बृहद्दैवज्ञरञ्जनम्/संक्रांतिप्रकरणं
अथ एकत्रिंशत्तमं संक्रांतिप्रकरणं[१] प्रारभ्यते ।
संक्रांतिलक्षणं ज्योतिःसारे –
पूर्वराशिं परित्यज्य उत्तरां याति भास्करः ।
स राशिः संक्रामाख्या स्यान्मासर्त्वायनहायने ॥ १ ॥
चंडेश्वर: -
उग्रर्क्षे च भवेद् घोरा क्षिप्र ध्वांक्षी प्रकीर्तिता ।
महोदरी चरे ज्ञेया मृदौ मंदाकिनी स्मृता ॥ २ ॥
ध्रुवे मंदाथ मिश्राख्ये मिश्रा तीक्ष्णे तु राक्षसी ।
घोराद्या भानुवारादौ विज्ञेया स्मृतिवेदिभिः ॥ ३ ॥
श्रीपतिः –
घोरा रवौ ध्वांक्ष्यमृतद्युतौ च संक्रांतिवारे च महोदरी स्यात् ।
मंदाकिनी ज्ञे गुरौ च मंदा मिश्रा भृगौ राक्षसी चार्कपुत्रे ॥ ४ ॥
उग्रक्षिप्रचरैर्मैत्रैर्रुरावमिश्राख्यदारुणैः ।
ऋक्षैः संक्रांतिरर्कस्य घोराद्याः क्रमशो मताः ॥ ५ ॥
फलनिर्णये-
घोरा सुखाय शूद्राणां विशां ध्वांक्षी सुखप्रदा ।
महोदरी च चौराणां राज्ञां मंदाकिनी हिता ॥ ६ ॥
विप्राणां शुभदा मंदा पशूनां मिश्रिका मुदे ।
चांडालशौंडिकादीनां सुखदा स्यात्तु राक्षसी ॥ ७ ॥
पूर्वाह्णे पीडयेद्भूपान् मध्याह्ने तु द्विजोत्तमान् ।
विशोपराह्णस्तमये शूद्रानुषसि गोपकान् ॥ ८ ॥
व्रतिनो हंति संध्यायां पिशाचान् रजनीमुखे ।
अर्द्धरात्रौ रात्रिचरान् परतो नटनर्तकान् ॥ ९ ॥
दिवा चेन्मेषसंक्रांतिरनर्घकलहप्रदा ।
रात्रौ सुभिक्षमतुलं संध्ययोर्वृष्टिरुत्तमा ॥ १० ॥
मृगकर्क्यजगोमीन संक्रातिर्निशि सौख्यदा ।
शेषेषु सप्तसु दिवा व्यत्ययादशुभं भवेत् ॥ ११ ॥
मेषं यदि दिवा सूर्यो रात्रौ तु संक्रमेत्तुलाम् ।
तदा नंदंति राजानो जनाश्च विविधोत्सवैः ॥ १२ ॥
यां तिथिं समनुप्राप्य तुलां गच्छति भास्करः ।
तस्यामेवार्कसंक्रांतिर्यावन्मेषः शुभंकरः ॥ १३ ॥
न्यूनातिचारे दुर्भिक्षं राष्ट्रभंगं जनक्षयम् ।
समसप्तगमर्केंदौ संक्रमे च महर्घता ॥ १४ ॥
श्रीपतिः –
हरिपदं स्थिरभे रविसंक्रमाद्वितनुभे षडशीतिमुखं भवेत् ।
उदगपायनगे मृगकर्किणौ क्रयतुलाधरयोर्विषुवत्स्मृतम् ॥ १५ ॥
याम्यायने विष्णुपदे तदादौ दानाद्यनंतं विषुवे च मध्ये ।
वदंत्यतीते षडशीतिवक्त्रे महर्षयः खल्वयने च सौम्ये ॥ १६ ॥
गर्गः –
त्रिंशत्कर्कटसंक्रातौ पूर्वतः पुण्यनाडिकाः ।
मकरे तूत्तराः पुण्याश्चत्वारिंशतिनाडिकाः ॥ १७ ॥
हेमाद्रौ –
त्रिंशत्कर्कटके नाड्यः मकरे तु दशाधिकाः ।
भविष्यत्यागमे पुण्यं अतीते चोत्तरायणे ॥ १८ ॥
कार्मुकं च परित्यज्य मृगे याति दिवाकरः ।
प्रदोषे चार्द्धरात्रौ वा स्नानदाने परेहनि ॥ १९ ॥
सूर्यास्तमनवेलायां यदि सौम्यायनं भवेत् ।
तदूर्ध्वं पुण्यकालः स्यात् परतश्चेत्परेहनि ॥ २० ॥
षट्त्रिंशद् घटिकाः पुण्या मृगेतीताः प्रकीर्तिताः ।
आद्यत्रिंशत्कुलीराः स्युः पुराणैः स्मृतिका विदुः ॥ २१॥
आसन्नं संक्रमं पुण्यं दिनार्धं स्नानदानयोः ॥ २२ ॥
श्रीपतिः –
कार्मुकं च परित्यज्य मृगे याति दिवाकरः ।
प्रदोषे चार्धरात्रे वा तदा भोगोपरेहनि ॥ २३ ॥
