सामग्री पर जाएँ

बृहद्दैवज्ञरञ्जनम्/रोगप्रकरणम्

विकिस्रोतः तः

अथाष्टसप्ततितमं रोगप्रकरणं प्रारभ्यते ।
अथ रोगोत्पत्तेर्दिनावधिकथनम् । बृहस्पतिसंहितायाम् –
द्विदैवत्यमघाश्लेषारोहिण्यार्द्रासु नैऋते ।
बहुलायां विषैर्दष्टो न प्राणीति कुमारतः ॥ १ ॥
मघायां विंशतिर्यावद्दिनान् जीवेच्छुभे दिने ।
ज्येष्ठे विशाखभे हस्ते रोगी मासार्द्धतः सुखी ॥ २ ॥
चित्रायां वैष्णवे याम्ये वारुणे सौम्यवारगे ।
रोगी एकादशाहेन सुखी स्याद्यमसादपि ॥ ३ ॥
मूलाश्विकृत्तिकापुष्यपुनर्वसुसुखारगाः ।
यदि रोगी नवाहाद्वा सप्ताहाद्वा सुखी भवेत् ॥ ४ ॥
रोहिण्युत्तरफाल्गुन्योरहिर्बुध्न्ये तथामयी ।
सप्ताहाद्वा नवाहाद्वा सुखी भवति वृत्रहन् ॥ ५ ॥
उरगवरुणरुद्रा वासवेंद्र त्रिपूर्वा यमबहुलयुता सा पापचारेण युक्ताः ।
तिथिषु गतवतीष्टाद्वादशीभिश्चतुर्थी सहितमरणयोगे रोगिणो मृत्युरेव ॥ ६ ॥
इति निगदितरोगे चास्य रोगस्य शान्त्यै कथयति चतुरास्यः कालभिच्चैौषधीनाम् ।
मरणदलनक्षारक्रोधलेपादिपानप्रवहदहन कर्मण्यत्र तस्योदितेषु ॥ ७ ॥
विशल्यकरणादीनामपि कालाद्विनाफलम् ॥ ८ ॥
रौद्रेषु सार्पज्वलनेषु सौम्ये स्वातित्रिपूर्वावसुराोहणीषु।
स्वात्याश्विहस्तादिसपौष्णमैत्रेषूक्तं चरांशे शुभमौषधीनाम् ॥ ९ ॥
वारेतिशीघ्रे ग्रहसंयुतस्य रिक्तासु नंदासु जयासु योगे ।
लग्ने चरे चन्द्रनिरीक्षिते च क्रियां विदध्यादपि चौषधीनाम् ॥ १० ॥
दर्श वापि शुभं विद्याद्गुह्यरोगप्रशांतये ॥ ११ ॥
क्षिप्रोग्रचरनक्षत्रे मेषकर्कटकोदये ।
पापग्रहदिने स्वांशा चित्रास्वात्योर्हरेस्तिथौ ॥ १२ ॥
नंदायां स्थिरलग्ने वा कंटके शुभसंपदि ।
सर्वव्याधिविनाशाय विदध्यादौषधं बुधः ॥ १३ ॥
शुभवारे तिथींद्रेषु शुभांशे कर्कटे गते ।
स्वातिमैत्रयमाश्विन्यां रौद्रेपि चित्रपुष्ययोः ॥ १४ ॥
औषधं व्याधिनाशाय कुर्यात्कृपकुलीरयोः ॥ १५ ॥
क्षिप्रोग्रचरभे वारे सौम्यरिक्ता शुभे दिने ॥ १६ ॥
अथ प्रमेहरोगः ।
अष्टादशप्रमेहे तु कर्तव्या चौषधिक्रिया ।
पापवारेंदुतिथ्यन्ते तापकान्युदये नृणाम् ।
पापदृष्टे क्रियां कुर्यादौषधं च कुरोगिणाम् ॥ १७ ॥
मंदांशे मंदलग्ने च मंददृष्टियुतोदये ।
मंदराशौ क्रियां कुर्यादौषधं च कुरोगिणाम् ॥ १८ ॥
अथ राजयक्ष्मा ।
साधारणाख्यनक्षत्रे वक्रग्रहनिरीक्षिते ।
विष्टिवर्ज्ये तिथौ कुर्यात्सत्क्रियां राजयक्ष्मणाम् ॥ १९ ॥
अपस्मारादि रोगाणामेवं शोभनदा क्रिया ।
