारणं त्यक्त्वा योऽन्यं देशं समाश्रितः ।
अर्धतस्त्वागतस्यांशः प्रदातव्यो न संशयः ।। १,२६.६५ ।।

तृतीयः पञ्चमश्चैव सप्तमो योऽपि वा भवेत् ।
जन्मनां अपरिज्ञाने लभेतांशं क्रमागते ।। १,२६.६६ ।।

यं परंपरया मौलाः समस्ताः स्वामिनं विदुः ।
तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही ।। १,२६.६७ ।।

अविभक्तविभक्तानां कुल्यानां वसतां सह ।
भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः ।। १,२६.६८ ।।

पुत्रभेदाः

[सम्पाद्यताम्]

अनेकधा कृताः पुत्रा ऋषिभिश्च पुरातनैः ।
न शक्यन्तेऽधुना कर्तुं शक्तिहीनैश्चिरन्तनैः ।। १,२६.६९ ।।

एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः ।
तत्तुल्यः पुत्रिकपुत्रो भर्तव्यास्त्वपरे स्मृताः ।। १,२६.७० ।।

क्षेत्रजाद्याः सुतास्त्वन्ये पञ्चषट्सप्तभागिनः ।। १,२६.७१ ।।

दत्तोऽपविद्धः क्रीतश्च कृतः शौद्रस्तथैव च ।
जातिशुद्धा मध्यमास्ते सर्वे रिक्थसुताः स्मृताः ।। १,२६.७२ ।।

क्षेत्रजो गर्हितः सद्भिस्तथा पौनर्भवः सुतः ।
कानीनश्च सहोढश्च गूढजः पुत्रिकासुतः ।। १,२६.७३ ।।

शूद्रापुत्रः स्वयंदत्तो ये चैते क्रीतकाः स्मृताः ।
सर्वे ते मैत्रिणः प्रोक्ता काण्डपृष्ठा न संशयः ।। १,२६.७४ ।।

स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् ।
तेन दुश्चरितेनासौ काण्डपृष्ठो न संशयः ।। १,२६.७५ ।।

अग्निं प्रजापतिं चेष्ट्वा क्रियते गौतमोऽवदत् ।
अन्ये त्वाहुरपुत्रस्य चिन्तिता पुत्रिका भवेत् ।। १,२६.७६ ।।

पुत्रास्त्रयोदश प्रोक्ता मनुना येन पूर्वशः ।
संतानकारणं तेषां औरसः पुत्रिका तथा ।। १,२६.७७ ।।

आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतम् ।
तथैकादश पुत्रास्तु पुत्रिकौरसयोर्विना ।। १,२६.७८ ।।

यद्येकजाता बहवो भ्रातरस्तु सहोदराः ।
एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः ।। १,२६.७९ ।।

बह्वीनां एकपत्नीनां एष एव विधिः स्मृतः ।
एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः ।। १,२६.८० ।।

पुन्नाम्नो नरकात्पुत्रः पितरं त्रायते यतः ।
मुखसंदर्शनेनापि तदुत्पत्तौ यतेत सः ।। १,२६.८१ ।।

पौत्रोऽथ पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ ।
रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ ।। १,२६.८२ ।।

कामतश्च शूद्रावरोधजस्य भ्रातुरंशम् ।
संमानमात्रं प्रेते पितरि दद्युः शुश्रूषुश्चेत्(?) ।। १,२६.८३ ।।

अन्नार्थं तण्डुलप्रस्थं अपराह्ने तु सेन्धनम् ।
वसनं त्रिपणक्रीतं देयं एकं त्रिमासतः ।। १,२६.८४ ।।

विधवाभागः

[सम्पाद्यताम्]

एतावदेव साध्वीनां चोदितं विधवाधनम् ।। १,२६.८५ ।।

वसनस्याशनस्यैव तथैव रजकस्य च ।
धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ।। १,२६.८६ ।।

अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ।। १,२६.८७ ।।

अपुत्रेण सुतः कार्यो यादृक्तादृक्प्रयत्नतः ।
पिण्डोदकक्रियाहेतोर्धर्मसंकीर्तनस्य च ।। १,२६.८८ ।।