मिथुनात्कर्कसंक्रांतिर्यदि स्यादंशुमालिनः ।
प्रदोषे चार्धरात्रे वा तदा कुर्याद्गतेहनि ॥ २४ ॥
निर्णयसिंधौ-
भूयः प्रदोषे यदि वार्धरात्रे परेह्नि पुण्यं त्वथ कर्कटश्चेत् ।
प्रभातकाले यदि वा निशीथे पूर्वेह्नि पुण्यं त्विति माधवार्यः ॥ २५ ॥
रामः –
याम्यायने विष्णुपदे चाद्या मध्या तुलाजयोः ।
षडशीत्यानने सौम्ये परा नाड्योतिपुण्यदाः ॥ २६ ॥
पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः ॥ २७ ॥
श्रीपतिः-
पूर्वतोपि परतोपि संक्रमात्पुण्यकालघटिकास्तु षोडश ।
अर्द्धरात्रिसमयादनंतरं संक्रमे परदिनं हि पुण्यदम् ॥ २८ ॥
यद्यर्धरात्र एवं स्यात्संपूर्णो रविसंक्रमः ।
तदा दिनद्वयं पुण्यं स्नानदानादिकर्मसु ॥ २९ ॥
लल्ल:-
अहः संक्रमणे पुण्यमहः सर्वं प्रकीर्तितम् ।
रात्रौ संक्रमणे पुण्यं दिनार्धं स्नानदानयोः ॥ ३० ॥
अर्धरात्रादधस्तत्र दिनार्धस्योपरि क्रिया ।
ऊर्ध्वसंक्रमणे चोर्ध्वमुदयात्प्रहरद्वयम् ॥ ३१ ॥
संपूर्णे चार्धरात्रे तु भानुः संक्रमते यदा ।
पुण्यकालं प्रयत्नेन प्रभाते मनुरब्रवीत् ॥ ३२ ॥
मनुस्मृतिः –
ग्रहणेर्कस्य संक्रांतौ विवाहे पुत्रजन्मनि ।
काम्यव्रते च मरणे रात्रौ स्नानार्थमुत्तमम् ॥ ३३ ॥
भार्गवः-
राहुः पर्वणि विवाहकर्मणि स्थापने दिविषदां सुतोत्सवे ।
संक्रमे व्रतविधौ न निंदिता स्नानदानविषये विभावरी ॥ ३४ ॥
संक्रांत्यां यानि दत्तानि हव्यकव्यानि मानवैः ।
तानि तस्य ददात्यर्कः सप्तजन्मनि निश्चितम् ॥ ३५ ॥
अथ मेषादिसंक्रमणे दानवस्तून्याह । विश्वामित्रः निर्णयसिंधौ-
मेषसंक्रमणे भानोर्मेषदानं महाफलम् ।
वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च ॥ ३६ ॥
वस्त्रान्नयानदानानि मिथुने विहितानि तु ।
घृतधेनुप्रदानं च कर्कटेपि विशिष्यते ॥ ३७ ॥
ससुवर्णच्छत्रदानं सिंहेपि विहितं तथा ।
कन्याप्रवेशे वस्त्राणां वेश्मनां दानमेव च ॥ ३८ ॥
तुलाप्रवेशे धान्यानां गोरसानामपीष्टदम् ।
वृश्चिके चलिते भानौ दीपदानं महाफलम् ॥ ३९ ॥
धनुःप्रवेशे वस्त्राणां यानानां च महाफलम् ।
मकरप्रवेशे दारूणां दानमग्नेस्तथैव च ॥ ४० ॥
कुंभप्रवेशे दानं तु गवामंबुतृणस्य च ।
मीनप्रवेशेऽम्लानानां मालानामपि चोत्तमम् ॥ ४१ ॥
कालविवेके –
रविसंक्रमणे पुण्ये यो न स्नातीह मानवः ।
सप्तजन्मांतरे रोगी दुःखभाङ् निर्धनो भवत् ॥ ४२ ॥
श्रीपतिः –
चतुष्पदे तैतिलनागयोश्च सुप्तो रविः संक्रमणं करोति ।
विष्ट्यां बवाख्ये च गराह्वये च स बालवाख्ये वणिजे निविष्टः ॥ ४३ ॥
किंस्तुघ्ननाम्नि शकुनावपि कौलवाख्ये चोर्ध्वस्थितस्य खलु संक्रमणं खेः स्यात् ।
धान्यार्घवृष्टिषु भवेत्क्रमशस्त्वनिष्टमध्येष्टतेति मुनयः कथयंति पूर्वाः ॥ ४४ ॥
फलप्रदीपे –
राज्ञां प्रजानां सौख्यं स्यात्समर्घं सस्यगोरसम् ।
नंदते च जगत्सर्वं ऊर्ध्वसंक्रमणे रवेः ॥ ४५ ॥
धनधान्यं तथारोग्यं लोकानां सुखवर्धनम् ।
