बृहद्दैवज्ञरञ्जनम्/मुहूर्तप्रकरणम्

विकिस्रोतः तः


अथ त्रिंशं मुहूर्तप्रकरणं प्रारभ्यते ।
श्रीपतिः –
रुद्राहिमित्रपितरो वसुवारिविश्वे वेधा विधिः शतमखः पुरुहूतवह्नी ।
नक्तंचरश्च वरुणार्यमयोवयश्च प्रोक्ता दिने दश च पंच तथा मुहूर्ताः ॥ १ ॥
निशामुहूर्ता गिरिशाजपादाहिर्बुध्न्यपूषाश्वियमाग्नयश्च ।
विधातृचंद्रादिति जीवविष्णुस्तिग्मद्युतिस्त्वाष्ट्रसमीरणश्च ॥ २ ॥
दिनस्य यः पंचदशो विभागो रात्रेस्तथा तद्धि मुहूर्तमानम् ।
नक्षत्रनाथप्रमिते मुहूर्ते मौहूर्तिकास्तत्समकर्म चाहुः ॥ ३ ॥
नारदः –
अह्नः पंचदशो भागस्तथा रात्रिप्रमाणतः ।
मुहूर्तमानं द्वावेव क्षणर्क्षाणि समेश्वराः ॥ ४॥
अर्यम्णोर्के तुहिनकिरणे राक्षसब्राह्मसंज्ञौ
पित्राग्नेयौ क्षितिसुतदिने चंद्रपुत्रोऽभिजिच्च ।
पितृब्राह्मौ भृगुसुतदिने राक्षसाप्यौ च जीवे
भौजंगेशौ सवितृतनये वर्जनीयौ मुहूर्तौ ॥ ५ ॥
पौराणिका रौद्रसिताख्यमैत्राः क्षणाः स्मृताश्चारमठश्चतुर्थः ।
सवृत्तिवैराजकसंज्ञकौ च गंधर्वनामाभिजिदष्टमः स्यात् ॥ ६ ॥
रोहिणाह्वयबलौ विजयोन्यौ नैर्ऋतः शतमखो वरुणश्च ।
अंतिमस्तु भगसंज्ञक उक्तो योऽष्टमः स तु भवेत्कुतुपाख्यः ॥ ७ ॥
रौद्रो गंधर्वनामा द्रविणपरिवृढश्चारणो वायुरग्नी रक्षो
रक्षाधाताथ सौम्यस्तदनु कमलजो वाक्पतिः पौष्णनामा ।
वैकुंठोऽन्यः समीरे निर्ऋतिरिति निशाचारिणोऽमी मुहूर्ताः
प्रोक्तास्त्रिःपंचसंख्या मुनिभिरिति पुराणार्थचिंताप्रवीणैः ॥ ८ ॥
तै राजनामा विजयः सिताख्यः सावित्रमैत्रावभिजिद्बलश्च ।
सर्वार्थसिद्ध्यै गदिता मुहूर्ता मौहूर्तिकैरत्र पुराणविद्भिः ॥ ९ ॥
लल्लः-
श्वेतो मैत्रो विराजश्च सावित्रश्चाभिजित्तथा ।
बलश्च विजयश्चैव मुहूर्ताः कार्यसाधकाः ॥ १० ॥
नारदः—
अष्टमो योऽभिजित्संज्ञः स एव कुतुपः स्मृतः ।
तस्मिन्काले शुभा यात्रा विना याम्यां बुधैः स्मृता ॥ ११ ॥
यात्रानृपाभिषेकावुद्वाहोऽन्यच्च मांगल्यम् ।
सर्वे शुभदं ज्ञेयं कृतं मुहूर्तेभिजित्संज्ञे॥ १२ ॥
चंडेश्वरः –
अभिजिद्योगे प्राप्ते भगवति मध्यंदिने दिनाधिपतौ ।
चक्रेण चक्रपाणिः सर्वान्दोषान्निषूदयति ॥ १३ ॥
नारदः –
विष्टिव्यतीपातकृतान् दोषानुत्पातखचरभवान् ।
मध्याह्नकृतो दिनकृत्सर्वानपनीय शुभकृत्स्यात् ॥ १४ ॥
गर्ग:-
ईषत्संध्यामतिक्रांताः किंचिदुद्भिन्नतारकाः ।
विजयो नाम योगोयं सर्वकार्यार्थसाधकः ॥ १५ ॥
नक्षत्राणामलाभे तु लग्ने कर्मणि नो विधिः ।
क्षणे प्रोक्ते विधिस्तत्र मुहूर्तो बलवान् यतः ॥ १६ ॥
श्रीपतिः –
यस्मिन् धिष्ण्ये यच्च कर्मोपदिष्टं तद्दैवत्ये तन्मुहूर्तेपि कार्यम् ।
दिक्शूलाद्यं चिंतनीयं समस्तं तद्वद्दंड: पारिघश्च क्रमेण ॥ १७ ॥
मुहूर्तसागरे –
नक्षत्रलग्नादि बलं न चेत्स्यात्तदा मुहूर्तं परिकल्पनीयम् ।
प्रत्यूषकालस्त्वभिजिन्मुहूर्तो गोधूलिकं मंगलकृत्संदैव ॥ १८ ॥
हारीतः –
सदा शुभेषु कार्येषु शुभदा मुनिभिः स्मृताः ।
उषाकालश्च मध्याह्नकालः सायंतनः स्मृतः ॥ १९ ॥
प्रभ्रष्टद्युतितारका स्फुटतटी प्राची भवेन्निर्मला
ईषद्रक्तविलोहितांतधवला देवैः सदा वंदिता ।
नो वारो न तिथिर्न चापि करणं चंद्रं च नापेक्षते
हत्वा दोषसहस्रसंकटदिनं ऊषा करोत्युन्नतिम् ॥ २० ॥
मध्यस्थं व्योमसंस्थे स्फुरदनलनिभे केशवे चार्कबिंबे
छाया साध्वीव कांता प्रचलितपुरुषे यत्र तत्पादलग्ना ।
तावत्सौरिं न विष्टिं कुजकृतमशुभं नैव ऋक्षं न योगं
सन्मानारोग्यसौख्यक्षितिधनयुवतिं तत्र गंता लभेच्च ॥ २१ ॥
यावत्कुंकुम रक्तचंदननिभो नास्तं गतो भास्करो
यावच्चोडुगणो नभस्तलगतो नो दृश्यते रश्मिभिः ।
यावद्गोखुरघातचूर्णितरजो विस्तीर्यते चांबरे
तावत्सर्वजनस्य मंगलविधौ गोधूलिकं शस्यते ॥ २२ ॥
स्मृतिसागरे –
मुहूर्तात्मा स्थिरः कालः पुराणादौ प्रकीर्तितः ।
अतो मुहूर्ते कर्तव्यं विवाहाद्यं बुधैः सदा ॥ २३ ॥
वाग्भट्टे-
मुहूर्तः सूक्ष्मकालः स्याद्गर्गाद्याः कथिताः पुरा ।
विवाहादि शुभं कार्यं कर्तव्यं शुभहेतुभिः ॥ २४ ॥
अथ भार्गवमुहूर्तोऽन्यप्रकारात् । भृगुरुवाच-
नमस्कृत्य प्रवक्ष्यामि देवदेवं जनार्दनम् ।
अहं वररुचिर्नाम तत्त्वं भार्गवभाषितम् ॥ २५ ॥
यानि वाक्यानि शुक्रेण पृच्छते वृत्रवैरिणे ।
उक्तानि तानि लिख्यंते ग्रंथादाहृत्य भार्गवात् ॥ २६ ॥
अथ महेन्द्रः सुधर्मायामेकस्मिन्दिने भार्गवमाहूय पप्रच्छ भो भार्गव !
मदीयं वनं वह्निर्दहति इति गिरं देवदूतमुखादाकर्ण्य गुरुमामंत्र्येदमवोचत् ।
भगवन् गुरो ! त्वया साधुरपि शोधितमुहूर्ते समारोपितं वनं जातवेदसा दह्यत इति । अथैवं पृष्टेन वाचस्पतिनेदमुक्तमं ।
ब्रह्मणा तव निर्मितश्चतुर्दशभुवनात्मको रचनाविशेषोप्युपायैराक्रांतस्तत्र किं चित्रमिति एतद्वचनं भार्गवो मदीयं नांगीकुरुते ।
तत्र विषये दाहक्रियायाः किं निदानं ज्ञायते ।
अथ भार्गव आह-
भगवन् शतक्रतो ! संवत्सरायनर्तुमासपक्षदिवसमुहूर्तनाडिकाभिर्जगतां कार्यारंभे शुभाशुभयोः प्रोक्तः समयः स्फुटतरं किंचित्यतो उत्तरोत्तरं बलवान् भवति । उभयात्मकं फलमपि तत्र तत्राप्युक्तं प्रतिभासते तस्माद्वननिर्माणकार्यारंभे नाडिकानां फलपरिज्ञाने संजाते दहनक्रियानिमित्तं सुलभमवबुध्यते ।