काङ्क्षण्ति पितरः पुत्रान्नरकापतभीरवः ।
गयां यास्यति यः कश्चित्सोऽस्मान्संतारयिष्यति ।। १,२६.८९ ।।

यथा जलं कुप्लवेन तरन्मज्जति मानवः ।
तद्वत्पिता कुपुत्रेण तमस्यन्धे निमज्जति ।। १,२६.९० ।।

करिष्यति वृषोत्सर्गं इष्टापूर्तं तथैव च ।
पालयिष्यति वार्धक्ये श्राद्धं दास्यति चान्वहम् ।। १,२६.९१ ।।

भार्याभागः

[सम्पाद्यताम्]

आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
शरीरार्धं स्मृता भार्या पुण्यापुण्यफले समा ।। १,२६.९२ ।।

यस्य नोपरता भार्या देहार्धं तस्य जीवति ।
जीवत्यर्धशरीरेऽर्थं कथं अन्यः समाप्नुयात् ।। १,२६.९३ ।।

सकुल्यैर्विद्यमानस्तु पितृभ्रातृसनाभिभिः ।
असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ।। १,२६.९४ ।।

पूर्वप्रमीताग्निहोत्रं मृतं भर्तरि तद्धनम् ।
विन्देत्पतिव्रता नारी धर्म एष सनातनः ।। १,२६.९५ ।।

मूर्वं म्र्ता हरेदग्निं अन्वारूढा हरेदघम् ।
पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः ।
तदभावे तु दायादः पश्चाद्दौहित्रकं धनम् ।। १,२६.९६ ।।

जङ्गमं स्थावरं हेम रूप्यधान्यरसाम्बरम् ।
आदाय दापयेच्छ्राद्धं मासषाण्मासिकादिकम् ।। १,२६.९७ ।।

पितृव्यगुरुदौहित्रान्स्वसृभर्त्रीयं आतुलान् ।
पूजयेत्कव्यपूर्ताभ्यां वृद्धानाथातिथीन्स्त्रियः ।। १,२६.९८ ।।

यद्विभक्ते धने किंचिदाध्यादिविधिसंस्मृतम् ।
तज्जाया स्थावरं मुक्त्वा लभेत गतभर्तृका ।। १,२६.९९ ।।

वृत्तस्थापि कृतेऽप्यंशे न स्त्री स्थावरं अर्हति ।
विधवा यौवनस्था चेन्नारी भवति कर्कशा ।
आयुषः क्षपणार्थं तु दातव्यं जीवनं तदा ।। १,२६.१०० ।।

मृते भर्तरि भर्तृअंशं लभेत कुलपालिका ।
यावज्जीवं हीनस्वाम्यं दानाधमनविक्रये ।। १,२६.१०१ ।।

क्रयक्रीता तु या नारी संभोगार्थं सुतार्थिना ।
गृहीता वान्यदीया वा सैव स्त्री परिकीर्त्यते ।। १,२६.१०२ ।।

प्रदद्यात्त्वेव पिण्डं वा क्षेत्रांशं वा यदृच्छया ।। १,२६.१०३ ।।

स्थावराज्जीवनं स्त्रीभ्यो यद्दत्तं श्वशुरेण तु ।
न तच्छक्यं अपाहर्तुं इतरैः श्वशुरे म्र्ते ।। १,२६.१०४ ।।

सपिण्डा बान्धवा ये तु तस्याः स्युः परिपन्थिनः ।
हिंस्युर्धनानि तान्राजा चौरदण्डेण घातयेत् ।। १,२६.१०५ ।।

संसृष्टिविभागः

[सम्पाद्यताम्]

संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ ।
विभक्ता भ्रातरो ये तु संप्रीत्यैकत्र संस्थिताः ।
पुनर्विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ।। १,२६.१०६ ।।

कदाचिद्वा प्रमीयेत प्रव्रजेद्वा कथंचन ।
न लुप्यते तस्य भागः सोदरस्य विधीयते ।। १,२६.१०७ ।।

या तस्य भगिनी सा तु ततोऽंशं लब्धुं अर्हति ।
अनपत्यस्य धर्मोऽयं अभार्यपितृकस्य च ।। १,२६.१०८ ।।

सा च दत्ता त्वदत्ता वा सोदरे तु मृते सति ।
तस्यांशं तु हरेत्सैव द्वयोर्व्यक्तं हि कारणम् ।। १,२६.१०९ ।।

अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् ।। १,२६.११० ।।

मृतोऽनपत्योऽभार्यश्चेदभ्रातृपितृमातृकः ।
सर्वे सपिण्डास्तद्दायं विभजेरन्यथांशतः ।। १,२६.१११ ।।

संसृष्टानां तु यः कश्चिद्विद्या शौर्यादिना धनम् ।
प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशिनः ।। १,२६.११२ ।।

विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः ।
पितृव्येणाथवा प्रीत्या तत्संसृष्टः स उच्यते ।। १,२६.११३ ।।

सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ।। १,२६.११४ ।।

येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ।। १,२६.११५ ।।

.... .... सोदरस्य तु सोदरः ।
दद्याच्चापहरेच्चांशं जातस्य च मृतस्य च ।। १,२६.११६ ।।

अन्योदर्यस्तु संसृष्टी नान्योदर्याद्धनं हरेत् ।
असंसृष्ट्यपि चादद्यात्सोदर्यो नान्यमातृजः ।। १,२६.११७ ।।

प्रमीतपितृकाणां तु पितृतो भागकल्पना ।। १,२६.११८ ।।

येऽपुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृविवर्जिताः ।
तेषां धनहरो राजा सर्वस्याधिपतिर्हि सः ।। १,२६.११९ ।।

पुत्राणां वर्णानुरूपेण विशेषः

[सम्पाद्यताम्]

विप्रेण क्षत्रियाजातो जन्मज्येष्ठो गुणान्वितः ।
भवेत्समांशः क्षत्रेण वैश्याजातस्तथैव च ।। १,२६.१२० ।।

न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै ।
यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ।। १,२६.१२१ ।।

शूद्र्यां द्विजातिभिर्जातो न भूमेर्भागं अर्हति ।
सजातावाप्नुयात्सर्वं इति धर्मो व्यवस्थितः ।। १,२६.१२२ ।।

निषाद एकपुत्रस्तु विप्रस्य स तृतीयभाक् ।
द्वौ सकुल्याः सपिण्डा वा स्वधादाताथ संहरेत् ।। १,२६.१२३ ।।

कुल्याभावे स्वधादाता आचार्यः शिष्य एव वा ।
सर्वास्वापत्सु तान्वर्णांस्तथैव प्रतिपादयेत् ।। १,२६.१२४ ।।

अनपत्यस्य शुश्रूषुर्गुणवाञ् शूद्रयोनिजः ।
लभेताजीवनं शेषं सपिण्डाः समवाप्नुयुः ।। १,२६.१२५ ।।

दुहितुः दायार्हत्वम्

[सम्पाद्यताम्]

भर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता ।। १,२६.१२६ ।।

अङ्गादङ्गात्संभवति पुत्रवद्दुहिता नृणाम् ।
तस्मात्पितृधनं त्वन्यः कथं गृह्णीत मानवः ।। १,२६.१२७ ।।

तदभावे तु दुहिता यद्यनूढा भवेत्तदा ।
अपुत्रपौत्रसंताने दौहित्रा धनं आप्नुयुः ।। १,२६.१२८ ।।

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्यां आत्मनि तिष्ठन्ति कथं अन्यो धनं हरेत् ।। १,२६.१२९ ।।

पौत्रदौहित्रयोर्लोके विशेषो नास्ति धर्मतः ।
अनेनैव विधानेन सुतं चक्रेऽथ पुत्रिकाम् ।। १,२६.१३० ।।

पुमान्पुंसोऽधिके शुक्ले स्त्री भवत्यधिके स्त्रियाः ।। १,२६.१३१ ।।

सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता ।
कृताकृता वा पुत्रस्य पितुर्धनहरी तु सा ।। १,२६.१३२ ।।

यथा पितृधने स्वाम्यं तस्याः सत्स्वपि बन्धुषु ।
तथैव तत्सुतोऽपीष्टे मातृमातामहे धने ।। १,२६.१३३ ।।

तदभावे भ्रातरस्तु भ्रातृपुत्राः सनाभयः ।
सकुल्या बान्धवाः शिष्याः श्रोत्रियाश्च धनार्हकाः ।। १,२६.१३४ ।।

अपुत्रस्य धनविभागः

[सम्पाद्यताम्]