समता सर्वकार्येषु प्रविष्टे रविसंक्रमे ॥ ४६ ॥
शोकव्याधिभयं हानिचौराग्निनृपजं भयम् ।
जायते भुवि दुर्भिक्षं यदि सुप्तार्कसंक्रमः ॥ ४७ ॥
प्रयोजनाभावात्संक्रांतेर्वस्त्राभरणादिकं न लेख्यम् ।
उत्तरात्रितयं ब्राह्म्यं विशाखा च पुनर्वसु ।
चत्वारिंशत्पंचयुक्तः संक्रांतिः स्यान्मुहूर्तकैः ॥ ४८ ॥
आर्द्राश्लेषा तथा ज्येष्ठा भरणी स्वातिवारुणम् ।
एभिः पंचदशी वाच्या शेषास्त्रिंशन्मुहूर्तकाः ॥ ४९ ॥
उत्तमाधममध्याख्या संक्रांतिः कथिता रवेः ।
धान्यादीनां समर्घत्वं समता च महर्घता ॥ ५० ॥
चण्डेश्वरः—
रौद्राहियाम्यानिलवारुणेंद्रान्याहुर्जघन्यानि तथा बृहंति ।
ध्रुवद्विदैवादितिभानि नूनं समानि शेषाणि पुनर्मुनींद्रैः ॥ ५१ ॥
बृहत्सु धान्यं कुरुते समर्घं जघन्यधिष्ण्यैः कुरुते महर्घम् ।
समेषु धिष्ण्येषु समं हिमांशुर्वदंत्यसंदिग्धमिदं महीतः ॥ ५२ ॥
जघन्यभे संक्रमणे मुहूर्ताः शरेंदवो वाणकृता बृहत्सु ।
खरामसंख्या समभे महर्घं समर्घसाम्याविधुदर्शनेपि ॥ ५३ ॥
गर्गः –
अर्कादिवारे संक्रांतौ कर्कस्याब्दविंशेोपकः ।
दिशो (१०) नखा (२०) गजा (८) सूर्या (१२) धृत्योष्टादश (१८) सायकाः (५) ॥५४॥
संक्रमात्पूर्वनक्षत्रमधराख्यं वदेद्बुधः ।
त्रिकं षट्कं त्रिकं षट्कं त्रिकं षट्कं च विन्यसेत् ॥ ५५ ॥
पंथा भोगो व्यथा वस्त्रं हानिश्च विपुलं धनम् ।
यस्य जन्मर्क्षमासादितिथौ संक्रमणं भवेत् ॥ ५६ ॥
तन्मासाभ्यंतरे तस्य वैरं क्लेशं धनक्षयः ।
तगरसरोरुहपत्रै रजनीसिद्धार्थलोध्रसंयुक्तैः ॥ ५७ ॥
स्नानं जन्मर्क्षगते रविसंक्रमणे नृणां शुभदम् ।
क्षीरं वस्त्रं गुडं तैलं नवनीतं च शर्करा ॥ ५८ ॥
पूगीफलं तिलं चाज्यं रसं च लवणं मधु ।
अथ संक्रांतितुलादानम् ।
मेषादिमीनपर्यंतं तुलां दद्याद्विधानतः ॥ ५९ ॥
आयुर्वृद्धिर्धनारोग्यनिष्पापः पुण्यवान् भवेत् ।
संक्रांतौ ग्रहणे काले पुण्याहे च विशेषतः ॥ ६० ॥
हेमरौप्यादिमुक्तानां अन्नवस्त्रादि गोरसः ।
तिलतैलादिकानां च तुलादानात्सुखी भवेत् ॥ ६१ ॥
अथ संक्रांतिकालः । स्मृतिनिर्णये –
यस्मिन्कालेर्कसंक्रांतिर्दिवा वा यदि वा निशि ।
तत्काले स्नानदानानि कृतकर्मा क्षयं भवेत् ॥ ६२ ॥
निरंशः सविता यत्र तद्दिने स्नानमाचरेत् ।
दानं चाप्यक्षयं प्रोक्तं रहस्यं मुनिभिः स्मृतम् ॥ ६३ ॥
पुण्यं बहुतरं सूर्ये निरंशे मुनयो विदुः ।
अंशकं प्राप्य दानादि नैव पुण्यानि भास्करे ॥ ६४ ॥
गुरूराशौ तु सूर्यस्य प्रवेशसमयो नृणाम् ।
निमेषस्यायुतांशः स्यात्सो ह्यस्माभिर्न गण्यते ॥ ६५ ॥
गर्गः –
सुस्थे नरे सुखासीने यावत्स्पंदति लोचनम् ।
तस्य त्रिंशत्तमो भागस्तत्परः परिकीर्तितः ॥ ६६ ॥
तत्पराच्छतमो भागस्त्रुटिरित्यभिधीयते ।
त्रुटेः सहस्रभागो यः स कालो रविसंक्रमः ॥ ६७ ॥
तस्मिन्काले द्रवीभूतं त्रैलोक्यं सचराचरम् ।
ब्रह्मापि तं न जानाति किं पुनः प्राकृतो जनः ॥ ६८ ॥
तस्मान्मुनींद्रैः संक्रांतेरर्वाक् षोडश नाडिकाः ।
