बृहस्पतिसंहिता

विकिस्रोतः तः


इष्ट्वा क्रतुशतं राजा समाप्तवरदक्षिणम् ।
मघवान् वाग्विदां श्रेष्ठं पर्य्यपृच्छद् बृहस्पतिम् ।। 1 ।।
भगवन् केन दानेन सर्व्वतः सुखमेधते ।
यद्दत्तं यन्महार्घञ्च तन्मे ब्रूहि महातपः ।। 2 ।।
एवमिन्द्रेण पृष्टोऽसौ देवदेवपुरोहितः ।
वाचस्पतिर्म्महाप्राज्ञो वृहस्पतिरूवाच ह ।। 3 ।।
सुवर्णदानं गोदानं भूमिदानञ्च वासव ।
एतत् प्रयच्छमानस्तु सर्व्व पापैः प्रमुच्यते ।। 4 ।।
सुवर्ण रजतं वस्त्रं मणिरत्नञ्च वासव ।
सर्व्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ।। 5 ।।
फालाकृष्टां महीं दत्त्वा सवीजां शस्यशालिनीम् ।
यावत् सूर्य्यकरा लोकास्तावत् स्वर्गे महीयते ।। 6 ।।
यत्‌किञ्चित् कुरूते पापं पुरूषो वृत्तिकर्षितः ।
अपि गोचर्म्ममात्रेण भूमिदानेन शुध्यति ।। 7 ।।
दशहस्तेन दण्डेन त्रिंशद्दण्डानि वर्त्तनम् ।
दश तान्येव विस्तारो गोचर्म्मैतन्महाफलम् ।। 8 ।।
सवृषं गोसहस्रञ्च यत्र तिष्ठत्यतन्द्रितम् ।
वालवत्‌सप्रसूतानां तद्‌गोचर्म्म इति स्मृतम् ।। 9 ।।
विप्राय दद्याच्च गुणान्विताय तपोनियुक्ताय जितेन्द्रियाय ।
यावन्मही तिष्ठति सागरान्ता तावत् फलं तस्य भवेदनन्तम् ।। 10 ।।
यथा वीजनानि रोहन्ति प्रकीर्णानि महीतले ।
एवं पुण्याः प्ररोहन्ति भूमिदानसमार्ज्जिताः ।। 11 ।।
यथाप्सु पतितः सद्यस्तैलविन्दुः प्रसर्पति ।
एवं भूमिकृतं दानं शस्ये शस्ये प्ररोहति ।। 12 ।।
अन्नदाः मुखिनो नित्यं वस्त्रदश्चैव रुपवान् ।
स नरः सर्व्वदा भुवो यो ददाति वसुन्धराम् ।। 13 ।।
यथा गौर्भरते वत्सं क्षीरमुत्मृज्य क्षीरिणी ।
एवं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम् ।। 14 ।।
शङ्खं भद्रासनं छत्रं चरस्थावरवारणाः ।
भूमिदानस्य पुण्यानि फलं स्वर्गः पुरन्दर ।। 15 ।।
आदित्यो वरूणो विष्णुरब्रह्मा सोमो हुताशनः ।
शूलपाणिश्च भगवानभिनन्दति भूमिदम् ।। 16 ।।
आस्फोटयन्ति पितरः प्रहर्षन्ति पितामहाः ।
भूमिदाता कुले जातः स नस्त्राता भविष्यति ।। 17 ।।
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।
तारयन्ति हि दातारं सर्व्वात् पापादसंशयम् ।। 18 ।।
प्रावृता वस्त्रदा यान्ति नग्ना यान्ति त्वदस्त्रदाः ।
तृप्ता यान्त्यन्नदातारः क्षुधिता यान्त्यनन्नदाः ।। 19 ।।
काङ्क्षन्ति पितरः सर्व्वे नरकाद्भयभीरवः ।
गयां यो यास्यति पुत्रः स नस्त्राता भविष्यति ।। 20 ।।
एष्टव्या वहवः पुत्राः यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्‌सृजेत् ।। 21 ।।
लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पाण्डुरः ।
श्वेतः स्वुरविषाणाम्यां स नीलो वृष उच्यते ।। 22 ।।
नीलः पाण्डुरलाङ्गूलस्तृणमुद्धरते तु यः ।
षष्टिर्व्वर्षसहस्राणि पितरस्तेन तर्पिताः ।। 23 ।।
यच्च शृङ्गगतं पङ्कं कुलात्तिष्ठति चोद्धृतम् ।
पितरस्तस्य गच्छन्ति सोमलोकं शुभाद्युतिम् ।। 24 ।।
पृथ्वी यदोर्द्दिलीपस्य नृगस्य नहुषस्य च ।
अन्येषाञ्च नरेन्द्राणां पुनरन्या भविष्यति ।। 25 ।।
वहुभिर्व्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।। 26 ।।
यस्तु ब्रह्मघ्नः स्त्रौघ्नो वा यस्तु वै पितृघातकः ।