इंद्रः पुनरब्रवीत् ।
तर्हि कवे तद्ब्रूहीति पुनराह ।
वननिर्माणसमये गुरुणा दत्तं मुहूर्तमभिजिन्नाम तत्साधु तस्य दोषाः सूक्ष्मा अपि न वेद्यंते एतमेतावानेव गुरोः कालो निश्चीयते न मुहूर्तप्रधानं पृथक् । तेन नाडिकायाः कार्यारंभे नाडिकानामपेक्षा कृता सर्वेषु कार्येषु नाडिकैव बलवती । सा नाडिका तु प्रत्येकं ग्रहादिवासरवशात् नानाविधानि शुभाशुभात्मकानि फलानि स्वस्थास्वस्थामारब्धकर्मणः पृथक् पृथक् तनोति तत्र तिथ्यर्क्षमुहूर्तादि प्रधानम् । तेषां तिथ्यर्क्षादीनामानुगुण्ये वा नाडिका स्वफलमेकेन ददाति अतस्तद्वननिर्माणसमये वारोंगारकः ऋक्षं रोहिणी तस्यां चंद्रेणेक्षितं सर्वासां नाडीनां वासरवशात् फलदाता चंद्र एव तस्यावस्थास्त्रिंशत्यः प्रत्येकमवस्थायामेकैकघटिका भवंति । ताश्च ज्य़ोत्स्ना मैत्री संध्याश्चाभिधीयते तदा चंद्रमावस्था कृत्तिका नाम तस्याः फलं तु यत्कर्माख्यं तदग्निशस्त्रादिभिरुपहन्यत इति । अतो वनस्यैव तस्य वह्नेर्दाहेन भवितव्यम् तस्मात्तद्दहनमुपजातं इदमेव निदानमिति मम प्रतिभाति । इंद्रः पुनरब्रवीत् । त्वया साधूक्तमेतदेव वचनं तु मम नांगीकुरुते यस्यैतस्य परिज्ञातारो धरातले जना भविष्यंति तथा वचनं मे भवेदिति । भार्गवः पुनरिदमाह । महेंद्र धराजनानां हिताय नाडीतत्त्वं प्रवक्ष्यामि मया च गुरुणा च सह सप्तानां ग्रहाणां तत्तदभिधानानि वासराणि सप्त सन्ति तानि भान्वादीनि गणनीयानि एकैकवारे पुनरुदयमारभ्य पुनरुदयावधि षष्टिनाडिका मिताः स्युः तत्र द्वैविध्यं पूर्वा त्रिंशत्परा त्रिंशदिति । पूर्वत्रिंशतो यदुदितं तद्परस्यास्त्रिंशतो भवति । ताश्च- न्द्रमसोऽवस्थात्मिका नाड्यस्तु विशाखामारभ्य सप्तविंशतिभिर्नक्षत्राणामभिजिज्ज्यो- त्स्नामैत्रीसंध्यानामभिश्च व्यवहारणीयाः । प्रथमनाडिका विशाखा, द्वितीयनाडि- कानुराधेत्यादि । पुनरपराणां त्रिंशन्नाडिकानामेव एवंविधं त्रिंशदवस्थावस्थितश्चंद्रः प्रत्येकं वारे वारे ग्रहाणां नाड्यां नाड्यां पृथक्पृथक्फलं तद्ग्रहेभ्यः कार्याकार्यं स्वयमादाय ददाति तानि फलान्येतानि ।
अथ भानुवासरे-
विशाखायां नाड्यां विवाहादौ कृते शुभं भवति ॥ १ ॥
अनुराधायां लाभार्थमुद्योगे कृते लाभो भवति ॥२॥
ज्येष्ठायां जयार्थमुद्योगे कृते कलहोपहतं भवति ॥ ३ ॥
मूले स्वहितार्थ कर्माणि कृते धनं भवति ॥ ४ ॥
पूर्वाषाढायां वाणिज्यकर्मणि कृते धनं भवति ॥ ५॥
उत्तराषाढायां दुर्लभवस्तुप्राप्त्यर्थं कर्मणि कृते आमोदो भवति ॥ ६ ॥
श्रवणे स्त्रीकर्मणि शुभं भवति ॥ ७ ॥
धनिष्ठायां धान्यार्थं कर्मणि कृते अलाभः ॥ ८ ॥
शतभिषजि यात्रायां शुभम् ॥ ९ ॥
पूर्वाभाद्रपदायामभ्यवहारो हितम् ॥ १० ॥
उत्तराभाद्रपदायां शारीरकर्मणि कृते सुखमभिवृद्धिः ॥ ११ ॥
रेवत्यां विजयार्थं कर्मणि कृते शत्रूणां विजयो भवति ॥ १२ ॥
अश्विन्यां पश्वर्थं कर्मणि कृते तेषामभिवृद्धिः ॥१३॥
भरण्यां पट्टबंधे शुभम् ॥ १४ ॥
कृत्तिकायां प्रवेशकर्मणि कृते हानिः ॥ १५ ॥
रोहिण्यां पुरग्रामगृहादिकर्मणि कृते शुभम् ॥ १६ ॥
मृगशीर्षे यात्राया हानिः ॥ १७ ॥
आर्द्रायां राजदर्शनार्थं कर्मणि कृते तत्कार्यसिद्धिः ॥ १८ ॥
पुनर्वसौ देवतादिस्थापने शुभम् ॥ १९ ॥
पुष्ये कार्यारंभे सेनामुपयाति ॥ २० ॥
आश्लेषायां व्यवहारे कृते निर्धना गतिर्भवति ॥ २१ ॥
मघायां युद्धकर्मणि कृते परिभूतिर्भवति ॥ २२ ॥
पूर्वाफाल्गुन्यां मैत्रीकर्मकृते शुभम् ॥ २३ ॥
उत्तराफाल्गुन्यां रणकर्मणि विजयः ॥ २४ ॥
हस्तेन्योन्यसंभाषणे आमोदः ॥ २५ ॥
चित्रायां विक्रयकर्मणि कृते लाभो भवति ॥ २६ ॥
स्वात्यां संगमकर्मणि कृते संततिसंपत्ती ॥ २७ ॥
जोत्स्नायां शुभकर्मणि कार्यसिद्धिः ॥ २८ ॥
मैत्र्यां यत्किंचित्कर्मणि कृते तद्बहुविघ्नैरुपहन्यते ॥ २९ ॥
संध्यायां स्थावरोपयोगीनि कर्माणि कृतेतिसुखभाग्भवति ॥ ३० ॥
एवं रात्रावपि ज्ञेयम् ॥
अथ सोमवासरे –
विशाखायां शुभकर्म कुर्यात् ॥ १ ॥
अनुराधायां यात्रां कुर्यात् सुदूरगोपि सिद्धिमुपयाति ॥ २ ॥
ज्येष्ठायां आत्मजयार्थं कर्म कुर्यात् ॥ ३ ॥
मूले धान्यलाभार्थं कर्म कुर्यात् ॥ ४ ॥
पूर्वाषाढायां स्नानादि शारीरकर्म कुर्यात् हितं भवति ॥ ५ ॥
उत्तराषाढायां यत्किंचित्कर्मोक्तं तत्सफलं भवति ॥ ६ ॥
श्रवणे कृषिकर्म कुर्यात् सिद्ध्यति ॥ ७ ॥
धनिष्ठायां द्यूतकर्मणि कृते तत्फलति ॥ ८ ॥
शतभिषजि राज्यलाभाय कर्म कुर्यात् सिद्ध्यति ॥ ९ ॥
पूर्वाभाद्रपदायां भुक्तिं कुर्यात् ॥१०॥
उत्तराभाद्रपदायां स्त्रीसंगतिं कुर्यात् ॥ ११॥
रेवत्यां चारुकर्म कुर्यात् तत् सिद्ध्यति ॥ १२ ॥
अश्विन्यां युद्धं कुर्यात् ॥ १३ ॥
भरण्यां दुष्टकर्म कुर्यात् ॥ १४ ॥
कृत्तिकायां जयार्थं कर्मणि कृते जयो भवति ॥ १५ ॥
रोहिण्यां व्याधिचिकित्साकर्म कुर्यात् ॥ १६ ॥
मृगशीर्षे पश्वर्थं कर्म कुर्यात् ॥ १७॥
आर्द्रायां जयकर्म कुर्यात् ॥ १८ ॥
पुनर्वसौ प्रवेशकर्म कुर्वीत ॥ १९ ॥
पुष्ये भुक्तं विषमप्यमृतं भवति ॥२०॥
श्लेषायामुत्सवार्थं कर्म कुर्वीत ॥ २१॥
मघायां राज्यचिन्तां कुर्वीत ॥ २२॥
पूर्वाफाल्गुन्यां क्रीडाकर्म कुर्वीत ॥ २३ ॥
उत्तराफाल्गुन्यां विवादकर्म कुर्वीत ॥ २४ ॥