पश्चात्षोडश संप्रोक्ताः स्थूलाः पुण्यतमास्तथा ॥ ६९ ॥
श्रीपतिः–
यावद्भिरंशैरयनच्युतिः स्यात्तद्भोग्यकालेन दिवाकरस्य ।
च्युतिर्भवेद्विष्णुपदादिकानां रहस्यमेतन्मुनिभिः प्रदिष्टम् ॥ ७० ॥
यादृशेन हिमरश्मिमालिना संक्रमो भवति तिग्मरोचिषः ।
साध्वसाध्वपि वशेन शीतगोस्तादृशं फलमवाप्नुयान्नरः ॥ ७१ ॥
ताराबलादिंदुरथेंदुवीर्याद्दिवाकरः संक्रममाण उक्तः ।
ग्रहाश्च सर्वेपि बलेन भानोर्भवंति शस्ता अपि सुप्रशस्ताः ॥ ७२ ॥
चण्डेश्वरः –
शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः ।
महाजया तु सा प्रोक्ता सप्तमी भास्करप्रिया ॥ ७३ ॥
तस्यां स्नानं हुतं दत्तं सर्वं भवति चाक्षयम् ।
रविवारे विशेषेण कर्तव्यं पुण्यमादरात् ॥ ७४ ॥
गर्गः-
या याः संनिहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः ।
पुण्यकालप्रसंगेन नियमश्च निगद्यते ॥ ७५ ॥
अथ संक्रांतिदिने वर्ज्यम् ।
संक्रांत्यां तैलसंयोगः स्त्रीसंभोगः पलाशनम् ।
दंतधावनकाष्ठं च यः कुर्यात्पतितो भवेत् ॥ ७६ ॥
अन्यत्रापि –
दंतधावनकाष्ठेन न शोध्याः संक्रमे रदाः ।
न वाच्यं परुषं छेद्यं न किंचिच्च तृणादिकम् ॥ ७७ ॥
न दोह्या गोमहिष्यश्च तस्मात्पूर्वं न भोजनम् ।
स्त्रीसंगमो न कर्तव्यो न विप्रेभ्यो विश्राणनम् ॥ ७८ ॥
अथ करणे प्रत्यवायः ।
सूर्य संक्रांतिदिवसे यः कुर्याद्दंतधावनम् ।
लोहकंटकपुंजेन सविता तेन धर्षितः ॥ ७९ ॥
सूर्यसंक्रांतिदिवसे परुषं योभिभाषते ।
तेन षण्मासपर्यंतं सविता कलहः कृतः ॥ ८० ॥
सूर्यसंक्रांतिदिवसे छिन्द्याद्यस्तु तृणादिकम् ।
तेन खङ्गादिभिः शस्त्रैः सविता स्यात्प्रहारितः ॥ ८१ ॥
सूर्यसंक्रांतिदिवसे गवादिर्दुहतीह यः ।
तेन रश्मिं गले बध्वा सविता कर्षितो भवेत् ॥ ८२ ॥
सूर्यसंक्रांतिसमयादर्वाक् यः कुरुतेशनम् ।
आषण्मासं ततस्तेन सविता स्यादुपोषितः ॥ ८३ ॥
सूर्यसंक्रांतिसमयाद्यः पुमान्काममोहितः ।
कुरुते कामिनीसंगं षंढतामुपयाति सः ॥ ८४ ॥
सूर्यसंक्रांतिसमयाद्ब्राह्मणं यो न भोजयेत् ।
स सप्तजन्मपर्यंतं क्षयरोगी भविष्यति ॥ ८५ ॥
सूर्यसंक्रांतिसमयान्न स्नानं कुरुते तिलैः ।
दद्रुपामार्शसां दोषैः पीडितः स्यादिति स्थितम् ॥ ८६ ॥
सूर्यसंक्रांतिसमयान्न साष्टांगं नमेद्रविम् ।
स स्याद्भवांतरे नूनं पीडितो राजयक्ष्मणा ॥ ८७ ॥
सूर्यसंक्रांतिसमयाद्दानं शक्त्या करोति न ।
स दरिद्रो महापापी प्रतिजन्मनि जायते ॥ ८८ ॥
सुवर्णं रजतं वापि ताम्रं वापि ददाति यः ।
इह दिव्यशरीरः स्यात्ततः स्वर्गे महीयते ॥ ८९ ॥
सूर्यसंक्रांतिसमयात्स्नानं नाज्ञानतः कृतम् ।
आदित्यहृदयं पाठ्यं सहस्रं तेन शुद्ध्यति ॥ ९० ॥
अज्ञानान्मैथुनाद्यं यः संक्रांतौ कुरुते यदि ।
त्रिरात्र्युपोषितो भूत्वा पंचगव्येन शुद्ध्यति ॥ ९१ ॥
उत्तरे त्वयने विप्रे वस्त्रदानं महाफलम् ।
तिलपूर्णमनड्वाहं दत्त्वा रोगैः प्रमुच्यते ॥ ९२ ॥