कर्तव्या प्रोक्तकालेषु मंत्रौषधविशारदैः ॥ २० ॥
विपरीताख्यविप्रांस्तु कर्तव्यं शुभमिच्छता ।
औषधं नाडिकां वापि अमृताख्ये विषाप्तरि ॥ २१ ॥
त्र्युत्तरेषु च रोहिण्यां वायुभे चाश्विनीषु च ।
चन्द्रशुक्रगुरोर्वारे स्नातो नीरोगतामियात् ॥ २२ ॥
शिवशक्राहियाम्याग्निमघापूर्वात्रयस्तथा ।
पापवारयुता योगाः पौनःपुन्य श्रमोह्वया ॥ २३ ॥
एषु भैषज्यमारोग्यं स्नातो नीरोगतामियात् ।
याम्याग्नेयाख्यरौद्रेषु पापवारिचरोदये ॥ २४ ॥
 नंदायां पित्तशांत्यर्थं भिषजेनातिना भिषक् ।
प्राजाप्रत्ये च पौष्णे च भेषजं पित्तशांतये ॥ २५ ॥
अथापस्मारः ।
श्रवणे चाहिदैवत्ये तुरगे गुरुवारुणे ।
जयायां वातशांत्यर्थं भेषजे स्नापयेच्च तम् ॥ २६ ॥
उग्रयोगेषु कर्तव्यं भैषज्यं दीर्घरोगिणाम् ।
विषक्षये च गुल्मे च अपस्मारे क्षयेषु च ॥ २७ ॥
सिन्नेपिल्ले चरे लग्ने भैषज्यं चरमिच्छता ।
चरभे स्वांशके चन्द्रे चरराश्यंशकोदये ॥
भैषज्यं रोगनाशाय स्नानं कुर्याद्विचक्षणेः ॥ २८ ॥
उभयेति समं प्रोक्तं चन्द्रे चन्द्रदिवाकरौ ।
यदि युक्तैः स्थिरेणैव कर्तव्या व्याधिशांतिदम् ॥ २९ ॥
मंदे जीवांशभे 'बारे रिक्तायां मंदवारयोः ।
लग्ने रोगविनाशाय भेषजे स्नापयेच्च तम् ॥ ३० ॥
ये योगाश्चोदिता रोगास्ते योगा रोगशांतये ।
रुगादिशांतये चैव चोदिता मुनिस- त्तमैः ॥ ३१ ॥
व्यतीपाते क्षयं दानं व्यतीपाते च रोगिणाम् ।
स्नानभैषज्ययोर्योगः शत्रूणां च प्रतिक्रिया ॥ ३२ ॥
वरुणार्द्राश्रविष्ठाः स्युः क्रियकर्क्योदये यदि ।
आरार्कशनिराहूणां भेषजं दर्शनं शुभम् ॥ ३३ ॥
यदैकांश बिलग्नस्थौ मंदकेतू क्वचित्तदा ।
 रोगिणो रोगनाशाय कुर्याद्रोगप्रतिक्रियाम् ॥ ३४
॥ औषधकर्म । दैवज्ञमनोरंजने –
पौष्णद्वये चादितिभद्वये च हस्तत्रये च श्रवणत्रये च ।
मैत्रे च मूले च मृगे च शस्तं भैषज्यकर्म प्रवदंति संतः ॥ ३५ ॥
औषधभक्षणमुहूर्तः ।
मूलानुराधावसुसौम्यभेषु चित्राश्विनीपुष्यमृगानिलेषु ।
शनीशनारायणरेवतीषु शुभप्रदं भेषजभक्षणादि ॥ ३६ ॥
हस्तादितिश्रवणसोमसमीरणेषु मूलानलेंद्रवसुतिष्ययुतेषु भेषु ।
भैषज्यपानमचिरादपहृत्य रोगं कंदर्पतुल्यवपुषं पुरुषं करोति ॥ ३७ ॥
भैषज्य कर्माणि च भक्षणे च रोगक्षयं वपुषि सुंदरतां च पुष्टिम् ।
कुर्वंति सौख्यमधिकं च दिनाधिनाथचन्द्रात्मजावनिसुतामरपूज्यवाराः ॥ ३८ ॥
अन्यत्रापि –
हस्तत्रये मृगे मूले दितियुग्मे हरित्रये ।