हस्ते प्रवेशकर्म कुर्वीत ॥ २५ ॥
चित्रायां सर्वकार्यारंभे सिद्धिः ॥२६॥
स्वात्यां वृक्षारोपणे कृते तन्नाशमुपयाति ॥२७॥
ज्योत्स्नायां सेवां कुर्वीत ॥ २८॥
मैत्र्यां विद्वेषोच्चाटनादि कर्म कुर्यात् ॥ २९ ॥
संध्यायां शुभकर्म कुर्यात् ॥ ३० ॥
एवं रात्रावपि ज्ञेयम् ॥
अथ भौमवासरे –
विशाखायां कर्म कृते मनोदौस्थ्यम् ॥ १॥
अनुराधायां जयार्थं कर्म कृते जयो भवति ॥२॥
ज्येष्ठायां बलसंगमे तत्फलति ॥३॥
मूले बंधनाख्यं कर्म कुर्वीत ॥४॥
पूर्वाषाढायां उष्ट्रलाभादिकर्म कुर्वीत ॥ ५ ॥
उत्तराषाढायां सत्संगत्यै कर्म कुर्यात् ॥ ६ ॥
श्रवण हयार्थं कर्म कुर्यात् ॥ ७ ॥
धनिष्ठायां गवार्थे कर्म कुर्वीत ॥ ८ ॥
शतभिषजि यात्रायां हानिः ॥९॥
पूर्वाभाद्रपदायामुद्वाहार्थं कर्म कृते कन्यालाभो भवति ॥ १० ॥
उत्तराभाद्रपदायां यत्किंचित्कर्मणि कृते शुभम् ॥ ११ ॥
रेवत्यां पण्यव्यवहारे धान्यलाभः ॥ १२ ॥
अश्विन्यां गमने कृते भीतिः स्यात् ॥ १३ ॥
भरण्यां गमने कृते व्याघ्रचौरादिभीतिः ॥ १४ ॥
कृत्तिकायां यत्किंचित्कर्मणि कृते तदग्निशस्त्रादिभिर्नाशमुपयाति ॥ १५ ॥
रोहिण्यां यत्र कुत्रचित्प्रायो दुर्भिक्षपीडा स्यात् ॥ १६ ॥
मृगशीर्षे वर्षार्थं कर्म कृते वर्षाहानिः ॥ १७ ॥
आद्रायां यात्राकर्मणि कृते संगतिनाशः ॥ १८ ॥
पुनर्वसावुपद्रवे तन्निवृत्त्यर्थं कर्म कुर्यात् शुभं भवति ॥ १९ ॥ ॥
पुष्ये यत्र कुत्रचित् स्थितौ वृत्तायां सुवार्ताश्रवणं भवति ॥ २० ॥
आश्लेषायां चिंताकर्मणि कृते चिन्तावृद्धिः स्यात् ॥ २१ ॥
मघायां युद्धकर्माणि कृते फलहानिः स्यात् ॥ २२ ॥
पूर्वाफाल्गुन्यां प्रयत्नं विना अर्थसंभवः ॥२३॥
उत्तराफाल्गुन्यां विजयार्थं कर्म कृते अरिपलायनं स्यात् ॥ २४ ॥
हस्ते यत्किंचित्कर्म कृते संगति- नाशः ॥ २५ ॥
चित्रायां सुखार्थं कर्म कृते अलेपनादेकांतो भवति ॥ २६ ॥
स्वात्यां रतिकर्मणि कृते अप्रीतिर्भवति ॥ २७॥
ज्योत्स्नायां यत्किंचित्कर्म कृते सौख्यम् ॥२८॥
मैत्र्यां शुभार्थं कर्मणि कृते मनोदौस्थ्यं न स्यात् ॥ २९ ॥
संध्यायां रतिकर्माणि कृते अप्रीतिर्भवति ॥ ३० ॥
एवं रात्रावपि ज्ञेयम् ॥
अथ बुधवासरे –
विशाखायां यत्र कुत्रचित्स्थितौ कृतायां दुर्वार्ताश्रवणं भवति ॥ १ ॥
अनुराधायां सद्व्यवहारकर्मणि कृते कार्यभ्रंशः ॥ २ ॥
ज्येष्ठायां रतिकर्मणि कृते प्रीतिनाशः ॥ ३ ॥
मूले चित्रकर्मणि कृते चातुर्यं स्यात् ॥ ४ ॥
पूर्वाषाढायामुद्योगे कृते निष्फलम् ॥ ५ ॥
उत्तराषाढायां कर्मणि कृते अयत्नाद्यंगपीडा स्यात् ॥ ६ ॥
श्रवणे कर्मणि कृते यथाकथंचित्कलहो भवति ॥ ७ ॥
धनिष्ठायां उपशांतिककर्मणि कृते तद्वादोपशमनं स्यात् ॥ ८ ॥
शतभिषजि कर्म कृते अयत्नेन मानलाभः स्यात् ॥ ९ ॥
पूर्वाभाद्रपदायां युद्धे शत्रुभंगः स्यात् ॥ १० ॥
उत्तराभाद्रपदायां धनार्थं कर्म कृते धनलाभः स्यात् ॥ ११ ॥
रेवत्यां दानकर्मणि कृते तदधिकं भवति ॥ १२ ॥
अश्विन्यां यदिष्टं करोति तत्फलति ॥ १३ ॥
भरण्यां सेनाकर्मणि कार्यसिद्धिः ॥ १४ ॥
कृत्तिकायां प्रासादकर्मणि कृते तत्सौख्यं भवति ॥ १५ ॥
रोहिण्यां परिणयने कृते कलत्रप्रीतिः स्यात् ॥ १६ ॥
मृगशीर्षे कर्म कृते अयत्नात्प्रासादलाभः ॥ १७ ॥
आर्द्रायां दुष्टनिग्रहकर्म कृते तत्सफलं भवति ॥ १८ ॥
पुनर्वसौ यत्किंचित्कर्म कृते तल्लाभो भवति ॥ १९ ॥
पुष्ये यात्राया दुर्लभवस्तुप्राप्तिर्भवति ॥ २० ॥
आश्लेषायां युद्धकर्मणि कृते . अरिविजयो भवति ॥ २१ ॥
मघायां संगमे पुत्रलाभो भवति ॥ २२ ॥
पूर्वाफाल्गुन्यां राजदर्शने अरिविजयो भवति ॥ २३ ॥
उत्तराफाल्गुन्यां केनापि संभाषणे मैत्री स्यात् ॥ २४ ॥
हस्ते व्यवहारे बलवृद्धिः ॥ २५ ॥
चित्रायां यत्किंचित्कर्म कृते सुखं भवति ॥ २६ ॥
स्वात्यां वाणिज्याल्लाभः ॥ २७ ॥
ज्योत्स्नायां सुहृदागमनादतिप्रीतिः ॥ २८ ॥
मैत्र्यां कर्मणि तत्फलति ॥ २९ ॥
संध्यायां वाहनादिकर्मणि तन्नाशमुपयाति ॥ ३० ॥
एवं रात्रावपि ज्ञेयम् ॥
अथ गुरुवासरे –
विशाखायां धनोद्देशकर्म कृते तस्य वृद्धिः ॥ १ ॥
अनुराधायां यत्ने कृते नष्टद्रव्यसिद्धिः स्यात् ॥ २ ॥
ज्येष्ठायामभ्यवहारकर्मणि कृते शरीरपीडा भवति ॥३॥
मूले कर्मणि कृते केनापि सुगंधवस्त्वानीतं भवति ॥ ४ ॥
पूर्वाषाढायां विद्याकर्म कृते वचनप्रवीणः स्यात् ॥ ५ ॥
उत्तराषाढायां कर्मणि कृते मनोदुःखं भवति ॥ ६ ॥
श्रवणे उद्योगे कृते विजयः ॥ ७ ॥
धनिष्ठायां संग्रामादि कृते अरिभंगः ॥ ८ ॥
शतभिषजि वश्यादिकर्मणि तत्प्रीतिः ॥ ९ ॥
पूर्वाभाद्रपदायां पशुलाभार्थे व्यवहारार्थे कर्म कृते तल्लाभः ॥ १० ॥
उत्तराभाद्रपदायां पण्यव्यवहारे कृते धान्यलाभः ॥११॥
रेवत्यां यात्राकर्म कृते पुनर्गते राजा भवति ॥ १२ ॥
अश्विन्यामुत्सवादि कर्म कृते संतोषः ॥ १३ ॥
भरण्यां चित्रकर्मणि कृते व्याध्युद्भवः ॥ १४ ॥
कृत्तिकायां कर्म कृते सुभगत्वम् ॥ १५ ॥
रोहिण्यां गमने कार्यनाशः ॥ १६ ॥
मृगशीर्षे युद्धे कृते यथाकथंचिच्छस्त्रहतः स्यात् ॥ १७ ॥
आर्द्रायां यत्किंचित्कर्म कृते प्रयोजनसिद्धिः ॥ १८ ॥
पुनर्वसौ युद्धे कृते बलक्षयः ॥ १९ ॥
पुष्ये यात्राकर्मणि सरथेन विनाशः ॥ २० ॥
आश्लेषायां यात्राकर्म कृते श्रियः सिद्धिः ॥ २१ ॥