अथ भास्वदजप्रवेशलग्नं जगल्लग्नं तस्माच्छुभाशुभज्ञानम् । प्रश्नवैष्णवे -
राकाकुहूशशिपभास्वदजप्रवेशः लग्नेश्वराः शुभखगैर्युतवीक्षितश्चेत् ।
तद्वत्सरे जगति सौख्यमलं प्रकुर्युः पापार्दिता गदनरेंद्रभयं नराणाम् ॥ ९३ ॥
भानोर्मेषप्रवेशोदयभवनपतिः सग्रहः स्वोच्चसंस्थे स्वर्क्षस्थे वापि केंद्रे शुभगगनचरैर्दृष्टयुक्तो बलाढ्यः ।
तस्मिन्वर्षे प्रकुर्याज्जगति शुभसुखं भूरिशस्यं सुवृष्टिं क्रूरः क्रूरार्दितो वा दिशति नृपभयं कष्टमन्नं महर्घम् ॥ ९४ ॥
मेषप्रवेशोदयतः खरांशोः केंद्रेषु पापोडुपतीत्थशाले ।
पापग्रहैर्दृष्टियुते च तस्मिन्वर्षे गदार्तिः प्रियमन्नमुर्व्याम् ॥ ९५ ॥
लग्ने बलाढ्ये निजनाथसौम्यैर्युक्तेक्षितः केंद्रगतैः शुभैश्च ।
सर्वं समर्घं विबलैर्विलग्ने केंद्रेषु पापैः सकलं महर्घम् ॥ ९६ ॥
अथ मनुष्याणां जन्मलग्नात्प्रतिवर्षं शुभाशुभज्ञानम् । मुकुंदः –
जन्मोदयाद्भास्वदज प्रवेशलग्नं हि यद्भावगतं शुभान्वितम् ।
तद्भाववृद्धिं प्रकरोति तस्मिन्वर्षे नृणां पापयुतं तदन्यथा ॥ ९७ ॥
जन्मोदये देहसुखं धनेर्थलाभस्तृतीये च कुटुंबवृद्धिः ।
तुर्ये सुहृत्सौख्यमथात्मजाप्तिं पुत्रेथ षष्ठेरिपराजयः स्यात् ॥ ९८ ॥
स्त्रीसौख्याप्तिर्भवति मदने मृत्युरुग्भिश्च रन्ध्रे धर्मार्थाप्तिस्तपसि दशमे वित्तसौख्यं पदाप्तिः ।
लाभे लाभः सुखधनचयो दुःखदारिद्र्यमंत्ये पुंसोर्मेषे प्रविशति रवौ जन्मलग्नाद्विलग्ने ॥९९॥
जन्मलग्नाद्वर्षलग्नाज्जगल्लग्नं यदा भवेत् ।
अष्टमे द्वादशे वापि स वर्षो न शुभावहः ॥ १०० ॥
अष्टमे द्वादशे वापि भवेद्यत्पुरराशितः ।
जगल्लग्नं तदा हानिस्तत्पुरस्य न संशयः ॥ १ ॥
अथ वृषार्कप्रवेशलग्नाच्छारदान्नविचारः । तत्रैव –
वृषप्रवेशे सवितुर्मृगेंद्र (५) वृषा (२) लि (८) कुंभो (११) पगतैः शुभग्रहैः ।
पापैस्तुला (७) कर्कमृगांगनास्थैः स्याच्छारदान्नस्य समृद्धिरुत्तमा ॥ २ ॥
वृषप्रवेशे सवितुः शशीज्ययोः कुंभालिसिंहोपगयोः सुवीर्ययोः ।
शुक्रज्ञयोर्मेषनृयुग्मसंस्थयोः स्याच्छारदान्नस्य समृद्धिरीप्सिता ॥ ३ ॥
वृषप्रवेशे सवितुश्च सिंहवृषालिकुंभोपगतैश्च पापैः ।
वीर्यान्वितैः सौम्य वगैरवीर्यैर्जातं विनश्येत् खलु शारदान्नम् ॥ ४ ॥
वृषप्रवेशे सवितुर्हयांगवृषालिसंस्थैरशुभग्रहेंद्रैः ।
संशुष्यतेऽल्पं खलु जातमात्रमुत्पद्यतेल्पं भुवि शारदान्नम् ॥ ५ ॥
वृषप्रवेशे सवितुर्नृयुग्ममेषालिसंस्थैरशुभग्रहेंद्रैः ।
सौम्यग्रहेंद्रैर्न युतेक्षितश्च जातं विशुष्येत्खलु शारदान्नम् ॥ ६ ॥
वृषप्रवेशे तरणेश्च मीने ज्ञशुक्रयोः केंद्रगयोः शशीज्ययोः ।
बलाढ्ययोः सद्ग्रहदृष्टयोश्च स्याच्छारदान्नस्य समृद्धिरुत्तमा ॥ ७ ॥
अथ मिथुनार्कप्रवेशलग्नवशाद्दृष्टिविचारः । तत्रैव-
सहस्ररश्मेर्मिथुनप्रवेशे शशांकवाचस्पति शुक्रसौम्यैः ।
मीनाश्च कन्यामिथुनस्थितैः स्यात्तदा सुवृष्टिः सकलान्नकर्त्री ॥ ८ ॥
