बृहद्यात्रा/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ बृहद्यात्रा
अध्यायः २०
अध्यायः २१ →

अध्यायः-२० प्रस्थानिक[सम्पाद्यताम्]

व्रजेद् दिगीशं हृदये निवेश्य यथेन्द्र मैन्र्याम् अपराश् च तद्वत्।

सुशुक्लमाल्याम्बरभृन् नरेन्द्रो विसर्जयेद् दक्षिणपादम् आदौ॥

सितातपत्रो मणिरत्नशोभः प्रधूयमानैः सितचामरैश् च।

जयस्वनापूरितराजमार्गो द्विजेन्द्रमन्त्राभिविवृद्धतेजाः॥

कन्याणनामसचिवाप्तजनायुधीयदैवज्ञविप्रजनकंचुकिमध्यसंस्थः।

द्वात्रिंशतं समुपगम्य पदानि भूमौ प्रागादि नागरथवाजिन्रैः प्रयायात्॥E३