मघायां शौर्यार्थं कर्म कृते बलं भवति ॥ २२ ॥
पूर्वाफाल्गुन्यां कर्मणि कृते कुत्रापि बंधुजनमृतिः ॥ २३ ॥
उत्तराफाल्गुन्यां कार्यारंभे कृते धैर्याभिधेयः ॥ २४ ॥
हस्ते स्नेहे कृते विद्वेषः ॥ २५ ॥
चित्रायां कर्मणि कृते प्रीतिर्भवति ॥ २६ ॥
स्वात्यां विवादकर्म कृते जयः ॥ २७ ॥
ज्योत्स्नायां यात्राकृते मृतिः ॥ २८ ॥
मैत्र्यां भयागमनकर्म कृते तस्य भंगो भवति ॥ २९ ॥
संध्यायां यात्रार्थं कर्म कृते तस्य सिद्धिर्भवति ॥ ३० ॥
एवं रात्रावपि ज्ञेयम् ॥
अथ मदीयवासरे –
विशाखायां कर्मणि कृते वनिताजनादतिसौख्यं भवति ॥ १ ॥
अनुराधायां द्वेषार्थं कर्म कृते सिद्धिर्भवति ॥ २ ॥
ज्येष्ठायां कर्म कृते अयत्नेनार्थप्राप्तिर्भवति ॥ ३ ॥
मूले कर्म कृते अकस्मात्सुहृदागमः ॥ ४ ॥
पूर्वाषाढायां वारुणसूक्तकर्म कृते उग्रवृष्टिर्भवति ॥ ५ ॥
उत्तराषाढायां सस्यार्थं कर्म कृते तस्य वृद्धिः ॥ ६ ॥
श्रवणे कर्म कृते जातरोगस्य मृतिः ॥ ७ ॥
धनिष्ठायां सेनार्थं कर्म कृते सेनापतिः स्यात् ॥ ८ ॥
शतभिषजि उद्योगे कृते तस्य नाशः स्यात् ॥ ९ ॥
पूर्वाभाद्रपदायां वार्तामुखेन कार्यलाभो भवति ॥ १० ॥
उत्तराभाद्रपदायां कलहे कृते तदुपशमो भवति ॥ ११ ॥
रेवत्यामरीतिकर्म कृते तत्सिद्धिः ॥ १२ ॥
अश्विन्यां विद्यारंभे तल्लाभः ॥ १३ ॥
भरण्यां चिकित्साकर्मणि तत्साफल्यम् ॥ १४ ॥
कृत्तिकायां कर्मण्यजातरोगस्य मृतिः ॥ १५ ॥
रोहिण्यां जयार्थं कर्म कृते शत्रुभ्यो रत्नानि लामः ॥ १६ ॥
मृगशीर्षे कर्म कृते फलनाशः ॥ १७ ॥
आर्द्रायां धनुर्विद्याकर्म कृते सिद्धिः ॥ १८ ॥
पुनर्वसौ भोजनादि कर्म कृते सौख्यहानिः ॥ १९ ॥
पुष्ये कर्म कृते बन्ध्वाहतिर्भवति ॥ २० ॥
आश्लेषायां वाहनार्थं कर्म कृते तस्य लाभः ॥ २१ ॥
मघायां संभाषणे प्रमोदो भवति ॥ २२ ॥
पूर्वाफाल्गुन्यां यत्किंचित्कर्म कृते उद्योगपरंपरा स्यात् ॥ २३ ॥
उत्तराफाल्गुन्यां यात्रासंगमने कृते तस्यावमोदः ॥ २४ ॥
हस्ते कर्मणि कृतेऽर्थनाशः ॥ २५ ॥
चित्रायां कर्मणि कृते दुःखं भवति ॥ २६ ॥
स्वात्यां वैषम्योपशीलता ॥ २७ ॥
ज्योत्स्नायां सुखार्थे कर्म कृते सुखं स्यात् ॥ २८ ॥
मैत्र्यां शुभार्थे कर्म कुर्यात् ॥ २९ ॥
संध्यायां कर्मणि कृते प्रारब्धहानिः ॥ ३० ॥
एवं रात्रावपि ज्ञेयम् ॥
अथ शनिवासरे –
विशाखायां कलहादि कर्म कुर्यात् ॥ १ ॥
अनुराधायां राजदर्शनार्थं कर्म कृते सौख्यप्राप्तिः ॥ २ ॥
ज्येष्ठायां कर्म कृते रिपुवृद्धिः ॥ ३ ॥
मूले मित्रसंभाषणार्थं कर्म कुयात् ॥ ४ ॥
पूर्वाषाढायां विग्रहकर्मणि विजयः स्यात् ॥ ५ ॥
उत्तराषाढायां तुरंगमादिलाभार्थं कर्म कुर्यात् ॥ ६ ॥
श्रवणे गमनकर्मणि प्रमोदनाशः ॥ ७ ॥
धनिष्ठायां प्रशंसाकर्मणि तत्सिद्धिः ॥ ८ ॥
शतभिषजि यत्किंचित् कर्म कृते अप्रियोपक्रमः ॥ ९ ॥
पूर्वाभाद्रपदायां अनर्थोपशमनं कर्म कुर्यात् ॥ १० ॥
उत्तराभाद्रपदायां स्त्रीसंभोगकर्म कुर्यात् ॥ ११ ॥
रेवत्यां यत्किंचित्कर्म कृते पुत्र- हानिः ॥ १२ ॥
अश्विन्यां बंधुविद्वेषणे तद्विफलम् ॥ १३ ॥
भरण्यां क्रियासंस्तंभनं कर्म कुर्यात् ॥ १४ ॥
कृत्तिकायां प्रवृत्तिकर्म कुर्यात् ॥ १५ ॥
रोहिण्यां धातुद्रव्यागमनार्थे कर्म कुर्यात् ॥ १६ ॥
मृगशीर्षे यात्राकर्मणि कृते शुभम् ॥ १७ ॥
आर्द्रायां संस्थितिकर्मणि हानिः ॥ १८ ॥
पुनर्वसौ कर्म कृते श्रमबाहुल्यम् ॥ १९ ॥
पुष्ये नानाविधधान्यलाभार्थं कर्म कुर्यात् ॥ २० ॥
आश्लेषायां धनवृद्धिकर्म कृते तत्सिद्धिः ॥ २१ ॥
मघायां वनितागमनार्थं कर्म कुर्यात् ॥ २२ ॥
पूर्वाफाल्गुन्यां निःस्वता ॥ २३ ॥
उत्तराफाल्गुन्यां वीरकर्मसिद्धिः ॥ २४ ॥
हस्ते वपुःसौख्यम् ॥ २५ ॥
चित्रायां कर्म कृते चिन्ताश्रयता ॥ २६ ॥
स्वात्यां रिपुसंधानसिद्धिः ॥ २७ ॥
ज्योत्स्नायां कर्म कृते मृत्युः ॥ २८ ॥
मैत्र्यां कर्म कृते क्रोधोपशमः ॥ २९ ॥
संध्यायां तडागादिकार्ये सिद्धिः ॥ ३० ॥
एवं रात्रावपि ज्ञेयम् ॥ इति भार्गवमुहूर्ताः ।
अथ बृहस्पतिमुहूर्ताः । बृहस्पतिः –
अथातः संप्रवक्ष्यामि लघुहोरा यथाविधि ।
अहोरात्रेषु नाडीषु प्रत्येके नामसंज्ञिके ॥ १ ॥
तत्र कर्मविधिः प्रोक्तस्तत्काललक्षणं यथा ।
निशि भागक्रिया संज्ञा षष्टिनाडी यथाक्रमम् ॥ २ ॥
उदयात्प्रथमा नाडी सृष्टिनाडीति संज्ञिता ।
सृष्टिकार्यं तदा कुर्यात् प्राच्यां कषणदर्शनम् ॥ ३ ॥
कलहश्चौरनाशो वा पापदृष्टिः शुभैः शुभम् ॥ ४ ॥
द्वितीया सिद्धिनाम्नी स्यात्सिद्धिकार्याणि कारयेत् ।
दक्षिणां दिशमाश्रित्य शूद्रः स्त्री पुरुषस्तथा ॥ ५ ॥
लग्नद्रेष्काणरूपो वा विग्रहो वा विनाशनः ।
कुंभद्वीपादियानो वा पापग्रहनिरीक्षणे ॥ ६ ॥
तृतीया नाम नाशाख्या नाशकार्याणि कारयेत् ।
महर्षिर्दृश्यते काशे काशकार्याणि कारयेत् ॥ ७ ॥
वल्लभैर्वा तदा पीडा चिंता तापोथ वा भवेत् ।
पापग्रहदशायुक्ते शुभदृष्टेथ शोभनम् ॥ ८ ॥
चतुर्थी मित्रनाम्नी स्यान्मित्रकार्याणि कारयेत् ।
वारुणे मृगभावश्च यानशब्दोथ वा पशोः ॥ ९ ॥
मित्रसंपच्छुभेर्दृष्टे पापदृष्टे तु तन्मृतिः ।
पंचमी जीवनाम्नी स्यात्स्थापनादीनि कारयेत् ॥ १० ॥
आग्नेय्यां दृश्यते काष्ठं विभ्रमंत्यः सकोपनाः ।