सहस्ररश्मेर्मिथुनप्रवेशे शुक्रज्ञयोः कर्कवृषस्थयोश्च ।
चन्द्रे झषे देवगुरौ कुमार्यां विपर्ययाद्वापि तदा सुवृष्टिः ॥ ९ ॥
सहस्ररश्मेर्मिथुनप्रवेशे माहेयसुर्यात्मजसैंहिकेयैः ।
मीनाश्च कन्यामिथुनस्थितैश्च तदाल्पवृष्टिः प्रियमन्नमुर्व्याम् ॥ ११० ॥
सहस्ररश्मेर्मिथुनप्रवेशे ज्ञशुक्रयोर्मेषनृयुग्मसंस्थयोः ।
चंद्रेज्ययोश्चापगयोश्च पापैस्तुलालिसिंहोपगतैः सुवृष्टिः ॥ ११ ॥
सहस्ररश्मेर्मिथुनप्रवेशे मंदारयोः कर्कवृषस्थयोश्चेत् ।
द्विदेहभस्थे दनुजो विशेषात्तदाल्पवृष्टिः प्रियमन्नमुर्व्याम् ॥१२॥
शुभाशुभग्रहैर्मिश्रैः फलं मिश्रं प्रजायते ।
सूर्ये क्रूरान् गुरुः पश्येत् तदा वृष्टिश्च मध्यमा ॥ १३ ॥
अथ वृश्चिकार्क प्रवेशलग्नवशाद् ग्रैष्मिकान्नविचारः । तत्रैव-
अलिप्रवेशे सवितुश्च कुंभे वृषालिसिंहापगतैश्च सौम्यैः ।
पापग्रहैः कर्कमृगाजसंस्थैः स्याद् ग्रैष्मिकान्नस्य परा समृद्धिः ॥ १४ ॥
अलिप्रवेशे सवितुः शशीज्ययोः कुंभस्थयोः सिंहवृषस्थयोः पृथक् ।
शुक्रेणयाश्चापतुलालिसंस्थैः स्याद् ग्रैष्मिकान्नस्य समृद्धिरुत्तमा ॥ १५ ॥
अलिप्रवेशे सवितुः कुमार्यां ज्ञशुक्रयो: केंद्रगयोः शशीज्ययोः ।
बलाढ्ययोः सद्ग्रहदृष्टयोश्च स्याद् ग्रैष्मिकान्नस्य समृद्धिरुत्तमा ॥ १६ ॥
अलिप्रवेश ताणे नृयुग्मवृषस्थयोः शौरिमहीज्ययोश्चेत् ।
तुलाघटाश्चालिगयोर्द्वयोर्वा स्याद् ग्रैष्मिकान्नस्य नवस्य नाशः ॥ १७ ॥
अलिप्रवेशे तनयस्य सिंहकुंभस्थयोः सौरिमहीजयोश्च ।
राहौ वृषस्थे घटवृश्चिकस्थे ग्रैष्मिकान्नं भुवि शेषमेति ॥ १८॥
शुभस्य दृष्ट्या नहि सर्वसस्य नाशो भवेत्पापखगे स्मरस्थे ।
ग्रीष्मोद्भवस्याथ शरद्भवस्य सस्यस्य जन्म प्रवदेत्सुयोगात् ॥ १९ ॥
मेषे वृषे च मिथुने शुभदृष्टयुक्तेऽन्नं ग्रैष्मिकं सुसुलभं त्वभयं पृथिव्याम् ।
सूर्यो धनुर्मृगघटेषु च शारदान्नं कुर्यात्समर्घमशुभैः सहितो महर्घम् ॥ १२० ॥
पूर्वसंक्रांतिनक्षत्रात्परसंक्रांतिऋक्षकम् ।
द्वित्रिसंख्या समर्घं स्याच्चतुः पंच महर्घता ॥२१॥
संक्रांतिनाड्या तिथिवारऋक्षधान्याक्षरं वह्निहरेत्तु भागम् ।
एके समर्घं द्वितीये च साम्यं शून्ये महर्घं मुनयो वदंति ॥ २२ ॥
अथ वारपरत्वेन संक्रांतिफलम् ।
रविरविजभौमवारे संक्रांतौ दिनकरस्य सति मासे ।
पित्तकफानिलजामयनरपतिकलहस्त्ववृष्टिश्च ॥ २३ ॥
बुधगुरुचंद्रसिताहे संक्रांतावनामयं नृणाम् ।
क्षितिपतिनिकरक्षेमं सस्यविवृद्धिं विधर्मिणां पीडा ॥ २४ ॥
पौषमासस्य संक्रांती रविवारे यदा भवेत् ।
धान्यं च त्रिगुणं मौल्यं भौमवारे चतुर्गुणम् ॥ २५ ॥
त्रिगुणं शनिवारेण बुधे शुक्रे समं भवेत् ।
सुराचार्ये च सोमे च मौल्यमर्घं सुनिश्चितम् ॥ २६ ॥
मीन संक्रमणे सूर्यवारे वाति समीरणः ।
भौमे पीडा पशूनां च दुर्भिक्षं च शनैश्चरे ॥ २७ ॥
वृक्षपाताः प्रजापीडा मिथ्या संचरते मही ।
हिंसा- कामातुरा लोका यदि वृष्टिसमन्वितम् ॥ २८ ॥