मैत्रपौष्णद्वये कर्म भैषज्यस्य शुभं भवेत् ॥३९॥
मूलाश्विन्यां मृगे मैत्रे स्वात्यामिंदुगुरौ हरौ ।
चित्रांत्ये वासवे वह्नौ भक्षयेदौषधं बुधः ॥ ४० ॥
हस्तादित्यां मृगे विष्णुः स्वात्यां वासवपुष्यभे ।
पिबेच्चित्रानले मूले यत्नात्तत्रौषधं बुधः ॥ ४१ ॥
वारा निगदिताः शस्ता भैषज्यस्य च कर्मणि ।
सुरेज्यभार्गवादित्यचन्द्रा नित्यं बुधैः सदा ॥ ४२ ॥
शस्ते योगे शुभे चन्द्रे कुर्यादौषधभक्षणम् ।
निरोगार्थी नरः शस्ते करणे न तिथिक्षये ॥ ४३ ॥
चतुर्थ्यां च चतुर्दश्यां नवम्यामौषधं शुभम् ।
वारे भौमे शनौ सौम्ये भक्षयेन्नैव निश्चितम् ॥ ४४ ॥
पूर्णिमायां च पंचम्यां सप्तम्यामौषधं सदा ।
भक्षयेच्च त्रयोदश्यां द्वितीयादि द्वये बुधः ॥ ४५ ॥
एकादश्यां दशम्यां च वारे जीवेंदुभार्गवे ।
सादित्ये मिथुने लग्ने कन्या चापे झषे तथा ॥ ४६ ॥
शुभे युक्ते शुभैर्दृष्टे पापग्रहविवर्जिते ।
सर्वषामौषधानां च शस्तं भवति भक्षणम् ॥ ४७ ॥
त्रिषडेकादशे पापाः सौम्याः सर्वेषु शोभनाः ।
भक्षणेप्यौषधीनां च पुष्टिदा वृद्धिदाः सदा ॥ ४८ ॥
खेर्को जीवो भृगुर्वापि लग्नेप्यौषधभक्षणे ।
तेषां रोगा विनश्यंति सूर्येणैव तमो यथा ॥ ४९ ॥
अथ प्रश्नाद्वाधाज्ञानमाह ।
तिथिवारं च नक्षत्रं लग्नं यामं च संयुतम् ।
वसुभिश्च हरेद्भागं शेषं बाधा नियोजयेत् ॥ ५० ॥
हयाग्निदेवबाधा च पितरौ नेत्रदंतिनः ।
षट्चतुर्थे भूतबाधा ग्रहाणामेकपंचके ॥ ५१ ॥
भक्ता द्वादशशेषेण जीवनं मरणं फलम् ।
रामबाणरसाष्टौ च नन्दरुद्राश्च जीवति ।
एकपक्षयुगः सप्तदशभानुर्न जीवति ॥ ५२ ॥
अन्यच्च राजमार्तंडे
वारर्क्षे च तिथिर्दिशा - परिमितं संहृत्य नागैर्भजेल्लब्धांकेन फलं च नागनयने दोषं पितुर्नान्यथा ।
सप्ते राममिते सुरस्य विदितं तर्के च वेदे तथा प्रेतस्यापि च खेचरस्य विदितं चन्द्रेथ वाणेधिके ॥ ५३ ॥
लब्धांकं त्रिगुणं तथा वसुयुतं वेदेन गुण्यं ततः सप्तांत्येप्यधिकं यथा विधुमितं कौल्यं च दोषं वदेत् ।
ग्राम्यं वन्यभवं च राजकुलजं स्याच्छत्रुजं पंक्तिजं शून्ये व्योमभवं तथाहि विविधोपायैश्व शान्तिं लभेत् ॥ ५४ ॥
कौल्ये होमद्विजार्चनं शुभकरं ग्राम्ये चतुष्कोणके होमं वन्यभवेत्तिथिं वरभवैर्भोज्यैश्च वस्त्रेण वा ।
राज्ये तीर्थपदं तथाप्यरिकृते शक्तिक्रियादानतो गायत्री जपतो हि पंक्तिविषये चाकाशजो दीपितः ॥ ५५ ॥
अथ रोगमुक्तस्नानम् । रामः –