फलमूलागतिर्वापि कलहो वा सरोगिणाम् ॥ ११ ॥
व्यवहारगतो वापि लग्न द्रेष्काणदर्शनात् ।
षष्ठश्च निग्रहो नाम व्यवहारादिकर्मसु ॥ १२ ॥
वायव्यां दिशमाश्रित्य घटिकापि न दृश्यते ।
सप्तमी घटिकानाम्नी कीटा स्यात्कारयेत्कृषिम् ॥ १३ ॥
कृषिमूलादि दृश्येत कर्षकादीनि वा पुनः ।
उत्तरां दिशमाश्रित्य धान्यभुक्तिस्तु दृश्यते ॥ १४ ॥
अष्टम्यां घटिकायां च यक्षा नाम्नीति कीर्तिता ।
उच्चाटनक्रियां कुर्याच्छत्रुनाशाय भूमिपः ॥ १५ ॥
कलहो बंधुभिः सार्धं चौरवैरिजतो भयम् ।
नैर्ऋत्यां दिशमाश्रित्य दृश्यते स्त्री सपुत्रिका ॥ १६ ॥
नवमी रिक्तिका नाम्नी नव कार्याणि कारयेत् ।
घातोत्पातानि शाठ्यानि विषशस्त्रादिकानि च ॥ १७ ॥
भेदाभेदविमोहानि सिद्ध्यंत्याशुभदृष्टितः ।
दशमी व्याधिनाशा स्याच्छत्रुनाशाय कीर्तिता ॥ १८ ॥
ऐशान्यां मौलिशब्दो वा निमित्तांतरमेव च ।
एकादशी वसुनामा पश्वादिग्रहणं शुभम् ॥ १९ ॥
वायव्यां दिशमाश्रित्य भारभृद्दृश्यते नरः ।
द्वादशी विप्रनाम्नी स्याद्विद्यारंभादि कारयेत् ॥ २०॥
वारुण्यां दिशमाश्रित्य मौलिर्वा पिंगलारवः ।
त्रयोदशी शूद्रनाम्नी शूद्रकार्याणि कारयेत् ॥ २१ ॥
दक्षिणां दिशमाश्रित्य फलभृद्दृश्यते नरः ।
उपसंवेशनादीनां रागानाम्नी चतुर्दशी ॥ २२ ॥
सौम्यां च दिशमाश्रित्य हली वा दृश्यते नरः ।
पंचदश्यभिजिन्नाम्नी सर्वाण्यस्यां तु कारयेत् ॥ २३ ॥
आग्नेय्यां दिशमाश्रित्य दृश्यते पुरुषारवः ।
षोडशी घटिकानाम्नी क्रीडाकार्याणि कारयेत् ॥ २४ ॥
सौम्यां दिशं समाश्रित्य भेरीशब्दः प्रदृश्यते ।
सप्तदश्यंगनानाम्नी कारयेदंगनाकृतम् ॥ २५ ॥
वारुणीं दिशमाश्रित्य मैथुनं तत्र दृश्यते ।
अष्टादशी तु हीना स्यात् हीनकार्याणि कारयेत् ॥ २६ ॥
वायव्यां दिशमाश्रित्य तांबूली दृश्यते नरः ।
एकोनविंशा दर्शा स्याद्वाहनादीनि कारयेत् ॥ २७ ॥
क्षिप्रकार्याणि कुर्वीत सौम्यायां भारधृक्पुमान् ।
विंशतिर्धान्यनाम्नी स्याद्धान्यसंग्रहमाचरेत् ॥ २८ ॥
पूर्वां दिशं समाश्रित्य कुक्कुटश्चाथ शब्दयेत् ।
जीवनी चैकविंशा स्पात्तत्क्षेत्रं साधयेन्नरः ॥ २९ ॥
तत्र भूमिप्रतिष्ठा स्यात्तद्रक्षा पूर्णगोचरे ।
ऐशान्यां दिशमाश्रित्य काकः स्यात्स्वरदस्तथा ॥ ३० ॥
द्वाविंशद्रौद्रनाम्नी स्याद्विशेषोच्चाटनक्रिया ।
आग्नेय्यां दिशमाश्रित्य अन्नधृक् दृश्यते नरः ॥ ३१ ॥
योगानाम्नी त्रयोविंशद्योगकार्याणि कारयेत् ।
नैर्ऋत्यां दिशमाश्रित्य पितृकार्यं तु कारयेत् ॥ ३२ ॥
चतुर्विंशतिनाडयां तु गजाश्वादिप्रकर्मणि ।
आरोहणानि कुर्वीत वायव्यां गमनं शुभम् ॥ ३३ ॥
पंचविंशदुषानाम्नी प्रातर्यानाशुभं भवेत् ।
नैर्ऋत्यां दिशमाश्रित्य चक्रधारणको नरः ॥ ३४ ॥
षड्विंशत्पुष्पनाम्नी स्यात्पुष्पगंधानुसेवनम् ।
सौम्यां दिशं समाश्रित्य गंधार्थं श्रूयते भृशम् ॥ ३४ ॥
सप्तविंशत्क्षपानाम्नी ऐशान्यां भाण्डधारणम् ।
तत्काले नाशकार्याणि कारयेत्तद्विचक्षणः ॥ ३५ ॥
अष्टाविंशन्मंत्रनाम्नी मंत्रादेः साधनक्रियाम् ।
नैर्ऋतिं दिशमाश्रित्य श्रूयते वृषभस्वरः ॥ ३६ ॥
एकोनत्रिंशद्या नाडी सा स्याद्देवर्षिणी भिधा ।
देवकार्याणि सिद्ध्यंति ऐशान्यां गमने शुभाः ॥ ३७ ॥
त्रिंशद्या चारुनाम्नी स्याच्चा- रुकर्मणि साधनम् ।
वारुणीं दिशमाश्रित्य जलकर्म प्रसिद्ध्यति ॥ ३८ ॥
एकत्रिंशद्भगानाम्नी तोयकार्याणि कारयेत् ।
ऐंद्रे तु पक्षिशब्दस्तु दृश्यते श्रूयतेपि वा ॥ ३९ ॥
द्वात्रिंशद्भ्रातृकानाम्नी पुण्यग्रहणकर्मकृत् ।
सौम्यास्यां विद्यते वार्ता निग्रहो मरणस्य वा ॥ ४० ॥
त्रयस्त्रिंशच्चरमा स्यात्क्रयविक्रयकारणम् ।
नैर्ऋतिं दिशमाश्रित्य चाक्रोशं श्रूयते भृशम् ॥ ४१ ॥
चतुस्त्रिंशत्पूर्णनाम्नी सर्वकार्यं तु कारयेत् ।
याम्यां तु दिशमाश्रित्य पक्षिक्रोशं च श्रूयते ॥ ४२ ॥
पंचत्रिंशज्जितानाम्नी विद्याकर्म च कारयेत् ।
ऐंद्र्यां तु विद्यते वार्ता गौर्ज्याक्रोशस्य धारणम् ॥ ४३ ॥
षट्त्रिंशत् केतुनामाख्या मंगलानि च कारयेत् ।
नैर्ऋत्यां दिशमाश्रित्य दारुधारः प्रदृश्यते ॥ ४४ ॥
सप्तत्रिंशद्विधानाम्नी विभागास्तत्र कारयेत् ।
दिश्यैशान्यां तथाक्रोशं तत्कालं भेदकारणम् ॥ ४५ ॥
अष्टत्रिंशत्परानाम्नी मैथुनानि च कारयेत् ।
प्रतीच्यां दिशमाश्रित्य पुरुषो गर्जितः स्वयम् ॥ ४६ ॥
ऊनचत्वारिंशाब्जनाम्नी पूजनानि च कारयेत् ।
याम्यां दिशं समाश्रित्य वश्यवार्ता निदृश्यते ॥ ४७ ॥
चत्वारिंशद्वयोनाम्नी भरणानि च कारयेत् ।
वारुण्यां विद्यते वार्ता कंठशब्दस्य धारणम् ।
एकचत्वारिंशच्छब्दनाम्नी पूजनानि च कारयेत् ॥ ४८ ॥
पूर्वां दिशं समाश्रित्य चाक्रोशं विद्यते भृशम् ।
द्विचत्वारिंशज्जयानाम्नी कर्षकाणां हिता तु सा ॥ ४९ ॥
सौम्यां दिशं समाश्रित्य पुरुषो प्रज्ञधारणम् ।
त्रिचत्वारिंशाद्भुतानाम्नी पुत्रोत्पादं तु कारयेत् ॥ ५० ॥
ऐशान्यां दिशमाश्रित्य कांतशब्दस्य कारणम् ।
चत्वारिंशच्छक्रनाम्नी ज्ञानकार्यं तु कारयेत् ॥ ५१ ॥
ऐशान्यां जम्बुकारावं श्वानं वा गर्जितं नरम् |
पंचचत्वारिंशतिर्या शिवाख्या शिवकर्मणि ॥ ५२ ॥
प्रकुर्वंति प्रसिद्ध्यंति न सिद्ध्यंति कृषिक्रियाः ।
दारुनाम्नी षट्चत्वारिंशतिः काष्ठकार्यकराणि च ॥ ५३ ॥