संक्रांतिर्यदि मीनस्य बुधवारे प्रजायते ।
छत्रभंगो महामारी रोदनं भयचिंतया ॥ २९ ॥
संक्रांतिः सोमवारे च प्रजानां परमं सुखम् ।
भानुभौमार्किवारेषु पापयुद्धं महर्घता ॥ १३० ॥
अथ सायन- मेषार्कप्रवेशविचारः । यवनमतेन –
रविवारे यदा स्याच्च मेषस्याप्ययनं भवेत् ।
राजा प्रसन्नतामेति राज्यपुष्टिस्तथैव च ॥ ३१ ॥
स्वकुले चास्ति स्वं राज्यं राज्यतो लाभमेव च ।
समर्घं परस्परं राज्ञामन्नाप्तिर्बहुला भवेत् ॥ ३२ ॥
महर्घं चैव कार्पासमाम्राधिक्यं फलं भवेत् ।
दुग्धादि बहुलं ज्ञेयं व्यापारीणां क्वचिद्भयम् ॥ ३३ ॥
गोधूमं बहुलं ज्ञेयं खर्बुजानि बहूनि च ।
तिलान्नमधिकं जातं बालकं तु रुगर्दितम् ॥ ३४ ॥
अग्नेर्भयं तृणाधिक्यं सूर्यग्रहणसंभवम् ।
कटेः पीडां विजानीयाद्वर्षेपि यवनेरितम् ॥ ३५ ॥
सोमे दिने मेष यदायनं भवेद्राजानको दुःखमुपैति शीघ्रम् ।
वृष्टेरभूदन्नसमर्घताप्तिर्युद्धं भवेत्पश्चिमदिग्विनाशम् ॥ ३६ ॥
महाशयानां तु विनाशनं स्याद्व्यापारिणां लाभमुपैति बह्वम् ।
फलंति वृक्षाः पशुवृद्धिमेति वृक्षा विनाशोग्निभयादिकं च ॥ ३७ ॥
व्ययाधिकं लाभमभूतस्वल्पमजाधिकाप्तिः सकलेपि वर्षे ।
कुजे दिने चायनमेषराशेरभूत राजा खलु भूमिसूनुः ॥ ३८ ॥
समर्घतामेति अकालवृष्टेः कृषेः क्वचिन्नष्टप्रजा पृथिव्याम् ।
व्यापारिणां लाभमभूत राजन् परस्परं युद्धमभीप्सितं च ॥ ३९ ॥
चतुष्पदानां रुगतो प्रपीडयात्क्वचित्क्वचिद् वृक्षफलानि उर्व्याम् ।
कार्पासगोधूमतिला महर्घाः प्रयांति स्वल्पं खलु शीतवृष्टिः ॥ १४० ॥
कृषिर्विनष्टा कुसुमैववर्षणं विरुद्धदासात्मजस्वामितातयोः ।
नरा रुगार्ताः खलु चाग्निभीतिः स्वल्पं विनाशं हि भवेत्तु वृश्नान् ॥ ४१ ॥
सूर्योपरागः सुलभाच्च भीतिः भूकंपनं स्याद्गदितं हि वर्षे ।
बुधे दिनेष्वर्कजराशिरायनं करोति वर्षे बहुलं ह्युपद्रवम् ॥४२॥
आर्यावर्ते सौमनस्यं पृथिव्यां प्रावृट्काले वृष्टिकिंचिदभूत् ।
महर्घतामेति तिलोपि शर्करा कार्पासवस्त्राणि चतुष्पदादिकम् ॥ ४३ ॥
कणाधिकोत्पातनरस्यनेकधा उपद्रवो साधुजनस्य दुष्टतः ।
व्यापारहानिर्ग्रहणं दिवामणेराम्रादि किंचित्सुजनस्य रोगः ॥ ४४ ॥
आयाधिकोंगूर च खर्बुजानि सुस्वादयुक्तानि धनाधिकानि ।
रोगोप्यसाध्याग्निभयं बहूनि प्रजासुखैश्वर्ययुतानि चाब्दे ॥ ४५ ॥
गुरोर्दिनेष्वायनमेव मेषराशेरभूद्राजपतिर्बृहस्पतिः ।
महर्घतामेति समस्तमन्नं सद्वृष्टिमुर्वी धरणीपतिर्युतः ॥४६॥
राज्यस्य कार्योद्यतमंत्रिणोस्ति साधूजनोदारपशोः प्रपीडनम् ।
वर्षेष्वस्मिन्मंगलं चाधिकं च व्याध्याधिक्यं जातमेवास्ति सस्यम् ॥ ४७ ॥
भूयः साधुक्लेशयुक्तोग्निभीतिः पश्चाच्छीतोत्पातक्लेशो जनस्य ।
मार्ग चित्रं सुंदरं लाभमत्र जातं चैवमुद्यमाद्वै मुनींद्राः ॥ ४८ ॥
भृगोर्वारे यदा चाब्दे मेषस्याप्ययनं भवेत् ।
राजा शुक्रो लाभमत्र गोधूमबहुलं भवेत् ॥ ४९ ॥
युद्धाधिक्यं शीतमत्र शत्रोर्नाशः पशोः सुखम् ।