गवां शतसहस्राणां हन्ता भवति दुष्कृती ।। 27 ।।
स्वदत्तां परदत्तां वा यो हरेच्च वसुन्धराम् ।
स्वविष्ठायां क्रिमिर्भूत्वा पितृभिः सह पच्यते ।। 28 ।।
आक्षेप्ता वानुमन्ता च तमेव नरकं व्रजेत् ।। 29 ।।
भूमिदो भूमिहर्त्ता च नापरं पुण्यपापयोः ।
ऊर्द्धाधो वावतिष्ठेत यावदाभूतसंप्लवम् ।। 30 ।।
अग्नेरपत्यं प्रथमं हिरण्यं भूर्वैष्णवी सूर्य्यसूताश्च गावः ।
लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाञ्च महीञ्च दद्यात् ।। 31 ।।
ष़ड़शीतिसहस्राणां योजनानां वसुन्धराम् ।
स्वतो दत्ता तु सर्व्वत्र सर्व्वकामप्रदायिनी ।। 32 ।।
भूमिं यः प्रतिगृह्नाति भूमिं यस्तु प्रयच्छति ।
उभौ तौ पुण्यकर्म्माणौ नियतं स्वर्गगामिनौ ।। 33 ।।
सर्व्वेषामेव दानानामेकजन्मानुगं फलम् ।
हाटकक्षितिगौरौणां सप्तजन्मानुगं फलम् ।। 34 ।।
यो न हिंस्यादहं ह्यात्मा भूतग्रामं चतुर्ब्बिधम् ।
तस्य देहाद्वियुक्तस्य भयं नास्ति कदाचन ।। 35 ।।
अन्यायेन हृता भूमिर्यैर्नरैरपहारिता ।
हरतो हारयन्तश्च हन्युस्ते सप्तमं कुलम् ।। 36 ।।
हरते हरयेदयस्तु मन्दवुद्धिस्तमोवृतः ।
स वध्यो वारूणैः षाशैस्तिर्य्यगयोनिषु जायते ।। 37 ।।
अश्रुभिः पतितैस्तेषां दानानामपकीर्त्तनम् ।
ब्राह्मणस्य हृते क्षेत्रे हृतं त्रिपुरूषं कुलम् ।। 38 ।।
वापीकूपसहस्रेण अश्वमेधशतेन च ।
गवां काटिप्रदानेन भूमिहर्त्ता न शुध्यति ।। 39 ।।
गामेकां स्वर्णमेकं वा भूमेरप्यर्द्धमङ्गुलम् ।
रून्धन्नरकमायाति यावदाभूतसंप्लवम् ।। 40 ।।
अर्द्धाङ्गलस्य सीमाया हरणेन प्रणश्यति ।
गोवीथीं ग्रामरथ्याञ्च श्मशानं गोकुलं तथा ।। 41 ।।
सम्पीड्य नरकं याति यावदाभूतसंप्लवम् ।
ऊषरे निर्ज्जले स्थाने प्रास्तं शस्यं विसर्ज्जयेत् ।। 42 ।।
जलाधारश्च कर्त्तव्यो व्यासस्य वचनं यथा ।
पञ्च कन्यानृते हन्ति दश हन्ति गवानृते ।। 43 ।।
शतमश्वानृते हन्ति सहस्रं पुरूषानृते ।
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदेत् ।। 44 ।।
सर्व्वं भूम्यनृते हन्ति मास्म भूम्यनृतं वदीः ।
ब्रह्मस्वे मारतिं कुर्य्याः प्राणैः कण्ठगतैरपि ।। 45 ।।
अनौषधमभेषजः विषमं तद्धलाहलम् ।
न विषं विषमित्याहुर्व्रह्मस्वं विषमुच्यते ।। 46 ।।
विषमेकाकिनं हन्ति ब्रह्मस्वः पुत्रपौत्रकम् ।
लौहखण्डाश्मचूर्णञ्च विषञ्च जरयेन्नरः ।। 47 ।।
ब्रह्मस्वं त्रिषु लेकेषु कः पुमान् जरायष्यति ।
मन्युप्रहरणा विप्रा राजानः शस्त्रपाणयः ।। 48 ।।
शस्त्रमेकाकिनं हन्ति विप्रमन्युः कुलक्षयम् ।
मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः ।। 49 ।।
चक्रात् तीव्रतरो मन्युस्तस्माद्विप्रं न कोपयेत् ।
अग्निदग्धाः प्ररोहन्ति सूर्य्यदग्धास्तथैव च ।। 50 ।।
मन्युदग्धस्य विप्राणामङ्कुरो न प्ररोहति ।
अग्निर्द्दहति तेजसा सूर्य्यो दहति रश्मिभिः ।। 51 ।।
राजा दहति दण्डेन विप्रो दहति मन्युना ।
ब्रह्मस्वेन तु यत् सौम्यं देवस्वेन तु या रतिः ।। 52 ।।
तद्धनं कुलनाशाय भवत्यात्मविनाशकम् ।
ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् ।। 53 ।।
गुरूमित्रहरिण्ये च स्वर्गस्थमपि पीड़येत् ।
ब्रह्मस्वेन तु यच्छिद्रं तच्छिद्रं न प्ररोहति ।। 54 ।।