गृहारंभादिकं कार्यं संधिकर्म च कारयेत् ।
सप्तचत्वारिंशत्स्त्रियोनाम्नी ध्यानादि कारयेन्नरः ॥ ५४ ॥
ऐशान्यां दिशमाश्रित्य सद्भावाक्रोशधारणम् ।
अष्टचत्वारिंशच्चक्राख्या निद्रापातानि कारयेत् ॥ ५५ ॥
वारुण्यां दिशमाश्रित्य वायुशब्दस्य विद्यते ।
एकोनपंचाशच्छक्राख्या छत्रकर्माणि कारयेत् ॥ ५६ ॥
पूर्वां दिशं समाश्रित्य गोशब्दं विद्यते यदा ।
पंचाशत्पत्रनामाख्या संग्रहाणि च कारयेत् ॥ ५७ ॥
प्राचीं तु दिशमाश्रित्य सूरकध्वनिरेव च ।
एकपंचाशत्क्रतुर्नाम्नी कन्यावस्त्रादि कारयेत् ॥ ५८ ॥
पूर्वां दिशं तथाक्रोशं पुरुषस्य प्रदृश्यते ।
द्विपंचाशद् घटीज्ञाना अक्षराणि च कारयेत् ॥ ५९ ॥
वारुण्यां दिशमाश्रित्य वह्निशब्दस्य धारणम् ।
त्रिपंचाशत्कृषीनाम्नी हलादिग्रहणं शुभम् ॥ ६० ॥
दक्षिणां दिशमाश्रित्य गंधर्वः श्रूयते भृशम् ।
चतुःपंचाशद्धननामाख्या अर्थसंग्रहणे हिता ॥ ६१ ॥
पूर्वां दिशं समाश्रित्य श्वाघोषं कारयेत्ततः ।
पंचपंचाशद्भुताख्या प्रयत्नादीनि कारयेत् ॥ ६२ ॥
आमिषं दृश्यते याम्यमश्वशब्दस्य धारणम् ।
षट्पंचाशद्द्विजानाम्नी शांतिकर्माणि कारयेत् ॥ ६३ ॥
विवाहस्येश्वरं विंद्यान्नैर्ऋत्यां ब्राह्मणस्य च ।
सप्तपंचाशत्सावित्री स्नानकार्यं तु कारयेत् ॥ ६४ ॥
वारुण्यां दृश्यते विद्वान् ब्राह्मणं शिवसंयुतः ।
अष्टपंचाशत्स्थिराख्या च सर्वाचारक्रिया भवेत् ॥ ६५ ॥
सौम्यां च दिशमाश्रित्य जनशब्दं च श्रूयते ।
एकोनषष्टिः सर्वनामानैककर्माणि कारयेत् ॥ ६६ ॥
याम्यायां विद्यते वार्ता गजानां भूषणस्य च ।
षष्टिर्विष्णोश्च नामाख्या वृष्ट्यादि सहसंयुता ॥ ६७ ॥
पूर्वां तु दिशमाश्रित्य अरिशब्दस्य धारणम् ।
एवं संज्ञानि कर्माणि तत्कर्माण्याचरेद्बुधः ॥ ६८ ॥
अष्टावाशादिना भेदै राशिभागकलादयः ।
सर्वेष्वत्र मुहूर्तेषु लक्षणान्यत्र मे शृणु ॥ ६९ ॥
मुहूर्तो नित्ययोगस्य संख्यां कृत्वा यथाविधाम् ।
संयोज्याधोर्ध्वतः स्थानचतुष्केषु क्रमादिमान् ॥ ७० ॥
अर्कादिशाक्वलीपंक्तिनवकश्च पृथक् पृथक् ।
सप्तभक्ते क्रमात्सर्वा अधोर्ध्वं नावशिष्यते ।
मुष्टियुद्धं कुजश्चैव दशनोभिर्नृपाद्भयम् ॥ ७१ ॥
स वासिष्ठेन चैते स्युः यत्रैवं तत्रजं भवेत् ।
मुहूर्तफलमेते स्युर्वृत्रहन्सर्वशोभनम् ॥ ७२ ॥
इति बृहस्पतिमुहूर्ताः ।
अथ शिवामुहूर्ताः ।
त्रिपुरहरमुहूर्तं केन दृष्टं श्रुतं वा सकलमपिह दृष्टं शंभुना भूतहेतोः ।
यदि शुभमशुभं वा यादृशं तादृशं वा तदिह अपि नरेंद्रैः सर्वदा चिंतनीयम् ॥ १ ॥
शिवालिखितमित्येतत्सर्वं ज्ञात्वा शुभाशुभम् ।
तस्य संदर्शनादेव ज्ञायते च शुभाशुभम् ॥ २ ॥
न तिथिर्न च नक्षत्रं न योगः करणं तथा ।
न शूलं योगिनी राशिर्न च होरा तमोगुणाः ॥ ३ ॥
व्यतीपाते च संक्रान्तौ भद्रायामशुभे दिने ।
शिवालिखितमालोक्य सर्वविघ्नोपशांतये ॥ ४ ॥
तत्रादौ कथयिष्यामि मुहूर्तानि च षोडश ।
गुणत्रयप्रयोगेन चालनीयान्यहर्निशम् ॥ ५ ॥
रौद्रं श्वेतं तथा मैत्र्यं चार्वटं च चतुर्थकम् ।
पंचमं जयदेवं च षष्ठं वैरोचनं तथा ॥ ६ ॥
तुर्यादिकं सप्तमं च तथाष्टमभिजित् स्मृतम् ।
रावणं नवमं प्रोक्तं दशमं बालवं तथा ॥ ७ ॥
विभीषणं रुद्रसंज्ञं द्वादशं वसुनंदनम् ।
याम्यं त्रयोदशं ज्ञेयं सौम्यं ज्ञेयं चतुर्दशम् ॥ ८॥
तिथिसंमितकं ज्ञेयं भार्गवं सविता तथा ।
रौद्रे रौद्रकरं कार्यं श्वेते कुंजरबंधनम् ॥ ९ ॥
स्नानदानादिकं मैत्रे चार्वटे स्तंभनं भवेत् ।
जयदेवाख्ये मुहूर्तेषु सर्वार्थं कारयेद्बुधः ॥ १० ॥
अभिजिद्वै मुहूर्तेषु शस्त्राद्यं साधयेद्बुधः ।
अभिजिद्वै मुहूर्तेषु ग्रामवेशोपि कारयेत् ॥ ११ ॥
वैरोचने सदा राज्याभिषेको शुभदः स्मृतः ।
रावणं साधयेद्वैरं युद्धकार्यं च बालवे ॥ १२ ॥
विभीषणे शुभं कार्यं नंदने यंत्रचालनम् ।
याम्योद्भवे मानसकर्म यच्च सौम्ये सभायामुपवेशनं च ।
स्त्रीसंगमं भार्गवके मुहूर्ते सावित्रिनाम्नीं प्रपठेत् सुविद्याम् ॥ १३ ॥
उदयो रौद्रमादित्ये मैत्रं सोमे मुहूर्तकम् ।
जयदेवं भौमवारेण तुरंदेवं बुधे तथा ॥ १४ ॥
रावणं गुरुवारेण विभीषणं चैव भार्गवे ।
शनौ याम्यां मुहूर्तं च घटिकाद्वयसंमितम् ॥ १५ ॥
गुरुसोमदिने सत्वं रजश्चांगारके भृगौ ।
रवौ मंदे बुधे चैव तमोनाडीचतुष्टयम् ॥ १६ ॥
शून्यं नभः खादिभिरेव वर्णो निघ्ना धनुर्युग्मगणाधिपाद्यैः ।
श्रीविघ्ननामामृतसत्वसिद्धिर्मृत्युं तथा पादयमादिवर्णैः ॥ १७ ॥
अमृता ऊर्ध्वरेखैका कालरेखात्रयं भवेत् ।
विघ्नमावर्तकस्तत्र शून्यं चैव यथाक्रमम् ॥ १८ ॥
शून्ये नैव भवेत्कार्यं विघ्नमावर्तके भवेत् ।
कालवेला ध्रुवं मृत्युः सर्वसिद्धिस्तथामृते ॥ १९ ॥
धनुःकर्कटमीनानां घातः सत्वो विनिर्दिशेत् ।
तुलालिवृषमेषाणां घातो रजसि निश्चितम् ॥ २० ॥
कन्यामिथुनसिंहानां कुंभस्य मकरस्य च ।
घातं तामसवेलास्तु विपरीतं शुभावहम् ॥ २१ ॥
गौरे तु म्रियते सत्वं शामवर्णे रजः स्मृतम् ।
तामसं कृष्णवर्णस्य इति ज्ञेयं सदा बुधैः ॥ २२ ॥
तिथिप्रहरसंयुक्तं तारकावारमिश्रितम् ।
वह्निभिश्च हरेद्भागं शेषं सत्वं रजस्तमः ॥ २३ ॥
माघफाल्गुनचैत्रेषु वैशाखे श्रावणे तथा ।
नभस्ये मासि वाराणां मुहूर्तान्युच्यते मया ॥ २४ ॥