अग्निभीतिः प्रतिष्ठा स्यात्किंचिद्रोगो नरस्य तु ॥ १५० ॥
व्यापारिणां प्रतिष्ठा स्याद्राज्यकार्यं हि सुस्थिरम् ।
अयनं स्याद्रविजे वारे मेषस्य तु यदा भवेत् ॥ ५१ ॥
राजा शनैश्चरस्तत्र पशुपीडा रुगाधिका ।
पीडा त्वनेकधा चास्ति वर्षेष्वप्यखिलेषु चेति ॥५२॥
रामः –
षडशीत्याननं चापनृयुक् कन्याझषे भवेत् ।
तुलाजौ विषुवं विष्णुपदं सिंहालिगोघटे ॥ ५३ ॥
अथ महाविषुवति मेषसंक्रांतिचक्रम् ।
मूर्ध्नि सप्त मुखे त्रीणि हृदये पंच विन्यसेत् ।
त्रितयं हस्तपादेषु महाविषुभतः क्रमात् ॥ ५४ ॥
मस्तके भूपतेः सौख्यं वदने पटुता भवेत् ।
हृदये च धनाध्यक्षोर्थप्राप्तिर्दक्षिणे करे ॥५५॥
वामे करे महादुःखं सुखं पादे च दक्षिणे ।
भ्रमणं वामपादे च कथितं विषुवत्फलम् ॥ ५६ ॥
अथ विष्णुपदीचक्रम् ।
ऋक्षे संक्रमणे यत्र विष्णुपद्यां मुखे तु तत् ।
चत्वारि दक्षिणे बाहौ त्रीणि त्रीणि पदद्वये ॥ ५७ ॥
चत्वारि वामबाहौ तु हृदये पंच निर्दिशेत् ।
अक्ष्णोर्द्वयं द्वयं योज्यं मूर्ध्नि द्वौ चैकतो गुदे ॥ ५८ ॥
रोगो भोगस्तथा मानं बंधनं लाभमेव च ।
ऐश्वर्यं राजपूजा च अपमृत्युरिति क्रमात् ॥ ५९ ॥
अथ षडशीतिचक्रम् ।
मुखे चैकं करे वेदाः पादयुग्मे द्वयं द्वयम् ।
क्रोडे बाणस्तथा वेदाः करे सव्येतरेपि च ॥ १६० ॥
द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा ।
द्वयं चैव तथा गुह्ये षडशीत्यां रवौ स्थिते ॥ ६१ ॥
मुखे दुःखं करे लाभं पादयोर्भ्रमणं हृदि ।
कांता स्याद्बंधनं वामे हस्ते स्यात्स्वीयभे नृणाम् ॥ ६२ ॥
सन्मानं नेत्रयोश्चैव अपमानश्च मस्तके ।
गुह्ये चैव भवेन्मृत्युः षडशीतिफलं श्रुतिः ॥ ६३ ॥
अथ दक्षिणायनसंक्रांतिचक्रम् ।
शीर्षे त्रीणि मुखे त्रीणि हृदये पंच हस्तयोः ।
अष्टौ पादद्वयेप्यष्टौ दक्षिणायनभः क्रमात् ॥ ६४ ॥
शीर्षे मानं मुखे विद्या हृदये वित्तसंक्षयः ।
प्रवासः स्यात्करे वामे भिक्षालाभश्च दक्षिणे ।
निष्फलं वामपादे च किंचिल्लाभश्च दक्षिणे ॥ ६५ ॥
अथ तुलाजलविषुवति संक्रांतिचक्रम् ।
षण् मूर्ध्नि वदने पंच चत्वारि हृदये तथा ।
त्रितयं करपादेषु जलं विषुभतः क्रमात् ॥ ६६ ॥
मानं मूर्ध्नि मुखे वैरं हृदये दुःखसत्वतः ।
दोः पदोर्दक्षयोर्योगः त्रासश्च वामयोः स्वभे ॥ ६७ ॥
अथोत्तरायणमकरसंक्रांतिचक्रम् ।
शीर्षे पंच मुखे त्रीणि हस्तयोश्च त्रयं त्रयम् ।
हृदि पंच शशी नाभौ गुदे च पादयोः समाः ।
उत्तरायणभाज्ज्ञेयं स्वनक्षत्रस्थितेः फलम् ॥ ६८ ॥
शीर्षेर्थलाभं वदने सुखानि दक्षे करेर्थो हृदये व सौख्यम् ।
नाभौ सुखं वामकरेर्थनाशो गुह्ये भयं वामपदे प्रवासः ॥ ६९ ॥
वारे रूपं तिथौ रुद्रनाड्यां पंचदशैव तु ।
जीर्णपत्रप्रमाणेन ज्ञायते सूर्यसंक्रमे ।
एकत्रिंशत्पले दद्यादब्दे अब्दे सदैव हि ॥ १७० ॥
इति श्रीमद्गयादत्तज्योतिर्विदात्मजरामदीनज्योतिर्वित्कृते संग्रहे बृहद्दैवज्ञरंजने एकत्रिंशत्तमं संक्रांतिप्रकरणं समाप्तम् ॥ ३१ ॥