व्यन्त्यादितिध्रुवमघानिलसार्प धिष्णे रिक्ते तिथौ चरतनौ विकवींदुवारे ।
स्नानं रुजा विरहितस्य जनस्य शस्तं होने विधौ खलखगैर्भवकेन्द्रकोणे ॥ ५६ ॥
अन्यदपि –
इंदोर्वारे भार्गवेषु ध्रुवेषु सार्पादित्यस्वातियुक्तेषु भेषु ।
पित्र्यं चांत्ये चैव कुर्यात्कदाचिन्नैव स्नानं रोगनिर्मुक्तजंतोः ॥ ५७ ॥
आर्द्रातिष्यविशाखशक्रदहने मूलानुराधाश्विनी पूर्वाषाढहरित्रये निगदितं चन्द्रो विहीनः शुभः ।
सूर्यारार्किदिने गुरौ शुभकरे केन्द्रे च पापान्विते रिक्तायां च तिथौ सविष्टिकरणे स्नानं हितं रोगिणाम् ॥ ५८ ॥
चरे विलग्ने रविभौमवारे रिक्तातिथौ चन्द्रबले विहीने। केंद्रत्रिकोणायगताश्च पापाः स्नानं नराणां निरुजत्वकारि ॥ ५९ ॥
वैधृतिव्यतिपाते च भद्रायां सूर्यसंक्रमे ।
रोगमुक्तो नरः स्नायात्कुवारर्क्षतिथिष्वपि ॥ ६० ॥
सोमशेखरे –
चन्द्रशुद्धौ व्यतीपाते भौमार्कशनिवासरे ।
व्रणमुक्तो व्याधिमुक्तः नरः स्नानं समाचरेत् ॥ ६१ ॥
अथ रुधिरमोक्षणम् । चण्डेश्वरः –
ज्येष्ठादित्यभवासवाशिवकरौ ब्राह्मोत्तरारेवती आग्नेया शततारकापितृयमेपूर्वात्रयं चोत्तमम् ।
विज्ञेयाशुभतारकाशुभविधौ शंसंति गर्गादय तुंबाश्रीहतशृंगिणीजलजुकाभिः शोणितं मोक्षणम् ॥ ६२ ॥
रामः –
त्वष्ट्रान्मित्रकभाद्वयेंबुपलघुश्रोत्रे शिरामोक्षणं भौमार्केज्यदिने विरेकवमनाद्यं स्याद्बुधार्कि विना ॥ ६३ ॥
ज्योतिःसागरे –
चित्रायुगे विधियुगे लघुषु वारुणे विष्णौ ।
बस्तिविरेचनवेधा शुभदिन तिथिचन्द्रलग्नेषु ॥ इति ॥ ६४ ॥

वार दिन रोगोत्पतौ वारफलम् ।

रविवार ८ फलवृक्षे बलिः कन्यकां पूजयेत्
चंद्रवार ५ आकाशमांत्रिणा बलिः गुग्गुलचंदनधूपः ।
भौमवार १२ सप्तान्नाश्येनकन्यकां पूजयेत् पानयिपथ्यं दद्यात् ।
बुधवार १७ ब्राह्मणभोजनं शांतिः कार्या।
गुरुवार ११ कुट्टगुग्गुलना यवतिलसिद्धार्थमिश्रधूपः छागक्षीरेण छागमांसेन पथ्यं दद्यात् ।
शुक्रवार ७ कुमारीपूजनं क्षीरशर्करापिप्पली छागमांसं कंटकारीपथ्यं दद्यात् ।
शनिवार २३ सर्षपगुग्गुलतिलधूपः शांतिः कार्या कुमारीभोजनम् ।

अथ सर्पविद्या –
ब्राह्मणाः श्वेतवर्णास्तु क्षत्रिया रक्तवर्णकाः ।
वैश्यास्तु पीतवर्णाः स्युः कृष्णवर्णास्तु शूद्रकाः ॥ ६५ ॥
अनंतः कुलिकश्चैव वासुकिः शंखपालकः ।
तक्षकश्च महापद्मः कर्कोटः पद्म एव च ॥ ६६ ॥
कुलनागाष्टकं ह्येतत्त्तेषां चिह्नं शिवोदितम् ॥ ६७ ॥
श्वेतपद्ममनंतस्य मूर्ध्नि पृष्ठे च दृश्यते ।