प्रच्छादयति तच्छिद्रमन्यत्र तु विसर्पति ।
ब्रह्मस्वेन तु पुष्टानि साधनानि बलानि च ।। 55 ।।
संग्रामे तानि लीयन्ते सिकतामु यथोदकम् ।
श्रौत्रियाय कुलौनाय दरिद्राय च वासव ।। 56 ।।
सन्तुष्टाय विनीताय सर्व्वभूतहिताय च ।
वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणाञ्च संयमः ।। 57 ।।
ईदृशाय सुरश्रेष्ठ यदत्तं हि तदक्षयम् ।
आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ।। 58 ।।
विनश्येत् पात्रदौर्व्वल्यात् तच्च पात्रं विनश्यति ।
एवं गाञ्चहिरण्यञ्च वस्त्रमन्नं महीं तिलान् ।। 59 ।।
अविद्वान् प्रतिगृह्नाति भस्मीभवति काष्ठवत् ।
यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः ।। 60 ।।
बहुश्रुताय दातव्यं नास्ति मूर्खे व्यातिक्रमः ।
कुलं तारयते धीरः सप्त सप्त च वासव ।। 61 ।।
यस्तटाकं नवं कुर्य्यात् पुराणं वापि खानयेत् ।
स सर्व्वं कुलमुद्धृत्य स्वर्गे लोके महीयते ।। 62 ।।
वापीकूपतड़ागानि उद्यानोपवनानि च ।
पुनः संस्यारकर्त्ता च लभते मौलिकं फलम् ।। 63 ।।
निदाघकाले पानीयं यस्य तिष्ठति वासव ।
स दुर्गं विषमं कृत्‌स्रं न कदाचिदवाप्नुयात् ।। 64 ।।
एकाहन्तु स्थितं तोयं पृथिव्यां राजसत्तम ।
कुलानि तारयेत् तस्य सप्त सप्त पराण्यपि ।। 65 ।।
दीपालोकप्रदानेन पवुष्मान् स भवेन्नरः ।
प्रोक्षणीयप्रदानेन स्मृतिं मेधाञ्च विन्दति ।। 66 ।।
कृत्वापि पापकर्म्माणि यो दद्यादन्नमर्थिने ।
ब्राह्मणाय विशेषेण न स पापेन लिप्यते ।। 67 ।।
भूमिर्गावस्तथा दाराः प्रसह्य हृयते यदा ।
न चावेदयते यस्तु तमाहुर्ब्रह्मघातकम् ।। 68 ।।
निवेदितस्तु राजा वै ब्राह्मणैर्म्मन्युपीड़ितैः ।
तं न तारयते यस्तु तमाहुर्ब्रह्मघातकम् ।। 69 ।।
उपस्थिते विवाहे च यज्ञे दाने च वासव ।
मोहाच्चलति विघ्नं यः स मृतो जायते कृमिः ।। 70 ।।
घनं फलति दानेन जोवितं जीवरक्षणात् ।
रुपमैश्वर्य्यमारोग्यमहिंमाफलमश्रुते ।। 71 ।।
फलमूलाशणात् पूज्यं स्वर्गं स्वस्तेन लभ्यते ।
प्रायोपबेशनाद्राज्यं सर्व्वत्र सुखमश्रुते ।। 72 ।।
गवाद्यशक्रादीक्षायाः स्वर्गगामी तृणाशनः ।
स्त्रियस्त्रिषवणस्रायौ वायुं पीत्वा क्रतं लभेत् ।। 73 ।।
नित्यस्रायौ भजेदर्कं सन्ध्ये द्वे च जपन् द्विजः ।
न तत् साधयते राज्यं नाकपृष्ठमनाशके ।। 74 ।।
अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ।
रत्नानां प्रतिसंहारे पशून् पुत्रांश्च विन्दति ।। 75 ।।
नाके चिरं स वसते उपवासौ च ये भवेत् ।
सततञ्चैकशायौ यः स लभेदीप्सितां गतिम् ।। 76 ।।
वोरासनं वोरशय्यां वौरस्थानमुपाश्रितः ।
अक्षयास्तस्य लोकाः स्युः सर्व्वाकामगमास्तथा ।। 77 ।।
उपवासञ्च दीक्षाञ्च अभिषेकञ्च वासव ।
कृत्वा द्वादश वर्षाणि वीरस्थानाद्धि शिष्यते ।। 78 ।।
अधीत्य सर्व्ववेदान् वै सद्यो दुःखात्‌प्रमुच्यते ।
पावनं चरते धर्म्मं स्वर्गे लाके महीयते ।। 79 ।।
बृहस्पतिमतं पुण्यं ये पठन्ति द्विजातयः ।
चत्वारि तेषां वर्द्धन्ते आयुर्विद्या यसो बलम् ।। 80 ।।

इति बृहस्पतिसंहिता ।


***************-------------
"https://sa.wikisource.org/w/index.php?title=बृहस्पतिसंहिता&oldid=399583" इत्यस्माद् प्रतिप्राप्तम्