सामग्री पर जाएँ

बृहस्पतिस्मृतिः/अभ्युपेत्याशुश्रूषा

विकिस्रोतः तः

अदेयादिकं आख्यातं भृतानां उच्यते विधिः ।
शुश्रूषां अभ्यूपेत्यैतत्पदं आदौ निगद्यते ।। १,१५.१ ।।

अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद्विवादपदं उच्यते ।। १,१५.२ ।।

वेतनस्यानपाकर्म तदर्थं स्वामिपालयोः ।
क्रमशः कल्प्यते वादो भृतभेदत्रयं त्विदम् ।। १,१५.३ ।।

अनेकधा त्वभिहिता जातिकर्मानुरूपतः ।
विद्याविज्ञानकामार्थ निमित्तेन चतुर्विधा ।। १,१५.४ ।।

एकैकः पुनरेतेषां क्रियाभेदात्प्रभिद्यते ।। १,१५.५ ।।

विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा ।
तदर्थं गुरुशुश्रूषां प्रकुर्याच्च प्रचोदिताम् ।। १,१५.६ ।।

विज्ञानं उच्यते शिल्पं हेमरूप्यादिसंस्कृतिः ।
नृत्यादिकं च तत्प्राप्तं कुर्यात्कर्म गुरोर्गृहे ।। १,१५.७ ।।

यो भुङ्क्ते परदासीं तु स ज्ञेयो वडबाभृतः ।
कर्म तत्स्वामिनः कुर्याद्यथान्नेन भृतो नरः ।। १,१५.८ ।।

बहुधार्थभृतः प्रोक्तस्तथा भागभृतोऽपरः ।
हीनमध्योत्तमत्वं च सर्वेषां एव चोदितम् ।। १,१५.९ ।।

दिनमासार्धषण्मास त्रिमासाब्दभृतस्तथा ।
कर्म कुर्यात्प्रतिज्ञातं लभते परिभाषितम् ।। १,१५.१० ।।

भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः ।
शक्तिभक्त्यनुरूपैः स्यादेषां कर्माश्रया भृतिः ।। १,१५.११ ।।

उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः ।
अधमो भारवाहः स्यादित्येष त्रिविधो भृतः ।। १,१५.१२ ।।

आयुधी तूत्तमः प्रोक्तो मध्यमस्तु कृषीवलः ।
भारवाहोऽधमः प्रोक्तस्तथा च गृहकर्मकृत् ।। १,१५.१३ ।।

द्विप्रकारो भोगभृतः कृषिगोजीविनां स्मृतः ।
जातसस्यात्तथा क्षीरात्स लभेत न संशयः ।। १,१५.१४ ।।
शुभकर्मकरा ह्येते चत्वारः समुदाहृताः ।
[चत्वारः शिष्योऽन्तेवासी भृतकः कर्मकरश्च] ।
जधन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः ।। १,१५.१५ ।।

कर्मापि द्विविधं प्रोक्तं अशुभं शुभं एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकरे स्मृतम् ।। १,१५.१६ ।।

गृहद्वाराशुचिस्थान रथ्यावस्करशोधनम् ।
गृह्याङ्गस्पर्शनोच्छिष्ट विण्मूत्रग्रहणोज्झनम् ।। १,१५.१७ ।।

गच्छतः स्वामिनः स्वाङ्गैरुपस्थानं अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभं अन्यदतः परम् ।। १,१५.१८ ।।

ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नोऽथ प्रतिग्राह्यो भवत्यभिमतः सताम् ।। १,१५.१९ ।।

आविद्याग्रहणाच्शिष्यः शुश्रूषेत्प्रयतो गुरुम् ।
तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च ।। १,१५.२० ।।

समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतियाति गृहानेषा शिष्यवृत्तिरुदाहृतः ।। १,१५.२१ ।।

अत्र पुर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते ।
प्रसादात्स्वामिनोऽन्यत्र दास्यं एषां क्रमागतम् ।। १,१५.२२ ।।

विक्रीणीते स्वतन्त्रो यः समात्मानं नराधमः ।
स जघन्यतमस्त्वेषां सोऽपि दास्यान्न मुच्यते ।। १,१५.२३ ।।

दासेनोढा त्व[स्व]दासी या सोऽपि दासीत्वं आप्नुयात् ।
यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनप्रभुर्यतः ।। १,१५.२४ ।।

दासीसुताश्च ये जाताः तस्याः पत्या परेण वा ।
उत्पादको यदि स्वामी न दासीं कारयेत्प्रभुः ।। १,१५.२५ ।।