अनपत्यस्य पुत्रस्य माता दायं अवाप्नुयात् ।
भार्यासुतविहीनस्य तनयस्य मृतस्य तु ।
माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ।। १,२६.१३५ ।।

पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः ।
तदभावे तु दायादः पश्चाद्दौहित्रकं धनम् ।। १,२६.१३६ ।।

समुत्पन्नाद्धनादर्धं तदर्थं स्थापयेत्प्र्थक् ।
मासषाण्मासिके श्राद्धे वार्षिके वा प्रयत्नतः ।। १,२६.१३७ ।।

बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा ।
यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेत् ।। १,२६.१३८ ।।

भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सह पिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ।। १,२६.१३९ ।।

स्वेच्छाकृतविभागो यः पुनरेव विसंवदेत् ।
स राज्ञांशे स्वके स्थाप्यः शासनीयोऽनुबन्धकृत् ।। १,२६.१४० ।।

साधारणऋणन्यास निह्नवे छद्मना क्रियाम् ।
पार्श्वहानिकारीं कृत्वा बलान्नैव प्रदापयेत् ।। १,२६.१४१ ।।

मायाविनो धृतधनाः क्रूरा लुब्धाश्च ये नराः ।
संप्रीत्या साधनीयास्ते स्वार्थहान्या छलेन वा ।। १,२६.१४२ ।।

साहसं स्थावरस्वाम्यं प्राग्विभागश्च रिक्थिनाम् ।
अनुमानेन विज्ञेयं न स्युर्यत्र च साक्षिणः ।। १,२६.१४३ ।।

अनपत्यस्य पुत्रस्य माता दायं अवाप्नुयात् ।
भार्यासुतविहीनस्य तनयस्य मृतस्य तु ।
माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ।। १,२६.१३५ ।।

पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः ।
तदभावे तु दायादः पश्चाद्दौहित्रकं धनम् ।। १,२६.१३६ ।।

समुत्पन्नाद्धनादर्धं तदर्थं स्थापयेत्प्र्थक् ।
मासषाण्मासिके श्राद्धे वार्षिके वा प्रयत्नतः ।। १,२६.१३७ ।।

बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा ।
यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेत् ।। १,२६.१३८ ।।

भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सह पिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ।। १,२६.१३९ ।।

स्वेच्छाकृतविभागो यः पुनरेव विसंवदेत् ।
स राज्ञांशे स्वके स्थाप्यः शासनीयोऽनुबन्धकृत् ।। १,२६.१४० ।।

साधारणऋणन्यास निह्नवे छद्मना क्रियाम् ।
पार्श्वहानिकारीं कृत्वा बलान्नैव प्रदापयेत् ।। १,२६.१४१ ।।

मायाविनो धृतधनाः क्रूरा लुब्धाश्च ये नराः ।
संप्रीत्या साधनीयास्ते स्वार्थहान्या छलेन वा ।। १,२६.१४२ ।।

साहसं स्थावरस्वाम्यं प्राग्विभागश्च रिक्थिनाम् ।
अनुमानेन विज्ञेयं न स्युर्यत्र च साक्षिणः ।। १,२६.१४३ ।।

विभक्तक्रिया

[सम्पाद्यताम्]

तेषां एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।
विभक्तानवगच्छेयुर्लेख्यं अप्यन्तरेण तान् ।। १,२६.१४४ ।।

अविभक्तैश्च कर्तव्या वैश्वदेवादिकाः क्रियाः ।। १,२६.१४५ ।।

बलानुबन्धव्याघात होढं साहसभावकम् ।
स्वस्य भोगः स्थावरस्य विभागस्य पृथग्धनम् ।। १,२६.१४६ ।।

पृथगायव्ययधनाः कुसीदं च परस्परम् ।
वणिक्पथं च ये कुर्युर्विभक्तास्ते न संशयः ।। १,२६.१४७ ।।

कार्यं उच्छ्रावणालेख्यं विभक्तैर्भ्रातृभिर्मिथः ।
साक्षिणो वा विरोधार्थं विभजद्भिरनिन्दिताः ।। १,२६.१४८ ।।

येनांशो यादृशो भुक्तस्तस्य तं न विचालयेत् ।। १,२६.१४९ ।।