रविदिवा ।
रवौ नभः केशवविघ्नराजो गोविंदनामा नभ आखुगामी ।

रविदिवा ।
रौद्र श्वेत मैत्र चार्वट जयदेव वैरोचन तुरदेव अभिजित् रावण बालव विभीषण सुनन्दन याम्य सौम्य भार्गव सावित्र

शून्य अमृत अमृत अमृत विघ्न विघ्न विघ्न विघ्न अमृत अमृत अमृत शून्य विघ्न विघ्न विघ्न विघ्न


रविरात्रौ ।
रात्रौनृसिंहोयुगलंनभौतौलक्ष्मीशलंबोदररामसंज्ञाः

स्वे मै चा ज वै तु | अ | रा | वा वि | नं | या | साभा | सा | री र र त त स स र र त त स स र र त त 88866 ० 06636 6 | 6 | 6} 817
 

चंद्रदिवा ।
सोमेहरिर्विघ्नपतिः सुरेशः शून्यं च गौरीसुतविष्णुसंज्ञौ ।।

चंद्ररात्रौ ।
पदं निशायां खख विष्णुशून्यं युग्मं च नारायणविघ्ननाथौ ।

भौमदिवा ।
भौमे यमो मारमणोथ युग्मं हरिश्चैव गजाननश्च ।

भौमरात्रौ ।
[१]नक्तं च युग्मं द्विपदो मुकुंदो पादत्रयं श्रीपति चित्तसिद्धिः ।


मै | चा | ज | वे तु | अ | रा | वा | वि नं या सौ | म | सा| रौ

बुधदिवा |
[२]बुधे धनुः कृष्णयमौ च शौरिः सिद्धि र्धनुसौरि यमौ च भूपा ।

बुधरात्रौ ।
[३]रात्रौ सुवर्णंध्वज एव युग्मं नभोथ दामोदरकुंजराख्यौ ।

गुरुदिवा ।
गुरौगोपिनाथस्तथा विघ्ननाथो नभः केशवः कुंजराख्यस्तथैव ।

गुरुरात्रौ ।
[४]निशायां पदं नंदनः सूर्यसूनुर्नभो माधवः स्वायमेकेहारश्च १ ।

भृगुदिवा ।
[५]शुक्रे कृष्णस्वाय्यमः खमुरारिः गौरीपुत्रः श्रीपतिशुभ्यमर्कः ।

भृगुरात्रौ ।
[६]नक्तं कालांकं महास्वं च युग्मं पादद्वंद्वः वामनः खं च पादौ ।

शनिदिवा ।
[७]शनौ पदं श्रीखनभोनभः खं नारायणं नो हरिखंहरिस्वः ।

शनिरात्रौ ।
[८]रात्रौ च शून्यं यममाधवं च ख विघ्नराजो हरिस्वं हरिस्वः ।

आश्विने कार्तिके मासे मार्गे पौषे यथाक्रमम् ।
सूर्याद्याश्चैव वारेषु मुहूर्तान्युच्यते बुधैः ॥ १ ॥