शंखं शेषस्य शिरसि वासुकेः पृष्ठ उत्पलम् ॥ ६८ ॥
त्रिनेत्रांकस्तु कर्कोटस्तक्षकः शशकांकित: ।
ज्वलत्त्रिशूलं चन्द्रार्धं शंखपालस्य मूर्द्धनि ॥ ६९ ॥
राजवत्तु समो बिंदुर्महापद्मस्य पृष्ठतः।
सप्तपृष्ठे च दृश्यंते सुरक्ताः पंच बिंदवः ॥ ७० ॥
एवं यो वेत्ति जात्यादीन् नामचिह्नं शिवोदितम् ।
तस्य मंत्रौषधान्येव सिद्ध्यंते नान्यथा पुनः ॥ ७१ ॥
दूरतस्तस्य सर्पाद्याः पतंति गरुडे यथा ।
कालाख्या नाम तच्चिह्नं शिवेनोक्तं यथा पुरा ॥ ७२ ॥
ज्ञेयो दशविधो दंशो भुजंगानां भिषग्वरैः ।
भीतोन्मत्तः क्षुधार्तश्व आक्रांतो विषदर्पितः ॥ ७३ ॥
आहारेच्छुः सरोषश्च स्वस्थानपरिरक्षणे ।
नवमो वैरिसंधानो दशमः कालसंज्ञकः ॥ ७४ ॥
उद्याने जीर्णकूपे च वटशृंगाटचत्वरे ।
शुष्कवृक्षे श्मशानेथ प्लक्षश्लेष्मातशिग्रुके ॥ ७५ ॥
देवतायतनागरे तथा च शाकवृक्षके ।
ऐषु स्थानेषु ये दष्टास्ते न जीवंति मानवाः ॥ ७६ ॥
भ्रूमध्ये चाधरे मूर्ध्नि जंघे नेत्रे भ्रुवोस्तथा ।
ग्रीवाचिबुककंटेषु करमध्ये च तालुके ॥ ७७ ॥
स्तनयोः स्कंधयोः कुक्षौ लिंगवृषणनाभिषु ।
मर्मसंधिषु सर्वत्र सर्पदष्टो न जीवति ॥.
रविभौमे शनिवारे सर्पदष्टो न जीवति ॥ ७८ ॥
अथ सर्पदष्टः ।
द्विदैवत्यमघाश्लेषारोहिण्यार्द्रासु नैर्ऋते ।
बहालायां विषैर्दष्टो न प्राणिति कुमारतः ॥ ७९ ॥
अष्टमी पंचमी पूर्णा अमावास्या चतुर्दशी ॥ ८० ॥
अशुभास्तिथयः प्रोक्ताः सर्पदष्टविनाशकाः ।
कृत्तिका श्रवणामूला विशाखा भरणी तथा ॥ ८१ ॥
पूर्वास्तिस्रस्तथा चित्राश्लेषादष्टो न जीवति मध्याह्ने संध्ययोश्चैव अर्द्धरात्रे निशात्यये ॥ ८२ ॥
कालवेला वारवेला सर्पदष्टो न जीवति ॥ ८३ ॥
सर्पस्य तालुका मध्ये दंतो योंकुशसन्निभः ।
विमुंचति विषं घोरं तेनाख्यं कालसंज्ञकः ॥ ८४ ॥
श्रीपतिः –
यः कृत्तिकामूलमघाविशाखा सार्पांतकार्द्रासु भुजंगदष्टम् ।
स वैनतेयेन सुरक्षितोपि प्राप्नोति मृत्योः सदनं मनुष्यः ॥ ८५ ॥
चक्राकृतिश्च वा दंशः पक्वजंबूफलाकृतिः ।
सुनीलः श्वेतरक्तो वा त्रिदशोपि न जीवति ॥ ८६ ॥
वेदना दंशमूले वा नष्टदंशोथ वा भवेत् ।
तत्क्षणात्तीव्रदाहश्च सोपि कालेन भक्षितः ॥ ८७ ॥
सेचनादुदकेनाथ शीतलं न मुहुर्मुहुः ।
रोमांचो न भवेद्यस्य तं विद्यात्कालभक्षितम् ॥ ८८ ॥
स्रवेन्मूत्रपुरीषं वा हृच्छूलं छर्दिदाहकृत् ।
सानुनासिका वाक्यं संधिभेदमथापि वा ॥ ८९ ॥
ताम्राभं नेत्रयुगलमथवा कृकनीलकम् ।
