बृहद्दैवज्ञरञ्जनम्/स्वामिदर्शनप्रकरणम्

विकिस्रोतः तः

अथ पंचसप्ततितमं स्वामिदर्शनप्रकरणं प्रारभ्यते ।
बृहस्पतिः–
स्वस्वामिनोनुकूलस्य दासस्यायुःश्रियौ सदा ।
वर्द्धेते वंशजस्यात्र तस्य दर्शनकालता ॥ १ ॥
शुभाशुभौ भवेतां तत्कालं वक्ष्ये शुभार्थिनाम् ।
प्रथमं तत्प्रवेशे च निर्गतानुप्रवेशने ॥ २ ॥
पुनः पुनर्दिदृक्षायां स्वामिनो भृतकस्य च ।
दर्शने शुभकाले च द्वयोः शोभनमेधते ॥ ३ ॥
भृत्यस्य भदे काले पूर्वकर्माणि शोभनः ।
इह कर्म मुहूर्तस्य शुभश्चेदन्यथान्यथा ॥ ४ ॥
आर्द्राश्लेषा तथा ज्येष्ठा कृत्तिका भरणी तथा ।
त्रिपूर्वाश्च विनाशे वा दर्शनं स्वामिनः शुभाः ॥ ५ ॥
भृत्यानुकूलनक्षत्रे शुभांशे शशिनि स्थिते ।
विष्टिरक्ताविवर्ज्येषु तिथिषु प्रेक्षणं शुभम् ॥ ६ ॥
शुभवारे शुभे योगे स्थिरराशौ शुभेक्षिते ।
शुभग्रहाणां लग्ने वा शुभे केंद्रत्रिकोणगे ॥ ७ ॥
वर्गोत्तमोदये जीवबुधक्षेत्रे विशेषतः ।
स्वस्वामिदर्शनं श्रेष्ठं वश्योसौ मरणांतिकम् ॥ ८ ॥
बुधांशके स्थिते सौम्ये नीचारिभवनं विना ।
राज्ञस्तु वदनं दृष्ट्वा स्त्रीधनैस्तु वशी नृपः ॥ ९ ॥
गुरौ केंद्र स्वतुंगे वा स्वक्ष वा शीतगौ तथा।
स्वामिदर्शनयोगोयं भृत्यस्वाम्यनुकूलतः ॥ १० ॥
शुक्रवर्जितयामित्रे गुलिचंद्रौ त्रिकोणगौ ।
पश्यतः स्वामिनो मृत्योः यदा मरणांतिमाव्रजेत् ॥ ११ ॥
सूर्यवारः शुभः प्रोक्तो ब्राह्मणानां च दर्शनम् ।
भौमवारे नृपाणां तु दर्शनं जीवशोभनम् ॥ १२ ॥
मंदवारे शुभं गच्छेद्विट्शूद्राणां तु दर्शने ।
अन्यथा चेद्भवेदन्यमुभाभ्यां हि फलं नृणाम् ॥ १३ ॥
अथ सेवाचक्रम् । तत्रैव –
सेवाचक्रे शिरः सप्त सप्त पृष्ठोदरे तथा ।
पादयोः सप्तऋक्षाणि साभिजित्तु क्रमान्न्यसेत् ॥ १४ ॥
स्वामिभाद्भृत्यभं गण्यं भृत्यभात्स्वामिभं तथा ।
निष्फलं पृष्ठपादस्थे फलदस्तु शिरोदरे ॥ १५ ॥
इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनकृते संग्रहे बृहद्दैवज्ञरंजने पंचसप्ततितमं स्वामिदर्शनप्रकरणं समाप्तम् ।