रविदिवा ।
सूर्यो नृसिंहा द्विपदं च चापोहरिर्नभः खंपदमुच्यते हि १ ।

रविरात्रौ ।
पदं निशायां युगखं मुरारिर्विनायको विष्णुनभश्च विष्णुः ।

चंद्र दिवा ।
सोमेह्निचापंखनभोमुकुंदोनभश्चयुग्मंहरिखंहरिस्वः ।

चंद्ररात्रौ ।
पदं निशायां युगखं मुरारिर्विनायको विष्णुनभश्च विष्णुः ।

भौमदिवा ।
भौमे महेभास्य नभोथ विष्णुः नभोनभो गोपतिस्वंगणेशः ।

भौमरात्रौ ।
नक्तं नरेंद्रस्य स्वमुच्यतं च युग्मं च शून्यं नृहरिः स्वयोगः ।

बुधदिवा ।
बुधे धनुः श्रीपतिपादयुग्मं नारायणस्यां गणनाथसिद्धिः ।

बुधरात्रौ ।
रात्रौ द्युकालौ हरिशून्य कालौ गोविंदगौरीसुतशून्यसिद्धिः ।

गुरुदिवा ।
गुरौ हरिः शून्ययुग्मं सुरेशः श्री विघ्नराजो गणनाथपाश्रीः ।

गुरुरात्रौ ।
निश्यह्निदैत्याश्विचकार्मुकं च पादौ पुराणां खयुगे पुनः श्रीः ।

भृगुदिवा ।
शुक्रोमृतं चापमरिंदमश्च लंबोदरः केशवशून्यपादः ।

भृगुरात्रौ ।
नक्तं युगं श्रीपति खं च युग्मं नृसिंहयुग्मं गगनं च युग्मम् ।

शनिदिवा ।
शनौ पदं श्रीननभो न कृष्णः स्वंश्रीपदं विष्णुनभोहरिर्यतः ।

शनिरात्रौ ।
रात्रौ पदं खं पदनंदसूनुः गजाननो गोपतिशून्यपादौ ।

ज्येष्ठाषाढमलमासस्य मुहूर्ताश्चैव लिख्यंते ।

रविदिवा ।
[९]अर्के शून्ये न कृष्णो युगपदहरिर्विष्णु चापं च शून्यं ।

रविरात्रौ ।
[१०]रात्रौ लक्ष्मीशयुग्मं युगल हरिषुयुग्मं कृष्णे च शून्यं ।

चंद्रदिवा ।
[११]सोमे च पाद्वंद्वयान्नो नृहरिखयुगलंपोतवासश्च शून्ये ।

चंद्ररात्रौ ।
[१२]चापद्वंद्वं निशायामजपदखमजश्चापपद्माशपादम् ।

भौमदिवा ।
[१३]भौमे शून्येन कृष्णो युगगणहरिस्त्रीणि चापानि सिद्धिः ।

भौमरात्रौ ।
[१४]नक्तं शून्यं च युग्मं युगल युगपदंश्रीख चापं च चक्री ।

बुधदिवा ।
[१५]सौम्ये श्रीविघ्ननाथोथ हरिगणपतिर्ब्रह्मनामश्च पादौ ।

बुधरात्रौ ।
[१६]रात्रौनखो मुकुंदो नहिस मुरारिपुःखंधमौ शून्य विष्णुः ।

गुरुदिवा ।
[१७]जीवो विष्णुश्च चापो गगनमजिनखाथोह्निपादौ नृसिंहः ।

गुरुरात्रौ ।
[१८]रात्रौनोखं मुकुंदो नहिसररिपुखंघमौ शून्य विष्णुः ।

भृगुदिवा ।
[१९]शुक्रेयुग्मं मुरारिर्गगणयुग्मजोविघ्नराजोथ गोपः ।

भृगुरात्रौ ।
[२०]रात्रौयुग्मं गोपतियुगगणाश्रीपतिःखंपदश्रीः ।

शनिदिवा ।
[२१]मंदे श्रीयुग्मसिद्धिः खहरिखसैरिखसिद्धिखंवः ।

शनिरात्रौ ।
[२२]नक्तश्रीखयुग्माद्धद्धिखयुगलहरीव्योम गोविंदशून्यम् ।

अथ जनुषि मुहूर्तफलम् ।
रौद्रे भवेत्क्रूरतरस्वभावः श्वेते तु गांभीर्ययुतो धनाढ्यः ।
मैत्राह्वये सर्वजनानुमित्रं चार्वाटके स्याच्छलछिद्रवृत्तिः ॥ १ ॥
कार्यक्षयः स्याज्जयदेवसंज्ञे वैरोचने भूतपतिः प्रभुर्वा ।
सुपंडितस्तुर्यमुहूर्त जाताः स्वगेहसौख्यं लभतेभिजिज्जः ॥ २ ॥
हन्यात्कुलं रावणजातजन्मा स्याद्बालवेनेककालप्रियश्च ।
बिभीषणो भक्तिधनान्वितः स्यात्स्यान्नंदनोत्थो बहुनंदनो ना ॥ ३ ॥
जातिच्युतः स्यादथवाघकर्ता यमेथ सौम्ये धनधान्यवान् स्यात् ।
परांगनासेवनकृद्भगे स्यात्सा- वित्रिनाम्नीं प्रपठेत् सुविद्याम् ॥ ४ ॥
यः सत्वजन्मा सतु धर्मकर्मा स्याद्राजसो लौकिकरीतिधर्मः ।
लोभादिना प्रोज्झितधर्मकर्मा स्यात्तामसोथ क्रमतो मुहूर्तः ॥ ५ ॥
दिवारात्रावष्टमांशोवेला ।

दिवारात्रावष्टमांशोवेला ।
सू दिन सू रात्रि चं दि. चं रा. मं दि. मं रा. बु दि. बु रा. बृ दि. बृ रा. शु. दि. शु. रा. श. दि. श. रा.
उद्वेग चर अमृत काल रोग उद्वेग लाभ अमृत शुभ राग चर लाभ काल शुभ
चर लाभ काल शुभ उद्वेग चर अमृत काल रोग उद्वेग लाभ अमृत शुभ रोग
लाभ अमृत शुभ रोग चर लाभ काल शुभ उद्वेग चर अमृत काल रोग उद्वेग
अमृत काल रोग उद्वेग लाभ अमृत शुभ रोग चर लाभ काल शुभ उद्वेग चर
उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्
उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्
उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्
उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्

चर
उद्वेग
लाभ
चर शुभ उद्देग
अमृत शुभ अमृत काल रेग
सू दि. सु रा. चं दि. |चं रा. | मंदि. | मं रा. बु बुरा. बृदि. बृ रा. रद्वेग चार अमृत काल रोग उद्वेग लोभं अमृत शुभ ग लाभ काल शुभ चर लाभ काल शुभ उद्वेग चर अमृत काल रोग उद्देग लाभ अमृत शुभ लाभ अमृत शुभ रोग लाभ काल शुभ उद्वेग चर अमृत काल रोग अमृत काल रोग रोग चर लाभ काल शुभ उद्वेग
दि.) शु रा. श दि. श रा.
चर
रोग
उद्वेग
चर
उद्वेग
शुभ रोग चर
चर
रोग उद्वेग
लाम अमृत शुभ रोग चर लाभ अमृत काल रोग काल शुभ उद्वेग चर अमृत काल लाभ काल शुभ
उद्वेग लाभ अमृत
उद्वेग
चर
लाभ काल शुभ उद्वेग लाभ अमृत शुभ रोग च लाभ अमृत काल | रोग उद्वेग | लाभ | अमृत शुभ | रोग | चर

इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनकृते संग्रहे बृहद्देवज्ञरंजने मुहूर्तकथनं नाम त्रिंशत्तमं प्रकरणं समाप्तम् ॥ ३० ॥



  1. नक्तं च युग्मं द्विपदो मुकुंदो पादत्रयं श्रीपतिः खन्नभः श्रीः - पा.भे.
  2. बुधे धनुः कृष्णयमौ च शौरिः सिद्धिर्धनुशौरियमौ च सिद्धिः
  3. रात्रौ सुपर्णध्वज एव युग्मं नभोथ दामोदरकुंजराख्यौ ।
  4. निशायां पदं नंदनजः सूर्यसूनुर्नभो माधवश्चापमेकं हरिश्च १ ।
  5. शुक्रे कृष्णः स्याद्यमः खम्मुरारिर्गौपुत्रः श्रीपतिःशून्यमेकम्।
  6. नक्तंकालः कंसहा खञ्च च युग्मं पादद्वंद्वः वामनः खं च पादौ ।
  7. शनौ पदं श्रीखनभोनभः खं नारायणं खं हरि खं हरिश्च ।
  8. रात्रौ च शून्यं यम युग्म माधवो ख विघ्नराजो नृहरिश्च पादौ ।
  9. अर्के शून्ये च कृष्णो युगपदखंं हरिर्विष्णुचापं च शून्यं ।
  10. रात्रौ लक्ष्मीशयुग्मं युगलहरियुगं युग्मकृष्णंं च शून्यं ।
  11. सोमे चापद्वयं नो नृहरिखयुगलं पीतवासाश्च शून्यम् ।
  12. चापं द्वंद्वं निशायामजपदखमजं चापपद्मेशपादम् ।
  13. भौमे शून्ये च कृष्णो युगगणहरिस्त्रीणि चापानि सिद्धिः ।
  14. नक्तं युग्मं द्वि शून्यं युग युगपदं श्रीखचापं च चक्री ।
  15. सौम्ये श्रीविघ्ननाथोथ हरिगणपतिर्पद्मनाभश्च पादः ।
  16. दोषायां सिद्धि युग्मं हरिखगजमुखाः कृष्ण शून्ये च कृष्णः।
  17. जीवे विष्णुश्च चापो गगनमजितखञ्चाङ्घ्रिपादौ नृसिंहः ।
  18. रात्रौ नोखं मुकुंदो गगनययुगगजो विष्णुचापाङ्घ्रियुग्मम् ।
  19. शुक्रे युग्मं मुमुरारिर्गगनयुगगजो रामचापोथ पादौ ।
  20. तद् रात्रौ युग्मगोपीपतियुगगगनं श्रीपतिः खं पदे श्रीः ।
  21. मंदे श्रीयुग्मसिद्धिः खहरिहरि नभःसौरि खंसिद्धि खं वा ।
  22. नक्तं श्रीयुग्मसिद्धिः खखयुगलहरिर्व्योम गोविंद शून्यम् ।