वियोगो देवदष्टाख्यस्तं विद्यात्कालपार्श्वगम् ॥ ९० ॥
सोमं सूर्यं तथा दीप्तं न पश्यति च तारकान् ।
दर्पणे सलिले वाथ घृततैलेथ वा मुखम् ॥ ९१ ॥
न पश्येद्वीक्षमाणोपि कालदष्टो न संशयः ।
ज्ञात्वा कालमकालश्च पश्चाद्भेषजमाचरेत् ॥ ९२ ॥
सर्पदंशे विषं नास्ति कालदष्टो न जीवति ।
तस्य तत्रापि कर्तव्या चिकित्सा जीवनावधि ॥ ९३ ॥
रसदिव्यौषधीनां च प्रभावात्कालजिद्भवेत् ॥ ९४ ॥
अथ सर्पविषौषधिकथनम् ।
श्वेतापराजितामूलं देवदालीयमूलकम् ।
वारिणा पेषितं नस्यं कालदष्टेपि जीवति ॥ ९५ ॥
दधिमधुनवनीतं पिप्पलीशृंगबेरं मरिचमपि च कुष्ठं चाष्टमं सैन्धवं च ।
यदि दशति सरोषस्तक्षको वासुकिर्वा यमसदनगत स्यादानयेत्त्तत्क्षणेन ॥ ९६ ॥
कटुकी मूषलीमूलं पीत्वा तोयैर्विषापहः ।
वृश्चिकावीरलामूलं लेपात् सर्पविषापहम् ॥ ९७॥
सोमराजीबीजचूर्णं सकृद्गोमूत्रभावितम् ।
चराचरविषघ्नं तं मृतसंजीवनं पिबेत् ॥ ९८ ॥
गोमूत्रैर्नरमूत्रैर्वा पुराणेन घृतेन वा ।
हरिद्रापानमात्रेण विषं हंति चराचरम् ॥ ९९ ॥
दशवर्षात्परं सर्पिः पुराणमिति कथ्यते ।
यदि सर्पविषार्तानां सर्वस्थानगतं विषम् ।
गोक्षीरे रजनीक्वाथं पिबेत्सर्पविषापहम् ॥ १०० ॥
गोक्षीरे रजनी कुष्ठं क्वाथमानं विषापहम् ।
हरिद्रा कुष्ठमध्वाज्यं भुक्तं सर्वविषापहम् ॥ १ ॥
कटुकी जंबुमूलं वा तक्राम्लैर्वा पिबेज्जलैः ।
तत्क्षणाद्वमयेच्छीघ्रं विषयोगाद्विमुच्यते ॥ २ ॥
कुंकुमालक्तकं लोध्रं शिला चैवाथ रोचना ।
गुटिकालेपनाद्धंति विषं स्थावरजंगमम् ॥ ३ ॥
पिप्पलीमरिचं कुष्ठं गृहधूममनःशिलाम् ।
तालकं सर्षपाः श्वेता गवां क्षीरेण लेपयेत् ॥ ४ ॥
गुटिकांजननस्येह पानाभ्यंजनलेपनात् ।
तक्षकेणापि दष्टस्य निर्विषीकुरुते क्षणात् ॥ ५ ॥
अपराजितमूलं तु घृतेन त्वग्गतं विषम् ।
पयसा रक्तगं हंति मांसगं कुष्ठचूर्णतः ॥ ६ ॥
अस्थिगं रजनीयुक्तं मेदगं काकुलीयुतम् ।
मज्जागं पिप्पलीयुक्तांचांडाली कंदसंयुतम् ॥ ७ ॥
शुक्रगं हंति लौहित्यं तस्माद्देयापराजिता ।
अत्यंतविषरोगार्तान् जलमध्ये विनिक्षिपेत् ॥ ८ ॥
मसूरं निंबपत्राभ्यां खादेन्मेषगते रवौ ।
अब्दमेकं न भीतिः स्याद्विषार्तस्य न संशयः ॥ ९ ॥
मसूरं निंबपत्राभ्यां योत्ति मेषगते रवौ ।
अतिरोषान्वितस्तस्य तक्षकः किं करिष्यति ॥ ११० ॥
इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनकृते संग्रहे बृहद्दैवज्ञरंजने अष्टसप्ततितमं रोगप्रकरणं समाप्तम् ।